दू = खेदे दिवा० आत्म० अक० सेट्। दूयते अदविष्ट। दुदुवे। ओदित् दूनः कविकल्पद्रुमः पा० दुनोतेरेव नत्वदीर्घौ इति भेदः। “तया हीनं विधातर्मां कथं पश्यन् न दूयसे” रघुः। “न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति” माघः। उपत्तप्तीकरणे सक० “दूयते दीनं खलजनः” दुर्गादासः।

दूडभ = त्रि० दुःखेन दभ्यतेऽसौ दुर् + दत्भ–कर्मणि खल्। “दुरो दाशनाशदभध्येषुत्त्वमुत्तरपदादेष्टुत्वञ्च” पृषो० पा० गणसुत्रेणोक्तकर्म नि० नलोपः। दुःखेन दम्भनीये

दूडाश = त्रि० दुःखेन दाश्यते दुर् + दाश–कर्मणि खल्। दूडभशब्दोक्त पा० ग० सूत्रेण सिद्धम्। दुःखेन हिंसनीये

दूढी = त्रि० दुष्टं ध्यायति दु + ध्यै–चिन्तायां कर्त्तरि सम्प० भावे वा क्विप्। दूडभशब्दोक्तकार्यम् पा० ग० सूत्रे ध्यायतेर्धातोर्निर्देशात्। १ दुष्टं ध्यायिनि २ दुष्टायां बुद्धौ स्त्री “अस्माकं शंसो अभ्यस्तु दूढ्यः” ऋ० १। ९४। ८। “बधैर्दुःशंसा अप दूद्यो जहि” ९

दूढ्य = त्रि० दुष्टं ध्यायति दुर् + ध्यै–क। दूडभशब्दवत् साध्यम्। दुष्टं ध्यायिनि

दूणाश = त्रि० दुःखेन नाश्यते दुर् + नाशि–कर्मणि खल् दूडशब्दवत् साध्यम्। १ दुःखेन नाशनीये। “दूणाशेयं दक्षिणा पार्थवानाम्” ऋ० ६। २७। २८ “दूणाशादुर्नाशा केनापि नाशयितुशक्या” भा० २ चातुर्मास्याङ्गे तृतीये सप्तदशे उत्तरे यज्ञभेदे पु० “द्विनामोत्तरो बहुहिरण्यो दूणाशश्चेति” कात्या० श्रौ०२२। ८। २६। “उत्तरस्तृतीयः सप्तदशः द्विनामा भवति बहुहिरण्य इत्येकं दूणाशश्च द्वितीयं नाम” संग्र०। तस्य च तथादक्षिणायुक्तत्वात् अर्श० अचि तथात्वम्।

दूत = त्रि० दु–गतौ “दुतनिभ्यां दीर्घश्च” उणा० त कित् दीर्घश्च दू–परितापे कर्त्तरि क्त वा दीर्घान्तस्य न नत्वम् “दुग्वोर्दीर्वश्च” पा० सूत्रेण दुनोतेरेव नत्वदीर्घयोर्विधानात्। १ सन्देशहरे अमरः। २ उपतप्ते च “चारेक्षणो दूतमुखः पुरुषःकोऽपि पार्थिवः” माघः तत्र साधारणदूतलक्षणं तद्भेदाश्च सा० द० उक्ता यथा निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः। कार्य्यप्रेष्यस्त्रिधा दूती दुत्यश्चापि तथाविधाः” तत्र कार्यप्रेष्यी दूत इति लक्षणम्। तत्र “उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम्। सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः” उभयोरिति येन प्रेषितो यदन्तिकं प्रेषितश्च। “मितार्थभाषी कार्यस्य सिद्धिकारी मितार्थकः”। नृपतिदूतलक्षणं युक्तिकल्पतरावुक्तं यथा

“परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित्। सदोत्पन्नमतिर्धीरो दूतः स्यात् पृथिवीपतेः। दूतञ्चैव प्रकुर्वीत सर्वशास्त्रविशारदम्। इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुलसम्भवम्। अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित्। वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्वते। दूत एव ह्यसम्मत्तो भिनत्त्येव हि सङ्गतान्। विमृष्यार्थो १ मितार्थश्च २ तथा शासनहारकः ३। दूतास्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्जितैः। विमृष्यार्थं कार्यवशात् शासनं तु करोति यः १। मितार्थः २ कार्यमात्रोक्तौ स कुर्य्यादुत्तरोत्तरम्। यथोक्तवादी सन्देश हारको लेखहारकः ३। तत्र दूतो व्रजन्नेव चिन्तयेदुत्तरोत्तरम्। वार्त्ताविशेषं भूपाय झटित्येवान्यवेश्मनि। दूतो हि न लिखेत् किञ्चित् निर्णेता वा विनिर्णयम्। पृच्छ्यमानोपि न ब्रूयात् स्वामिनः क्वापि वैशसम्” कामन्द० शास्त्रे च राजदूततद्भेदचरलक्षणं चोक्तं यथा “कृतमन्त्रस्तु मन्त्रज्ञो मन्त्रिणां मन्त्रसम्मतम्। यातव्याय प्रहिणुयाद्दूतं दूत्याभिमानिनम्। प्रगल्भः स्मृतिमान्वाम्मी शास्त्रे चास्त्रे च निष्ठितः। अभ्यस्तकर्मा नृपतेर्दूतो भवितुमर्हति। निसृष्टार्थो १ मितार्थश्च २ तथा शासनवाहकः ३। सामर्थ्यात्पादतो हीनो दूतस्तु त्रिविधः स्मृतः। स भर्त्तुः शासनाद्गच्छेद्गन्तव्यमुत्तरो- त्तरम्। स्वराष्ट्रपरराष्ट्राणामिति चेति च चिन्तयन्। अन्तःपालांस्तु कुर्वीत मित्राण्याटविकांस्तथा। जलस्थलानि मार्गांश्च विद्यात् स्वबलसिद्धये। नाविज्ञातः पुरं शत्रीः प्रविशेच्च न संसदि। कालमीक्षेत कार्य्यार्थमनुज्ञातश्च निष्पतेत्। सारवत्ताञ्च राष्ट्रस्य दुर्गं तद्गुप्तिमेव च। छिद्रं शत्रोर्विजानीयात् कोषमित्रबलानि च। उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत्। रागापरागौ जानीयात् प्रकृतीनाञ्च भर्त्तरि। भृत्यपक्षस्य चापायं कुर्य्यादनतिलक्षितः। पृच्छ्यमानोऽपि न ब्रूयात् स्वस्वामिप्रकृतिच्युतिम्। ब्रूयात् प्रसृतया वाचा सर्वं वेद भवानिति। फलेन नाम्ना द्रव्येण कर्म्मणा च महीयसा। कुर्य्याच्चतुर्विधं स्तोत्रं पक्षयोरुभयोरपि। विद्याशिल्पोपदेशेन संश्लिष्योभयवेतनैः। भृत्यपक्षञ्च जानीयात्तद्भर्तुश्च विचेष्टितम्। तीर्थाश्रमाश्रयस्थाने शास्त्रविज्ञानहेतुना। तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवसेत्। सन्तापं कुलमैश्वर्य्यं त्यागमुत्थानसौष्ठवम्। अक्षुद्रतां भद्रताञ्च भर्त्तुर्भेद्येषु दर्शयेत्। सहेतानिष्टवचनं कामक्रोधञ्च वर्जयेत्। नान्यैः शयीत, भावं स्वं रक्षेद्विद्यात्परस्य च। काले व्रजति मेधावी न खिद्येतात्मसिद्धये। क्षिप्यमाणञ्च बुध्येत कालं नानार्थलोभनैः। एतेष्वहःसु गच्छत्सु न तत्र पृथिवीपतेः। पश्यति व्यसनं किञ्चित्स्वयं वा कर्तुमिच्छति। स्वान्तःप्रकोपमथ वा विनेतुं नीतिवित्तमः। सस्यादेः संग्रहं कर्तुं स्वदुर्गे दुर्गसत्क्रियाम्। स्वपक्षाभ्युदयाकाङ्क्षी देशकालावुदीक्षते। तत्र यात्रास्वयं चित्तमाश्वास्यैव समीहते। यात्राकालक्षयार्थी वा तत्र चायं विलम्बते। काले विक्षिप्यमाणे तु तर्कयेदिति पण्डितः। कार्य्यकालविपत्तिञ्च व्यक्तां ज्ञात्वा विनिष्पतेत्। तिष्ठन् वार्त्ताविशेषार्थान् भर्तुः सर्वान्निवेदयेत्। रिपोः शत्रुपरिच्छेदः सुहृद्बन्धुविभेदनम्। दुर्गकोषबलज्ञानं भृत्यपक्षोपसंग्रहः। राष्ट्रात् व्यपेतपालानामात्मसात्करणं तथा। युद्धापसारभूज्ञानं दूतकर्मेति कथ्यते। दूतेगैब नरेन्द्रस्तु कुर्वीतारिविकर्षणम्। स्वपक्षे च विजानीयात् परदूतविचेष्टितम्। तर्केङ्गितज्ञः स्मृतिमान् मृदुर्लघुपरिक्रमः। क्लेशायाससहो दक्षश्चरः स्यात् प्रतिपत्तिमान्। तपस्विलिङ्गिनो धूर्त्ताः पण्यशिल्पोपजीविकाः। चराश्चरेयुः परितः पिबन्तो जगतां मतम्। निर्गच्छेयुर्विशेयुश्च सर्ववार्त्ताविदोऽन्वहम्। चराः सकाशान्नृपतेणक्षुर्दूर- तरं हि ते। सूक्ष्मं सूत्रप्रचारण पश्येद्वै विनिचेष्टितम्। स्वपन्नपि च जागर्त्ति चारचक्षुर्महीपतिः। विवस्वानिव तेजोभिर्नभस्वानिव चेष्टितैः। राजा चरैर्जगत् कृत्स्नं व्याप्नुयाल्लोकसम्मतैः। चारचक्षुर्नरेन्द्रः स्यात्सम्पतेत्तेन भूयसा। अनेनासम्पतन्मौढ्यात्पतत्यन्धः समेऽपि हि। सर्वसम्पत्समुदयं सर्वावस्थाविचेष्टितम्। चरेण द्विषतां विद्यात्तद्देशप्रार्थनानि च। प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधः स्मृतः। अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूत उच्यते। चरेण प्रचरेद्राजा सूत्रेणर्त्त्विगिवाध्वरे। दूते सन्धानमायाते चरचर्य्या प्रतिष्ठिता। तीक्ष्णः प्रव्रजितश्चैव सत्री वनग एव च। एते ज्ञेयास्तु सच्चाराः सर्वे नान्योन्यवेदिनः। संस्थानवत्यः संस्थाश्च कार्य्याः कार्य्यप्रसिद्धये। तिष्ठेयुः पार्श्वे सच्चाराः परिचर्य्यापवादिनः। बालः कृषीबलो लिङ्गी भिक्षुकोऽध्यापकस्तथा। संस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभाशयाः। सर्वस्मिंस्तत्र सच्चारास्तिष्ठेयुश्चित्तवेदिनः। स्वपक्षे परपक्षे च यो हि वेद चिकीर्षितम्। जाग्रदपि सुषुप्तोऽसौ न भूपः प्रतिबुध्यते। कारणाकारणक्रुद्धान् बुध्येत स्वपरिग्रहे। पापानकारणक्रुद्धांस्तूष्णीं दण्डेन साधयेत्। ये तु कारणतः क्रुद्धास्तान् बशीकृत्य संवसेत्। शमयेद्दानमानाभ्यां छिद्रञ्च परिपूरयेत्। अणुनापि विजयते छिद्रेण बलवत्तरम्। निःशेषं मज्जयेद्राष्ट्रं पानपात्रमिवोदकम्। जडमूकान्धबधिरच्छद्मानः षण्डकास्तथा। किराता वामनाः कुब्जास्तद्विधा ये च कारकाः। भिक्षुकाश्चारणा दास्यो नानाकार्य्यकलाविदः। अन्तःपुरगतां वार्त्तामाहरेयुरलक्षिताः। छत्रव्यजनभृङ्गारयानवाहनधारिणः। महामात्रे बहिर्वार्त्तां विदुरन्ये च तद्विधाः। सूदव्यञ्जनकर्त्तारस्तल्पका व्ययकास्तथा। प्रसाधका भोजकाश्च गात्रसंवाहका अपि। जलताम्बूलकुसुमगन्धभूषणदायकाः। कर्त्तव्याश्च सदा ह्येते ये चान्येऽभ्यासवर्त्तिनः। सञ्ज्ञाभिर्मूर्च्छितैर्लेख्यैराकारैरिङ्गितैरपि। सुसञ्चरेयुरव्यग्राश्चराश्चर्य्यां परस्परम्। समापिवन्तो जगतां मतानि जलानि भूमेरिव सूर्य्यपादाः। अनेकशिल्पाध्ययनप्रवीणाश्चराश्चरेयुर्बहुलिङ्गिरूपाः। येन प्रकारेण परानुपेयात् परापरज्ञश्च समृद्धिहेतोः। तमात्मनि स्वस्थमतिस्तु तज्ज्ञैर्वियुज्यमानं परतो हि विद्यात्”। ३ प्रेष्यमात्रे त्रि० ततः भावे कर्मणि च “दूतबणिग्भ्याञ्च पा० यत्। दूत्य तद्भावे तत्कर्मणि च “दूत्यं तद्भावकर्मणोः” अमरः। कामन्द० वाक्ये उदा० ष्यञ् दौत्य तत्रार्थे “न प्रयाति च दौत्येन” हितो० “द्विषां हसैर्दौत्यपथः सितीकृतः” नैष०। लिङ्गविशिष्टपरिभाषया दूतीशब्दादपि यत् ष्यञ् च। दूत्य दौत्य दूतीनां कर्मणि भावे च। स्वार्थे क। दूतक तत्रार्थे स्त्रियां कापि अत इत्त्वम् दूतिका दूत्याम्। भावे क्त! ४ उपतापे न०।

दूतघ्नी = स्त्री दूतं खेदं हन्ति हन–टक् ङीप्। कदम्बपुष्प्यां शब्दच०।

दूति = स्त्री दु–बा० ति दीर्घश्च उज्ज्वलद०। प्रेष्यायां स्त्रियां “तां कामिनी दूतिमुदाहरन्ति” वर्णविवेकः वा ङीप् दूती तत्रार्थे “उत्तिष्ठ दूति! यामीयामो यातस्तथापि नायातः” सा० द० “रतिदूतिपदेषु कोकिलाम्” कुमा० “प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः” “तेन दूतिविदितं निषेदुषा” रघुः दूतीभेदलक्षणे सा० द० उक्ते “दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी। बाला प्रव्रजिता कारुः शिल्पिन्याद्याः स्वयं तथा। कला कौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः। माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः। एता अपि यथौचित्यादुत्तमाधममध्यमाः”

दून = पु० दु–उपतापे क्त “दुग्वोर्दीर्घश्च” पा० तस्य नः दीर्घश्च। मुग्ध० दू–खेदे ओदित्त्वात् तस्य नः। १ अध्वादिश्रान्ते २ उपतप्ते ३ दुःखिते च “पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस!” नैष०।

दू(र्) = स्त्री दैप् शुद्धौ बा० कू। प्राणरूपे देवताभेदे “सा या एषा देवता दूर्नाम दूरं ह्यस्यामृत्युर्दूरं ह वास्मान्मृत्युर्भवति य एवं वेद” शत० ब्रा० १४। ४। १० “उपासक शरीरस्था प्राणरूपा देवता दूर्नाम दूरित्येवं ख्याताऽतः शुद्धा” भा० अत्र शुद्धेति विशेषणात् दैपधातो रूपमिति सूचितम्। ब्राह्मणे तु दूरसम्बन्धात् तत्सिद्धिरुक्ता तथा च दूरं करोति मृत्युमुपासकस्य दूर + कृत्यर्थे णिच् बा० न दवादेशः क्विप् णिलोपः रान्तोऽयमिति तु युक्तम्।

दूर = त्रि० दुर् + इण–“दुरीणो लोपश्च” उणा० रक् धातो रिकारलोपे रेफे परे पूर्वाणो दीर्घः। १ विप्रकृष्टे महतान्तरेण स्थिते दैशिकपरत्वयुक्ते अमरः। “दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते” भाषा० “दूरत्वमन्तिकत्वञ्च दैशिकं परत्वमपरत्वं बोध्यम् तद्बुद्धेरसाधारणं वीजं दिगेव” सि० मुक्ता० अतिदूरत्वञ्च प्रत्यक्षं नोत्पादुयति यथाह

“अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्च” सा० का० “अनुपलब्धिरिति वक्ष्यमाणं सिंहावलोकितन्यायेनानुषञ्जनीयम् यथा उत्पतन् वियति पतत्त्री अतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते” त० कौ०। “त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे” शकु० “न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुजनोदितैः” माघः। भावप्राधान्यात् २ दूरत्वे च “दूरान्तिकार्थेभ्यो द्वितीया च” पा० असत्त्ववचने प्रातिपदिकार्थे एभ्योद्वितीया चात् पञ्चमीतृतीये स्तः” सि० कौ० “ग्रामस्य दूरं दूरात् दूरेण वा। असत्त्ववचने इत्यनुवृत्तेर्नेह दूरः पन्थाः” सि० कौ० “रामाद्रुद्रस्य यो दूरम्” मुग्धबो० “नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः” सा० द० “सा तस्य कर्मनिर्वृत्तैः दूरं पश्चात् कृता फलैः” रघुः “दूरादपि क्रतुषु यज्वभिरिज्यते यः” माघः “दूरेण ह्यवरं कर्म बुद्धियोगात् धनञ्जय!” गीता “स्तुतिभ्योऽच्युत! रिच्यन्ते दूरेण चरितानि ते” रघुः एतच्छब्दयोगे पञ्चमी षष्ठी च। “दूरं ग्रामस्य ग्रामाद्वा” सि० कौ० अतिशायने इष्ठन् दवादेशे दविष्ठ ईयसुन् दवीयस् अतिशथेन दूरस्थिते त्रि० ईयसुनि स्त्रियां ङीप्। “तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते” माघः। दूरं करोति दूर् + णिच् वादेशः दवयति। “दवयदतिरयेण प्राप्तमुर्वीविभागम्” भट्टिः।

दूरङ्गम = त्रि० दूरं गच्छति गम–बा० वेदे ख मुस् च। दूरगामिनि “दूरङ्गमं ज्योतिषां ज्योतिरेकम्” यजु० ३४। १। लोके तु ड दूरग इत्येव

दूरत्व = न० दूरस्य भावः त्व। दैशिके परत्वे तच्च भ्रमविशेषे कारणम् यथोक्तं “दोषोऽप्रमायाजनकं प्रमायास्तु गुणो भवेत्। पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः” भाषा० “क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः” सि० मुक्ता०।

दूरदर्शन = पुंस्त्री० दूरात् पश्यति दृश–ल्यु। १ गृध्रे राजनि० जातित्वात् स्त्रियां ङीष्। २ पण्डिते पु० दृश–भावे ल्युट्। ३ दूरतोवीक्षणे न०। दूरतो दृश्यतेऽनेन दृशकरणे ल्युट्। ४ दूरवीक्षणे यन्त्रमेदे (दूरवीन)

दूरदर्शिन् = त्रि० दूरात् पश्यति कार्योत्पत्तेः प्राक् पश्यति जानाति वा दृश–णिनि। १ दूरदर्शके २ पण्डिते पु० अमरः २ गृध्रे पुंस्त्री० त्रिका० स्त्रियां ङीप्।

दूरदृश् = त्रि० दूरात् पश्यति दृश–क्विन्। १ दूरदर्शिनि २ पण्डिते शब्दर० ३ गृध्रे हेमच०। क्विन्नन्तत्वात् झलि पदान्तै च कुः।

दूरमूल = पु० दूरपर्यन्तं मूलमस्य। मुञ्जतृणे (मु~ज)। राजनि०

दूरवेधिन् = पु० दूरात् वेघोस्त्यस्य साध्यतया इनि। दूरात् लक्ष्यभेदके

दूरापात = त्रि० दूरमापतति आ + पत–कर्त्तरि ज्वला० ण। दूरपातिनि अस्त्रे णिनि दूरापातिन् तत्रार्थे हेमच०।

दूरूढा = स्त्री दुर् + रुह–क्त रेफे परे पूर्वाणो दीर्घः। दुस्थतया रूढे जाते क्षुद्ररोगशब्दे ३३८ पृ० दृश्यम्।

दूरेअमित्र = पु० दूरेअमित्रः शत्रुर्यस्य वेदे सप्तम्याः अलुक् प्रकृतिभावः। एकोनपञ्चाशन्मरुन्मध्ये मरुद्भेदे। ते च यजु० १७ अ०। १ मन्त्रादौ ८० मन्त्रान्ते शुक्रज्योतिश्चेत्यादयोदर्शिताः। “अग्निमित्रश्च दूरेअमित्रश्च गणः” ८ म०

दूरेत्य = त्रि० दूरे भवः एत्य। दूरभवे

दूरेपाक = त्रि० दूरे पचति पच–ण न्यङ्क्वा० कुत्वम् सप्तम्या अलुक् स०। दूरे पाचके स्त्रियां टाप्। तत्रैव गणे स्त्रीत्वेनापि निर्देशात् लिङ्गविशिष्टपरिभाषाया अनि त्यत्वं ज्ञापितम्।

दूरेपाकु = त्रि० पच–उण् न्यङ्क्वा० कुत्वम् अलुक् स०। दूरेपाचके।

दूरेरितेक्षण = त्रि० दूरे ईरितमीक्षणं येन। दूरपर्यन्तप्रेरित दर्शने केकरे (टेरा) शब्दमाला।

दूरोहं = पु० दुःखेन रुह्यतेऽसौ दुर् + रुह–कर्मणि खल् रेफे परे पूर्वाणो दीर्घः। दुःखेन रोहणीये रोढुमशक्ये आदित्ये लोके तस्य निष्कामज्योतिष्टोमादियज्ञप्रयासजातज्ञानेन साध्यरोहणत्वात् दूरोहत्वम्। “असौ वै दूरोहो योऽसौ तपतीति” ऐत० ४। ३० श्रुतेस्तस्य तथात्वम्। २ दूरारोहमात्रे त्रि०।

दूरोहण = त्रि० दुःष्करमारोहणमस्य प्रा० ब०। आदित्ये दूरोह शब्दे तस्य तथात्वं दृश्यम् २ छन्दोमेदे न०। असौ वा आदित्यो दूरोहणं छन्दः” इति श्रुतिः। “दुरोहणं छन्दः” यजु० १०। ५ छान्दसं क्लीवत्वम्। ३ दूरारोहणीये त्रि० दुःखेन रोहणं वा। ४ दुःसाध्ये रोहणे ५ तच्छन्दस्क मन्त्रस्याभ्यासभेदे च यथोक्तं आश्व० श्रौतसूत्रे

“हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थ मनबानमुक्त्वा प्रणुत्यावस्येत्। पुनस्त्रिपद्याऽर्धर्चशः पच्छ एव सप्तमम्” ८। २। १४ “एतामृचमित्थं शंसेत्। प्रथमं पच्छः द्वितीयमर्धर्चशः। तृतीयं त्रिभिः पादैरवसाय उत्तमेन पादेन प्रणुत्य चतुर्थमनवानमुक्त्वा प्रणवेनाव स्येत्। एतदारोहणम्। अथावहोरणम्। पुनस्त्रि- पद्येत्येवमादिनोक्तं पञ्चमम्। अर्धर्चशः षष्ठं, पुनः पच्छः सप्तमम्। एतत् दूरोहणं भवति। सप्तमवाननियमेन ऋक् सप्तकृत्वोऽभ्यस्ता दूरोहणमिति ज्ञापनार्थम्। एवकारः पौनर्वचनिकः” नारा० “एतत् दूरोहणम्” ८। २। १५ दूरोहणमिति प्रकृते पुनर्दूरोहणवचनं द्विविधं दूरोहणमस्तीति प्रदर्शनार्थं तेन स्वर्गकामस्य चतुरभ्यस्तेन दूरोहणं भवति” नारा०।

दूर्य = न० दूरे उत्सार्यम् दूर + यत्। १ पुरीषे विष्ठायाम् शब्दर० “ततः कल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर!। नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः” विष्णुपु० तस्येषुविक्षेपस्थानाति कमेण त्यागविधानेन दूरोत्सार्यत्वात् तथात्वम्। दूराय रोगदूरीकरणाय साधु यत्। २ शठ्याम् राजनि०।

दूर्वा = स्त्री दूर्वति रोगान् अनिष्टं वा दुर्व–हिंसायाम् अच् रेफे परे पूर्वाणी दीर्घः। १ स्वनामख्याते घासभेदे तद्भेदादिकं भावप्र० उक्तं यथा

“नीलदूर्वा रुहानता भार्गवी शतपर्विका। शष्यं सहस्रवीर्य्या च शतवल्ली च कीर्तिता। नीलदूर्वा हिमा तिक्ता मधुरा तुवरा हरेत्। कफपित्तास्रवीसर्प तृष्णादाहत्वगामयान्”। श्वेतदूर्वा “दूर्वा शुक्ला तु गोलोमी शतवीर्या च कथ्यते। श्वेतदूर्वा कषाया स्यात् स्वाद्वी व्रण्या च जीवनी। तिक्ता हिमा विसर्पास्नतृट् पित्तकफदाहहृत्”। गण्डदूर्वा “गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलाक्षकः। गण्ड दूर्वा हिता लोहद्राविणी ग्राहिणी लघुः। तिक्ता कषाया मधुरा वातकृत् कटुपाकिनी। दाहतृष्णावलासास्रकुष्ठपित्तज्वरापहा”। तस्या उत्पत्तिकथा भविष्योत्तरे “क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना। विष्णुना बाहुजङ्घाभ्यां विधृत्य मन्दरं गिरिम्। भ्रमता तेन वेगेन लोमान्याघर्षितानि वै। ऊर्मिभिस्तानि रोमाणि चोत्क्षिप्तानि तटान्तरे। अजायत शुभा दूर्वा रम्या हरितशाद्वला। एवमेषा समुत्पन्ना दूर्वा विष्णु तनूद्भवा। तस्या उपरि विन्यस्तं मथितामृतमुत्तमम्। देवदानवगन्धर्वयक्षविद्याधरोरगैः। तत्र येऽमृतकुम्भस्य निपेतुर्वारिविन्दवः। तैरियं स्पर्शमासाद्य दूर्वा चैवाजराऽमरा। वन्द्या पवित्रा देवैस्तु सर्वदाभ्यर्चिता तथा”। “दूर्वा दहति पापानि धात्री हरति पातकम्। हरीतकी हरेद्रोगं तुलसी हरते त्रयम्” विष्णुधर्मोत्तरे। दूर्वा पूज्यत्वेनास्त्यस्याम् अर्श० अच्। २ भाद्र- शुक्लाष्टम्यां तद्दिने दूर्वायाः पूजाविधानात् तस्याः तथात्वम् “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धैव कर्त्तव्या शिवरात्रिर्वलेर्दिनम्” कालमाधवीयधृतवाक्यम् व्रतशब्दे दूर्वाष्टमीव्रते तत्पूजाविधानं दृश्यम्। ततः समूहे काण्डच्। दूर्वाकाण्ड दूर्वासमूहे न० “दूर्वाकाण्डमिव श्यामा” भट्टिः। दूर्वया दुर्गापूजननिषेधः “अक्षतैर्नार्चयेत् विष्णुं न तुलस्या विनायकम्। न दूर्व्या यजेत् दुर्गां नोन्मत्तेन दिवाकरम्” आगमः। दूर्गायै अर्व्यान्तर्वर्त्तिदूर्वादानं तु न निषिद्धमिति तु तत्त्वम्। जनमेजयवंश्ये ३ नृपभेदे पु० “नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति” भाग० ९। २२। २९

दूर्वाक्षी = स्त्री वसुदेवभ्रातृभेदस्य वृकस्य पत्न्याम् “तक्षपुष्करमालादीन् दूर्वाक्ष्यां वृक आदधे” भाग० ९। २४। २३ श्लो०

दूर्वाद्यघृत = न० चक्रदत्तोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा “दूर्वा सोत्पलकिञ्जल्का मञ्जिष्ठा सैलवालुका। सिता शीतमुशीरञ्च मुस्तं चन्दनपद्मकौ। विपचेत् कार्षिकै रेतैः सर्पिराजं सुखाग्निना। तण्डुलाम्बु त्वजाक्षीरं दत्त्वा चैव चतुर्गुणम्। तत्पानं वमतो रक्तं प्लावनं नासिकागते। कर्णाभ्यां यस्य गच्छेत् तु तस्य कर्णे प्रपूरयेत्। चक्षुःस्राविणि रक्ते तु पूरयेत् तेन चक्षुषोः। मेढ्रपायुप्रवर्त्ते तु वस्तिकर्मसु योजयेत्। रोमकूपप्रवृत्ते तु तदभ्यङ्गे प्रयोजयेत्”।

दूर्वाष्टमी = स्त्री दूर्वाप्रिया तत्पूजाङ्गत्वात् अष्टमी।। भाद्रशु क्लाष्टम्याम् तस्या उभयदिनव्याप्तौ पूर्वदिने पूजा “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धैव कर्त्तव्या शिवरात्रिर्बलेर्दिनम्” ति० त० धृतवचनात्। दूर्वापूजाप्रकारश्च त्रिविधः हेमा० व्रतख० उक्तः व्रतशब्दे दृश्यः गौडदेशे तु भविष्योत्तरपुराणोक्तस्तत्प्रकारः प्रचलितः।

दूर्वासोम = पु० सुश्रुतोक्ते रसायनाङ्गे सोमलताभेदे यथोक्तं तत्र उत्तरतन्त्रे

“अंशुमान्मुञ्जवांश्चैव चन्द्रमा रजतप्रभः। दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः। प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि। स्वयस्प्रभो महासोमो यश्चापि गरुडाहृतः। गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा। अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः। गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते। एते सोमाः समाख्याता वेदोक्तैर्नामभिःपुनः। सर्वेषामेव चैतेषामेको विधिरुपासने। सर्वे तुल्यगुणाश्चैव विधानं ते वक्ष्यते”। “अतोऽन्यतमं सोममुपयुयुक्षः सर्वप्रकारपरिचारकोपेतः प्रशस्तदेशे त्रिवृतमगारं कारयित्वा हृतदोषः प्रतिसंसृष्टः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु अशुंमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरान्तराकृतमङ्गलः सोमकन्दं सुवर्णसूच्या विदार्य्य पयोगृह्णीयात्सौवर्णे पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वादयंस्ततौपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत्”।

दूर्वेष्टका = स्त्री यज्ञाङ्गे चितिरूपेष्टकाभेदे “तमग्निरब्रवीत्। उपाहमायानीति केनेति पशुभिरिति तथेति पश्विष्ट कयाह तदुवाचैषा वाव पश्विष्टका यद्दूर्वेष्टका तस्मात् प्रथमायै स्वयमातृण्णाया अनन्तर्हिता दूर्वेष्टकोपधीयते तस्मादस्या अनन्तर्हिता ओषधयोऽनन्तर्हिताः पशवोऽनन्तर्हितोऽग्निरनन्तर्हितो ह्येष एतयोपैत्” शत० व्रा० ६। २। ३। २।

दूलाश = त्रि० दूडाश + डस्य वा लः। दुःखेन हिंस्ये।

दूली = स्त्री दूरं दूरताऽस्त्यस्याः अच्, दू–खेदे सम्प० भावे क्विप् तां राति ददाति वा रा–क रस्य लः दुरे खेदायलायते गृह्यते ला–क घञर्थे क वा गौरा० ङीष्। नील्यां शब्दर०। “शृणुष्वेह महाबाहो नीलीरक्तस्य धारणात्। वाससोगणशार्दूल! गदतो मम कृत्स्नशः। पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात्। पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति” भविष्यपु० तस्यावपनक्रयादेर्निषेधेन दूरीकार्यत्वात् तथात्वम् तदुपजीवने च पापोत्पादनेन तस्याः दुःखहेतुत्वात् वा तथात्वम्। स्वार्थे क। दूलिका तत्रार्थे

दूश्य = न० दू–खेदे सम्पदा० भावे क्विप् तां श्यायते गमयति अन्तर्भूतण्यर्थे श्यै–गतौ क। वस्त्रनिर्मिते गृहे (ता~वु) सारसुन्दरी।

दूषक = त्रि० दुष–णिच्–ण्वुल्। १ दोषजनके “दूषकतावीजानिरुक्तेः” सर्वदर्शसंग्रहः “वेदविक्रयिणश्चैव वेदानां चैव दूषकाः। वेदानां निन्दकाश्चैव ते वै निरयगामिनः” भा० अनु० १६४४ श्लो०। “पाषण्डाऽदूषकाश्चैव समजानाञ्च दूषकाः। ये प्रत्यवसिताश्चैव ते वै निरयगामिनः” भा० अनु० १६४९ श्लो०। “कूटशासनकर्तॄंश्च प्रकृतीनाञ्च दूषकान्” (हन्यात्) मनुः। २ खले च त्रिका०

दूषण = न० दूषि–भावे ल्युट्। सदोषतासम्पादने “दूष्यस्यादूषणार्थं च परित्यागो महीयसः। अर्थस्य नीति- तत्त्वज्ञैरर्थदूषणमुच्यते” काम० नी० दूषि–कर्तरि ल्यु। २ दीषजनके त्रि० “पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्। स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि च” मनुः। ३ राक्षसभेदे पु० खरशब्दे २४६६ पृ० उदा०

दूषणारि = पु० ६ त०। श्रीरामे शब्दरत्ना० तस्य रामेण बधकथा खरशब्दे २४६६ पृ० दृश्या।

दूषयित्नु = त्रि० दूषि–शीलार्थे इत्नुच्। दूषणशीले

दूषि(षी) = स्त्री दूषि–इन्। नेत्रमले (प~चुटि) शब्दमा० वा ङीप्।

दूषिका = स्त्री दूषि + स्वार्थे क ण्वुल् वा। १ नेत्रमले (पि~चुटि) २ तूलिकायां मेदि०। ३ दूषणकर्त्त्र्यां स्त्रियाञ्च। दूषी + स्वार्थे क वा न ह्रस्वः। तत्रार्थे “वयसा प्रष्वा अश्रुभिर्ह्रादिनीर्दूषीकाभिः”। यजु० २५। ९ “शाल्मली कण्टकप्रख्याः कफमारुतशोणितैः। जायन्ते पिडका यूनां वक्त्रे या मुखदूषिका” सुश्रुतः “स्त्रियास्तथाऽपचारिण्या निष्कृतिः स्याददूषिका” भा० शा० ३४ अ० पुंसि तु ण्वुलि दूषक इत्येव। “नह्यहं प्रकृतिद्वषी नाहं प्रकृतिदूषकः” हरिबं० १८९ अ०

दूषित = त्रि० दूषि–क्त। १ दत्तदूषणे २ प्राप्तदूषणे ३ अभिशस्ते मैथुनापवादयुक्ते ४ नष्टकन्याभावायां स्त्रियां स्त्री शब्दरत्ना०।

दूषीविष = न० दूषयति दूषि–बा० ई कर्म०। सुश्रुतोक्ते धातु दूषके विषभेदे यथा “यत् स्थावरं जङ्गमकृत्रिमं वा देहा दशेषं यदनिर्गतं तत्। जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति। वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगुणानुबन्धि। तेनार्द्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी। मूर्च्छत् वमन् गद्गदवाग्विषण्णो भवेच्च दूष्योदरलिङ्गजुष्टः। आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी। भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः। स्थितं रसादिष्वथ वा यथोक्तान् करोति धातुप्रभवान् विकारान्। कोपञ्च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम्। निद्रागुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावयवाङ्गमर्द्दः। ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमेहान्। धातुक्षयं पादकरास्यशोफं दकीदरं छर्दिमथातिसारम्। वैवर्ण्यमूर्च्छाविषमज्वरान्वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा। उन्मादमन्यज्जनयेत्तथान्यदानाहमन्यत् क्षपयेच्च शुक्रम्। प्रगाढमन्य- ज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान्। दूषितं देशकालान्न दिवास्वप्नैरभीक्ष्णशः। यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम्”

दूष्य = त्रि० दूषि–कर्मणि ण्यत्। १ दूषणीये “दूष्यं वचो मम पुनर्निपुणं विभाव्य” अनुमानदीधितिः। “राज्योपघातं कुर्वाणा ये पापाचारवल्लभाः। एकैकशः संहता वा दूष्यांस्तान् परिचक्षते” कामन्दकी० उक्ते २ राज्योपघातके। ३ वस्त्रे ४ वस्त्रगृहे न० मेदि० ५ पूये न० हेमच० ६ हस्तिवन्धरज्ज्वाम् स्त्री हेमच०।

दूष्युदर = न० दूषिभिर्दोर्षैः कृतमुदरं तन्नामा रोगः। सुश्रुतोक्ते दोषकृते उदररीगभेदे तन्निदानादि तत्रोक्तम् उदरशब्दे ११४९ पृ० दर्शितम् “प्रकीर्तितं दूष्युदरन्तु घोरम्” सुश्रुतः

दृ = आदरे तु० आ० सक० अनिट्। द्रियते अदृत। अयमाङ् पूर्व एव प्रयुज्यते। “निपीय यस्य क्षितिरक्षिणः कथां तथाऽऽद्रियन्ते न बुधाः सुधामपि” नैष० आदृतः आदरः। “दरादराभ्यां दरकम्पिनी पपे” नैष० “न जातहार्द्देन न विद्विषादरः” किरा० “आदृत्यस्तेन वृत्येन” भट्टिः।

दृ = बधे स्वादि० पर० सक० अनिट्। दृणोति अदार्षीत् ददार स्वादिगणे छन्दसीत्यधिकारे “विक्षि जिरि दाश दृ–हिंसायाम्” पा० उक्तेः छान्दसोऽयम्। “क्षिणोतिर्भाषायामपीत्येके” सि० कौ० उक्तेः अन्यस्यापि क्वचिद्भाषायां प्रयोग इति गम्यते मत्स्यघातिनि धीवरे दाशशब्दप्रयोगात्।

दृक = न० दॄ + विदारे बा० कक् ह्रस्वश्च न कित्त्वम्। छिद्रे संक्षिप्तसारे

दृकाण = न० ज्योतिषोक्ते राशेस्तृतीये दशांशरूपे अशे द्रेक्काणे “त्रिंशत्सभे विंशतिरुच्चमे स्वे हद्देऽक्षिचन्द्रादशकं दृकाणे” नोल० ता० पञ्चवर्गीबलकथने दृक्काणशब्दे विवृतिः।

दृक्कर्ण = पुंस्त्री० दृक् नेत्रमेव कर्णोऽस्य। सर्पे हेमच० स्त्रियां जातित्वात् ङीष्।

दृक्कर्म्मन् = न० दृगर्थं दृष्ट्यर्थं कर्म। ग्रहाणां दर्शनयोग्यताज्ञानार्थे सू० सि० उक्तेः कर्मभेदे तच्च ग्रहनक्षत्रयोगाद्युपयोगि संस्कारभेदरूपं यथाह तत्र

“नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने। शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम्” सू० सि० “अत्र निमित्तसप्तनी ग्रहनक्षत्राणां बहुत्वाद्वहुवचनम्। नक्षत्रग्रहयोर्युत्थर्थं नक्षत्रग्रहयोरिदं द्वयं दृक्कर्म स्मृतं प्रागुक्तम् आदौ प्रथमं कार्यम्। ताभ्यामनन्तरं क्रिया कार्ये- त्यर्थः। अत्र नक्षत्रध्रुवकाणामायनदृक्कर्मसंस्कृतानामेवोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम्। ग्रहाणामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यजनितास्तोदयौ च ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि। तयोः साधननिमित्तं ग्रहस्य नक्षत्रस्य वा देयम्। अत्राक्षदृक्कर्मार्थं केवलः शरः साध्यः। न तु दिनमानरात्रिमाननतोन्नते साध्ये। क्षितिजसम्बन्धेन दृग्ग्रहरूपोदयास्तलग्नस्यावश्यकत्वेन क्षितिजातिरिक्तायनपरिणामस्य व्यर्थत्वात् युतौ तु समप्रोतचलवृत्ते युगपद्दर्शनार्थं तत्परिणामस्यावश्यकत्वात्। शृङ्गोन्नतिनिमित्तं चन्द्रस्य। तुकारः समुच्चयार्थकश्चकारपरः। अत्रापि श्लोके पूर्वार्द्धोक्तमाक्षदृक्कर्म संस्कार्यमिति ध्येयम्”। रङ्गना० दृक्कर्म द्विविधम् आयनमक्षजञ्च तत्रायनदृक्कर्मायनशब्दे ७७१ पृ० सि० शि० उक्तं दर्शितम् अक्षजं दृक्कर्मोच्यते

“इदानीमक्षजं दृक्कर्माह प्रसि० “स्फुटास्फुटक्रान्तिजयोश्चरार्धयोः समान्यदिक्त्वेऽन्तरयोगजासवः। पलोद्भवाख्या भनभःसदां शरे महत्यथाल्पे यदि वा स्युरन्यथा। स्पष्टेषुरक्षवलनेन हती विभक्तो लम्बज्यया रविहृतोऽक्षभया हतो वा। लब्धं हतं त्रिभगुणेन हृतं द्युमौर्व्या स्युर्वाऽसवः पलभवा अथ तैः शरे तु। याम्योत्तरे क्रमविलोमविधानलग्नं खेटात् कृतायनफलादुदयाख्यलग्नम्। सौम्ये क्रमेण विपरीतमिषौ तु याम्ये भार्धाधिकात् खचरतोऽस्तविलग्नमेवम्” मू०। “ग्रहस्य स्फुटक्रान्तेरस्फुटक्रान्तेश्चरार्धे साध्ये। यदि स्फुटास्फुटक्रान्ती तुल्यदिक्के तदा चरार्धयोरन्तरं कार्यम्। यदि भिन्नदिक्के तदा योगः। एवं येऽसवो भवेयुस्ते पलोद्भवा ज्ञेयाः। ग्रहस्य भस्य वा यदा महांश्छरस्तदैवम्। यदाल्पस्तदान्यथा वा पलोद्भवासुवः साध्याः। ग्रहस्य स्पष्टः शरोऽक्षवलनेन गुण्यो लम्बज्यया भाज्यः। अथ वा अक्षभया गुणितो द्वादशभिर्भाज्यः। यल्लब्धं तत् त्रिज्यया गुण्यं द्युज्यया भाज्यं फलं पलीद्भवा असवो भवन्तीत्यनुकल्पः। अथ कृतायनदृक्कर्मकं ग्रहं रविं प्रकल्प्य तैः पलोद्भवासुभिर्लग्नं साध्यम्। यदि ग्रहस्य याम्यः शरस्तदा क्रमविलग्नम्। यदि सौम्यस्तदा विलीमलग्नम्। एवं कृते सति ग्रहस्योदयलग्नं भवति। अथ तमेव ग्रहं सभार्धं रविं प्रकल्प तैरेवासुभिरुत्तरे शरे यत् क्रमलग्नं याम्ये विलोमं क्रियते तद्ग्रहस्यास्तलग्नम्”। “अत्रोपपत्तिः। अत्र गोले विषु- वन्मण्डलं स्वाक्षांशैर्यावन्नामितं तावदुन्मण्डलमुत्तरगोले क्षितिजादुपरि लगति याम्येऽधः। यतस्तत्रस्थो ग्रहः स्वचरार्धासुभिरुन्नतिं नतिं च गतः। अतश्चरार्द्धस्य या वासना सैव पलोद्भवासूनाम्। स्फुटास्फुटक्रान्तिजयोश्चरार्धयोरन्तरे यावन्तीऽसवस्तावन्तः शरभवा इत्यर्थाज्जातम्। यतस्तयोरन्तरं शर एवं तुल्यदिक्त्वे। यदा महता शरेणान्यदिक्त्वं नीता क्रान्तिस्तदा शरस्यैकं खण्डमुत्तरतोऽन्यद्दक्षिणतः। तयोर्योगे यतः शरी भवति। अतस्तज्जनितयोश्चरार्धयोर्योगे शरजनिताः पलोद्भवासवः स्युः। एवं हि सहति शरे। अथाल्पे। ग्रहः किलोत्तरगोल उत्तरश्च तस्य शरस्तदाक्षवशाच्छरेण ग्रहस्य तदुन्नमनं तत् त्रैराशिकेन साध्यते। यदि लम्बज्यया कोट्याऽक्षवलनतुल्यो भुजस्तदा स्फुटशरतुल्यया किमिति। अत्र यत् फलं तद्ग्रहद्युज्यावृत्ते ज्यारूपं भवति। अथ वा लघुना क्षेत्रेणानुपातः। यदि द्वादशाङ्गुलकोट्या पलभा भुजस्तदा स्फुटशरकोट्या किमिति। फलं तुल्यमेव। अथ त्रिज्यावृत्त परिणामायानुपातः। यदि द्युज्यावृत्त एतावती ज्या तदा त्रिज्यावृत्ते कियतीति। फलस्य धनुः कर्तुं युज्यते। तच्छरस्याल्पत्वान्नोपपद्यत इति न कृतम्। आयनदृक्कर्मण्यस्फुटविक्षेपादसवः साधिताः इह तु स्फुटात्। तत्र कारणमुच्यते। तेन दृक्कर्भणा निरक्षदेशक्षितिजस्थो ग्रहः कृतः। तत् क्षितिजमन्यदेश उन्मण्डलम्। शरमूले यद्द्युज्यावृत्तं शराग्रे च यत् तयोर्वृत्तयोरुन्मण्डले यावदन्तरं तावान् स्फुटः शरः। स तु कोटिरूपः। अतोऽत्र कोटिरूपेण पलोद्भवा असवः साधिताः कृतायनदृक्कर्मको ग्रहोऽक्षवशात् प्रागुदित उदेष्यति वा यैरसुभिस्तेऽत्र पलोद्भवाख्याः। अथ याम्ये शरे तैरसुभिः क्षितिजादधःस्थो ग्रहो यावदुपरि क्षितिजं नीयते तावत् कृतायनदृक्कर्मग्रहादग्रतः क्रान्तिवृत्तं क्षितिजे लगति। यदि सौम्यः शरस्तदा तैरसुभिः क्षितिजादुपरिस्थो ग्रहः क्षितिजं यावदधो नीयते तावत् कृतायनदृक्कर्मकाद्ग्रहात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति। अत उक्तं शरे याम्योत्तरे क्रमविलोमविधानलग्नमित्यादि। एवं कृते उदयलग्नं जातम्। अस्मादुदयलग्नसाधनाद्व्यस्तमस्तलग्नसाधनम्। यतो यैरसुभिर्विक्षेपेण प्राच्यां ग्रहः क्षितिजादुन्नाम्यते तैरेव प्रतीच्यां नाम्यते। यैर्नाम्यते तैरेवोन्नाम्यते। अथ प्रतीच्यां ग्रहेऽस्तं गच्छति प्राच्यां यल्लग्नमुदेति तदस्तलग्नम्। अतो भार्धाधिकात् खचरत इत्युक्तम्। इदं सर्वं गोलोपरि सम्यग्दृश्यते”।

दृक्काण = न० ज्यो० उक्ते राशेर्दशांशरूपे तृतीयांशे द्रेक्काणे तथा च एकैकराशौ त्रंयो द्रेक्काणास्तेन द्वादशराशिषु ३६ द्रेकाणा भवन्ति मेषादिराशिस्थानां तेषां षट्त्रिंशतःक्रमेण स्वरूपाणि वृहज्जा० ३६ श्लोकैरुक्तानि यथा “कट्यां सितवस्त्रवेष्टितः कृष्णः शक्त इवाभिरक्षितुम्। रौद्रः परशुं समुद्यतं धत्ते रक्तविलोचनः पुमान् १। रक्ताम्बराभूषणभक्ष्यचित्ता कुम्भाकृतिर्वाजिमुखी तृषार्त्ता। एकेन पादेन च मेषमध्ये दृक्काणरूपं यवनोपदिष्टम् २। क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्नव्रतोऽभ्युद्यत दण्डहस्तः। रक्तानि वस्त्राणि बिभर्त्ति चण्डो मेषे तृतीयः कथितस्त्रिभागः ३। कुञ्चितलूनकचा घटदेहादग्धपटा तृषिताशनचित्ता। आभरणान्यभिवाञ्छति नारी रूपमिदं वृषभे प्रथमस्य ४। क्षेत्रधान्यगृहधेनुकलाज्ञो लाङ्गले सशकटे कुशलश्च। स्कन्धमुद्वहति गोपतितुल्यं क्षुत्परोऽजदनो मलवासाः ५। द्विपसमकायः पाण्डुरदंष्ट्रः शरभसमाङ्घ्रिः पिङ्गलमूर्तिः। अविमृगलोभव्याकुलचित्तो वृषभवनस्य प्रान्तगतोयम् ६। सूच्याश्रयं समभिवाञ्छति कर्म नारी रूपान्विताऽऽभरणकार्यकृतादरा च। हीनप्रजोच्छ्रितभुजर्तुमती त्रिभागमाद्यं तृतीयभवनस्य वदन्ति तज्ज्ञाः ७। उद्यानसंस्थः कवची धनुष्मान् शूरोऽस्त्रधारी गरुडाननश्च। क्रीडात्मजालङ्करणार्थचिन्तां करोति मध्ये मिथुनस्य राशेः ८। भूषितो वरुणवद्बहुरत्नो बद्धतूणकवचः सधनष्कः। नृत्यवादनकलासु च विद्वान् काव्यकृन्मिथुनराश्यवसाने ९। पत्रमूलफलभृद्द्विपकायः कानने मलयगः शरभाङ्घ्रिः। क्रोडतुल्यवदनो हयकण्ठः कर्कटे प्रथमरूपमुशन्ति १०। पद्मार्चिता मूर्द्धनि भोगियुक्ता स्त्री कर्कशारण्यगता विरौति। शाखां पलाशस्य समाश्रिता च मध्ये स्थिता कर्कटकस्य राशेः ११। भार्याभरणार्थसर्णवं नौस्थो गच्छति सर्पवेष्टितः। हैमैश्च युतो विभूषणैश्चिपिटास्योऽन्त्यगतश्च कर्कटे १२। शाल्मलेरुपरि गृध्रजम्बुकौ श्वा नरश्च मलिनाम्बरान्वितः। रौति मातृपितृविप्रयोजितः सिंहरूपमिदमाद्यमुच्यते १३। हयाकृतिः पाण्डुरमाल्यशेखरो बिभर्ति कृष्णाजिनकम्बलं नरः। दुरासदः सिंह इवात्तकार्मुको नताग्रनासो मृगराजमध्यमः १४। ऋक्षाननो वानरतुल्यचेष्टो बिभर्त्ति दण्डं फलमामिषं च। कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्तगतस्त्रिभागः १५। पुष्पप्रपूर्णेन घटेन कन्या मलप्रदिग्धाम्बरसंवृताङ्गी। वस्त्रार्थसंयोगमभीष्टमाना गुरीः कुलं वाञ्छति कन्यकाद्यः १६। पुरुषः प्रगृहीतलेखनिः श्यामो वस्त्रशिरा व्ययायकृत्। विपुलं च बिभर्त्ति कार्मुकं रोमव्याप्ततनुश्च मध्यमः १७। गौरी सुधौताग्र्यदुकूलगुप्ता समुच्छ्रिता कुम्भकटाहहस्ता। देवालयं स्त्री प्रयता प्रवृत्ता वदन्ति कन्यान्त्यगतन्त्रिमागम् १८। वीथ्यन्तरापणगतः पुरुषस्तुलावानुन्मानमानकुशलः प्रतिमानहस्तः। भाण्डं विचिन्तयति तस्य च मूल्यमेतद्रूपं वदन्ति यवनाः प्रथमं तुलायाः १९। कलशं परिगृह्य विनिःपतितुं समभीप्सति गृध्रमुखः पुरुषः। क्षुधितस्तृषितश्च कलत्रसुतान्मनसैति तुलाधरमध्यगतः २०। विभीषयन् तिष्ठति रत्नचित्रितो वने मृगान् काञ्चनतूणवर्मभृत्। फलामिषं वानररूपभृन्नरस्तुलावसाने यवनैरुदाहृतः २१। वस्त्रैर्विहीनाऽऽभरणैश्च नारी महासमुद्रात् समुपैति कूलम्। स्थानच्युता सर्पनिबद्धपादा मनोरमा वृश्चिकराशिपूर्वः। स्थानसुखान्यभिवाञ्छति नारी भर्तृकृते भुजगावृतदेहा। कच्छपकुम्भसमानशरीरा वृश्चिकमध्यमरूपमुशन्ति २३। पृथुलचिपिटकूर्मतुल्यवक्त्रः श्वमृगवराहशृगालभीषकारी। अवति च मलयाकरप्रदेशं मृगपतिरन्त्यगतय्स वृश्चिकस्य २४। मनुष्यवक्त्रोऽश्वसमानकायो धनुर्विगृह्यायतमाश्रमस्थः। क्रतूपयोज्यानि तपस्विनश्च ररक्ष पूर्वो धनुषस्त्रिभागः २५। मनोरमा चम्पकहेमवर्णा भद्रासने तिष्ठति मध्यरूपा। समुद्ररत्नानि विघट्टयन्ती मध्युअत्रिभागी धनुषः प्रदिष्टः २६। कूर्ची नरोहाटकचम्पकाभोवरासने दण्डधरो निषण्णः। कौशेयकान्युद्वहतेऽजिनं च तृतीयरूपं नवमस्य राशेः २७। रोमचितोमकरोपमदंष्ट्रः सूकरकायसमानशरीरः। योक्त्रकजालकबन्धनधारी रौद्रमुखो मकरप्रथमस्तु २८। कलास्वभिज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गभाणा। विभूषणालङ्कृतलोहकर्णा योषा प्रदिष्टा मकरस्य मध्ये २९। किन्नरोपमतनुः सकम्बलस्तूणचापकवचैः समन्वितः। कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं मकरराशिपश्चिमः ३०। स्नेहमद्यजलभोजनागमव्याकुलीकृतमनाः सकम्बलः। कोशकारवसनोऽजिनान्वितो गृध्रतुल्यवदनो घटादिगः ३१। दग्धे शकटे सशाल्मले लो- हान्याहरतेऽङ्गना वने। मलिनेन पटेन संवृता भाण्डैमूर्ध्निगतैश्च मध्यमः ३२। श्यामः सरोमश्रवणः किरीटी त्वक्पत्रनिर्यासफलैर्बिभर्ति। भाण्डानि लोहैरतिमिश्रितानि सञ्चारयत्यन्तगतो घटस्य ३३। स्रुग्भाण्डमुक्तामणिशङ्खमिश्रे व्याक्षिप्तहस्तः सविभूषणश्च। भार्याविभूषार्थमपां निधानं नावा प्लवत्यादिगतो झषस्य ३४। अत्युच्छ्रितध्वजपताकमुपैति पोतं कूलं प्रयाति जलधेः परिवारयुक्ता। वर्णेन चम्पकमुखा प्रमदा त्रिभागो मीनस्य चैष कथितो मुनिभिर्द्वितीयः ३५। श्वभ्रान्तिके सर्पनिवेष्टिताङ्गोवस्त्रैर्विहीनः पुरुषस्त्वटव्याम्। चौरानलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य ३६।” एतेषां स्वरूपोत्कीर्त्तनेन नष्टजातकोद्धारः तत्रैव दर्शितः तथा षट्पञ्चाशिकायां चौरस्वरूपविज्ञानमपि एतदनुसारेण कार्यमित्युक्तम् यथा “अंशकाज् ज्ञायते द्रव्यं दृक्काणैस्तस्करास्तथा” “होरानवांशप्रतिमं विलग्नं लग्नाद्रविर्यावति वा दृकाणे। “तस्माद्वदेत्तावति वा विलग्नं प्रष्टुः प्रसूताविह शास्त्रमाह” वृहज्जा०। राशिभेदे तदधिपाश्च “स्वपञ्चनवमानां ये राशीनामधिपाः ग्रहाः। ते द्रेक्काणाधिपा राशौ द्रेक्काणास्त्रयएव हि” ज्यो० त० यथा मेषस्य स्वामी कुजः १ द्रेक्काणेशः। तत्पञ्चम सिंहराशेः स्वामी रविः स मेषस्य २ द्रेक्काणेशःमेषतः नवमो धनुराशिस्तस्येशः जीवः मेषस्य ३ द्रेक्काणेशः एवं वृषादेरूह्यम्। द्रेष्काण द्रेक्काण द्रेकाणा अपि तत्रार्थे

दृक्क्षेप = ६ त०। १ दृष्टिपाते सू० सि० उक्ते २ दृग्वृत्तज्यान्तरालस्थशररूपे क्षेपे च यथा

“अथाभ्यामुपयुक्तं दृक्क्षेपं लम्बनोपयुक्तां दृग्नतिं चाह” रङ्ग०। “मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम्। मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम्। तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कुः स दृग्गतिः” मू०। पूर्वोक्तमध्वज्या पूर्वानीतोदयाभिधयोदयज्यया। अस्या ज्यारू पत्वाद्दृग्ज्ययेत्युक्तम्। गुणिता त्रिज्यया भक्ता फलं वर्गितं वर्गः सञ्जानो यस्य तत्। फलस्य वर्गः कार्य इत्यर्थः। मध्यज्याया वर्गे विश्लिष्टं हीनं वर्गितं फलं कार्यम्। शेषान्मूलं दृव्क्षेपः तत्त्रिज्ययोर्यौ वर्गौ तयोरन्तरान्मूलं शङ्कुः। स आनीतः शङ्कुर्वृग्गतिसञ्ज्ञो भवति। न तु शङ्कुमात्रम्। अत्रोपपत्तिः। त्रिभोनलग्नस्य दृग्ज्यानयनार्थं क्षेत्रम्। मध्यसग्नदृग्ज्या कर्णस्त्रिभोनलग्नस्य याम्योत्तरवृत्तात् प्रागपरस्थितत्वेन तत्खखस्तिकान्तरस्थिततदीयदृग्वृत्तप्रदेशांशज्या कोटिः। मध्यलग्नत्रिभोनलग्नान्तरांशज्या क्रान्तिवृत्तस्थो भुजः। अत्र भुजानयनं चोदयलग्नस्थक्रान्तिवृत्तप्रदेशः। प्राक्स्वस्तिकात् तदग्रान्तरेणोत्तरदक्षिणो भवति। एवमस्तलग्नप्रदेशः परस्वस्तिकाद्दक्षिणोत्तरः। तदनुरोधेन च त्रिभोनलग्नप्रदेशक्रान्तिवृत्तीययाम्योत्तरवृत्तरूपतद्दृग्वृत्तक्षितिजसम्पातात् तदग्रान्तरेण लग्नमवश्यं भवति। अतस्त्रिज्यातुल्यमध्यलग्नदृग्ज्यया लग्नाग्रातुंल्यो भुजस्तदाभीष्टतद्दृग्ज्यया क इत्यनुपातेन स फलःञ्ज्ञः। तद्वर्गोनान्मध्यलग्नदृग्ज्यावर्गान्मूलं त्रिभोनलग्नस्य दृगज्या दृक्क्षेपाख्या। एतद्वर्गोनात् त्रिज्यावर्गान्मूलं त्रिभोनलग्नशङ्कुर्दृग्गतिसञ्ज्ञः। अत्रेदमवधेयम्। त्रिप्रश्नाधिकारोक्तप्रकारेण त्रिभोनलग्नस्य शङ्कुदृग्ज्ये दृग्गति दृक्क्षेपतुल्ये न भवतः। किन्तु दृग्गतिदृक्क्षेपाभ्यां क्रमेण न्यूनाधिके भवतः सर्वदा धूलीकर्मणानुभवात्। अत आनीतोऽयं दृक्क्षेपस्त्रिभोनलग्नदृङ्मण्डलस्थितोऽपि न त्रिज्यानुरुद्धः। किन्तु फलवर्गोनत्रिज्यावर्गपदरूपविलक्षणवृत्तव्यासार्धप्रमाणेन सिद्ध इति गम्यते। अतो दृग्ज्यायास्त्रिज्यानुरुद्धत्वेन त्रिज्यादृत्तपरिणतो दृक्क्षेपस्त्रिभोनलग्नस्य दृग्ज्या स्फुटदृक्क्षेपरूपा। अस्यास्तत्त्रिज्यावर्गेत्यादिना दृग्गतिः स्फुटा त्रिभोनलग्नशङ्कुरूपा। एतदनुक्तिः स्वल्पान्तरत्वाद्गणितमुखार्थं कृपालुना कृता। त्रिप्रश्नक्रियागौरवभियैतन्मार्गान्तरं लाघवादुक्तमिति दिक्। अथ लाघवाद्दृक्क्षेपदृग्गती गणितसुखार्थं श्लोकार्धेनाह” रङ्ग० “नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती। एकज्यावगतश्छेदो लब्धं दृग्गतिजीवया” सू०। “दशमभावनतांशानां भुजकोट्योर्नतांशतदूननवतिरूपयोरनयोर्ज्ये क्रमेण दृक्क्षेपदृग्गती अस्फुटे स्थूले। यत्तु स्फुटे प्रागुक्ते दृक्क्षेपदृग्गती विहाय गणितलाघवार्थं दशमभावनतांशभुजकट्योर्ज्ये तत्स्थानापन्ने ग्राह्ये। तत्तूदयज्याभावे नतांशबाहुकोटिज्ये दृक्क्षेपदृग्गती स्फुटे इति तन्न उक्तप्रकारेणैतत्सिद्धेस्तत्कथनस्य व्यर्थत्वात्। अत्रोपपत्तिः। त्रिभोनलग्नस्य दशमभावासन्नत्वेन दशमभावस्य याम्योत्तरवृत्तस्थत्वेन लाघवार्थं दशमभावमेव त्रिभोनलग्नं प्रकल्प्य तन्नतांशज्या मध्यज्यारूपा त्रिभोनलग्नदृक्क्षेपः। उन्नतज्या शङ्कुर्दृग्गतिः। इदमतिस्थूलम्। यैस्तु भगवतोक्तं मध्यलग्नं दशमभावपरतया व्याख्यात तेषां मत एतदुक्तमिति सूक्ष्मम्। प्रयास- साधितदृक्क्षेपदृग्गती प्रागुक्ते सूक्ष्मे अप्यतिस्थूले इति ध्येयम्। भास्त्रराचार्यैस्तु” “त्रिभोनलग्नस्य दिनार्धजाते नतोन्नतज्ये यदि वा सुखार्थम्”। इति यदुक्तं तदस्मात् सूक्ष्ममिति ध्येयम्” रङ्ग०।

दृक्पथ = पु० ६ त०। दृष्टियोग्ये स्थाने। “क्रमेण तस्मिन्नथतीर्णदृक्पथे” नैष०।

दृक्प्रसाद = स्त्री दृशं प्रसादयति अञ्जनेन प्र + सद + णिच् अण् दृशः प्रसादो यस्याः वा। कुलत्थायां राजनि० तदञ्जनेन नेत्रयोः प्रसादनात्तस्यास्तथात्वम्।

दृक्प्रिया = स्त्री दृशं प्रीणाति प्री–ल। शोभायां राजनि० शोभादर्शने हि, दृशोस्तद्द्वारात्मनः प्रीणनात्तस्यास्तथात्वम्

दृक्शक्ति = स्त्री दृक् प्रकाशनमेव शक्तिः। १ प्रकाशरूपे चैतन्ये २ तद्युक्ते सर्वप्रकाशके चेतने पुरुषे च “दृग्दर्शनशक्त्येरेकात्मतेवास्मिता” पात० सू० “पुरुषोदृक्शक्तिर्बुद्धिर्दर्शनशक्तिः” भा०।

दृक्श्रुति = पु० दृक् नेत्रमेव श्रुतिः श्रवणमस्य। चक्षुःश्रवसि सर्पे इला०।

दृगध्यक्ष = पु० ६ त०। सूर्ये शब्दार्थकल्पतरुः। तस्य नेत्राधिष्ठातृत्वेन तदध्यक्षत्वम्।

दृगल = न० दृशे दर्शनायालति अल–पर्य्याप्तौ अच्। शकले खण्डे “पुरा दृगलं प्रत्तमिन्द्रामित्रः” आश्व० श्रौ० ५। ७। २ “दृगलं शकलम्” नारा०।

दृग्गति = स्त्री ६ त०। १ दृशोर्गतौ सू० सि० उक्ते ग्रहस्पष्टोपयोगिनि २ दृशोगतिभेदे दृक्क्षेपशब्दे दृश्यम्।

दृग्गोल = न० खगोलान्तर्गते गोलभेदे यथोक्तं सि० शि० “बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तन्नलिकास्थमेव। बहिः खगोलाद्विदधीत धीमान् दृग्गोलमेवं खलु वक्ष्यमाणम्। भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञोऽपममण्डलाद्यैः। द्विगोलजातं खलु दृश्यतेऽत्र क्षेत्रं हि दृग्गोलमतो वदन्ति”। “तस्मिन् खगोले ध्रुवचिह्नयोर्नलिकाद्वयं बद्ध्वा तन्नलिकाधारमेव खगोलाद्बहिरङ्गुलत्रयान्तरे दृग्गोलं रचयेत्। कथितैः खगोलवृत्तैर्वक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिविमण्डलाद्यैर्यो निबध्यते स दृग्गोलः। कथमस्य दृग्गोलसंज्ञेति तदर्थमाह। द्विगोलजातमित्यादि। यतोऽग्राकुज्यासमशङ्क्वाद्यक्षक्षेत्राणि द्विगोलजातानि भगोलवृत्तैः खगोलवृत्तमिलितैस्तान्युत्पद्यन्ते। भिन्नगोलबन्धे सम्यङ्नोपलभ्यन्त इति दृग्गोलः कृतः” प्रमि०।

दृग्ज्या = स्त्री सू० सि० उक्तायां दिनमानादिज्ञानार्थं शङ्कुच्छायोपयोगिन्या दृष्टियोग्यायां दृग्वृत्तक्षेत्रस्थजावायाम् यथोक्तं तत्र “त्रिज्योदक्चरजार्युक्ता याम्यायां तद्विवर्जिता। अन्त्या नतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा। त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः। त्रिभज्यया भवेच्छङ्कुस्तद्वर्गं परिशोधयेत्। त्रिंज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्” सू० सि० “उत्तरगोले चरोत्पन्नया ज्यया चरज्ययेत्यर्थः पूर्वचरानयने चरज्यायाश्चरजेति सङ्ज्ञोक्तेः। युक्ता त्रिज्यान्त्या स्यात्। याम्यगोले तया चरज्ययोना त्रिज्यान्त्या स्यात्। नतोत्क्रमज्योना सूर्योदयाद्दिनगतघट्यो दिनशेषघट्यो वा दिनार्धान्तर्गता उन्नतसंज्ञास्ताभिरूनं दिनार्धं न तकालो घट्यात्मकस्तस्यासुभ्यो लिप्तास्तत्त्वयमैरित्यादिविधिना मुनयो रन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापिण्डैर्ज्योत् क्रमज्या। पञ्चदशघट्यधिकनते तु पञ्चदशघट्यूननतस्य क्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्रमज्या भवति। तया हीनेत्यर्थः। स्वाहोरात्रार्द्धसङ्गुणा। गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यासार्धं द्युज्या तया गुणिता त्रिज्यया भक्ता फलं छेदसंज्ञः स्यात्। अथानन्तरं छेदो लम्बज्यया गुणितस्त्रिज्यया भाज्यः फलमिष्टकाले शङ्कुः स्यात्। तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छोघयेत्। शेषस्य मूलं दृग्ज्या। आभ्यां छायाकर्णौ तु पूर्ववत् पूर्वोक्तरीत्या भवतः। अत्र छायाकर्णौ त्विति कोणच्छायाकर्णसाधनश्लोकान्तभागस्य ग्रहणात् तच्श्लोकोक्तरीत्याभीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ साध्यावित्युक्तम्। अत्रोपपत्तिः। याम्योत्तरवृत्तोर्द्ध्वभागग्रहाधिष्ठितद्युरात्रवृत्तसम्पातात् क्षितिजद्युरात्रवृत्तसम्पातद्वयबद्धोदयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्रसूत्रसम्पातपर्य्यन्तमहोरात्रवृत्ते सूत्रं त्रिज्यानुरुद्धमन्त्या। सा तूत्तरगोले चरज्यायुता त्रिज्या दक्षिणगोले चरज्ययोना त्रिज्या उन्मण्डलयाम्योत्तरसूत्रावध्यहोरात्रवृत्तव्यासार्धे त्रिज्यात्वात् उन्मण्डलस्योत्तरदक्षिणक्रमेण क्षितिजादूर्ध्वाधःस्थत्वेन तद्यास्योत्तरसूत्रयोर्मध्ये चरज्यात्वाच्च। ग्रहाहोरात्रवृत्ते याम्योत्तराहोरात्रवृत्तसम्पातादुभयत्र नतघट्यन्तरेण स्थाने तत्सूत्रं नतकालस्य सम्पूर्णज्या। तन्मध्यादूर्द्धसूत्रं शररूपं नतोत्क्रमज्या। तया हीनान्त्या ग्रहस्थानादहोरात्रवृत्ते उदयास्तसूत्रपर्यन्तमृजुसूत्रं त्रिज्यानुरुद्धमिष्टान्त्या। तत्तुल्या याम्योत्तरोर्ध्वव्यांससूत्रन्तर्गता सा द्युज्यापमाणसाधितेष्टहृतिः। द्युज्यागुणा त्रि- ज्याभक्ता फलं छेदः। अस्मात् त्रिज्याकर्णे लम्बज्या कोटिस्तदेष्टहृतिकर्णे काकोटिरित्यनुपातेनेष्टशङ्कुः। अस्माद्दृग्ज्याच्छायातत्कर्णा उक्तरीत्या सिद्ध्यन्तीत्युक्तमुपपन्नम्” रङ्गंनाथः।

दृग्लम्बन = न० सि० शि० उक्ते ग्रहणदर्शनोपयोगिनि दृक्क्षेत्रस्थलम्बभेदे यथा

“इष्टापवर्त्तितां पृथ्वीं कक्षे च शशिसूंर्ययोः। भित्तौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोर्द्ध्वगाम्। १ तिर्यग्रेखायुतौ कल्प्यं कक्षार्या क्षितिजं तथा। ऊर्द्ध्वरेखायुतौ खार्धं दृगूज्याचापांशकैर्नतौ। कृत्वार्केन्दू समुत्पत्तिं लम्बनस्य प्रदर्शयेत्। एक भूमध्यतः सूत्रं नयेच्चण्डांशुमण्डलम्। द्रष्टुर्भूपृष्ठगादन्यद्दृष्टिसूत्रं तदुच्यते। कक्षायां सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः। गर्भसूत्रे सदा स्यातां चर्न्द्रार्कौ समलिप्तिकौ। दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बनं स्मृतम्। दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम्”। “यत्र तत्र नतादर्कादधश्चन्द्रावलम्बनम्। तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं च तत्। पूर्वापरं च याम्यीदग्जातं तेनान्तरद्वयम्। अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणोत्तरा। यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम्। यदान्योत्तरभावेन नतिसंज्ञं तदुच्यते। नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः। कृत्यन्तरपदं कोटिः स्फुटलम्बनलिप्तिकाः। परलम्बनलिप्ताघ्नी त्रिज्याप्ता रविदृग्ज्यका। दृग्लम्बनकलास्ताः स्युरेवं दृक्क्षेपतो नतिः। गत्यन्तरस्य तिथ्यंशः परलम्बनलिप्तिका। गतियोजनतिथ्यशः कुदलस्य यतो मितिः। स्युर्लम्बनकला नाड्यो गत्यन्तरलवोद्धृताः। प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः” सि० शि०।

दृग्विष = पुंस्त्री दृशि विषमस्य। दृष्टिविषे सर्पभेदे हेमच०। स्त्रियां जातित्वात् ङीष्।

दृग्वृत्त = न० दृशः प्रचारस्थानं वृत्तमिव। १ वृत्ताकारे दृक्प्रचारस्थले। “दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे क्रान्तिवृत्ते ततोऽन्तराभावाद् लम्बनाभावः। याम्योत्तरमन्तरं दृगलम्बनं नतिरेवोत्पन्ना। दृग्वृत्ताकारक्रान्तिवृत्ते तु दृग्लम्बनमेव क्रान्तिवृत्ते० तयोरन्तरमिति लम्बनमुपपन्नं नत्यभावश्च। तथा च दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्नस्थानेऽसौ भवति तद्वृत्तस्य क्रान्ति वृत्तयाम्योत्तरत्वेनोदयास्तलग्नमध्यवर्त्तित्वेन लग्नस्थानात् त्रिभान्तरितत्वात्” सू० सि० दी० रङ्गना० २ दृङ्मण्डले च तस्य खगोलबन्धप्रकारो दृङ्मण्डलशब्दे वक्ष्यते

दृङ्नति = स्त्री सि० शि० ग्रहणदर्शनोपयोगितया दर्शिते दृक्प्रचारस्य नतिविशेषे यथा “त्रिभोनलग्नस्य रवेश्च शङ्क्वोर्वा दृग्ज्ययोर्वर्गवियोगमूलम्। स्याद्दृङ्नतिर्वेदगुणा त्रिमौर्व्या भक्ताथवा लम्बननाडिकाः स्युः” मू० “त्रिभोनलग्नस्य यः” शङ्कुः साधितस्तथा दर्शान्तकाले रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यते तावनष्टौ स्थापयित्वा तयोश्च दृगज्ये साध्ये। अथ तयोः शङ्क्वोर्यद्वर्गान्तरपदं तद्दृङ्नतिसंज्ञं भवति प्रथमप्रकारोऽयम्। अथ दृङ्नतेर्द्वितीयः प्रकारः। तयोर्दृर्ग्ज्ययोर्वर्गान्तरपदं दृङ्नतिसंज्ञं भवति। अथ दृङ्नतेर्लम्बनमुच्यते। दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता फलं लम्बननाडिकाः स्युः। अत्रोपपत्तिः सैव। यदा वित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्तिवृत्तम्। त्रिभोनलग्नार्कयोर्यान्तरज्या सैव तदार्कस्य दृगज्या। सा चतुर्गुणा त्रिज्ययाप्ता मध्यंमं किल लम्बनं भवति। तदेव स्फुटम् ऊर्ध्वस्थितत्वात् क्रान्तिवृत्तस्य। अथ यदा वित्रिभलग्नं खार्धान्नतम् तिर्यक्स्थितत्वात् क्रान्तिवृत्तस्य, तदा तत् प्राच्यपरया स्फुटं लम्बनं कोटिरूपं भवति। तच्च वित्रिभलग्नशङ्क्वनुपातेन तथा स्फुटं कोटिरूपं कृतम्। तत् कथमिति चेत् तदर्थमुच्यते। मध्यलम्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः। ततः स्फुटत्वार्थं यः साधितो वित्रिभलग्नशङ्कुः स दृक्क्षेपमण्डले कोटिस्तद्दृग्ज्या भुजस्त्रिज्या कर्णः। वित्रिभलग्नस्य यद्दृङ्मण्डलं तद्दृक्क्षेपमण्डलमिति गोले कथ्वितम्। अतस्त्रिज्यापरिणतया नतज्यया यदानीतं तज्जातं कर्णरूपं तत् कोटिरूपस्य वित्रिभलग्नर्शङ्कोरनुपातेन कोटित्वं नीतमित्युपपन्नम्। यदेव स्फुटलम्बनस्य कोटिरूपत्वमुपपन्नं तदेव प्रकारान्तरेणोपर्पादितम्। रवेर्दृङ्मण्डले या दृग्ज्या सा कर्णरूपिणी। वित्रिभलग्नस्य या दृग्ज्या स एव दृक्क्षेपः स भुजरूपः। यतः क्रान्तिमण्डलप्राच्याः सम्यग्दक्षिणोत्तरं खार्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलम्। तत्र वित्रिभलग्नस्य या दृग्ज्या स दृक्क्षेपः। तज्जनिता नतिकलाश्चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरं यत्सर्वत्र तुल्यमेव द्रष्टा पश्यति। यथाक्तं गोले। “कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत्” ततः “नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः। कृ त्यन्तरपदं कोटिः स्फुटलुम्बनलिप्तिकाः”। “यत इद लम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्ययोर्वर्गान्तरपदतुल्या र्दृङ्नतिर्भवितुमर्हति। परं यथा स्थिते गोले क्षेत्रोपरीयं न दृश्यते। यतो वित्रिभलग्नार्कयोरन्तरज्या वित्रिभलग्नशङ्कुव्यासार्द्धपरिणता सती दृङ्नतिर्भवति। अत एवानेनापि प्रकारेण क्षितिजस्थेऽर्के परमा दृङ्नतिर्वित्रिभलग्नशङ्कुतुल्या भवति। अतोऽयमपि प्रकारः पूर्वतुल्य एव। किन्तु दृक्क्षेपार्कदृग्ज्ययोस्तुल्ये शलाके भुजकर्णरूपे समायां भूमौ विन्यस्य तदन्तरे कोटिरूपां दृङ्नतिं दर्शयेत्। एवमनेकविधान्युपपत्त्यनुसारेण क्षेत्राणि परिकल्प्य धूलीकर्मोपसंहारमार्य्याः कुर्वते। अथ प्रस्तुतमुच्यते। अत्र किल वित्रिभलग्नस्य रवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छङ्क्वोरपि भवति। तत् कथमिति चेत् तदुच्यर्त। अत्र स्वस्वशङ्कुवर्गेणोनौ त्रिज्यावर्गौ दृग्ज्यावर्गौ भवतः। तयोरन्तरे कृते त्रिज्यावर्गयोस्तुल्यत्वाद्गतयोः शङ्कुवर्गान्तरमेवावशिष्यते। एवं यत्र कुत्रचिद्व्यासार्द्धेऽपि भुजज्ययोर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति। अत उक्तम् “त्रिभोनलग्नस्य रवेश्च शङ्क्वोर्वा दृग्ज्ययोरिति” दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीकरणम्” प्रमिता०। अत्रोपपत्तिरपि तत्रोक्ता यथा “अथ याम्योत्तरायां तु भित्तौ पूर्वोक्तमालिखेत्। ये कक्षामण्डले तत्र ज्ञेये दृक्क्षेपमण्डले। त्रिभोनलग्नदृग्ज्या या स दृक्क्षेपो द्वयोरपि। तच्चापांशैर्नतौ विन्दू कृत्वा वित्रिभसंज्ञकौ। तल्लम्बनकलाः प्राग्वज्ज्ञेयास्ता नतिलिप्तिकाः। कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत्। याम्योत्तरं नतिः सा च दृक्क्षेपात् साध्यते ततः” “इदमेव छेद्यकं याम्योत्तरायां भित्तौ पूर्वपार्श्वे लिखित्वा नत्युपपत्तिर्दर्शनीया। ये तत्र कक्षाक्षमण्डले ते दृक्क्षेपमण्डले। दर्शान्ते त्रिभोनलग्नस्य या दृग्ज्या स दृक्क्षेपः द्वयोरपि तावान्। ब्रह्मगुप्तमते तु तच्चापांशा वित्रिभलग्नशरसंस्कृताश्चन्द्रदृक्क्षेपचापांशाः स्युः। तयोर्वृत्तयोः खार्द्धात् स्वस्वदृक्क्षेपचापांशैर्नतौ विन्दू कार्यौ तौ च वित्रिभसंज्ञौ। ततः प्राग्वद्भूमध्याद् भूपृष्ठाच्च सूत्रे प्रसार्य लम्बनलिप्तिका ज्ञेयास्ता नतिलिप्तिकाः नतिर्नाम चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरम्। तद्वित्रिभलग्नस्थाने यावत् सर्वतीऽपि तावदेव भवति। अतो दृक्क्षेपात् साधिता नतिः”।

दृङ्मण्डल = न० दृशः तत्प्रचारस्य मण्डलमिव। सि० शि० उक्ते गोलबन्धान्तर्गते वलयाकारे मण्डलभेदे यथोक्तं तत्र “ऊर्द्ध्वाधरस्वस्तिककीलयुग्मे प्रोतं श्लथं दृग्वर्लयं तदन्तः। कृत्वा परिभ्राम्य च तत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र। ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत् तथाष्टौ। दृङ्मण्डलं वित्रिभलग्नकस्य दृक्क्षेपवृत्ताख्यमिदं वदन्ति” खस्वस्तिके चाधःस्वस्तिके चान्तःकीलकौ कृत्वा तयोः प्रोतं श्लथं दृग्वलयं कार्यम्। तत्तु पूर्ववृत्तेभ्यः किञ्चिन्यूनं कार्यम्। यथा खगोलान्तर्भवति। यद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम्। यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्योपरीदमेव परिभ्राम्य विन्यस्य दृग्ज्याशङ्क्वादिकं दर्शर्नीयम्। अथ वा पृथक् पृथगष्टौ दृङ्मण्डलानि रचयेत्। तथाष्टमं वित्रिभलग्नस्य तच्च दृक्क्षेपमण्डलम्” दृग्वलयमप्यत्र

दृढ = त्रि० दृह दृहि वा वृद्धौ क्तः “स्थूलबलयोः” इडभावः इदितोऽपि नि० नलोपः। १ स्थूले २ अशिथिले प्रगाढे ३ वलवति च मेदि० ४ कठिने अमरः ५ लौहे न० शब्दच०। भावे क्त। ६ अतिशये न० अमरः। क्रियाविशेषणत्वेऽस्य क्लीवता “दृढभक्तिरिति ज्येष्ठे” रघुव्या० “दृढं भक्तिरस्येति विग्रहः” मल्लिना०। “दृढा भक्तिश्च केशवे” विष्णुस्तवः। दृढत्वं च काठिन्यं तच्च स्पर्शत्वव्याप्यं जातिभेदः, अशिथिलावयवसंयोगभेदः, उपचारात् अतिशयश्च। “दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन्” मनुः “दृढग्राही करोमीति जप्यं जपति जापकः। न संपूर्णो न संयुक्तो निरयं सोऽनुगच्छति” भा० शा० १९७ अ०। दृढस्य भावः इमनिच् द्रढिमन् तद्भावे पु० “बधान द्रागेव द्रढिमरमणीयं परिकरम्” गङ्गालहरी त्व दृढत्व न० तल् दृढता स्त्री ष्यञ् दार्ढ्य न० स्थौल्ये अतिशये च। अतिशयेन दृढः इष्ठन् ऋतोरः द्रढिष्ठ ईयसुन् द्रढीयस अतिशयेन दृढे त्रि० ईयसुनि स्त्रियां ङीप्। दृढं करोति णिच् ऋतोरः। द्रढयति “वियोगो वैराग्यं द्रढयति च” प्रबोधचन्द्रो० त्रयोदशभनोः रुचेः ७ पुत्रभेदे पु०। “त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः। चित्रसेनो विचित्रश्च नयो धर्मभृतोधृतः। सुनेत्रः क्षत्रबुद्धिश्च सुतपा निर्भयो दृढः। रौच्यस्यैते मनोः पुत्रा अन्तरे तु त्रयोदशे” हरिवं० ७ अ०। ८ धृतराष्ट्रपुत्रभेदे पु० “पुत्रास्तेऽभ्यर्दयन् भीमं दश दाशरथेः समाः। नागदत्तो दृढरथो वीरबाहुरयोमुजः। दृढः सुहस्तो विरजाः प्रमाथश्चोग्रयाय्यपि। तान् दृष्ट्वा चुक्रुधे भीमोजगृहे भारसाधनान्। एकमेकं समुद्दिश्य पातयामास मर्मसु। ते विद्धा व्यसवः पेतु स्यन्दनेभ्योऽमितौजसः” भा० द्रो० १५७ अ० ९ विष्णौ पु० “वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सूङ्कर्षणोऽच्युतः” विष्णुसं० “स्वरूपसामर्थ्यादेः प्रच्युत्यभावात् दृढः” भा० १० रूपकभेदे पु० “दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः। निशारुकः प्रतितालः कथिताः सप्त रूपकाः” इत्युद्दिश्य “दृढाख्यः स्याद् लघुद्वन्द्वं तालेऽत्र हंसलीलके। चतुर्दशाक्षरयुतः शृङ्गारे परिकीर्तितः” सङ्गीतदा०। लीला० उक्ते ११ कुट्टकयणितभेदे कुट्टकशब्दे दृश्यम्।

दृढकण्टक = पु० दृढः कण्टकोऽस्य। (धला आकडा) क्षुद्रकण्टकयुक्ते वृक्षभेदे शब्दर०।

दृढकाण्ड = पु० दृढः कठिनः काण्डः स्कन्धोऽस्य। १ वंशवृक्षे २ दीर्घरोहिषके च राजनि०।

दृढक्षात्र = पु० धृतराष्ट्रपुत्रभेदे “दृरवर्मा दृढक्षात्रः सोमकीर्तिरनूदरः” भा० आ० ६७ अ० तत्पुत्रोक्तौ।

दृढक्षुरा = स्त्री दृढं क्षुरमिवाग्र यस्याः। वल्वजायाम् तृणभेदे राजनि०।

दृढगात्रिका = स्त्री दृढ गात्रमस्याः कप् कापि अत इत्त्वम्। मत्स्यण्ड्यां फाणिते शब्दच०।

दृढग्रन्थि = पु० दृढो ग्रन्थिः पर्वास्य। १ वंशे राजनि० २ कठिनग्रन्थियुक्तमात्रे त्रि०।

दृढच्छद = न० दृढः छदोऽस्य। दीर्घरोहिषकेतृणे राजनि०।

दृढच्युत = पु० परपुरञ्जयनृपात्मजायां जाते अगस्त्यमुनिपुत्रे इध्मवाहापरनामके मुनिभेदे “उपयेमे वीर्यपणां वैदर्भी मलथज्वजः। युधि र्निजित्य राजन्यान् पाण्ड्यः परपुरञ्जयः। तस्यां संजनयाञ्चक्रे आत्मजामसितेक्षणाम्। यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः। अगस्त्यः प्रागदुहितरमुपयेमे धृतव्रताम्। यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः भाग० ४। २८। २८। पादपुरणार्थः सन्धिरार्षः। अयं गोत्रप्रवरविशेषः प्रवराध्याये दृश्यः।

दृढतरु = पु० नित्यकर्म०। धववृक्षे राजनि०। दृढवृक्षोऽप्यत्र

दृढतृण = पु० दृढं कठिनं तृणमस्य। १ मुञ्जतृणे २ वल्वजायां स्त्री राजनि०।

दृढत्वच् = पु० दृढा त्वगस्य। यावनालशरे राजनि०।

दृढदंशक = पुंस्त्री दृढं दंशति दनश–ण्वुल्। (हाङ्गर) ख्याते जलजन्तुभेदे शब्दार्थकल्प०। स्त्रियां ङीष्। ङीष्। २ दृढदंशनकारिमात्रे त्रि० स्त्रियां टाप् कापि अतैत्त्वमिति भेदः।

दृढधन = पु० दृढं धनं निश्चयरूपा सम्पत्तिरस्य। शाक्यमुनौ ललितवि०। दृढधनुरप्यत्र। समासान्तविधेरनित्वात् नानङ्।

दृढधन्वन् = पु० दृढं धनुरस्य अनङ् समा०। १ दृढधनुष्के “राजानं दृढधन्वानं दिलीपं सत्यवादिनम्” भा० द्रो० १३१ अ०। २ पौरवे नृपभेदे “दक्षिणस्थश्च कम्बोजो दृढधन्वा च पौरवः” भा० आ० १८६ अ०।

दृढनिश्चय = पु० दृढः कुतर्कैरभिभवितुमशक्यतया स्थिरः निश्चयः अहमकर्त्त्रभोक्त्रसंसारिसच्चिदानन्दाद्वितीयं ब्रह्मास्मीत्यध्यवसायोऽस्य। स्थिरप्रज्ञे संसारादुपरते अहं ब्रह्मास्मीत्यध्यवसाययुते विदुषि।

दृढनीर = पु० दृढं कालेन दृढतां प्राप्तं नीरं यस्य। नारिकेले राजनि०। तस्य जलस्यैव क्रमशः कठिनशस्यरूपेण परिणतत्वात् तथात्वम्।

दृढनेमि = पु० अजमीढवंश्ये सत्यधृतिनृपपुत्रे नृपभेदे। “अजमीढस्य दायादः” इत्युपक्रमे “जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान्” हरिवं० २० अ०। दृढा नेमिरस्य। २ दृढनेमिके रथे पु०।

दृढपत्र = पु० दृढं पत्रमस्य। १ वंशे २ वल्वजायां स्त्री राजनि० गौरा० ङीष्।

दृढपाद = त्रि० दृढः पादः पदनं ज्ञानमस्य। १ दृढनिश्चये २ वेधसि पु० “बहुत्वाद्दृढपादश्च विश्वात्मा जगतां पतिः” हरिवं० २०४० श्ला०। दृढः पादोमूलमस्याः समासान्तविधेरनित्यत्वान्नान्त्यलोपः समा०। २ यवतिक्तायां स्त्री ३ भूम्यामलक्यां स्त्री राजनि० ङीष्।

दृढप्ररोह = पु० दृढः प्ररोहः अङ्कुरोऽस्य। वटवृक्षे राजनि०

दृढफल = पु० दृढानि फलानि यस्य। नारिकेले राजनि०।

दृढबन्धिनी = स्त्री दृढं बघ्नाति ग्रथ्नाति स्वाश्रयं णिनि। १ श्यामालतायां शब्दच०। २ अशिथिलबन्धकारके त्रि०।

दृढभूमि = पु० दृढा भूमिरवस्था यस्य। दीर्घकालनैरन्तर्यादरासेविते योगशास्त्रोक्ते मनसःस्थैर्य्यकरणार्थे अभ्यासभेदे “तत्र स्थितौ यत्नोऽभ्यासः” पात० सू० “चित्तस्याऽवृत्तिकस्य प्रशान्तवाहिता स्थितिः प्रयत्नः वीर्यमुत्साहः तत्संपिपादयिषया तत्साधनानुष्ठानमभ्यासः” भा० “स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः” सू० “दीर्घकालासेवितः निरन्तरासेवितः तपसा ब्रह्मचर्येण विद्यया श्रद्धया च संपादितः सत्कारवान् दृढभूमिर्भवति। व्युत्थानसंस्का- रेणानभिभूतविषय इत्यर्थः” भा० “ननु व्युत्थानसंस्कारेणानादिपरिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कल्पत इत्यत आह स तु दीर्घकालनैरन्तर्यसत्का रासेवितो दृढभूमिः यथोक्तः सोयमभ्यासो विशेषेण एव सम्पन्नः सन् दृढावस्थो न सहसा व्युत्थानसंस्कारैरभिभूतस्थितरूपविषयो भवति यदि पुनरेवंभूतमप्यभ्यासं कृत्वोपरमेत ततः कालपरिपाकेणाभिभवेत् तस्मिन्नोपरन्तव्यमिति भावः” विवरणम्

दृढमुष्टि = पु० दृढो मुष्टिर्धारणेऽस्य। १ खड्गादौ हेमच०। दृढं बद्धः दानार्थमप्रसारितो मुष्टिरस्य। १ कृपणे त्रि० दृढोमुष्टिस्तदाघातोऽस्य। दृढमुष्ट्याघातकारिणि “निगृ हीतः कन्धरायां शिशुना दृढमुष्टिना” हरिवं० २० अ०।

दृढमूल = पु० दृढं मूलमस्य। १ मुञ्जतृणे २ मन्थानकतृणे च राजनि० ३ नारिकेले शब्दार्थकल्प०।

दृढरङ्गा = स्त्री दृढः रङ्गो रञ्जनं यस्याः ५ त०। स्फट्यां (फटकिरी) राजनि०। तद्योगेन रागस्य स्थिरतेति तस्मास्तथात्वम्।

दृढरथ = पु० १ धृतराष्ट्रपुभेदे “अभयो रौद्रकर्मा च तथा दृढरथश्च यः” भा० आ०६७ अ० तत्पुत्रोक्तौ अस्यैव नामान्तरं दृढरथाश्रय इति तत्र पाठान्तरम्। २ कक्षेयुवंश्ये नृपभेदे तद्वंशवर्णने “वृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम्। नाम्ना जयद्रथं वीरं यस्माद्दृढरथो नृपः। आसीद्दृढरथस्यापि विश्वजिज्जनमेजय!” हरिवं० ३१३ अ०।

दृढरुचि = स्त्री दृढा रुचिरस्य। १ स्थिररागयुक्ते २ कुशद्वीपपतेर्हिरण्यरेतसः प्रैयव्रतस्य पुत्रभेदे कुशद्वीपशब्दे २१४५ दृश्यम्।

दृढलता = स्त्री नित्यकर्म०। पातालगरुडीलतायां राजनि०।

दृढलोमन् = त्रि० दृढानि लोमान्यस्य। १ कठिनलोमयुक्ते त्रि० स्त्रियां डाप् ङीप् वा दृढलोमा दृढलीम्नी। २ शूकरे पु० शूकर्य्यां स्त्री शब्दच०।

दृढवर्म्मन् = पु० दृढं वर्म यस्य। १ दुर्भेदसन्नाहयुक्ते २ धृतराष्ट्रपुत्रभेदे दृढक्षात्रशब्दे दृश्यम्।

दृढवल्कल = पु० दृढं वल्कलमस्य। १ पूगवृक्षे २ अम्बष्ठायां स्त्री तत्र दृढत्वचापि राजनि०। ३ कठिनवल्कलयुक्ते त्रि०।

दृढवल्का = स्त्री दृढं बल्कमस्याः। अम्बष्ठायां राजनि०।

दृढवीज = पु० दृढं वीजमस्य। १ वदरे २ चक्रमर्दे ३ वर्वुरे च राज्नि० एतेषां कठिनवीजकत्वात्तथात्वम् ४ कठिनवीजयुक्ते त्रि० कर्म०। ५ कठिने वीजे न०।

दृढव्य = पु० ऋषिभेदे “दृढव्यश्चीर्द्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा” भा० अनु० १५० अ०।

दृढव्रत = त्रि० दृढं प्रतिपक्षैश्चालयितुमशक्यं व्रतमस्य। १ अन्तरायैरचाल्यसङ्कल्पके फलपर्यन्तं प्रारब्धकर्मात्यागशीले भगवानेव भजनीयः स च एवंरूप एवेत्यत्राप्रामाण्यशङ्काशून्यसंकल्पके २ विदुषि च। तत्र प्रथमार्थे “एवं दृढव्रतोनित्यं व्रह्मचारी समाहितः” मनुः द्वितीयार्थे “अहिंसानिरतो यश्च सत्यवादी दृढव्रतः” भा० व० ६८१० श्लो० ३ स्थिरसङ्कल्पयुक्ते च “स्थेयान् निगूढमानोधीरोदात्तो दृढव्रतः कथितः” सा० द०।

दृढसन्ध = त्रि० दृढा सन्धाऽस्य। १ स्थिरसन्धाने २ धृतराष्ट्रपुत्रभेदे पु० “जरासन्धा दृढसन्धः सत्यसन्धः सहस्रवाक्” भा० आ० ६७ अ० तत्पुत्रोक्तौ।

दृढसन्धि = त्रि० दृढः सन्धिः सन्धानं यस्य। निश्छिद्रतया संहते अमरः।

दृढसूत्रिका = स्त्री दृढं सूत्रं यस्याः कप अत इत्त्वम्। मूर्वालतायाम् शब्दच०।

दृढसेन = पु० कलियुगीये जनमेजयवंश्ये नृपभेदे “क्षेमोऽथ सुव्रतस्तस्माद्धर्मस्तत्र समन्ततः। दृढसेनोऽथ सुमतिः सुबलो जनिता ततः” भाग० ९। २२। ३० जनमेजयं प्रति तद्वंश्यभविष्यन्नृपोक्तौ।

दृढस्कन्ध = पु० दृढः स्कन्धोऽस्य। क्षीरिवृक्षे जटाधरः।

दृढस्यु = पु० अगस्त्यर्षेर्लोपामुद्रागर्भजाते इष्मवाहापरनामके ऋषिभेदे इष्मवाहशब्दे ९२८ पृ० दृश्यम्।

दृढहनु = पु० आजमीढवंश्ये नृपभेदे “आजमीढाद्वृहदिषु स्तस्य पुत्रो वृहद्धनुः। वृहतकायस्ततस्तस्य पुत्रश्चासीज्जयद्रथः। तत्सुतोविशदस्तस्य सेनजित् समजायत। रुचिराश्वी दृढहनुः काश्योवत्सश्च तत्सुताः” भाग० ५। २१। १७।

दृढहस्त = पु० दृढः हस्तः हस्तव्यापारोऽस्य। १ खड्गादिधारणे दृढहस्तके योधे २ धृतराष्ट्रपुत्रमेदे पु० “दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ” भा० आ० ६७ अ० तत्पुत्रोक्तौ

दृढाक्ष = पु० राजभेदे “एकलव्यो दृढाक्षश्च क्षत्रधर्मा जयद्रथः” हरिवं० ९९ अ०।

दृढाङ्ग = त्रि० दृढमङ्गमस्य। १ कठिनाङ्गयुक्ते २ हीरके न० राजनि० तस्यावयवस्य इतरापेक्षयाऽतीव कठिनत्वात्तथात्वम्।

दृढादि = पु० “वर्णदृढादित्यः ष्यञ् च” पा० “चात् इमनिच्” सि० कौ० उक्ते भावे ष्यञिमनिचोर्निमित्ते शब्दगणे स च गणः “दृढ वृढ परिवृढ भृश कृश वक्र शुक्र चुक्र आम्र कृष्ण लबण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख भूक (वेर्यातलातमतिमनःशारदानाम्) (समो मतिमनसोः) जवन” दृढादिः। गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम्।

दृढायु = पु० तृतीयमनोः सावर्णस्य पुत्रभेदे “संवर्त्तगः सुशर्मा च देवानीकः पुरूवहः। क्षेमधन्वा दृढायुश्च आदर्शः पण्डको मनुः। सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः” हरिवं० ७ अ०। उर्वशीगर्भजाते ऐलनृपपुत्रभेदे च “षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः। दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः” भा० आ० ७४ अ०

दृढायुध = पु० दृढमायुधं तद्व्यापारोऽस्य। दृढायुधव्यापारके “दृढायुधौ ध्रुवपातौ युद्धे च कृतनिश्चयौ” (नकुलसहदेवौ) भा० व० ५१ अ०। २ धृतराष्ट्रपुत्रभेदे पु० “उग्रायुधो भीमशरः कनकायुर्दृढायुधः” भा० आ० ६७ अ० तत्पुत्रोक्तौ।

दृढाश्व = पु० धुन्धुमारनृपपुत्रभेदे “धौन्धमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः” हरिवं० १२ अ०।

दृढेयु = पु० ऋषिभेदे “दृढेयुश्च ॠतेयुश्च परिव्याधश्च कीर्तिमान्। एकतश्च द्वितश्चव त्नितश्चैवादित्यसन्निभाः” भा० अनु० १५० अ०।

दृढेषुधि = पु० दृढं बद्ध इषुधिर्येन। दृढतया बद्धतूणके १ योधे २ राजभेदे “अविक्षिच्चपलीधूर्त्तः कृतबन्धुर्दृदेषुधिः” भा० आ० १ अ०।

***