द्यविद्यवी = स्त्री दिवसे निरु०।

द्यावाक्षमा = स्त्री द्वि० ब०। द्यौश्च क्षमा च दिवो द्यावादेशः। स्वर्गपृथिव्योः हेमच०। एवं द्यावापृथिवीद्यावाभूमि शब्दावपि तत्रार्थे द्वि० व० “द्यावापृथिवीयम्” शत० ब्रा० ११। ५२ द्यावापृथिव्योरिदम् वैश्वदेवं तत्सम्बन्धि इत्यर्थः। “द्यावापृथिवी इह ज्यैष्ठे” शत० १३। ५। १। ११ “आर्षत्वात् एकवचनान्तता। “द्यावाभूमी जनयन् देव एक आस्ते विश्वस्य कर्त्ता भुवनस्य गोप्ता” अनुमानचिन्तामणिधृतश्रुतिः।

द्यु = अभिसर्पणे अदा० पर० सक० अनिट्। द्यौति अद्यौषीत्। दुद्याव। “गुहाया निरगात् बाली सिंहो मृगमिव द्युवन्” भट्टिः।

द्यु = न० दिव–उन् किच्च बा० वलोपश्च। १ दिने २ गगने ३ स्वर्गे च विश्वः ४ अग्नौ पु० मेदि०।

द्युक्ष = त्रि० दिवि द्युनि क्षयति क्षि–निवासे ड। १ स्वर्गलोकवासिनि त्रिका० “द्युक्षो राजा गिरामक्षितोतिः” ऋ० ६। २४। १ “द्युक्षो द्युलोक निवासी” भा० २ दीप्तियुक्ते च “द्युक्षमर्यमणं भगम्” ऋ० १। १३६। ६ “द्युक्षं दीप्तिमन्तम्” भा०।

द्युग = पुंस्त्री० द्युनि दिवि वा आकाशे गच्छति गम–ड। १ पक्षिणि राजनि०। स्त्रियां जातित्वात् ङीष्। २ आकाशगामिमात्रे त्रि० स्त्रियां टाप्।

द्युगण = पु० द्यूनां दिवां वा दिनानां गणः। ग्रहाणां मध्यगतिसाधनाङ्गे दिनवृन्दे अहर्गणशब्दे ५७७ पृ० तदानयनादि दृश्यम्। “रविदिनान्तगताधिकमासकैः कृतदिनैः सहितो द्युगणो विधोः” सि० शि०।

द्युगत् = न० द्यु + गम–क्विप्। शीघ्ने निरु० “अतस्त्वा गीर्भिर्द्युगदिन्द्र!” ऋ० ८। ८६। ४

द्युचर = त्रि० दिवि द्युनि वा आकाशे चरति चर–ढ। १ ग्रहे २ पक्षिणि च “द्यौश्चचाल तदा राजन्! द्युचराश्च सहस्रशः” हरिवं० १३२ अ०।

द्युज्या = स्त्री ६ त०। द्युवृत्तस्याहोपात्रवृत्तस्य द्रलरूपायां ज्यायाम्। “क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्वा तत्रोत्क्रमज्यया। हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्” सू० सि० “स्पष्टक्रान्तेः क्रमोत्क्रमज्ये द्वे अपि प्रसाध्य तत्र तन्मध्ये क्रान्त्युत्क्रमज्यया त्रिज्या हीना, दिनव्या- सदलमहोरात्रवृत्तस्य व्यासार्द्धं द्युज्येद्येत्यर्थः” रङ्ग०। “क्रान्तिज्या भुजः त्रिज्या कर्णस्तद्वर्गान्तरपदमहोरात्र वृत्तस्यार्द्धं सैव द्युज्या” सि० शि० व्याख्यायां प्रमिता०।

द्युत = दीप्तौ भ्वा० अक० आत्म० सेट्। द्योतते ॡदित्त्वात् अङि प० अद्युतत् अद्योतिष्ट। दिद्युते। द्योतनः “अद्युतच्चन्दमाभृशम्” भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्ते द्योतने। “व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी” माघः। “विदुद्युते बाडवजातवेदमाम्” माघः २ शोभायाञ्च “पद्मैरनन्वीतबधूमुखद्युतः” माघः णिचि द्योतयति प्रकाशने व्यञ्जनावृत्त्या बोधने च द्योत्यार्थः व्यङ्ग्यर्थे

द्युत = पु० द्युत–क्विप्। १ किरणे हेमच०। २ द्योतमाने त्रि० “स हि द्युता विद्युता वेति साम” ऋ० १०। ९९। २। “द्युता द्योतमानेन” भा०।

द्युत = त्रि० द्युत–क। द्योतमाने सैवचरति क्विप् द्युतति अद्युतीत्। “द्युतद्यामानं वृहतीमृतेन” ऋ० ५। ८०। १

द्युतान = त्रि० द्युत–शानच् वेदे गणव्यव्ययात् शपोलुक्। द्योतनशीले “द्युतानस्त्वा मारुतो मिनोतु” यजु० ५। २७ “द्युतानः दीप्यमानः” वेददी०।

द्युति = स्त्री द्युत–इन्। १ दीप्तौ २ शोभायाम् “सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिः” रघुः। “रूपयौवनलालित्य भोगाद्यैरङ्गभूषणम्। शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायिता द्युतिः। कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते” सा० द० तत्सामान्यावान्तरभेदकथनेन स्त्रीणां सात्विकालङ्कारतया उक्ते ३ अर्थे। “देहजा कान्तिर्द्युतिरित्याचार्य्या मन्यन्ते।

द्युतित = न० द्युत–भावे क्त वा न गुणः। १ दीप्तौ पक्षे गुणः द्योतितमप्यत्र। २ कर्तरि क्त। २ दीप्तियुते त्रि०।

द्युतिधर = पु० द्युतिं देहगतां कान्तिं धारयति अन्तर्भूतण्यर्थे धृ–अच्। विष्णौ “तेजो वृषो द्युतिधरः” विष्णुसं० “द्युतिमङ्गगतां कान्तिं धारयन् द्युतिधरः” भा० “ओजस्तेजो द्युतिधरः” विष्णुसं० नामान्तरं तद्व्युत्पत्तिर्भाष्येऽन्यथा दर्शिता यथा “ज्ञानलक्षणां दीप्तिं धारयन् द्युतिधरः” इति। तेनोभयविधयोगार्थवत्त्वात् तस्य नामद्वयमित्यपौनरुक्त्यम्।

द्युतिमत् = त्रि० द्युतिः प्रशंसायामस्त्यर्थे मतुप्। १ प्रशस्तकान्तियुक्ते “यस्येतिहासो द्युतिमान्” भा० आ० ९९ अ० “द्युतिमतां निकरेण महास्वनाम्” किरा०। स्त्रियां ङीप्। स्वायम्भ वस्य मनोः २ पुत्रभेदे पु०। तदुपक्रमे “ज्योति- ष्मान् द्युतिमान् हव्यः सवर्णापुत्र एव च” हरिवं० ७ अ०। मेरुसावर्णमन्वन्तरे ३ सप्तर्षिभेदे च। तदुपक्रमे “ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा” तत्रैवाध्याये। मद्रराज ४ नृपभेदे “सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे मद्रराजस्य द्युतिमतोदुहितरम्” भा० आ० ९५ अ०। ५ शाल्वदेशनृपभेदे च “नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान्” भा० शा० २३४ अ०। ६ मदिराश्वनृपपुत्रे च “मदिराश्वस्य पुत्रोऽभूत् द्युतिमान्नाम पार्थिबः। पुत्रोद्युतिमतस्त्वासीद्राजा परमधार्मिकः” भा० अनु० २ अ०।

द्युतिला = स्त्री द्युतिं लाति ला–क। औषधिभेदे रत्नमाला

द्युधुनि = स्त्री ६ त०। स्वर्गनद्यां गङ्गायाम् “सिद्धैर्नुतो द्युधुनि पातशिवस्वनासु” भाग० ३। २३। ३७ द्युनद्यादयोऽप्यत्र।

द्युन = न० लग्नावधिके सप्तमस्थाने “द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम्” ज्यो० त०।

द्युनिवास = पु० दिवि द्युनि वा निवासोऽस्य। देवे “शोकाग्निनाऽगात् द्युनिवासभूयम्” भट्टिः।

द्युपति = पु० ६ त०। १ इन्द्रे हेमच०। २ दिनपतौ सूर्ये ३ अर्कवृक्षे च।

द्युम = त्रि० द्यु + अस्त्यर्थे म। दिनादिविशिष्टे

द्युमणि = पु० दिवः स्वर्गस्य मणिरिव। १ सूर्ये अमरः। २ अर्कवृक्षे च।

द्युमत्सेन = पु० शाल्वमहीपतिभेदे सत्यवतः पितरि “द्युमत्सेनसुतं वीरं सत्यवन्तमनिन्दिता” भा० वि० २० अ०। “आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः। द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह। विनष्ट चक्षुषस्तस्य बालपुत्रस्य धीमतः। सामीप्येन गतं राज्यं छिद्रेऽस्मिन् पूर्ववैरिणा। स वालवत्सया सार्द्धं भार्यया प्रहितोवनम्। महारण्यं गतश्चापि तपस्तेपे महाव्रतः। तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने। सत्यवाननुरूपो मे भर्तेति मनसा वृतः” भा० व० २९३ अ० सावित्र्युक्तिः।

द्युमत् = त्रि० द्यौः कान्तिरस्यास्ति दिव–मतुप् दिव उत्त्वम्। कान्तियुक्ते “वीतिहोत्रं त्वा कवे! द्युमन्तम्” यजु० २। ४ “द्युमत्तमा सुप्रतीकस्यसूनोः” २७। ११

द्युमद्गान = न० सामगानभेदे।

द्युमयी = स्त्री विश्वकर्मकन्यायां सूर्यभार्य्यायाम् “स्वरेणुर्द्युमयी त्वाष्ट्री प्रिये चैते विभावसोः” त्रिका०।

द्युम्न = न० दिवं दीप्तिं मनति म्ना–क। १ घने अमरः। २ बले निघण्टुः। प्रत्युंन्तः।

द्युलोक = पु० द्यौरेव लोकः दिव उत्त्वम्। स्वर्गलोके

द्युवन् = पु० द्यु–कनिन् उवङ्। सूर्य्ये उज्ज्वल०।

द्युष(स)द् = पु० दिवि सीदति सद–क्विप् पूर्वपदात् छन्दसि षत्वम् लोकेऽषत्वम्। १ देवे २ ग्रहे च “मनःसु येषां द्युसदां न्यधीयत्” माघः।

द्यू = त्रि० दिव्यति दिव–क्विप् ऊठ्। देवके अक्षद्यूः।

द्यूत = न० दिव–भावे क्त ऊठ् अर्द्धर्चा०। १ देवने क्रीडाभेदे २ विवादपदभेदे च तत्स्वरूपादिकं वीर० मि० निरूपितम्

“अक्षबध्नशलाकाद्यैर्देवनं जिह्मकारितम्। पणक्रीडा वयोभिश्च पदन्द्यूतसमाह्वयमिति” नारदः। अक्षाः पाशाः। बध्नश्चर्मपट्टिका। शलाका दन्तादिमय्यो दीर्घचतुरस्राः। आद्यग्रहणाच्चतुरङ्गादिक्रीडासाधनं करितुरगादिकं गृह्यते। तैरप्राणिभिर्य्या पणपूर्विका क्रीडा। तथा वयोभिः पक्षिभिः पारावतादिभिः चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पण पूर्विका क्रीडा क्रियते तदुभयं यथाक्रमन्द्यूतसमाह्वयाख्यं व्यवहारपदमित्यर्थः। द्यूतञ्च समाह्वयश्च द्यूतसमाह्वयम्। अतएव मनुः। “अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते। प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः” इति। तत्र सभिकं प्रत्याह नारदः “सभिकः कारयेद्द्यूतन्देय” दद्याच्च तत्कृतम्। दशकन्तु शतं वृद्धिस्ततः स्याद्द्यूतकारिता। अथ वा कितवो राज्ञे दत्त्वा लाभं यथोदितम्। प्रकाशन्देवनं कुर्य्यादेवं दोषो न विद्यत” इति। तस्य वृत्तिमाह याज्ञवल्क्यः “ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम्। गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतमिति”। परस्परं सम्प्रतिपत्त्या कितवः परिकल्पितः पणोग्लहस्तत्र ग्लहे तदाश्रया शतपरिमिता तदधिकपरिमिता वा वृद्धिर्यस्यासौ शतिकवृद्धिस्तस्मात्कितवात्पञ्चकं शतं जितस्य ग्लहस्यात्मवृत्त्यर्थं विंशतितमं भागं गृह्णीयादित्यर्थः। पञ्चकं शतं पञ्चवणा आयो यणिन् शते तत्पञ्चकं “तदस्मिन् वृद्ध्येति” पा० कन् १ सभापतिस्तु कल्पिताक्षादिनिखिलक्रीडीपकरणस्तदुपचितद्रव्योपजीवी इतरस्मादपूर्णशतवृद्धेः कितवाद्दशकं शतञ्जितस्य दशमभागं गृह्णीयादित्यर्थः। एवं कॢप्तवृत्तेः समिकस्य यत्कर्त्तव्यं तदाह स एव “स सम्यक्पालितो दद्यात् राज्ञे भागं यथाकृतम्। जितमुद्ग्राहयेज्जेत्वे दद्यात्सत्यं वचः क्षमीति”। यः कॢप्तवृत्तिर्द्यूताथिकारी स राज्ञा धूर्त्तकितवेभ्योरक्षित- स्तस्मै राज्ञे यथाप्रतिपन्नमंशं दद्यात्। तथा जितं द्रव्यं पराजितसकाशादासेधादिना उद्धृत्य जेत्रे जयिने दद्यात्। तथा क्षमी भूत्वा द्यूतकारिणोऽतिविश्वासार्थं सत्यं वचो वदेदित्यर्थः। नारदोऽपि “सभिकः कारयेत् द्यूतं देयं दद्याच्च तत्कृतमिति”। वृहस्पतिरपि “सभिको ग्राहकस्तत्र दद्याज्जेत्रे नृपाय वेति” द्यूतपराजितकितवानां बन्धनादिना पणग्राहको भवेत्। पणग्रहणात् प्रागेव स्वकीयं द्रव्यं जेत्रे नृपाय च यथाभागं सभिको दद्यादित्यर्थः। तथा च कात्यायनः “जेतुर्दद्यात् स्वकं द्रव्यं जितं ग्राह्यं त्रिपक्षिकम्। सद्यो वा कितवेनैव सभिकात्तु न संशयः” इति। त्रिपक्षिकमित्यनेन यथा सामर्थ्यमा त्रिपक्षात्कालो देय इति दर्शितमिति स्मृतिचन्द्रिकायाम्। यदा तु जेत्रे जितं द्रव्यं सभिको दापयितुमशक्तस्तदा राजा दापयेदित्याह याज्ञवल्क्यः “प्राप्ते नृपतिना भागे प्रसिद्धे धूर्त्तमण्डले। जितं ससभिके स्थाने दापयेदन्यथा न त्विति” प्रसिद्धे अन्यथा प्रच्छन्ने सभिकरहितेऽदत्तराजभागे द्यूते जित पणे जेत्रे न दापयेदित्यर्थः। प्राणिद्यूते प्राणिनां जयपराजयौ तत्स्वामिनोरित्याह वृहस्पतिः “द्वन्वयुद्धेन यः कश्चिदवसादमवाप्नुयात्। तत्स्वामिना पणो देयो यस्त्वत्र परिकल्पितः” इति। पणपरिकल्पनं कृताकृतमित्याह नारदः “परिहासकृतं यच्च यच्चाप्यविदितं नृपे। तत्रापि नाप्नुयात्काममथ वाऽनुमतं तयोरिति”। काम्यत इति कामः पणः। अत्र जयपराजयविप्रतिपत्तौ निर्णग्रप्रकारमाह याज्ञवल्क्यः “द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हीति”। द्यूतव्यवहाराणां द्रष्ठारः सभ्याः त एव कितवा एव नियोक्तव्या राज्ञा। न तत्र श्रुताध्ययनसम्पन्ना इत्याद्युक्तनियमोऽस्ति। साक्षिणोऽपि त एव द्यूते द्यूतकरा एव कार्य्याः न तत्र स्त्रीबालवृद्धकितवेत्यादिसाक्षिनिरूपणोक्तनिषेधोऽस्तीत्यर्थः। विष्णुरपि “कितवेष्येव तिष्ठेरन् कितवाः संशयं प्रति। य एव तत्र द्रष्टारस्त एवैपान्तु साक्षिणः” इति। त्वाक्षिणां परस्परविरोधे आह वृहस्पतिः “उभयोरपि सन्दिग्धे कितवाः स्युः परीक्षकाः। यदा विद्वेषिणस्ते तु तदा राजा विचारयेदिति।” अनियुक्तद्यूतकारिणो दण्डमाह नारदः “अनिर्दिष्टस्तु यो राज्ञा द्यूतं कुर्वीत मानवः। न स तं प्राप्नुयात्कामं विनयञ्चैव त्वोऽर्हतीति”। ये तु कूटं द्यूतं कुर्वन्ति तेषां दण्डमाह याज्ञवल्क्यः “राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधि देविनः” इति। कूटैरक्षादिभिः उपधिना मणिमन्त्रादिना मतिवञ्चनेन च ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेदित्यर्थः। निर्वासने विशेषमाह नारदः “कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः” इति। दण्डने विशेषमाह विष्णुः। “द्यूते कूटाक्षदेविनां करच्छेदः उपधिदेविनामाच्छेदः” इति। यानि तु द्यूतनिषेधकानि मनुवचनानि “द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेत वा। तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः। प्रकाशमेतत्तास्कर्य्यं यद्देवन समाह्वयौ। तयोर्न्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत्। द्यूतं समाह्वयञ्चैव राजा राज्ये निवारयेत्” इत्यादीनि तानि कूटाक्षदेवनविषयतया राजाध्यक्ष सभिकरहिततया वा योज्यानि। अतएव वृहस्पतिः “द्यूतं निषिद्धं मनुना सत्यशौचधनापहम्। अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम्। सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुकम्” इति। याज्ञवलक्योऽपि “द्यूतमेकमुखं कार्य्यं तस्करज्ञानकारणादिति” राज्ञा द्यूतम् एकं मुखं प्रधानं यस्य तत् तथोक्तं कार्य्यम्। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः। तस्करज्ञानकारणात्। ल्यव्लोपे पञ्चमी। तस्करज्ञानरूपं प्रयोजनं पर्य्यालोच्येत्यर्थः। प्रायशश्चौर्य्यार्जितधना एव कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमुखं कार्य्यमित्याशयः”

द्यूतकर = त्रि० द्यूतं करोति कृ–ट। (जुयारी) द्यूतकारके शब्दर०।

द्यूतकार = त्रि० द्यूतं करोति कृ–अण् कारयति कारि–अण् वा। १ द्यूतकरे द्यूतस्य कारयितरि २ सभिके च अमरः स्वार्थे क। कारि ण्वुल् वा। द्यूतकारक तत्रार्थे त्रि०।

द्यूतकृत् = त्रि० द्यूतं करोति कृ–क्विप्। द्यूतकरे त्रिका०।

द्यूतपूर्णिमा = स्त्री द्यूतार्था पूर्णिमा। कोजागरपूर्णिमाया माश्विनपौर्णमास्यां त्रिका० कोजागरशब्दे तत्र द्यूतविधानमुक्तम्। द्यूतपौर्णमासी तत्रार्थे।

द्यूतप्रतिपद्(दा) = द्यूतार्था प्रतिपद् वा टाप्। कार्त्तिकशुक्लप्रतिपदि तत्र द्यूतविधानं ति० त० यथा ब्रह्म० पु० “शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम्। कार्त्तिकेशुक्लपक्षे तु प्रथमेऽहनि भूपते!। जितश्च शङ्करस्तत्र जयं सेभे च पार्वती। अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं सुखोषिता। तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः”। “द्यूतप्रतिपदा नाम तव भावी महोत्सवः” ति० त० धृतं बलिं प्रति भगवद्वाक्यम्।

द्यूतवीज = न० द्यूतस्य वीजं साधनम्। कपर्दके (कडि) त्रिका०।

द्यूतवृत्ति = पु० द्यूतं वृत्तिर्जीविका यस्य। सभिके तस्य यथा द्यूतोपजीवित्वं तथा द्यूतशब्दे उक्तम् “मित्रध्रुक् द्यूतवृत्तिश्च पुत्राचार्य्यस्तथैव” मनुना तस्य हव्यकव्यदानाऽयोग्यतोक्ता।

द्यून = न० लग्नात् सप्तमस्थाने द्युनशब्दे दृश्यम् “द्यूनजन्मरिपुलाभखत्रिगश्चन्द्रमाः शुभफलप्रदस्तथा” ज्यो० त०

द्यै = न्यक्करणे भ्वा० सक० अनिट्। द्यायति अद्यासीत् दद्यौ

द्यो = स्त्री द्योतन्ते देवा अत्र द्युत–बा० आधारे डो। १ स्वर्गे २ आकाशे च अमरः। “धरावियद्द्योसलिलेषु विश्रुतम्” भा० क० ९० अ० द्योषद् द्योभूमिः। सर्वनामस्थाने परे तस्य ओरौत् द्यौः द्यावौ द्यावः।

द्योकार = त्रि० द्योतुल्यान् प्रासादादीन् करोति कृ–अण्। प्रासादादिकरे शिल्पिभेदे “एवं क्षत्रियदायादास्तत्र तत्र परिश्रुताः। द्योकारहेमकारादिजातिं नित्यं समाश्रिताः” भा० शा० ४९ अ० तत्र व्योकारेति ज्वाकारेति वा पाठान्तरम्। व्योकारः लोहकारः ज्याकारो धनुष्कार इत्यर्थः।

द्योत = पु० द्युत–भावे घञ्। १ प्रकाशे २ आतपे अमरः। खद्योतः “चन्द्रार्ककिरणद्योतम्” हरिवं० ४३ अ० “विद्युद्द्योतनिकाशेन मुकुटेनार्कवर्चसा” हरिवम्० २४१ अ०। उत्कृष्टो द्योत् उद्द्योतः “निरवद्यविद्योद्द्योतेन द्योतितस्तत्त्वतोऽयमर्थः” दायभा०

द्योतन = त्रि० द्युत–शीलार्थे युच्। १ द्योतनशीले “विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत्” भट्टिः २ दीपे पु०। ३ ऊषसि स्त्री निरु०। भावे ल्युट्। ४ प्रकाशे न० “द्योतनाद्देवः” इति कुल्लू० द्युत–णिच–ल्यु। ५ प्रकाशके त्रि०। भावे ल्युट्। ६ प्रकाशने न०।

द्योतनि = त्रि० द्युत–णिच्–अनि। प्रकाशके “आ द्योतनिं वहति शुभ्रयाम्” ऋ० ३। ५८। १ “द्योतनिं प्रकाशकं सूर्यम्” भा०

द्योतिरिङ्गण = पु० ज्योतिरिङ्गण + पृषो०। खद्योते हेमच०।

द्योभूमि = पु० द्यौराकाशो भूमिर्गतिस्थानं यस्य। १ पक्षिणि शब्दच०। द्यौश्च भूमिश्च द्व०। २ द्यावापृथिव्यीः स्त्री द्वि० ब०

द्योषद् = पु० द्यवि सीदति सद–क्विप् षत्वम्। देवे शब्दरत्ना०। ग्रहादौ अषत्वम् द्योसदित्येव।

द्यौत्र = न० “दिवेर्द्युश्च” उणा० दिव–ष्ट्रन् द्युरादेशः वृद्धिश्च। ज्योतिःपदार्थे उज्ज्वलदत्तः।

द्यौर्लोक = पु० द्यौरेव लोकः द्योलोक + पृषो०। द्युलोके स्वर्गे “किं ताभिर्जयति पृथिवीलोकमेव पुरोऽनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्यौर्लोकं शस्यया” शत० व्रा०

द्रगड = पु० द्रेति गडति गड–अच्। वाद्यभेदे (दगड काडा) त्रिका०।

द्रङ्क्षण = न० तोलके शब्दमाला।

द्रङ्ग = पु० पुरीभेदे हेमच०। स च “कर्वटादधमोद्रङ्गः पत्तनादुत्तमश्च सः” वाचस्पत्युक्तलक्षणः।

द्रढि = नामधातुः दृढं करोति दृढ + कृतौ णिच् ऋतो रः दृढीकरणे सक० उभ० सेट्। द्रढयति ते। द्रढयन् द्रढयितुम्

द्रढिमन् = पु० दृढस्य भावः इमनिच् ऋतो रः। दृढत्वे “बधाम् द्रागेव द्रढिमरमणीयं परिकरम्” गङ्गालहरी। “हृदयमरिबधोदयादुदूढद्रढिम दधातु पुनःपुरन्दरस्य” माघः।

द्रधस् = स्त्री रोदस्योः “द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान्” तैत्ति० स० ३। २। २। २

द्रप्स = न० दृप्यति कफोऽनेन दृप–बा० क्स ऋतो रः। घनेतरदध्नि(जलोदै) अमरः पृषो० द्रप्स्य द्राप्स इत्येते अपि तत्रार्थे अमरटीकायां भरतः। २ रसे पु०। “भुवनानामूर्मिर्द्रप्सो अपामसि” यजु० १४। ५ “द्रप्सो रसः” वेददी० “यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो स्तोकः। स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाह ग्रावच्युतः” शत० ब्रा० ४। २। ४। २ “सोऽष्टौ द्रप्सान् गर्भ्यभवत्तेऽष्टौ वसवोऽसृज्यन्त तानस्यामुपादधात्” शत० ब्रा० ६। १। २। ६। ३ द्रुतगतियुक्ते च “अनुद्रप्सास इन्दवः” ऋ० ९। ६। ४ “द्रप्सासः द्रुतगतयः” भा०

द्रम = गतौ भ्वा० पर० सक० सेट्। द्रमति अद्रमीत् द्रद्राम “वान रा दद्रमुश्चाथ संग्रामं च शशंसिरे” भट्टिः यङि दंद्रम्यते “दंद्रम्यमाणः परियन्ति मूढाः” कठोप०। दंद्रमणः

द्रमिल = पु० देशभेदे। तत्र भवः अण्। द्रामिल चाणक्ये पु० तत्र भवे त्रि० हेम०।

द्रम्म = पु० लीला० उक्ते षोडशपणे “वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पणचतस्रः। ते षोडश द्रम्म इहापि कीर्तितो द्रस्मैस्तथा षोडशभिश्च निष्कः”

द्रव = पु० द्रु गतौ भावे अप्। १ द्रवणे २ पलायने ३ परीहामे अमरः। ४ गतौ ५ आसवे। ६ वेगे च द्रु–अच्। ७ क्षरण युक्ते त्रि०। ८ द्रवत्वगुणयुक्तमात्रे त्रि० “आक्षिप्य काचिद्द्रवरागमेव” कुमा० “द्रवः सङ्घातकठिनः” कुमा० “सर्वाणि द्रवाणि उदङ्मुखेन जुहोति” श्रुतिः “गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः” “मदोदकद्रवकटभित्तिसङ्गिभिः” माघः न्यायोक्ते ९ द्रवत्वरूपे गुणभेदे “द्वयोर्नैमित्तिकोद्रवः” भाषा० द्रवत्वशब्दे दृश्यम्।

द्रवक = त्रि० द्रु–शीलार्थे अक मुग्ध०। १ पलायनशीले २ क्षरणशीले च।

द्रवज = पु० द्रवाज् जायते जन–ड। १ गुडे राजनि०। २ द्रवजातमात्रे त्रि०।

द्रवत्पत्री = स्त्री द्रवत् पत्रं यस्याः गौरा० ङीप्। शिमुडीवृक्षे राजनि०।

द्रवत् = उपभोगे अक० पर० सेट् द्रवस् इत्यत्र गणरत्ने कण्ड्वा० गणे पाठान्तरम्। द्रवत्यति। अद्रवत्यीत्।

द्रवत् = त्रि० द्रु–शतृ। १ क्षरणयुक्ते २ शीघ्रे न० निरु०

द्रवत्व = न० द्रवस्य भावः। न्यायोक्ते संग्राहके गुणभेदे भाषा० “सांसिद्धिकद्रवत्वं स्यान्नैमित्तिकमथापरम्। सांसिद्धिकन्तु सलिले द्वितीयं क्षितितेजसोः। परमाणौ जले नित्यमन्यत्रानित्यमुच्यते। नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु। द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत्” भाषा० “द्रवत्वन्निरूपयति सांसिद्धिकमिति। द्रवत्वं द्विविधं सांसिद्धिकं नैमित्तिकञ्चेति। द्वितीयं नैमित्तिकं परमाणावेवेति। जलपरमाणौ द्रवत्वं नित्यम्। अन्यत्र पृथिवीपरमाण्वादौ जलद्व्यणुकादौ च अनित्यम्। कुत्रचित्तेजसि कुत्रचित् पृथिव्याञ्च नैमित्तिकं द्रवत्वम्। तत्र को वा नैमित्तिकस्तद्दर्शयति नैमित्तिकमिति। वह्नीतिपदन्तेजोऽर्थकम्। तथा च तेजःसंयोगादग्निसंयोगजन्यं नैमित्तिकं द्रवत्वम्। तच्च सुवर्णादिरूपे तेजसि घृतजतुप्रभृतिपृथिव्यां च वर्तत इत्यर्थः। द्रवत्वं स्यन्दने हेतुरिति असमवायिकारणमित्यर्थः। संग्रहे सक्तुकादिसंयोगविशेषे तद्द्रवत्वं स्नेहसहितमिति बोद्धव्यम्” मुक्ता०। तल् द्रवताप्यत्र स्त्री “न च न द्रवता द्रवता परितो हिमहानकृता न कृता क्वचन” भट्टिः।

द्रवद्रव्य = न० द्रवतीति द्रवं कर्म०। १ दुग्धदध्याज्यतक्रासवजल तैलादिषु २ दैहिकमूत्रादिषु च।

द्रवन्ती = त्रि० द्रु–शतृ ङीप्। १ द्रवयुक्तस्त्रियां सा च २ स्रवन्त्यां नद्यां ३ मूषिकपर्ण्यां च राजनि०।

द्रवरस = त्रि० द्रवयुक्तो रसो यस्य। १ सार्द्ररसे २ लाक्षायां स्त्री राजनि०।

द्रवस् = उपभोगे कण्ड्वा० पर० सेट्। द्रवस्यति अद्रवस्यीत्।

द्रवाधार = पु० ६ त०। १ द्रवद्रवस्याधारे २ चुलुके च शब्दार्थक०

द्रवाय्य = त्रि० द्रु–आय्य। द्रुतिशोले मुग्धबो०।

द्रवि = त्रि० द्रावयति अन्तर्भूतण्यर्थे द्रु–इन्। स्वर्णादिद्रावके स्वर्णकारे “द्रविर्न द्रावयति दारु धक्षत्” ऋ० ६। ३। ५

द्रविड = पु० स्वनामख्याते देशभेदे स चं देशः वृ० सं० कूर्मविभागे १४ अ० नैरृत्यामुक्तः “नैरृत्यां दिशि देशाः” इत्युपक्रमे “हेमगिरिसिन्धुकालकरैबत कसुराष्ट्रवादर द्रविडाः” तेषां राजा सोऽभिजनोऽस्य वा अण्। द्राविड तद्देशनृपे पित्रादिक्रमेण तत्रवासिनि च। वहुषु अणो लुक्। २ ब्राह्मणभेदे सच “आन्ध्राः कर्णाटकाश्चैव गुर्जरा द्रविडास्तथा। महाराष्ट्रा इति ख्याताः पञ्चैते द्रविडाः स्मृताः” वागुरसंहिता। ३ सवर्णायां व्रात्यक्षत्रियजाते क्षत्रियभेदे यथाह मनुः “झल्लोमल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च”। जामदग्न्यभयेन क्षत्रियधर्मत्यागेन वृषलत्वं प्राप्ते तद्देशीये ४ क्षत्रिये च यथाह भा० आश्व० २९ अ० “ततस्तु क्षत्रियाः केचिज्जामदग्न्यभयार्दिताः। विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव। तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्। प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्। एवं ते द्रविडाभीराः पुण्ड्राश्च शवरैः सह। वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मिणः” ४ रागिणीभेदे स्त्री गौरा० ङीष्।

द्रविण = न० द्रु–इनन्। १ धने २ काञ्चने मेदि०। ३ बले ४ पराक्रमे च निथ० “द्रविणं परिमितमधिकव्ययिनं जनमाकुलीकुरुते” उद्भ० “ज्ञातिभ्यो द्रविणं दत्त्वा कन्यार्थे चैव शक्तितः” मनुः। “तेषां सदश्वभूयिष्ठास्तुङ्गाद्रविणराशयः” रघुः। ५ पृथुनृपपुत्रभेदे पु० वैन्यस्तु वीर्यमहतामित्युपक्रमे “पुत्रानुत्पादयामास पञ्चार्च्चिष्मान् प्रशंसितान्। विजिताश्वं धूम्रकेशं हर्यश्वं द्रविणं वृकम्” भाग० ४। २२। ५० तत्र बले “बलेः पुत्रो महावीर्य्यो वाणोद्रविण वत्तरः” हरिवं० १६१ अ० पराक्रमे “बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ” भा० उद्यो० ११२ अ०। ५ वाञ्छिते च द्रविणप्रदशब्दे दृश्यम्। ६ क्रौञ्चद्वीपस्थे वर्षपुरुषभेदे पु० “क्रौञ्चद्वीपस्थवर्षनदीना मम्भः पवित्रममलमुपयुञ्जानाः पुरुषर्षभद्रविणदेवक संज्ञाः” भाग० ५। २०। १६

द्रविणक = पु० १ वसुसुताग्नेः पुत्रभेदे “अग्नेर्भार्य्या वसोर्धारा पुत्रो द्रविणकादयः” भाग० ६। ६। १२ श्लो० द्रविण + स्वार्थे क। २ द्रविणशब्दार्थे न०।

द्रविणनाशक = न० द्रविणं नाशयति नाशि–ल्यु। शोभाञ्जने शब्दरत्ना० तत्सेबने धननाशकत्वात्तस्य तथात्वम् अतः स्मृतौ शोभाञ्जनभक्षणनिषेधोदृष्टफलक एव।

द्रविणप्रद = त्रि० द्रविणं प्रददाति प्र + दा–क। १ धनदायके २ विष्णौ पु०। तस्य वाञ्छितप्रदत्वात् तथात्वम् “सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः” विष्णुस० वाञ्छितप्रदत्वेन तस्य तथात्वम् भाष्ये उक्तम्।

द्रविणस् = त्रि० द्रविणमिच्छति लालसायां क्यचि सुक् द्रविणस्यति ततः सम्प० भावे क्विपि अतो लोपे क्वौ लुप्ते न स्थानिवद्भवतीति यलोपः। धनेच्छायाम् “द्रविणोदा द्रविणसः ग्रावहस्तासः” ऋ० १। १५। ७ भाष्ये च उक्ता व्युत्पत्तिर्दर्शिता। “द्रविणस्वन्त इह सन्त्विन्दवः” ऋ० ९। ८५। १ “द्रविणस्वन्तो धनवन्तः” इति भाष्योक्तेः द्रविणश्शब्दात् कर्मसाधनात् धनवचनात् मतुप्।

द्रविणस्यु = त्रि० द्रविणमात्मनो लालसयेच्छति क्यचि सुक् द्रविणस्य–उन्। लालसया घनकामिनि “द्रविणस्युर्द्रविणसश्चकानः” ऋ० १०। ६५। १६ “छन्दस्येव द्रुवरस्युद्रविणस्युः” इत्यादिना पा० क्यचि निपातनम्। लोके तु द्रविणीयुरित्येव।

द्रविणोदस् = त्रि० १ धनदातरि “द्रविणोदाः धनप्रदम्” ऋ० १। १५। ७ “धनप्रदोऽग्निः सोमं पिबत्विति शेषः। तमेतं मन्त्रं यास्क एवं निर्वक्ति। नि० ८। १ “द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवन्ति वलं वा द्रविणं यदेने नाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति। द्रविणोदा द्रविणस” इत्यादि। सोऽयं यास्कोक्तो निर्वचनप्रपञ्चस्तस्मिन्नेव ग्रन्थेऽवगन्तव्यः। द्रविणोदाः। “द्रुदक्षिभ्यामिनन्” उ० २। ५१। नित्त्वादाद्युदात्ती द्रविण शब्दः। तद्ददातीति द्रविणोदाः। “क्विप् चेति” पा० क्विप्। पूर्वपदस्य संकारोपजनश्छान्दसः सत्वोत्त्वे। कृदुत्तरपदप्रकृतिस्वरत्वम्। देवविशेषणत्वेनैकवाक्यतापक्षे द्वितीयायाः स्यादेशः। अथ वा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति। सुप आत्मनः क्यच्। “सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः” वार्ति० क्यचि परतः सुगागमः। द्रविणस्यतेः सम्पदादित्वाद्भावे क्विप्। अतोलोपः। “क्वौ लुप्तं न स्थानिवद्भवति” पा० इति तस्य स्थानिवत्त्वप्रतिषेधाद्यलोपः। एवं द्रविणस् शब्दो धनेच्छावचनः। द्रविणेच्छां दस्यति यथेष्टधनप्रदानेनोपक्षपयतीत्यर्थे दसु उपक्षये इत्यस्मादन्तर्भावितण्यर्थात् “क्विप् चेति” पा० क्विप्। एवं द्रविणोदःशब्दः सकारान्तो भवति। तथा द्राविणोदसाः प्रवादा भवन्तीति नैरुक्तो व्यवहार उपपद्यते। अतो द्रविणोदस् शब्दो भिन्नवाक्यत्वे स्यार्थे प्रथमा एकवाक्यत्वे तु व्यत्ययेन द्वितीया भवति। द्रविणस इत्यत्रापिवाक्यभेदपक्षे द्रविणसः सोमस्येत्यर्थे न उकारोपजन श्छान्दसः। आद्युदात्त त्वं तु नियमेन स्थितम्। ऋत्विग्विशेषणत्वेनैकवाक्यत्वपक्षे तु क्यजन्तात् क्विप्। अतो लोपादि पूर्ववत्। अत्र द्रविणोदाशब्दोऽपि तत्रार्थे। २ अग्नौ च “द्रविणं धनमित्युक्तं बलञ्च द्रविणं स्मृतम्। ददाति तद्भवानेव द्रविणोदास्ततोभवान्” वराहपु०।

द्रवित्नु = त्रि० द्रु–गतौ इत्नु। गतिशीले “शविष्टस्य द्रवित्नवः” ऋ० ८। ७४। १४। “रथममृतस्य द्रवित्नुम्” ऋ० १०। ११। ९

द्रव्य = न० द्रोर्विकारः द्रोरिति यत् “द्रव्यञ्च भव्ये” पा० निपा०। १ पित्तले २ वित्ते ३ पृथिव्यादिषु नवसु। ४ विलेपने न० ५ भेषजे ६ द्रुमविकारे ७ तत्सम्बन्धिनि च त्रि० मेदि०। ८ जतुनि ९ विनये न० हेम०। १० मद्ये न० राजनि०। द्रव्यलक्षणमौलुक्यशब्दे १५८६ पृ० उक्तं तद्भेदाश्च नव “पृथिव्यापस्तेजो वायुराकाशं कालोदिगात्मा इति द्रव्याणि” कणा० सू० “इदानीमपवर्गभागितया सर्व पदार्थाश्रयतया च प्रथमोद्दिष्टस्य द्रव्यपदार्थस्य विभागं विशेषोद्देशञ्च कुर्तन्नाह पृथिव्याप इति इतिकारोऽबधारणार्थः तेन नवैव द्रव्याणि नाधिकानि न न्यूनानि वेत्यर्थः। ननु विभागबलादेव नूनाधिकसङ्ख्याव्यवच्छेदसिद्धौ किमितिकारेणेति चेत् उद्देशमात्रपरतयाऽपि सूत्रसम्भवे विभागतात्पर्य्यस्फोरणार्थतयैवेतिकाराभिधानात् सुवर्णादीनामीश्वरस्य चात्रैवान्तर्भावात् अन्धकारस्य चाधिकत्वेनाशङ्क्यमानस्याभावत्वव्युत्पादनादेतदध्यवसेयम्। असमासकरणन्तु सर्वेषां प्राधान्यप्रदर्शनाय” उप० वृ०। वैद्यके तु तस्य पञ्चविधतोक्ता यथा “रसोगुणस्तथा वीर्य्यं विपाकः शक्तिरेव च। पञ्चानां यः समाहारस्तद्द्रव्यमिति कीर्त्त्यते” इति भिषग्वराः। प्रकारान्तरेण च पञ्चविसम् अत्यन्तकठिनकठिनार्द्रकोल्वणद्रवद्रव्यभेदात्। द्रव्यभेदानां गुणवत्तावधिश्च वैद्यकोक्तः यथा “गुणहीनं भवेद्वर्षादूर्द्ध्वं तद्रपमौषधम्। मासद्वयात् तथा चूर्णं लभते हीनवीर्य्यताम्। हीनत्वं गुटिका लेहो लभते वत्सरान् परम्। हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकास्तथा। घृततैलाद्या इति यागविशेषणम्। चतुर्मासाधिकाः संवत्सरादुपरि चत्वारोमासा अधिका येषां ते। “घृतमव्दात् परं पक्वं हीनवीर्य्यत्वमाप्नुयात्। तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम्। तदपि षोडशमासाभ्यन्तरे पक्वतैलं गुणाधिकं बोद्धव्यम्। “ओषध्यो लघुपाकाः स्युर्निर्वीर्य्या वत्सरात्परम्”। ओषध्यो धान्यादयः। लघुपाकाः शीघ्रपाकाः “निर्वीर्य्याः स्युर्गुणैर्युक्ता आसवा धातवोरसाः”। सामान्यतो वैद्यकेऽभिनवानामेव गुणवत्ता घृतादीनां पक्वानामपि केषाञ्चित् गुणवत्ता उक्ता यथा “द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ। ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः” रसादिमध्येऽपि द्रव्यस्यैव सुश्रुते प्रधानत्वमुक्तं यथा “अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः। केचिदाचार्य्या ब्रुवते द्रव्यं प्रधानं कस्माद्व्यवस्थितत्वादिह खलु द्रव्यं व्यवस्थितं न रसादयो यथाऽऽमे फले ये रसादयस्ते पक्वे न सन्ति। नित्यत्वाच्च नित्यं हि द्रव्यमनित्या गुणा यथा कल्कादिप्रविभागः स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति। स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणि। पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः। आश्रयत्वाच्च द्रव्यमाश्रिता रसादयो भवन्ति। आरम्भसामर्थ्याच्च द्रव्याश्रित आरम्भो यथा विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः। शास्त्रप्रामाण्याच्च शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुलुङ्गाग्निमन्थौ चेति न रसादय उपदिश्यन्ते। क्रमापेक्षितत्वाच्च रसादीनां रसादयो हि द्रव्य क्रममपेक्षन्ते यथा तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति। एकदेशसाध्यत्वाच्च द्रव्याणामेकदेशतोऽपि व्याधयः साध्यन्ते यथा महावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तु क्रियागुणवत्समवायिकारणमिति। नेत्याहुरन्ये रसास्तु प्रधानं कस्मादागमादागमोहि शास्त्रमुच्यते शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति तस्मिंश्च प्राणाः। उपदेशाच्चोपदिश्यन्ते हि रसा यथा मधुराम्ललवणा वातं शमयन्ति। अनुमानाच्च रसेन ह्यनुमीयते द्रव्यं यथा मधुरमिति। ऋषिवचनाच्च ऋषिवचनं वेदो यथा किञ्चिदिज्यार्थं मधुरमाहरेदिति। तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा। रसलक्षणमन्यत्रोपदेक्ष्यामः। नेत्याहुरन्ये। वीर्य्यं प्रधानमिति कस्मात्तद्वशेनौषधकर्म्मनिष्पत्तेः। इहौषधकर्म्माण्यूर्द्ध्वाधोभागोमयभागसंशोधनसंशमनसंग्रहणाग्निदीपनप्रपीडनलेखनवृंहणरसायनवाजीकरणश्वयथुकरणविलयनदहनदारणदाहनप्राणघ्नविषप्रशमनानि वीर्य्यप्राधान्याद्भवन्ति। तच्च वीर्य्यं द्विविधमुष्णं शीतं चाग्नीषोमीयत्वाज्जगतः। केचिदष्टविधमाहुरुष्णं शीतं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीष्णंचेत्येतानि वीर्य्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्व्वन्ति यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्णवीर्य्यत्वात् तथा कुलत्थः कषायः कटुकः पलाण्डुः स्नेहभावाच्च। मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्यत्वात्। कटुका पिप्पली पित्तं शमयति मृदुशीतवीर्य्यत्वादम्लमामलकं लवणं सैन्धवञ्च। तिक्ता काकमाची पित्तं वर्द्ध त्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च। कटुकं मूलकं श्लेष्माणं वर्द्धयति स्निग्धवीर्य्यत्वात्। अम्लं कपित्थं श्लेष्माणं शमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च। तदेतन्निदर्शनमात्रमुक्तम्” भवन्ति चात्र “ये रसा वातशमना भवन्ति यदि तेषु वै। रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम्। ये रसाः पित्तशमना भवन्ति यदि तेषु वै। तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्म्मकारिणः। ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै। स्नेहगोरवशैत्यानि वलासं वर्द्धयन्ति ते” तस्माद्वीर्य्यं प्रधानमिति। नेत्याहुरन्ये। विपाकः प्रधानमिति कस्मात् सम्यङ्मिथ्याविपाकत्वादिह सर्वद्रव्याण्यभ्यवहृतानि सम्यक् विपक्वानि गुणं दोषं वा जनयन्ति। तत्राहुरन्ये प्रतिरसं पाक इति। केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक् भूतगुणादागमाच्चाम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात्। यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणमुपैति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुर्दृष्टान्तं चोपदिशन्ति यथा तावत् क्षीरस्थालीगतमभिपच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति। केचिद्वदन्त्यबलवन्तो बलवतां वशमायान्ती- त्येवमनवस्थितिस्तस्मादसिद्धान्त एष। आगमे हि द्विविध एव पाको मधुरः कटुकश्च तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्द्विविध एव पाक इति। भवन्ति चात्र। द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः। निर्वर्त्त्यन्तेऽधिकास्तत्र पाको मधुर उच्यते। तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु। निर्वर्त्त्यन्तेऽधिकास्तत्र पाकः कटुक उच्यते। पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः। चतुर्णामपि सामर्थ्यमिच्छन्त्यत्र विपश्चितः। तद्द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्य्येण सेवितम्। किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा। पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विना रसात्। रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम्। जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षकं स्मृतम्। अन्योऽन्यापेक्षकं जन्म यथा स्याद्देहदेहिनोः। वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः। रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः। द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः। श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः। अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः। आगमेनोपयोज्यानि भेषजानि विचक्षणैः। प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः। नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथञ्चन। सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत्। तस्मात्तिष्ठेत्तु भतिमानागमेन तु हेतुषु”। “वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन व्यवस्थितः” हरिणा परिभाषिते ११ वस्तुपदार्थे च। “स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या कर्मादिरेव च” हरिः लिङ्गसंख्यानन्वयित्वेन सत्वरूपतया च तस्य तथात्वम्। “क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः। असत्वभूतता तस्या इयमेवावधार्य्यताम्” हरिः। क्रियानाधारकारकत्वैर्न युज्यते इत्यर्थः। तेन लिङ्गसंख्याकारकत्वशून्यत्वं सत्वत्वमेव द्रव्यत्वम्। “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति भाष्यम्। द्रव्यविशेषहस्तादौ उच्छिष्टदोषादिशुद्धिभेद उक्तः कूर्मपु० “उच्चावचान्नपानेषु द्रव्यहस्तो भवेन्नरः। भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत्। तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः। भूमौ निःक्षिप्य तद्दव्यमाचम्याभ्युक्षयेत्तु तत्। यद्यद्द्रव्यं करे धृत्वा भवेदुच्छेषणान्वितः। आनिधायेतरद्द्रव्यमाचान्तः शुचितामायात्। वस्त्रादिषु विकल्पः स्यात् न तत्स्पृष्ट्वाचमेदिह। अरण्येऽनुदके रात्रौ चौरव्याध्राकुले पथि। कृत्वा मूत्रपुरीषं वा दुष्टहस्तो न दुष्यति”।

द्रव्यक = त्रि० द्रंव्यं हरति वहति आवहति वा द्रव्य + कन्। १ द्रव्यहारके २ तद्वाहके ३ द्रव्यावाहके च।

द्रव्यकल्क = पु० “द्रव्यकल्कः पञ्चधा स्यात् कल्कं चूर्णं रसस्तथा। तैलमष्टिः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये! वैद्यकोक्ते कल्कादिपञ्चके।

द्रव्यगण = पु०। ६ त०। सुश्रुतोक्ते ओषधिविशेषाणा सप्तत्रिंशन्मितानां गणभेदे ते च तत्र दर्शिता यथा “द्रव्यसंग्रहणीयमध्यायं व्याख्यास्यामः अथातः समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति। तद्यथा। विदारीगन्धा विदारी सहदेवा विश्वदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहावृहत्यौ पुनर्नवैरण्डो हंसपदो वृश्चिकाल्यृषभी चेति। “विदारीगन्धादिरयं गणः पित्तानिलापहः। शोषगुल्माङ्गमर्दोर्द्ध्वश्वासकासविनाशनः १। आरग्बधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति। आरग्बधादिरित्येष गणः श्लेष्मविषापहः। मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः २। वरुणार्त्तगलशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरीयकद्वयविम्बीवसुकवसिरचित्रकशतावरीविल्वाजशृङ्गीदर्भा वृहतीद्वयञ्चेति। वरुणादिर्गणोह्येष कफमेदोनिवारणः। विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन् ३। वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्ममैदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरुण्टकेन्दीवरकपोतवङ्क्याः श्वदंष्ट्वा चेति। वीरतर्वादिरित्येष गणो वातविकारनुत्। अश्मरीशर्करामुत्रकृच्छ्राघातरुजापहः ४। सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गीतिनिशचन्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकञ्चेति। सालसारादिरित्येष गणः कुष्ठविनाशनः। मेहपाण्ड्वामयहरः कफमेदोविशोषणः ५। रोध्रसावररोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकसल्लकीजिङ्गिनीकदम्बसालाः कदली चेति। एष रोध्रादिरित्युक्तो मेदःकफहरो गणः योनिदोषहरः स्तम्भी व्रण्यो विषविनाशनः ६। अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति। अर्कादिको गणो ह्येष कफमेदोविषापहः। कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ७। सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुखकालमालकासमर्द्दक्षवकखरपुष्पाविडङ्गकट्फलसुरसीनिर्गुण्डीकुलाहलोक्षोन्दुरुकर्णिकाफञ्जीप्राचीबलाकाकमाच्यो विषमुष्टिकश्चेति। सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः। प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ८। मुष्ककपलाशधवचित्रकमदनवृक्षशिंशपावज्रवृक्षास्त्रिफला चेति। मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत्। मेहार्शःपाण्डुरोगघ्नः शर्कराश्मरिनाशनः ९। पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति। पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः १०। एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकबालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति। एलादिको वातकफौ निहन्याद्विषमेव च। वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ११। वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरञ्चेति १२। हरिद्रादारुहरिद्राकलशीकुटजवोजानि मधुकं चेति १३। एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ। आमातीसारशमनौ विशेषाद्दोषपाचनौ १२। १३। श्यामामहाश्यामातृवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपत्रश्रेणीगवाक्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति। उक्तः श्यामादिरित्येष गणो गुल्मविषापहः। आनाहोदरविड्भेदी तथोदावर्त्तनाशनः १४। वृहतीकण्टकारिकाकुटजफलपाठा मधुकञ्चेति। पाचनीयो वृहत्यादिर्गणः पित्तानिलापहः। कफारोचकहृल्लासमूत्रकृच्छ्ररुजापहः १५। पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति। पटोलादिर्गणः पित्तकफारोचकनाशनः। ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः १६। काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपणींमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षीरोपद्मकप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकञ्चेति। काकोल्यादिरयं पित्तशोणितानिलनाशनः। जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा १७। ऊषकसैन्धवशिलाजतुकाशीसद्वयहिङ्गूनि तुत्थकञ्चेति। ऊषकादिः कफं हन्ति गणो मेदोविशोषणः। अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः १८। सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधूकपुष्पाण्युशीरञ्चेति। सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः। पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः १९। अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पलनलदनलिनकेशराणि मधुकञ्चेति। अञ्जनादिर्गणो ह्येष रक्तपित्तनिवर्हणः। विषोपशमनो दाहं निहन्त्याभ्यन्तरं तथा २०। परूषकाद्राक्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति। परूषकादिरित्येष गणोऽनिलविनाशनः। मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः २१। प्रियङ्गुसभङ्गाधातकीपुन्नागरक्तचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति २२। अम्बष्ठाधातकीकुसुमसमङ्गाकद्वङ्गमधुकविल्वपेशिकारीध्रसावररोध्रपलाशनन्दीवृक्षपद्मकेशराणि चेति २३। “गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ। सन्धानीयौ हितौ पित्ते व्रणानाञ्चापि रौपणौ २२। २३। न्यग्रोधोडुम्बराश्वत्थप्लक्षमधूककपीतनककुभाम्रकोशास्रचोरकपत्रजम्बूद्वयपियालमधुकरोहिणीवञ्जुलकदम्बवदरीतिन्दुकोसल्लकीरोध्रसावररोध्रभल्लातकपलाशा नन्दीवृक्षश्चेति। न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधकः। रक्तपित्तहरो दाहमे दोघ्नो योनिदोषहृत् २४। गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकञ्चेति। एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः। हृल्लासारोचकवमीपिपासादाहनाशनः २५। उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकञ्चेति। उत्पलारिरयं दाहपित्तरक्तविनाशनः। पिपासाविषहृदोगच्छर्दिमूर्च्छाहरो गणः २६। मुस्ताहरिद्रादारुहरिद्राहरीतक्यामलकविभीतककुष्ठहैमवतीवचापाठाकटुरोहिणीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्तकश्चेति। एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः। योनिदोषहरः स्तन्यशोधनः पाचनस्तथा २७। हरितक्यामलकविभीतकानि त्रिफला। त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशिनी। चक्षुष्यादोपनी चैव विषमज्वरना शिनी २८। पिप्पलीमरिचशृङवेराणि त्रिकटुकम्। त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान्। निहन्याद्दीपनं गुलम- पीनसाग्न्यल्पतामपि २९। आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति। आमलक्यादिरित्येष गणः सर्वज्वरापहः। चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ३०। त्रपुसीसताम्ररजतकृष्णलोहसुवर्णानि लोहमलञ्चेति। गणस्त्रपादिरित्येष गरक्रिमिहरः परः। पिपासाविषहृद्रोगपाण्डुमेहहरस्तथा ३१। लाक्षारेवतकुटजाऽश्वमारकट्फडहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति। कषायस्तिक्तमधुरः कफपित्तार्त्तिनाशनः। कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ३२। पञ्च पञ्चमूलान्यत ऊर्द्ध्वं वक्ष्यामः। तत्र त्रिकण्टकवृहतीद्वयपृथक्पर्ण्यो विदारीगन्धा चेति कनीयः १। कषायतिक्तमधुरं कनीयः पञ्चमूलकम्। वातघ्नं पित्तशमनं वृंहणं बलवर्द्धनम् ३२। विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्यश्चेति महत् २। “स तिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम्। मधुरानुरसञ्चैव पञ्चमूलं महत् स्मृतम् ३३। अनयोर्दशमूलमुच्यते। “गणः श्वासहरोह्येष कफपित्तानिलापहः। आमस्य पाचनश्चैव सर्वज्वरविनाशनः ३४। विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसंज्ञः ३। करमर्दत्रिकण्टकसै रीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः ४। रक्तपिहरौ ह्येतौ शोफत्रयविनाशनौ। सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ३५। ३६ कुशकाशानलदर्भकाण्डेक्षुका इति तृणसंज्ञकः ५। मूत्रदोषविकारश्च रक्तपित्तं तथैव च। अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत्। एषां वातहरावाद्यावन्त्यः पित्त विनाशनः। पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ” ३७ त्रिवृतादिकमन्यत्रोपदेक्ष्यामः। “समासेन गणा ह्येते प्रोक्तास्तेषान्तु विस्तरम्। चिकित्सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम्। एभिर्लेपान् कषायञ्च तैलं सर्पींषि पानकान्। प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक्। धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते। ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम्। समीक्ष्य दोषभेदांश्च गणान् भिन्नान् प्रयोजयेत्। पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम्”।

द्रव्यगुण = पु० द्रव्यस्य गुणः प्रतिपाद्यतया यत्र। द्रव्याणां ज्ञापके ग्रन्थभेदे यथा भावप्र० द्रव्याणां गुणन्नापकभाग इत्यादि।

द्रव्यपति = पु० द्रव्यभेदानां पतिः। वृ० सं० ४१ अ० उक्ते द्रव्यभेदानां महार्घतादिप्रयोजके पत्यौ मेषादिराशौ यथा “ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः। मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि। वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम्। स्थलसम्भवौषधीनां कनकस्य च कीर्तितो मेषः। गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः। मिथुनेऽपि धान्यशारदवल्लीशालूककर्पासाः। कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि। सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः। षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः। सप्तमराशौ माषा गोधूमाः सर्षपाः सयवाः। अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि। नवमे तु तगरलवणाम्बरास्त्रतिलधान्यमूलानि। मकरे तरुगुल्माद्यं सैक्ये क्षुसुवर्णकृष्णलोहानि। कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि। मीने कपालसम्भवरत्नान्यम्बूद्भवानि वज्राणि। स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च। राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः। द्व्येकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः। षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु। उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः। राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः। तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च। इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम्। तद्द्रव्याणां वृद्धिः सामार्ध्यमदुर्लभत्वं च। गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः। पीडां न करोति तथा क्रूरैरेवं विपर्यासः”।

द्रव्यमय = त्रि० द्रव्य + प्राच्युर्ये मयट्। साधनतया द्रव्यप्रचुरे यज्ञे द्रव्यसाधनके यज्ञादौ “द्रव्ययज्ञास्तपोयज्ञा ज्ञानयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च इत्युपक्रमे “श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप!। सर्वकर्माखिलं पार्थ! ज्ञाने परिसमाप्यते” गीता।

द्रव्यविशेष = पु० सुश्रुतोक्ते धर्मविशेषेण द्रव्याणां पार्थिवत्वादिविशेषे यथा

“अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः। पृथिव्यप्तेजीवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्तिरुत्कर्षस्त्वभिव्यञ्जको भवतीदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति। तत्र स्थूलसारसान्द्रमन्दस्थिरखरगुरुकठिनगन्धबहुलमीषत्कषायं प्रायशो मधुरमितिपार्थिव तत् स्थैर्य्य बलसङ्घातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति। शीतस्तिमितस्निग्धगुरुसरसान्द्रमृदुपिच्छिलरसबहुलमीषत्कषायाम्ललबणं म- धुररसप्रायमाप्यं तत् स्नेहनप्रह्लादनक्लेदनबन्धनविष्यन्दनकरमिति। उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपगुणबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्द्धगतिस्वभावमिति तैजसं तद्दहनपचनधारणतापनप्रकाशनप्रभावर्णकरमिति। सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति। श्लक्ष्णसूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं तन्मार्दवशौषिर्य्यलाघवकरमिति”।

द्रव्यशुद्धि = स्त्री ६ त०। द्रव्याणां प्रक्षालनादिना मलादेरपनयने। द्रव्यविशेषस्य शुद्धिभेदा ३७६ पृष्ठादौ दृश्याः “प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च” मनुः

द्रष्टव्य = त्रि० दृश–तव्य। साक्षात्कर्त्तव्ये “आत्मा वा अरे द्रष्टव्यः श्रोतृव्यो मन्तव्यो निदिध्यासितव्यः” वृ० उ०।

द्रष्टृ = त्रि० दृश–तृच्। १ दर्शके २ साक्षात्कारके ३ प्रकाशके च “नान्योतोऽस्तिद्रष्टा” श्रुतिः “द्रष्टारोव्यवहाराणां साक्षिणश्च तएव हि” याज्ञ०। “दृश्यद्रष्टृसंयोगो हेयहेतुः” योगसू० “चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिका। दृष्टिरित्युच्यते द्रष्टा दृष्टिकर्त्तेति चोच्यते शब्दाथचि० धृतवाक्यम्। सांख्यमते यथा पुरुषस्य द्रष्टृत्वं तथा सां० सू० निरणायि

यथा “द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम्” द्रष्टृत्वादिपञ्चकं वक्तृत्वादिपञ्चकं सङ्कल्पयितृत्वं चात्मनः पुरुषस्य, दर्शनादिवृत्तौ करणत्व त्विन्द्रियाणामित्यर्थः। ननु द्रष्टृत्वश्रोतृत्वादिकं कदाचिदनुभवे पर्यवसानात् पुरुषस्याविकारिणोऽपि घटतां वक्तृतादिकं क्रियामात्रं तत्कथं कूटस्थस्य घटतामिति चेन्न अयस्कान्तवत् सान्निध्यमात्रेण दर्शनादिवृत्तिकर्तृत्वस्यैवात्र द्रष्टृत्वादिशब्दार्थत्वात्। यथा हि महाराजः स्वयमव्याप्रियमाणोऽपि सैन्येन करणेन योद्धा भवत्याज्ञामात्रेण प्रेरकत्वात् तथा कूटस्थारपि पुरुषश्चक्षुराद्यखिलकरणैर्दष्टा वक्ता सङ्कल्पयिता चत्येवमादिर्भवति संयोगाख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वादयस्कान्तमणिवदिति। कर्तृत्वं चात्र कारकचक्रप्रयोक्तृत्वं करणत्वं क्रियाहेतुव्यापारवत्त्वं तत्साधकतमत्वं वा कुठारादिवत्। यत् तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिध्यते तदनुकूलकृतिमत्त्वं तत्तत्क्रियावत्त्वं वा। तथा चोक्तम् “अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्। निरि- च्छत्वादकर्त्तासौ कर्त्ता सन्निधिमात्रतः” इति अतएव कारकचक्रप्रयोक्तृताशक्तेरात्मस्वरूपतया द्रष्टृत्ववक्तृत्वादिकमात्मनो नित्यमिति श्रूयते। “न द्रष्टुर्द्दृष्टेर्विपरिलोपो विद्यते न श्रोतुःश्रुतेर्विपरिलोपो विद्यत इत्यादिनेति”। ननु प्रमाणविभागे प्रत्यक्षादिवृत्तीनामेव करणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न अत्र दर्शनादिरूपासु चक्षुरादिद्वारकबुद्धिवृत्तिष्वेवेन्द्रियाणां करणत्ववचनात्। तत्र पुरुषनिष्ठे बोधाख्यफले वृत्तीनां करणत्वस्योक्तत्वादिति” प्र० भाष्यम्। सा० का० तत्त्वकौमुद्योस्तथैव व्यवस्थापितं यथा “तस्माच्च विषर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टृत्वमर्थिभावश्च “तत्र चेतनत्वेन अविषयत्वेन च साक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टा भवति नाचेतनः। साक्षी च दर्शितविषयो भवति यस्मै प्रदर्श्यते विषयः स साक्षी यथा हि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः एवं प्रकृतिरपि स्वचरितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी। न चाचेतनोविषयो वा शक्योविषयं दर्शयितुमिति चैतन्यादविषयत्वाच्च भवति साक्षी अतएव द्रष्टापि भवति” त० कौ० न्यायमते च दर्शनादिज्ञानाश्रयत्वादात्मनोद्रष्टृत्वं सुव्यक्तमिति भेदः।

द्रह = पु० ह्रद + पृषो०। अगाधजले ह्रदे हेमच०।

द्रह्यत् = त्रि० दृंह–शतृ वेदे निपा०। दृढीकुर्वति। “तृषत् सोमं पाहि दृह्यदिन्द्र!” ऋ० २। ११। १५ “दृह्यत् दृंहते रिदं रूपं दृढीकुर्वत्” भा०।

द्रा = स्वप्ने पलायने अदा० अक० अनिट्। द्राति अद्रासीत्। दद्रौ पलायनं बहुलायासेन गतिः तत्र सक०। “मतयोदस्म दद्रुः” ऋ० १। ६२। ११। द्रापयति “एष वै तं द्रापयति यं दिद्रापयिषति” शत० ब्रा० ९। १। १। २४। अप + अपसरणे “अप द्राह्यवीरहः” अथ० ६। १४। ३ “माप द्रान्त्वरातयः” ६। १२९। १ नि + मेध्यानाडीसंयोगरूपनिद्रायाम् अक०। “तदा निदद्रावुपपल्वलं खगः” नैष०। प्र + प्रकर्षेण पलायने प्रद्राणः

द्राक् = अव्य० द्रा–बा० कु। द्रुते शीघ्रे झटितीत्यर्थे अमरः “द्राक्पर्यस्तकपालसम्पुटमिलदित्यादि” वीरच० “धनस्य द्राग्वियुक्तता” कामन्द० “साक्षात्कृति कृतिषु निरस्तानन्दमिन्द्रादिषु दाक” नैष० ९ स०।

द्राक्ष = काङ्क्षायां भ्वा० पर० सक० सेट् इदित्। द्राङ्क्षति अद्राङ्क्षीत्। दद्राङ्क्ष दद्राङ्क्षतुः।

द्राक्षा = स्त्री द्राक्षि–अ बा० नलोपः। मृद्वीकायां गोस्तन्यां (किसमिस) अमरः। “द्राक्षा पक्वा सरा शीता चक्षुष्या वृंहिणी गुरुः। स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्रविट्। कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा। हन्ति तृष्णाज्वरश्वासवातवातास्रकामलान्। कृच्छ्रास्रपित्तसम्मोहदाहशोषमदात्ययान्। आमा साऽल्पगुणा गुर्वी सैवाम्ला रक्तपित्तकृत्। वृष्या स्याद् गोस्तनी द्राक्षा गुर्वी च कफपित्तहृत्। अवीजान्या स्वल्पतरा गोस्तनीसदृशी गुणैः। द्राक्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत्। द्राक्षा पर्वतजा यादृक् तादृशी करमर्दिका” इति भावप्र० तस्याः फलम् अण् हरीत० लुप्। तत्फलेऽपि स्त्री। “द्राक्षे! द्रक्ष्यन्ति के त्वाममृत! मृतमसि” गीतगो० “आस्तीर्णाजिनरत्नासु द्राक्षाबलयभूमिषु” रघुः “पुन्नागतालीबहुलं द्राक्षारसघनं क्वचित्” हरिवं० ११४ अ० अप्राणिषष्ठ्यन्तात् परस्य द्राक्षाशब्दस्य तत्पुरुषे चूर्णा० आद्युदात्तता। प्रस्थशब्दे परे मालादित्वात् पूर्वपदमाद्युदात्तम् द्राक्षाप्रस्थः। यवा० मतोर्मस्य न वः। द्राक्षामान्

द्राक्षाघृत = न० द्राक्षामिश्रणेन पक्वं घृतम्। “पुराणसर्पिषः प्रस्थो द्राक्षार्द्धप्रस्थसाधितः। कामलागुल्मपाण्ड्वर्त्तिज्वरमेहोदरापहः” चक्रदत्तोक्ते घृतभेदे

द्राख = शोषणे सक० अलमर्थे अक० भ्वा० पर० सेट्। द्राखति अद्राखीत्। ऋदित् णिचि चङि अदद्राखत् त। दद्राख अयं बधेऽपि।

द्राघ = आयासे शक्ता भ्रमे च भ्वा० पर० अक० सेट्। द्राघति अद्राघीत्। ऋदित् णिचि चङि अदद्राघत् त। दद्राघ केचित् अस्य इदित्त्वमपीच्छन्ति द्राङ्घति अद्राङ्घीत्।

द्राघि = नामधातुः दीर्घीकरणे दीर्घं करोति दीर्घ + कृतौ णिच्द्राघादेशः सक० उभ० सेट्। द्राघयति ते अदिद्राघत् त। “द्राघयन्ति हि मे शोकं स्मर्यमाणागुणास्तव” भट्टिः

द्राघिमन् = पु० दीर्घस्य भावः इमनिच् द्राघादेशः। दीर्घत्वे “वासांसि च दाघिमवन्त्युदूहुः” भट्टिः “वर्षिमा च मे द्राघिमा च मे” यजु० १८। ४

द्राघिष्ठ = त्रि० अतिशयेन दीर्घः इष्ठन् द्राघादेशः। अतिदीर्घे ईयसुन् द्राघीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।

द्राघिमन् = पु० द्राघिमन् + वेदे पृषो० इकारस्याकारः। दीर्घत्वे “दोघं द्राषम्ना सुरभि भूरस्मे” ऋ० १०। ७०। ४ तृतीया- स्थाने आच् अनोऽल्लोपे रूपसिद्धिः द्राघम्ना द्राघिम्ना इत्यर्थः।

द्राड = विभेदे भ्वा० आ० सक० सेट्। द्राडते अद्नाडिष्ट। दद्राडे

द्राण = त्रि० द्रा–कर्त्तरि क्त तस्य नः। १ सुप्ते २ पलायिते च। भावे क्त। ३ स्वप्ने पलायने च न० अमरः।

द्राप = पु० द्रा–णिच्–पुक् अच्। १ पङ्के २ आकाशे ३ कपर्दिनि ४ मूर्खे च शब्दकल्पतरुः।

द्रापि = त्रि० द्रापयति कुत्सितां गतिं प्रापयति पापिनम् द्रा–णिच् पुक् इन्। कुत्सितगतिप्रापके रुद्रे “द्रापे! अन्धसन्तते! दरिद्र! नीललोहित!” यजु० १६। ४७। २ कवचेच “विद्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम्” ऋ० १। २५। १३ “द्रापिं कवचम्” भा०

द्रामिल = पु० द्रमिलो देशोऽभिजनोऽस्य अण्। १ चाणक्ये हेमच० २ पित्रादिक्रमेण तद्देशवासिनि त्रि० बहुत्वे अणो लुक्। द्रमिलाः।

द्राव = पु० द्रु–गतौ स्रुतौ भावे घञ्। १ गतौ २ द्रवणे ३ अनुतापे च।

द्रावक = पु० द्रवति चन्द्रकरसम्पर्कात् द्रु–ण्वुल्। १ चन्द्रकान्तमणौ २ विदग्धे ३ मोषके च मेदि०। ४ षिड्गे जारे शब्दमाला। द्रावयति द्रु–णिच् ण्वुल्। ५ ट्रवकारके ६ हृदयग्राहिणि त्रि० धरणिः। ७ रसभेदे टङ्कने पु० शब्दमाला। ८ लालायां स्त्री टापि अत इत्त्वम् शब्दरत्ना० ९ प्लीहाद्यौषधभेदे पु०। ०१ सिक्थके न० राजनि०।

द्रावककन्द = पु० द्रावकः कन्दोऽस्य। तैलकन्दे राजनि०।

द्रावकर = न० द्रावं द्रवं करोति स्वर्णादिकं स्वसम्पर्केण कृ–ताच्छील्ये ट। श्वेतटङ्कने राजनि० अण्। द्रावकार द्रवकारके त्रि०।

द्रावण = न० द्रावयति जलमलं स्वसंयोगात् द्रु–णिच् युच्। १ कतकफले (निर्माल्य) रत्नमाला। २ पलायनकारके त्रि०। “त्रैलोक्यद्रावणं क्रूरं दुराचारं महाबलम्” (रावणम्) हरिवं० ४ अ०।

द्रावयित्नु = त्रि० द्रु–णिच्–इत्नुच् त्नुकरणेनैवेटिरूपसिद्धौ इत्नुच्करणं बा० अन्योभ्यापि इत्नुच् भवतीति ज्ञापितम्। द्रावणशीले “सूर्यस्येव रश्मयो द्रावयित्नवः” ऋ० ९। ६९। ६।

द्राविड = त्रि० द्रविडोदेशीऽभिजनोऽस्य अण्। पित्रादिक्रमेण द्रविडदेशवासिनि। बहुषु अणो लुक्। द्रविडाः क्वचिदार्षे न लुक्। “कर्णाटाश्चैव तैलङ्गा गुर्जरा राष्ट्रवासिनः। आन्ध्राश्च द्राविडाः पञ्च विन्ध्यदक्षिणवासिनः” स्कन्दपु०।

द्राविडक = न० द्रविडे भयः अण् संज्ञायां कन्। १ विड्लवणे (ज्जियतषष्ठी) ख्याते २ वेधमुख्यके पु० अमरः।

द्राविडभूतिक = पु० द्राविडी भूतिरुत्पत्तिर्यस्य कप्। विड्लवणे शब्दरत्ना०।

द्राविडी = स्त्री द्रविडे भवा अण् ङीप्। एलायां राजनि०।

द्राह = जागरे भ्वा० आत्म० अक० सेट्। द्राहते अद्राहिष्ट दद्राहे ऋदित् णिच् चङि अदद्राहत् त।

द्राह्यायण = पु० द्रहस्यर्षेर्गोत्रापत्यं युवा यङ्यूनि फक्। सामगानां कल्पसूत्रकारके ऋषिभेदे।

***