वाचस्पत्यम्
देवताप्रतिमा
links:
Menu अ–ह
Prev दृत–देवतान
Next देवताप्रतिष्ठा
देवताप्रतिमा
UpasanaYoga
.org

देवताप्रतिमा = स्त्री ६ त०। देवतानां प्रतिमूर्त्तौ तदङ्गमानभेदादिकं सामान्यविशेषतः वृ० स०५८ अ० उक्तं यथा “देवागारद्वारस्याष्टांशोनस्य यस्तृतीयोऽंशः। तत्पिण्डिका प्रमाणं प्रतिमा तद्द्विगुणपरिमाणा। स्वैरङ्गलप्रमाणैर्द्वा- दशविस्तीर्णमायतं च मुखम्। नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम्। नासाललाटचिबुकग्रीवाश्चतुरङ्गुलास्तथा कर्णौ। द्वे अङ्गुले च हनुके चिबुकं द्व्यङ्गुलं विस्तृतम्। अष्टाङ्गुलं ललाटं विस्ताराद् द्व्यङ्गुलात्परे शङ्खौ। चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलं पृथुलौ। कर्णोपान्तः कार्योऽर्द्धपञ्चमे भ्रूसमेन सूत्रेण। कर्णस्रोतः सुकुमारकं च नयनप्रबन्धसमम्। चतुरङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम्। अधरोऽङ्गुलप्रमाणस्तस्यार्धेनोत्तरोष्ठश्च। अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गुलायतं कार्यम्। विपुलं तु सार्द्धमङ्गुलं मध्यात्तत्त्र्यङ्गुलं व्यात्तम्। द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया। स्याद् द्व्यङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः। द्व्यङ्गुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा। दृक् तारापञ्चांशोनेत्रविकाशोऽङ्गुलं भवति। पर्य्यन्तात्पर्यन्तं दश भ्रुवोऽर्द्धाङ्गुलं भ्रुवोर्लेखा। भ्रूमध्यं द्व्यङ्गुलकं भ्रूर्दैर्घ्येणाङ्गुलचतुष्कम्। कार्या तु केशरेखा भ्रूबन्धसमाङ्गुलार्द्धविस्तीर्णा। नेत्रान्ते करवीरकमुपन्यसेदङ्गुलप्रमितम्। द्वात्रिंशत्परिणाहाच्चतुर्दशायामतोऽङ्गुलानि शिरः। द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिरदृश्याः। आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्नजित्प्रोक्तम्। ग्रीवा दशविस्तीर्णा परिणाहाद्विंशतिः सैका। कण्ठाद्द्वादश हृदयं हृदयान्नाभिश्च तत्प्रमाणेन। नाभीमध्यान्मेढ्रान्तरं च तत्तुल्यमेवोक्तम्। उरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे। जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ। द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायताङ्गुष्ठौ। पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा। अष्टांशाष्टांशोनाः शेषाङ्गुलयः क्रमेण कर्तव्याः। स चतुर्थभागमङ्गुलमुत्सेघोऽङ्गुष्ठकस्योक्तः। अङ्गुलस्य नखः कथितश्चतुर्थभागोनमङ्गुलं तज्ज्ञैः। शेषनखानामर्द्धाङ्गुलं क्रमात् किञ्चिदूनं वा। जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरः पञ्च। मध्ये तु सप्त विपुला परिणाहात्त्रिगुणिताः सप्त। अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः। विपुलौ चतुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः। कटिरष्टादशविपुला चत्वारिंशच्चतुर्युता परिधौ। अङ्गुलमेकं नामिर्वेधेन तथा प्रमाणेन। चत्वारिंशद् द्वियुता नामी मध्येन मध्यपरिणाहः। स्तनयोः षोडश चान्तरमूर्द्ध्वं कक्षे षडङ्गलिके। कार्यावष्टावंसौ द्वादश बाहू तथा प्रबाहू च। बाहूषड्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम्। षोडश बाहू मूले परिणाहाद्द्वादशाग्रहस्ते च। विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण। पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना। अनया तुल्या चानामिका कनिष्ठा तु पर्वोना। पर्वद्वयमङ्गुष्ठः शेषाङ्गुलयस्त्रिभिस्त्रिभिः कार्याः। नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन। देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या। प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति। दथरथतनयो रामोबलिश्च वैरोचनिः शतं विंशम्। द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः। कार्योऽष्टभुजी भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः। श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः। अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः। कुण्डलकिरीटधारी पीनगलोरःस्थलांसभुजः। खड्गगदाशरपाणिर्दक्षिणतः शान्तिदचतुर्थकरः। वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च। अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः। दक्षिणपार्श्वे ह्येवं वामे शङ्खश्च चक्रञ्च। द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शङ्खधरः। एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः। बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः। बिभ्रत् कुण्डलमेकं शङ्खेन्दुमृणालगौरवपुः। एकोनांशा कार्या देवी बलदेवकृष्णयोर्मध्ये। कटिसंस्थितवामकरा सरोजमितरेण चोद्वहती। कार्या चतुर्भुजा सा वामकराभ्यां सपुस्तकं कमलम्। द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च। वामेष्वष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम्। वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च। शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च। अनयोः स्त्रियौ च कार्ये स्वेटकनिस्त्रिंशधारिण्यौ। ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च। स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च। शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वञ्च। तिर्यग्ललाटसंस्थं तृतीयमपि लोचनं चिह्नम्। शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमप्यूर्द्ध्वम्। शूलं धनुः पिनाकं वामार्द्धे वा गिरिसुतार्धम्। पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च। पद्मासनोपविष्टः पितेव जगतो भवेद्बुद्धः। आजानुसम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च। दिग्वासास्तरुणो रूपवांश्च कार्योऽर्हतां देवः। नासाललाटजङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः। कुर्यादुदीच्यवेषं गूढं पादादुरो यावत्। बिभ्राणः स्वकररुहे पाणिभ्यां पङ्कजे मुकुटधारी। कुण्डलभूषितवदनः प्रलम्बहारो वियद्गवृतः। कमलोदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्रसन्नमुखः। रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः। सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा। क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणायाम्। नृपमयमत्यङ्गायां हीनाङ्गायामकल्यता कर्तुः। शातोदर्यां क्षुद्भयम् अर्थविनाशः कृशायां च। मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत्कर्तुः। वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः। अन्धत्वमूर्द्ध्वदृष्ट्या करोति चिन्तामधीमुखी दृष्टिः। सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तसमम्। लिङ्गस्य वृत्तपरिधिं दैर्घ्येणासूत्र्य तत् त्रिघा विभजेत्। मूले तच्चतुरस्रं मध्ये त्वष्टास्रि वृत्तमतः। चतुरस्रमवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे। दृश्योच्छ्रायेण समा समन्ततः पिण्डिका श्वम्रात्। कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशाय। यस्य क्षतं भवेन्मस्तके विनाशाय तल्लिङ्गम्। मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः। रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः। दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः। नरवाहनः कुवेरो वामः किरीटी वृहत्कुक्षिः। प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठार धारी स्यात्। एकविषाणो विभ्रन्मूलककन्दं सुनीलदलकन्दम्”।
देवभेदेन मूर्त्तिभेदलक्षणानि अग्निपु० १०४ अ० उक्तानि तत्राङ्गभेदमनानि यथा “भगवानुवाच। वासुदेवादिप्रतिमालक्षणं प्रवदामि ते। प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम्। संस्थाप्य पूज्य च बलिं दत्त्वाथो मध्यसूत्रकम्। शिलां शिल्पी तु नबधा विभज्य नवमेऽंशके। सूर्यभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते। द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते। भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत्। भागमेकं तथा जानौ ग्रीवायां भागमेव च। मुकुटं तालमात्रं स्यात्तालमात्रं तथा मुखम्। तालेनैकेन कण्ठन्तु तालेन हृदयं तथा। नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा। तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतम्। कार्य्यं सूत्रद्वयं पादे जङ्गामध्ये तथापरम्। जानौ सूत्रद्वयं कार्य्यमूरुमध्ये तथापरम्। मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरम्। मेखला बन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा। हृदये च तथा कार्य्यं कण्ठे सूत्रद्वयं तथा। ललाटे चापरं कार्य्यं मस्तके च तथापरम्। मुकुटोपरि कर्त्तव्यं सूत्रमेकं विचक्षणैः। सूत्राण्यूर्द्ध्वं प्रदेयानि सप्तैब कमलीद्भव!। कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत्। मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेशयेत्। ललाटं नासिका वक्त्रं कर्त्तव्यञ्चतुरङ्गुलम्। ग्रीवाकर्णौ तु कर्त्तव्यौ आयामाच्चतुरङ्गुलौ। द्व्यङ्गुले हनुके कार्य्ये विस्ताराच्चिवुकन्तथा। अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्त्तितम्। परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ। चतुरङ्गुलभाख्यातमन्तरं कर्णनेत्रयोः। द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे। भ्रूसमेन तु सूत्रेण कर्णस्रोतः प्रकीर्त्तितम्। विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम्। चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम्। गन्धपात्रं तथाबर्त्तं शष्कुलीं कल्पयेत्तथा। द्व्यङ्गुलेनाधरः कार्यस्तस्यार्द्ध्वेनोत्तराधरः। अर्द्धाङ्गुलं तथा नेत्रं वक्त्रन्तु चतुरङ्गुलम्। आयामेन तु वैपुल्यात् सार्द्धमङ्गुलमुच्यते। अव्यात्तमेवं स्याद्वक्तं व्यात्तं त्वङ्गुलमुच्यते। नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम्। उच्छ्रायो द्व्यङ्गुलं चाग्रे करवीरोपमा स्मृता। अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः। द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः। तारा नेत्रत्रिभागेण दृक् तारापञ्चमांशिका। त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता। तत्प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते। भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गलम्। षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम्। मूर्त्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत्। पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः। त्रिगुणं तु भवेदूर्द्ध्वंविस्तृताष्टाङ्गुलं पुनः। ग्रीवात्रिगुणमायामं ग्रीवाबाह्वन्तरं भवेत्। स्कन्घावष्टाङ्गुलौ कार्यौ त्रिकलावंसकौ शुभौ। सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ। त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ। बाहुदण्डोर्द्ध्वतो ज्ञेयः परिणाहः कला नव। सप्तदशाङ्गुलो मध्ये कूर्परीर्द्धे च षोडश। कूर्परस्य भवेन्नाहः त्रिगुणः कमलोद्भव!। नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते। अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते। विस्तारेण करतलं कीर्त्तितं तु षडङ्गुलम्। दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता। तर्ज- न्यनामिका चैव तस्मादर्द्धाङ्गुलं विना। कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ। द्विपर्वाङ्गुष्ठकः कार्यः शेषाङ्गुल्यस्त्रिपर्विकाः। सर्वासां पर्वणोऽर्द्धेन नखमानं विधीयते। वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः। अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः। ततो मेत्रान्तरं कार्यं तालमात्रं प्रमाणतः। नाभिमध्ये परीणाहो द्विचत्वारिशदङ्गुलैः। अन्तरं स्तनयोः कार्य्यं तालमात्रं प्रमाणतः। चिवुकौ यवमानौ तु मङ्गलं द्विपदं भवेत्। चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम्। चतुर्मुखञ्च तदधीवेष्टनं परिकीर्त्तितम्। परिणाहस्तथा कट्यां चतुःपञ्चाशदङ्गुलैः। विस्तारश्चीरुमूले तु प्रोच्यते द्वादशाङ्गुलः। तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात्। विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः। जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः। त्रिगुणः परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरम्। त्रिगुणः परिधिश्चास्य पादौ तालप्रमाणकौ। आयामादुत्थितौ पादौ चतुरङ्गुलमेव च। गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गुलम्। त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः। पञ्चाङ्गु लस्तु नाहोऽस्य दीर्घा तद्वत् प्रदेशिनी। अष्टमाष्टांशतोन्यूनाः शेषाङ्गुल्यः क्रमेण तु। सपादाङ्गुलमुत्सेधमङ्गुष्ठस्य प्रकीर्त्तितम्। यबोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा। अर्द्धाङ्गुलं तथान्यासां क्रमान् न्यूनं तु कारयेत्। त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम्। परिणाहोऽत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम्। षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ। प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम्। अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम्”।
वासुदेवस्य “दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च। वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणम्। श्रीपुष्टी चापि कर्त्तव्ये पद्मवीणाकरान्विते। ऊरुमात्रोच्छितायामे मालाविद्याधरौ तथा। प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणौ। पद्माभं पादपीठन्तु प्रतिमास्ववमाचरेत्”। मत्स्यादिलक्षणानि तत्र ४९ अ० उक्तानि यथा
भगवानुवाच “दशावतारं मत्स्यादिलक्षणं प्रबदामि ते। मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत्। नराङ्गो वाथ कर्त्तव्यो भूथराहो गदादिभृत्। दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा। श्रीर्वामकूर्प्परस्था तु क्ष्नानन्तौ चरणानुगौ। वराहस्थापनादूज्यं भवाब्धितरणं भवेत्। नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः। तद्वक्षोदारयन्माली स्फुरच्चक्रगदाधरः। छत्री दण्डी वामनः स्यादथ वा स्याच्चतुर्भुजः। रामश्चापेषुहस्तः स्यात् खड्गी परशुनान्वितः। रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः। गदालाङ्गलधारी च रामो वाथ चतुर्भुजः। वामीर्द्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम्। मुषलं दक्षिणोर्द्ध्वे तु चक्रञ्चाधः सुशोभनम्। शान्तात्मा लम्बकर्णश्च गौराङ्गश्चाम्बरावृतः। ऊर्द्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः। धनुस्तूणान्वितः कल्की म्लेच्छोत्सादकरो द्विजः। अथवाश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः”। “लक्षणं वासुदेवादिनवकस्य वदामि ते। दक्षिणोर्द्ध्वे गदा वामे वामोर्द्ध्वे चक्रमुत्तमम्। ब्रह्मेशो पार्श्वगौ नित्यं वासुदेवोऽस्ति पूर्ववत्। शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः। लाङ्गली मुषली रामो गदापद्मधरः स्मृतः। प्रद्युम्नो दक्षिणे वज्रं शङ्खं भागे धनुः करे। गदानाभ्यावृतः प्रीत्या प्रद्युम्नो वा धनुःशरी। चतुर्भुजोऽनिरुद्धः स्यात्तथा नारायणो विभुः। चतुर्मुखश्चतुर्बाहुर्वृहज्जठरमण्डलः। लम्बकूर्च्चोजटायुक्तो ब्रह्मा हंसाग्रवाहनः। दक्षिणे चाक्षसूत्रञ्च स्रुवं वामे तु कुण्डिकाम्। आज्यस्थाली सरस्वती सावित्री वामदक्षिणे। विष्णुरष्टभुजस्तार्क्ष्ये करे खड्गस्तु दक्षिणे। गदा शरश्च वरदो वामे कार्मुकखेटके। चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः। शङ्खचक्रधरो वापि विदारितमहासुरः। चतुर्वाहुर्वराहस्तु शेषः पाणितले धृतः। धारयन् बाहुना पृथ्वीं वामेन कमलाधरः। पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता। त्रैलोक्यमोहनस्तार्क्ष्येअष्टबाहुस्तु दक्षिणे। चक्रं खड्गं च मुषलं अङ्कुशं वामके करे। शङ्कशार्ङ्गगदापाशा पद्मवीणासमन्विते। लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽघ दक्षिणे। मुद्गरं च तथा पाशं शक्तिशूलं शरं करे। वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम्। लाङ्गलं परशुं दण्डं छुरिकां चर्मक्षेपणम्। विंशद्वाहुश्चतुर्वक्त्रो दक्षिणस्थोऽथ वामके। त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि। श्रिया धृतैकचरणो विमलाद्याभिरीडितः। नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः। शूलर्ष्टिधारी दक्षे च गदाचक्रधरः पदे। रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः। शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः। वामपादधृतः शेषो दक्षिणः कूर्मपृष्ठगः। दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह। विश्वक्सेनश्चक्रगदी हली शङ्खी हरेर्गणः”।
देवीप्रतिमालक्षणानि तत्रैव ५० अ० उक्तानि यथा
“भगवानुवाच चण्डी विंशतिबाहुः स्यद्बिभ्रती दक्षिणैः करैः। शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम्। डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम्। कुठाराङ्कुशचापांश्च घण्टाध्वजगदास्तथा। आदर्शमुद्गरान् हस्तैश्चण्डी वा दशबाहुका। तदधो महिषश्छिन्नमूर्द्धा पातितमस्तकः। शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान्। शूलहस्तो वमद्रक्तो रक्तभ्रूमूर्द्धजेक्षणः। सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम्। याम्याडुघ्य्राक्रान्तसिंहा च सव्याङ्ध्रिर्नीचगासुरे। चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्द्दिनी। नवपद्मात्मके ख्याते पूज्या दुर्गा स्वमूर्त्तितः। आदौ मध्ये च तन्त्रादौ नवतत्त्वात्मभिः क्रमात्। अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम्। आदर्शतर्जनीचापं ध्वजं डमरुकं तथा। पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकम्। वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया। एतैरेवायुधैर्युक्ता शेषाः षोडशबाहुकाः। डमरुं तर्जनीं त्यक्त्रा रुद्रचण्डादयो नव। रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका। चण्डा चण्डवती चैव चण्डरूपातिचण्डिका। उग्रचण्डा च मध्यस्था रोचनाभाऽरुणाऽसिता। नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः। महिषोऽथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः। आलीढा नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये। तथा गौरी चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक्। सैव रम्भावने सिद्धाऽग्निहीना ललिता तथा। स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा। याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्द्द्विका। लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता। पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती। कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी। कूर्मगा यमुना कुम्भकरा श्यामा च पूज्यते। सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे। गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता। कुण्डाक्षपात्रिणी वामे हंसगा शाङ्करी सिता। शरचापौ दक्षिणेऽस्या वामे चक्रं धनुर्वृषे। कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका। चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक्। दण्डशङ्खासिगदया वाराही महिषस्थिता। ऐन्द्री वामे वज्रहस्था सहस्राक्षी तु सिद्धये। चामुण्डा कोटराक्षी स्यान्निर्मांसा तु त्रिलोचना। निर्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी। द्वीपिचर्मधरा वामे कपालं पट्टिशं करे। शूलं कर्त्री दक्षिणेऽस्याः शवारूढास्थिभूषणा। विनायको नराकारो वृहत्कुक्षिर्जाननः। वृहच्छुण्डो ह्युपवीति मुखं सप्तकलं भवेत्। विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्त्रिंशदङ्गुलम्। कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छ्रिता। षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम्। नाभिरूरू द्वादश च जङ्घे पादे तु दक्षिणे। स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये। सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः। स्वामी शाखी विशाखश्च द्विभुजो बालरूपधृक्। दक्षे शक्तिः कुक्कुटोऽथ एकवक्त्रोऽथ षण्मुखः। षड्भुजो वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः। शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः। शक्त्या दक्षिणहस्तेषु षट्सु वामे करे तथा। शिखिपिच्छन्घनुः स्वेटं पताकाभयकुक्कुटे। कपालकर्तरीशूलपाशभृद् याम्यसौम्ययोः। गजचर्मभृदूर्ध्वास्यपादा स्यात् रुद्रचण्डिका। सैव चाष्टभजा देवी शिरोडमरुकाग्विता। तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती। इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी। नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान्। दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकम्। बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकम्। खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया। सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका। एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा। भैरवीरूपविद्या तु भुजैर्द्वादशभिर्युता। एताः श्मशानजा रौद्र्योह्यम्बाष्टकमिदं स्मृतम्। क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना। दन्तुरा क्षेमकारी स्याद्भूमौ जानुकरा स्थिता। यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः। पिङ्गाक्ष्यः स्युर्महारम्या रूपिण्योप्सरसः सदा। साक्षमाली त्रिशूली च नन्दीशो द्बारपालकः। महाकालासिमुण्डी स्याच्छूलखेटकवांस्तथा। कृशो भृङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान्। गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः। घण्टाकर्णोद्वादशदोः पापरोगं विदारयन्। वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान्। दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकम्। चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकम्। घण्टामालाकुलो देवो विस्फोटकविमर्दनः”।
सूर्य्यादिप्रतिमालक्षणानि ५१ अ० तत्रोक्तानि यथा “भगवानुवाच। ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक्। मसीभाजनलेखन्यौ बिभ्रत् कुण्डी तु दक्षिणे। वाम तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः। बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा। अथवाश्वसमारूदः कार्य एकस्तु भास्करः। वरदा द्व्यब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात्। मुद्गरशूलचक्राब्जभृतोऽग्न्यादिविदिक्स्थिताः। सूर्याद्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले। वरुणः सूर्यनामा च सहस्रांशुस्तथापरः। घाता तपनसंज्ञश्च सविताथ गभस्तिमान्। रविश्चैवाथ पर्जन्यस्त्वष्टा मित्रोऽथ विष्णुकः। मेषादिराशिसंस्थाश्च मार्गादिकार्तिकान्तगाः। कृष्णी रक्तो मनाग्रक्तः पीतः पाण्डुरकः सितः। कपिलः पीतवर्णश्च शुकाभो धवलस्तथा। धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः। इडा सुषुम्णा विश्वार्चिरिन्दुसंज्ञा प्रमर्दिनी। प्रहर्षणी महाकाली कपिला च प्रबोधनी। नीलाम्बरा घनान्ता च अमृताख्या च शक्तयः। वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत्। तेजश्चण्डो महावक्रो द्विभुजः पद्मखड्गभृत्। कुण्डिकाजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः। बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः। शुक्रः कुण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः। अर्द्धचन्द्रघरो राहुः केतुः स्वड्गी च दीपभृत्। अनन्तस्तक्षकः कर्क्कः पद्मो महाब्जः शङ्खकः। कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः। इन्द्रो बज्री गजारूढश्छागगोऽग्निश्च शक्तिमान्। यमो दण्डी च महिषे नैरृतः खडगवान् खरे। मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे। गदी कुवेरो मेषस्थ ईशानश्च जटी वृषे। द्विबाहवो लोकपाला विश्वकर्माक्षसूत्रभृत्। हनूमान् यज्रहस्तः स्यात् पद्भ्यां सम्पीडिताश्रयः। वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश्च खे। दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः। क्षेत्रपालाः शूलवन्तः प्रेता महोदराकृशाः”। ६४ योगिनी प्रतिमालक्षणं ५२ अ० “भगवानुवाच योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्र- मात्। अक्षोभ्या ऋक्षकर्णी च राक्षसी क्षपणा क्षया। पिङ्गाक्षी चाक्षया क्षेमा वाला लीला लया तथा। लोला लङ्का च लङ्केशी लालसा विमला पुनः। हुताशा च विशालाक्षी हुङ्कारा वडवामुखी। हाहारवा महाक्रूरा क्रोधना तु भयानना। सर्वज्ञा तरला तारा कृष्णा चैव हयानना। तथैव रससङ्ग्राही शवरा तालुजिह्विका। रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी। मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा। चन्द्रावली चन्द्रहासा प्रपञ्चा प्रलयान्तिका। शिशुवक्त्रा पिशाची च पिशिताशा च लीलुपा। धमनी तपनी चैव वामनी बिकृतानना। वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका। यमजिह्वा जयन्ती च दुर्जया च यमान्तिका। विडाली रेवती चैव पूतना विजयन्तिका। अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः”। भैरवप्रतिमालक्षणानि यथा ५२ अ० “भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत्। खड्गाङ्कुशकृठारेषुविश्वाभयभृदेकतः। चापत्रिशूलखट्वाङ्गपाशकार्द्धवरोद्यतः। गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः। प्रेतासनी मातृमध्ये पूज्यः पञ्चाननोऽथ वा। अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्। तत् षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत्। मन्दिराग्निदलारूढं सुवर्णरसकान्वितम्। नादविन्द्विन्दुसंयुक्तं मातृनाथाङ्गदीपितम्। वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः। गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता। शूलं गलन्तिका कुण्डी वरदा च चतुर्भुजा। अब्जस्था ललिता स्कन्दगणादर्शशलाकया। चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्। दक्षे वामे नागपाशं चर्माङ्कुशकुठारकम्। धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः”। लिङ्गलक्षणमुक्तं तत्र ५३ अ०
“भगवानुवाच। लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव! तच्छृणु। दैर्घ्यार्द्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः। विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत्। आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत्। ब्रह्मविष्णुशिवांशेषु वर्द्धमानोऽयमुच्यते। चतुरस्रेऽस्य वर्णार्द्धं गुह्यकोणेषु लाञ्छयेत्। अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः। षोडशास्रं ततः कुर्याद्वात्रिंशास्रं ततः पुनः। चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्तगः। कर्तयेदथ लिङ्गस्य शिरो वै देशि- कोत्तमः। विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत्। भागार्द्धार्द्धन्तु सन्त्यज्य छत्राकारं शिरो भवेत्। त्रिषु भागेषु सदृशमायामं यस्य विस्तरम्। तद्विभागसमं लिङ्गं सर्वकामफलप्रदम्। दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते। सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतम्। मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिके बुधः। षोडशाङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा। तद्वै यमनसूत्राभ्यां मानमन्तरमुच्यते। यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः। अधोभागं त्रिधा कृत्वा त्वर्द्धमेकं परित्यजेत्। अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्रयं त्यजेत्। ऊर्द्धञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत्। भागमेकं परित्यज्य सङ्गमं कारयेत्तयोः। एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया। सर्वसाधारणं वक्ष्ये पिण्डिकान्तां निबोध मे। ब्रह्ममागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयम्। न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि। तथा समुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत्। द्विभागमुच्छ्रितं पीठं विस्तरं लिङ्गसम्मितम्। त्रिभागं मध्यतः खातं कृत्वा पीठं विभाजयेत्। स्वमानार्द्धत्रिभागेण बाहुल्यं परिकल्पयेत्। बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत्। खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत्। मेखला षोडशांशेन खातं वा तत्प्रमाणतः। उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु कारयेत्। भूमौ प्रविष्टमेकं तु भागैकैकेन पिण्डिका। कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका। द्व्यंशेन चोर्द्धपट्टन्तु एकांशाः शेषपट्टिकाः। भागं भागं प्रविष्टन्तु यावत् कण्ठं ततः पुनः। निर्गमं भागमेकं तु यावद्वै शेषपट्टिका। प्रणालस्य त्रिभागेण निर्गमस्तु त्रिभागतः। मूलेऽङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्द्धतः। ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै। पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम्”। लिङ्गभेदादिकथनं तत्रैव ५४ अ०
‘भगवानुवाच। वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं शृणु। बक्ष्ये लबणजं लिङ्गं घृतजं बुद्धिवर्द्धनम्। भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः। पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरम्। ततो दारुमयं पुण्यं दारुजात् शैलजं वरम्। शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम्। राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम्। रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम्। रसज रसलोहादिरत्नागर्भन्तु वर्द्धयेत्। मानादि नेष्टं सिद्धादि स्थापितेऽथ स्वयम्भुवि। वामे च स्वेच्छया तेषां पीठप्रासादकल्पना। पूजयेत् सूर्यविम्बस्थं दर्पणे प्रतिविम्बितम्। पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत्। हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि। चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्। अङ्गुलाद् गृहलिङ्गं स्याद् यावत् पञ्चदशाङ्गुलम्। द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः। नवधा गर्भमानेन लिङ्गं धाम्नि च पूजयेत्। एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः। मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च। इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत्। एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते। षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम्। एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम्। षडङ्गुलं महारत्ने रत्नैरन्यैर्नवाङ्गुलम्। रविभिर्हेमसारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः। पोडशांशे च वेदांशे युगं लुप्तोर्ध्वदेशतः। द्वात्रिंशत् षोडशांशांश्च कोणयोस्तु विलोपयेत्। चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा। पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम्। धाम्नो युगर्तुनागांशैर्द्वारं हीनादितः क्रमात्। लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात्। गर्भार्द्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम्। तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम्। एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम्। द्व्यन्तरो वामवामश्च लिङ्गानां दीर्घता नव। हस्ताद्विवर्द्धते हस्तो यावत् स्युर्नव पाणयः। हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम्। एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः। लिङ्गानि घटयेद्वीमान् षट्सु चाष्टोत्तरेषु च। स्थिरदीर्घप्रभेदात्तु द्वारगर्भकरात्मिका। भाग्येशञ्चाप्यनीशञ्च देवेज्यन्तुल्यसंज्ञितम्। चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत्। दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात् त्रिरूपकम्। चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकम्। लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै। ध्वजाद्यायैः स्वरैर्भूतैः शिखिभिर्वा हरेत् कृतिम्। तान्याङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभम्। ध्वजाद्य ध्वजसिंहेभवृषाः श्रेष्ठाः परे शुभाः। स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः। भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः। उक्तायामस्य चार्धांशे नागां शैर्भाजिते क्रमात्। रसभूतांशषढांशत्यंशाविकशरेर्भ- वेत्। आढ्यानाढ्यसुरेज्याख्यतुल्यानाञ्चतुरस्रता। पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः। द्विधा भेदो बहून्यत्र वक्ष्यन्ते विश्वकर्मतः। आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा। त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च। पञ्चविंशतिलिङ्गानि नाद्ये देवार्चिते तथा। पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि। चतुर्दश सहस्राणि चतुर्दश शतानि च। इत्यष्टाङ्गुलविस्तारो नवैककरगर्भतः। तेषां कोणार्द्धकोणस्थैश्चिह्नेत् कोणानि सूत्रकैः। विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम्। विभागादूर्द्धमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः। पादाज्जान्वन्तको व्रह्मा नाभ्यन्ती विष्णुरित्यतः। मूर्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति। पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते। छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृति। एकैकस्य चतुर्भेर्दैः काम्यभेदात् फलं वदे। लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत्। अर्द्धभागं चतुर्द्धा तु विस्तारोच्छ्रायतो भजेत्। चत्वारि तत्र सूत्राणि भागभागानुपातनात्। पुण्डरीकन्तु भागेन विशालाख्यं द्विलोपनात्। त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात्। शिरः सर्वसमे श्रेष्ठं कुक्वुटाभं सुराह्वये। चतुर्भागात्मके लिङ्गे त्रापूषं द्वयलोपनात्। अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः शृणु। अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम्। पूर्वबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात्। चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु। पूजाभागं प्रकर्तव्यं मूर्त्त्यग्निपदकल्पितम्। अर्कांशं पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्तयेत्। शिरीन्नतिः प्रकर्तव्या ललाटं नासिका ततः। वदनं चिबुकं ग्रीवा युगभागैर्भुजाक्षिभिः। कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः। मुखं प्रति समः कार्यो विस्तारादष्टमांशतः। चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु। कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत्। भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितम्। विस्तारादष्टमांशेन मुखानां प्रतिनिर्गमः। एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनम्। ललाटनामिकावक्त्रग्रीवायाञ्च विवर्तयेत्। भुजाच्च पञ्चमांशेन भजहोन” विर्तयेत्। विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम। सर्वेषां मुखलिङ्गानां त्रापुषं वाथ कुक्कुटम्” विशेषेण देवतादीनां मूर्तिलक्षणं हेमाद्रिव्रतखण्डे विष्णुध
गणेशस्य “विनायकस्तु कर्त्तव्यो गजवक्त्रश्चतुर्भुजः। स्थलकञ्चाक्षमाला च तस्य दक्षिणहस्तयोः। पात्रञ्चोदकपूर्णञ्च परशुश्चैव वामतः। दन्तश्चास्य न कर्त्तव्यो वामे रिपुनिसूदन!। पादपीठकृतः पाद एक आसनगो भवेत्। पूर्णे चोदकपात्रे च कराग्रन्तस्य कारयेत्। लम्बोदरस्तथाकार्य्यस्तब्धकर्णश्च यादव। व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतवान्”। स्थलकं, गजदन्ताकारम्।
सरस्वत्याः “देवी सरस्वती कार्य्या सर्वाभरणभूषिता। चतुर्भुजा सा कर्त्तव्या तथैव च समुत्थिता”। (समुत्थिता, ऊर्द्ध्वा) पुस्तकञ्चाक्षमाला च तस्या दक्षिणहस्तयोः। वामयोश्च तथा कार्य्या वैणवी च कमण्डलुः। समपादपतिष्ठा च कार्या सौम्यमुखी तथा”। वैणवी, वीणा
लक्ष्म्याः “हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप!। दिव्यरूपाम्बरधरा सर्वाभरणभूषिता। गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि। पृथक् चतुर्भुजा कार्य्या देवी सिंहासना शुभा। सिंहासनस्था कर्तव्यं कमलञ्चारुकर्णिकम्। अष्टपत्रं महाभाग! कर्णिकायान्तु सा स्थिता। विनायकवद्रासीना देवी कार्य्या महाभुजा। वृहन्नालङ्करे कार्य्यं तस्याश्च कमलं शुभम्। दक्षिणे यादवश्रेष्ठ! केयूरं प्रान्तसंस्थितम्। वामेऽमृतघटः कार्यस्तथा राजन्! मनहोरः। तस्याश्च द्वौ करौ कार्यौ विल्वशङ्खधरौ द्विज!। आवर्जितघटं कार्यं तत्पृष्ठेकुञ्जरद्वयम्। देव्याश्च मस्तके पद्मं तथा कार्यं मनो हरम्”।
श्रियः “पद्मस्था पद्महस्ता च गजोत्क्षिप्तघटप्लुता। श्रीः पद्ममालिनी चैव कालिकाकृतिरेव च”।
महालक्ष्म्याः विश्वकर्मशास्त्रे “क्षेत्रे कोलापुरादन्ते महालक्ष्मीर्य्यदोच्यते। लक्ष्मीवत् सा तदा कार्य्या” रूपाभरणभूषिता। दक्षिणाधःकरे पात्रमूर्द्धे कौमोदकी ततः। वामोर्द्धे खेटकं वत्ते श्रीफलन्तदधः करे। बिभ्रती मस्तके लिङ्गं पूजनीया विभूतये”।
भद्रकाल्याः विष्णुधर्मोत्तरे “अष्टादशभुजा कार्य्या भद्रकाली मनोहरा। आलीढस्वासनस्था च चतुःसिंहे रथे स्थिता। अक्षमाला त्रिशूलञ्च खड्गश्चन्द्रश्च यादव!। वाणचापे च कर्तव्ये शङ्खपद्मे तथैव च। स्रुक्स्रुवौ च तथा कार्यौ तथोदककमण्डलू। दण्डशक्ती च कर्तव्ये कृष्णाजिनहुताशनौ। हस्तानां भद्रकाल्यास्तु भवेत् शा- न्तिकरः करः। एकश्चैव महाभाग रत्नपात्रधरो भवेत्”।
चण्डिकायाः “निगद्यते ह्यथो चण्डी हेमाभा सा सुरूपिणी। त्रिनेत्रा यौवनस्था च क्रुद्धा चोर्द्धस्थिता मता। कृशमध्या विशालाक्षी चारुपीनपयोधरा। एकवक्त्रा तु सुग्रीवा वाहुविंशतिसंयुता। शूलासिशङ्खचक्राणि बाणशक्तिपवीनपि। अभयण्डमरुञ्चैव छत्रिकां दक्षिणे करे। ऊर्ध्वादिक्रमयोगेन बिभ्रती सा सदा शुभा। नागपाशन्तथा खेटं कुठाराङ्कुशकार्मुकम्। घण्टा, ध्वज, गदादर्शं, मुद्गरं वाम एव च। तदधोमहिषश्छिन्नमूर्द्ध्वा पतितमस्तकः। शस्त्रोद्यतकरस्तब्धः तद्ग्रीवासम्भवः पुमान्। शूलभिन्नो वमद्रक्तोरक्तभ्रूमूर्द्ध्वजेक्षणः। सिंहेन खाद्यमानश्च पाशवद्धो गले भृशम्। याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्र्यालीढगासुरे। चण्डी चोद्यतशस्त्रेयञ्चाशेषरिपुनाशिनी” (असुरे, महिषे)
दुर्गायाः “शक्तिं वाणं तथा शूलं खड्गञ्चक्रञ्च दक्षिणे। चन्द्रविम्यमधो वामे खेटमूर्द्धे कपालकम्। शूलं चक्रञ्च विभ्राणा सिंहारूढा च दिग्भुजा। एषा देवी समुद्दिष्टा दुर्गा दुर्गापहारिणी”। दिग्भुजा, दशभुजा
नन्दायाः “नन्दा भगवती देवी भारद्वाजाभिनन्दजा। वरपाशा ङ्कुशा–ब्जानि बिभ्रती च चतुर्भुजा”। “गौरवर्णा गजस्था वा खड्ग खेट वराभया”।
अम्बायाः “अम्बा कुमुदवर्णाभा पाशाब्जाभीतिपात्रिणी”।
सर्वमङ्गलायाः “चतुर्बाहुः प्रकर्तव्या सिंहस्था सर्वमङ्गला अक्षसूत्रं कजं दक्षे शूलकुण्डीधरोत्तरे”।
कालरात्रेः “एकवीणा जया कर्णपूरा नग्ना खरस्थिता। वङ्गोत्था कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी। वामपादे लसल्लोहकृत्यकण्टकभूषणा। वर्द्धयन्मूर्द्धजाकृष्टा कालरात्रिर्भयङ्करी”।
ललितायाः “शङ्खमुग्धकरादर्शं बिभ्रती वामपार्श्वतः। याम्ये फलाञ्जनीहस्ता ललितोर्द्धा सुभूषणा”।
ज्येष्ठायाः “तुङ्गनासा च लम्बोष्ठी लम्बमानस्तनोदरी। आलोहिता स्मृता ह्येषा ज्येष्ठा लक्ष्मीरिति श्रिये। उत्पलाभयहस्तेयं द्विभुजा वीरवन्दिता”।
ज्येष्ठाभेदस्य “रक्तज्येष्ठा च नीला च भूतलार्पितपादिका। भूतलं स्पृशते दोर्भ्यां द्विभुजा वीरवन्दिता”।
गौर्य्याः “गौरी कुमारिकारूपा ध्यायमाना महेश्वरैः। वरदाभयहस्ता सा द्विभुजा श्रेयसे सदा। अक्षसूत्राभये पद्मं तस्याधश्च कमण्डलुः। गौर्य्या मूर्तिश्चतुर्वाहुः कर्तव्या कमलासना”।
भूतमातुः “श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना। द्विभुजा बिभ्रती लिङ्गं चर्म शस्त्रन्तु दक्षिणे। सिंहासनोपविष्टेयं मुक्ताभरणमूर्द्धजा। भूतप्रेत पिशाचाद्यैः सेविता तु विशेषतः। इन्द्रयक्षैश्च गन्धर्वैः सिद्धविद्याधरादिभिः। अश्वत्थस्याप्यधो देवी भूतमातेति विश्रुता”।
मुरभेः “सुरभिर्गोमुखी देवी सुरूपा सर्वभूषणा। घासमुष्टिं तथा कुण्डीं बिभ्राणा भूतिपुष्टिदा”।
योगनिद्रायाः “निद्रा तु शयनारूढा सुसौम्या मुकुलेक्षणा। पानपात्रधरा चेयं द्विभुजा परिकीर्तिता”।
मातॄणाम् “अथातः सम्प्रवक्ष्यामि मातृरूपाणि ते जय”।
ब्राह्म्याः “तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता। पिङ्गला भूषणोपेता भृगचर्मोत्तरीयका। वरं सूत्रं स्रुवं धत्ते दक्षवाहुत्रये क्रमात्। वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयप्रदा”।
माहेश्वर्य्याः “माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना। शुक्लेन्दुभृज्जटाजूटा शुक्ला सर्वसुखप्रदा। षड्मूजा वरदा दक्षे सूत्रं डमरुकं तथा। शूलघण्टाऽभयं वामे सैव धत्ते महाभुजा।
कौर्मार्य्याः “कौमारी रक्तवर्णा स्यात् षड्वक्त्रा साऽर्कलोचना। रविबाहुर्मयूरस्था वरदा शक्तिधारिणी। पताकां बिभ्रती दण्डञ्चापं वाणं च दक्षिणे। वामे चापमथी घण्टां कमलं कुक्कुटं त्वधः। परशुं विभ्रती तीक्ष्णं तदधस्त्वभयान्विता”।
वैष्णव्याः “वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमालिनी। वरदा गदिनी दक्षे विभ्रती चाम्बुजस्रजम्। शङ्खचक्राभया वामे सा चेयं विलसद्भुजा”।
वाराह्याः “कृष्णवर्णा तु वाराही शूकरास्या महीदरी। वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा। खेटपाशांभया वामे सैव चापि लसद्भुजा”।
“ऐन्द्र्याः ऐन्द्री सहस्रदृक् सौम्यहेमाभा गजसंस्थिता। वरदा सुत्रिणी वज्रं बिभ्रत्यूर्द्धन्तु दक्षिणे। वामे तु कलसं पात्रं त्वभयं तदधः करे”।
चामुण्डायाः “चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूपणा। दशाग्रा क्षीणदेहा च गर्त्ताक्षी भीमरूपिणी। दिग्वाहुः क्षन्भकुक्षिश्च मुसलं कवचं शरम्। अङ्कुशं बिभ्रती खड्गं दक्षिणे त्वथ वामतः। खेटं पाशन्धनुर्दण्डं कुठारं चेति बिभ्रती”।
चण्डिकायाः “चण्डिका श्वेतवर्णा स्यात् शवारूढा च षड्भुजा। जटिला वर्तुलत्र्यक्षा वरदा शूलधारिणी। बर्ण्णिकां बिभ्रती दक्षे पानपात्राभयान्यतः। इत्येवं मातरः प्रोक्ता रूपभेदव्यवस्थया”।
नान्दीमुखमातॄणाम् गौर्य्यादिमातरस्तु भविष्यत्पुराणे निरूपिताः। “गौरी पद्मा–शची–मेधा सावित्री विजया जया। देवमाता स्वधा स्वाहा तथान्या लोकमातृका। धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह। पूज्या श्चित्रेऽथवार्च्चायां वरदाऽभयपाणयः”।
नवदुर्गाणाम् “नवपद्मान्विते स्थाने पूज्या दुर्गाः स्वमूर्त्तितः। आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात्। अष्टादशभुजैका तु पीनवक्षोरुहोरुका। सर्वालङ्कारसंयुक्ता सर्वसिद्धिप्रदायिनी। मूर्द्धजं खेटकं घण्टामादर्शं तर्जनीं धनुः। ध्वजं डमरुकं पाशं बिभ्रती वामपाणिभिः। शक्तिमुद्गर शूलानि वज्रं शङ्खमथाङ्कुशम्। शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः। जयमिच्छ्वद्भिरित्येताः पूजनीया महात्मभिः। शेषाः षोडशहस्ताश्च शलाकां मार्गर्ण विना। रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका। चण्डा चण्डवती चैव चण्डरूपातिचण्डिका। नवमी चोग्रचण्डा च मध्यस्था वह्निसन्निभा। रोचनाभाऽरुणा कृष्णा नीला शुक्ला च धूम्रिका। पीता च पाण्डुरा ज्ञेया आलीदस्था हरिस्थिता। महिषस्था सशस्त्रीका दैत्यमूर्द्धजमुष्टिका। पद्माकृती रथ स्थाप्या इत्युक्तं स्कन्दयामले”।
वामायाः “वृत्तस्था जटिला त्र्यक्षा वह्निज्वालासमप्रभा। कपालाभयहस्तोग्रा वामा वामफलप्रदा। द्विवाहुरेकवक्त्रैषा विधातव्या विपश्चिता”।
ज्येष्ठायाः “पाठलाभा भवेदष्टाकपालशरधारिणी। उग्रा महाबला भूत्यै शत्रुघ्नी शेषपूर्वजा”।
रौद्र्याः “रक्तवस्त्रा तथा रौद्री कपालचमरीकरा। शेषपूर्वा तु विज्ञेया कृष्णवक्त्रा सुभीषणा”।
काल्याः “घनश्यामा ततः काली ताम्ररक्तनिभानना। कपाल कर्णिकाहस्ता विज्ञेया भयनाशिनी”।
कलविकर्णिकायाः “नीलशुभ्रा महादेवी विकर्णी कलपूर्विका। कपालशक्तिहस्तेयं भयहृच्च शुभप्रदा”।
वलविकर्णिकायाः “बभ्रुवर्णा विशालाक्षी कपालं जपमालिकाम्। बिभ्राणा शान्तिदा भूत्यै बलपूर्वा विकर्णिका”।
बलप्रमथन्याः “ताम्राभा श्वेतवर्णा स्यात् बलप्रमथनी शुभा। कपालपाशिनी चेयं सर्वशत्रुक्षयङ्करी”।
सर्वभूतदमन्याः “जवाकुसुमबर्णाभा दंष्ट्रिणी च महोदरी। कपालवज्रिणी भूतदमनी सर्वपूर्विका”।
मनोन्मन्याः विश्वकर्मशास्त्रात् “नीलताम्रारुणाभासा पृथुवक्त्रा मनोन्मनी। कपालखड्गिनी भूत्यै शत्रूणां भयवर्द्धनी”।
कृष्णायाः मार्कण्डेयपुराणे “अक्षसूत्रञ्च कुण्डीं च हृदयाग्रे पुटाञ्जलिम्। पञ्चाग्निकुण्डमध्यस्था कृष्णान्तामनुधारयेत्”
उमायाः “अक्षसूत्रञ्च कमलं दर्पणञ्च कमण्डलुम्। उमा विभर्त्ति हस्तैस्तु पूजिता त्रिदशैरपि”।
पार्वत्याः “अक्षसूत्रं शिवं देवगणाध्यक्षं कमण्डलुम्। अग्निगुण्डद्वयं पार्श्वे पार्वती पर्वतोद्भवा”।
महाकाल्याः विष्णुधर्मोत्तरात् “सा भिन्नाञ्जनसङ्काशा दंष्ट्राङ्कितवरानना। विशाललोचना नारी बभूव तनुमध्यमा। खड्ग, पात्र–शिरः खेटैरलङ्कृतचतुर्भुजा। कबन्धहारंशिरसा बिभ्राणां हि शिरःस्रजम्”।
वारुणीचामुण्डायाः विष्णुधर्मोत्तरे “लम्बोदरी तु कर्त्तव्या रक्ताम्बरपयोधरा। शूलहस्ता महाभागा भुजप्रहरणा तथा। कार्पासकलुषा देवी वारुणी चातिसुन्दरी। वृहन्नखा च कर्त्तव्या बहुवाहुस्तथैव च। चामुण्डा कथिता चैव सर्वसत्ववशङ्करी”।
शिवदूत्याः मत्स्यपुराणे “तथैवार्त्तमुखी शुष्का शुष्ककाया विशेषतः। बहुबाहुयुता देवी भुजगैः परिवेष्टिता। कपालमालिनी भीमा तथा खट्वाङ्गधारिणी। शिवदूती तु कर्त्तव्या शृगालवदना शुभा। आलीढासनसंस्थाना तथा राजंश्चतुर्भुजा। असृक्षात्रधरा देवी खड्गशूलधरा तथा। चतुर्थस्तु करस्तस्यास्तथाकार्यस्तु सामिषः”
कात्यायन्याः मयदीपिकायाम् “कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा। त्रयाणामपि देवानामनुकारानुकारिणीम्। जटाजूटसमायुक्तामर्धेन्दुकृतलक्षणाम्। लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम्। अतसीपुष्पसङ्काशां सुप्रतिष्ठां सुलोचनाम्। नवयौवनसम्पन्नां सर्वाभरणभूषिताम्। सुचारुदर्शनां, तद्वत्पीनोन्नतपयोधराम्। त्रिभङ्गस्थानसंस्थानां महिषासुरमर्द्दिनीम्। त्रिशूलं दक्षिणे दध्यात् खडगञ्चक्रं तथैव च। तीक्ष्णवाणं तथा शक्तिं वामतो विनिबोधत। खेटकं पूर्णपात्रञ्च पाशमङ्गुशमेव च। घण्टाञ्च परशुञ्चापि चामरं सन्निवेशयेत्। अधस्ताम्महिषं विद्याद्द्विशिरस्कं प्रदर्शयेत्। शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम्। हृदि शूलेन निर्भिन्नं निर्यदन्त्र विभूषणम्। रक्तरक्तीकृताङ्गञ्च रक्तविस्तारितेक्षणम्। वेष्टितं नागपाशेन भृकुटीभीषणाननम्। सपाशवामहस्तेन धृतकेशञ्च दुर्गया। वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत्”।
अम्बिकायाः लक्षणसमुच्चये “सिंहारूढाम्बिका त्र्यक्षा भूषिता दर्पणोद्वहा”। (वामभुजे दर्पणोद्वहा दक्षिणे वरयुक्ता यदुक्तम्। “दक्षिणे तु करे प्रोक्तोवरः साधारणः सदा”) खड्गखेटधरा द्वाभ्यां कर्तव्या च चतुर्भुजा”।
योगेश्वर्य्याः “दशबाहुस्त्रिनेत्रा च शस्त्रशक्त्यसिडामरुम्। बिभ्रती दक्षिणे हस्ते वामे घण्टाञ्च खेटकम्। खट्वाङ्गञ्च त्रिशूलञ्च देवी योगेश्वरी मता”।
भैरव्याः विश्वकर्मशास्त्रात् “एवंरूपा भवेदन्या पाशाङ्कुशयुतारुणा। भैरव्याख्या यदीष्टा तु भुजैर्द्वादशभिर्युता”
रम्भायाः देवीपुराणे “कमण्डल्वक्षसूत्रे च बिभ्रती वज्रमङ्कुशम्। गजासनस्थिता रम्भा सुरूपा सर्वकामदा”।
शिवायाः “शिवा वृषासना कार्या त्रिनेत्रा वरपाणिका। डमरूरगधारी च त्रिशूलाऽभयदायिका”।
कीर्तेः “सुमध्याङ्कारयेत् कीर्तिं नीलोत्पलव्यवस्थिताम्। सर्वाभरणभूषाङ्गीं कलसोत्पलधारिणीम्। मदिरौदनगन्धाढ्या महार्घमणिभूषणा”।
सिद्धेः “सिद्धिर्देवी प्रकर्तव्या सिद्धार्थकवरप्रदा। सितचन्दनगन्धाढ्या सितपङ्कजभूषिता। सितासनस्थिता देवी प्रतिहारोपशोभिता।
ऋद्धेः “सुन्दरीङ्कारयेदृद्धिं पर्यङ्कासनसंस्थिताम्। दर्पणालोकसुरतां तिलकालकभूषिताम्। मालाचामरशोभाढ्यां वेणुवीणासदाप्रियाम्”।
क्षमायाः “क्षमा तु सुमुखी कार्य्या योगपट्टोत्तरीयका। पद्मासनकृताधारा वरदोद्यतपाणिका। शूलमेखलसंयुक्ता प्रशान्ता योगसंस्थिता”।
वैष्णव्याः “सुसिद्धा वैष्णवी कार्य्या शङ्खचक्रगदाम्बुजा। वनमालाकृतापीडा पीतवस्त्रा सुशोभिता”।
ऐन्द्र्याः “ऐन्द्री सुरवराध्यक्षा गजराजोपरिस्थिता। वज्राङ्कुशधरा देवी हारकेयूरभूषिता”।
याम्यायाः “वैवस्वती प्रकर्तव्या दुर्द्धरा महिषोपरि। शूकरास्या कपालेऽसृक् पिबन्ती दण्डधारिणी”।
दीप्तेः “तेजोऽधिका प्रकर्तव्या दीप्तिश्चन्द्रासनस्थिता”।
रतेः “कमनीया रतिः कार्या वसन्तोज्ज्वलभूषणा। नृत्यमाना शुभा देवी समस्ताभरणैर्युता। वीणावादनशीला च मदकर्पूरचर्चिता। दण्डाक्षसूत्रधरा च व्रतस्थायोगसंस्थिता”।
श्वेतायाः “श्वेता पूर्णेन्दुसदृशा श्वेतपङ्कजसंस्थिता”।
भद्रायाः “भद्रा सुभद्रा कर्तव्या भद्रासनव्यवस्थिता। नीलोत्पलफलहस्ता शूलसूत्राक्षधारिणी”।
मङ्गलायाः “सिंहासनस्थिता देवी जटामुकुटमण्डिता। शूलाक्षसूत्रधरा च वरदाभयचापधृक्। दर्पणं शरखेटञ्च खड्गचन्द्रधरा शिवा। सुरूपा लक्षणोपेता सुस्तनी चारुहासिनी। सर्वाभरणभूषाङ्गी सर्वशोभासमन्विता”।
जयाविजययोः “जयाञ्च विजयां कुर्यात् शूलपद्माक्षधारिणीम्। वरोद्यताञ्च सिंहस्थां सर्वकर्मप्रसाधिनीम्”।
काल्याः “काली करालरूपा च चण्डपाशोद्यता भवेत्”।
घण्टाकर्ण्याः “घण्टाकर्णी प्रकर्तव्या घण्टात्रिशूलधारिणी”।
जयन्त्याः “जयन्ती सुन्दरी कार्य्या कुन्तशूलासिधारिणी। खेटकव्यग्रहस्ता च पूजनीया शुभान्वितैः”।
दितेः “दितिर्दैत्यनुता देवी सदा पूज्या महामुने!। दण्डासनस्थिता भद्रा सर्वाभरणभूषिता। फलनीलोत्पलकरा चोत्सङ्गशिशुभूषिता”।
अरुन्घत्याः “अक्रोधाऽरुन्घती देवी सितवस्त्रा व्रतस्थिता। पत्रपुष्पोदककरा चन्दनेन सुचर्चिता”।
अपराजितायाः “अपराजिता च कर्तव्या सिंहारूढा महाबला। पिनाकेषुकरा चैव खड्गखेटकधारिणी। त्रिनेत्रेन्दुजटाभारा कृतवासुकिकङ्कणा”।
कौमार्य्याः “कौमारी चैव कर्तव्या मयूरासनशक्तिभृत्। त्रिदण्डीकालरूपा च रक्तमाल्या सकुक्कुटा”। चतुःषष्टियोगिनीरूपाणि मयदीपिकायां
१ अक्षोभ्यायाः “वज्रास्याऽभयभृद्याम्ये करे सा खेटभृत्ततः। हेमभूषणभूषा स्यादक्षोभ्या करिसंस्थिता”।
२ ऋक्षकर्ण्याः “ऋक्षकर्णी तु गौराङ्गी कम्बुवाणाभयावहा। धनुःकपालभृत् सौम्ये ऋक्षस्था तर्जनीस्थिता”।
३ राक्षस्याः “राक्षसी हेमवर्णा स्याच्चारुगात्री वृषस्थिता। कुठाराशनिभृद्याम्ये वामे पाशाङ्कुशान्विता”।
४ क्षपणायाः “क्षपणा चम्पकच्छाया दक्षिणे मुद्गराङ्कुशो। कपालञ्च फलं सव्ये धत्ते कुञ्जास्थिसंस्थिता”।
५ क्षयायाः “क्षया कूर्मस्थिता गौरी जपस्था सा घटान्विता। वामे कपालपिण्डाभृत्सर्वालङ्कारभूषिता”। (जपस्था जपपरा)
६ पिङ्गाक्ष्याः “पिङ्गाक्षी स्याद्बभ्रुवर्णा त्रिनेत्रा च हयस्थिता। कौशेयपाशभृद्याम्ये वामे चाङ्कुशखेटिनी”।
७ अक्षयायाः “अक्षया हेमवर्णा स्याच्चारुगात्री वृकस्थिता। कुठारखड्गभृद्याम्ये वामे पाशाङ्कुशान्विता”।
८ क्षेमायाः “क्षेमा तु शवगा पीता शक्तिभिन्दीधनुःकरा। याम्ये डमरुशूलेषुवस्तभृत् मृगसंस्थिता”।
९ बालायाः “शक्तिखड्गधरा त्र्यक्षा खेटपाशकपालिनी। रक्ता वह्निस्थिता वाला क्रीडन्ती दहनैः सह”।
१० लीलायाः “लीला लीलावती रक्ता दक्षपाणिजयान्विता। बिभ्राणा पट्टिशम्पाशं वामे मस्तार्द्धमम्बुजम्”।
११ लयायाः “वृषारूढा जया रक्ता याम्ये दण्डासिधारिणी। कर्त्तरीकार्द्धभृद्वामे तर्जन्यासक्तसिक्थका”।
१२ लोलायाः “कर्तरी मार्जनी याम्ये सौम्ये पीडनकङ्करे। शूलं रुरुयुतं धत्ते लोला तु खरगा सदा”।
१३ लङ्कायाः “वामे लुलापमुण्डञ्च तत् पिवन्त्यसृक्रक्तिका। लङ्केशोरःस्थिता लङ्का खादन्ती पिशितङ्घनम्”।
१४ लङ्केश्वर्य्याः “त्रिफलाशाकखोटोदामोदकाशी च दक्षिणे। शोणा लङ्केश्वरी कुम्भे डिम्बस्रुचौ बिभ्रती”।
१५ लालसायाः “दक्षिणे वरदं चक्रं वामे कङ्कणकङ्करे। बिभ्राणा कोलगा रक्ता लालासृग्लालसा मता”।
१६ विमलायाः “द्वीपिस्था विमला रक्ता त्र्यक्षाऽलङ्कारभूपिता। कर्तरीकुम्भभृद्याम्ये वामे पाशकपालिनी”।
१७ हुताशनायाः “कृष्णा हुताशनाब्जस्था ज्वालिनी दक्षिणे शुभा। वामे त्वभयहस्ता स्याद्विष्टराज्यघटान्विता”।
१८ विशालाक्ष्याः “शूकरास्या विशालाक्षी त्रिसन्ध्यस्था सितेतरा। घण्टावाद्यधरा सौम्ये याम्ये कर्तरिकाभया”
१९ हुङ्कारायाः “हुङ्कारा मीनवक्त्रा स्यात् मीनगा साक्षमालिनी। मुषलं बिभ्रती वामे सौम्ये तु फलपल्लवौ”।
२० बडवामुख्याः “अङ्काभ्यां बिभ्रती बालौ पर्यङ्के बडवामुखी। समत्स्यकूर्मभृद्याम्ये कृष्णा नीलधरान्यतः”।
२१ हाहारवायाः “तर्ज्जन्यभयभृत्सौम्ये याम्ये दण्डकपालिनी। कृष्णा हाहारवा क्रूरा रासभस्था खरस्मिता”।
२२ महाक्रूरायाः “लुलापास्या लुलापस्था महाक्रूरा सितेतरा। वामेऽस्याः पाशमालाब्जं दक्षिणे दण्डलेखनी”।
२३ क्रोधनायाः “असिता क्रोधना याम्ये खादन्ती मांसमण्डकम्। वामे विद्युज्जिह्वा क्रूरा सव्ये सीरकपालिनी” चक्रस्थाऽऽकण्ठमदिरां बिभ्रती जम्बुकस्थिता”।
२४ भयाननायाः “कृष्णा भयानना गृध्रीदंष्ट्रोग्रास्थिविभूषणा। याम्ये स्यात् शिखरं शूलं घर्घरं लेलिहान्यतः”।
२५ सर्वज्ञायाः “त्रिशूलपृष्ठभृद्वामे मुण्डं डमरुकं शवम्। विभ्राणा भाजनं द्वाभ्यां सर्वज्ञा प्रेतगाऽसिता”।
२६ तरलायाः “जानुक्षिप्तौ करौ कृत्वा उद्यन्ती तरलायते। शूलडमरुहस्ता च गोधास्था तरलाऽसिता”।
२७ तारायाः “तारा तारगुणैर्युक्ता कौशिकस्था सितेतरा। धत्ते शवार्द्धके सौम्ये शूलमुद्गरमन्यतः”।
२८ कृष्णायाः “कृष्णा पद्मस्थिता दक्षे ज्ञानमुद्राक्षमालिनी। ऋग्वेदं वामतो धत्ते पुस्तकञ्च कमण्डलुम्”।
२९ हयाननायाः “रौद्रा कृष्णा तुरङ्गास्या कबन्धस्था हयानना। मुण्डशूर्पधरा याम्ये सौम्ये संहारिकाङ्कभृत्”।
३० रससंग्राह्याः “छिन्नहस्ता शवाकृष्टा सारा स्थूला जटाधरा। खट्वाङ्गं डमरुं सौम्ये शूलोल्के बिभ्रती ततः। शवस्था रससंग्राही नृत्यन्ती जटिलाऽसिता। कुशूलान् चक्रकङ्कालान् बिभ्रती चर्मवासिनी”।
३१ शबरायाः “सवेदनद्विजासक्ता वरिष्ठा शवराऽलिभा। वामे करोपधानासिधारा उल्काधरान्यतः”।
३२ तालुजिह्विकायाः “स्फटिकाभा गरुत्मस्था सुकान्ता तालुजिह्विका। शङ्खखेटकहस्ताग्रा याम्ये स्वस्तिकखड्गभृत्”।
३३ रक्ताक्ष्याः “रक्ताक्षी वाहमारूढा रक्तपाना शशिप्रभा। गदाखड्गधरा याम्ये वामे पाशकपालभृत्”।
३४ सुप्रसिद्धायारूपवाक्यं मुद्रितपुस्तके पतितं मयदीपिकायां दृश्यम्।
३५ विद्युज्जिह्वायाः “विद्युज्जिह्वाऽसिता क्रूरा सव्ये सीरकपालिनी। चक्रस्था चक्रकर्तरीधारिणी दक्षिणे करे”।
३६ करङ्किण्याः “ग्राहस्था चामरच्छत्रभृद्दृतिद्वयसंयुता। कुम्भपाशधरा श्वेता क्रोधयुक्ता करङ्किणी”।
३७ मेघनादायाः “मेघनादा तु चन्द्राभा खड्गखेटकधारिणी। जालैर्वृता घनारूढा तडिन्मण्डसन्निभा”।
३८ प्रचण्डोग्रायाः “प्रचण्डोग्रा तु नक्रस्था याम्येऽस्याः कर्त्तरीफलम्। कपालं मुण्डमन्यत्र शत्रुघ्नी स्फटिकप्रभा”।
३९ कालकर्ण्याः “शुक्ला वृषासना रौद्रा बिभ्रत्यब्जाक्षसूत्रकम्। कालकर्णी जगत्ख्याता कर्णिकारविभूषणा”।
४० चन्द्रावल्याः “चन्द्रावली तु हेमाभा हेमसिंहासनस्थिता। याम्येऽक्षमाला मालाभृत् शेषेऽब्ज–ध्वजधारिणी”।
४१ चन्द्रहासायाः “चन्द्रहासा स्थिता गौरी वेदास्या दोर्द्वयोः क्रमात्। कमण्डल्वङ्कुशव्यग्रा मन्त्रमालास्रु चान्विता”।
४२ वरप्रदायाः “कर्त्तरीमभयं याम्ये धत्ते श्वेता वरप्रदा। वृषदंशसमारूढा पूर्णपात्रधरान्यतः”।
४३ प्रपञ्चिकायाः “फलस्रगन्विता याम्ये कुन्त–कुण्डीधरान्यतः। रौक्ममाला प्रपञ्चास्या गौरी विश्वप्रपञ्चिका।
४४ प्रलयान्तायाः “मर्कटस्था प्रलयान्ता बिभ्रती करयोर्द्वयोः। खादन्त्याम्रफलं हृष्टा गौराङ्गी वानरानना”।
४५ शिशुवक्त्रायाः “शिशुवक्त्रा मृगालीढा पिङ्गाभा याम्यसौम्ययोः। भिन्दीपालकखेटाभ्यां पाशासिभ्याञ्च संयुता।
४६ पिशाच्याः “काकास्या श्येनगा गौरी पिशाची रक्तमण्डिता। कङ्काल–कर्त्तरीखड्गं विभ्रती याम्यसौम्ययोः”।
४७ पिशिताशायाः “फल–तूणधरा वामे सौम्ये–शस्त्रासिधारिणी। खड्गस्था बभ्रुवर्णा स्यात् पिशिताशातिदुर्बला”।
४८ लोलुपायाः “नृत्यन्ती लोलुपा पीना खरस्था याम्यसौम्ययोः। खड्गडमरुकर्त्तरीः पाशञ्चैव तु बिभ्रती”।
४९ धमन्थाः “धमनी पुष्पकस्था स्यात् गौरी यक्षगणान्विता। गदापट्टिशमृत्सौम्ये स्थूलतोमरिणी ततः”।
५० तपन्याः “तपनी सर्पगा गौरी वराङ्गी पन्नगानना। स्वकर्णयानयोर्भोगे न्यस्तहस्तोग्ररूपिणी”।
५१ वामन्याः “पीता महाखुगा सा स्यात् वामनी बिभ्रती करे। कुठारं लगुडं वामेऽक्षमालां पनसन्ततः”।
५२ विकृताननायाः “शूलभिन्नलुलापास्या सिंहाकृष्टशरीरिणी। जिह्वे द्वे बिभ्रती चैव चतुर्दोर्विकृतानना”।
५३ वायुवेगायाः “शङ्खपूरणिका द्वाभ्यां वृकाभयधरा द्वयोः। द्विसिंहरथसंस्था स्यात्तालाभा वायुवेगिका”।
५४ वृहत्कुक्षेः “भासस्थिता वृहत्कुक्षिः सौम्ये मुण्डकपालभृत्। गौरी महातनुर्याम्ये कर्त्तरीपट्टिकाधरा”।
५५ विकृतायाः “उष्ट्रस्था विकृता गौरी भयकृद्विकृतानना। तूणञ्च डमरुं याम्ये सौम्ये खड्गार्द्धमस्तकम्”।
५६ विश्वरूपिकायाः “खेटक खड्भृद्वामे गदा–चक्रास्त्रभृत्ततः। वनमालावती पोता तार्क्ष्यस्था विश्वरूपिका”।
५७ यमजिह्वायाः “मुसलं मुद्गरं याम्ये परशुम्बन्धनं ततः। बिभ्रती यमजिह्वा स्यात् कराला महिषस्थिता”।
५८ जयन्त्याः “नृत्यन्ती खरगा श्वेता याम्ये डमरुतूणभृत्। सदैत्यशैलमुण्डोग्रा जयन्ती वामहस्तयोः”।
५९ ८ दुर्जयायाः “श्वारूढा दुर्जया श्वेता रौद्री भूतगणावृता। खड गकुन्तोद्यतकरा दुर्गकाननवासिनी”।
६० यमान्तिकायाः “असकृत् खेटिनी दोर्भ्यां चतुर्दोर्य्याम्यसौम्ययोः। शूलवाणधरा याम्ये धनुःशक्तिकरान्यतः। शकटस्थातिघोरास्या क्षीरवर्णा यमान्तिका”।
६१ विडाल्याः “मार्ज्जारस्था विडाली च विडालाक्षी भवेत् सिता”।
६२ रेवत्याः “वामे तूणञ्च खट्वाङ्गं शूलं टङ्कञ्च बिभ्रती। कृशा पिशाचवक्त्रोग्रा कपालस्था च रेवती”।
६३ पूतनायाः “कुशूलयष्टिभृद्वामे मिन्दीपालकपालभृत्। कुण्डाभा पूतना त्र्यक्षा विकृतास्या शवस्थिता”।
६४ विजयन्तिकायाः “कर्त्तरीशूलभृद्याम्ये वामे मुण्डकपालिनी। श्वेतवर्णा वृषारूढा विजया विजयप्रदा”।
ब्रह्मणः विष्णुधर्मोत्तरात् “ब्रह्माणं कारयेद्विद्वान् देवं सौम्यं चतुर्भुजम्। बद्धपद्मासनन्तुष्टं तथा कृष्णाजिनाम्बरम्। जटाधरं चतुर्बाहुं सप्तहंसरथस्थितम्। वामे न्यस्तेतरकरन्तस्यैकन्दोर्युगं भवेत्। एतस्मिन् दक्षिणे पाणावक्षमाला तथा शुभा। कमण्डलुं द्वितीये च सर्वाभरणधारिणम्। सर्वलक्षणयुक्तस्य शान्तिरूपस्य पार्थिव!। प्रद्मपत्रदलाग्राभं ध्यानसंमीलितेक्षणम्। अर्च्चायाङ्कारयेदेवं चित्रे वा वास्तुकर्मणि”।
आदित्यपुराणे तु “पद्मपत्रासनस्थश्च ब्रह्मा कार्यश्चतुर्मुखः। साव्रित्री तस्य कर्तव्या वामोत्सङ्गगता तथा”।
प्रजापतेः “आदित्यवर्णं धर्मज्ञ! साक्षमालाकरं तथा। रूपं पूर्वोदितं कार्यं रूपमन्यज्जगत्पतेः”।
लोकपालब्रह्मणः “हंसयानेन कर्तव्यो न कार्यश्च चतुर्मुखः। ब्रह्माख्यमपरं रूपं सर्वकार्ये प्रजापतेः। अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम्। चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे हिता”।
विश्वकर्मणः “विश्वकर्मा तु कर्तव्यः सुरसूत्रधरः प्रभुः। सन्दंशपाणिर्द्विभुजस्तेजोमूर्तिधरो महान्”।
घर्मस्य “चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुः सिताम्बरः। सर्वाभरणवान् श्वेती धर्मः कार्यो विजानता। दक्षिणे चाक्षमाला च तस्य वामे च पुस्तकम्। मूर्तिमान् व्यवसायस्तु कार्यो दक्षिणभागतः। वामभागे ततः कार्यो वृषः परमरूपवान्। कार्यौ पद्मकरौ मूर्धि विन्यस्तौ तु तथा तयोः”।
ऋग्वेदस्य विश्वकर्मशास्त्रात् “ऋग्वेदः श्वेतवर्णः स्यात् द्विभुजो रासभाननः। अक्षमालाधरः सौम्यः प्रीतश्चाध्ययनोद्यतः”।
सामवेदस्य “नोलोत्पलदलाभासः सामवेदो हयाननः। अक्षमालान्वितो दक्षे वामे कम्बूधरः स्मृतः”।
यजुर्वेदस्य “अजास्यः पीतवर्णः स्यात् यजुर्वेदोऽक्षसूत्रधृक्। वामे कुलिशपाणिस्तु भूतिदो मङ्गलप्रदः”।
अथर्ववेदस्य “आथर्वणाभिधो वेदो धवलो मर्कटाननः। अक्षसूत्रञ्च खट्वाङ्गं विभ्राणोऽयं जयप्रियः”।
शिक्षायाः “शिक्षा शुभ्राभयकरा ज्ञानमुद्रान्विता शुभा। साक्षसूत्रा सकुण्डीका द्विभुजा दण्डपङ्कजा”।
कल्पस्य “कल्पस्तु कुमुदाभासो वायसास्यो महोदरः। दण्डी कुण्डीधरीऽब्जस्थो मेखलाकुण्डलान्वितः”।
व्याकरणस्य “सितं व्याकरणं ज्ञेयं मयूरास्यं धटोदरम्। वीणाकजान्वितं दिव्यं दिव्यवस्त्रविभूषितम्”
निरुक्तस्य “इन्दुवन्निर्मलं शान्तं वकवक्त्रं कृशोदरम्। पाशपङ्कजहस्तं स्याच्चाक्षसूत्रं सपुस्तकम्। नरुक्तमिति निर्णीतं छन्दोनिर्णीयतेऽधुना”।
छन्दसः “जवाकुसुमसंकाशं छन्दो ज्ञेयं विपश्चिता। चकोरास्यञ्जपाक्षन्तु शक्तिं बिभ्रच्छिखान्विताम्। लोहकुण्डलकोपेतं प्रवालकृतकुण्डलम्”।
ज्योतिषस्य “ज्योतिषं तु विडालास्यमिन्द्रगोपनिभं शुभम्। अक्षसूत्रं कजं बिभ्रद्धस्तयोर्दक्षवामयोः”।
मीमांसायाः “सोमकान्तिसमाभासं मीमांसाशास्त्रमुत्तमम्। अक्षसूत्रं दधद्दक्षे सुधापूर्णघटं करे”।
न्यायस्य “अतसीपुष्पसङ्काशो न्यायो ज्ञेयो विपश्चिता। सिंहास्यो दक्षिणे सूत्रं ध्वजं वामकरे दघत्”।
धर्मशास्त्रस्य “धर्मशास्त्रं सितं शान्तं चाषवक्त्रं कजासनम्। मुक्ताजपाक्षभृद्दक्षे तुलाहस्तन्तु वामतः”।
पुराणस्य “पुराणं चम्पकाभासं शुकवक्त्रं चतुर्दलम्। अक्षसूत्रं द्वये ज्ञेयं नानाभरणभूषितम्”।
इतिहासस्य “इतिहासः कजाभासः शूकरास्यो महोदरः। अक्षसूत्रं घटं बिभ्रत् पञ्चजाभरणान्वितः”।
घनुर्वेदस्य “पीतवर्णो धनुर्वेदः पिकवक्त्री महातनुः। रत्नमालावलिं धत्ते मस्तके भूषिता जटा”।
आयुर्वेदस्य “आयुर्वेदो हरिद्राभो वानरास्यो विशालदृक्। अक्षसूत्रं सुधाकुम्भं बिभ्रदारोग्यदो भृशम्”।
नृत्यशास्त्रस्य “नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम्। अक्षसूत्रं त्रिशूलञ्च बिभ्राणञ्च त्रिलीचनम्”।
पञ्चरात्रस्य “पञ्चरात्राभिधं शास्त्रं धबलं वृषभाननम्। अक्षसूत्रं हलं घत्ते वनमालाविभूषितम्”।
पाशुपतस्य “शास्त्रं पाशुपतं शुभ्रं व्यालवक्त्रं कृशोदरम्। सूत्रपात्रधरं भीमं व्याघ्रचर्माम्बरावृतम्”। पातञ्जलस्य “पातञ्जलाभिधं रक्तं सर्पवक्त्रं सुतेजसम्। अक्षसूत्रं पृदाकुञ्च धारयन् कुण्डलान्वितम्”। (पृदाकुः सर्पः)।
साङ्ख्यस्य “साङ्ख्यं तत् कपिलं बभ्रुवक्त्रमुज्वलतुन्दिलम्। जाप्यदण्डधरं दीर्घनखलोमजटाघरम्”।
अर्थशास्त्रस्य “अर्थशास्त्रं भवेद्गौरं सारिकावदनं शुभम्। अक्षसूत्रं फलं बिभ्रदन्नहारं कमण्डलुम्”।
प्रसङ्गाद्वेदादीनामधिदेवताः तत्रोक्ताः प्रदर्श्यन्ते विष्णुधर्मोत्तरात् “ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः। सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत्। शिक्षा प्रजापतिर्ज्ञेयः कल्पो ब्रह्मा प्रकीर्तितः। सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः। छन्दो विष्णुस्तथैवाग्निर्ज्योतिषं भगवान् रविः। मीमांसा भगवान् सोमी न्यायदेवः समीरणः। घर्म्मश्च धर्म्मशास्त्राणि पुराणञ्च तथा मनुः। इतिहासः प्रजाध्यक्षो धनुर्वेदः शतक्रतुः। आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः। कलावेदो मही देवी नृत्यशास्त्रं महेश्वरः। सङ्कर्षणः पञ्चरात्रं रुद्रः पाशुपतं तथा। पातञ्जलमनन्तश्च साङ्ख्यञ्च कपिलो मुनिः। अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रकीर्तितः। कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः। अन्यानि यानि शास्त्राणि यत् कर्म्माणि प्रचक्षते। स एव देवता तस्य शास्त्रं कार्यञ्च देववत्”।
ऋषीणाम् मयसंग्रहे “उदासीना सोपवीताः कमण्डल्वक्षसूत्रिणः। जटिलाः श्मश्रुलाः शान्ताः आसीना ध्यानतत् पराः। सप्तर्षयो वसिष्ठश्च काया भार्य्यासमन्वितः। गौतमश्च भरद्वाजो विश्वामित्रश्च कश्यपः। जमदग्निर्वसिष्ठोऽत्रिः सप्त वैवस्वतेऽन्तरे। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च। जटिलाः श्मश्रुलाः शान्ताः कृशा धमनिसन्तताः। कुसुम्भाक्षधराः कार्य्या मुनयो द्विभुजा दश”।
नारदस्य “नारदो देवगन्घर्वः साक्षसूत्रकमण्डलुः। सेव्यो वै वीणया वामभुजमूलीपगूढया”।
मुनीनाम् भविष्योत्तरात् “प्रकृत्या काञ्चनं कृत्वा यथा शक्त्या तु शीभितम्। पुरुषाकृतिं प्रशान्तञ्च जटामञ्जुलधारिणम्। कमण्डलुकरं शिष्यैर्मृगैश्च परिवारितम्। मृत्युध्रुग्विषहन्तारं दर्भहस्तं वरं मुनिम”।
भृगूणाम् “कर्तव्याः शक्ररूपेण भृगवो नाम देवताः। भुवनो भावनश्चैव सुजन्यः सुजनस्तथा। क्रतुः सुवः स्वसुर्नाम व्यजश्च व्यमुनस्तथा। प्रसवश्चाव्ययश्चैव दक्षो द्वादशकस्तथा। भृगवो नामनिर्दिष्टा देवा द्वादश यज्ञियाः”।
अङ्गिरसः “जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा। आत्मा ह्यायुर्मनो दक्षः परप्राणस्तथैव च। हविष्यश्च गविष्ठश्च ऋतः सत्यश्च तेजसः”।
विष्णोः विष्णुधर्म्मोत्तरात् “देवदेवं यथा विष्णुं कारयेद्गरुडस्थितम्। कौस्तभोद्भासितोरस्कं सर्वाभरणघारिणम्। सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा। मुखानि चास्य चत्वारि बाहवो द्विगुंणास्तथा। सौम्येन्दुवदनं पूर्वं नारसिंहन्तु दक्षिणम्। कपिलं पश्चिमं वक्त्रं तथा वाराहमुत्तमम्। तस्य दक्षिणहस्तेषु वाणारिमुसलाभयम्। चर्मसीरवराविन्दुर्वामे च वनमालिनः। कार्य्याणि विष्णोर्द्धर्मज्ञ! वामहस्तेष्वनुक्रमात्”। (अरि, चक्रं इन्दुः शङ्खः)।
लोकपालविष्णोः “एकवक्त्री द्विवाहुश्च गदाचक्रधरः प्रभुः।
वासुदेवस्य “एकवक्त्रश्चतुर्बाहुः मौम्यरूपः सुदर्शनः। पीताम्बरश्च मेघाभः सर्वाभरणभूषितः। कण्ठेन शुभदेशेन कम्बुतुल्येन राजता। वराभरणयुक्तेन कुण्डलोत्तरभूषिणा। अङ्गदी वद्धकेयूरो वनमालाविभूषणः। उरसा कौस्तुभं बिभ्रत् किरीटं शिरसा तथा। शिरःपद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः। पुष्टिश्लिष्टायतभुजस्तनुस्ताम्रनखाङ्गुलिः। मध्येन त्रिवलीभङ्गशोभितेन सुचारुणा। स्त्रीरूपधारिणी क्षौणो कार्य्या तत्पादमध्यगा। तत्करस्थाङ्घ्रियुगला देवः कार्य्यो जनार्दनः। तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः। अनुदृश्या मही कार्या देवदर्शितविस्मिता। देवश्च कटिवासेन कार्यो जान्ववलम्बिना। वनमाला च कर्त्तव्या देवजान्ववलम्बिनी। यज्ञोपवीतं कर्तव्यं नाभिदेशमुपागतम्। उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे। वामपाणिगतं शङ्खं शङ्खाकारन्तु कारयेत्। दक्षिणे तु गदा देवी तनुमध्या सुलोचना। स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषिता। पश्यन्ती देवदेवेशं कार्या चामरधारिणी। कुर्यात्तन्मूर्ध्नि विन्यस्तं देवहस्तन्तु दक्षिणम्। वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा। सर्वामरणसंयुक्तो वृत्तविष्फारितेक्षणः। कर्त्तव्यश्चामरकरो देववीक्षणतत्परः। कुर्यात् देवकरं वामं विन्यस्त तस्य मूर्द्ध्वनि।
सङ्कर्षणस्य “वासुदेवस्वरूपेण कार्यः सङ्कर्षणः प्रभुः। स तु शुक्लवपुः कार्यो नीलबासा यदूचम!। गदास्थाने च मुसलञ्चक्रस्थाने च लाङ्गलम्। कर्त्तव्यौ तनुमध्यौ तु नृरूपौ रूपसंयुतौ”।
द्युम्नस्य “वासुदेवस्वरूपेण प्रद्युम्नश्च तथा भवेत्। स तु दूर्वाङ्कुरश्यामः सितवासा विधीयते। चक्रस्थाने भवेच्चापो गदास्थाने तथा शरः। तथाविधौ तौ कर्त्तव्यौ यथा मुसललाङ्गलौ”।
अनिरुद्धस्य “एतदेव तथा रूपमनिरुद्धस्य कारयेत्। पद्मपत्राभवपुषो रक्ताम्बरधरस्य तु। चक्रस्थाने भवेच्चर्म गदास्थानेऽसिरेव च। चर्म स्याच्चक्ररूपेण प्रांशुः खड्गो विधीयते। चक्रादीनां स्वरूपाणि किञ्चित्पूर्वं सुदर्शयेत्। रम्याण्यायुधरूपाणि चक्रादीन्येव यादव!। वामपार्श्वगताः कार्या देवानां प्रवराध्वजाः। सुपताकायुता राजन्! यष्टिस्थास्ते यथेरितम्”।
लक्ष्मीनारायणयोः विश्वकर्मशास्त्रात् “लक्ष्मीनारायणौ कार्यौ संयुक्तौ दिव्यरूपिणौ। दक्षिणस्था विमोर्मूर्त्तिर्लक्ष्मीमूर्तिस्तु वामतः। दक्षिणः कण्ठलग्नोऽस्या वामो हस्तः सरोजभृत्। विभोर्वामकरो लक्ष्म्याः कुक्षिभागस्थितः सदा। सर्वावयवसंपूर्णा सर्वालङ्कारभूषिता। सुष्ठुनेत्रकपोलास्या रूपयौवनसंयुता। सिद्धिः कार्या समीपस्था चामरग्राहिणी शुभा। कर्तव्यं वाहनं सव्ये देवाधीभागगं सदा। शङ्खचक्रधरौ तस्य द्वौ कार्य्यौ पुरुषौ पुरः। वामनौ हारकेयूरकिरीटमणिभूषणौ। उपासकौ समीपस्थौ प्रभोर्व्रह्मशिवात्मकौ। रशनां योगपट्टञ्च शिखामञ्जलिमास्थितौ”।
योगेश्वरस्य सिद्धार्थसंहितायाम् “पद्मासनसमासीनः किञ्चिन्मीलितलोचनः। घोणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरिस्थितः। वामदक्षिणगौ हस्तौ उत्तानावेकभागगौ। तत्करद्वयपार्श्वस्थे पङ्केरुहमहागदे। ऊर्द्धे करद्वये तस्य पाञ्चजन्यः सुदर्शनः। योगस्वामी स विज्ञेयः पूज्यो मोक्षार्थियोगिभिः”।
चतुर्विंशतिमूर्त्तीनां लक्ष्माणि विष्णुधर्मोत्तरे उक्तानि चतुर्विंशतिभूर्त्तिशब्दे २८७८ पृ० दर्शितानि
हंसमत्स्यकूर्माणाम् “हंसोमत्स्यस्तथा कूर्मः कार्यास्तद्रूपधा रिणः। शृङ्गी मत्स्यस्तु कर्त्तव्यो देवदेवो जनार्दनः”।
“वराहस्य “ऐश्वर्यसंनिरुद्धश्च वराहो भगवान् हरिः। ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः। नृवराहोऽथ वा कार्य्यः शेषोपरिगतः प्रभुः। शेषश्चतुर्भुजः कार्य्यः चारुरत्नफणान्वितः। आश्चर्योत्फुल्लनयनो देववीक्षण- तत्परः। कर्त्तव्यौ सीरमुसलौ करयोस्तस्य यादव!। सर्पभोगश्च कर्त्तव्यस्तथैव रविताञ्जलिः। आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान् भवेत्। वामारत्निगता तस्य योषिद्रूपा वसुन्धरा। नमस्कारपरा तस्य कर्त्तव्या द्विभुजा शुभा। यस्मिन् भुजे धरा देवी तत्र शङ्खकरो भवेत्। अन्ये तस्य कराः कार्य्याः पद्मचक्रगदाधराः। हिरण्याक्षशिरश्छेदचक्रोद्वृत्तकरोऽथ वा। मृतोद्धृतहिरण्याक्षः सुमुखो भगवान् भवेत्। मूर्त्तिमन्तमनैश्वर्य्यं हिरण्याक्षं विदुर्बुधाः। ऐश्वर्येणाविनाशेन स निरस्तोऽरिमर्दनः। नृवराहोऽथ वा कार्यो ध्याने कपिलवत् स्थितः। द्विभुजस्त्वथ वा कार्यः पिण्डनिर्वपनोद्यतः। समग्रक्रोडरूपेण बहुदानवमध्यगः। नृवराहोवराहश्च कर्त्तव्यः क्ष्माविदारणः”।
नरसिंहस्य “य एवं भगवान्विष्णुर्नरसिंहवपुर्द्धरः। ध्यानविधिः स एवोक्तः परमज्ञानवर्द्धनः। पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः। सिंहाननो नृदेहश्च नीलवासाः प्रभान्वितः। आलीढस्थानसंस्थानः सर्वाभरणभूषितः। ज्वालामालाकुलगुखो ज्वालाकेसरमण्डलः। हिरण्यकशिपोर्वक्षःपाटयन्नखरैः खरैः। नोलोत्पलाभः कर्तव्यो देवजानुगतस्तथा। हिरण्यकशिपुर्दैत्यस्तमज्ञानं विदुर्बुधाः”।
वामनस्य “कर्त्तव्यो वामनो देवः सङ्कटैर्गात्रपर्वभिः। पीनगात्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः। दूर्वाश्यामश्च कर्तव्यः कृष्णाजिनघरस्तथा”।
त्रिविक्रमस्य “सजलाम्बुदसङ्काशस्तथा कार्य्यस्त्रिविक्रमः। दण्डपाशधरः कार्य्यः शङ्खचक्रगदाधरः। शङ्खचक्रगदापद्माः कार्य्यास्तस्य सरूपिणः। निर्देहास्ते न कर्तव्या शेषं कार्यन्तु पूर्ववत्। एकोर्द्धवदनः कार्य्यो देवो विस्फारितेक्षणः”।
परशुरामस्य “कार्य्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः। हस्तेऽस्य परशुः कार्य्यः कृष्णाजिनधरस्य तु”।
रामादीनाम् “रामो दाशरथिः कार्यो राजलक्षणलालितः। भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महायशाः। तथैव सर्वे कर्तव्याः किन्तु मौलिविवर्जिताः”।
कृष्णस्य “कृष्णश्चक्रधरः कार्यो नो लोत्पलदलच्छविः। इन्द्रीवरधरा कार्या तस्य साक्षा च्च रूक्मिणी”।
बलभद्रस्य “सीरपाणिर्बलः कार्यो मुसली चैव कुण्डली। श्वेतोऽतिनीलवसनो मदादञ्चितलोचनः”।
प्रद्युम्नस्य “चापवाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः। राजन्निन्द्रमणिश्यामः श्वेतवासा मदोत्कटः”।
कामस्य “कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि। अष्टबाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषणः। चापवाणकरश्चैव मदादञ्चितलोचनः। रतिः प्रीतिस्तथा शक्तिर्मदशक्तिस्तथोज्ज्वला। चतस्रस्तस्य कर्त्तव्याः पत्न्यो रूपमनोहराः। चत्वारश्च करास्तस्य कार्या भार्यास्तनोपगाः। केतुश्च मकरः कार्यः पञ्चवाणमुखोमहान्”।
अनिरुद्धसाम्बयोः “कर्त्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः। साम्बः कार्यो गदाहस्तः सुरूपश्च विशेषतः। साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ”।
देवक्याः “पद्मपत्राग्रगौराभा कर्तव्या देवकी तथा”।
यशोदायाः “मधूकपुष्पसच्छाया यशोदापि सदा भवेत्”।
गोपालस्य “गोपालप्रतिमां कुर्यात् वेणुवादनतत्पराम्। वर्हापीडां घनश्यामां द्विभुजामूर्द्ध्वसंस्थिताम्”।
बुद्धस्य “काषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः। पद्मासनस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः”।
कल्किनः “खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः। म्लेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः”।
नरनारायणहरिकृष्णानाम् “दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाबलः। नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः। तयोर्मध्ये तु वदरी कार्या फलविभूषणा। वदर्यामवनौ कार्यावक्षमालाधरावुमौ। अष्टचक्रे स्थितौ याने मूतयुक्ते मनोरमे। कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ। पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन। कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः”।
हयग्रीवस्य “मूर्तिमान् पृथिवीहस्तन्यस्तपादः सितच्छविः। नीलाम्बरधरः कार्यो देवी हयशिरोधरः। विन्द्यात् सङ्कर्षणांशेन देवो हयशिरोधरः। कर्तव्योऽष्टभुजो देवः तत्करेषु चतुर्ष्वथ। शङ्खं चक्रं गदां पद्मं स्वाकारङ्कारयेद्बुघः। चत्वारश्च कराः कार्या वेदानां देहधारिणाम्। देवेन मूर्ध्नि विन्यस्ताः सर्वाभरणधारिणः”।
कपिलस्य “प्रद्युम्नं विद्धि वैराग्यात् कापिलीं तनुमास्थितः। मध्ये तु करकः वार्यस्तस्योत्सङ्गगतः परः। दोर्युगं चापरं तस्य शङ्वुचक्रधरं भवेत्। पद्मासनोपविष्टश्च ध्यानसंमीलितेक्षणः। कर्तव्यः कपिलो देवो जटामण्डलमण्डितः। वायुसंरोधपीनांसः पद्माङ्कचरणद्वयः। मृगाजिनधरो राजन्! श्मश्रुयज्ञीपवीतवान्। बिभुर्मन्त्रमहापद्मकलिकासंस्थितः प्रभुः। वैराग्यभावेन महानुभावी ध्यानस्थितः स्वम्परमं पदन्तत्। ध्यायंस्तथास्ते भुवनस्य गोप्ता शाङ्ख्यप्रवक्ता पुरुषः पुराणः”।
व्यासस्य “कृशः कृष्णतनुर्व्यासः पिङ्गलोऽतिजटाधरः। सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च। तस्य शिष्याश्च कर्तव्याश्चत्वारः पारिशार्श्विकाः”।
वाल्मीकेः “गौरस्तु कार्यो बाल्मीकिस्तेजोमण्डलदुर्दृशः। तपस्यभिरतः शान्तो न कृशो न च पीवरः”।
दत्तात्रेयस्य “बाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत्”।
धन्वन्तरेः “धन्वन्तरिः सुकर्तव्यः सुरूपः प्रियदर्शनः। करद्वयगतश्चास्य सामृतः कलसो भवेत्।
जलशायिनः “जलमध्यगतः कार्य्यः शेषपन्नगतल्पगः। फणापुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः। देवदेवस्तु कर्तव्यस्तत्र गुप्तश्चतुर्भुजः। तथापरश्च कर्तव्यः शेषभोगाङ्कसंस्थितः। एकपादोऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः। तथापरश्च कर्तव्यस्तत्र जानौ प्रसाधितः। कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः। तथैवान्यः करः कार्यो देवस्य तु शिरोधरः। सन्तानमञ्जरीधारी तथैवास्यापरो भवेत्। नाभीसरसिसम्भूते कमले तस्य यादव!। सर्वपृथ्वीमयो देवः प्राग्वत्कार्यः पितामहः। नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ। नृरूपधारीणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथा समीपे। एतत्तवाग्रे यदुपुङ्गवोक्तं देवस्य रूपं परमस्य तस्य”।
गरुडस्य विष्णुधर्मोत्तरात् “तार्क्ष्यो मरकतप्रख्यः कौशिकाकारनासिकः। चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्तथा। गृध्रोरुजानुचरणः पक्षद्वयविभूषितः। प्रभासंस्थानसौवर्णकलापेन विराजितः। छत्रन्तु पूर्णकुम्भञ्च करयोस्तस्य कारयेत्। करद्वयन्तु कर्तव्यं तथा विरचिताञ्जलि। यदास्य भगवान् पृष्ठे छत्रकुम्भधरौ करौ। न कर्तव्यौ तु कर्तव्यौ देवपादधरौ शुभौ। किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः”।
रुद्रस्य “देवदेवं महादेवं वृषारूढन्तु कारयेत्। तस्य वक्त्राणि कार्याणि पञ्च यादवनन्दन!। सर्वाणि सौम्यरूपाणि दक्षिणं विकटं मुखम्। कपालमालिकं भीमं जगत्संहारकारकम्। त्रिनेत्राणि तु सर्वाणि वदनं तूत्तरं विना। जटाकलापे महति तस्य चन्द्रकला भवेत्। तस्योपरि- ष्टाद्वदनं पञ्चमन्तु विधीयते। यज्ञोपवीतं च तथा वासुकिं तस्य कारयेत्। दशबाहुस्तथा कार्यो देवदेवो महेश्वरः। अक्षमालात्रिशूलञ्च चर्मदण्डमथोत्पलम्। तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज!। वामे च मातुलाङ्गञ्च चापादर्शं कमण्डलुम्। तथा चर्म च कर्तव्यं देवदेवस्य शूलिनः। वर्णस्तथास्य कर्तव्यश्चन्द्रांशु सदृशप्रभः”।
ईशानादीनाम् “ईशस्तत्पुरुषाघोरवामजातक्रमेण तु। सितपीतकृष्णरक्ताश्चतुर्वर्णाः प्रकीर्तिताः। पञ्चवक्ताः स्मृताः सर्वे दशदोर्दण्डभूषिताः। खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः। वराभयकरोपेताः शूलपङ्कजपाणयः”। वामो, वामदेवः। जातः, सद्योजातः।
मूर्त्त्यष्टकस्य “शर्वो भीमो महादेवः रुद्रः पशुपतिर्भवः। उग्र ईशान इत्यष्टौ मूर्तयः शिवसन्निभाः। मृगाङ्कचूडामणयो जटामण्डलमण्डिताः। त्रिनेत्रा वरखट्वाङ्गत्रिशूलवरपाणयः”।
अर्द्धनारीश्वरस्य “अर्द्धं देवस्य नारी तु कर्तव्या शुभलक्षणा। अर्द्धन्तु पुरुषः कार्यः सर्वलक्षणभूषितः। ईश्वरार्द्धे जटाजूटं कर्तव्यं चन्द्रभूषितम्। उमार्द्धे तिलकं कुर्य्यात् सीमन्तमलकं वथा। भस्मोद्धूलितमर्द्धन्तु अर्द्धं कुङ्कुमभूषितम्। नागोपवीतिनं चार्द्धमर्द्धं हारविभूषितम्। वामार्द्धे तु स्तनं कुर्यात् घनं पीनं सुवर्त्तुलम्। उमार्द्धे तु प्रकर्तव्यं सुवस्त्रेण च वेष्टितम्। मेखलां दापयेत्तत्र वज्रवैदूर्यभूषिताम्। ऊर्द्ध्वलिङ्गं महेशार्द्धं सर्पमेखलमण्डितम्। पादञ्च देवदेवस्य समपद्मोपरिस्थितम्। सालक्तकं स्मृतं वाममञ्जनेन विभूषितम्। त्रिशूलमक्षसूत्रञ्च भुजयोः सव्ययोः स्मृतम्। दर्पणञ्चोत्पलं कार्यं भुजयोरपसव्ययोः”।
दक्षिणामूर्तेः “दक्षेण मुद्रां प्रतिपादयन्तं सिताक्षसूत्रं च तथोर्द्धभागे। वामे च पुस्तामखिलागमाद्यां विभ्राणमूर्द्धेन सुधाधरं च। सिताम्बुजस्थं सितवर्णमीशं सिताम्बरालेपनमिन्दुमौलिम्। ज्ञानं मुनिभ्यः प्रतिपादयन्तं तं दक्षिणाभूर्तिमुदाहरन्ति”।
उमामहेश्वरयोः “युग्मं स्त्रीपुरुषं कार्यं उमेशौ दिव्यरूपिणौ। अष्टवक्त्रं तु देवेशं जटाचन्द्रार्द्धभूषितम्। द्विपाणिं द्विभुजां देवी सुमध्यां सुपयोधराम्। वामपाणिन्तु देवस्य देव्याः स्कन्धे नियोजयेत्। दक्षिणन्तु करं शम्भोरुत्पलेन विभूषितम्। देव्यास्तु दक्षिणं पाणिं स्कन्धे देवस्य कल्पयेत्। वामपाणौ तथा देव्या दर्पणं दापयेच्छुभम्”।
हरिहरस्य “कार्यं हरिहरस्यापि दक्षिणार्द्धं सदा शिवः। वाममर्द्धं हृषीकेशः श्वेतनीलाकृतिः क्रमात्। वरत्रिशूलचक्राब्जधारिणो बाहवः क्रमात्। दक्षिणे वृषभः पार्श्वे वामभागे विहङ्गराडिति”।
विद्येश्वराणाम् विश्वकर्मशास्त्रात् “दिग्वर्णा जटिलाः त्र्यक्षाः शरत्रिशूलधारिणः। पुटाञ्जलिकराः सर्वे विश्वेशाश्चैक वक्त्रकाः। अनन्तश्च त्रिमूर्तिश्च सूक्ष्मः श्रीकण्ठ एव च। शिवः शिखण्ड्येकनेत्र एकरुद्रश्च ते क्रमात्”।
१ रुद्रभेदानां तत्राजस्य “अथ रुद्रान् प्रवक्ष्यामि बाहुषोडशकान्वितान्। अजनामा महारुद्रो धत्ते शूलमथाङ्कुशम्। कपालं डमरुं सर्पं मुद्गरञ्च सुदर्शनम्। अक्षसूत्रमथो दक्षे तथा वामे कराष्टके। तर्जनीमूर्द्ध्वतस्तत्र खट्वाङ्गन्तदधः करे। गदां च पट्टिशं घण्टां शक्तिपरशुकुण्डिकाः”।
२ एकपादस्य “एकपादाभिधो बिभ्रत् क्ष्वेडादः स्याद्वहन् शरम्। चक्रं डमरुकं शूलं मुद्गरं तदधोवरम्। अक्षसूत्रमधो वामे खट्वाङ्गञ्चोर्द्धहस्तके। धनुर्घण्टां कपालञ्च कौमुदीं तर्जनीं घटम्। परशुञ्चक्रमाधत्ते क्रमाद् वाह्वष्टके त्विति। अनेकभोगसम्पर्त्ति कुरुते यजनात् सदा”।
३ अहिर्बुध्नस्य “अहिर्बुध्नो गदां चक्रं चासिं डमरुमुद्गरौ। शूलाङ्कुशाक्षमालाश्च दक्षोर्द्ध्वाधःकरैः क्रमात्। तोमरं पट्टिशं चर्म कपालं तर्जनीं घटम्। शक्तिं परशुकं वामे दक्षवद्धारयत्यसिम्”।
४ विरूपाक्षस्य “विरूपाक्षस्ततः खड्गं शूलं डमरुकाङ्कुशौ। सर्पं चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टके। खेटं खट्वाङ्गकं शक्तिं परशुं तर्जनीं घटम्। घण्टाकपोलकौ चेति वामोर्द्धादिकराष्टके”।
५ रेवतस्य “रेवतो दक्षिणे चापं खड्गशूलं गदामहिम्। चक्राङ्कुशाक्षमालास्तु धारयन्नूर्द्धमादितः। धनुः खेटञ्च खष्ट्वाङ्गं घण्टातर्जनिकां ततः। परशुं पट्टिशं पात्रं वामबाह्वकेऽर्कवत्। सर्वसम्पत्करोत्येष जायते वार्च्चनाद्भृशम्”।
६ हरस्य “हराख्यो मुद्गरञ्चैव डमरुं शूलमङ्कुशम्। गदासर्पाक्षसूत्राणि धारयन् दक्षिणोर्द्धतः। पट्टिशन्तोमरं शक्तिं प्ररशुं तर्जनीं घटम्। खट्टाङ्गं पट्टिकाञ्चेति वामोर्द्धादिक्रमेण तु”।
७ बहुरूपस्य “बहुरूपोदधद्दक्षे डमरुञ्च सुदर्शनम्। सर्पं शूलाङ्कुशौ चैव कौमुदीं जपमालिकाम्। घण्टाकपालखट्वाङ्गं तर्जनीं कुण्डिकां घनुः। परशुं पट्टिशं चैव वामोर्द्धादिकराष्टके”।
८ त्र्यम्बकस्य “त्र्यम्बकोऽपि दधच्चक्रं डमरुं मुद्गरं शरम्। शूलाङ्कुशाहिजाप्यञ्च दक्षोर्द्धादिक्रमेण हि। गदाखट्वाङ्कपात्राणि कार्मुकं तर्जनीघटौ। परशुं पट्टिशं चेति वामोर्द्धादिकराष्टके”।
९ सुरेश्वरस्य “सुरेश्वरोहि डमरुं चक्रं शूलाङ्कुशावपि। शरञ्च मुद्गरं चापं दक्षबाह्वष्टके त्विति। पङ्कजं परशुं घण्टां पट्टिशं तर्जनीं घनुः। खट्वाङ्गं कारयेत्पात्रं वामेऽष्टकरपल्लवे”।
१० जयन्तस्य “जयन्तो दशमो रुद्रोऽप्यङ्कुशं चक्रमुद्गरौ। शूला हिडमरुं वाणमक्षसूत्रं यमे त्विति। गदा–खट्वाङ्गपरशुं कपालं शक्तिं तर्जनीम्। घनुः कुण्डी–मथोर्द्ध्वादि वामवाह्वष्टके दधत्”।
११ अपराजितस्य “अथापराजितो दक्षे तोमरं खड्गमङ्कुशम्। शूलाहिचक्रडमरुमक्षमालां दधत् क्रमात्। शक्तिं खेटं गदां पात्रं तर्जनीं पट्टिशङ्कजम्। घण्टामुत्तरतश्चाथ धारयन्नूर्द्ध्वमादितः। अजैकपादहिर्ब्रध्नः विरूपाक्षश्च रेवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः”।
स्कन्दस्य विष्णुधर्मोत्तरात् “कुमारः षण्मुखः कार्यः शिखण्डकविभूषणः। रक्ताम्बरधरः कार्यो मयूरवरवाहनः। कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः। पताका वैजयन्ती च शक्तिः कार्या च वामयोः”।
भैरवस्य “अथातो रूपनिर्माणं वक्ष्येऽहं भैरवस्य तु। लम्बोदरन्तु कर्तव्यं वृत्तपिङ्गललोचनम्। दंष्ट्राकरालवदनं फुल्लनासापुटन्तथा। कपालमालिनं रौद्रं सर्वतः सर्पभूषणम्। व्यालेन त्रासयन्तञ्च देवीं पर्वतनन्दिनीम्। सजलाम्बुदसङ्काशं गजचर्मोत्तरच्छदम्। बहुभिर्बाहुभिर्व्याप्तं सर्वायुधविभूषणम्। वृहत् सालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः। साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम्”।
महाकालस्य “महाकालस्य कथितमेतद्वै भैरवं मुखम्। देवीत्रासनकश्चास्य करे कार्यश्च पन्नगः। न चास्य पुरतः कार्या देवी पर्वतनन्दिनी। शुक्ला न कार्य्यास्य तथा न रक्ता समीपतो मातृगणप्रधाने। कार्यं तथा यत् परिबर्हमस्य गणाश्चकार्या बहुरूपरूपकाः”।
नन्दिनः “नन्दी कार्यस्त्रिनेत्रस्तु चतुर्बाहुर्महाभुजः। सिन्दूरारुणसङ्काशो व्याघ्रचर्मपरिच्छदः। त्रिशूलभिन्दिपालौ च करयोस्तस्य कारयेत्। शिरोगतं तृतीयन्तु तर्जयन्तं तथापरम्। आलोकयानं कर्तव्यं दूरादागमिर्नञ्जनम्”।
वीरभद्रस्य “अनेनैव तु रूपेण वीरभद्रं विदुर्बुधाः”।
ज्वरस्य विश्वकर्मशास्त्रात् “ज्वरस्त्रिपादः कर्तव्यस्त्रिनेत्रैर्वदनैस्त्रिभिः। भस्मप्रहरणो रुद्रस्त्रिबाहुर्व्याकुलेक्षणः”।
१ वसूनां विश्वकर्मशास्त्रात् तत्र धरस्य “अथातः संप्रवक्ष्यामि वसुरूपाणि ते जय!। पद्माक्ष–मालिके तस्य दक्षवामकरद्वये। सीरशक्ती दधानीऽयं धराख्यो वसुरादिमः।
२ ध्रुवस्य “मालां पुष्करवीजोत्थां चक्रं शक्तिं कमण्डलुम्। दक्षाधरादिसिक्येन यस्य स्युः स ध्रुवो मतः”।
३ सोमस्य “मुक्ताफलकृतामाला पङ्कजं शक्तिरङ्कुशः। स वसुः कीर्तितो वत्स सोमनामेति वै बुधैः”।
४ आपस्य “सव्यवामोर्द्धगौ यस्य करौ स्तः शक्तिसंयुतौ। सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः”।
५ अनिलस्य “अक्षमालोपवीत्यूर्द्ध्वे शृणिशक्तिकरावधः। यस्य स्तः सोऽनिलाख्यः स्याच्छुभदः पञ्चमो वसुः”।
६ नलस्य “स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत्। सव्योर्द्धादिक्रमाद्योऽसौ नलाख्यस्तु वसुः स्मृतः”।
७ प्रत्यूषस्य “खट्वाङ्कुशधरः सव्ये शक्तिखेटकरोऽन्यतः। प्रत्यूषाख्यो वसुश्चायं सप्तमः परिकीर्तितः”।
८ प्रभासस्य “सव्ये दण्डकपालोऽसौ वामे तु शृणिशक्तिकः। शुभदः कीर्तितश्चायं प्रभासो–वसुरष्टमः। एते सर्वे समाख्याता नवकाञ्चनसन्निभाः। धरोध्रुवश्च सोमः स्यादापश्चैवानिलो नलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः”।
द्वादशादित्यानाम् “शृणु वत्स! प्रवक्ष्यामि सूर्यभेदांस्तु ते जय!। यावत् प्रकाशकः सूर्यो जायते मूर्तिभिर्यथा”।
१ धातुः “दक्षिणे पौष्करी माला करे वामे कमण्डलुः। पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता”।
२ मित्रस्य “शूलं वामकरे चास्याः दक्षिणे सोम एव च। मैत्री नाम त्रिनयना कुशेशयविभूषिता”।
३ अर्यम्णः “प्रथमे तु करे चक्रं तथा वामे च कौमुदी। मूर्तिरार्यमणी ज्ञेया सपद्मैः पाणिपल्लवैः”।
६ रुद्रस्य “अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम्। सा मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता”।
५ वरुणस्य “चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः। सा वारुणी भवेन्मूर्तिः पद्मव्यग्रकरद्वया”।
६ सूर्यस्य “कमण्डलुर्दक्षिणतो माला चाक्षमयी भवेत्। सा भवेत् सम्मता सूर्यमूर्तिः पद्मविभूषिता”।
७ भगस्य “यस्या दक्षिणतः शूलं वामहस्ते सुदर्शनः। भगमूर्तिः समाख्याता पद्महस्ता शुभा जय!”।
८ विवस्वतः “अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम्। विवस्वन्मूर्तिरेषा स्यात् पद्मलाञ्छनलक्षिता”।
९ पूष्णः “पूषाख्यस्य भवेन्मूर्त्तिर्द्विभुजा पद्मलाञ्छिता। सर्व पापहरा ज्ञेया सर्वलक्षणलक्षिता”।
१० सवितुः “दक्षिणे तु गदा यस्या वामे चैव सुदर्शनः। पद्मव्यग्रा तु सावित्री मूर्तिः सर्वार्थसाधनौ”।
११ त्वष्टुः “स्रुचं च दक्षिणे हस्ते वामे होमजकालिकाम्। मूर्तिस्त्वाष्ट्री भजेत् सा स्यात् पद्मरुद्धकरद्वया”।
१२ विष्णोः “सुदर्शनकरा सव्ये पद्महस्ता तु वामतः। एषा स्यात् द्वादशी मूर्तिर्विष्णोरमिततेजसः। धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च। भगो विवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथा त्वष्ट्वा विष्णुर्द्वादश उच्यते”।
मरुताम् “अथातः संप्रवक्ष्यामि रूपाणि मरुतां तव”।
१ श्वसनस्य “अक्षमालाम्बुजे दक्षे वामे कुण्डीध्वजान्वितः। श्वसनाख्यो भवेदेवं साधकानां सुसिद्धिदः”।
२ स्पर्शनस्य “चक्राक्षमालिकापात्रध्वजयुक् स्पर्शनाभिधः”।
३ वायोः “कपालध्वजपाशाब्जधारको वायुनामकः”।
४ मातरिश्वनः “मातरिश्वा कपालाब्जध्वजपात्रकरो मतः”।
५ सदागतेः “ध्वजाक्षसूत्रपात्राब्जं बिभ्राणः स्यात्सदागतिः।
६ महाबलस्य “ध्वजासिखेटपात्राणि धारयंस्तु महाबलः”।
७ बलवर्द्धनस्य “ध्वजपाशकपालाहिसंयुतो बलवर्द्धनः”।
८ पृषदश्वस्य “पात्राक्षसूत्रपाशाब्जधारकः पृषदश्वकः”।
९ गन्धवहस्य “अक्षसूत्रगदाकम्बुध्वजी गन्धवहाभिधः”।
१० गन्धवाहकस्य “कपालध्वजपात्राब्जहस्तको गन्धवाहकः”
११ अनिलस्य “ज्ञानमुद्राक्षसूत्राब्जध्वजहस्तोऽनिलो मतः”।
१२ आशुगस्य “अक्षमालासुनीलाब्ज–ध्वज–कम्बुधृगाशुगः”।
१३ सुमुखस्य “ध्वजबाणधनुःकुण्डीकरयुक् सुमुखी भवेत्”।
१४ कर्करस्य “ध्वजाब्जपात्रमुद्राश्च धारयेत् कर्कराभिधः”।
१५ समीरणस्य “अब्जाक्षमालिकापात्रध्वजहस्तः समीरणः”।
१६ समीरकस्य “ध्वजपात्रधनाब्जानि बिभ्राणस्तु समीरकः”।
१७ अनुत्तमस्य “अक्षसूत्रध्वजाब्जानि मुण्डं बिभ्रत्यनुत्तमः।
१८ मारुतस्य “अक्षमालाध्वजाब्जानि धारयन्मारुताभिधः”।
१९ नागयोनिजस्य “पव्यक्षसूत्रपाशाब्जसंयुतो नागयोनिजः”।
२० जगत्प्राणस्य “ध्वजमुण्डाक्षपात्री स्याज्जगत्प्राणाभिधः स्मृतः”।
२१ पवनस्य “ध्वजसूत्रसपाशाब्जसंयुतः पवनाभिधः”।
२२ वातस्य “खट्वाङ्गध्वजखेटानि बिभ्राणो वातसंज्ञकः”।
२३ प्रभञ्जनस्य “ध्वजाक्षमृगपात्राणि धारयंस्तु प्रभञ्जनः”।
२४ पवस्य “अक्षसूत्रध्वजाब्जाहिपाणियुक् पवनामकः”।
२५ नभस्वतः “शूलाब्जध्वजपात्राणि नमस्वानिति धारयन्”
२६ अतिबलस्य “ध्वजाङ्कुशाक्षमुण्डानि बिभ्राणोऽतिबलो मतः”
२७ तरस्विनः “सध्वजाम्बुजपात्राङ्कस्तरस्वी नाम कीर्त्तितः”।
२८ द्रावणस्य “दण्डमुण्डध्वजाब्जानि धारयन् द्रावणो मतः”।
२९ देवयक्षकस्य “ध्वजाक्षतर्जनीपात्रपाणियुग् देवयक्षकः”।
३० गात्रजाहस्य “अक्षमालाकुठाराब्जध्वजयुग्गात्रजाहकः”।
३१ अधरस्य “घण्ठाक्षध्वजमुण्डानि धारयन्नधराभिधः”।
३२ ऊर्द्ध्वदृशः “बोधिपल्लवसूत्राब्जध्वजहस्तः सदोर्द्धदृक्”।
३३ गतिरोधनस्य “अक्षसूत्रध्वजाशोकपात्रयुक्गतिरोधनः”।
३४ पाणिकस्य “पाणिको नाम विज्ञेयो वाणाक्षध्वजमुण्डयुक्”।
३५ साधकस्य “ध्वजाक्षवटपात्राणि धारयन् साधको मतः”।
३६ विश्वपूरकस्य “वीजपूरध्वजाब्जाक्षसंयुतो विश्वपूरकः”।
३७ जगदाश्रयस्य “घण्टाक्षध्वजमालाभिः संयुतो जगदाश्रयः”
३८ विश्वातिरिक्तस्य “विश्वातिरिक्तकोनाम ध्वजलाञ्छनपाशयुक्”
३९ कुजागरस्य “अक्षमालाकजे घण्टाध्वजौ बिभ्रत् कुजागरः”
४० विश्वोदरस्य “विश्वोदरो भवेदेष शङ्खशूलघटध्वजी”।
४१ अग्रहस्य “अग्रहो नाम विज्ञेयो ह्यक्षबाणधनुर्घटी”।
४२ तीव्रकस्य “श्रीफलाब्जाक्षपात्राणि धारयंस्तीव्रको मतः”।
४३ सुवहस्य “शक्तिमुण्डध्वजपाशी सुवहोऽयं प्रकीर्तितः”।
४४ वीजवर्द्धनस्य “अक्षसूत्रध्वजपाशपात्रयुक् वीजवर्द्धनः”।
४५ भदजवस्य “ध्वजपाश–कपालाब्जैर्युतो भद्रजवो मतः”।
४६ पुष्करोद्भवस्य “टङ्कपाश–ध्वजाब्जानि धारयन् पुष्करोद्भवः”।
४७ अब्जिनीपतेः “पलाशपत्रपाशाब्जध्वजहस्तोऽब्जिनीपतिः”।
४८ व्यक्तमूर्त्तेः “जम्बुवीज–ध्वजा–ब्जाक्षपाणियुग्व्यक्तमूर्तिकः”।
४९ विश्वगत्य “परिघाक्षध्वजाब्जानि धारयन् विश्वगो मतः। सर्वे चतुर्भुजा ज्ञेया युवानः कुटिलभ्रुवः। सव्योर्द्धाद्युत्तरोर्द्धान्तक्रमेणायुधधारिणः। रक्ताक्षाश्च महावीर्याः सर्वभूषणभूषिताः। धूम्रवर्णा मृगारूढाः सर्वे ते शवलांशुकाः। इति तेऽत्र समाख्याता शुभदास्तु मरुद्गणाः। संख्ययैकोनपञ्चाशत् सर्वरोगापनुत्तये”। स्कन्दपुरा०
साध्यानां ब्रह्माण्डपुराणे “साध्याः पद्मासनगताः कमण्डल्वक्षसूत्रिणः। धर्मपुत्रा महात्मानो द्वादशामरपूजिताः”
विष्णुधर्मोत्तरे “मनोनुमन्ता प्राणश्च नरयानश्च वीर्यवान्। वित्तिर्हर्यो, नयश्चैव हंसो नारयणस्तथा। प्रभवो विष्णुर्विश्वश्च साध्या द्वादश जग्मिरे”।
अश्विनोः “पद्मपत्रसवर्णाभौ पद्मपत्रसमाम्बरौ। द्विभुजौ देवभिषजौ कर्तव्यौ देहसंयुतौ। सर्वाभरणसम्पन्नौ विशेषाच्चारुलोचनौ। तयोरौषधयः कार्या दिव्या दक्षिणहस्तयोः। वामयोः पुस्तके कार्ये दर्शनीये तथा नृप!। एकस्य दक्षिणे पार्श्वे वागे चान्यस्य यादव!। नारीयुगं प्रकर्तव्यं सुरूपञ्चारुदर्शनम्। तयोश्च नामनी प्रोक्ते रूपसम्पत् तथाकृतिः। मधूकपुष्पसङ्काशा रूपसम्पत् प्रकीर्तिता। आकृतिः कथिता लोके शरकाण्डनिभा तथा। रत्नभाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा”।
रेवन्तस्य “पृष्ठस्थः सूर्यवत् कार्यो रेवन्तश्च तथा प्रभुः”।
यक्षाणां मयसंग्रहे “तुन्दिला द्विभुजाः कार्या निधिर्हस्तो मदोत्कटः। गदी वैश्रवणः प्रेष्ठो नृपालस्त्वष्टमो वरः। सिद्धार्थो मणिभद्रश्च सुमना नन्दनो यशाः। कण्डूतिः पाञ्चकः शङ्खो मणिमान् पद्मरामकौ। सर्वत्रभोजी पिङ्गाक्षश्चतुरो मन्दराश्रयः। शुभद्रचन्द्रप्रद्योतमेघवर्णजयावहाः। द्युतिमान् केतुमान् श्वेतोमौलिमान् विजयाकृतिः। पद्मवर्ण–महाघास–पुष्पदन्ताः सुदर्शनाः। पूर्णमास–हिरण्याक्ष–शतजिह्व बलाहकाः। बलाकविपुलौ पद्मनाभः कुमुदवीरकौ। सुगन्ध इत्यमी यक्षास्तेषां राजा धनाधिपः”।
राक्षसादीनां मयदीपिकायाम् “रक्तवस्त्रधराः कृष्णा नखदीर्घाः सदंष्ट्रिकाः। कर्त्तीखट्वाङ्घहस्ताश्च राक्षसा घोररूपिणः। हेतिः प्रहेतिः यज्ञघ्नः शङ्कुश्च सनिबन्धनः। विद्युत्सर्जमनुष्यादपौरुषेयसुकेशिनः। उग्रमालीत्यमी प्रोक्ताः प्रधाना राक्षसाः किल। भूतास्तथैव दानाश्च दीर्घवक्त्राः पिशाचकाः”।
गन्धर्वरूपिमाह विश्वकर्मा “वरदो भक्तलोकानां किरीटी कुण्डली गदी। कार्यस्तु रूपी गन्धर्वो वीणावाद्यरतस्तथा”।
वासुकेस्तत्रैव “अनन्तो रक्तकायश्च सितपङ्कजमालिकः। शतसाहस्रभोगीऽहिः शिरःकुबलयान्वितः”।
तक्षकादिनागरूपमाह मयः “श्वेतदेहश्च कर्तव्यः स्फुरन्मौक्तिकसन्निभः। रक्ताङ्गः स्वस्तिकोपेतः सुतेजास्तक्षको महान्। कृष्णः कर्कोटक कण्ठे शुक्लरेखात्रयान्वितः। रक्तपद्मनिभः पद्मः शिरःशुक्लः सविद्रुमः। शङ्खवर्णो महापद्मो मस्तके कृष्णशूलधृक्। हेमाभः शङ्खपालः स्यात् सितरेखाधरो गले। कुलिको रक्तदेहस्तु चन्द्रार्द्धकृतमस्तकः। द्विजिह्वा बाहुवत्सप्तफणामणिसमन्विताः। अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः। एकभोगास्त्रिभोगावा ह्येतज्जाताः सुतादयः”।
पितॄणाम् विष्णुधर्मोत्तरे कशपद्मविष्टरस्थाः पितरः पिण्डपात्रिणः”। ते च वायुपुराणोक्ता यथा “आभास्वरा बर्हिषदो अग्निष्वात्तास्तथैव च। क्रव्यादाः श्चोष्मपाश्चैव आज्यपाश्च सुकालिनः”
विश्वदेवानाम् “क्रतुर्दक्षो वसुः सत्यः कालको धुरिलोचनौ। पुरूरवा माद्रवाश्च विश्वे देवा दश स्मृताः। विदेहास्तु प्रकर्तव्या दक्षिणे वाणपाणयः। कर्तव्या वामभागे तु शरासनपरायणाः”।
प्रसङ्गादस्त्ररूपाण्यपि तत्र विश्वकर्मोक्तानि यथा “षड्त्रिंशदङ्गुले खड्गशक्ती तालाधिकौ मतौ। शूलपाशौ पद्मशङ्खौ तालमात्रौ प्रकीर्तितौ। गदा द्विताला पाशश्च गोलकोऽष्टप्रमाणतः। वाणो द्वितालको दण्डो द्विगुणो द्वादशाङ्गुलः। कपालं पङ्कजं चर्म पार्श्व खड्गोऽङ्गुलो मतः। डमरुसुस्वना घण्टा छुरिका षोडशाङ्गुला। वज्रं तत् पुरुषस्थूलं पट्टिशोऽतिदृढो बली। शक्तिस्तु योषिदाकारा लोहिताङ्गी वृकाश्रिता। दण्डोऽपि पुरुषः कृष्णो घोरी लोहितलोचनः। खड्गश्च पुरुषः श्यामशरीरः क्रुद्धलोचनः। पाशः सप्तफणः सर्पपुरुषः पुच्छसंयुतः। ध्वजस्तु पुरुषः पीतो व्यावृतास्यो महाबलः। गदा पीतप्रभा कन्या सुपीन जघनस्थला। त्रिशूलं पुरुषो दिव्यः सभ्रूः श्यामकलेवरः। शङ्खोऽपि पुरुषो दिव्यः शुक्लाङ्गः शुभलोचनः। हेतिर्बहुतिथी सा स्त्री भिन्दिः श्यामतनुः पुमान्। शरः स्यात् पुरुषो दिव्यो रक्ताङ्गो दिव्यलोचनः। धनुः स्त्री पद्मरक्ताभा मूर्ध्नि पूरितचापभृत्। एवमस्त्राणि पूतानि जानीयात् परमेश्वरे। उक्तानां चैव सर्वेषां मूर्ध्नि स्वायुधलाञ्छनम्। भुजौ द्वौ तु प्रकर्तव्यौ स्कन्धलग्नौ सदा बुधैः।
धर्मज्ञानवैराग्यैश्वर्याणाम् “धर्मं ज्ञानं च वैराग्यमैश्चर्यं च तथैव हि। सितरक्तपीतकृष्णसिंहरूपाः प्रकीर्तिताः”।
पृथ्व्याः विष्णुधर्मोत्तरे “शुक्लवर्णा मही कार्या दिव्याभर- णभूषिता। चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बराः। रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम्। पद्मं करे च कर्तव्यं भुवी यादवनन्दन!। दिग्गजानां चतुर्णाञ्च कार्या पृष्ठंगता तथा। सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता”।
लवणोदस्य “लवणोदः प्रकर्तव्यी द्विभुजः सर्बसिद्धये। धत्तेऽब्जमालिकां दक्षे वामे पात्रं तु रत्नभृत्। सोत्तरीयो पवती च पाटलाभः सुवस्त्रधृक्। बर्हिःपवित्रपाणिस्तु लाभदो भूतिमण्डितः”।
क्षीरोदस्य “क्षीरोदः श्वेतवर्णस्तु द्विभुजो रत्नकुण्डलः। मकरस्थोऽम्बुजन्दक्षे वामे तु कलसं दधत्”।
दधिमण्डोदस्य “दधिमण्डोद एवात्र विज्ञेयो वारिजासनः। दण्डं शङ्खं च बिभ्राणो द्बिभुजोऽसौ जटायुतः”।
घृतोदस्य “घृतोदः कपिलो ज्ञेयः कुलीरस्थो जटाधरः। कशेरुपीतं पात्रञ्च घटं बिभ्रत्तु दोर्द्वये”।
इक्षूदस्य “इक्षुदोऽत्र प्रकर्तव्यो गोमूत्रसदृशच्छविः। दर्दुरस्थो घटं दण्डं विभ्राणो नीलकुण्डलः”।
सुरोदश्य “सुरोदो गण्डकान्तस्थो ज्ञेयो गोमेदसन्निभः। मुद्गरं कुण्डिकां बिभ्रत् द्विभुजो भूतिवर्द्धनः”।
स्वादूदस्य “स्वादूदो मौक्तिकाभासो दर्दुरस्थो सुवेशधृक्। मुक्तासूत्रार्द्धपात्रे च धारयन् सर्पभूषणः। वैदूर्यसदृशाः सर्वे द्विभुजाः कलसान्विताः। पङ्कजस्थाः प्रकर्तव्याः देवतास्नपनाय तु”।
द्वीपादीनाम् विष्णुधर्मोत्तरात् “द्वीपवर्षनगाः सर्वे कामरूपधरा यतः। प्रेष्ठायुधान्विताः कार्याः स्वस्वचिह्नधरा नराः”।
दिशाम् “पूर्बा १ गजगता बाला रक्तवर्णा तु दिग् भवेत्। पङ्कजस्था प्रतिज्ञेया करेणुकृतहस्तका। वृहद्वक्त्रा वृहत्काया पद्माभा पूर्वदक्षिणा २। रथस्था दक्षिणा ३ पीता तथा स्यात् प्राप्तयौवना। उष्ट्रगा कृष्णपीता च तरुणी याम्यपश्चिमा ४। यौवनाद्विच्युता कृष्णा पश्चिमा ५ तुरगस्थिता। आसन्नपलिता नीला मृगगा तदनन्तरा ६। श्वेता नरगता वृद्धा तथा भवति चोत्तरा ७। अतिवृद्धा वृषस्था च शुक्ला पूर्वोत्तरा ८ भवेत्। अधस्तात् ९ पृथिवीतुल्या चोर्द्धा १० गगनसन्निभा”।
१ दिक्पतीनाम् तत्रेन्द्रस्य “चतुर्दन्ते गजे सक्तः श्वेतः कार्यः सुरेश्वरः। वामोत्सङ्गगता कार्या तस्य भार्य्या शची नृप!। नीलवस्त्रा सुवर्णाभा सर्वाभरणवांस्तथा। तिर्यग् ललाटकस्तार्क्ष्यः कर्तव्यश्च विभूषितः। शक्रश्च- तुर्भूजः कार्य्यो द्विभूजा च तथा शची। पद्माङ्कुशौ च कर्तव्यौ वामदक्षिणहस्तयोः। वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम्। वामे शच्याः करे कार्या रम्याः सन्तानमञ्जरी। दक्षिणं पृष्ठविन्यस्तं देवराजस्य कारयेत्”।
२ अग्नेः “रक्तं जटाधरं वह्निं कारयेद्धूम्रवाससम्। ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम्। चतुर्बाहु” चतुर्दंष्ट्रं देवेशं वायुसारथिम्। चतुर्भिश्च शुकैर्युक्ते धूमचिह्नरथे स्थितम्। वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत्। रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः। ज्वालात्रिशूले कर्तव्ये त्वक्षमाल्यञ्च वामके”।
३ यमस्य “सजलाम्बुदसच्छायः तप्तत्वामीकराम्बरः। महिषस्थश्च कर्तव्यः सर्वाभरणवान् यमः। नीलोत्पलाभां धूम्रोर्णां वामोत्सङ्गे च कारयेत्। धूम्रीर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः। दण्डखड्गावुभौ कार्यौ यमदक्षिणहस्तयोः। ज्वाला त्रिशूला कर्तव्या त्वक्षमाला च वामके। दण्डोपरि मुखं कार्यं ज्वालामालाविभूषणम्। धूम्रोर्णादक्षिणो हस्तो यमपृष्ठगतो भवेत्। वामे तस्याः करे कार्यं मातुलाङ्गं सुदर्शनम्। पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं तु कारयेत्। आपीच्यवेषं स्वाकारं द्विभुजं सौम्यदर्शनम्। दक्षिणे लेखनी तस्य वामे पत्रं तु कारयेत्। वामे पाशधरः कार्यः कालो विकटदर्शनः”।
निरृतेः “विरूपाक्षो विवृत्तास्यः प्रांशुदंष्ट्रोज्ज्वलाननः। ऊर्द्ध्व केशी खरस्थश्च द्विबाहुर्भीषणाननः। कर्णेन कृष्णरक्ताङ्गः कृष्णाम्बरधरस्तथा। सर्वाभरणवान् दंष्ट्रासङ्घैर्दण्डधरस्तथा। भार्य्याश्चतस्रः कर्तव्या देवी च निरृतिस्तथा। कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः”।
वरुणस्य “सप्तहंसे रथे कार्यो वरुणो यादसाम्पतिः। स्निग्धवैदूर्यसंकाशः श्वेताम्बरधरस्तथा। किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषितः। सर्वाभरणवान् राजन्! महादेवश्चतुर्भुजः। वामभागगतं केतुं मकरं तस्य कारयेत्। छत्रं तु सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी। वामोत्सङ्गगता कार्या मध्ये तु द्विभुजा नृप!। उत्पलं कारयेत् वामे दक्षिणे देवपृष्ठगम्। पद्मपाशौ करे कार्यौ देवदक्षिणहस्तयोः। शङ्खञ्च रत्नपात्रञ्च वामयोस्तस्य कारयेत्। भागे तु दक्षिणे गङ्गा मकरस्था सचामरा। देवी पद्मकरा कार्या चन्द्रगौरी वरानना। वामे तु यमुना कार्या कूर्मसंस्था सचामरा। नीलोत्पलकरा सौम्या नीलनीरजसन्निभाः”।
वायोः “वायुरम्बरवर्णस्तु तदाकाराम्बरो भवेत्। काष्ठपूरितचक्रस्तु द्विभुजो रूपसयुतः। गमनेच्छुः शिवा भार्या तस्य कार्या च वामतः। कार्यो गृहीतचक्राङ्कः कराभ्यां पवनो द्विजः। तथैव देवी कर्त्तव्या शिवा परमसुन्दरी। व्यावृतास्यस्तथा कार्यो देवोव्याकुलमूर्द्धजः”।
धनदस्य विष्णुधर्मोत्तरात् “कर्तव्यः पद्मपत्राभो वरदो नरवाहनः। चामीकराभो वरदः सर्वाभरणभूषितः। लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः। आपीच्यवेषः कवची हारभारी मनोहरः। द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः। वामेन विभवा कार्या मौलिस्तस्यारिमर्दन!। वामात्सङ्गगता कार्या वृद्धिर्देवी वरप्रदा। देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम्। रत्नपात्रधरं कुर्यात् वामं रिपुनिसूदन!। गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः। सिंहार्कलक्षणं केतुं, शिविकामपि पादयोः। शङ्खपद्मनिधी कार्य्यौ सरूपौ निधिसंस्थितौ। शङ्खपद्माञ्जलिक्रान्तं वदनं तस्य पार्श्वयोः”
आकाशस्य “नीलोत्पलाभं गगनं तद्वर्णाम्बरघारि च। चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम्”।
व्योम्नः “चतुरस्रं भवेन्मूलं ततो वृत्तं महाभुज। तत्तुल्यचतुरस्रञ्च मेरुवत् संस्थितं शुभम्। भद्रपीठमयः प्रोक्तो व्योमभागस्तृतीयकः। स्तम्भवच्चतुरस्रश्च मध्यभागः प्रकीर्तितः। भद्रपीठवदन्यच्च तत्र पद्मं निवेशयेत्। शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरः। पत्राष्टके न्यसेत्तस्य दिक्पालान् सर्वतोदिशः”।
ध्रुवस्य “विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः। चक्ररश्मिकरः श्रीमान् द्विभुजः सौम्यदर्शनः”।
रवेः मत्स्यपुराणात् “रविः कार्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः। आपीच्यवेषः स्वाकारः सर्वाभरणभूषितः। चतुर्बाहुर्महातेजा कवचेनाभिसंवृतः। कर्तव्या रशना चास्य पानीयाङ्गेति संज्ञिताः। रश्मयस्तस्य कर्तव्या वामदक्षिणहस्तयोः। ऊर्द्ध्वे स्रग्दामसंस्थाना सर्वपुष्पाचता शुभा। स्वरूपरूपः स्वाकारो दण्डः कार्योऽस्य वामतः। दक्षिणे पिङ्गले भागे कर्तव्यश्चातिपिङ्गलः। आपीच्यवेषौ कर्तव्यौ तावुभावपि यादव!। तयोर्मुर्ध्नि च विन्यस्तौ करौ कार्यौ विभावसोः। लेखनीपत्रके कार्ये पिङ्गलश्चातिपिङ्गलः। चर्मशूलधरो देवस्तथा यत्नाद्विधीयते। सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः। चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पार्श्वयोः। रेवन्तश्च यमश्चैव मनुद्वितयमेव च। ग्रहराजी रविः कार्यो ग्रहैर्वा परिवारितः। राज्ञी सवर्णा छाया च तथा देवी सुवर्च्चसा। चतस्रश्चास्य कर्तव्याः पत्न्यश्च परिपार्श्वयोः। एकचक्रे च सप्ताश्वे षडश्रे वा रथोत्तरे। उपविष्टस्तु कर्तव्यो देवोह्यरुणसारथिः”।
विष्णुधर्म्मोत्तरे तु “पद्मासनः पद्मकरः पद्मगर्भदलद्युतिः। सप्ताश्वरथसंस्थश्च द्विभुजश्च सदागतिः”।
चन्द्रस्य मत्स्यपुराणे “चन्द्रः श्वेतवपुः कार्यः श्वेताम्बरधरः प्रभुः। चतुर्बाहुर्महातेजाः सर्वाभरणभूषितः। कुमुदौ च सितौ कार्यौ तस्य देवस्य हस्तयोः। कान्तिर्मूर्त्तिमती कार्या तस्य पार्श्वे तु दक्षिणे। वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि। चिह्नं तथास्य सिंहाङ्कं वामपार्श्वेऽर्कवद्भवेत्। दशाश्वे च रथे कार्योद्विचक्रे वरसारथौ”। विष्णुधर्मोत्तरे तु “श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतभूषणः। गदापाणिर्द्विर्बाहुश्च कर्तव्यो वरदः शशी”।
भौमस्य मत्स्यपुराणात् “भौमोऽग्नितुल्यः कर्त्तव्यस्त्वष्टास्वे काञ्चने रथे”। विष्णुधर्मोत्तरे “रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः। चतुर्भुजो मेषगमो वरदः स्याद्धरासुतः”।
बुधस्य “विष्णुतुल्यो बुधः कार्यो भौमतुल्ये तथा रथे”।
“गुरोः “तप्तजाम्बूनदाकारो द्विभुजश्च वृहस्पतिः। पुस्तकं चाक्षमालाञ्च करयोस्तस्य कारयेत्। सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः”।
शुक्रस्य “अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनीरमे। शुक्रः श्वेतवपुः कार्यः श्वेताम्बरधरस्तथा। द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ। दशाश्वे वा रथे कार्यो राजते भृगुनन्दनः”।
शनेः “कृष्णवासास्तथा कृष्णः शनिः कार्योऽसिताननः। दण्डाक्षमालासंयुक्तः करद्वितयभूषणः। कार्ष्णायसे रथे कार्यस्तथैवाष्टतुरङ्गमे”।
राहोः “रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणैः। कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतम्। करमेकन्तु कुर्य्याच्च शस्यशून्यन्तु दक्षिणम्”।
केतोः “विश्वकर्मशास्त्रात् “भौमवच्च तथा रूपं केतोः कार्यं विजानता। केबलं चास्य कर्तव्याः दश राजंस्तुरङ्गमाः”।
शुक्लपक्षस्य प्रतिपदः “तिथयोह्यधुनोच्यन्ते प्रतिपद् द्विभुजारुणा। मेषगा शक्तिपात्रा सा मितपक्षादिमा मता”।
द्वितीयायाः “द्वितीया हंसगा शुभ्रा पात्रपुस्तकधारिणी”।
तृतीयायाः “तृतीया वृषगा गौरी शूलपात्रधरा मता”।
चतुर्थ्याः “नीलोत्पलदलाभासा चतुर्थी मूषकस्थिता। परशुं बिभ्रती पात्रं पीतवस्त्राऽहिसंयुता”।
पञ्चम्याः “पङ्गजस्था प्रबालाभा फणामस्तकभूषणा। शङ्खं मुद्रां तथा पाशं बिभ्राणा पञ्चमी मता”।
षष्ट्याः “मयूरगाऽरुणा षष्ठी पात्रकुक्कुटधारिणी”।
सप्तम्याः “ताम्रवर्णाब्जपात्रा सा हयस्था सप्तमी मता”।
अष्टम्याः “घण्टापात्रधरा गोस्था गोक्षीरधबलाऽष्टमी”।
नवम्याः “नवमी सिंहगा शुभ्रा पाशपात्रधरा शुभा”।
दशम्याः “कृष्णवर्णा लुलापस्था दशमी दण्डपात्रिणी”।
एकादश्याः “एकादशी मृगाब्जस्था तुला–कर्त्तरिकायुता। मिंहाननाऽरुणगला–तुन्दिला लासिनी परा”।
द्वादश्याः “द्वादशी गरुडारूढा मेघबर्णारपात्रिणी” अरं, चक्रम्
त्रयोदश्याः “चापबाणधरा गौरी मकरस्था त्रयोदशी”।
चतुर्दश्याः “अब्जस्था पाटलाभा सा पलपात्रसुरामृता। नीलकण्ठेन्द्रगोपाभलोचनेयं चतुर्दशी”।
पौर्णमास्याः “शशगा पूर्णिमा शुभ्रा मौक्तिकाभरणान्विता। सुधापूर्णघटा धीर! वामदक्षिणबाहुका”।
कृष्णप्रतिपदः “धूसरा कृष्णपक्षाद्या मारसंस्था चतुर्मुखा। अक्षसूत्रं स्रुवं पुस्तीं पात्रं धत्ते चतुर्भुजा”।
कृष्णद्वितीयायाः “द्वितीया कुमुदाभासा ऋक्षस्था साक्षकुण्डिका”।
कृष्णतृतीयायाः “तृतीया तार्क्ष्यगा नीला शङ्खपात्रधरा द्विदोः”।
कृष्णचतुर्थ्याः “चतुर्थी कज्जलाभा सा महिषस्था चतुर्भुजा। धत्तेऽक्षमालिकां दण्डं पाशं पात्रञ्च दंष्ट्रिणी”।
कृष्णपञ्चम्याः “ग्राहस्था चन्द्रगौराभा पञ्चमी साक्षकुण्डिका”।
कृष्णषष्ट्याः “त्र्यक्षी मयूरगा रक्ता शक्तिकुक्कुटधारिणी। राकास्या द्विभुजा षष्ठी रक्तवस्त्रा सुभूषणा। नीलकुण्डलकण्ठा सा जटाखण्डेन्दुभूषिता”।
कृष्णसप्तम्याः “इभस्था सप्तमी गौरी द्विभुजा वज्रपात्रिणी”।
कृष्णाष्टम्याः “प्रेतगा चाष्टमी रक्ता कृष्णग्रीवा सिताशुका। अक्षं खङ्गं तथा खेटं पात्रं धत्ते चतुर्भुजा”।
कृष्णनवम्याः “सर्पगा नवमी नीला दंष्ट्रिणी पात्रतर्जनी”।
कृष्णदशम्याः “सिंहासनस्थिता शुभ्रा दशमी पीतकुण्डला। ज्ञानमुद्राक्षपात्रेयं पीतवस्त्राब्जमालिनी”।
कृष्णैकादश्याः “एकादशी वृषस्थाब्जनीलशुभ्रारशूलिनी”।
कृष्णद्वादश्याः “ताम्रवर्णा रथारूढा पात्रखेटासिपङ्कजा। द्वादशी शुभ्रवस्त्रेयं नीलकुण्डलभूषिता”।
कृष्णत्रयोदश्याः “अशोककलिकाबाणचापपात्रा त्रयोदशी। मेचकाब्जासना श्यामा हरिद्वस्त्रा मदालसा। गदापात्रधरा गौरी निधिस्था वा त्रयोदशी”।
कृष्णचतुर्दश्याः “द्विभुजा तुरगारूढा कृष्णवर्णा चतुर्दशी। खड्गभल्लधरा नीलकुण्डलांशुकभूषणा”।
अमावस्यायाः “अमावास्या विधातव्या द्विर्दोर्मरकतप्रभा। दर्भासनस्थिता चेयं दर्भपिण्डधरा कृशा”।
नक्षत्राणाम् अश्विन्याः “अथ नक्षत्ररूपाणि कथयामि समासतः। तत्रादावश्विनी ज्ञेया पद्मपत्रनिमा शुभा। अश्वबक्त्राम्बुजारूढा द्विभुजा च सिताम्बरा। दक्षे दिव्यौषधीपात्रं बिभ्रती पुस्तकं करे”।
भरण्याः “भरणी महिषारूढा गजवक्त्वाञ्जनप्रभा। दण्डपाशधरात्युग्रा रक्तदृक् परिकीर्तिता”।
कृत्तिकायाः “छागस्था छागवक्त्रास्या पिङ्गभ्रूकेशलोचना। सूत्रं शक्तिञ्च बिभ्राणा पीनाङ्गिजठराऽरुणा। कृत्तिका कीर्तिता चेयं स्वर्णमालाबिभूषणा”।
रोहिण्याः “रोहिणी तुहिनाभासा सर्पवक्त्रा तु हंसगा। सूत्रकुण्डीधरा देवी कीर्तिता हारभूषणा”।
मृगशीर्षायाः “मृगानना हयास्या वा नागवक्त्वाऽऽग्रहायणी। गृध्रस्था चन्द्रगौराभकुण्डिकाजपमालिनी”।
आर्द्रायाः “श्वमुखी कृष्णवर्णा तु रक्तार्द्रा शूलपाणिनी। नीलवस्त्रा वृषारूढा चास्थिमालाविभूषणा”।
पुनर्वसीः “शूकरास्यो विडालस्थो गौरवर्णः पुनर्वसुः। सूत्रवज्राङ्कुशाभीतीर्बिभ्राणः परिकीर्तितः”।
पुष्यस्य “छागारूढश्च मेघाभः पुष्योऽयं मधुपिङ्गदृक्। अक्षचण्डासनीकुण्डीं दधानोऽत्र चतुर्भुजः”।
अश्लेषायाः “कोकास्या वा विडालास्या रक्ताऽश्लेषा चतुर्भुजा। अक्षकुण्डीधरा द्वाभ्यां सर्पालिङ्गनधारिणी”।
मघायाः “कपिवक्त्रा मघा श्यामा कृशाङ्गी च महोदरा। दर्भपिण्डधराऽब्जस्था द्विभुजेयमुदीरिता”।
पूर्वफाल्गुन्याः “पूर्वा हस्तिमुखा स्फस्था शुकनासाद्वयाऽरुणा”। स्फुः खड्गः चक्रं वा।
उत्तरफाल्गुन्याः “व्याघ्राननोत्तरा गोस्था शुभ्रवर्णा चतुर्भुजा। द्व्यक्षिणी सूत्र० खट्टाङ्गधारिणी परिकीर्तिता”।
हस्तस्य “गौरारुणी लुलापास्यो हस्तनामा हयस्थितः। अक्षवज्रभुजद्वन्द्वी भूषितः परिकीर्तितः”। लुलापो महिषः
चित्रायाः “व्याघ्रास्या महिषारूढा चित्रा गौरी चतुर्भुजा। अक्षकुण्डी सपुस्ती च सुधापूर्णघटान्विताः”।
स्वात्याः “महिषस्था मृगारूढा गौरी श्यामाथवा मता। पीना चतुर्भुजा स्वात्यक्षाङ्कुशध्वजपात्रिणी”।
विशाखायाः हर्यक्षवदना रक्ता नाभिपादान्तहेमभा। मेषच्छागस्थिता सेयं विशाखाङ्कुशवज्रिणी। वामे, शक्तिमधः पात्रं विभ्राणा हेमभूषणा”।
अनुराधायाः “हरिस्था च विडालास्या द्विभुजाम्बुजवज्रिणी। मूर्द्ध्वादिनाभिपादान्तश्यामगौरी क्रमेण तु। अनुराधा परिज्ञेया पद्मरागविभूषणा”।
ज्येष्ठायाः “पीतवर्णा गजारूढा भल्लास्या वा मृगानना। अक्षसूत्रं पविन्धत्ते वामे ज्येष्ठाङ्कुशं शये”।
मूलस्य “मूलरूपं विधातव्यं श्यामं कुणपवाहनम्। खड्गखेटधरं चोग्रं द्विभुजञ्च वृकाननम्”।
पूर्वाषाढायाः “कुम्भीरवदना नीला मर्कटस्था चतुर्भुजा। अक्षसूत्रं कजं पाशं पात्रं या बिभ्रती सदा। पूर्वाषाढा समुद्दिष्टा पीतवस्त्राब्जभूषणा”।
उत्तराषाढायाः “सर्पगा चोत्तराषाढा गौरवर्णा सुरूपिणी। नागबद्धजटाजूट–स्वर्णकुण्डलभूषिता। अक्षनागधरा दक्षे वामे पुस्ती सकुण्डिका”।
अभिजितः “अभिजित् कुमुदाभासा नक्रवक्त्रा तु हंसगा। वरस्रुक्पुस्तकाभीतिसंयुतेयं चतुर्भुजा”।
प्रवणस्य “नीलरुक् तुरगारूढः प्रवणो मर्कटाननः। शङ्खचक्रगदाब्जानि बिभ्राणः स्वर्णभूषणः”।
धनिष्ठायाः “तप्तचामीकराभासा निधिस्था पङ्कजासना। पक्कविम्बाधरा तन्वो पीनोन्नतपयोघरा। दीर्घवेणी सपुष्पा सा मौक्तिकाभरणान्विता। चारुनेत्रा सुवेषाढ्या द्विभुजा वसनारुणा। चराभयान्विता सौम्या धनिष्ठा परिकीर्तिता”।
शततारायाः “शुभ्रा मकरगाऽश्वास्या द्विभुजा पाशपात्रिणी। पाटला वस्त्रसंयुक्ता कीर्तिता शततारका”।
पूर्वभाद्रपदायाः “पूर्वा भाद्रपदा शुभ्रा गोवक्त्रा छागगामिनी। मेषशीर्षधरा सेयं सीधुपात्रञ्च बिभ्रती”।
उत्तरभाद्रपदायाः “गर्द्धभास्या वृषारूढा सिता भाद्रपदोत्तरा। पात्रञ्च डमरुन्धत्ते द्विमुजेयमुदीरिता”।
रेवत्याः “रेवती करभास्या स्यात् द्विभुजा हस्तिगामिनी। कमलं कुण्डिकां धत्ते शेतवर्णा महास्वना”।
योगानां विष्कुम्भस्य “विष्कुम्भः प्रथमो ज्ञेयः पीतवर्णस्तु षड्भुजः। रक्तास्यो नीलकण्ठस्तु वृत्तनेत्रः सुभीषणः। विशालभालो दीर्घाङ्गस्तुङ्गनासो जटाधरः। लम्बकर्णेन्द्रनीलोत्थस्वणरत्नजकुण्डलः। शुभ्रनीलेन्द्रगोपाभवसनः स्वर्णभूषणः। मुद्गरं प्रथमे दक्षे द्वितीये कर्त्तरीमिह। तृतीये कुलिशं पाणौ वामाद्ये टङ्कमेव च। श्वेतपुच्छं द्वितीये च तृतीये चामृतं धटम्। विभ्राणः पूजनीयोऽयं पीतपुष्पैः सुगन्धिभिः। कार्य्यनिष्पत्तये नूनमन्यथा विघ्नदायकः”।
प्रीतेः “प्रीतिनामा द्वितीयस्तु जवाकुसुमसन्निभः। श्वेतवक्त्रो विशालाक्षी लम्बकर्णेन्दुकुण्डलः। भालेऽलितिलकोपेतः सौम्यो मुक्ताविभूषणः। श्वेतवस्त्री जटामौलिरष्टबाहुर्वृकोदरः। बन्धुजीवोत्थपुष्पाङ्कमल्लिकामादिमे यमे। द्वितीये मोदकं पाणौ तृतीये कदलीफलम्। चतुर्थे षङ्कजञ्चैव वामाद्ये चामृतं घटम्। द्वितीये चात्र बै पात्रं सोमपूर्णं मनोहरम्। तृतीये कुलिशं हम्वे चतुर्थे चात्रवैध्वजम्। दधानो भूतये प्रीत्यै सर्वतापनिवृत्तये”।
आयुष्मतः “आयुष्मांस्तु तृतीयोऽयं मौक्तिकाभोऽरुणोदरः। क्षौमवस्त्रान्वितश्चैव मुक्तासौवर्णभूषणः। दिग्भुजः प्रथमे दक्षे चाक्षसूत्रञ्च मौक्तिकम्। दूर्वामत्र द्वितीये वै तृतीये चूतपल्लवम्। चतुर्थे पङ्कजञ्चैव पञ्चमे चातपत्रकम्। सुधाकुम्भन्तु वामाद्ये वीजपूरपिधानकम्। पात्रं दध्यक्षतोपेतं द्वितीये करपल्लवे। तृतीये श्रीफलं हस्ते चतुर्थे पविमेव च। पञ्चमे चामरं हस्ते स्वर्णदण्डं सितं शुभम्। धारयन्नेष वै पूज्यो भोगायुष्यविवृद्धये”।
सौभाग्यस्य “सौभाग्याख्यश्चतुर्थोऽत्र स्फटिकाभस्त्रिलोचनः। स्कन्धारुणो महासत्वः सुन्दरः कुमुद्राम्बरः। दशबाहु रयञ्चार्कौ (यमे) प्रथमे श्रीफलं करे। अक्षसूत्रं प्रवालोत्थं द्वितीये करपल्लवे। तृतीये कमलं हस्ते चतुर्थे वाणवारकम्। पञ्चमे शक्तिमत्रैव वामाद्ये पात्रमेव च। द्वितीये चामृतं कुम्भं तृतीये तु प्रकीर्णकम्। चतुर्थे दर्पणं हस्ते वेणुदण्डञ्च पञ्चमे। बिभ्राणः सौम्य सौभाग्यवृद्धये चायुषे श्रिये”। (पूजनीय इति शेषः)
शोभनस्य “शोभनः पञ्चमो योगः श्वेतबक्त्वो वशी बली। शेषारुणः कृशाङ्गश्च प्रवालकृतकुण्डलः। शोणशुक्लाम्बरश्चैव मुक्ताविद्रुमभूषणः। अक्षसूत्रं सुहेमोत्थं प्रथमे दक्षिणे करे। द्वितीये पङ्कजं हस्ते तृतीये श्रीफलं शये। तुर्ये शक्तिं कराम्भोजे वामाद्ये वै कमण्डलुम्। द्वितीये स्वर्णजं पात्रं तृतीये चैव दर्पणम्। चतुर्थे चामरं पाणौ धारयन्नष्टदोरिति। पूजनीयो महाभक्त्या सौख्यसौभाग्यवृद्धये”।
अतिगण्डस्य “अतिगण्डाभिधश्चाथ षष्ठो योगः प्रतीयते। गण्डारुणसितः क्रूरः कृष्णवक्त्रोऽर्कभूषणः। स्थूलो विद्धश्रुतिस्तुङ्गनासिकोऽरुणभूषणः। पिङ्गश्मश्रुजटामौलिः षड्भुजः कटिसूत्रवान्। अक्षसूत्रं यमादिस्थेलोहजं करपल्लवे। एणं मृगं द्वितीये च तृतीये चैव वारिजम्। पात्रं वामादिमे पाणौ द्वितीये शक्तिमेव च। पताकान्तु तृतीये वैदधानः कृष्णलोहिताम्। पूजनीयो महाभक्त्या दुष्टभीतिनिवृत्तये”।
सुकर्मणः “चतुर्भुजः सुकर्मा वै श्वेतबाहूदरश्रुतिः। नीलशुभ्रांशुकोपेतः स्वर्णनीलविभूषणः। रुद्राक्षमालिकामार्कौ (यमे दक्षे) प्रथमे करपल्लवे। द्वितीये कमलं पाणौ वामादौ दण्डमेव च। पताकामत्र वै हस्ते द्वितीये सुमनोहरा। बिभ्रत्सुवृद्धये नॄणां कर्मारम्भशुभप्रदः”।
धृतेः “धृत्याख्यश्चाष्टमो योगः कथ्यते वसुबाहुकः। भालारुणस्तु सर्वाङ्गे श्वेतवर्णोऽरुणाम्बरः। स्वर्णमुक्तेन्द्रनीलाढ्यो विद्रुमान्वितभूषणः। भुक्ताक्षमालिकां दक्षे प्रथमे रत्नमुद्रिके। द्वितीये श्रीफलं पाणौ तृतीयेऽशोकपल्लवम्। चतुर्थे हेमजं दण्डं वामाद्ये वै कमण्डलुम्। द्वितीये चामृतं पात्रं तृतीये चाम्बुजं करे। पताकासत्र वै तुर्ये बिभ्राणः श्चीविवृद्धये”।
शूलस्य “नवमः शूलनामाथ कथ्यते व्यक्तभागतः। ताम्रारुणगलश्चैव श्वेतवर्णः कृशोदरः। भालरेखात्रयश्चैव त्रिजटो नोलकुन्तलः। अर्कहस्तो यमादिस्थे त्रिशूलं चातिभीषणम्। द्वितीये मुद्गरं पाणौ तृतीये चाक्षसूत्रकम्। चतुर्थे शृङ्खलामत्र पञ्चमे दण्डमेव च। मष्ठे चैवाम्बुजं पाणौ कपालं चोत्तरादिमे। टङ्कं द्वितीयके चैव तृतीये वै कमण्डलुम्। सन्दंशन्तु करे तुर्ये पञ्चमे चैव दर्पणम्। पताकामत्र वै षष्ठे धारयन्नेष पूजितः। भवेदनिष्टनाशाय वैरिविध्वस्तये नृणाम्”।
गण्डस्य “गण्डाख्यः कथ्यते योगो दशमः सोऽयमत्र हि। गण्डः शुभ्रारुणाङ्गस्तु षड्भुजो मेचकाम्बरः। हरिन्मणिविभूषाढ्यो नीलविद्रुमकुण्डलः। अक्षसूत्रं यमादिस्थं द्वितीये चन्द्रहासकम्। तृतीये वारिजं नीलं वामाद्ये वै कमण्डलुम्। द्वितीये खेटकं हस्ते पताकाञ्च तृतीयके। दधानो यज्वनस्तुष्ट्यै रोगानिष्टनिवृत्तये”।
वृद्धेः “एकादशस्तु वृद्ध्याख्यः कथ्यते १६ रसचन्द्रदोः। पादारुणोऽपरश्वेतो भालविस्तीर्णमण्डलः। विचित्रवसनोपेतो मुक्तासौवर्णभूषणः। अक्षसूत्रं यमादिस्थे द्वितीये चामृतं घटम्। तृतीये नन्दकं पाणौ चतुर्थे बाणमेव च। पञ्चमे मुद्गरञ्चैव षष्ठे सन्दंशमेव च। सप्तमे कम्बुमत्रैव पङ्कजञ्चाष्टमे शये। कुण्डिकामादिमे वामे द्वितीये पात्रमेव च। तृतीये खेटकं हस्ते चतुर्थे चैव कार्मुकम्। पञ्चमे टङ्कमत्रैव षष्ठेचैणविषाणकम्। सप्तमे चापमत्रैव पताकामष्टमे करे। बिभ्राणः श्रेयसो वृद्ध्यै चायुर्गोत्रधनस्य च”।
ध्रुवस्य “द्वादशी ध्रुवनामा वै योगश्चात्रैव कथ्यते। वक्षःस्थलारुणश्चैव श्वेतसर्वाङ्ग एव च। माञ्जिष्ठवसनोपेतो हेममुक्ताविभूषणः। चतुर्दशभुजोपेतो दक्षिणाद्येऽक्षसूत्रकम्। द्वितीये तु कजं खड्गं तृतीये चैव मुद्गरम्। चतुर्थे सायकं हस्ते पञ्चमे चैव पङ्कजम्। षष्ठे मनोहरं शङ्खं सप्तमे चामरं शये। पात्रं सौम्यादिमे पाणौ द्वितीये चैव खेटकम्। टङ्कं तृतीयके हस्ते चतुर्थे चैव कार्मुकम्। पताकामत्र वै हस्ते पञ्चमे वरलक्षणे। षष्ठे मनोहरादर्शं सप्तमे चक्रमादधत्। पूजनीयो महाभक्त्या लक्ष्मीस्थैर्य्यादिहेतवे”।
व्याघातस्य “कय्यते चाधुना योगो व्याघाताख्यस्त्रयोदशः। नाभ्यूर्द्धं लोहितश्चायं श्वेतपूर्वस्त्रिलोचनः। अन्तश्वेतारुणप्रान्तवसनः सूर्यकुण्डलः। गले स्फटिकमालोऽसौ शेषरुद्राक्षभूषणः। मणिबन्धेऽलिवर्णस्तु षड्भुजः कुटिलाननः। पङ्कजं प्रथमे दक्षे द्वितीये परशुं शये। तृतीये चात्र वै पाशं वामे पात्रमिहादिमे। द्वितीये चामृतं कुम्भं तृतीये चाङ्कुशं शये। बिभ्राणोऽयं महापूज्यः कार्यभ्रंशनिवृत्तये”।
हर्षणस्य “अधुना कथ्यते योगो हर्षणाख्यश्चतुर्दशः। जानूर्द्ध्वे लोहितश्चायं तत्पूर्वं श्वेतएव च। पाटलाभांशुकोपेतो मुक्तावैदूर्यभूषणः। भुजद्वादशकोपेतो लम्बकर्णो विशालदृक्। कौस्तुभं प्रथमे दक्षे द्वितीये चाक्षसूत्रकम्। तृतीये पङ्कजं हस्ते चतुर्थे बाणमेव च। पञ्चमे शङ्खमत्रैव षष्ठे पाशं कराम्बुजे। वामादिमे करे पात्रं द्वितीये चामृतं घटम्। तृतीये परशुं हस्ते चतुर्थे चैव कार्मुकम्। पञ्चमे तु करे चक्रं षष्ठे चैवाङ्कुशं शये। विभ्राणः श्रेयसे भूत्यै मानोन्नत्यै सुखाय च”।
वज्रस्य “अथ पञ्चदुशो योगः कथ्यते वज्रसज्ञकः। श्वेताहि- काञ्चीं बिभ्राणः कृष्णग्रीवोऽरुणाननः। रोचनावसनोपेतो विद्धकर्णस्त्रिलोचनः। वज्रवैदूर्यभूषाढ्यः कटिसूत्रसमन्वितः। जटां त्रिबलयां बिभ्रत् दिग्भुजः परितो बली। अक्षसूत्रं यमादिस्थे द्वितीये बाणमेव च। तृतीये पङ्कजं हस्ते चतुर्थे कुलिशं शये। पञ्चमे परशुं पाणौ वामाद्ये चामृतं घटम्। द्वितीये कार्मुकं चैव तृतीये पात्रमुत्तमम्। चतुर्थे कुलिशं चैव पञ्चमे पाशमेव च। बिभ्रद्विजयसौख्याय लक्ष्मींसन्तानवृद्धये”।
सिद्धेः “कथ्यते चाधुना योगः सिद्धिनामा तु षोडशः। पादजङ्घारुणश्चोर्द्धे श्वेतवर्णः शुभाननः। दिग्भुजो लोहितग्रीवो लोहितनिहिताम्बरः। मुक्ताहारमणिस्वर्णभूषणः सोमकुण्डलः। श्रीफलं प्रथमे दक्षे द्वितीये चैव पङ्कजम्। तृतीये पुस्तकं हस्ते चतुर्थे बाणमेव च। पञ्चमे च ध्वजं हस्ते वामे पात्रमिहादिमे। द्वितीये चामृतं कुम्भं तृतीये चैव चामरम्। चतुर्थे चैव कोदण्डं पताकामिह पञ्चमे। दधानः सिद्धये नॄणां वाञ्छितार्थस्य सिद्धिदः”। (अस्यासृगित्यपरनाम)
व्यतीपातस्य “व्यतीपाताभिधश्चैव योगः सप्तदशस्त्विह। कण्ठेन लोहितश्चायं श्वेतग्रीवोऽलिभाननः। शुद्धमाञ्जिष्ठवसनो नीलस्वर्णजभूषणः। अष्टादशभुजो देवो भ्रुकुटीकुटिलाननः। दात्रमार्क्यादिमे हस्ते द्वितीये लोष्ट भेदनम्। अक्षसूत्रं तृतीये तु तुर्ये वाणं मनोहरम्। पञ्चमे शृङ्खलां लौहीं षष्ठे कवचमेव च। सप्तमे मुद्गरं हस्ते पङ्कजं चाष्टमे करे। कुद्दालं नवमे हस्ते शृङ्गिकामादिमोत्तरे। पात्रं द्वितीयके चैव स्वर्णकुम्भं तृतीयके। चतुर्थे कार्मुकं पाणौ पञ्चमे कर्त्त्रिकामिह। मुसलन्तु करे षष्ठे सप्तमे टङ्कमेव च। अष्टमे च ध्वजं हस्ते नवमे प्राङ्कुटं शये। दधानो वैरिवर्गस्य ध्वस्तये चैव मृत्यवे। यज्वनः पुत्रसन्तत्यै लक्ष्मीभोगसुखाय च
वरीयसः “अष्टादशो वरीयांश्च कथ्यते योग उत्तमः। आकण्ठशुभ्रवर्णस्तु लोहितग्रीव एव च। श्वेतवक्त्रो विशालाक्षो लम्बकर्णोऽर्ककुण्डलः। स्वर्णाभरणभूषाढ्यो लक्षणानेकसंयुतः। अक्षसूत्रं यमादिस्थे द्वितीये वीजपूरकम्। चन्द्रहासं तृतीये तु तुर्ये बाणं कराम्बुजे। पञ्चमे शङ्खमत्रैव षष्ठे परशुमेव च। सप्तमे मुद्गरं हस्ते चाष्टमे दात्रमेव च। नवमे चात्र वै शृङ्गं दशमे कमलं करे। एकादशे पविञ्चात्र द्वादशे हलमेव च। दण्डं त्रयोदशे हस्ते शक्तिमस्त्रं चतुर्दशे। कजं पञ्च- दशे हस्ते षोडशेऽथ त्रिशूलकम्। घटं वामादिमे पाणौ पात्रमत्र द्वितीयके। तृतीये खेटकञ्चैव तुर्ये कार्मुकमेव च। चक्रन्तु पञ्चमे हस्ते षष्ठे चैव कुठारकम्। सप्तमे टङ्कमत्रैव चामरञ्चाष्टमे शये। नवमे डमरुञ्चैव दशमे चात्र वल्लकीम्। एकादशे शृणिञ्चैव द्वादशे मुसलं शये। त्रयोदशे तु वै पाशं गदामत्र चतुर्दशे। दर्पणं तिथिमे हस्ते ध्वजमत्रैव षोडशे। दधानः श्रेयसे भूत्यै सर्वभोगसुखाय च”।
परिघस्य “एकोनविंशकश्चात्र कथ्यते परिघोऽनघ!। पादजान्वन्तशुभ्रोऽसौ श्वेतवक्त्रो जटाधरः। मध्यारुणोदरे नीलरेखासंयुत एव च। नीलाम्बरो महासत्वो हेमरत्नजकुण्डलः। सुवर्णभूषणोपेतो षड्भुजः क्रूरदर्शनः। गदामार्क्यादिमे हस्ते द्वितीये परिघं शये। तृतीये कमलं पाणौ वामाद्ये पात्रमेव च। द्वितीये पट्टिशं हस्ते तृतीये चात्र वै ध्वजम्। बिभ्राणः शत्रुनाशाय दुष्टभीतिनिवृत्तये”।
शिपस्य “अथ विंशतिमो योगः शिवाख्यश्चात्र कथ्यते। शुभ्रवर्णस्त्रिनेत्रस्तु मौक्तिकाभरणान्वितः। दक्षिणे प्रथमे हस्ते वीजपूरं मनोहरम्। अक्षसूत्रं द्वितीये च तृतीये कम्बुमेव च। चतुर्थे सायकं हस्ते पञ्चमे चन्द्रहासकम्। मुद्गरञ्च करे षष्ठे सप्तमे परशुं शये। कुद्दालमष्टमे पाणौ नवमे दात्रमेव च। दशमे चात्र वै शृङ्गं पविमेकादशे त्विह। द्वादशे पञ्चशाखां वै लोष्टभेदनमेव च। त्रयोदशे हलञ्चैव शक्तिमस्त्रं चतुर्दशे। करे पञ्चदशे दण्डं षोडशे चाम्बुजं त्विह। त्रिशूलं मुनिचन्द्रे (१७) च वसुचन्द्रे (१८) च तोमरम्। वामादिमे शये पात्रं द्वितीये चामृतं घटम्। तृतीये चक्रमत्रैव चतुर्थे वै शरासनम्। पञ्चभे खेटकं हस्ते षष्ठे टङ्कं कराम्बुजे। कुठारं सप्तमे पाणौ प्राङ्कुटञ्चाष्टमे त्विह। नवमे चामरं शुभ्रं दशमे डमरुन्त्विह। शृणिमेकादशे हस्ते द्वादशे चैव दर्पणम्। अष्टादशे शये कुन्तं बिभ्राणः शान्तिवृद्धये”। (अत्र त्रयोदशादिसप्तदशान्तवामहस्तानां चिह्नवाक्यानि मुद्रितपुस्तके पतितानि विश्वकर्मशास्त्रे दृश्यानि)।
सिद्धस्य “एकविंशोऽधुना योगः सिद्धनामाभिधीयते। जवाकुसुमसङ्काशः शुभ्ररेखात्रयोदरः। जटाभिरष्टभिस्तस्य मुकुटः खण्डचन्द्रयुक्। शोणशुभ्रांशुकोपेतः स्फाटिकाभरणान्वितः। वसुपक्षभुजः २८ सौम्यस्तुन्दिलः सर्व- लक्षणः। तोमरञ्चादिमे दक्षे द्वितीयेऽत्र त्रिशूलकम्। तृतीये पङ्कजं पाणौ तुर्ये दण्डं सुवर्णजम्। पञ्चमे तु करे शक्तिं षष्ठे वै लाङ्गलं शये। सप्तमे कुलिशं हस्ते शृङ्गमत्रैव चाष्टमे। नवमे दात्रमत्रैव दशमे तु परश्वधम्। मुद्गरं रुद्रहस्ते वै द्वादशे चन्द्रहासकम्। त्रयोदशे शये बाणं शङ्खमत्र चतुर्दशे। कुम्भं वामादिमे हस्ते द्वितीये डमरुं जये। पात्रन्तु नवमे हस्ते दशमे वै कुठारकम्। टङ्कमेकादशे हस्ते द्वादशे चैव खेटकम्। त्रयोदशे शये चापं चक्रमत्र चतुर्दशे। धारयन् पूजनीयोऽसौ भोगसौख्यश्रिये जये”। (अत्र तृतीयाद्यष्टमान्तवामहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानि विश्वकर्मशास्त्रे दृश्यानि)।
साध्यस्य “साध्यो द्वाविंशकश्चैव कथ्यते योग एव सः। शुभ्रवर्णो विशालाक्षो वह्निरेखगलाननः। कौसुम्भवसनोपेतो वज्रवैदूर्यकुण्डलः। वेदवह्निभुजोपेतो मेखलानेकरत्नयुक्। अक्षसूत्रं यमादिस्थे द्वितीये वीजपूरकम्। तृतीये शक्तिमत्रैव तुर्ये चैव त्रिशूलकम्। पञ्चमे सायकं हस्ते षष्ठे वज्रं कराम्बुजे। सप्तमे पङ्कजं पाणौ दण्डमत्रैव चाष्टमे। नवमे तोमरं पाणौ दशमे शक्तिमेव च। एकादशे हलं हस्ते द्वादशे शृङ्गमेव च। त्रयोदशे शये खड्गं परशुन्तु चतुर्दशे। करे पञ्चदशे रम्ये मुद्गरं कठिनाङ्गुलौ। षोडशे दात्रमत्रैव शङ्खं सप्तदशे त्विह। वामादिभे करे कुण्डीं द्वितीये पात्रमेव च। तृतीये चाभयं हस्ते तुर्ये डमरुमेव च। पञ्चमे कार्मुकं पाणौ षष्ठे चैवाङ्कुशं शये। सप्तमे तु ध्वजं दिव्यमष्टमे पाशमेव च। नवमे कुन्तमत्रैव दशमे तु गदामिह। मुसलं रुद्रहस्ते वै द्वादशे चैव चामरम्। त्रयोदशे करे खेटं कुठारन्तु चतुर्दशे। टङ्कं पञ्चदशे पाणौ षोडशे चैव दर्पणम्। चक्रं सप्तदशे हस्ते दधानः श्रीविवृद्धये”।
शुभस्य “शुभनामा त्रयोविंशो योगश्चात्रैव कथ्यते। नीलकालिकशोणस्तु मौक्तिकाभस्त्रिलोचनः। शोणरेखाङ्कितग्रीवः शोणशुभ्रांशुकावृतः। मुक्ताविद्रुममाणिक्यभूषणः स्वर्णकुण्डलः। द्वात्रिंशद्बाहुसंयुक्तो जटाकपिलमण्डलः। वरं यमादिमे पाणौ द्वितीये चाक्षसूत्रकम्। तृतीये च त्रिशूलं वै तुर्ये बाणं कराम्बुजे। पञ्चमे पङ्कजं चैव षष्ठे कुलिशमेव च। सप्तमे शक्तिमत्रैव दण्डं वै चाष्टमे करे। नवमे तोमरं हस्ते दशमे शृङ्गिकामिह। हलमेकादशे चैव द्वादशे खड्गमत्र हि। दात्रं त्रयोदशे हस्ते मुद्गरं च चतुर्दशे। शङ्खं पञ्चदशे पाणौ षोडशे तु परश्वधम्। अभयं चादिमे वामे द्वितीये वै कमण्डलुम्। तृतीये पात्रमत्रैव तुर्ये कार्मुकमेव च। पञ्चमे डमरुं पाणौ षष्ठे चाङ्कुशमेव च। सप्तमे वीजपूरं वै ध्वजं वै चाष्टमे करे। नवमे पानघात्रञ्च दशमे कुन्तमेव च। गदामेकादशे हस्ते द्वादशे चैव खेटकम्। चामरं मन्मथे १३ पाणौ टङ्कमत्र चतुर्दशे। चक्रं पञ्चदशे चैव षोडशे तु कुठारकम्। विभ्राणो भुक्तये पूज्यः सौन्दर्याय सुखाय च”।
शुक्रस्य “चतुर्विंशतिमश्चात्र शुक्राख्यः कथ्यतेऽधुना। चिवुके लोहितश्चायं चन्द्रगौरस्त्रिलोचनः। जटामुकुटस्वण्डेन्दुर्नीलरेखासुधाधरः। सिन्दूरवदनोपेतो भालालितिलकाङ्कितः। प्रवालमौक्तिकस्वर्णभूषणः कण्ठकौस्तुभः। खवह्नि ३० बाहुसंयुक्तो रत्नमुद्रासमन्वितः। शूर्पाक्षमालिकां यान्ये प्रथमे करषल्लवे। द्वितीये च त्रिशूलं वै तृतीये बाणमेव च। परश्वधं करे तुर्ये पञ्चमे शङ्खमव च। मुद्गरं चात्र वै षष्ठे सप्तमे दात्रमेव च। अष्टमे तु करे खड्गं नवमे चैव लाङ्गलम्। दशमे शृङ्गमत्रैव तोमरं रुद्रसम्मिते। द्वादशे तु करे दण्डं शक्तिमत्र त्रयोदशे। चतुर्दशे शये वज्रं करे पञ्चदशे कजम्। वीजपूरन्तु वामाद्ये द्वितीये पात्रमेव च। तृतीये कार्मुकं पाणौ तुर्ये चैव कुठारकम्। पञ्चमे चक्रमत्रैव षष्ठे टङ्कं कराम्बुजे। सप्तमे चामरं पाणौ खेटकं चाष्टमे शये। नवमे तु गदामत्र दशमे चाऽमृतं घटम्। कुन्तमेकादशे हस्ते द्वादशे पात्रमेव च। त्रयोदशे शृणिं चैव दर्पणञ्च चतुर्दशे। ध्वजं पञ्चदशे हस्ते दधानस्तु महाय च”।
व्रह्मणः “पञ्चविंशतिमी योगी ब्रह्मनामा प्रतीयते। शोणोरः पाण्डुराशेषश्चन्द्रगौरस्त्रिलोचनः। नीलकालिकशोणस्तु ग्रीवास्वर्णस्त्रिरेखिकः। जटात्रयप्रलम्बोऽसौ सौम्यः प्रहसिताननः। ताम्रवर्णांशुकोपेतः कण्ठरुद्राक्षमालिकः। मुक्तामाणिक्यहेमोत्थभूषणः सोमकुण्डलः। वियद्बाण ५० भुजोपेतः किङ्किणीजालमेखलः। सौम्याक्षमालिकां दक्षे प्रथमे तलशोभने। द्वितीये त वरं पाणौ खड्गमत्र त्रयोदशे। हलं चतुर्दशे हस्ते शृङ्गं पञ्चदशे त्विह। षोडशे चैव लोहासिं मुनिरन्ध्रे च तोमरम्। अष्टादशे शये दण्डं शक्तिमेको- नविंशके। करे विंशतिमे चक्रं त्वेकविंशे शये कजम्। द्वाविंशे चमसं हस्ते त्रयोविंशे शयेऽर्बुदम्। चतुर्विंशतिमे पाणौ सुदृढं लोहभेदनम्। पञ्चविंशे तु रक्षास्त्रं वामाद्ये वै कमण्डलुम्। द्वितीये चाभयं हस्ते तृतीये चात्र वै ध्रुवम्। तुर्ये खट्वाङ्गमेवेह कुद्दालं चैव पञ्चमे। षष्ठे शरासनं पाणौ सप्तमे कवचं शये। अष्टमे पट्टिशं हस्ते नवमे वै सुदर्शनम्। दशमे वीजपूरं वै पाशमेकादशे करे। द्वादशे चात्र वै टङ्कं खेटमत्र त्रयोदशे। चतुर्दशे कुठीराख्यं डमरुन्तिथिसंज्ञिते। षोडशे चामरं हस्ते कुम्भं सप्तदशे त्विह। अष्टादशे गदामत्र मुसलं नन्दचन्द्र १९ मे। अङ्कुशं विंशके हस्ते पाशञ्चैवैकविंशके। द्वाविंशके ध्वजं शुभ्रं वीरभद्रन्त्रिपक्षमे। जिने २४ सुनिर्मलादर्शं पञ्चविंशेऽजिनं शये। दधानो यज्वनो गोत्रपरमायुर्विवृद्धये”। (अत्र तृतीयादित्रयोदशान्तदक्षहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानि विश्वकर्म्मशास्त्रे दृश्यानि)।
इन्द्रस्य “इन्द्रः षड्विंशकश्चात्र कथ्यते तव साम्प्रतम्। हस्तपादारुणश्चायं शेषशुभ्रायतेक्षणः। धम्मिल्लमल्लिकामाल्यचन्दनाद्यनुलेपनः। भालालितिलकश्चैव कर्णकुण्डलमेचकः। मुक्ताहारोज्ज्वलोरस्कः सर्वरत्नविभूषणः। शुभ्रशोणेन्द्रनोलाभवसनः सर्वलक्षणः। युग्मवाण ५२ भुजोपेतो मनागरुणलोचनः। शक्तिमार्क्यादिमे हस्ते द्वितीये मौक्तिकस्रजम्। तृतीये कमलं पाणौ चतुर्थे शुक्तिकामिह। स्रुवन्तु पञ्चमे पाणौ षष्ठे चात्र त्रिशूलकम्। सप्तमे चैव लोहासिं कुद्दालं चाष्टमे करे। नवमे पत्निकाञ्चैव दशमे चन्द्रहासकम्। एकादशे हलं हस्ते द्वादशे शृङ्गमेव च। तोमरं मन्मथे १३ पाणौ दण्डं चैव चतुर्दशे। करे पञ्चदशे शक्तिं षोडशे कुलिशं शये। चक्रञ्च मुनिचन्द्राङ्क्ये १७ वसुचन्द्रे १८ परश्वधम्। एकोनविंशके कम्बुं विंशके पुस्तकं त्विह। विष्टरं त्वेकविंशे वै द्वाविंशे चैव मुद्गरम्। चमसन्तु त्रयोविंशे चतुर्विंशे त्विहार्बुदम्। पञ्चविंशतिमे हस्ते लोष्टभेदनमेव च। षड्विंशे च तुरष्कास्त्रं वामाद्यो चाभय शये। द्वितीये कुण्डिकामत्र ततीये वीजपूरकम्। तर्ये वामे वृतं पात्रं पञ्चमे स्रुवमेव हि। षष्ठे खट्वाङमेवेह सप्तमे डमरुं शये। अष्टमे प्राङ्कुटं पाणौ नवमे चै० कार्मुकम्। दशमे खेटकं हस्ते रुद्रे चैव कठारकम्। द्वादशे चामरं हस्ते कन्तमत्र त्रयादशे। गदां चतुर्दशे चैव मुसलन्तिथिसंमिते। अङ्कुशं षोडशे हस्ते पाशं सप्तदशे करे। पट्टिशं वसुचन्द्राङ्क्ये १८ चक्रन्त्वेकोनविंशके। कवचं विंशके चैव दात्रञ्चैवैकविंशके। द्वाविंशके तु वै टङ्कं त्रयोविंशे ध्वजन्त्विह। वीरभद्रं चतुर्विंशे पञ्चविंशे तु दर्पणम्। अजिनं चात्र षड्विंशे विभ्राणः श्रीविवृद्धये”।
वैधृतेः “वैधृत्याख्यस्तु वै योगः सप्तविंशतिमस्त्विह। शुभवर्णो महारौद्रो ग्रीवाशोणः सिताननः। जटापञ्च प्रलम्बस्तु मेचकारुणकुण्डलः। नीलशोणसुवर्णोत्थभूषणो मेचकाम्बरः। वेदबाण ५४ भुजोपेतो वृहत्कुक्षिः सुमन्थरः। अक्षसूत्रं यसादिस्थे द्वितीये वरमेव च। तृतीये चैव सन्दंशं तुर्ये शुक्तिं समुद्रजाम्। पञ्चमे पङ्कजं पाणौ षष्ठे चात्र स्रुवन्तथा। सप्तमे सायकं पाणौ ज्ञानखड्गमिहाष्टमे। नवमे चैव कुद्दालं दशमे च त्रिशूलकम्। शृङ्गमेकादशे हस्ते द्वादशे हलमेव च। त्रयोदशे तु वै खड्गं तोमरन्तु चतुर्दशे। करे पञ्चदशे दण्डं षोडशे शक्तिमेव च। वज्रं सप्तदशे पाणौ कवचं वसुचन्द्रमे १८। परशुं नन्दचन्द्राङ्क्ये १९ विंशके चार्बुदं करे। एकविंशे शये चैव लोष्टभेदनमेव च। द्वाविंशे वै तुरष्कास्त्रं त्रयोविंशे तु शङ्खकम्। पुस्तकन्तु चतुर्विंशे पञ्चविंशे तु विष्टरम्। षड्विंशे मुद्गरं पाणौ चमसं सप्तविंशके। वामादिमे करे कुण्डीमभयन्तु द्वितीयके। मीनं तृतीयके हस्ते चतुर्थे वीजपूरकम्। पञ्चमे पात्रमत्रैव षष्ठे चैव स्रुवं करे। सप्तमे कार्मुकं पाणौ डमरुं चाष्टमे करे। नवमे प्राङ्कुटं हस्ते खट्वाङ्गञ्चैव दिक्करे। चामरं रुद्रमे चैव द्वादशेऽत्र कुठारकम्। खेटं त्रयोदशे चैव कुन्तमत्र चतुर्दशे। गदां पञ्चदशे पाणौ षोडशे मुसलन्त्विह। शृणिं सप्तदशे हस्ते पाशमष्टादशे करे। पट्टिशं नन्दचन्द्राङ्क्ये १९ वीरभद्रन्तु विंशके। एकविंशे शये टङ्कं द्वाविंशे चाजिनं करे। त्रयोविंशे तु वै चक्रं कवचं जिन २४ हस्तके। पञ्चविंशे तु वै पात्रं षड्विंशे दर्पणं शुभम्। सप्तविंशे ध्वजं हस्ते धारयन् दुष्टघातकृत्”।
करणानां ववस्व “करणानामथो वक्ष्ये रूपसम्बन्धिलक्षणम्। ववाभिघन्तु वै पीतं जटिलं रत्नकुण्डलम्। नीलवस्त्रन्तु रुद्राक्षभूषणं कण्ठपाण्डुरम्। चतुर्दशभुजोपेतं पिङ्गभ्रूलोचनत्रयम्। वरं यमादिमे हस्ते द्वितीये बाण- मेव च। तृतीये कुलिशं पाणौ चतुर्थे चैव पङ्कजम्। मुद्गरं पञ्चमे चैव षष्ठे सन्दंशमेव च। सप्तमे चाङ्कुशं दिव्यं पञ्चशाखे महोदरे। प्रथमे चाभयं वामे द्वितीये तु शरासनभ्। तृतीये पुस्तकं हस्ते चतुर्थे मुकुरं शये। टङ्कन्तु पञ्चमे पाणौ षष्ठे कर्तरिकामिह। करे तु सप्तमे चात्र नागपाशं दधच्छ्रिवे”।
बालवस्य “बालवाख्यन्तु वै रक्तं नीलग्रीवं महोदरम्। श्वेतवस्त्रं जटाभारं पिङ्गलं तुङ्गनासिकम्। कण्ठरुद्राक्षमालं तद्भूतिमत्कालपाण्डुरम्। रसचन्द्र १६ करोपेतं कक्षालग्नकरण्डकम्। प्रथमे मोदकं हस्ते दक्षिणे सुमनोहरे। द्वितीये केतकीपत्रं तृतीये शक्तिमेव च। चतुर्थे पङ्कजं पाणौ पञ्चमे वै सुदर्शनम्। षष्ठे सर्वायसं बाणं सप्तमे कुलिशं करे। सन्दंशमष्टमे हस्ते पात्रं वामादिमे त्विह। द्वितीये कुण्डिकामत्र तृतीये चैव वट्टिशम्। वीजपूरं करे तुर्ये पञ्चमे शङ्खमेव च। कोदण्डमत्र वै षष्ठे सप्तमे कुलिशङ्करे। अष्टमे पुस्तकं बिभ्रद्वश्याय विजयाय च”।
कौलवस्य “श्वेताब्जकर्णिकाभासं तृतीयं कौलवाभिधम्। रक्तकण्ठं पिकास्यं वै नीलश्वेतारुणाम्बरम्। मुक्तारुद्राक्षसौवर्णभूषणं चेन्द्रनीलकम्। अष्टादशभुजीपेतं किङ्किणीकटिसूत्रकम्। वरं यमादिम हस्ते द्वितीये चाक्षसूत्रकम्। तृतीये स्वर्णजं दण्डं चतुर्थे चैव पुस्तकम्। पञ्चमे सोदकं हस्ते षष्ठे सन्दंशमेव च। सप्तमे डमरुं पाणौ वज्रमत्रैव चाष्टमे। नवमे शृङ्गिकामत्र शोणगुञ्जाद्यनामिकाम्। अभयं चादिमे वामे द्वितीये वै कमण्डलुम्। तृतीये चासवं पात्रं तुर्ये चाम्भोजमुत्तमम्। पञ्चमे चामरं शुभ्रं षष्ठे दात्रं कराम्बुजे। सप्तमे वल्लकीमत्र शृणिं चैवाष्टमे करे। नवमे कदलीपत्रं दधत् सम्पत्सुखाय च”।
तिलस्य “चतुर्थं तैतिलं नाम श्यामवर्णं कृशोदरम्। शोणवस्त्र जवापुष्पमालिकं तैत्तिराननम्। वियत्पक्ष २० भुजोपेतं घण्डावद्धनितम्बकम्। प्रथमे दक्षिणे हस्ते श्रीफलं सुमनोहरम्। खड्गमत्र द्वितीये वै तृतीये चैव पुस्तकम्। अक्षसूत्रं करे तुर्ये पञ्चमे बाणमेव च। षष्ठे सुदर्शनं दिव्यं सप्तमे कुलिशं त्विह। अष्टमे तु स्रुवं पाणौ नवमे चैव मुद्गरम्। दशमे चाङ्कशं हस्ते पात्रं वामादिमे करे। द्वितीये स्वेटकं चैव तृतीये वारिजं शुभम्। चतुर्थे कुण्डिकामत्र पञ्चमे चैव कार्मुकम्। षष्ठे मनोहरं शङ्खं सप्तमे चामरं सितम्। स्रुवं चैवाष्टमे हस्ते नवमे टङ्कमत्र हि। दशमे तु करे पाशं बिभ्राणं यज्वनः श्रिये”।
गरस्य “पञ्चमं चात्र विज्ञेयं करणन्तु गराभिधम्। गोमुखं चित्रितग्रीवं धूसरं लोहिताम्बरम्। पक्षपक्ष २२ भुजोपेतं कृतपद्माक्षभूषणं। आदिमे दक्षिणे शक्तिं द्वितीये चक्रमेव च। तृतीये श्रीफलं हस्ते चतुर्थे चैव पङ्कजम्। पञ्चमे पुस्तकं रम्यं षष्ठे बाणं मनोहरम्। सप्तमे गोवृषं शृङ्गं कुलिशं चाष्टमे करे। नवमे वल्लकीमत्र दशमे वीरभद्रकम्। एकादशे तु सन्दंशं पञ्चशाखे मनोहरे। अभीतिमुत्तरादिस्थे द्वितीये शङ्खमत्र हि। पात्रमत्र तृतीये वै चतुर्थे चैव चामरम्। पञ्चमे डमरुं हस्ते षष्ठे चैव शरासनम्। सप्तमे कुण्डिकामत्र चाष्टमे दशचक्रकम्। नवमे तु करे वंशं दशमे चैव दर्पणम्। एकादशे तु रुद्रास्त्रं बिभ्रत् कीर्त्तिसुखश्रिये”।
बणिजः “वानरास्यं बणिक् धूम्रं पीतवस्त्रं वृषासनम्। जिन २४ बाहुयुतं चेदं षष्ठं कनकभूषणम्। वरमार्क्यादिभे हस्ते द्वितीये चाक्षसूत्रकम्। तृतीये शुक्तिकामत्र मोदकन्तु चतुर्थके। पञ्चमे कुलिशं हस्ते षष्ठे शक्तिं कराम्बुजे। सप्तमे वैणवं दण्डं खड्गमत्रैव चाष्टमे। नवमे पाशमत्रैव दशमे चैव वै ध्वजम्। एकादशे तुर ष्कास्त्रं द्वादशे वै सुदर्शनम्। सौम्यादिमे करेऽभीति द्वितीये वै कमण्डलुम्। वीजपूरं तृतीयेऽत्र पानपात्र चतुर्थके। पञ्चमे पञ्चवक्त्राक्षं षष्ठे चैव तु पट्टिशम्। सप्तमे चामरं हस्ते खेटकं चाष्टमे शये। नवमे चाङ्कुशं पाणौ दशमे हलमेव च। एकादशे करे रम्यं दर्पणं चातिनिर्मलम्। द्वादशे धारयत् शङ्ख लक्ष्मीसौभाग्यवृद्धये”। (पञ्चवक्त्राक्षं पञ्चमुखरुद्राक्षम्)
भद्रायाः “व्याध्रचर्माम्बरा भद्रा श्वेताभा गर्दभानना। सप्तबाहुसमायुक्ता त्रिपदा लोहभूषणा। कर्तिकामादिमे दक्षे द्वितीये तु गदामिह। तृतीये सायकं हस्ते चतुर्थे चन्द्रहासकम्। खेटमूर्द्धकरे वामे तदधश्चैव कार्मुकम्। पात्रमस्वादधो वामे धारयन्ती रिपीर्भिये”
शकुनेः “अष्टमं शकुनिप्रख्यं करणं हरितप्रभम्। प्रबालभूषणोपेतं शक्रगोपनिभान्वरम्। रसपक्ष २६ भुजोपेतमेणवक्त्रं वृकोदरम्। आदिगे रविजे चक्रं द्वितीये वरमो च। अक्षसूत्रं तृतीये तु तुर्ये चैव तु पङ्कजम्। प- ञ्चमे मोदकं हस्ते षष्ठे वज्रं कराम्बुजे। सप्तमे तोमरं पाणौ शक्तिमत्रैव चाष्टमे। नवमे हस्तिजन्दन्तं दशमे चन्द्रहासकम्। एकादशे करे बाणं द्वादशे चाङ्कुशं शये। त्रयोदशे गदामत्र शङ्खं वामादिमे करे। अभयन्तु द्वितीयेऽत्र तृतीये वै कमण्डलुम्। वीजपूरं करे तुर्ये पञ्चमे पात्रमेव च। षष्ठे कराम्बुजे शृङ्गं सप्तमे कुन्तमेव च। परिघं चाष्टमे हस्ते दण्डन्तु नवमे करे। खेटकं दशमे पाणौ धनुरेकादशे शये। द्वादशे पात्रमत्रैव त्रिशूलन्तु त्रयोदशे। दधानं श्रेयसे भूत्यै विजयाय सुखाय च। तापाय चैव शत्रूणां विशेषेण समर्चितम्”।
चतुष्पदस्य “चतुष्पदाभिधं चात्र नवमं कथ्यते जय!। कृष्णवर्णं चतुष्पादं चतुरास्यं जटान्वितम्। मनुष्यास्यन्तु वै पूर्वं दक्षिणं चैव गोमुखम्। अजास्यं पश्चिमन्तस्य चोत्तरं शूकराननम्। मनुष्याकारवत् सर्वं त्रिकपुच्छविनिर्गतम्। पीतवस्त्रं वृहत्कुक्षि नीलमुक्ताविभूषणम्। वसुपक्ष २८ भुजोपेतं दीर्घनासं महाजवम्। दक्षिणाद्ये करे शक्तिं द्वितीये चाक्षसूत्रकम्। सुदर्शनं तृतीये तु चतुर्थे चैव पङ्कजम्। पञ्चमे मुद्गरं चैव षष्ठे मोदकमेव च। सप्तमे तु गदां पाणावष्टमे चाङ्कुशं शये। नवमे तु करे बाणं दशमे खड्गमेव च। एकादशे करे दन्तं द्वादशे शुक्तिमत्र हि। त्रयोदशे शये चात्र तोमरं सुदृढं शुभम्। चतुर्दशे तु वै वज्रं वामाद्येऽभीतिमेव च। कमण्डलुं द्वितीये वै तृतीये शङ्खमेव च। चतुर्थे वीजपूरं वै पञ्चमे टङ्कमेव च। षष्ठे पात्रं सुधापूर्णं सप्तमे च त्रिशूलकम्। अष्टमे पात्रमत्रैव नवमे धनुरेव च। दशमे खेटकं हस्ते दण्डमेकादशे करे। द्वादशे पट्टिशं पाणौ कुन्तमत्र त्रयोदशे। शृङ्गं चतुर्दशे बिभ्रद्गोत्रवृद्ध्यै सुपूजितम्”।
नागस्य “नागाख्यं दशमं रक्तं नीलवस्त्रं जटाधरम्। मनुष्याकारमेवैतन्मस्तकन्यस्ततत्फणम्। वियद्गुण ३० भुजोपेतं मुक्तारुद्राक्षभूषणम्। प्रथमे मोदकं दक्षे द्वितीये चैव पङ्कजम्। अक्षसूत्रं तृतीयेऽत्र वरन्तुर्ये कराम्बुजे। पञ्चमे तु करे चक्रं षष्ठे वज्रन्तु वै शये। सप्तमे तोमरं पाणौ शक्तिमत्रैव चाष्टमे। नवमे सोज्ज्वलं दन्तं दशमे चन्द्रहासकम्। बाणमेकादशे हस्ते द्वादशे चाङ्कुशं शये। त्रयोदशे गदामत्र तुरष्कास्त्रं चतुर्दशे। करे पञ्चदशे दात्रं वामे पात्रन्तु चा- दिमे। वीजपूरं द्वितीयेऽत्र तृतीये वै कमण्डलुम्। चतुर्थे चाभयं हस्ते पञ्चमे शङ्खमेव च। षष्ठे कराम्बुजे शृङ्गं सप्तमे कुन्तमुत्तमम्। पट्टिशं चाष्टमे हस्ते नवमे दण्डमत्र हि। दशमे खेटकञ्चैव धनुरेकादशे करे। द्वादशे पाशमत्रैव त्रिशूलञ्च त्रयोदशे। चतुर्दशे दशास्यं वै करे पञ्चदशेऽर्बुदम्। दधानं विजयारोग्यं कुर्वीताभयदं नृणाम्”। (दशास्यं दशमुखरुद्राक्षम्)
किन्तुघ्नस्य “एकादशन्तु किन्तुत्नं करणं कथ्यतेऽधुना। गोक्षीरधबलं चैतत्पीतवस्त्रं हयाननम्। सर्वाभरणसंयुक्तं द्वात्रिंशद्बाहुसंयुतम्। वरञ्चैवादिमे दक्षे द्वितीये चाक्षसूत्रकम्। तृतीये सोज्ज्वलं चक्रं तुर्ये चाब्जं कराम्बुजे। पञ्चमे मोदकं हस्ते षष्ठे वै कुलिशं शये। सप्तमे तोमरं पाणौ शक्तिमत्रैव चाष्टमे। नवमे गजदन्तञ्च दशमे खड्गमुत्तमम्। एकादशे तु वै बाणं द्वादशे शृणिमेव च। त्रयोदशे गदामत्र डमरुञ्च चतुर्दशे। करे पञ्चदशे पुस्तीं परशुञ्चैव षोडशे। अभयञ्चादिमे वामे द्वितीये वै कमण्डलुम्। शङ्खमत्र तृतीये वै चतुर्थे वीजपूरकम्। पञ्चमे चासवं पात्रं षष्ठे शृङ्गं मनोहरम्। सप्तमे कुन्तमत्रैव चाष्टमे पट्टिशं शये। नवमे वैणवं दण्डं दशमे खेटमेव च। चापमेकादशे पाणौ द्वादशे पात्रमत्र हि। त्रयोदशे त्रिशूलं वै टङ्कमत्र चतुर्दशे। वीणामिष्वीन्दु १५ हस्ते च ध्वजञ्चैव तु षोडशे। धारयद्वैरिणां ध्वस्त्यै पूजनीयं विपश्चिता। विद्यालाभाय सन्तुष्टिविजयादिसुखार्थिना”। किंस्तुघ्नसिति वा पाठः।
राशीनां मेषस्य विष्णुधर्मोत्तरात् “मेषवक्त्रो नरो रक्तो द्विभुजः पङ्कजासनः। ज्ञानमुद्राकरः पीतबसनः कनकाङ्गदी”।
वृषस्य “वृषाननो नरः शुभ्रो रक्तवस्त्राक्षकुण्डिकः”।
मिथुनस्य “पुमान् गदी सवीणा च योषिच्च मिथुनं सितम्”।
कर्कटस्य “कर्कटः कपिलः श्वास्यः कूर्ममुद्राधरो नरः”।
सिंहस्य “सिंहवक्त्रोऽरुणोऽब्जस्थो द्विभुजीऽभयपात्रयुक्”।
कन्यायाः “शुक्लासिभृत् सिता कन्या द्विभुजा पङ्कजासना”।
तुलायाः “तुलाधरो नरो गौरः पिङ्गनेत्रः कजासनः”।
वृश्चिकस्य “वृश्चिकस्थी नरः पिङ्गो द्विभुजो मर्कटाननः दक्षे वृश्चिकमालाधृक् वामे पात्रं सुरायुतम्”।
धनुषः “अश्ववक्त्रो नरश्चापी ज्याकृष्टकरदक्षिणः”।
मकरस्य “अक्षकुण्डीधरो नीलो मृगवक्त्रो नरो हि सः”।
कुम्भस्य “मकरास्योऽसितोऽब्जस्थो रिक्तकुम्भो नरो घटः”।
मीनस्य “मत्स्ययुग्मस्थितः श्यामो मत्स्यहस्तो महोदरः। मत्स्यवक्त्रो नरो मीनो हरिन्मणिविभूषणः”।
कालस्य विश्वकर्मशास्त्रात् “कालः करालवदनो नित्यगश्च विभीषणः। पाशहस्तश्च कर्तव्यः सर्पवृश्चिकरोमवान्”।
निमेषस्य “निमेषस्तु भवेदत्र मेचकाभोऽर्द्धनीलदृक्। अक्षसूत्रं करे दक्षे ज्ञानमुद्रामथोत्तरे। दधानो योगसंसिद्ध्यै पूजनीयो विपश्चिता”।
काष्ठायाः “नीलवर्णा भवेत् काष्ठा पीतवस्त्रा त्रिलोचना। अष्टादशभुजोपेता ज्ञानपुस्तीसमन्विता”।
कलायाः “शुक्लवर्णा कला ज्ञेया नीलवस्त्रा त्रिलोचना। व्योमवज्राङ्करुद्राक्षकण्ठलम्बितमालिका। मुक्ताक्षमालिकादक्षा वामपङ्कजसंयुता। पूजनीया विशेषेण ज्ञानविज्ञानहेतवे”।
क्षणस्य “क्षणाभिधो भवेत् पीतः मुनिपक्षः सुमौक्तिकः। जटात्रिमौक्तिकोपेतश्चन्दनालिकपाण्डुरः। मुक्तासूत्रार्किहस्तोऽयं वामे स्वर्णकमण्डलुः”।
१ मुहूर्त्तानां तत्र दिने रौद्रस्य “मुहूर्त्तानधुना वच्मि नामलक्ष्मपृथक्फलैः। तत्रादिमस्तु रौद्राख्यः श्यामश्वेतारुणच्छविः। श्वेतवस्त्रो महातुङ्गो दक्षिणे सर्पमादधत्। वामे पात्रं सुधापूर्णं क्षुद्रकर्मप्रसिद्धये”।
२ सितस्य “सिताभिधो द्वितीयस्तु श्वेतवर्णो महोदयः। श्वेतशोणाभवस्त्रोऽयं श्वेतमुक्ताविभूषणः। दक्षिणे पङ्कजं शुभ्रं वामे चैव कमण्डलुम्। दधानस्तु श्रियै पूज्यो योगवृद्ध्यै सुखाय च”।
३ अजपस्य “तृतीयोऽथाजपाख्यस्तु कृष्णः शुभ्रो महातनुः। दक्षिणे पङ्कजं नीलं वामे सर्पं महाफणम्। बिभ्रद्विपुलभोगाय पूजनीयो महाधिया”।
४ आर्य्यभटस्य “तुर्य्यश्चार्य्यभटाख्यस्तु नीलः शुभ्रो महोदरः। दक्षिणे पुस्तकं हस्ते वामे चैव त्रिशूलकम्। दघानः श्रेयसे भूत्ये विजयाय सुखाय च”।
५ सावित्रस्य “अधुना चैव सावित्रः पञ्चमः कथ्यते जय!। श्वेतवर्णोऽश्ववक्त्रस्तु मेचकवसनान्वितः। पुस्तकं दक्षिणे हस्ते वामे कुण्डन्तु निर्व्रणम्। दधद्रोगविनाशाय पूजनीयोऽप्यहर्निशम्”।
६ वैराजस्य “वैराजश्चात्र वै षष्ठः श्यामवर्णो जटाधरः। दक्षिणे तु करे दण्डं वामे चैव स्रुवं करे। बिभ्रद्वृद्ध्यै च सौख्याय पूजनीयोऽतिभक्तितः”।
७ गन्धर्वस्य “सप्तमश्चात्र गन्धर्वस्ताम्रवर्णः कृशोदरः। दक्षिणे वल्लकीं पाणौ वामे शक्तिञ्च धारयन्। सौख्यवृद्ध्यै यशोवृद्ध्यै पूजनीयो विपश्चिता”।
८ अभिजितः (कुतषस्य) “अधुना चाभिजिन्नाम कय्यतेह्यष्टमः शुभः। पीतवर्णोऽतिह्रस्वस्तु ताम्रवर्णो महोदरः। तूणहस्तद्वयोपेतः पूजनीयः सुखाप्तये। स एव कुतपो नाम विज्ञातव्यो मनीषिभिः। पितृणां सुप्रियश्चैव पिण्डहस्तोऽथवाप्ययम्”।
९ रौहिणेयस्य “नवमो रौहिणेयाख्यो मुहूर्त्तः कथ्यते जय!। शुभ्रबर्णो विशालाक्षो नीलवस्त्रोऽभ्रकुण्डलः। दक्षिणे पङ्कजं पाणौ वामे मोदकमेव च। दधानः सुखसम्पत्त्यै विजयारोग्यवृद्धये”।
१० बलस्य “अधुना कथ्यते वत्स! दशमस्तु बलाभिधः। गौरवर्णोऽरुणः श्वेतवसनः स्वर्णकुण्डलः। दक्षिणे तु करे शङ्कं वामे पङ्कजमादधत्”।
११ विजयस्य “एकादशोऽधुना ज्ञेयो मुहूर्त्तो विजयाभिधः। हेमवर्णो वृहद्गात्रः कृष्णश्वेतारुणांशुकः। अक्षसूत्रं करे दक्षे वामे चैव कमण्डलुम्। दधत् प्रजासुखार्थाय पूजनीयो विपश्चिता”।
१२ नैरृतस्य “नैरृताख्योऽधुना ज्ञेयो द्वादशस्तु मुहूर्त्तकः। नीलवर्णोत्पलमौलिः पीतवस्त्रो महाबलः। दक्षिणे तु करे चक्रं वामे चाभयमादधत्”।
१३ सन्तमसस्य “त्रयोदशो भवेदत्र रक्तः सन्तमसाभिधः। ताम्रवस्त्रो महौजस्को रत्नहेमजकुण्डलः। शोणपङ्कजदक्षस्तु वामकुण्डीसमन्वितः”।
१४ बरुणस्य “मुहूर्त्तः कथ्यते चात्र वरुणाख्यश्चतुर्दशः। मुक्ताफलनिभश्चैव मुक्ताहारविभूषणः। धनुर्बाणधरश्चैव पूजनीयः सुखाप्तये”।
१५ सुभगस्य “अथ पञ्चदशो ज्ञेयः सुभगस्तु हरित्प्रभः”।
१ रात्रौ अतिरौद्रस्य “अथो निशाचरान् ब्रूमो मुहूर्त्तान् तिथिसंख्यकान्। तत्रादिमोऽतिरौद्राख्यः कृष्णवर्णोऽरुणांशुकः। चतुर्भुजोमहाक्रूरः सास्थिसङ्कटकोबलः। आदिमे दक्षिणे बिभ्रत् कौशिकञ्चातिभीषणम्। द्वितीये तु करे सर्पं वामोर्द्धे त्वथ वै करे। सन्दंशं तदधः पात्रं बिभ्राणः सर्वविघ्नहा”।
२ महागन्धर्वराजस्य “महागन्धर्वराजाख्यो द्वितीयस्तत्र चैव हि। कृष्णशुभ्रारुणग्रीवो नीलवस्त्री महाबलः। चतुर्भुजो विशालाक्षो गौरवर्णो जटाघरः। आदिमे दक्षिणे शङ्खं द्वितीये चैव पङ्कजम्। वामोर्द्धगे कीरं तदधस्थे तु पात्रकम्। धारयन्निष्टसम्पत्त्यै पूजनीयो विचक्षणैः”।
३ दविणस्य “तृतीयः कथ्यते चाथ रात्रिजो द्रविणाभिधः। तप्तचामीकराभासः कृष्णनीलारुणांशुकः। दक्षिणे प्रथमे पद्मं हेमजञ्चातिशोभनम्। द्वितीये तु करे वीणां वामोर्द्धे वीजपूरकम्। दधीनः सर्वसम्पत्तिसुखायुःश्रीविवृद्धये”।
४ श्रावणस्य “श्रावणाख्यस्ततस्तुर्यो नीलवर्णोऽर्ककुण्डलः। नीलारुणांशुकोपेतः कण्ठनीलाब्जमालिकः। दक्षिणाद्ये करे खड्गं द्वितीये चैव पङ्कजम्। वल्लकीमूर्द्ध्वगे वामे पात्रमस्मादधःस्थिते। दधानः पूजनीयोऽयं ज्ञानविज्ञानसिद्धये”।
५ वायोः “मुहूर्त्तः कथ्यते चाथो वायुसंज्ञस्तु पञ्चमः। हरिद्वर्णो जवाकर्णः श्वेतवस्त्रो महाबलः। कीरमार्क्यादिमे हस्ते द्वितीये तु ध्वजं शये। वामोर्द्धगे करे सीरं द्वितीये पात्रमादधत्”।
६ अग्नेः “अग्निसंज्ञस्ततः षष्ठो जवाकुसुमसन्निभः। कृष्णनीलांशुकोपेतः शिखारुद्राक्षसंयुतः। दक्षिणाद्ये करे पात्रं द्वितीये शक्तिमेव च। वामादिमे करे कीरं द्वितीये सीरमेव च। दधानः कीर्त्तये भुक्त्यै विजयायुःप्रवृद्धये”।
६ राक्षसस्य “अधुना कथ्यते वत्स! राक्षसाख्यस्तु सप्तमः। नीलवर्णोग्रदंष्ट्रस्तु नीलशुभ्नारुणांशुकः। दक्षिणाद्ये करे पद्मं द्वितीये तु त्रिशूलकम्। खट्वाङ्गमुत्तरे वामे पात्रमस्मादधःस्थिते। दधद्वैरिविघाताय पूजनीयस्तु साधकैः।
८ धातुः “धाता चैवाष्टमः पीतवर्णः पाटलभांशुकः। कर्णस्फाटिकसौवर्णकुण्डलः कम्बुकन्धरः। पुस्तीमार्क्यादिमे हस्ते द्वितीये चैव विष्टरम्। वामादिमे करे दण्डं द्वितीये स्वर्णकुण्डलम्। दधानः प्रीतये भुक्त्यै विजयाय सुखाय च”।
९ सौम्यस्य “नवमः सौम्यनामाथ शुभ्रवर्णो विशालदृक्। पीतवस्त्रो महातेजा मुक्तासर्वाङ्गभूषणः। आदिमे दक्षिणे शङ्खं द्वितीये चैव पङ्कजम्। वामादिमे करे पात्रं द्वितीये सीरमेव च। दधानस्तुष्टये भुक्त्यै पूजनीयस्तु मुक्तिदः”।
१० ब्रह्मणः “दशमश्चात्र विज्ञेयो मुहूर्त्तो ब्रह्मसंज्ञकः। पीतवर्णः शुक्लवस्त्रो जटामुकुटसंयुतः। कण्ठरुद्राक्षमालोऽयं भालपाण्डुरचन्दनः। सुवर्णकुण्डलोपेतः कटिसूत्रोत्तरीयवान्। अक्षसूत्र यमादिस्थे द्वितीये चैव पङ्कजम्। वामोर्द्धे तु स्रुवं हस्ते पुस्तकन्तदधःकरे। दधत् सौवर्णमुक्तानां लाभाय विजयाय च”।
११ वाक्पतेः “एकादशोऽधुना ज्ञेयो वाक्पतिर्नाम नामतः। सुवर्णवर्ण एवायं कृष्णशुभ्रांशुकान्वितः। कुण्डोमार्क्यादिहस्ते तु द्वितीये सीरमेव च। वामादिमे करे कोरं द्वितीये नीरजं दधत्। प्रजालाभकरश्चैव कार्यनिष्पत्तिसाधकः”।
१२ पौष्णस्य “द्वादशश्चात्र विज्ञयो पौष्णनामा सुलोहितः। पीतवस्त्रो जटामौलिर्मुनिपुष्पकृतश्रुतिः। तुन्दिलः सोपवीती च नीलकीलकपाण्डुरः। दक्षादिमे करे वीज पूरकं शुभ्रवर्णकम्। द्वितीये वारिजं पाणौ पात्रं वामादिमे करे। सन्दंशन्तु द्वितीयेऽयं धारयन् वैरितापदः”।
१३ वैकुण्ठस्य “जयाधुनात्र वै कध्यो वैकुण्ठाख्यस्त्रयोदशः। पादजान्वन्तशुभ्रोऽयं कण्ठान्तारुणवणकः। अलिवर्णस्तु केशान्ते कुण्डलानेकरत्नजः। दक्षिणाद्ये करे पुस्तीमम्बुजन्तु द्वितीयके। केकिपिच्छन्तु वामाद्ये द्वितीये चातपत्रकम्। दधानः कीर्त्तये भुक्त्यै पूजनीयः सिताम्बुजैः”।
१४ समीरणस्य “चतुर्दशोऽधुना ज्ञेयो नामतस्तु समीरणः। जलनीलनिभश्चैव शुभमारकतद्युतिः। पीतनीलारुणप्रान्तवसनः स्निग्धलोचनः। तालपत्रं यमादिस्थे द्वितीये नीलनीरजम्। वामादिभे करे पात्रं द्वितीये नीलरुक्मजम्। दधानो यज्वनो भूत्यै बालवृद्ध्यै सुखाय च”।
१५ नैरृतस्य “अथ पञ्चदशो ज्ञेयो मुहूर्त्तो नैरृतोऽरुणः। मेचकाभत्रिनेत्रस्तु दंष्ट्रावान् वसनारुणः। स्वर्णेन्द्रनीलभूषाढ्यः शोणालितिलकान्वितः। आदिमे दक्षिणे बाणं द्वितीये कमलं करे। वामादिस्थे धनुर्हस्ते द्वितीये चैव वारिजम्। दधच्छान्त्यै सुभोगाय बलाय विजयाय च”।
अहोरात्रस्य “एते निशाचराः ख्याता मुहूर्त्ताः सकलास्तव। अहोरात्राभिधश्चात्र कृष्णग्रीवादिमूर्द्धजः। कण्ठपादान्तशुभ्रोऽयं द्विभुजो दीर्घगीधिकः। सार्द्धचन्द्रजटामौलिः पिङ्गलश्मश्रुलोचनः। नृमुण्डमालिकोपेतः कृष्णशुभ्रांशुकान्वितः। अर्कं दक्षे दधानोऽयं वामे चैव विधुन्तुदम्। इष्टापूर्त्त प्रसिद्ध्यर्थं पूजनीयो मनीषिभिः”।
शुक्लपक्षस्य “शुक्लपक्षो नरः शुक्लो जटामुकुटसंयुतः। शोणवस्त्रो विशालाक्षो भालालितिलकान्वितः। सूर्यमार्कौ दधानोऽयं वामे चन्द्रजविम्बकम्। पूजनीयो महाभक्त्या प्रतिपक्षं सिते सिते। अस्य द्वादश भेदाः स्युर्विज्ञेया वर्णभेदतः। पूजनीयाबलार्थाय प्रतिमासन्तु भेदतः”।
कृष्णपक्षस्य “श्यामाभः कृष्णपक्षस्तु सितशोणाम्बरो बली। सूर्यविम्लं यमे बिभ्रंद्वामे दापं समुज्ज्वलम्। पूजनीयो वलात्यर्थं प्रतिमासन्तु भेदतः। इत्यस्यार्कप्रभेदाः स्युर्भपक्षादिजनामतः”।
मासस्य “स्वनामतस्तु मासः स्यात् द्विवर्णस्तु द्विदोरिति। नाभ्यूर्द्धाधःश्वेतकृष्णः पिङ्गलोचनमूर्द्धजः। सूर्यचन्द्रान्वितः सोऽयं प्रतिमासन्तु पूज्यते। स्वनामपूर्वकैर्मन्त्रैर्होमपूजावसानकैः”।
ऋतूनां हेमन्तस्य “ऋतुषटक्मथो ब्रूमोलक्ष्मनामपृथक्फलैः। हेमन्ताख्यस्तु तत्राद्यः कपिलः पिङ्गकुण्डलः। पीतवस्त्रसमायुक्तस्त्रिजटः कृष्णगोधिकः। (गोधिर्ललाटम् धान्यमञ्जरिकाद्यस्तु वामपात्रपिधानकः। पूजनीयोविभूत्यर्थं धान्यसम्पत्तिवृद्धये”।
शिशिरस्य “शिशिराख्यो द्वितीयस्तु हरित्पीतनिभारुणः। पीतकुण्डलकर्णस्तु कण्ठविद्रुममालिकः। मधुद्रुमप्रसूनाङ्गपात्रमार्कौ कराम्बुजे। वामे धान्यशरावन्तु धारयन्निष्टवृद्धये”।
वसन्तस्य “विष्णुप्रकरणोक्तस्तु ज्ञातव्योऽत्र वसन्तकः”।
ग्रोष्मस्य “ग्रोष्माभिधश्चतुर्थस्तु धूसरो रूक्षमात्रकः। अक्षसूत्रार्कहस्तस्तु वामे शुभ्रातपत्रयुक्। रोगसन्तापनाशाय पूजनीयोऽरिपक्षहा”।
वर्षायाः “पञ्चमस्तोयदर्तुस्तु हारदुवर्णोऽरुणेक्षणः। ताम्रवर्णांशुकोपेतः कृष्णविद्रुमकुण्डलः। मीनमार्कौ दधानोऽयं तोयपूर्णघटं परे। मेघमालावृतश्चेव विद्युद्दहनदीप्तिमान्। हरितालिदलैः पूज्यो पुष्टिसन्तुष्टिवृद्धये”।
शरदः “शरदृतुरथो षष्ठश्चन्द्रगौरः सुलोचनः। कण्ठमौक्तिकमालस्तु कर्णचन्द्रजकुण्डली। चन्द्रविम्बं करे दक्षे वामे चामृतजं षटम्। दधानः पूजनीयोऽयमायुर्वृद्ध्यै सुखाय च”।
दक्षिणायनस्य “दक्षिणायनसंज्ञोऽथ श्यामः सोमेन्द्रलोचनः। पीतवस्त्रो वृहत्तुण्डः कर्णिकारदलश्रुतिः। वीजाङ्कुरशरावार्किः खनित्रोत्तरहस्तकः। पूजितः सिद्धये नित्यं धनधान्यसमृद्धये”।
उत्तरायणस्य “उत्तरायणसंज्ञोऽथ शुभ्रवर्णो विशालदृक्। माञ्जिष्ठवसनोपेतः स्वर्णमुक्ताविभूषणः। पुस्तकं दक्षिणे हस्ते वामे तु रविविम्बकम्। दवद्भुक्त्यै सुदे चैव पूजनीयस्तु कीर्तये”।
१। १ वत्सराणाम् प्रभवस्य “अथ संवत्सरान् ब्रूमो नामलक्ष्मफलादितः। प्रभवाख्योभवेदाद्यः पीतवर्णो महोदरः। नीलवस्त्रसममायुक्तो दक्षे काञ्चनकुण्डलः। वामे स्फाटिकवर्णस्तु पृष्ठलम्बिजटात्रयः। दक्षिणे प्रथमे शक्तिं पङ्कजन्तु द्वितीयके। वामादिमे शरावन्तु वीजपूर्णं कराम्बुजे। द्वितीये चैव सन्दंशं दधानः पुष्टिवृद्धये”।
१। २ विभवस्य “विभवाख्यो द्वितीयस्तु नीलपीतारुणच्छविः। पीतशुभ्रान्तवस्त्रोऽयं कण्ठे पद्माङ्कमालिकः। दक्षिणाद्ये शरं पाणौ द्वितीये नीलपङ्कजम्। सन्दशमुत्तरादिस्थे द्वितीये चैव कार्मुकम्। दधद्विभूतये नित्यं पूजनीयो विपश्चिता”।
१। ३ शुक्लस्य “शुक्लनामा तृतीयस्तु श्वेतपङ्कजसन्निभः। कण्ठपद्माक्षमालोऽयं शुभ्रप्रान्तालिवस्त्रधृक्। दक्षिणाद्ये शरावन्तु द्वितीये बाणमेव च। दर्पणञ्चोत्तरादिस्थे द्वितीये चैव कार्मुकम्। दधानो भूतये मर्त्यैः पूजनीयः कृतात्मभिः”।
१। ४ प्रमोदस्य “प्रमोदाख्यश्चतुर्थस्तु नीलग्रीवो महोदरः। श्वेतवस्त्रोऽब्जसङ्काशो योगपट्टोत्तरीयवान्। दक्षिणाद्ये तु सन्दंशं द्वितीये सीरमेव च। वामादिमे शरावन्तु द्वितीये नीलपङ्कजम्। दधत् सौख्याय भोगाय विजयाय महाय च”।
१। ५ प्रजापतेः “प्रजापत्याख्य एवात्र पञ्चमः स्वर्णसन्निभः। शोणभूषणवस्त्राढ्यस्तुन्दिलो गौरपाण्डुरः। अक्षसूत्रं यमादिस्थे द्वितीये परशुं करे। शरावमुत्तरादिस्थे द्वितीये पुस्तक दधत्। प्रजावृद्ध्यै विभूत्यै च पूजनीयोविजानता”।
१। ६ अङ्गिरसः “अङ्गिराख्यस्ततः षष्ठो वर्णशुभ्रोऽतिलोनशः। ताम्रवस्त्रो महातेजा द्वादशाङ्गसचन्दनः। पवित्रदर्भपाणिस्तु जटामण्डितमस्तकः। ज्ञानखड्गन्तु दक्षाद्ये द्वितीये समिधङ्करे। वामादिमे शरावन्तु ब्रह्मदण्डं द्वितीयके। दधत् सुपूजितो भूत्ये श्रेयसे च सुखाय च”।
१। ७ श्रीमुखस्य “सप्तमः श्रीमुखाख्यस्तु पीतवर्णो विशालदृक्। पाटलावसनोपेतो दीर्घकर्णालकारुणः। सुवर्णरत्नभूषाढ्यः सर्वानर्थविघातकृत्। श्रीफलं दक्षिणादिस्थे द्वितीये चैव पङ्कजम्। पुस्तकञ्चोर्द्धमे वामे तदधस्तु शरावकम्! दधानः पुष्टये लक्ष्म्यै चन्दनादिभिरर्चितः”।
१। ८ भावस्य “भावाभिधोऽष्टमस्तत्र नीलशुभ्रारुणच्छविः। पीतकृष्णारुणप्रान्तवसनश्चित्रकुण्डलः। मुक्ताविद्रुममालोऽयं जटापिङ्गाक्ष एव च। दक्षिणे प्रथमे पुस्तमंशकन्तु द्वितीयके। वामोर्द्धगे करे शूलं तदधः पात्रमासवम्। बिभ्रत्संपूजनीयस्तु धान्यलाभाय वै श्रिये”।
१। ९ यूनः “नवमोऽत्र युवाख्यस्तु पाटलाभोऽरुणेक्षणः। नीलवस्त्रजटोत्तुङ्गो रत्नमेचककुण्डलः। दक्षिणे प्रथमे शङ्खं द्वितीये तु सुदर्शनम्। वामादिमे करे पात्रं द्वितीये नीलपङ्कजम्। बिभ्राणः कान्तये पूज्यो लक्ष्मीसौभाग्यवृद्धये”।
१। १० धातुः “धाता चैव प्रविज्ञेयो दशमः पिङ्गलोचनः। हस्तशुभ्रारुणप्रान्तवसनः श्वेतकुण्डलः। शरावमादिमे दक्षे द्वितीये बीजपूरकम्। वामोर्द्धगे करे पुस्तीं नीलमिन्दीवरन्त्वधः। जयाय पुत्रसम्पत्त्यै पूजनीयः सुभक्तितः”। (दघदिति शेषः)
२। ११ ईश्वरस्य “ईश्वराभिध एवात्र ज्ञेय एकादशोऽप्यसौ। कैरवाभस्त्रिनेत्रस्तु जटाखण्डेन्दुमौलिकः। मुक्तास्फाटिकरुद्राक्षभूषणस्तुङ्गनासिकः। त्रिशूलमादिमे दक्षे द्वितीये सीरमेव च। शरावमादिमे वामे द्वितीये चैव पुस्तकम्। बिभ्रत् सौख्याय पूज्योऽसौ योगवृद्ध्यै सुताप्तये”।
१। १२ बहुधान्यस्य “द्वादशो बहुधान्याख्यः पीतनीलारुणच्छविः। पीतवस्त्रो विशालाक्षस्तुन्दिलोदीर्घगोधिकः। जवाकुतुममालोऽयं कवची गजकुण्डलः। दक्षिणाद्ये करेकुम्भं सौवर्णं सर्वधान्यकम्। वीजपूरपिधानन्तत् खचितानेकरत्नकम्। द्वितीये डमरुं वामे चीर्द्धे नीलकनीरजम्। द्वितीये तु करे सीरं दधानः सर्वधान्यकम्। सिद्धये पूजितो नित्यं स्वनामाद्यैस्तु संस्कृतः”।
२। १ प्रमाथिनः “प्रमाथिसंज्ञकश्चाद्यः शुक्लवर्णो महाभुजः। जटात्रितयसंयुक्तो दीर्घभालोऽर्ककुण्डलः। शोणनीलाम्बरोपेतः काञ्चनानेकमुद्रिकः। पिकमार्क्यादिमे हस्ते द्वितीये कम्बुमेव च। पाशं वामोर्द्धगे हस्ते तदधश्चाम्बुपात्रकम्। दधानो वैरिघाताय स्ववर्गस्यैव पुष्टये”।
२। २ विक्रमस्य “विक्रमाख्यो द्वितीयस्तु नीलशुभ्रो महोदरः। पीतवस्त्रो वृहद्भालः कण्ठमौक्तिकालिकः। आदिमे दक्षिणे शङ्खं द्वितीये चैव पङ्कजम्। वामादिमे करे पात्रं पाशमत्र द्वितीयके। दधानोऽतिबलार्थाय पूजनीयस्तु यत्नतः”।
२। ३ वृषस्य “वृषाभिधस्तृतीयस्तु श्वेतगौरो विशालदृक्। स्थूलरोमाऽतिसंह्वष्टः केतकीदलकर्णयुक्। पीतप्रान्तारुणोपेतवसनः कटिघण्टिकः। आदिमे दक्षिणे पाशं द्वितीये शङ्खमेव च। वामादिमे करे पात्रं द्वितीये मृगमेव च। धनधान्यप्रवृद्ध्यर्थं पूजनीयोऽतिसादरम्”।
२। ४ चित्रभानोः “चतुर्थश्चित्रभान्वाख्यश्चित्रग्रीवोऽरुणांशुकः। मुक्तागर्भनिभश्चैव वरदः स्वर्णकुण्डलः। मुक्तास्रजन्तु दक्षाद्ये द्वितीये चैव पाशकम्। वामादिभे करे कम्बुं द्वितीये पङ्कजं शुभम्। बिभ्रदानन्दसम्पत्त्यै प्रतापार्थविवृद्धये”।
२। ५ सुभानोः “पञ्चमस्तु सुभान्वाख्यः शुभ्रशोणरुचिः शुभः। कण्ठत्रिरेखाशोणस्तु जटाकाञ्चनसन्निभः। आदिमे दक्षिणे पद्मं द्वितीये शङ्खमुज्ज्वलम्। वामोर्द्धे तु करे पाशं तदधःस्थे शयेऽङ्कुशम्। बिभ्राणः सुखदः शान्त्यैरिपुपक्षक्षयाय च”।
२। ६ तारणस्य “अत्र संवत्सरः षष्ठस्तारणाख्यः सिताम्बरः। श्वेतनीलारुणश्चैव स्वर्णकुण्डलभूषणः। प्रथमे दक्षिणे कुम्भं द्वितीये चैव पङ्कजम्। उत्तराद्ये करे पाशं द्वितीये शङ्खमादधत्। दुर्गत्यनेकनाशाय भूतये विजयाय च”।
२। ७ पार्थिवस्य “सप्तमः पार्थिवाख्यस्तु तप्तकाञ्चनसन्निभः। पीतशोणाम्बरश्चैव कृष्णग्रीवोऽतिसुन्दरः। सर्वरत्नविभूषाढ्यः केतकीदलमस्तकः। आदिमे दक्षिणे बाणं द्वितीये चैव पङ्कजम्। कार्मुकञ्चोत्तरादिस्थे द्वितीये शङ्खमेव च। दधद्राज्यादिलाभाय पूजनीयः प्रयत्नतः।
२। ८ अव्ययस्य “अव्ययाख्योऽष्टमश्चात्र कैरवारुणसन्निभः। कृष्णनीलारुणश्वेतवसनश्चित्रकुण्डलः। कीरमार्क्यादिमे हस्ते द्वितीये सीरमेव च। शङ्खं वामादिमे हस्ते द्वितीये पाशमादधत्। यज्वनोभूतये नित्यं वृद्धये चायुषे श्रिये”।
२। ९ सर्वजितः “सर्वजिन्नवमोऽप्यत्र श्वेतनीलोऽसितप्रभः। नीलवस्त्रजटोत्तुङ्गः कृष्णनीरजकुण्डलः। दक्षादिमे करे बाणं द्वितीये चैव पुस्तकम्। वामादिमे करे पाशं द्वितीये पात्रमेव च। दधानः पूजनीयोऽयं विजयाय सुखाय च”।
२। १० सर्वधारकस्य “अधुना कथ्यते वत्स! दशमः सर्वधारकः। कङ्कपत्रनिभश्चैव पाटलावसनान्वितः। नीलपङ्कजवर्णस्तु मुक्ताहारविभूषणः। पाशं दक्षादिमे हस्ते द्वितीये केतकीदलम्। शङ्खञ्चैवोत्तरादिस्थे द्वितीये चैव पुस्तकम्। दधानो विजयारोग्यवृद्धये चैव यज्वनः”।
११ विरोधिनः “एकादशोऽधुना ज्ञेयो विरोधी नाम वत्सरः। कृष्णपाण्डुरदेहस्तु वरदो नीलकुण्डलः। कृष्णप्रान्तारुणश्चैव वसनप्रान्तभूषणः। विम्बीफलन्तु दक्षाद्ये द्वितीये श्वेतपङ्जम्। वामादिमे करे सर्पं द्वितीये पाशमादधत्। पूजनीयोऽरिघाताय बलवृद्ध्यै च यज्वनः”।
२। १२ विकृतस्य “द्वादशो विकृताख्यस्तु धूसरः पिङ्गलोचनः। नीलशुभ्रांशुकोपेतो मेषशृङ्गजकुण्डलः। दक्षिणाद्येकरे पाशं द्वितीये मेषशृङ्गकम्। वामोर्द्धगे करे शङ्खं पाशमस्मादधः करे। दधानो रोगनाशाय दुष्टशत्रुविघातकृत्”।
३। १ खरस्य “खराभिधानस्तत्राद्यो रक्तवर्णो महोदरः। नीलवस्त्रो वृहद्भालो घनवर्वरमूर्द्धजः। दक्षिणाद्ये करे शक्तिं द्वितीये खडगमेव च। वामादिमे करे पात्रं द्वितीये चामरन्दधत्। शत्रुतापाय पूज्योऽसौ विजयायैव यज्वनः”।
३। २ नन्दनस्य “नन्दनाख्यो द्वितीयस्तु पीतशोणाननो बली। शुभ्रवस्त्रो जटालम्बी दीर्घकर्णः कजासनः। पङ्कजन्तु यमादिस्थे द्वितीये शक्तिमेव च। वज्रं वामादिमे पाणौ द्वितीये चाङ्कुशं शये। दधानः श्रेयसे भूत्यै पूजनीयोमहोदयः”।
३। ३ विजयस्य “विजयाख्यस्तृतीयस्तु श्वेतपीतारुणच्छविः। कृष्णवस्त्रः कृशोत्तुङ्गजटारुद्राक्षमालिकः। अक्षसूत्रं यमादिस्थे द्वितीये कुलिशं करे। शक्तिं वामादिमे हस्ते द्वितीये चैव पङ्कजम्। दधानो विजयारोग्यवृद्धये चैव पूजितः”।
३। ४ जयस्य “जयाभिधश्चतुर्थोऽत्र पीतशोणः शुचिः मुखी। पीतवस्त्रो जटैकस्तु पीतरुक्वर्णवेष्टितः। पुस्तकं प्रथमे दक्षे द्वितीये नीलपङ्कजम्। वामादिमे करे वज्रं द्वितीये शक्तिमेव च। दधानः शुभमाङ्गल्यवृद्धये चैव पूजितः”
३। ५ मन्मथस्य “पञ्चमो मन्मथाख्यस्तु नीलशोणशुचिः शुभः। स्वर्णकुण्डलसंयुक्तः कीरपक्षनिभांशुकः। मल्लिकाधन्वबाणस्तु मूर्वापुष्पजमालिकः। दण्डन्तु दक्षिणे हस्ते द्वितीये चैव पङ्जम्। वामादिमे करे पुस्तीं द्वितीये शक्तिमेव च। दधानः सिद्धये भूत्यै योषिद्वर्गवशीकृतौ”।
३। ६ दुर्मुखस्य “षष्ठश्चैवात्र विज्ञेयो वत्सरो दुर्मुखाभिधः। शुकचञ्चुनिभश्चैव नीलकुण्डलसन्धरः। दक्षिणाद्ये करे शक्तिं द्वितीये वज्रमेव च। शुकं वामादिमे पाणौ द्वितीये सर्पमादवत्। पूजनीयो विधानेन भ्रूकुटीकुटिलाननः। दुष्टशत्रु विनाशाय सर्वरोगीपशान्तये”।
३ ७ हेमलम्बस्य “सप्तमो हेमलम्बाख्यो रक्तपीतनिभच्छविः। गृध्रपक्षांशुकश्चैव रत्नकुण्डलभूषणः। हेमजं पङ्कजंदक्षे प्रथमे करपल्लवे। द्वितीये कुलिशं पाणौ वामाद्ये पात्रमुत्तमम्। द्वितीये तु करे शक्तिं दधानो मुक्तये जय!”।
३ ८ विलम्बस्य “अष्टमस्तु बिलम्बाख्यः पाटलाभः कृशोदरः। पीतवस्त्रो वृहद्भालोजटाखण्डेन्दुमण्डनः। प्रथमे दक्षिणे सर्पं द्वितीये शक्तिमेव च। वामादिमे करे पात्रं द्वितीये चैव पङ्कजम्। दधानः शत्रुघाताय पूजनीयोविशेषतः”।
३। ९ विकारिणः “विकारी नवमश्चाथ कृष्णनीलारुणच्छविः ताम्रकुण्डलवस्त्राद्यः कण्ठशोणत्रिरेखिकः। दक्षिणाद्ये करे वाणं द्वितीये चैव पुस्तकम्। वामादिमे धनुर्हस्ते द्वितीये शक्तिमादधत्। पूजनीयोविशेषेण सर्वरोगोपशान्तये”।
३। १० शार्वरिणः “दशमः शार्वरिप्रख्यः कृष्णशुभ्रारुणच्छविः शोणवस्त्रोऽतिदीर्घाङ्गः स्थूलवर्वरमूर्द्धजः। दक्षि णाद्ये करे सर्पं द्वितीये शाल्मलीदलम्। कौशिकञ्चोत्तरादिस्थे द्वितीये शक्तिमेव च। दधान कीर्त्तये पुष्ट्यै शत्रुभङ्गाय पूजितः”।
३। ११ प्लवस्य “एकादशः प्लवाख्यस्तु शशकर्णनिभच्छविः। दर्दुराभाम्बरोपेतो लोहकुण्डलसंयुतः। आदिमे दक्षिणे हस्ते दर्दुरं मणिसंयुतम्। द्वितीये तु करे शक्ति पात्रं वामादिमे करे। द्वितीये पङ्कजं बिभ्रत् पूजनीयोऽ प्यमित्रहा”।
३। १२ शुभकृतः “शुभकृत् द्वादशोऽप्यत्र नागजाभः सुलोचनः। पाटलावसनोपेतः कृष्णकुण्डलभूषणः। दक्षिणे भीषणां शक्तिं प्रथमे करपल्लवे। द्वितीये हेमजं पद्मं वामाद्ये चैव दर्पणम्। द्वितीये कुलिशं हस्ते दधत्सौख्याय सम्पदे”।
४। १ शुभकृतः “शुभकृत् पीतधूम्रस्तु प्रथमो नीलजाम्बरः नीलभूषणसंयुक्तो रत्नमुद्राकराङ्गुलिः। घटं दक्षादिमे हस्ते द्वितीये चैव पुस्तकम्। वामादिमे करे पात्रं द्वितीये ध्वजमेव च। दधानः श्रेयसे पुष्ट्यै पूज नीयोजयाय च”।
४। २ क्रीधिनः “क्रोधिसंज्ञो द्वितीयस्तु नीलशुभ्रः कृशोदरः मंचकाम्बरसंयुक्तस्तुङ्गनासालिपाण्डुरः। पद्मं दक्षादिमे हस्ते द्वितीये ध्वजमेव च। वामादिमे कजं पाणौ द्वितीये सीरमेव च। दधानो वैरिनाशाय कृष्णद्रव्यैः सुपूजितः”।
४। ३ विश्वावसोः “विश्वावसुस्तृतीयस्तु कृष्णग्रीवः सुलोलदृक्। कृष्णशुभ्रारुणप्रान्तवसनश्चित्रकुण्डलः। ध्वजं दक्षादिमे पाणौ द्वितीये कुलिशं शये। दधानो भुक्तये प्रीत्यै नानाभोगफलाप्तये”।
४। ४ पराभवस्य “पराभवश्चतुर्थस्तु धूसरोऽरुणजाम्बरः। नीलोत्पलश्रुतिश्चैव क्षुद्रघण्टिकमेखलः। नीलोत्पलन्तु दक्षाद्ये द्वितीये ध्वजमेव च। वामादिमे करे पात्रं सन्दंशं तु द्वितीयके। धारयन्नरिघाताय पूजनीयो विपश्चिता”।
४। ५ प्लवङ्गस्य “पञ्चमस्तु प्लवङ्गाख्यो हरिणाजिनसन्निभः। मेषोदराभवस्त्रोऽयं संयुतः कृष्णकन्धरः। दक्षिणाद्ये ध्वजं पाणौ द्वितीये मेषशृङ्गकम्। वामादिमे करे पात्रं द्वितीये पाशमेव च। दधानो भूतये भुक्त्यै पूजनीयः सदा नृभिः”।
४। ६ कीलकस्य “कीलकाख्यस्ततः षष्ठः कृष्णवर्णोऽतिदीर्घदृक्। नीलवस्त्रो जटाभारः कृष्णकुण्डलभूषणः। कीलकं दक्षिणादिस्थे द्वितीये ध्वजमेव च। वामादिमे करे पाशं सन्दंशन्तु द्वितीयके। दधानो विजयारोम्यवृद्धये चैव पूजितः”।
४। ७ सौम्यस्य “सप्तमः सौम्यनामाथ कीर्त्यते वत्सरः शुभः। नीलपीतजटायुक्तो रम्भादलनिभांशुकः। खर्णपत्रश्रुतिश्चैव कण्ठपङ्कजमालिकः। चन्द्रमार्क्यादिमे हस्ते द्वितीये केतकीदलम्। वामादिमे ध्वजं हस्ते द्वितीये नीरजं शुभम्। बिभ्रत्सौभाग्ययोगाय पूजनीयः सुभक्तितः”।
४। ८ साधारणस्य “साधारणोऽष्टमो ज्ञेयो नीलगौरारुणच्छविः। पीतशोणान्तवस्त्रोऽयं स्वर्णकुण्डलरत्नयुक्। चन्द्रहासं यमादिस्थे द्वितीये चैव कीलकम्। वामादिमे ध्वजं पाणी सन्दंशञ्चोत्तरे दषत्। धनवृद्ध्यै सुखाप्त्यर्थं पूजनीयः सिताम्बुजैः”।
४। ९ “विरोधकृतः “विरोधकृच्च विज्ञेयो नवमो वत्सरो जय!। पिकाभः शुक्लवस्त्रोऽयं पिङ्गश्मश्रुजटेक्षणः। दक्षिणाद्ये करे शङ्खं द्वितीये चव वै ध्वजम्। चन्द्रहासन्तु वामाद्ये द्वितीये परशु शये। विभ्राणो रोगनाशाय शत्रुसन्तापकृत् जय!।”
४। १० परिधाविनः “परिधावी तु विज्ञेयो दशमश्चैव वत्सरः। इन्दीवरारुणश्वेतः कृष्णपीतनिभांशुकः। ब्रह्मप्रसवकर्णस्तु कण्ठपङ्कजमालिकः। पिकमार्क्यादिमे हस्ते द्वितीये ध्वजमेव च। घण्टां वामादिमे पाणौ द्वितीये चैव मुद्गरम्। दधानो वृद्धये चैव श्रेयोभूतिसुखायुषाम्”।
४। ११ प्रमादिनः “प्रमादी चापि विज्ञेयो रुद्रसङ्ख्योऽपि वत्सरः। अतसीपुष्पसङ्काशो हरिनीलारुणाम्बरः। मदघूर्णितनेत्रस्तु तन्द्रीभूत इवालसः। दण्डमार्क्यादिमे हस्ते द्वितीये दण्डमेव च। वामादिमे करे पात्रं द्वितीये विसिनीदलम्। दधानो रोगविच्छित्त्यै शत्रुभङ्गाय यज्वनः”।
४। १२ आनन्दस्य “आनन्दाख्यः सितः पीतवसनो द्वादशोऽत्र हि। मुक्तेन्द्रनीलसौवर्णभूषणो नीलकुण्डलः। पङ्कजं दक्षिणादिस्थे द्वितीये केतकीदलम्। वामोर्द्ध्वगे ध्वजं पाणौ तदधस्थे तु मोदकम्। योषिद्वश्याय संपूज्यो गन्धपुष्पाक्षतादिभिः”।
५। १ राक्षसस्य “तामसानां भवेदाद्यो राक्षसो नाम वत्सरः। इन्दीवरदलाभासो हेमवस्त्रोऽर्कभूषणः। अर्कमार्क्यादिमे हस्ते द्वितीये शृणिमेव च। नीलोत्पलन्तु वामाद्ये द्वितीये कुलिशं शये। दधद्रोगादिनाशाय पूज्य स्थाणुभिरेव सः”।
५। २ अनलस्य “अनलाख्यो द्वितीयस्तु नीलशुभ्रारुणच्छविः। पीतप्रान्तालिवस्त्रस्तु वज्रकुण्डलभूषणः। चन्द्रहासं यमादिस्थे द्वितीये चार्ककङ्करे। पिशितञ्चोत्तरादिस्थे परे चैव परश्वधम्। दधत् सुसम्पदेऽरीणां विजयायैव यज्वनः”।
५। ३ पिङ्गलस्य “पिङ्गलाख्यस्तृतीयोऽत्र कुमुदारुणसन्निभः। श्वेतप्रान्तारुणानीलवसनः स्वर्णभूषणः। आदिमे पिशितं याम्ये द्वितीये सीरमेव च। कुलिशञ्चैव वामाद्ये सन्दंशन्तु द्वितीयके। बिभ्राणो विजयारोग्यवृद्धये चैव पूजितः”।
५। ४ कालयुक्तस्य “कालयुक्ताभिधस्तुर्यो नीलकण्ठो वृकोदरः। पीतारुणांशुकोपेतो नीलस्वर्णजभूषणः। यमादिमे करे सर्पं द्वितीये सीरमेव च। सीधुपात्रन्तु वामाद्ये द्वितीये कीलमेव च। पूजनीयो विशेषेण यज्वनो वैरिमृत्यवे”।
५। ५ सिद्धार्थस्य “अधुना कीर्त्यते वत्स! सिद्धार्थो नाम पञ्चमः। तप्तकाञ्चनसङ्काशो नीलशुभ्रारुणांशुकः। नीलकुण्डलसंयुक्तो मुक्ताविद्रुमभूषणः। सौवर्णं कलशं याम्ये प्रथमे करपल्लवे। इन्दीवरं परे चैव कुलिशञ्चोत्तरोर्द्ध्वगे। वीजपूरमधस्तस्माद्दधानः श्रेयसे मुदे”।
५। ६ रौद्रस्य “रौद्राभिधस्ततः षष्ठः पिङ्गलः कृष्णलोहितः। पाटलावसनोपेतो ह्रस्ववर्वरमूर्द्ध्वजः। कीरमार्क्यादिमे हस्ते द्वितीये हलमादधत्। कुण्डीमिन्द्रादिमे पाणौ परे कुण्डलिनं शये। रोगनाशाय संभुक्त्यै पूज्योऽयं परिपन्थिषु”। (इन्द्रो वामः)
५। ७ दुर्भतेः “सप्तमः कथ्यते चायं मेचकाभः स दुर्मतिः। शङ्खगार्क्यादिमे हस्ते स्वर्णमेखलरत्नजम्। सर्पमत्र द्वितीये वै कुण्डीमिन्द्रादिमे शये। द्वितीये पुस्तकं पाणौ दधद्बिद्वेषकृद्रिपोः”। (इन्द्रो वामः)
५। ८ दुन्दुभेः “अष्टमो दुन्दुभिप्रख्यो नीलग्रीवो विशालदृक्। सोमवर्णः सिताम्भोजवसनः कृष्णगोधिकः। जटामुकुट भालोऽयं स्वर्णपत्रद्युतिः शुभः। कदलीफलमार्क्याद्ये द्वितीये शङ्खमेव च। वीजपूरन्तु वामाद्ये द्वितीये सस्यमञ्जरीम्। विभ्राणो धनधान्याय पूजनीयः सदा नृभिः”।
५। ९ रुधिरोद्गारिणः “नवमो रुधिरोद्गारीं नीलशोणालिदेहयुक्। कृष्णप्रान्तारुणश्वेतवसनो नीलभूषणः। लोहिताक्षो जटापिङ्गः शोणचन्दनचर्चितः। रक्तोत्पलं यमादिस्थे द्वितीये कुलिशं शये। पिशितञ्चोत्तरादिस्थे द्वितीये चाङ्कुशं दधत्। वैरिभङ्गाय वै पूज्यो वालवृद्ध्यै हि यज्वनः”।
५। १० रक्ताक्षस्य “दशमश्चैव रक्षाक्षो नीलकण्ठः कृशोदरः। पीतनीलतनुश्चैव नीलशोणालिकाम्बरः। शरमार्क्यादिमे पाणौ द्वितीये चैव पङ्कजम्। सीरमिन्द्रादिमे हस्ते द्वितीये चैव कर्तरीम्। दधद्वैरिविघाताय पूजनीयः प्रयत्नत”।
५। ११ क्रोधनस्य “एकादशोऽधुना वत्स! क्रोधनाख्यो निगद्यते। सजलाम्बुदसङ्काशः पीतशोणाम्बरान्वितः। लोहभूषणसंयुक्तः केशमध्यगपङ्कजः। दक्षिणाद्ये करे शूलं पलशुष्काथसंयुतम्। द्वितीये कर्तरीमत्र वामाद्ये पात्रमासवम्। सन्दंशन्तु द्वितीये वै दधानो वैरिमृत्यवे”।
५। १२ क्षयस्य “क्षयाभिधो भवेदत्र द्वादशो वत्सरो जय!। कृष्णग्रीवः सुनीलाङ्गो रक्तनेत्रो जटाधरः। मेचकारुणवस्त्रस्तु नीलकारुणगोधिकः। आदिमे दक्षिणे सर्पं द्वितीये चैव पाशकम्। विषकुम्भन्तु वामाद्ये द्वितीये चैव केतनम्”। एवं पञ्चद्वादशकषष्ठिवत्सराणां मूर्त्तयः।

यासां देवतानां प्रतिमानां यथारूपनिर्माणमुक्तं तासां तथारूपेणैव ध्येयता। अत्रानुक्तदेवतानां ध्यानभेदा ध्यानशब्दे वक्ष्यन्ते। देवताप्रतिमूर्त्त्यादयोऽप्यत्र। प्रतिमानिर्माणे द्रव्यभेदा मत्स्यपु० उक्ताः ते च देवताप्रतिष्ठा शब्दे वक्ष्यते

***