देवतामय = त्रि० देवतात्मकं देवता + मयट्। १ देवतात्मकेस्त्रियां ङीप। २ हिरण्यगर्भरूपे देवताभेदे च स्त्री ङीप् “या प्राणेन सम्भवत्यदितिर्देवतामयो। गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत” कठोप०। ४। ७। “या देवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद् ब्रह्मणः सम्भवति शब्दादीनामदनात् अदितिस्तां पूर्ववत् गुहां (सर्वपाणगुहां हृदयाकाशम्) प्रविश्य तिठन्तीमदितिम्। या भूतेभिर्भूतैः समन्विता व्यजायत उत्पन्नेत्यर्थ” भा०।

देवतायतन = न० ६ त०। देवगृहे “सीमासन्धिषु कार्य्याणि देवतायतनानि च” मनुः “रूपेणाग्र्येण सम्पन्नां (रुक्मिणी) देवतायतनान्तिके” हरिवं० ११७ अ० देवतालयादयोऽप्यत्र “उद्यानदेवतालयपितृवनवल्मीक मार्गचितिजाताः” वृ० सं० ४३ अ०

देव(वा)तिथि = पु० पुरुवंश्ये अक्रोधनपुत्रे नृपभेदे “अक्रोधनः खलु कालिङ्गीं करग्भां नामोपयेमे तस्यामस्य जज्ञे देव(वा)तिथिः” भा० आ० ९५ अ० “ततश्चाक्रोधनस्तस्मात् देव(वा)तिथिरमुष्य च” भाग० ९। २२। ९ देवातिथिरित्येव पाठः बहुषु पुस्तकेषु क्वचित् देवतिथि रिति पाठः।

देवत्रा = अव्य० देवाय देयं करोति सम्पद्यते वा “देये त्रा च” पा० क्रादियोगे त्रा। करणादिविषये देवाय १ देये २ तदधीने च। देवं बन्दे देवे रमे वा द्वितीयान्तात् सप्तम्यन्तात् वा देवशब्दात् त्रा। ३ वन्दनादिकर्मणि देवे ४ रमणविषये देवे च “देवत्रा यन्तमवसे” यजु० ६। २० “देवान् प्रति वन्तं गच्छन्तम्” वेददी० उक्ते ५ देवतां प्रतीत्यर्थे च “ता देवीर्देव त्रेयं यज्ञं नयत” यजु० ६। ३४ देवान् त्रायते त्रा–क। ६ देवरक्षके त्रि० “देव एव सविता श्रपयति वर्षिष्ठेऽधिनाक इति देवत्रो एतदाह” शत० ब्रा० १। २। २। १४

देवदण्ड = स्त्री देवात् मेघात् दण्डो यस्याः। नागबलायां राजनि०।

देवदत्त = पु० देवा एनं देयासुः संज्ञायां क्त। संज्ञाशब्दप्रतिपाद्ये १ नरभेदे “ब्राह्मणार्थो यथा नास्ति कश्चित् ब्राह्मण कम्बले। देवदत्तादयो वाक्ये तथैव स्युर्निरर्थकाः” हरिः ३ त०। २ देवेन दत्ते त्रि० “देवदत्तां पतिर्भार्य्या विन्दते नेच्छयात्मनः। तां साध्वीं विभृयान्नित्यम् देवानां प्रियमाचरन्” मनुः “मगोऽर्यमा सविता पुरन्ध्रिर्मही वोढुर्गार्हपत्याय देवाः” इत्यादि मन्त्रलिङ्गात् या देवदत्ता भार्य्या तां पतिर्लभते न तु स्वेच्छया तां सतीं देवानां प्रियं कुर्वन् विभृयात्” कुल्लू० ३ बुद्धानुजे पु० त्रिका० ४ अर्जुनशङ्खे शब्दार्थकल्पतरुः। “पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः” गीता। ५ देहस्थे जृम्भणकरे वायुभेदे “विजृ म्भणे देवदत्तः शुद्धस्फटिकसन्निभः” शारदातिलकटीकायां राघवभट्टधृतवाक्यम्। देवाय दत्तम्। ६ देवार्थोत्सृष्टे ग्रामादौ त्रि०।

देवदत्तक = पु० देवदत्तो मुख्य एषाम् “स एषां ग्रामणीः” पा० कन्। १ देवदत्तप्रधानकेषु ब० व० अनुकम्पितो देवदत्तः। बह्वचो मनुष्यनाम्नष्ठजुवा घनिलच्च” पा० ठच् घन् इलच् पक्षे कन्। २ अनुकम्पिते देवदत्ते “ठाजादावूर्द्धं द्वितीयादचः” पा० द्वितीयादचः परं सर्वं लुप्यते इति देविक देविथ देविल इति रूपत्रयं तत्रार्थे तेषामजादित्वात् कनस्तु तदभावात् न लोपः। “अजादौ च विभाषा लोपोवक्तव्यः” बा० देवक इत्यपि तत्रार्थे “लोपः पूर्वपदस्य च” बा० दत्तिक दत्तिल दत्तिय दत्तक इत्येतेऽपि तत्रार्थे।

देवदत्ताग्रज = पु० ६ त०। बुद्धे त्रिका०।

देवदर्श = त्रि० देवं पश्यति दृश–अण् उप० स०। १ देवतादर्शके देवं दृष्ट्वेत्यर्थे णमुल्। देवदर्शम् देवं दृष्ट्वेत्यर्थे अव्यय०

देवदर्शन = त्रि० देवं पश्यति दृश–ण्वुल्। १ देवदर्शके २ ऋषिभेदे पु० तेन प्रोक्तमघीयते शौनका० णिनि। दैवदर्शनिन् तत्- प्रोक्ताध्यायिषु ब० व० दृश–भावे ल्युट् ६ त०। ३ देवतानां दर्शने न०।

देवदानी = स्त्री देवानामिव दानं शुद्धिरस्याः दैप्–शोधे भावे ल्युट् गौरा० ङीष्। हस्तिघोषलतायां रत्नमा०।

देवदारु = न० देवानां दारु तत्प्रियं काष्ठं चन्दनमस्य। स्वनामख्याते वृक्षभेदे अमरः। अस्य पुंस्त्वमपि “अमुं पुरः पश्यसि देवदारुम्” रघुः “पारिजातान् कोविदारान् देवदारुद्रुमांस्तथा” भा० व० १५८ अ०। “वाढा मुहुः कम्पितदेवदारुः” कुमा० “देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च। विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित्। प्रमेहपीनसश्लेष्मश्वासकण्डूसमीरनुत्” भावप्र०।

देवदालिका = स्त्री देवदालीव कायति इवार्थे कन् केऽणो ह्रस्वः। महाकालवृक्षे राजनि०।

देवदाली = स्त्री देवेन मेघशब्देन दालोदलनमस्या गौरा० ङीष्। (घघरवेल) ख्याते लताभेदे “देवदाली रसे तिक्ता कफार्शःशोफपाण्डुताः। नाशयेद् वमनी तिक्ता क्षयहिक्काकृमिज्वरान्। शीता परा खरस्पर्शा विषघ्नी गरनाशनी” भावप्र०। देवदालीफलं तिक्तं कृमिश्लेष्म विनाशनम्। स्रंसनं गुल्मशूलघ्नमर्शोघ्नं बातजित् परम्। देवदालीदलं तक्रे स्वेदितं खण्डितं भृशम्। वेसवारयुते साज्ये भर्जितं हिङ्गुना दृढम्” तत्रैव।

देवदास = पु० ६ त०। देवानां दासे स्त्रियां ङीप्।

देवदासी = स्त्री देवमिन्द्रियं दास्नोति दास–बधे अण्। १ वनवीजपूरके राजनि०। देवाय क्रीडायै दासीव। २ वेश्यायाञ्च शब्दार्थकल्प०। ६ त०। ३ देवानां परिचारिकायाम्।

देवदीप = पु० देवार्थो दीपः। १ देवार्थे दीपे देवं दीप्तशीलमालोकसंयुक्तं दीपयति दीप–णिच्–अण् उप० स०। २ लोचने शब्दरत्ना०।

देवदुन्दुभि = पु० देवानां दुन्दुभिरिव हर्षप्रदत्वात्। १ रक्ततुलस्याम्। ६ त०। २ देवढक्कायाम् रत्नमा०। “देवदुन्दुभयो नेदुःर्ननृतुश्चाप्सरोगणाः” भूरिप्रयोगः।

देवदूती = स्त्री देवा इन्द्रियाणि दूयन्ते खिद्यन्तेऽनया दूक्तिच् ङीष्। वनवीजपूरके राजनि०।

देवदेव = पु० देवेषु मध्ये दीव्यति दिव–अच्। १ महादेवे “अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक” कुमा० २ व्रह्मणि च शब्दरत्ना० देवानां देवः स्वामी ३ विष्णौ। “द्रौपद्याः सङ्कटं ज्ञात्वा देवदेवी जगत्पतिः। पार्श्वस्थां रुक्मिणीं त्यक्त्वा केशवः शयने प्रभुः” भा० व० २६२ अ०।

देवदेवेश = पु० देवप्रकारः देवदेवः तस्येशः। महादेवे “यदि मे भगवान् प्रीतः सर्वलोकनमस्कृत!। स्वयं मां देवदेवेश! याजयस्व सुरेश्वर!” भा० आ० २२३ अ०।

देवदोल = पु० दैवैः द्रष्टव्यो दोलः। प्रातःकरणीये दोलोत्सवे दोलशब्दे दृश्यम्।

देवद्यम्न = पु० भरतवंश्ये देवाजितोऽपत्ये नृपभेदे “अथा सूर्यां तत्तनयो देवद्युम्नः” भाग० ५। १५। ३

देवद्रोणी = स्त्री ६ त०। १ देवयात्रायां हारा०। २ स्वयम्भूलिङ्गाद्यवस्थानगह्वरे च “देवद्रोण्यां विहारे च कूपेष्वायतनेषु च। एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते” संवर्तः। “देवद्रोणी स्वयम्भूलिङ्गाद्यवस्थानगह्वरम्” प्रा० त० रघु०।

देवद्र्यञ्च् = त्रि० देवमञ्चति पूजयति अन्च–क्विन् देवस्य टेः अद्र्यादेशः। १ देवपूजके अमरः। गत्यर्थाञ्चतेस्तु नलोपः। देवद्र्यच् देवगन्तरि। सर्वनामस्थाने परे उभयत्र देवद्र्यङ् देवद्र्यञ्चौ अन्यत्राजादौ देवद्रीचः देवद्र्यञ्च इत्यादिर्भेदः।

देवधन = न० देवार्थं धनम्। १ देवोद्देशेनोत्सृष्टे धने देवतानां चेतनत्वपक्षे २ देवस्वामिके धने च।

देवधानी = स्त्री देवा धीयन्तेऽस्याम् धा–आधारे ल्युट् ङीप्। इन्द्रपुर्य्यां “तस्मिन्नैन्द्री पूर्वस्मान्मेरोर्देवधानी नाम” भाग० ५। २१। १०

देवधान्य = न० देवानां योग्यं धान्यम्। (देधान) धान्यभेदे। हेमच०।

देवधूप = पु० देवानां प्रियो धूपः। गुग्गुलौ रत्नमा०।

देवन् = पु० दिव–बा० अनि। पत्त्युरनुजाते भ्रातरि हेम०।

देवन = पु० दीव्यत्यनेन दिव–करणे ल्युट्। १ पाशके। भावे ल्युट्। २ क्रीडायां ३ दीप्तौ ४ व्यवहारे ५ जिगीषायां ६ स्तुतौ च न०। दीव्यत्यत्र दिव–आधारे ल्युट्। ७ लीलोद्याने ८ पद्मे च।

देवनदी = स्त्री ६ त०। गङ्गायाम् अमरः। “असंवाधा देवनदी स्वर्गसम्पादिनी शुभा” भा० आदि० चैत्ररथपर्व। “इरावती वितस्ता च सिन्धुर्देवनदी तथा” भा० आ० ९ अ०। “स्नातुं गतान् देवनद्यां दुर्वासःप्रभृतीन् मुनीन्” भा० व० २६२ ण० २ देवखातनदीमात्रे च “सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्” मनुः।

देवनन्दिन् = पु० देवं शक्रं नन्दयति नन्दि–णिनि। इन्द्रद्वारपाले हेमच०।

देवनल = पु० देव इव श्रेष्ठत्वात् नलः। महानले स्थूलदण्डे नलभेदे राजनि०।

देवनामन् = पु० कुशद्वीपपतिहिरण्यरेतसः पुत्रभेदे कुशद्वीपशब्दे २१४५ पृ० दृश्यम्।

देवना = स्त्री चु० दिव–भावे युच्। १ क्रीडायां शब्दरत्ना०। २ विलापे च।

देवनामक = पु० देवेति नाम यस्य कप्। देवयोनौ विद्याधरादौ हेमचन्द्रे देवनारक इति पाठः नरएव नारा ततः स्वार्थे क देवरूपनरः। देवजन इति तस्यार्थः सोऽपि तत्रार्थे।

देवनाल = पु० नलएव नालः स्वार्थे अण् देव इव श्रेष्ठत्वात् नालः। नलोत्तमे राजनि०।

देवनिद् = त्रि० देवं निन्दति निन्द–क्विप् ६ त०। देवनिन्दके “देवनिदोऽप्रथमा अजुर्यन्” ऋ० १। १५२। २

देवनिर्मित = त्रि० ६ त०। १ देवै रचिते। “द्वीपेषु दिक्षु पूर्वादि नगर्य्यो देवनिर्मिताः” सू० सि०। २ गुडुच्याम् स्त्री शब्दार्थचि०।

देवपति = पु० ६ त०। इन्द्रे हेमच०।

देवपत्नी = स्त्री देवः पतिर्यस्याः। मपूर्वत्वात् वा नुक् ङीष् च। १ देवभार्य्यायाम्। “उत ग्रा व्यन्तु देवपत्नीः” ऋ० ५। ४६। ८ “देवपत्न्यो देवकन्या देवमातर एव च” भा० अनु० १४ अ० २ शब्दार्थचि० मध्वालुके।

देवपथ = पु० ६ त०। १ छायापथे आकाशस्थिते छायाकारे पथि देवपथ इव कन् तस्य देवपथादि० लुक्। २ तत्सदृशे च ३ देवमाने अर्चिरादिमार्गे च। देवयानशब्दे दृश्यम्। देवस्थानगमनार्थः पन्थाः। ४ देवस्थानगमनार्थे मार्गे च। स च अन्यैर्नरैर्गन्तुमशक्य इति हनुमता तस्य द्वारनिरोधः कृतः यथाह भा० व० १४८ अ०। “अयञ्च मार्गो मर्त्यानामगम्यः कुरुनन्दन!। ततोऽहं रुद्धबान् मार्गं तवेमं देवसेवितम्। धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत। दिव्यो देवपथोह्येष नात्र गच्छन्ति मानुषाः”।

देवपथादि = पु० “इवे प्रतिकृतौ” पा० कनो लुग् निमित्ते शब्द गणे सच गणः पा० ग० सू० उक्तो यथा

देवपथ हसपथ वारिपथ रथपथ स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धिगति उष्ट्रग्रीव वायरज्जु हस्त इन्द्रदण्ड पुष्प मत्स्य।

देवपर = त्रि० देवः परोऽस्य। यद्भविष्ये देवायत्तसिद्धिचिन्तके आपदुद्धारार्थं पौरुषचेष्टारहिते।

देवपर्ण = न० देवप्रियं पर्णमस्य। सुरपर्णे राजनि०।

देवपशु = पु० देवाय उत्सृष्टः पशुः। देवोद्देशेन उत्सृष्टे पशौ। “अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा। सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत्” मनुः। भिन्नत्वेन २ देवोपासके च। “अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मि न स वेद यथा पशुरेव स देवानाम्” इति श्रुतौ तस्य देवोपकरणतुल्यतया पशुत्वप्रतिपादनात्तथात्वम्।

देवपात्र = न० ६ त०। देवैः पीयतेऽत्र पा–आधारे ष्ट्रन्। अग्नौ “आस्पात्रं जूहुर्देवानामिति देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति” शत० ब्रा० १। ४। २। १० “आस्यरूपं पात्रमास्पात्रम्। अग्नौ प्रक्षिप्तस्य हविषो देवैरद्यमानत्वादग्नेर्देवपात्रत्वम्” भा०

देवपान = पु० देवैः पीयतेऽनेन पा–करणे ल्युट्। चमसे सोमपानपात्रभेदे “चमसो देवपान इति चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति तस्मादाह चमसो देवपान इति” शत० ब्रा० १। ४। २। १४

देवपाल = पु० शाकद्वीपस्य वर्षपर्वतभेदे। शाकद्वीपोपक्रमे “एतस्य वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव। ईशानौरुशृङ्गो बलभद्रः शतकेसरः सहस्त्रस्रोता देवपालो महानसः” इतिभाग० ५। २०। १९

देवपालित = त्रि० देवेन गेघाम्बुना पालितः। १ देवमात्रके देशे २ सुररक्षिते च। देवाएनं पाल्यासुः आशिषि संज्ञायां क्त। ३ संज्ञाभेदे तत्र च “कारकाद्दत्तश्रुतयोराशिषि” पा० दत्तश्रुतयोरेवेति नियमात् न अन्तोदात्तता

देवपीयु = पु० देवान् पीयति हिनस्ति पीय–उन्। देवद्वेष्टरि असुरे। “अपेतोयस्तु गणयोऽशुम्नां देवपीयवः” यजु० ३५। १ “देवपीयवः देवद्विषः” वेददीपः

देवपुत्र = पु० ६ त०। १ देवकुमारे “देवपुत्रोपमौ वीरौ बालाविव हुताशनौ” हरिवं० ८४ अ० देवस्य पुत्रीव प्रियत्वात्। २ एलायां स्त्री जटाधरः। ६ त०। ३ देवकन्यायाञ्च स्त्री स्वार्थे क। देवपुत्रिका तत्रार्थे राजनि० स्त्री

देवपुर् = स्त्री ६ त० समासान्तविधेरनित्यत्वात् न अप्। अमरावत्याम् पुरशब्देन ६ त० स०। देवपुर तत्रार्थे न०।

देवपुरी = स्त्री पुरीशब्देन ६ त० स० अमरावत्याम्।

देवपूज्य = पु० ६ त०। सुराचार्ये वृहस्पतौ।

देवप्रतिकृति = स्त्री ६ त०। १ देवप्रतिमायाम् देवलानां जीबिकार्थे २ देवप्रतिमायाञ्च।

देवप्रतिमा = स्त्री ६ त०। देवमूर्त्तौ देवतामूर्त्तिशब्दे दृश्यम्।

देवप्रश्न = पु० देवानुद्दिश्य प्रश्नः। देवान् प्रति शुभाशुभविषयप्रश्ने उपश्रुतौ हेमच०। उपश्रुतिशब्दे दृश्यम्।

देवप्रस्थ = पु० सेनाविन्दुनृपपुरे। “स देवप्रस्थमासाद्य सेनाविन्दो पुरं प्रति” भा० स० २६ अ०

देवप्रिय = पु० ६ त०। १ पीतभृङ्गराजे २ वकवृक्षे च राजनि०। तत्पुष्पस्य देवप्रियत्वात् तथात्वम्।

देवबधू = पु० ६ त०। अप्सरःसु।

देवबला = स्त्री देवानामिव बलं यस्या ५ त०। १ सहदेव्यां २ त्रायमाणामाञ्च राजनि०

देवबलि = पु० देवार्थं बलिः वर्ण–इत् बल्यादेशः। देवार्थे उपहारे।

देवबाहु = पु० यदुवंश्ये हृदीकपुत्रभेदे “निमिस्तस्मात् स्वयं भोजो हृदीकस्तत्सुतो मतः। देवबाहुः शतधनुः कृतवर्मेति तत्सुताः” भाग० ९। २४। २६ ऋषिभेदे च “गार्ग्यैः पृथुस्तथैवाग्र्यो जान्यो वामन एव च। देववाहुर्यदुध्रश्च पर्जन्यश्चैव सोमजः” हरिबं० २६१ अ०।

देवब्रह्मन् = पु० देव इव ब्रह्मा। नारदे त्रिका०।

देवब्राह्मण = पु० देवपूजकः ब्राह्मणः। देवले देवोपजीवके उपजीविकाथं देवपूजके।

देवभवन = न० देवानां भवनमिव। १ अश्वत्थवृक्षे। ६ त०। २ स्वर्गे शब्दच०। ३ देवप्रतिमालये च।

देवभाग = पु० ६ त०। सू० सि० उक्ते लवणसमुद्रात् उत्तरस्थिते उत्तरगोलरूपे पदार्थे “ततः समन्तात् परिधिः क्रमेणायं महार्णवः। मेखलेव स्थितो धात्र्या देवासुरनिभागकृत्” सू० सि० “तेन समुद्रादुत्तरं भूगोलस्यार्द्धं जम्बूद्वीपं देवानां, समुद्राद्दक्षिणं समुद्रातिरिक्तं भूगोलस्यार्द्धं षड्द्वीपषट्समुद्रोभयात्मकं दैत्यानामिति सिद्धम् मेरुदण्डानुवद्धभूगोलमध्ये परिधिरूपो लवणसमुद्रोऽस्ति। उत्तरगोलार्द्धं दक्षिणभूगोलार्धान्तर्गत समुद्रस्य प्रान्तपरिधिस्पृष्टमिति मेखलाया कट्यधःस्थित त्वेन तात्पर्य्यार्थः” रङ्ग०। “मेषादौ देवभागस्थो देवानां याति दर्शनम्। देवभागे सुराणां च हेमन्ते मन्दतान्यथा। धनुर्मृगस्थः सविता देवभागे न दृश्यते। देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये। भूमण्डलात् पञ्चदशे भागे दैवेऽथ वाऽऽसुरे” सू० सि०। देवाय देयो भागः। देवार्थं देवे २ धनादिभागभेदे च।

देवभीति = स्त्री ५ त०। १ देवेभ्यो भवे। ६ त०। २ देवानां भवे च अत्र पूर्वपदप्रकृतिस्वरः।

देवभू = स्त्री ६ त०। १ स्वर्गे देवं देवत्वं भवते भू–प्राप्तौ क्विप्। २ देवत्वप्राप्तरिभावे क्विप्। तदेवत्वप्राप्तौ शब्दर०।

देवभूति = स्त्री देवेषु भूतिः प्राप्तिरस्याः। १ मन्दाकिन्याम् शब्दरत्ना०। ६ त०। २ देवानामैश्वर्ये च।

देवभूमि = स्त्री ६ त०। १ स्वर्गे। २ देवप्रियभूमौ च

देवभूय = न० भू–भावे क्यप् ६ त०। देवभावे देवत्वे अमरः।

देवभृत् = पु० देवं बिभर्ति पालयति भृ–क्विप्। १ इन्द्रे २ विष्णौ च “देवेशो देवभृद्गुरुः” विष्णुसं०। “देवभृत् शक्रस्तस्य गुरुः शास्तेति” भाष्यम् एकनाम। नामद्वयपक्षे तु भिन्नं पदम् देवभृद् गुरुः।

देवभ्राज् = पु० देवेषु भ्राजते भ्राज–क्विप्। सूर्यवंश्ये देवभेदे “पुरा विवस्वतः सर्वे मह्यस्तेषां तथावरः। देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः” भा० आ० १ अ०

देवमणि = पु० देव इव मणिः देवप्रियो वा मणिः देवेषु मणिरिव वा। १ सूर्ये २ कौस्तुभमणौ ३ अश्वरोमावर्तभेदे च मेदि०। “सम्पन्नदेवमणयो भृतरन्ध्रभागाः” माघः। “सम्पन्नाः समग्राः देवमणयो निगालावर्त्ताः कौस्तुभादि दिव्यमणयश्च येषान्ते “आवर्त्ती रोमजो देवमणिस्त्वेष निगालजः” मल्लिनाथधृतकोषः।

देवमत = त्रि० ६ त०। १ देवसम्मते। २ ऋषिभेदे पु० “अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादमृषेर्देवमतस्य च” भा० आश्व० २४ अ०।

देवमातृ = स्त्री ६ त०। १ सुराणां मातरि “देवकन्या देवपत्न्यो देवमातर एव च” भा० अनु० १४ अ०। २ अदित्यां च। ३ दाक्षायण्यां मत्स्यपु०।

देवमातृक = पु० देवः मेघवर्षः मातेव पालकत्वात् यस्य कप्। १ वर्षाम्बुसम्पन्नव्रीहिपालिते देशे अमरः। तदुपलक्षिते २ कृष्यादौ च “कच्चिद्राष्ट्रे तडागानि पूर्णानि च वृहन्ति च। भागशो विनिविष्टानि न कृषिर्देवमातृका” भा० स० ५ अ०।

देवमान = न० देवानां मानं कालपरिच्छेदभेदः। १ दिव्यमाने मानुषसौरवर्षात्मके एकस्मिन् दैवे दिने तत्त्रिंशन्मिते तदीये “मासे तद्रीत्या तेषां वर्षे च “संक्रान्त्र्या सौर उच्यते। मा सैर्द्वादभिर्वर्षं दिव्यं तदशहरुच्यते। सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्। तत् षष्टिषड्गुणा दिव्यं वर्षमासुरमेव च” सू० सि०। “ब्राह्म्यं दिव्यं तथा पित्र्यं प्राजापत्यं गुणस्तथा। सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नव” सू० सि० “द्वितीयं दिव्यं देवमानम्। तच्च पूर्वोक्तम्” रङ्गना०। देवेषु मानोऽस्य रमणीयत्वात्। २ देवयोग्ये गृहादौ च “वेश्म परिष्कृतं देवमानेव चित्रस” ऋ० १०। १०७। १० देवमानेव देवमानमिव रमणीयमिति भा० प्रथमास्थाने आकारादेशश्छान्दसः।

देवमानक = पु० देवेषु मानोऽस्य कप् संज्ञायां कन् वा। कौस्तुभमणौ देवमणौ शब्दरत्ना०।

देवमाया = स्त्री ६ त०। अविद्यायाम् बन्धहेतौ परमेश्वरमायायाम् “ते दुस्तरामतितरन्ति च देवमायाम्” भाग० २। ७। ४०

देवमार्ग = पु० देवोपलक्षितो मार्गः। अर्चिराद्यभिमानिदेवाधिष्ठिते देवयाने पथि। १ देवाधिष्ठितपथमात्रे च। “ते (वानरा) विकृष्टास्तु बाहुभ्यां देवमार्गं च दर्शिताः” रामा० सु० ६१। ४

देवमास = पु० दीव्यत्यत्र दिव–आधारे घञ् कर्म०। गर्भावधिके अष्टमे मासि त्रिका० तत्र हि स्मृतेरोजसश्च प्रादुर्भावात् गर्भस्य देवनावत्त्वात्तस्य तथात्वं यथाह याज्ञ०

“सप्तमे चाष्टमे मासि त्वङ्मासस्मृतिमानपि। पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति। अष्टमे मास्यतो गर्भोजातः प्राणैर्वियुज्यते” “अनेनौजःस्थितिरेव जीवन हेतुरिति दर्शयति तत्स्वरूपञ्च स्मृत्यन्तरे दर्शितम् “हृदि तिष्ठति यत् शुद्धमीषदुष्णं सपीतकम्। ओजः शरीरे संख्यातं तन्नाशान्नाश उच्यते” मिता० ६ त०। २ देवानां मासे सौरत्रिंशद्वर्षात्मके मासे च।

देवमित्र = पु० देवो मित्रमस्य। संज्ञाभेदयुक्ते मनुष्यादौ “संज्ञायां मित्रामित्रयोः” पा० बहु० अन्तोदात्तता। कुमारानुचरमातृभेदे स्त्री “कण्डूतिः कालिका चैव देवमित्रा च भारत!” भा० शल्य० ४७ अ० मातृगणोक्तौ

देवमीढ = पु० यदुवंश्ये नृपभेदे “यदोरभूदन्ववाये देवमीढ इति श्रुतः। यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः। शूरस्य शौरिर्नृवरो वसुदेवो महायशाः” भा० द्रो० १४४ अ०

देवमीढुष = पु० हृदीकस्य पुत्रभेदे “तस्यापि (हृदीकस्यापि) कृतवर्मशतधनुर्देवमीढुषाद्याः पुत्रा बभूवु” श्रीधरधृत पराशरः। २ देवमीढे वसुदेवपितामहे च “अश्मक्यां जनयामास शूरं वै देवमीढुषः। महिष्यां जज्ञिरे शूराद्भोज्याषां पुरुषा दश। वसुदेवो महाबाहुः पर्वमानक दुन्दुभिः” इत्यादि हरिवं० ३५ अ०। क्रोष्टुवंश्ये ३ नृपभेदे “गान्धारी चैव माद्री च क्रोष्टोर्भार्य्ये बभूवतुः। गान्धारी जनयामास अनासत्रं महाबलम्। माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढु- षम्। तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्द्धनः” हरिवं० ३५ अ०।

देवमुनि = पु० देव इव मुनिः। देवर्षौ नारदादौ। १ तुराख्ये ऋषौ च “एतेन वै तुरो देवमुनिः सर्वामृद्धिमार्ध्नोत्” पञ्चभीष्मव्रा० २५। १४

देवयज् = पु० देवा इज्यन्तेऽत्र यज–आधारे क्विप्। देवयजन योग्ये वह्निभेदे “अपाग्ने! अग्निमामादम् हि निष्क्रव्यादं सेध आ देवयजं वह” यजु० १। १७ “तत्र त्रयोऽग्नयः सन्ति। एकः आमात्। आममपक्वमत्तीत्यामाल्लौकिकोऽग्निः। द्वितीयः क्रव्यात् शवदाहे क्रव्यं मांसमत्तीति क्रव्यात् चिताग्निः। तृतीयो यागयोग्यः। तथाविधांस्त्रीनङ्गारान् गार्हपत्यात् प्राग्भागे पृथक् कृत्य तेषां मध्ये यागयोग्यताहीनौ द्वावग्नी आमात्क्रव्यात्संज्ञौ त्याजयितुं गार्हपत्यं प्रत्युच्यते” वेददी०

देवयजन = न० देवा इज्यन्तेऽत्र यज–आधारे ल्युट्। वेदिस्थाने “अपावरुं पृथिव्यै देवयजनाद् बध्यासम्” यजु० १। १५ २ पृथिव्यां स्त्री ङीप्। “पृथिवि! देव यजन्योषध्यास्ते मूलं मा हिंसिषम्” १। २४ हे देवयजनि हे पृथिवि इत्यर्थः। ३ यागाधिकरणस्थानमात्रे च “स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्रमसि न्यदधत तदेतच्चन्द्रमसि कृष्णं तस्मादाहुश्चन्द्रमस्यस्यै पृथिव्यै देवयजनमित्यपि ह वा अस्यै तस्मिन् देवयजन इष्टं भवति तस्माद्वै प्रतिमार्ष्टि” शत० व्रा० १। २। ५। १८ “वेदीमार्जनप्रशंसार्थमितिहासमाह। आ समन्तात् मृतं सर्वदा नश्वरमामृतं तद्विपरीतं यद्देवयागाधिकरणभूतं स्थानम्” भा० तत् स्थानं विशिनष्टि कात्या० श्रौ० २०। ४ १४ “नित्योदकं देवयजनं पुरस्तात्” सू० “पुरस्तात् प्राच्यां दिशि नित्यं सदा स्थाय्युदकं यत्र तद् देवयजनमध्यव सेयम्” कर्कः।

देवयजि = पु० देवं यजते यज–इन्। देवयाजके “अद्मो द्विजान् देवयजीन् निहन्मः” भट्टिः।

देवयज्ञ = पु० ६ त०। देवानां यज्ञे पञ्चयज्ञान्तर्गते होमरूपे गृहस्थनित्यकर्त्तव्येयज्ञभेदे। “अथातः पञ्च यज्ञाः” देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ” इति। “तद्यदग्नौ जुहोति स देवयज्ञो यद्वलिङ्करोति स भूतयज्ञो यत् पितृभ्यो ददाति स पितृयज्ञो यत् स्वाध्याय मधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुष्ययज्ञ इति” आश्वा० गृ० सू० ३। १, २, ३, “अध्यापनं व्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्। पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः। स गृहेऽपि वसन्नित्यं शूनादोषैर्न लिप्यते” मनुः। तत्र होमस्य देवता मनुनोक्ता यथा “आभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्वहम्। अग्नेः सोमंस्य चैवादौ तयोश्चैव समस्तयोः। विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च। कुह्वै चैवानुमत्यै च प्रजापतयएव च। सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः”। “तत्र च यज्ञशब्दो महच्छब्दश्च गौणः” इति कुल्लू०।

देवयज्य = स्त्री देवानां यज्यः यागः। “छन्दसि निष्टर्क्येत्यादि” नि० य। देवार्थयागक्रियायाम दर्शादिकायाम्। “दैव्याय कर्मणे शुन्धध्वम् देवयज्यायै” यजु०। १। १३। “देवयज्यायै देवसम्बन्धिन्यै यागक्रियायै दर्शादि कायै” वेददी०। “अश्याम ते समुतिं देवयज्यया” ऋ० १। ११४। ३ “वयं देवयज्यया देवयागेन तद्दैवत्येन यज्ञेनाश्याम” भा०।

देवयाजिन् = पु० देवं यजते यज–णिनि। आत्मभेदेन देवार्थयागकारके। “अथ ह स देवयाजी यो वेद देवानेवाहमिदं यजे देवान्त्सपर्यामीति स यथा श्रेयसे पापीयान् बलिं हरेद्वैश्यो वा राज्ञे वलिं हरेदेवं स ह न तावन्तं लोकं जयति यावन्तमितरः” शत० ब्रा० ११। २। ६। १४ आत्माभेदेन याज्यपेक्षया तस्य निकृष्टत्वमुक्तम् आत्मयाजी श्रेयान् देवयाजी इत्युपक्रम्य तथा वर्णनात्। २ कुमारसैन्यभेदे च “यज्ञबाहुः प्रबाहुश्च देवयाजी च सोमपाः” भा० शल्य० ७६ अ० तत्सैन्योक्तौ

देवयात = त्रि० देवं देवत्वं यातः। देवत्वप्राप्ते तस्य विषयो देशः राजन्या० वुञ्। दैवयातक तस्य विषये देशे। अत्र दैवयातव इति पाठान्तरं देवं देवत्वं याति या–तुन् देवयातुः स्वार्थे अण्। दैवयातव देवत्वप्राप्तरि ततः राजन्या० बुञ्। दैवयातवक तस्य विषये देशे।

देवयात्रा = स्त्री देवानां यात्रा। देवोत्सवादौ देवप्रतिमानां स्थानान्तरनयनरूपगतौ।

देवयात्रिन् = पु० दानवभेदे “सोमपो देवयात्री च प्रवरो वीर मर्द्दनः” हरिवं० २४० अ०।

देवयान = न० यायतेऽनेन या–करणे ल्युट् ६ त०। १ सुराणां गतिसाधने रथभेदे विमाने। देवो परेशः यायतेऽनेन मार्गेण या–करणे ल्युट्। २ अर्चिरादिमार्गरूपे पथिभेदे पु० अर्च्चिरादिमार्गशब्दे ३६४ पृ० दर्शितछान्दोग्य वाक्यम्। “स एनान् ब्रह्म गमयतीत्येष देवयानः पन्थाः देवपथो ब्रह्मपथ इत्यपि तत्र स्थानान्तरे पाठः। तत्र सन्निवेशाद्यधिष्ठातृदेवभेदादिकं शा० सू० भा० दर्शितं यथा “अर्चिरादिना तत्प्रथितेः” शा० सू०। “आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम्। सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते। नाडीरश्मिसम्बन्धेनैका “अथैतैरेव रश्मिभिरूर्द्ध्व आक्रमते, इति। अर्चिरादिकैका “तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः” इति। “स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति” इत्यन्या। “यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति” इत्यपरा। “सूर्यद्वारेण ते विरजाः प्रयान्ति” इति चापरा। तत्र संशयः किं परस्परं भिन्ना एताः सृतयः किं वैकैवानेकविशेषणेति। तत्र प्राप्तं तावद्भिन्ना एवैताः सृतय इति, भिन्नप्रकरणस्थितत्वाद्भिन्नोपासनशेषत्वाच्च। अपि च “अथैतैरेव रश्मिभिः” इत्यवधारणमर्चिराद्यपेक्षायामुपरुध्येत, त्वरावचनञ्च पीद्ध्येत “स यावत् क्षिप्येन्मनस्तावदादित्यङ्गच्छति” इति तस्मादन्योन्यभिन्ना एवैते पन्थान इत्येवं प्राप्तेऽभिदध्महे। अर्चि रादिनेति। सर्वो ब्रह्मप्रेप्सुरर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहे। कुतः? तत्प्रथितेः। प्रथितो ह्येष मार्गः सर्वेषां विदुषाम्। तथाहि पञ्चाग्निविद्याप्रकरणे “ये चामी अरण्ये श्रद्धां सत्यमुपासते” इति विद्यान्तरशीलिनामप्यर्चिरादिका सृतिः श्राव्यते। स्यादेतत् यासु विद्यासु न क्राचिद्गतिरुच्यते तास्वेवेयमर्चिरादिकोपतिष्ठताम् यासु त्वन्याऽन्या श्राव्यते तसु किमर्चिराद्याश्रयणम्? इति। अत्रोच्यते, भवेदेतदेवं यद्यत्यन्तभिन्ना एवैताः सृतयः स्युः, एकैव त्वेषा सृतिरनेकविशेषणा व्रह्मलोकप्रतिपादनी क्वचित् केनचि द्विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञानादितरेतरविशेषणविशेष्यभावोपपत्तेः। प्रकरणभेदेऽपि तु विद्यैकत्वे भवतीतरेतरविशेषणोपसंहारवद्गतिविशेषणानामप्युपसंहारः। विद्याभेदेऽपि गत्येकदेशप्रत्यभिज्ञानाद्गन्तव्याभेदाच्च गत्यभेद एव। तथाहि “ते तेषु व्रह्मलोकेषु पराः परावतो वसन्ति” “तस्मिन् वसति शाश्वतीः समाः” “सा या ब्रह्मणो जितिर्या व्यष्टिस्तां जितिं जयति तां व्यष्टिं व्यश्नुते” “तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्यणानुविन्दति” इति तत्र तत्र च तदेवैकं फलं व्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते। यत्त्वेतैरवेत्यवधारणमर्चिराद्याश्रयणे न स्यादिति। नैष दोषः, रश्मिप्राप्तिपरत्वादस्य। न ह्येक एवशब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्च व्यावर्तयितुम्। तस्माद्रश्मिसम्बन्ध एवायमवधार्यते इति द्रष्टव्यम्। त्वरावचनं त्वर्चिराद्यपेक्षायामपि क्षैप्रार्थत्वान्नोपरुध्यते यथा निमिषमात्रेणात्रागम्यत इति। अपि च “अथैतयोः पथोर्न कतरेण चेति” मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति। भूयांसि चार्चिरादिश्रुतौ मार्गपर्वाणि, अल्पीयांसि त्वन्यत्रं, भूयसाञ्चानुगुण्येनाल्पीयसाञ्च नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम्” भा०। “वायुमव्दादविशेषाविशेषाभ्याम्” सू०। “केन पुनः सन्निवेशविशेषेण गतिविशेषाणामितरेतरविशेषणविशेष्यभाव? इति तदेतत् सुहृद्भूत्वाऽऽचार्यो ग्रथयति “स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स व्रह्मलोकं इति कौषितकिनां देवयानः पन्थाः पठ्यते। तत्रार्चिरग्निलोकशब्दौ तावदेकार्थौ ज्वलनवचनत्वादिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्टव्यः, वायुस्त्वर्चिरादिवर्त्मन्यश्रुतः कतमस्मिन् स्थाने सन्निवेशयितव्य इति। उच्यते, “तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्य्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यम् इत्यत्र संवत्सरात् पराञ्चमादित्यादर्वाञ्चं वायुमभिसम्भवन्ति, कस्मात् अविशेषविशेषाभ्याम्। तथाहि “स वायुलोकम् इत्यत्राविशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यते “यदा वै पुरुषोऽस्मांल्लोकात् प्रैति स वायुमागच्छति तस्मै स यत्र विजिहीते यथा रथचक्रस्य खण्डेन स ऊर्द्ध्व आक्रमते स आदित्यमागच्छति” इति एतस्मादादित्याद्वायोः पूर्वत्वदर्शनाद्विशेषादव्दादित्यनयोरन्तराले वायुर्निवेशयितव्यः। कस्मात् पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते। नैषोऽस्ति विशेष इति। वदामः। ननूदाहृता श्रुतिः “स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलोकम् इति। उच्यते, केबलोऽत्र पाठः पौर्वापर्येणावस्थितो नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति। पदार्थोपदर्शनमात्रं ह्यत्र क्रियते “एतञ्चैतञ्च स गच्छति” इति उत्तरत्र पुनर्वायुप्रत्तेन रथचक्रमात्रेण छिद्रेणोर्द्ध्व आक्रम्यादित्यभागच्छतीत्यवगम्यते क्रमः तस्मात् सूक्तमविशेषविशेषाभ्यामिति। वाजसनेयिनस्तु “मासेभ्यो देवलोकं देवलोकादादित्यम्” इति समामनन्ति, तत्रादित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः। वायुमब्दादिति तु छान्दोग्यश्रुत्यपेक्षयोक्तम्। छान्दोग्यवाजसनेययोस्त्वेकत्र देवलोको न विद्यते परत्र संवत्सरः, तत्र श्रुतिद्वयप्रत्ययादुभावप्युभयत्र ग्रथितव्यौ, तत्रापि माससम्बन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम्” भा०। “तडितोऽधिवरुणः सम्बन्धात्” सू०। “आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्” इत्यस्यां विद्युत उपरिष्टात् वरुणलोकमित्ययं वरुणः सम्बध्यते। अस्ति हि सम्बन्धो विद्युद्वरुणयोः। “यदा हि विशाला विद्युतस्तीव्रस्तनितनिर्घोषाः जीमूतोदरेषु प्रनृत्यन्ति अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वा” इति च ब्राह्मणम्। अपाञ्चाधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिः। वरुणाच्चाधीन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्चागन्तुकत्वादपि वरुणादीनामन्त एव निवेशः। वैशेषिकस्थानाभावात् विद्युच्चान्त्याऽर्चिरादौ वर्त्मनि भा०। “आतिवाहिकास्तल्लिङ्गात्” सू०। इत्यादि सूत्रभाष्यन्तु आतिवाहिकशब्दे ६५२ पृ० दर्शितम् “कार्यं वादरिरस्य गत्युपपत्तेः” सू०। “स एनान् ब्रह्म गमयति” इत्यत्र विचिकित्स्यते, किं कार्यमपरं ब्रह्म गमयति आहोस्विन् परमेवाविकृतं मुख्यं व्रह्मेति। कुतः संशयः, ब्रह्मशब्दप्रयोगात् गतिश्रुतेश्च। तत्र कार्यमेव सगुणमपरं ब्रह्म नयत्ये तानमानवः पुरुष इति वादरिराचार्य्यो मन्यते। कुतः? अस्य गत्युपपत्तेः। अस्य हि कार्यव्रह्मणो गन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात्, न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वाऽवकल्पते सर्वगतत्वाद् प्रत्यगात्मत्वाच्च गन्तृणाम्” भा०। “विशेषितत्वाच्च” सू०। “ब्रह्मलोकान् गमयति” “ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति” इति श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरित्यवगम्यते। न हि बहुवचनेन विशेषणं परस्मिन् ब्रह्मण्यवकल्पते। कार्ये त्ववस्थाभेदोपपत्तेः सम्भवति बहुवचनम्। लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी, गौणी त्वन्यत्र “ब्रह्मैव लोक एष सम्राट्” इत्यादिषु। अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन् ब्रह्मणि नाञ्जसः स्यात्, तस्मात् कार्यविषयमेवेदं नयनम्” भा०। “ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते समस्तस्य हि जगतो जन्मादिकारणं ब्रह्मेति प्रतिष्ठापितमित्यत्रोच्यते”। “सामीप्यात्तु तद्व्यपदेशः” सृ०। “तुशब्द आशङ्काव्यावृत्त्यर्थः। परब्रह्मसामीप्यादपरस्य ब्रह्मणस्तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते। परमेव हि ब्रह्म विशुद्धीपाधिसम्बन्धात् क्वचित् कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिरुपासनायोपदिश्यमानमपरमिति स्थितिः। ननु कार्य्यप्राप्तावनावृत्तिश्रवणं न लभ्यते। न हि परस्मात् ब्रह्मणोऽन्यत्र क्वचित् नित्यता सम्भवति। दर्शयति च देवयानपथप्रस्थितानामनावृत्तिं “एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते” इति। “तेषामिह न पुनरावृत्तिरस्ति तयोर्द्ध्वमायन्नभृतत्वमेतीति” चेति। अत्र ब्रूमः” भा०। “कार्य्यात्यये तदध्यक्षेण महातः परमभिधानात्” सू०। “कार्यव्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तस्तदध्यक्षेण हिरण्यगर्भेण सहातः परं परिशुद्धं विष्णोः परं पदं प्रतिपद्यन्त इति। इत्थं क्रममुक्तिरनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या। न ह्यञ्जस्यैव गतिपूर्विका परप्राप्तिः सम्भवति इत्युपपादितम्” भा० “स्मृतेश्च” सू०। “स्मृतिरप्येतमर्थमनुजानाति ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” इति। तस्मात् कार्यब्रह्मविषया गतिः श्रूयत इति सिद्धान्तः” शा० भाष्यम्।

देवयानी = स्त्री शुक्राचार्यस्य कन्यायां सा हि कचशापात् क्षत्रियेन ययातिनोढा तत्कथा भा० आ० ७५। ७७ अ०। “देवयान्याश्च संयोगं ययातेर्नाहुषस्य च”। देवयानीञ्च दयितां सुतां तस्य महात्मनः। देवयान्यामजायेतां यदुस्तुर्वसुरेव च” ७५ अ०।

देवयावन् = त्रि० देवं याति या–वनिप्। देवं प्रति गन्तरि “द्रवद्दूतो देवयावा वनिष्ठः” ऋ० ७। १०। २

देवयितृ = त्रि० चु० दिव–परिदेवने तृच्। परिदेवके

देवयु = त्रि० देवं याति या–मृगय्वा० नि० कु। १ धार्मिके। देवं द्योतनस्वभावे विष्णुभावमात्मन इच्छति क्यच्–तत उन्। २ आत्मनो द्योतनस्वभावेच्छौ च “नरो यत्र देवयवोमदन्ति” ऋ० १। १४५। ५। ३ लोकयात्रिके मेदि० ४ देवे पु० देवं यौति यु–मिश्रणे क्विप् अनित्यमागमानुशासनमिति न तुक्। ४ यज्ञादिना देवानां मिश्रीकारके “सुधातुं यज्ञपतिं देवयुवम्” यजु० १। १२ छान्दस उवङ्।

देवयुग = पु० देवप्रियं युगम्। सत्ययुगे “पुरा देवयुगे ब्रह्मन् प्रजापतिसुते शुभे आस्तां भगिन्यौ “ते भार्य्ये कश्यपस्यास्तां कद्रूश्च विनता तथा” भा० आ० १६ अ०। “पुरा देवयुगे तात! देवेन्द्रेषु महात्मनः” भा० अनु० ८३ अ०।

देवयोनि = पु० देवानामिव कामिचारित्वात् योनिः यस्य। १ विद्याधरादौ ते च अमरोक्ता यथा “विद्याधरोऽप्सरो यक्षोरक्षोगन्धर्वकिन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः”। ३ देवजातौ स्त्री “द्वे बै योनी इति ब्रूयात् देवयोनिरन्यो मनुष्ययोनिरन्यः” शत० ब्रा० ७। ४। २। १०

देवयोषा = ६ त०। अप्सरस्सु। “मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्” भा० शल्य० ४७ अ०। “शुभे कुन्ती च माद्री च देवयोषोपमे भुवि” हरिवं० ५४ अ०

देवर = पु० दीव्यतेऽनेन दिव–करणे अरच्। भर्त्तुरनुजे भ्रातरि। “पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे” उद्भटः पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा “मनुः २ भर्तुर्भ्रातृ मात्रे च “देवराद्वा सपिण्डाद्वा स्त्रिया सम्यग्नियुक्तया” मनुः अत्र देवरशब्दः भर्तुः ज्येष्ठकनिष्ठोभयपरः। उत्तरत्र “विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि। गुरुवच्च स्नुषावच्च वर्त्तेयाताम् परस्परम्” कनिष्ठस्य पूर्वज पत्नीत्वेन गुरुतुल्यत्वस्य ज्येष्ठस्य च कनिष्ठपत्न्याः स्नुषातुल्यत्वस्योक्तेः। स्वार्थे क तत्रार्थे। “देवा देवरकोमतः” उज्ज्वलद० धृतकोषः।

देवरक्षित = त्रि० ६ त०। १ देवेन २ रक्षिते देवकनृपपुत्रभेदे पु० तत्कन्यायां स्त्री “देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः। देववानुपदेवश्च संदेवो देवरक्षितः। कुमार्यः सप्त चास्यासन् वसुदेवाय ता ददौ। देवकी शान्तिदेवी च सन्देवा देवरक्षिता। वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी” हरिवं० ३८ अ०

देवरथ = न० देवस्यादित्यस्य रथः। सूर्यरथे “द्वात्रिंशत वै देवरथाह्नन्यम्” शत० व्रा० १४। ६। ३। २ देव “आदित्यस्तस्य रथो देवरथः तस्य गत्या एकेनाह्ना यावद्देशपरिमाणं परिच्छिद्यते तदेकं देवरथाह्नन्यम् तद् द्वात्रिंशद्गुणितम् तावत् परिमाणोऽयं लोकः” भा० २ प्रवरान्तर्गतर्षिभेदे ततः फिञ्। दैवरथायनि तदपत्ये पुंस्त्री। ३ देवानां याने विमाने च

देवरहस्य = न० देवानामपि रहस्यम्। अतिगोप्ये “श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्” भा० आश्र० ३६ अ०

देवराज् = पु० देवेषु राजते राज–क्विप्। इन्द्रे “वृत्रं हत्वा देवराट् श्रेष्ठभाग् वै” भा० अनु० १ अ०

देवराज = पु० देवानां राजा–टच् समा०। सुरराजे इन्द्रे “यस्त्वासीद्देवको नाम देवराजसमद्युतिः” भा० आ० ६७ अ० “देवराजः सहानुजः” वृ० सं० ४० अ० “ततः कुलालादि० वुञ्। देवराजक तत्कृते त्रि०।

देवरात = पु० देवात्रनं रायासुः संज्ञायां क्त। १ विष्णुना देवेन रक्षिते परिक्षिते नृपे परिक्षितशब्दे तत्कथा दृश्या २ विश्वामित्रपुत्रभेदे “विश्वामित्रस्य च सुता देवरातादयः स्मृताः” हरिवं० २७ अ०। “पार्थिवा देवराताश्च शालङ्क्यायनवङ्कनम्” हरिवं २७ अ०। ३ द्वापरयुगोद्भवे राजभेदे च “चानूरुर्देवरातश्च भोजी भीमरथश्च यः” उपासते सभायां तु कुन्तीपुत्रं युधिष्ठिरम्” भा० सभा० ४ अ० उपसंहारे युधिष्ठिरसभासत्त्वेन तस्योक्तेः न तस्य परिक्षितादिरूपत्वम्। ततः काश्यादि० ठञ् ञिठ् च। दैवरातिक तदपत्यादौ त्रि०। ठञि स्त्रियां ङीप् इति भेदः।

देवर्षि = पु० देव इव ऋषिः देवानामपि ऋषि पूज्यत्वात्। १ नारदादौ न्यायादिकर्तरि कणादादौ च “देवर्षिरचितं गार्ग्य! कृष्णात्रेयचिकित्सितम्। न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः” भा० शा० २१० अ० “आब्रह्म भुवनात् लोका देवर्षिपितृमानवः। तृप्यन्तु पितरः सर्वे मातृमातामहादयः” तर्पणमन्त्रः।

देवल = पु० देव–वृषा० कलच्। १ धार्मिके २ देवद्रव्योपजीविनि व्राह्मणे च “चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा। विपणेन च जीवन्तोवर्ज्याः स्युर्हव्यकव्ययोः” मनुः “देवलः देवप्रतिमापरिचारकः वर्तनार्थत्वेनैतत्कर्मणोऽयं निषेधः न धर्मार्थं “देवकोषोपजीवी च नाम्ना देवलको भवेत्” देवलस्मरणात्, कुल्लू०। प्रत्यूषवसुपुत्रे ३ ऋषिभेदे “प्रत्यूषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम्” हरिवं० ३ अ०। आसतमुनेरपत्ये ४ ऋषिभेदे। स च रम्भाशापेनाष्टावक्रतया बभूव व्रह्मवै० पु० “असितपुत्रत्वात् तत्सहकारस्थले “असितो देवलो व्यासः” इत्यादौ तस्यैव बोधः। स च स्मृतिकर्त्ता यथाह हेमा० ब्र० ख० मनुः। “विष्णुः पराशरो दक्षः संवर्त्तव्यासहारिताः। शातातपो वसिष्ठश्च यमापस्तम्बगौतमाः। देवलः शङ्खलिखितौ भरद्वाजोशनोऽत्रयः। शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः”। ५ धौम्यर्षेरग्रजभ्रातरि च “यवीयान् देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे तं वृणीध्वं यदीच्छथ” भा० आ० १८३ अ० तस्य धौम्याग्रजतोक्ता। ६ नारदमुनौ त्रिका० ७ देवरे शब्दरत्ना०। देवं लाति ला–क। जीविकार्थं देवप्रतिमायाः ८ स्थानान्तरनायके च। स्वार्थे क। देवलक तत्रार्थे।

देवलता = स्त्री देवप्रिया लता शा० त०। १ नवमल्लिकायाम् शब्दच०। देवलस्य भावः तल्। २ देवलत्वे उपजीविकार्थं देवपूजने स्त्री।

देवलाङ्गुलिका = स्त्री देवयत्यनया चु० देव–परिदेवने करणे अच कर्म०। वृश्चिकालिकायां (विछाति) राजनि०।

देवलाति = स्त्री देवानां तत्प्रतिमानां लातिः ग्रहणम् ६ त०। देवप्रतिमाग्रहणे तस्य दासीभारादित्वात् तत्पुरुषे पूर्वपदप्रकृतिस्वरत्वम्।

देवलोक = पु० देवानां लोकः। १ स्वर्गे त्रिका०। “आचार्य्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः। अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः” मनुः। भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः। तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्तिताः” मत्स्यपु० उक्तेषु २ भूर्लोकादिषु च

देववक्त्र = न० देवानां वक्त्रं मुखमिव। वह्नौ तत्र हुतस्यैव देवैरदनात् तस्य तन्मुखत्वम्।

देववर्त्मन् = ६ त०। सुरवर्त्मनि आकाशे हेमच०।

देववर्द्धकि = पु० ६ त०। विश्वकर्मणि हेमच०।

देववर्द्धन = पु० देवकनृपपुत्रभेदे “चत्वारो देवकात्मजाः। देववानुपदेवश्च सुदेवो देववर्द्धनः” भाग० ९। २१। १२

देववल्लभ = त्रि० ६ त०। १ देवानामिष्टे २ सुरपुन्नागे पु० अमरः।

देववात = पु० देवैर्वातः वा–गतिगन्धयोः कर्मणि क्त ३ त०। देवैरिष्यमाणतया प्राप्ते ऋषिभेदे। “अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम्” ऋ० ३। २३। २।

देववायु = पु० द्वादशमनोः पुत्रभेदे “देववायुरहरश्च देवश्रेष्ठो विदूरथः। मित्राविन्मित्रदेवश्च मित्रसेनश्च मित्रकृत्। मित्रवाहः सुवर्चाश्च द्वादशस्य मनोः सुताः” हरिवं० ७ अ०।

देववाहन = पु० देवान् हवींषि वाहयति प्रापयति वहणिच्–ल्यु। १ वह्नौ “वृषो अग्निः समिध्यते अश्वो न देववाहनम्” ऋ० ३। २७ १४ ६ त०। २ देवानां वाहने न०।

देवविद्या = स्त्री देवज्ञानार्था विद्या। निरुक्तविद्यायाम् “नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणपञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवं निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्वेति” छा० उ० “ऋग्वेदं भगवोऽध्येमि स्मरामि। यद्वेत्थेति विज्ञानस्य स्पृष्टत्वात्तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थवेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणं पञ्चमं येषां वेदानां तत् पञ्चमानां वेदानां वेदं व्याकरणमित्यर्थः व्याकरणेन हि पदादिविभागश ऋग्वेदादयोज्ञायन्ते पित्र्यं श्राद्धकल्पम्। राशिर्गणितं दैवमुत्पातज्ञानं निधिं महाकालादिनिधिशास्त्रम्। वाको वाक्यं तर्कशास्त्रम्। एकायनं नीतिशास्त्रं देवविद्यां निरुक्तं, ब्रह्मण ऋग्यजुः सामाख्यस्य विद्या ब्रह्मविद्या शिक्षाकल्पछन्दश्चितयस्ताः। भूतविद्यां भूततन्त्रम्। क्षत्रविद्यां धनुर्वेदम्। नक्षत्रविद्यां। ज्योतिषं सर्पविद्यां गारुडम्। देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यशिल्पादि विज्ञानानि। एतत् सर्वं हे भगवोऽध्येमि” भा०

देवविश् = स्त्री ब० व० देवानां विशः। देवमनुष्येषु मरुत्सु। “मारुतस्तु सप्तकपालो विशो वै मरुतो देवविशस्ता हेदमनिषेद्ध्रा इव चेरुस्ताः प्रजापतिं यजमानमुपेत्योचुर्विवैते मथिष्यामह इमाः प्रजा या एतेन हविषा स्रक्ष्यसे” शत० ब्रा० २। ५। १। १२। अजादि वा टाप्

देववी = त्रि० देवं वेति कामयते वी–कान्त्यादिषु क्विप्। देवकामे। “स वह्निः सोम! जागृविः पवस्व देववीरति” ऋ० ९। ३६। २।

देववीति = स्त्री वी–खादने क्तिन् ६ त०। देवानां भक्षणे। “देववीतये त्वा गृह्णामि” यजु० १। १५। देवानां भक्षणायेत्यर्थः।

देववृक्ष = पु० देवप्रियो वृक्षः शाक०। १ मन्दारवृक्षे २ गुग्गुलौ ३ सप्तपर्णवृक्षे च मेदि०।

देववृत्ति = स्त्री देवकृता उणादिसूत्रस्य वृत्तिः। उणादिसूत्रवृत्तिभेदे ३। ९८। १०१ सू० उज्ज्वलदत्तीये दृश्यम्।

देवव्यचस् = त्रि० वि + अन्च गतौ कसुन् ३ त०। देवैर्व्याप्ते “स्तृणीमहि देवव्यचा विबर्हिः” ऋ ३। ४। ४।

देवव्रत = पु० १ भीष्मे त्रिका० “गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः। स तु भीष्म इति ख्यातः कौरवाणां पितामहः” हरिवं० ३ अ०। २ अधिपते इत्यस्यामृचि गेये सामभेदे च तानि तदादीनि त्रीणि सामानि। ६ त०। ३ देवत्वसाधने व्रते न०।

देवव्रतिन् = त्रि० देवतार्थं व्रतमस्त्यस्य इनि। देवार्थव्रतयुक्ते “देवव्रती स्यादृषभप्रदाने” भा० आनु० ७१ अ०।

देवशत्रु = पु० ६ त०। १ देवारौ असुरे “स देवशत्रूनिव देवराजः” भा० द्रो० १४६ अ०। २ सुश्रुतोक्ते देवगणग्रहभेदे तदाविष्टनरलक्षणं तत्रोक्तं यथा “संस्वेदी द्विज गुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः। सन्तुष्टो भवति च न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः”।

देवशर्म्मन् = पु० देव इव शर्मा अशुभनाशकः, कर्म० वा। १ ब्राह्मणस्योपनामनि “ततश्च नाम कुर्वीत पितैव दशमेऽहनि। देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्” बिष्णुपु०। “नरमाचष्टे नराख्यं नरनाम। देवपूर्वं देवात् पूर्वं तच्च विशिष्टं शर्मयुतं तच्चान्ते” शृणाति हिनस्त्यशुभ शॄ–मनिन् शर्मा। देवपदं हि विप्राणां नाममात्रसम्बद्धम्” शु० त०। “शर्मा देवश्च विप्रस्य शर्मा त्राता च भूभुजः। भृतिर्दत्तश्चवैश्यस्य दासः शूद्रस्य कारयेत्” यमवचने शर्म्मदेवयोः क्रमेण निर्देशेऽपि “शर्म्मान्तं व्राह्मणस्य स्यात् वर्म्मान्तं क्षत्रियस्य तु” शातातपोक्तेः शर्म्मान्ततैव नामनि ज्ञेया अतएव तर्पणप्रयोगे “अमुकगोत्रः पिता अमुकदेवशर्मा तृप्यतामेतत्तिलोदकं तस्मै स्वधेति” आ० त०। “शर्म्मन्नर्घादिके कार्य्ये शर्म्मा तर्पणकर्मणि” गोभिलेन च शर्मान्तता उक्ता। २ ऋषिभेदे “देवशर्म्मा च धौम्यश्च हस्तिकाश्यप एव च” भा० अनु० १६५।

देवशस् = अव्य० देव + बा० शस्। देवेष्वेत्यर्थे “त्वचि प्रति तान् देवशो विहि” ऋ० ३। १। ५।

देवशिल्पिन् = पु० ६ त०। विश्वकर्म्मणि।

देवशुनी = स्त्री देव इव प्रभावान्विता शुनी। देवतुल्यप्रभावान्वितायां शुन्यां सरमायाम्। “पणिभिरसुरैर्निगूढागा अन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मित्रीयन्तः प्रोचुरिति” ऋ० १। ६। ५ भा० धृता श्रुतिः “तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्त्ता तत्सत्रमुपाग- च्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घं सत्रमुपास्ते। स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किञ्चिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति। न किञ्चिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टन्त्वां भयमागमिष्यतीति” भा० आ० ३ अ०।

देवशेखर = पु० दीव्यतीति देवः शेखरोऽस्य। १ दमनकवृक्षे ६ त०। २ देवानां शेखरे पु० न०।

देवश्रवस् = पु० १ विश्वामित्रपुत्रभेदे “देवश्रवाः कतश्चैव यस्मात्कात्यायनाः स्मृताः” हरिवं० २० अ० विश्वामित्र पुत्रकथने। २ वसुदेवभ्रातरि “वसुदेवं देवभागं देवश्रवसमानकम्। सृञ्जयं श्यामकं कङ्कं समीकं वत्सकं वृकम्” भाग० ९। २४। १७। “कंसवत्यां देवश्रवंसः सुवीर इषुमांस्तथा” २३ श्लो०

देवश्री = पु० देवान् श्रयति हविर्दानेन सेवते श्री–क्विप्। यज्ञे “दैव्याय धर्त्रे जोष्ट्रे देवश्रीः” यजु० १७। ५६। ६ त०। २ देवानां लक्ष्म्यां स्त्री।

देवश्रुत् = त्रि० देवेषु श्रूयते श्रु–क्विप् तुक्। देवेषु विख्याते। “देवश्रुतौ देवेष्वाथोषतम्” यजु० ५। १७ “निग्राभ्या स्थ देवश्रुतस्तर्पयत मा” यजु० ६। ३०

देवश्रुत = पु० देवेषु श्रुतः विख्यातः। १ ईश्वरे २ नारदे ३ शास्त्रे च शब्दार्थकल्प०। ४ जिनभेदे हेमच०। “स्वयंप्रभश्च सर्वानुभूतिदेवश्रुतौ च यौ”। अवसर्पिण्यां जिनोक्तौ।

देवश्रेणी = स्त्री देवानां श्रेणीव। १ मूर्वालतायां राजनि० ६ त०। २ देवतापङ्क्तौ च।

देवश्रेष्ठ = पु० द्वादशमनोः पुत्रभेदे। “देववायुरहरश्च देवश्रेष्ठो विदूरथः” हरिवं० ७ अ०। तत्सुतोक्तौ।

देवसदन = त्रि० सीदत्यत्र सद–आधारे ल्युट्। देवानामाधारे। “बहिर्देवसदनम्” श्रुतिः। “अश्वत्थो देवसदनस्तृतीयस्यामृतो दिवि” अथ० ५। ४। ३।

देवसभा = स्त्री ६ त०। १ देवानां सभायां सुधर्म्मायाम् अमरः। २ राजसभायाञ्च।

देवसभ्य = त्रि० देवनं देवः क्रीडा तस्य सभा तत्र सीदति यत्। क्रीडार्थसभागते सभिके त्रिका०।

देवसर्षप = पु० दीव्यति द्योतते दिव–अच् नित्यक०। अश्वाक्षे रक्तमूलके सूक्ष्मपत्रे वृक्षभेदे राजनि०।

देवसह = न० देवं सहते सह–अच्। १ भिक्षासूत्रभेदे २ दण्डोत्पलोषधौ स्त्री विश्वः। ३ सोमाकरे पर्वतभेदे पु० “हिमवत्यर्बुदे सह्ये महेन्द्रमलये तथा। श्रीपर्वते देव गिरौ गिरौ देवसहे तथा। पारिपात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा। उत्तरेण वितस्तायाः प्रवृद्धाये महीधराः। यश्च तेषामधोमध्ये सिन्धुर्नाम महानदः। हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः” सुश्रुतः।

देवसात् = अव्य० देवाधीनं करोति कात्र्स्न्येन सम्पद्यते क्रादियोगे, देये वा देव + साति। १ कात्र्स्न्येन देवाधीने सम्पन्ने २ देवाय देये च। “हता वा देवसात् भूत्वा लोकान् प्राप्स्यथ पुष्कलान्” भा० द्रो० १९० अ०

देवसायुज्य = न० युज–सम्प० भावे क्विप् युक् योगः तया सह वर्त्तते सहशब्दस्य सादेशे सयुक् तस्य भावः ष्यञ् ६ त०। देवत्वे अमरः।

देव(वेद)सावर्णि = पु० मनुभेदे स च त्रयोदशो मनुः। यथा “मनुस्त्रयोदशो भव्यो वेद (देव) सावर्णिरात्मवान्। चित्रसेनविचित्राद्या वेद (देव) सावर्णि देहजाः। सुकर्मसूत्रामसंज्ञा देवा इन्द्रो दिवस्पतिः। निर्मोहतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा। देवहोत्रस्य तनय उपहर्ता दिवस्पतेः। योगेश्वरो हरेरंशो वृहत्यां संभविष्यति” भाग० ८। १३। १४

देवसुन्द = पु० सोमाकारह्रदभेदे सुश्रुतः देवसहशब्दे दृश्यम्।

देवसुषि = पु० देवैः प्राणादित्यादिभिः रक्ष्यमाणः सुषिः द्वारम्। प्राणादित्यादिभिः रक्ष्यमाणे हृदयस्य द्वारभेदे। स च पञ्चसंख्याकः छा० उ० न्यरूपि यथा “तस्य ह वा हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद” “अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी भवति य एवं वेद” “अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमग्नाद्यमित्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद” “अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यः तदेतत्कीर्त्तिश्च व्युष्टिश्चेत्युपासीत कीर्त्तिमान् व्युष्टिमान् भवति य एवं वेद” “अथ योऽस्योर्द्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीत ओजस्वी माहस्वान् भवति य एवं वेद” “ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेव पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोलस्य द्वार पान् वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्ग लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद” “तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते। तस्येति प्रकृतस्य हृदयस्येत्यर्थः। एतस्यानन्तरनिर्दिष्टस्य। पञ्च पञ्चसंख्याका देवानां सुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैः प्राणादित्यादिभीरक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्गलोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः हृत्स्थस्तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः। तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैवादित्यः “आदित्यो ह वै बाह्यप्राण इति श्रुतेः” “चक्षूरूपप्रतिष्ठाक्रमेण हृदि स्थितः। “स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीत्यादि” वाजसनेयके। प्राणवायुदेवतैव ह्येका चक्षुरादित्यश्च सहाश्रयेण। वक्ष्यति च “प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति”। तदेतत्प्राणाख्यं स्वर्गलोकद्वारत्वाद्ब्रह्म” “स्वर्गलोकं प्रतिपित्सुस्तेजस्व्येतच्चक्षुरादित्यस्वरूपेणान्नादत्वाच्च सवितुस्तेजीऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत। ततस्तेजस्व्यन्नादश्चामयावित्वरहितो भवति य एवं वेद तस्यैतद्गुणफलम्। उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यञ्च फलम्” “अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्य्यवत्कर्म कुर्वन्विगृह्य वा प्राणापानौ नाना वाऽनितीति व्यानस्तत्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः” “श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्चेति” श्रुतेः। सहाश्रयं पूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्न हेतु त्वमतस्ताभ्यां श्रोत्रज्ञानान्नवतश्च यशः ख्यातिर्भव तीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासी तेत्यादि समानम्” “अथ योऽस्य प्रत्यङ्सुषिः पश्चिम स्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधोऽनिती त्यपानः सा तथा सा वाक्” “तत्सम्बन्धात्तथाग्निस्तदेतद् ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य। अन्नग्रसनहेतुत्वादपानस्यान्नाद्यत्वम्। समानमन्यत्। अथो योऽस्योदङ्सुषिरुदङ्गतः सुषिस्तत्स्थो वायुविशेषः सोऽशितपीते समं नयतीति समानः। तत्सम्बद्धं मनोऽन्तःकरणं स पर्जन्यो वृष्ट्यात्मको देवः, पर्जन्यनिमित्ताश्चापः” इति। “मनसा सृष्टा आपश्च वरुणश्चेति” श्रुतेस्तदेतत्कीर्त्तिश्च मनसो ज्ञानस्य कीर्तिहेतुत्वात्। आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम्। ततश्च कीर्त्तिसम्भवात्कीर्त्तिश्चेति। समानमन्यत्” “अथ योऽस्योर्द्ध्वः सुषिः स उदान आपादतलादारभ्योर्द्ध्वमुत्क्रमणादुत्कर्षाच्च कर्म कुर्वन्नित्युदानः स वायुस्तदाधारश्चाकाशस्तदेतत्। वाय्वाकाशयोरोजोहेतुत्वादोजो बलं महत्त्वाच्च महः इति। समानमन्यत्। ते वै एते यथोक्ताः पञ्च सुषिसम्बन्धात्पञ्च व्रह्मणो हार्दस्य पुरुषा राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्द्दस्य लोकस्य द्वारपालाः। एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्वहिर्मुखप्रवृत्तैर्व्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि। प्रत्यक्षं ह्येतदजितकरणतया वाह्यविषयासङ्गामृतप्ररूढत्वान्न हार्दब्रह्मणि मनस्तिष्ठति। तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति। अतः स य एतानेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान्वेदोपास्ते उपासनया वशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म। किञ्चास्य विदुषः कुले वीरः पुत्री जायते वीरपुरुषसेवनात्। तस्य चर्ण्णापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम्। ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्य्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम्” भाष्यम्।

देवसू = पु० सुवन्ति अनुजानन्ति सू–क्विप् देवाश्च ते सुवश्चेति कर्म०। अनुज्ञाकर्त्तृदेवभेदे। “स वै दीक्षते। स उपवसथेऽग्नीषोमीयं पशुमालभते तस्य वपया प्रचर्याग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति तदनुदेवसुवां हवींषि निरुप्यते” शत० व्रा० ५। ३। ३। १ “देवसुवां हवींषि विधित्सुस्तेषामग्नीषोमीयपशुपुरोडाशानन्तरभावित्वं वक्तुमाह उपवसथ इति उपवसथः सुत्यादिवसात् पूर्वमहः। तदनु देवसुवां हवींषि निर्वपति सुवन्त्यनुजानन्तीति सुवः देवाश्च ते सुवश्चेति देवसुवः तेषां देवसुवाम् “ओः सुपीति” पा० यण्णदेशः। प्रसवितृत्वं चैषा माम्नायते “देवसुवामेतानि हवींषि भवन्ति एतावन्तो वै देवानां सवाः त एवास्मै सवान् प्रयच्छन्ति त एनं सुवत इति” भा० तत्तत्कर्मणि आधिपत्यादिकरणायानुज्ञाकर्त्तारश्च सवित्रादयो वरुणान्ता अष्टौ देवा यथाह यजु० ९। ३९ “सविता त्वा सवानां सुवतामग्निर्गृहपतीनां सोमो वनस्पतीनाम्। वृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्योमित्रः सत्यो वरुणो धर्मपतीनाम्” “सविता सवानां प्रसबानामाज्ञानामाधिपत्ये हे यजमान! त्वा त्वां सुवतां प्रेरयतु सर्वेषामाज्ञादानेऽधिकारी भवेत्यर्थः। अग्निः गृहपतीनां गृहस्थानामाधिपत्ये त्वां सुवताम्। सोभो वनस्पतीनां वृक्षाणामाधिपत्ये त्वां सुवतां वृक्षाः सर्वे तवोपकारकाः भवन्त्वियर्था। वृहस्पतिर्वागर्थं त्वां सुवतां पाण्डित्याय प्रेरयतु यद्वा षष्ठ्यर्थे चतुर्थी वाच आधिपत्ये सुवताम्। इन्द्रोदेवो ज्यैष्ठाय ज्येष्ठभावाय त्वां सुवताम्। रुद्रः त्वां सुवताम्। मित्रो देव सत्यः सुपां सुलुगित्यादिना पा० चतुर्थ्याः सु आदेशः सत्याय सत्यवाक्याय सत्यं वदितुं त्वां सुवताम्। वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधिपत्ये त्वां सुवताम्। सवित्रादयोऽष्टौ देवसूहविषां देवास्त्वां नानाधिपत्यानि ददत्विति वाक्यार्थः” वेददी०।

देवसृष्ट = त्रि० ३ त०। देवेन सृष्टे “देवसृष्टो वा एषेष्टिर्यदाग्रयणेष्टिरनया” शत० ५। २। ३। ९ देवसृष्टा उ इति च्छेदः “देवसृष्टी वा एषेष्टिर्यत् सौत्रामाण्यनया” ५। ५। ४। १४ मदिरिकायां स्त्री हेमच०।

देवसेना = स्त्री ६ त०। १ सुराणां सैन्ये। “देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः” भा० व० २२२ अ०। २ प्रजापतेः कन्याभेदे सा च स्कन्दस्य भार्य्या षष्ठीति प्रथिता तत्कथा भा० व० २२३ अ० “अहं प्रजापतेः कन्या देवसेनेति विश्रुता। भगिनी मे दैत्यसेना सा पूर्वं केशिना हृता” “सदैवावां भगिन्यौ तु सखीभिः सह मानसम्। आगच्छावेह रत्यर्थमनुत्ताप्य प्रजापतिम्। नित्यञ्चावां प्रार्थयते हर्त्तुं केशी महासुरः। इच्छत्येनं दैत्यसेना न चाहं पाकशासन। सा हृताऽनेन भगवन्! मुक्ताहं त्वद्बलेन तु। त्वया देवेन्द्र! निर्द्दिष्टं पतिमिच्छामि दुर्जयम्” इन्द्र उवाच “मम मातृष्वसेया त्वं माता दाक्षायणी मम। आख्यातन्त्वहमिच्छामि स्वयमात्मबलं त्वया” कन्योवाच “अबलाऽहं महावाहो! पतिस्तु बलवान्मम। वरदानात् पितुर्भावी सुरासुरनमस्कृतः” इन्द्र उवाच “कीदृशन्तु बलं देवि! पत्युस्तव भविष्यति। एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते!” कन्योवाच “देवदानवयक्षाणां किन्नरोरगरक्षसाम्। जेता यो हृष्टदैत्यानां महावीर्य्यो महाबलः। यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति। स हि मे भविता भर्त्ता ब्रह्मण्यः कीर्तिवर्द्धनः” मार्कण्डेय उवाच “इन्द्रस्तस्य वचःश्रुत्वा दुःखितोऽचिन्तयद्भृशम्। अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते”। इत्युपक्रमे व्रह्मण उपदेशेन स्कन्दस्य तत्पतित्वावधारणे स्कन्दोत्पत्तिमुपवर्ण्योक्तं “सम्मार तां देवसेनां या सा तेन विमोक्षिता। अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्। इति चिन्त्यानयामास देवसेनामलङ्कृताम्। स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम!। अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा। तस्मात्त्वमस्या विधिवत् पाणिं मन्त्रपुरस्कृतम्। गृहाण दक्षिणं देव्या पाणिना पद्मवर्चसा। एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि। वृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च। एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः। षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम्। सिनीवालीं कुहूञ्चैव सद्वृत्तिमपराजिताम। यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया। तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी। श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपङ्कमी स्मृता। षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात् षष्ठी महातिथिः” भा० व० २२८ अ०।

देवसेनापति = पु० ६ त०। कार्त्तिकेये शब्दार्थ०। तस्य तत्पतित्वकथा देवसेनाशब्दे दृश्या “देवसेनापतिः स्कन्दो मातरो लोकमातरः” यजमानाभिषेकमन्त्रः।

देवस्थान = पु० देवानां स्थानमिव स्थानमस्य। ऋषिभेदे “द्वैपायनी नारदश्च देवलश्च महानृषिः। देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः” भा० शा० १ अ०। ६ त०। २ स्वर्गे न०।

देवस्यत्वक = पु० देवस्यत्वेति आद्यशब्दोऽस्त्यत्रानुवाके अध्याये वा गोषदा० वुन्। देवस्यत्वेत्याद्यप्रतीकयुक्ते अध्याये अनुवाके च।

देवस्व = न० ६ त०। देवप्रतिमार्थमुत्सृष्टे धने। “ब्रह्मस्वञ्च गुरोर्द्रव्यं देवस्वञ्च हरेत्तु यः। कन्यां ददाति शुल्केन स प्रेतो जायते मृतः” भा० पञ्चप्रेतोपाख्याने “देवस्वं व्राह्मणस्वं च लोभेनोपहिनस्ति यः” मनुः “यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः” मनूक्ते ३ यज्ञशीलधने च।

देवहविस् = न० ६ त०। पशौ “आपो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविः” यजु० ६। १०

देवहव्य = पु० देवाय हव्यं यस्य। ऋषिभेदे “संवर्त्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्” भा० स० ७ अ० शक्रसभ्योक्तौ।

देवहित = त्रि० ६ त०। १ देवानां हिते ३ त०। २ देवैः स्थापिते च “नाना हि वा देवहितं सदस्कृतम्” यजु० १९। ७

देवहू = स्त्री देवाह्वयन्तेऽत्र ह्वे–सम्प० भावे क्विप्, कर्त्तरि वा क्विप्। १ देवाह्वाने “देवहूर्यज आ च वक्षत्” यजु० १८। ६२। २ देवाह्वानकर्त्तरि त्रि० “यक्ष्मा हि देवहूतमा~ अश्वा~ अग्ने रथीरिव” ऋ० ८। ४। १। ४ ३ यज्ञार्थे व्रीहिपूर्णे शकटे च “पप्रितमं जुष्टतमं देवहूतमम्” यजु० १। ८ देवानामतिशयेनाह्वातृ यज्ञार्थं ब्रीहिपूर्णं शकटं दृष्ट्वा देवा आहूता इव शीघ्रमागच्छन्ति” वेददी०। ४ वामकर्णे “आपणो व्यवहारोऽत्र चित्रमन्धी बहूदनम्। पिवृहूर्दक्षिणः कर्णः उत्तरो देवहूः स्मृतः” भाग० ४। २९। १३। ५ ऋषिभेदे ततः गर्गा० यञ्। दैवहव्य तदपत्ये पुंस्त्री०

देवहूति = स्त्री स्वायम्भु वमनोर्मध्यमायां कन्यायाम् “यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट्। स्त्रीयासीत् शतरूपाख्या महिष्यस्य महात्मनः। तदा भिथुन धर्मेण प्रजा ह्येधांबभूविरे। स चापि शतरूपायां पञ्चापत्यान्यजीजनत्। प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत!। आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम!। आकूतिं रुचये प्रादात् कर्टमाय तु मध्यमाम्” भाग० ३। १२। ३८ सा च कपिलरूपस्य भगवतीमाता यथाह तत्रैव “जज्ञे च कर्दमगृहे द्विज! देवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे। ऊचे यमात्मशमलं गुणसङ्ग पङ्कमस्मिन् विधूय कपिलस्य गतिं प्रपेदे” भाग० २। ३। ४ तदुपदेशप्रकारश्च कपिलशब्दे भागवतवाक्योक्तः १६६३ पृष्ठादौ दर्शितः।

देवहूय = पु० देवा हूयन्तेऽसुरैः यत्र आधारे बा० क्यप्। १ देवासुरसंग्रामे “स्पर्द्धन्ते वा उ देवहूये” ऋ० ७। ८५। २। भावे क्यप्। २ देवानामाह्वाने न० “ते वा एत ऋतवः। देवाः पितरः समो हैव विद्वान्देवाः पितरः इति ह्वयत्याहास्य देवा देवहूयं गच्छन्त्या पितरः पितृहूयमवन्ति हैनं देवा देवहूयेऽवन्ति पितरः पितृहूये य एवं विद्वान् देवाः पितर इति ह्वयति” शत० ब्रा० २। १। ३। २ “ऋत्वादीनां देवपित्रात्मनां द्वेधा विभागमाह वसन्त इत्युपक्रम्य य एवमृतूनां देवत्वं पितृत्वं च विद्वांस्तानृतून् देवाः पितर इति ह्वयति व्यवहरेत् अस्याह्वातुः देवहूयं देवह्वानं प्रति देवा आगच्छन्ति आगताश्च ते स्वसम्बद्धे कर्मणि एनमवन्ति” भा०

देवहेडन = न० हेल–भावे ल्युट् ६ त० लस्य डः। देवानामवहेलनरूपे अपराधे “यद्देवा देवहेडनं देवासश्चकृमावयम्” यजु० २०। १४

देवहोत्र = पु० त्रयोदशे मन्वन्तरे योगेश्वररूपस्य हरेरंशस्य पितरि। त्रयोदशमनूपक्रमे “देवहोत्रस्य तनय उपहर्त्ता दिवस्पतेः। योगेश्वरो हरेरंशो वृहत्यां संभविष्यति” भाग० ८। १३। १४

देवह्रद = पु० श्रीपर्वतस्थे तीर्थभेदे “श्रीपर्वते महादेवो देव्या सह महाद्युतिः। न्यवसत् परमप्रीतो व्रह्मा च त्रिदशैः सह। तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः। अश्वमेधमवाप्नोति परां सिद्धिञ्च गच्छति” भा० व० ८५ अ०।

***