दुर्जन = पु० दुष्टो जनः प्रा० स०। खलपुरुषे “दुर्जनः परिहर्त्तव्यो विद्यया भूषितोऽपि सः। मणिना भूषितः सर्पः किमसौ न भयङ्करः” चाण० “शाम्येत् प्रत्यपकारेण नीपकारेण दुर्जनः” कुमा० “पानं दुर्जनसंसर्गः पत्या च विरहो टनम्” मनुः भृशा० च्व्यर्थे क्यङ्। दुर्जनायते अदुर्जनो दुर्जनो भवतीत्यर्थः।
दुर्जय = त्रि० दुःखेन जीयतेऽसौ दुर् + जि–कर्मणि खल्। १ जेतुमशक्ये दुःखेन जेतव्ये। २ परमेश्वरे पु० “समावृत्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः” विष्णुसं०। “क्लेशांश्च विविधांस्तांस्तान् नृत्युमेव च दुर्जयम्” मनुः ३ कार्त्तवीर्यवंश्येऽनन्तनृपपुत्रे नृपभेदे कूर्मपु०
दुर्जयन्त = पु० नृपभेदे। विष्णु पु०
दुर्जर = त्रि० दुःखेन जीर्यति जॄ–अच्। दुःखेन जीर्यति “ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका” सुश्रु० “कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः” सुश्रु०। २ ज्योतिष्मतीलतायाम् स्त्री राजनि०
दुर्जात = न० दुष्टं जातम् प्रा० स०। व्यसने “दुर्जातबन्धुरयमृक्षहरीश्वरोमे” रघुः। २ असम्यग्जाते त्रि० मेदि० ३ असमञ्जसे त्रि० त्रिका०। “यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्। अफलं जन्म तस्याहं मन्ये दुर्जातजायिनः” भा० व० ३५ अ० “दुष्कुलेयस्तथा मूढो दुर्जातः शक्र! दृश्यते” भा० शा० ८१३० श्लो०
दुर्जाति = त्रि० दुःस्थिता जातिरस्य प्रा० व०। निन्दितवंश्ये “दुर्जातेः सूतपुत्रस्य शकुनेः। सौबलस्य च” भा० उ० ४८ अ०। दुःस्थिता जातिर्जन्म यस्य प्रा० ब०। २ निन्दितजनिके त्रि० “रुदितशरणा दुर्जातीनां सहस्व रुषां फलम्” अमरुश० दुष्टा जातिः प्रा० स०। ३ दुष्टायां जातौ तत्र भवः छ। दुर्जातीय दुष्टजातिभवे। “दुर्जातयेन येन त्वमीदृशोजनितः सुतः” हरिवं० ८० अ०
दुर्जीव = त्रि० दुःस्थितो जीवो जीवनोपायो यस्य प्रा० ब०। १ परभक्ताद्युपजीविनि। “यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्” रामा० २५६ अ०। दुर् + जीव–भावे खल्। २ निन्दितजीवने न० “सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते। राम! तस्य तु दुर्जीवं यः परानुपजीवति” रामा०२। १०५। ५ दुःखं जीवति दुर् + जीव–अच्। ३ परायत्ततया जीविनि त्रि० “सर्वं परवशं दुःखमिति” मनूक्तेः जीवनस्य पराधीनत्वे दुःखहेतुत्वात् तज्जीवनस्य तथात्वदुक्तः।
दुर्ज्ञेय = त्रि० दुःखेन ज्ञायते ज्ञा + कर्मणि यत्। ज्ञातुमशक्ये दुःखेन ज्ञेये “उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः” मनुः।
दुर्ण(र्न)य = पु० दुष्टो नयः प्रा० स० णत्वम्। १ दुष्टायां नीतौ दुःस्थिती नयोऽस्य प्रा० ब०। २ तद्युते त्रि०। “क्षन्तव्योमम वृद्धस्य दुर्णयस्य फलोदयः” हरिवं० ५१० अ० अत्राणत्वमेव न्याय्यम् पूर्वपदात् संज्ञायामेव णत्वविधानात् दुर् + नी–अचि तु अणत्वमेव णत्वविधौ दुरः प्रतिषेधात्।
दुर्णश = त्रि० दुःखेन नश्यति दुर् + नश–अच् वेदे णत्वम्। कृच्छ्रेण नष्टे “परएकेन दुर्णशं चिदर्वाक्” अथ० ५। ११। ७ लोके तु दुर्नय इत्येवाणत्वयुक्तः।
दु(र्णा)र्नामन् = स्त्री दुःस्थितं नामास्य पूर्वपदात् संज्ञायां णत्वे प्राप्ते क्षुभ्नादेराकृतिगणत्वात् न णत्वमित्येके बेदे तु णत्वमध्यपाठो दृश्यते। दीर्घकोषिकायां (झिनुक) ख्याते १ पदार्थे अमरः २ अर्शोरोगे च राजनि० तद्रोगस्यातिपातकशेषत्वादकीर्तनीयत्वेन निन्दितत्वात् तथात्वम् “अमी वा यस्ते गर्भं दुर्णामा योनिमाशये” ऋ० १०। १६२। १। “कृणोम्यस्मै भेषजं बजं दुर्णामचातनम्”। “दुर्णामा च सुनामा चोभा संवृतमिच्छतः” अथ० ८। ६। ३। वा डाप् दुर्नामा उपधालोपित्वात् पक्षे ङीप् उपधालोपे दुर्नाम्नी
दुर्दम = त्रि० दुःखेन दम्यतेऽसौ दुर् + दम–कर्मणि ण्वुल्। दमयितुमशक्ये “सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्द्रमाः” भा० शा० ८८ अ०। २ रोहिणीगर्भजाते वसुदेवात्मजभेदे “पौरवी रोहिणी नाम याह्लीकस्यात्मजाऽभवत्। ज्येष्ठा पत्नी महाराज! दयितानकदुन्दुभेः। लेभे ज्येष्ठं सुतं रामं शारणं शठमेव च। दुर्दमं दमनं श्वभ्रं पिण्डारकमुशीनरम्। चित्रां नाम कुमारीञ्च रोहिणीतनयान् दश” हरिवं० ३६ अ०
दुर्दमन = त्रि० दुःखेन दम्यतेऽसौ बा० युच् दुःखेन दमन यस्य वा। १ दुःखेन दमनीये २ जनमेजयवंशजे कलियुगीये शतानीकात्मजे नृपभेदे। “तिमेर्वृहद्रथस्तस्माच्छुतानीकः सुदासजः। शतानीकाद् दुर्दमनस्तस्यापत्यं महीनरः” भाग० ९। २२। २९
दुर्दर्श = त्रि० दुःखेन दृश्यतेऽसौ दुर् + दृश–कर्मणि खल्। द्रष्टुमशक्ये दुःखेन दर्शनयोग्ये। “सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम” गीता। “तं दुर्दर्शं गूढमनुप्रविष्टं गुहापतिं गह्वरेष्ठम् पुराणम्” कठो० वेदे तु दुःखेन दर्शोदर्शनमस्येयेव वाक्यम् “भाषायां शासियुधिदृशिधृषिमृषिभ्यो युच्” पा० भाषायामेव युचो विधानात्। भाषायां तु युच्। दुर्दर्शन तत्रार्थे त्रि० “विशेषतश्चात्र दुर्दर्शनानि परुषाणि” सुश्रु०।
दुर्दान्त = त्रि० दुःखेन दान्तः दमितः दमि–क्त वा नि०। दुःखेन दमनीये १ अशान्ते “एनसा युज्यते राजा दुर्दान्त इति चोच्यते” भा० शा० २४ अ०। २ कलहे ३ वत्सतरे च राजनि० ४ शिवे पु० “दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोदान्तनाशनः” भा० शा० २८६ अ० शिवनामोक्तौ
दुर्दिन = न० दुःष्टं दिनम् प्रा० स०। १ मेघाच्छन्ने २ दिने अमरः दिनस्य प्रकाशकत्वेन मेघावरणेन तथात्वाभावात् तस्य दुष्टत्वम्। “३ घनान्धकारे ४ वृष्टौ च दुर्दिनं कवयो विदुः” साञ्जः। “दिनस्य अहोरात्रपरत्वेन च रात्रेरपि दुर्दिनशब्दवाच्यता। तत्र घनान्धकारे “अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः” कुमा० वर्षणे “द्विषां विषह्य काकुत्स्थः तत्र नाराचदुर्दिनम्”। “न प्रसेहे निरुद्धार्कमधारावर्षदुर्दिनम्” रघुः ५ दुष्टे दिनमात्रे “यदच्युतकथालापरसपीयूषवर्जितम्। तद्दिनं दुर्दिनं प्रोक्तं मेथाच्छन्नं न दुर्दिनम्” शब्दार्थचि० धृतम्।
दुर्दुरूट = त्रि० दुर् + दुल–उत्क्षेपणे कूट पृषो० णिलोपः लस्य रः। १ नास्तिके जटा० “कुत्सितानि कुत्सनैः” पा० अस्य समासे परनिपातः मीमांसदुर्दुरूटः नास्तिकमीमांसक इत्यर्थः तस्येश्वरप्रतिषेधेन नास्तिकत्वात् निन्दनीयत्वेन तद्वाचकशब्दस्य परनिपातः।
दुर्दृशीक = न० दुर् + दृश–बा० कर्मणि ईकक्। दुर्दर्शनीये विषे “अजकायं सुदुर्दृशीकं तिरोदधे” ऋ०७। ५०। २ “सुदुर्दृशीकं सुदुर्दर्शनम् विषम्” भा०।
दुर्दृष्ट = त्रि० दुष्टं दृष्टम्। रागादिदोषेण दृष्टे “दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान् नृपेण तु। सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणन्दमम्” याज्ञ० “दुर्दृष्टान् स्मृत्याचारप्राप्त घर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्घिचारितत्वेनाशङ्क्यमानान् व्यवहारान् पुनः स्वयं सम्यक् विचार्य निश्चितदोषाः पूर्वसभ्याः जयिसहिताः प्रत्येकं विवादे यो दमः पराजितस्य तं द्विगुणन्दाप्याः। अप्राप्तजेतृ दण्डविधिपरत्वाद्वचनस्य रागाल्लोभादित्यादिश्लोकेन अपौनरुक्तम्। यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्दृष्टता तदा साक्षिण एव दण्ड्याः न जयी नापि सभ्याः यदा तु राजानुमत्या व्यवहारस्य दुर्दृष्टत्वन्तदासर्व एव राजसहिताः सभ्यादयो दण्डनीयाः। “पादो गच्छति कर्तरि पादः साक्षिणमृच्छति। पादः सभासदः सर्वान् पादो राजानमृच्छति” इति वचनात्। एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनम् न पुनरेकस्यैव पापापूर्वस्य विभागाय, यथोक्तम् “कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य” मिता०।
दुर्दैव = न० दुष्टं दैवम्। दुरदृष्टे दुर्भाग्ये पापे
दुर्द्यूत = न० दुष्टं द्यूतम् प्रा० स०। १ कपटद्यूतक्रीडायाम्। “भ्रातरं च विगर्हंश्च ज्येष्ठं दुर्द्यूतदेविनम्” भा० व० ८० अ० “अहं हि तावत् सर्वेषां तेषां दुर्द्यूतदेविनाम्” भा० आश्र० ८ अ०
दुर्द्रिता = स्त्री खण्डितलताभेदे जटा०
दुर्द्रुम = पु० दुष्टो द्रुमः प्रा० स०। पलाण्डौ राजनि०
दुर्द्धर = त्रि० दुःखेन धार्यते दुर् + धृ–कर्मणि खल्। १ नरकभेदे २ ऋषभौषधौ मेदि० ३ पारदे ४ भल्लातके राजनि० “दुर्द्धरं दुर्मुखञ्चैभौ शरैर्निन्ये यमक्षयम्” देवीमा० उक्ते ५ महिषासुरसेनापतिभेदे पु०। ६ परमेश्वरे पु० “दर्पहा दर्पदो दृप्तो दुर्द्धरोऽन्यापराजितः” विष्णु० सं० “न शक्यधारणा यस्य प्रणिधानादिषु सर्वोपाधिनिर्मुक्तत्वात्तथापि तत्प्रसादतः कैश्चित् दुःखेन हृदये धार्यते जन्मान्तरसहस्रेषु भावना योगात् तस्माद्दुर्द्धरः “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचे तसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” भगवद्वचनात्” भा०। “सुभुजो दुर्द्धरो वाग्मी” विष्णुसं० अस्य चान्या व्युत्पत्तिः भाष्ये दर्शिता यथा “पृथिव्यादीन्यपि लोकधारकाण्यन्यैर्द्धारयितुमशक्यानि धारयन्न केनापि धारयितुं शक्यत इति दुर्द्धरः। दुःखेन ध्यानसमये मुमुक्षुभिर्हृदये धार्यत इति वा दुर्द्धरः” भा०। तेन व्युत्पत्तिभेदान्नामभेदोपपत्तेः सहस्रसंख्यापूर्त्तिर्द्रष्टव्या। “वन्येभदानानिलगन्घदुर्द्धरा” माघः। “दण्डो हि सुमहत्तेजो दुर्द्धरश्चाकृतात्मभिः” रघुः।
दुर्द्धरीतु = पु० दुर् + धृ–बा० कर्मणि ईतुन्। दुर्द्धरणीये। “अग्निमीले भुजां यविष्ठं शासा मित्रं दुर्द्धरीतुम्” ऋ०१०। २०। २ “दुद्धरीतुम् दुर्द्धरणीयम्” भा०
दुर्द्धर्म = त्रि० दुःस्थितो धर्मो यस्य प्रा० ब० समासान्तविधेरनित्यत्वात् आर्षे न क्वचित् अनिच्समा०। दुंष्टधर्मयुक्ते “कर्कोटकान् वीरकांश्च दुर्द्धर्मांश्च विवर्जयेत्” भा० क० ४४ अ०। लोके तु अनिच्समा०। दुर्द्धर्मन् इत्येव तत्रार्थे
दुर्द्धर्ष = त्रि० दुःखेन धृष्यतेऽसौ दुर् + धृष–कर्मणि खल्। १ धर्षयितुयशक्ये दुःखेन धर्षणीये “संशितात्मा सुदुर्द्धर्ष उग्रे तपसि वर्तते” भा० आ० ७१ अ० भाषायां तु युच् दुर्द्धर्षण तत्रार्थे त्रि० “सहि दुर्द्धर्षणो वाली नित्यं समरकर्मसु” रामा० कि० ५५ श्लो० २ राजभेदे विन्दानुविन्दौ दुर्द्धर्षः सुबाहुः दुष्प्रधर्षणः” भा० आ० ६७ अ०
दुर्द्धा = स्त्री दुर् + धा–भावे अ। दुष्टधाने। “दुर्घां दधाति परमे व्योमन्” ऋ० १०। १०९। ४ “दुर्धां दुर्धानम्” भा० व्योमन् व्योम्नि सप्तम्या लुकि न नलोपः।
दुर्धाव = त्रि० दुर् + धाव–खल्। दुःशोधनीये।
दुर्द्धित = त्रि० दुर् + षा–कर्मणि क्त वेदे न धाञो हिः। दुष्टं स्थापिते “इदमग्रे सुधितं दुर्धितादधि” ऋ०१। १४०। ११ “दुर्द्धितात् दुष्टं स्थापितात्” भा० लोके तु दुर्हित इत्येव तदर्थे त्रि०।
दुर्द्धी = त्रि० दुःस्थिता धीर्यस्य प्रा० ब०। १ दुष्टबुद्धियुक्ते “अनुत्थानवता चापि दुर्विनीतेन दुर्द्धिया” भा० उ० १३४ अ० अत्र “गतिकारकेतरपूर्वस्य यण् नेष्यते” वार्त्ति० न यण्। “प्रादिभ्यी धातुजस्य वा चोत्तरपदलोपः” वार्त्ति० दुःस्थितशब्दस्य उत्तपदलोपे दुरित्यस्य धीशब्दं प्रति गतित्वं नास्ति किन्तु लुप्तस्थितशब्दं प्रति, अतोऽस्य गतिपूर्वकत्वाभावात् न यण् इति बोध्यम्। दुष्टं ध्यायति दुर् + ध्यै–क्विपि दुर्द्धीशब्दस्य गतिपूर्वकत्वात् यण् दुर्द्ध्या इत्यादि। अत्र संयोगपूर्वकत्वेऽपि धात्ववयवसंयोगपूर्वकत्वाभावात् न इयङः प्रवृत्तिरिति बोध्यम्।
दुर्द्धुर् = त्रि० दुर् + धुर्व–हिंसने कर्मणि क्विप्। दुःखेन हिंस्ये “वृथा गावो न दुर्धुरः” ऋ० ५। ५६। ४ “दुर्धुरो दुःखेन हिंस्याः” भा०
दुर्द्धुरूट = त्रि० दुर् + धुर्व–ऊट पृषो०। युक्तिं विना गुरुवाक्य ममन्यमाने “मीमांसकदुर्धुरूट इति पाठान्तरे तत्त्वबोधनी दुर्धुरूढ इति च तत्र पाठान्तरे दुष्टकर्मकर्त्तरि रूटोऽयं शब्द इत्यन्ये।
दुर्नय = पु० दुर + नी–अच्। १ नीतिविरुद्धाचरणे दुश्चेष्टायां “अम्बिके! तव पौत्रस्य दुर्नयात् किल भारताः। सानुबन्धा विनङ्क्ष्यन्ति” भा० आ० १२८ अ० “संचिन्त्य दुर्नयं घोरं सुतानां द्यूतजन्म यत्” भा० व० ५१० अ०।
दुर्नामक = पु० दुष्टं नामास्य कप्। अर्शोरोगे अमरः।
दुर्नामारि = पु० ६ त०। अर्शोघ्ने शूरणे राजनि०।
दुर्निमित = त्रि० दुर् + नि + मि–क्षेपणे क्त। दुष्टं क्षिप्ते सम्भ्रमादुत्क्षिप्ते “पदे पदे दुर्निमिता गलन्ती” कुमा०
दुर्निमित्त = न० दुष्टं निमित्तम् प्रा० स०। भाविरिष्टसूचके शकुनभेदे “दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्” भा० स० २० अ०।
दुर्नियन्तु = त्रि० दुर् + नि–यम–तुन्। दुःखेन नियन्तव्ये। “सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः” ऋ० १। १३५। ९ “दुर्नियन्तवः दुःखेन नियन्तव्याः” भा०
दुर्निष्प्रपतर = न० दुःखेन निष्प्रपतति दुर् + निर् + प्र + पतअच्। अतिशयेन तत् तरप् वेदे तकारलीपः। दुःखेन निष्क्रान्ततरे। “अतो वै खलु दुर्निष्प्रपतरं भवति” छा० उ०। “दुर्निष्प्रतरमिति तकारएको लुप्तो द्रष्टव्यः” भा०।
दुर्नीत = न० दुर् + नी–भावे क्त। नीतिविरुद्धाचरणे “यस्य प्रसादाद् दुर्नीतं प्राप्तास्मि भरतर्षभ!” भा० वि० २० अ० दुर् + नी–र्कर्तरि क्त। २ तद्यक्ते त्रि०। भावे क्तिन्। दुर्नीति दुष्टे नये स्त्री।
दुर्बद्ध = त्रि० दुष्टं बद्धः। यथादेशाबन्धनात् दुष्टतया बद्धे। “दुर्बद्धेनानुभिन्ने च विज्ञेयं भिन्ननेत्रवत्” सुश्रु०।
दुर्बल = त्रि० दुःस्थितं बलमस्य प्रा० ब०। स्वल्पवलान्विते “शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तरान्” “योऽधार्यो दुर्बलेन्द्रियैः” मनुः “तक्रं नैव क्षते दद्यात् नोष्णकाले न दुर्बले” सुश्रु०। २ कृशे ३ शिथिले च “स्वार्थोपपत्तिं प्रति दुर्बलाशः” रघुः। दुस्थितं बलं यस्याः प्रा० ५ ब०। ४ अम्बु शिरीषिकायां स्थी भावप्र०। दुर्बलस्य भावः ष्यञ्। दौर्बल्य न०, तल् दुर्बलता स्त्री। त्व दुर्बलत्व न० स्वल्पबलत्वे
दुर्बाल = त्रि० दुष्टो बालोऽस्य। १ दुश्चर्मरोगयुक्ते २ खलतौ ३ कुटिलकेशे च मेधातिथिः “जटिलञ्चानधीयानं दुर्बालं कितवं तथा” मनुव्याख्याने तथार्थत्रयस्य तेनोक्तत्वात्।
दुर्बीरण = न० दुष्टं बीरणम् प्रा० स०। दुष्टे वीरणे तृणभेदे “श्मश्रूण्यौपपक्ष्याणि दुर्वीरणानि जायन्ते” शत० ब्रा० ११। ४। १। ६ “दुर्वीरणानि दुष्टवीरणानीवेति” लुप्तोपमा भा०
दुर्बोध = त्रि० दुःखेन बुध्यते दुर् + बुध–कर्मणि खल्। बोद्धुमशक्ये दुःखेन ज्ञेये “अतिदुर्बोधगिरः शिरोमणेः” गदाधरः “निसर्गदुर्बोधमबोधविक्लवाः” किरा०
दुर्ब्राह्मण = पु० दुष्टो ब्राह्मणः प्रा० स०। “यस्य वेदश्च वेदी च उत्सन्ना च त्रिपौरुषी। स वै दुर्ब्राह्मणो ज्ञेयः, इति धूर्त्तस्वामिनोक्ते निन्दितब्राह्मणभेदे तस्य आवश्यकवेद पाठविहितहोमयोस्त्रिपुरुषमुत्सन्नत्वात् दुष्टत्वम्। “प्रवृञ्ज्याद्दुर्व्राह्मणस्य व्रह्मवर्चसकामस्य” आपस्तम्बः “यो दुर्ब्राह्मणः सोमं पिपासति” तैत्ति० स० २। १। १०। १
दुर्भग = त्रि० दुःस्थितो भगो भाग्यमस्य प्रा० ब०। दुष्टभाग्यान्विते “दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः” हरिवं० १२६ अ० पतिस्नेहशून्यायां (दुया) ख्यातायां २ स्त्रियां स्त्री “कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत” भा० आ० १६९ अ०। प्रियादिषु पाठात् एतस्मिन् परे पूर्वस्थितस्त्रीलिङ्गशब्दस्य कर्मधारये न पुंवद्भावः।
दुर्भाग्य = न० दुष्टं भाग्यम् प्रा० स०। १ दुरदृष्टे पापे। दुःस्थितं भाग्यमस्य प्रा० व०। २ दुष्टभाग्यान्विते त्रि०
दुर्भिक्ष = अव्य० भिक्षायाः अभावः। १ भिक्षाया अभावे। दुर्लभा भिक्षा यत्र प्रा० ब०। यद्देशे यानि शस्यानि जायन्ते तद्देशे तद्द्रव्यस्यानुत्पत्त्या २ तद्द्रव्यालाभसमयभेदे न० तत्समयभेदसूचकाश्च षष्टिसंवत्सरान्तर्गता वर्षभेदाः ज्योति० त० भविष्यपु० उक्ताः संगृह्य दर्श्यन्ते यथा
“राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम्। जानीयाद्विग्रहं घोरं प्रमाथिनि १३ वरानने!। “दुर्भिक्षं जायते घोरं सर्वोपद्रवसंयुतम्। अनावृष्टिः समाख्याता व्यये २० संवत्सरे प्रिये!”। “क्वचिद्वर्षति पर्जन्यो देशे संछिन्नमण्डलः। दुर्भिक्षं सर्वरीवर्षे ३४ व्यवहारे विपर्ययः”। “दुर्भिक्षं जायते सर्वा मेदिनी दुष्यति प्रिये!। प्लवे ३५ प्लवन्ति तोयानि पीडिता मानवा भुवि”। “दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम्। अनले ५० च समाख्याता नात्र कार्य्या विचारणा”। “देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम्। पिङ्गले ५१ चारु पद्माक्षि! दुर्भिक्षं नर्मदातटे”। “दुर्दिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्तते। भवेद्वै मध्यमा वृष्टिर्दुर्मतौ ५५ समुपस्थिते”। “दुर्भिक्षं मरणं घोरं धान्यौप्रधिप्रपीडनम्। पापरोगो भवेद्देवि! रक्ताक्षे ५८ऽमरवन्दनि”!। “रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम्। क्रोधे ५९ तु विषमं सर्वं समाख्यातं हरपिये!”। ५९ “मेदिनी चलते देवि! सर्तभूतं चराचरम्। देशभङ्गश्च दुर्भिक्ष क्षये संक्षोयते प्रजाः। सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा। दुर्भिक्षं जायते घोरं क्षये६० संवत्सरे प्रिये!”। क्वचिदद्भुतोत्पातेऽपि दुर्भिक्षं भवति यथा
“मांसास्थिनी समादाय श्मशानाद् गृध्रवायसाः। श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशन्ति चेत्। विकि रन्ति गृहादौ च श्मशानं सा मही भवेत्। चौरेण हन्यते लोकः परचक्रसमागमः। सग्रामश्च महा घोरो दुर्भिक्षं मरकस्तथा। अद्भतानि प्रसूयन्ते तत्र देशस्य विद्रवः। अकाले फलपुष्पाणि देशविद्रवकारणम्” इति ज्योत० त०। तत्र कालेऽशौचिभ्यो भिक्षाग्रहणे दोषाभाव इति हारलताप्रभृतयः। कौर्मे “सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे। डिम्बाहवे हतानाञ्च विद्युता पार्थिवैर्द्विजैः। सद्यः शौचं समाख्यातं शापादिमरणे तथा” इति शु० त० “दुर्भिक्षयुक्तराष्ट्रे च मृतके सूतकेऽपि वा। नियमाश्च न दुष्यन्ति दानधर्मरतेष्वपि। दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा। दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते। पूर्वसङ्कल्पिते चापि नाशौच मृतसूतके” इति गारुडे २२६ अ० “शकटः शाकिनी गावो जालमास्कन्दनं वनम्। अनूपः पर्वतो राजा दुर्भिक्षे नव वृत्तयः” चाणक्याः “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ। दातान्नस्य तु दुर्भिक्षे सुभिक्षे वस्त्रहेमदः”। “एकग्रामे चतुःसाले दुर्भिक्षे राष्ट्र विप्लवे। पतिना नीयमानायाः पुरःशुक्रो न दुष्यति” ज्यो० त०।
दुर्भिद = त्रि० दुःखेन भिदाते दुर् + भिद–कर्मणि घञर्थे क। दुर्भेद्ये भेत्तुमशक्ये “गिरिमासाद्य दुर्भिदम्” भा० द्रो० ३५ अ०। खल्। द्रुर्भेद तत्रार्थे त्रि० ण्यत्। दुर्भेद्य तत्रार्थे त्रि।
दुर्भिषज्य = त्रि० दुर् + भिषज्–कण्ड्वा० यक् कमणि ण्यत् यलोपः। १ दुःखेन चिकित्स्ये। भावे ण्यत्। दुःखेन २ चिकित्सायाम् “दर्भिषज्यं चास्मै भवति यमेष न प्रतिपद्यते” वृ० उ० “तमिन्द्रियद्वारदेशं यस्माद्देशाच्छुक्रमादाय प्रसूतस्तमिन्द्रियदेशमेष आत्मा पुनर्न प्रतिपद्यते। कदाचिद् व्यत्यामेनेन्द्रियमात्राः प्रवेशयति। तत आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यं दुःखभिषक्कर्मता हास्मै देहाय भवति दुःखेन चिकित्सनीयोऽसौ भवतीत्यर्थः” भा०
दुर्भृत्य = पु० दुष्टोऽसन् भृत्यः। भृत्यशब्दे वक्ष्यमाणभृत्यगुणविहीने निन्द्ये भृत्ये तत्स्वरूपं शुक्रनीतिशास्त्रपरिशिष्टे २ अ० उक्तं यथा
“विपरीतगुणैरेभिर्भृतकोनिन्द्य उच्यते। ये भृत्याहीनभृतिका ये दण्डेन प्रकर्शिताः। शठाश्च कातरा लुब्धाः समक्षेऽप्रियवादिनः। मनोव्यसनिनश्चार्त्ता उत्कोचेष्टाश्च देविनः। नास्तिकादाम्भिकाश्चैव सत्यवाचोऽप्यसूयकाः। ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः। रिपोर्मित्रसेवकाश्च पूर्ववैरानुबन्धिनः। चण्डाः साहसिका धर्महीना नैते सुसेवकाः। नीचो विवर्द्धितो राज्ञा राज्यनाशाय संभवेत्। वीर्य्याधिको नीचकुली दुःसङ्गेन समेधितः। महाजनैः स्पर्द्धमानो हन्ति राष्ट्रं सराजकम्। सदर्थवदनर्थं तु सदर्थं त्वप्यनर्थवत्। कृत्वा स्ववुद्धिमाहात्म्यात् महान्तमपि निन्दति। वञ्चयित्वान्यसर्वस्वं विश्वामेनाहरत्यलम्। स नीचस्तुद्गुणान् वक्तुं ब्रह्मापि खलु कातरः। संक्षेपतस्तु कथितं सदसद्भृत्यलक्षणम्”।
दुर्भ्रातृ = पु० दुष्टो भ्राता प्रा० म०। दुष्टे भ्रातरि “दुर्भ्रातुस्तस्य चोग्रस्य राजन्! दुःशासनस्य च” भा० व० २७ अ० तस्य भावः युवा० अण्। दौर्भ्रात्र तद्भावे न०
दुर्मति = स्त्री दुष्टा मतिः। विवेकोत्पत्तिप्रतिबन्धकपापेन १ मलिनबुद्धौ “निषीदन्नो अपदुर्मतिं जहि” यजु० ११। ४७। “देवीरपां मतिं दुर्मतिं बाधमानाः” १७। ५४ दुःस्थिता मतिर्यस्य प्रा० ६ ब०। २ तद्युक्ते त्रि० “न साम्प रायिकं तस्य दुर्मतेर्विद्यते फलम्” मनुः दुःस्था मतिरत्र प्रा० ७ त०। षष्टिवर्षमध्ये ३ वत्सरभेदे “दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते। भवेद्वै मध्यमा वृष्टिर्दुर्मतौ ५५ समुपस्थिते” ज्योति० त० भवि० पु०
दुर्मद = त्रि० दुरुत्थितो मदो यस्य प्रा० ब०। उन्मत्ते “दुर्मदं गन्धर्वाप्सरोभ्यः” यजु० ३०। ८। “कुमारान् क्नीडमानांस्तान् दृष्ट्वा राजा च दुर्मदान्” भा० आ० १२९ अ०। २ धृतराष्ट्रपुत्रभेदे “दुर्मदो दुःप्रधर्षश्च विवित्सुर्विकटाननः” भा० आ० ६७ अ० तत्पुत्रोक्तौ।
दुर्मनस् = त्रि० दुष्टं मनः प्रा० स०। २ दुष्टे मनसि “प्राप्य दुर्मनसा वीर! गर्वेण च विशेषतः” रामा० अयो० ३१। २० दुःस्थितं मनोऽस्य प्रा० ब०। २ दुःस्थितमनस्के ३ व्याकुलचित्ते त्रि० “नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्” भा० आ०१६६ अ० ततो भृशा० च्व्यर्थे क्यङ् सलोपश्च दुर्मनायते।
दुर्मन्तु = त्रि० दुर् + मन–तुन्। दुष्टं मन्यमाने “दुर्मन्त्वत्रामृतस्य नाम” ऋ० १०। १२। ६।
दुर्मन्त्रित = त्रि० दुर् + मन्त्र–क्त। १ दुष्टं मन्त्रिते मन्त्रणाविषये “त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत!” भा० उ० १२७ अ०। भावे क्त। २ दुष्टमन्त्रणायां न० पराभवो द्वैत बने य आसीत् दुर्मन्त्रिते घोषयात्रागतानाम्” भा० उ० ११७ अ०
दुर्मन्त्रिन् = पु० दुष्टो मन्त्री प्रा० स०। मन्त्रिलक्षणगुणरहिते दुष्टे मन्त्रिणि। मन्त्रिलक्षणञ्च अमात्यशब्दे ३३१ पृ० उक्तम्। तद्वैपरीत्ये मन्त्रिणो दुष्टत्वम्। “सन्तापयन्ति कमपथ्यभुजं न रोगाः दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः” पञ्चत०
दुर्मर = त्रि० दुष्टो मरोमृत्युः प्रा० स०। १ दुष्टे मृत्यौ दुःखेन म्रियते दुर + मृ–अच्। २ श्वेतदूर्वायाम् स्त्री राजनि०। ३ दूर्वायां स्त्री जटाध० दुःखेन मरो मरणं यस्य। ४ दुःखेन मृत्युयुक्ते त्रि० “दुर्मरत्वमहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम्। यत्र कर्णं हतं श्रुत्वा नात्यजत् जीवितं नृपः” भा० क० १ अ०। ल्युट्। दुर्मरणमप्यत्र। सरणस्य दुष्टत्वं चण्डालादिहतत्वादिना भवति यथोक्तं नि० सि० अङ्गिराः “चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि। दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम्। उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते। नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति”। षट्त्रिंशन्मतेष्वेवम् ब्राह्मेपि, “शृङ्गिदंष्ट्रिनखंव्यालविषवह्निक्रियाजलैः”। व्यालोगजः। “सुदूरात्परिहर्तव्यः कुर्वन् क्रीडां मृतस्तु यः। नागानां विप्रियं कुर्वन् हतश्चाप्यथ विद्युता। निगृहीतः स्वयं राज्ञा चौर्य्यदौषेण कुत्रचित्। परदारान् हरन्तश्च द्वेषात्तु पतिभिर्हताः। असमानैश्च सङ्कीर्णैश्चण्डालाद्यैश्च विग्रहम्। कृत्वा तैर्निहतास्तद्वच्चण्डालादीन् समाश्रिताः। शस्त्राग्निगरदाश्चैव पाखण्डा क्रूरबुद्धयः। क्रोधात्प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम्। गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः। कुशल्यजीविनो ये च सूनालङ्कारधारिणः। मुखे भगास्तु ये केचित् क्लीवप्राया नपुंसकाः। ब्रह्मदण्डहता ये च ये चापि ब्राह्मणै- र्हताः। महापातकिनो ये च पतितास्ते प्रकीर्तिताः। पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः। न चाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं क्वचित्। एतानि पतितानां तु यः करोति विमोहितः। तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा”। तत्र दुर्मरणनिमित्तं दानादि तत्रोक्तं यथा “तत्र दुर्मरणनिमित्तं दानादिकार्यं तच्च विश्वप्रकाशादौ दर्शितं यथा शातातपीये च “व्याघ्रेण निहते विप्रैर्विप्रकन्यां विवाहयेत्। सर्पदष्टे नागबलिर्ज्ञेयः सपश्च काञ्चनः। चतुर्निष्कमितं हैमं गजं दद्याद्गजेर्हते। राज्ञा विनिहते दद्यात् पुरुषं तु हिरण्मंयम्। चौरेण निहते धेनुं वैरिणा निहते वृषम्। वृषेण निहते दद्याद्यथा शक्त्या तु काञ्चनम्। शय्यामृते प्रदातव्या शय्या तूलीसमन्विता। निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता। शौचहीने मृते चैव द्विनिष्कं स्वर्णजं हरिम्। संस्कारहीने च मृते कुमारमुपनाययेत्। निष्कत्रयस्वर्णमितं दद्यादश्वं हयाहते। शुना हते क्षेत्रपालं स्थापयेन्निजशक्तितः। सूकरेण हते दद्यान्महिषं दक्षिणान्वितम्। कृमिभिश्च मृते दद्याद्गोधूमान् पञ्चखारिकाः। वृक्षं वृक्षहते दद्यात्सौवर्णं वस्त्रसंयुतम्। शकटेन हते दद्याद्द्रव्यं सोपस्करान्वितम्। भृगुपातमृते चैव प्रदद्याद्धान्यपर्वतम्। अग्निना निहते कार्यमुदपानं स्वशक्तितः। दारुणा निहते चैव कर्तव्या सदने सभा। शस्त्रेण निहते दद्यान्महिषीं दक्षिणान्विताम्। अश्मना निहते दद्यात्सवत्सां गां पयस्विनीम्। विषेण च मृते दद्यान्मेदिनीं हेमनिर्मिताम्। उद्बन्धनेन च मृते कपिं कनकनिर्मितम्। मृते जलेन वरुणं हैमं दद्याद्द्विनिष्कजम्। विषूचिकामृते स्वादु भोजयेच्च शतं द्विजान्। घृतधेनुः प्रदातव्या कण्ठान्नकबले मृते। कासरोगेण च मृते अष्टकृच्छ्रं व्रतं चरेत्। अतिसारमृते लक्षं गायत्र्याः प्रयतो जपेत्। शाकिन्यादिग्रहग्रस्ते जपेद्रुदं यथोदितम्। विद्युत्पातेन निहते विद्यादानं समाचरेत्। अन्तरिक्ष मृते कार्यं वेदपारायणं तथा। सच्छास्त्रपुस्तकं दद्यादस्पृश्यस्पर्शतो मृते। पतिते च मृते कुर्य्यात् प्राजापत्यांस्तु षोडश। मृते चापत्यरहिते कृच्छ्राणां नवतिं चरेत्। एवं कृते विधाने तु विदध्यादौर्ध्वदेहिकम्”। अनन्तभट्टेन तु दुर्मरणप्रकाराश्चतुःषष्टि प्रकारा उक्तास्ते च तत्कृतान्त्येष्टिपद्धतौ दृश्याः।
दुर्मर्ष = पु० दुःखेन मृष्यते दुर् + मृष–कर्मणि खल्। दुःखेन मर्षणीये दुःखेन सहनीये “यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत” ऋ० ८। ४५। १८
दुर्मर्षण = पु० दुर् + मृष–भाषायां स्वलं बाधित्वा युच्। १ दुःखन सहनीये २ विष्णौ पु० “अजो दुर्मर्षणः शास्ता” विष्णुसं० मर्षितुं दानवादिभिर्न शक्यते इति दुर्मर्षणः” भा० ३ धृतराष्ट्रपुत्रभेदे “दुर्भर्षणो विकर्णश्च चित्रसेनो विविंशतिः” भा० आ० ६३० तत्पुत्रोक्तौ
दुर्म(ल्ली)ल्लिका = स्त्री दृश्यकाव्यरूपे उपरूपकभेदे सा० द० यथा “नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम्। प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकं तथा। सलापकं श्रीगदितं शिल्पकञ्च विलासिका। दुर्मल्लिका प्रकरणी हल्लीशोभाणिकेति च। अष्टादश प्राहुरुपरूपकाणि मनीषिणः। विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्” इत्युद्दिश्य तल्लक्षणमुक्तं यथा “दुर्मल्ली चतुरङ्का स्यात् कौशिकी भारती तथा। अगर्भा नागरनरा न्यूननायकभूषिता। त्रिनालिः प्रथमोऽङ्कोऽस्यां विटक्रीडाश्रयो भवेत्। पञ्चनालिर्द्वितीयीऽङ्को विदूषकविलासवान्। षण्णालिकस्तृतीयस्तु पीठ मर्दविलासवान्। चतुर्थो दशनालिः स्यादङ्कः क्रीडित नायकः। यथा विन्दुमती”।
दुर्मायु = त्रि० दुष्टान्यायुधानि मिन्वन्ति मि–क्षेपे उण्। दुष्टायुधक्षेपके “दुर्मायवोदुरेवामर्त्यासः” ऋ०३। ३०। १५
दुर्मित्र = पु० दुष्टं मित्रम् प्रा० स० अमित्रवत् पुंस्त्वम्। विरोधिलक्षणया १ अमित्रे शत्रौ। दुःस्थितं मित्रं यस्य। २ दुष्टमित्रके त्रि०। “दुर्मित्रासः प्रकलविन् मिमानाः” ऋ०७। १८। १५ स्त्रियां टाप्। दुर्मित्राया अपत्यम् वाह्वा० इञ्। दौर्मित्रि तदपत्ये पुंस्त्री०
दुर्मित्रिय = त्रि० दुर्मित्राय अमित्रत्वाय साधु घ। अमित्रत्वेनावस्थिते। “सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु” यजु० ६। २२। “दुर्मित्रिया अमित्रत्वेनावस्थिताः” वेददी०
दुर्मिलका = स्त्री मात्रावृत्तप्रभेदे यथा “द्वात्रिंशन्मात्रं फणिपतिजल्पितसकलविभूषणवृत्तवरम् दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहृदयानन्दकरम्। यद्यष्टचतुष्कल गणनिर्मितपदमिति दुर्मिलकानामपरं नरपतिवरतोषण वन्दिविभूषणभुवनविदितसन्तापहरम्”।
दुर्मुख = त्रि० दुस्थं मुखं तद्व्यापारो वाऽस्य प्रा० व०। १ अश्वे हेमच०। २ वानरभेदे ३ राक्षसभेदे “रक्षःपतिस्तदबलोक्य निकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्” भाग० ९। १०। ८४ नागभेदे मेदि०। “नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्ययं राजा वरुणश्चापि राजन्” भा० मौस० ४ अ० ५ महिषासुरसेनानीभेदे “दुर्द्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम्” देवीमा० ६ शिवे “नन्दिमुखो भीममुखः सुमुखोदुर्मुखोऽमुखः” भा० गा० २८६ अ० शिवनामोक्तौ। ६ धृतरष्ट्रपुत्रभेदे “दुःसहो दुःशलश्चैव दुर्मुखश्च तथा परः” भा० आ० ६७ अ०। ७ नृपभेदे। “संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्” भा० स० ४ अ० युधिष्ठिरसभागतनृपोक्तौ ९ यक्षभेदे ब्रह्मपु०। १० अप्रियवादिनि त्रि०। ११ रामस्यान्तःपुरचारिणि चरभेदे “शुद्धान्तचारी दुर्मुखः स मया पौरजानपदानपसर्पितुं प्रयुक्तः” उत्तररामच०। १२ उत्तरद्वारगृहे ६० वर्षमध्ये १३ वर्षभेदे “तुषधान्यक्षयो देवि! सर्वशस्यमहार्घता। व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः” ज्यो० त० भवि० पु०
दुर्मुहूर्त्त = अ० निन्दितो मुहूर्तः प्रा० स०। अप्रशस्ते मुहूर्त्ते “नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः। संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः” भा० शा० १८० अ०
दुर्मूल्य = त्रि० दुःस्थितं मूल्यं प्रा० स०। १ दुःस्थिते मूल्ये २ महार्घे यस्य यन्मूल्यं कॢप्तं तत आधिक्ये मूल्यस्य दुःस्थितत्वमिति बोध्यम् प्रा० ब०। २ तद्युक्ते त्रि०
दुर्मधस् = त्रि० निन्दिता मेघास्य असिच् समा०। १ निन्दितमतौ विवेकासमर्थे २ घारणवर्जितबुद्धिके “न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः” भा० व० १० अ० “प्रत्याख्यातोऽपि दुर्मेघाः” २८१ अ०। आर्षे तु समासान्तविधेरनित्यत्वात् क्वचिन्नासिच् समा०। “त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा” भाग० १। ४। २५ “अश्रद्दधानान् निःसत्वान् दुर्मेधान् ह्रसितायुषः” भाग० १। ४। १८
दुर्मोह = पु० निन्दितं मुह्यत्यनेन मुह–करणे घञ्। १ काकतुण्ड्यां राजनि०। २ काकादन्यां स्त्री शब्दार्थचि०।
दुर्य्य = पु० दुरं द्वारं याति या–क दुरि द्वारे भवः यत् वा। १ गृहे “देवी दुर्ये आयुर्मा” शत० ब्रा० ३। ५। ३। १८ “स्वं गोष्ठ मावदतं देवी! दुर्ये” यजु० ५। १७। दुर्यशब्दो गृहवाची “दुर्या वै गृहाः” इति श्रुतेः वेददी०। द्वारे भवे२ यूपे च। “निरेके पज्रेषु स्तोमो दुर्य्योन यूपः” ऋ०१। ५१। १४
दुर्यशस् = न० निन्दितं यशः प्रा० स०। विरोधिलक्षणया १ अकीर्त्तौ “त्वदग्रसूचीसचिवः स कामिनोर्मनोभवः सीव्यति दुर्यशःपटौ” नैष०। दुस्थितं यशोऽस्य प्रा० ब०। २ दुष्टयशस्के त्रि०
दुर्योग = पु० दुष्टो योगः प्रा० स०। १ दुर्भाग्यसूचके ग्रहयोगभेदे २ दुष्टकौशले च “दासीभूतास्मि दुर्योगात् सपत्न्याः पतगोत्तम!” भा० आ० २७ अ० तस्या दास्ये च सर्पाणां यथा कौशलभेदः तथा तत्रैवाध्याये दृश्यः।
दुर्योण = न० दुष्टा योनिः स्थानमस्त्यस्य अर्श० अच् संज्ञात्वात् णत्वम्। संग्रामे “नि दुर्योण आवृणङ्मृध्रुवाचः” ऋ०५। २९। १० “दुर्योणः संग्रामः” भा०
दुर्योध = पु० दुःखेन युध्यतेऽसौ दुर् + युध–कर्मणि खल्। दुःखेन योधनीये।
दुर्योधन = पु० दुर् + युध–भाषायां युच्। १ धृतराष्ट्रस्य ज्येष्ठे पुत्रे। “कलेरंशस्तु सञ्जज्ञे भुवि दुर्योधनो नृपः!। दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः। जगतो यस्तु सर्वस्य विद्वेष्टा कलिपूरुषः। यः सर्वां घातयामास पृथिवीं पृथिवीपते!। उद्दीपितं येन वैरं भूतान्तकरणं महत्” भा० आ० ६७ अ० “स जातमात्र एवाथ धृतराष्ट्रसुतो नृप!। रासभारावसदृशं रुराव च ननाद च। तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः। वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा। ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम्। समानीय बहून् विप्रान् भीष्मं विदुरमेव च। अन्यांश्च सुहृदो राजन्! कुरून् सर्वांस्तथैव च। युधिष्ठिरो राजपुत्रो ज्येष्ठीनः कुलवर्द्धनः। प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्यमस्ति नः। अयन्त्वनन्तरस्तस्मादपि राजा भविष्यति। एतद्धि ब्रूत मे तथ्यं यदत्र भविता ध्रुवम्। वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत!। क्रव्यादाः प्राणदन् घोराः शिवाश्चाशिवशंसिनः। लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः। तेऽब्रुवन् ब्राह्मणा राजन्! विदुरश्च महामतिः। यथेमानि निमित्तानि घोराणि मनुजाधिप!। उत्थितानि सुते जाते ज्येष्ठे तु पुरुषर्षभ!। व्यक्तं कुलान्तकरणो भवितैष सुतस्तव। तस्य शान्तिः परित्यागे गुप्तावपनयो महान्। शतमेकोनमप्यस्तु पुत्राणान्ते महीपते!। त्यजैनमेकं शान्तिञ्चेत् कुलस्येच्छसि भारत!। एकेन कुरुवै क्षेमं कुलस्य जगतस्तथा। त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। पामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्। स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः। न चकार तथा राजा पुत्रस्नेहसमन्वितः” भा० आ० ११५ अ० २ दुर्योधनीये त्रि०
दुर्योनि = स्त्री निन्दिता योनिः प्रा० स०। १ निन्दितायां जातौ दुःस्थिता योनिरस्य प्रा० ब०। २ निन्दितजातिके त्रि० “न कथञ्चन दुर्योनिः प्रकृतिं स्वां नियच्छति” मनुः।
दुर्लतिका = स्त्री दुष्टा लतैव स्वार्थे क प्रा० स०। १ निन्दितायां लतायां २ छन्दोभेदे च “वसुभिश्च रसैरथ दिग्भिरुदीरितसद्यतिका विहिता हि सगणाष्टकभूषितसच्चरणाज्जितदुर्नय! दुर्लतिकेति तदा। फणभृत्कुलमङ्गलनामकनागवरग्रथिता सुकृतां सुखदा यशवन्त! धराधिप! “गौडकुलोज्ज्वल! तामवधेहि हृदये सदा” दृ० रत्ना०।
दुर्लभ = त्रि० दुःखेन लभ्यते दुर् + लभ–कर्मणि खल्। १ लब्धुमशक्ये कृच्छ्रेण लभ्ये २ दुष्प्राप्ये मेदि० ३ अतिप्रशस्ते शब्दर० ४ प्रिये हेमच०। “नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा” सा० द० “अप्रियस्य च पय्यस्य वक्त्रा श्रीता च दुर्लभः” रामा० “दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः। दुर्लमा सदृशी भार्या दुर्लभः स्वजनः प्रियः” चाणक्य० ५ कच्चूरे पु० मेदि० ६ कर्चूरे पु० राजनि० ७ दुरालमायां ८ श्वेतकण्टकार्याञ्च स्त्री राजनि०। ९ विष्णौ पु० “दुर्लभो दुर्जयो दुर्गः” विष्णुसं०। “दुर्लभया भक्त्या लभ्यत इति दुर्लभः “जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः। नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायतेः” इति व्यासवचनात् “भक्त्या लभ्यस्त्वनन्ययेति” भगद्वचनात् भा० “आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्” मनुः। “मत्परं दुर्लभं मत्वा नूनमावर्जितं मया” रघुः “कुसुमायुधपत्नि! दुर्लभस्तव भर्त्ता न चिराद् भविष्यति” कुमा०।
दुर्ललित = न० दुर् + लल–ईप्सायां भावे क्त। दुष्टेच्छायां दुर्ल भवस्तुवाञ्छायाम् (आव्दार) तस्या अन्यलाभाविषयत्वेन दुष्टत्वम्। २ दुश्चेष्टिते च “स शशाप ततो रोषान्मुनिर्दुहितरं तव। अतिदुर्ललितैः कन्या शत्रुहस्तं नमिष्यति” हरिवं० १४९ अ०। कर्त्तरि क्त। ३ तथाविधेच्छायुक्ते ४ दुश्चेष्टान्विते ५ चपले च त्रि० “बालस्य मे प्रकृतिदुर्ललितस्य पापः पापं व्यवस्यति समक्षमुदायुधोऽसौ” वेणी०।
दुर्लसित = न० दुर् + लस–क्त। दुश्चेष्टायाम्।
दुर्लाभ = पु० दुर् + लभ–घञ्। दुःखेन लाभे। “भोक्षदुर्ला- भविषयं वडवामुखसागरम्” भा० शा० ३०३ अ०।
दुर्लेख्य = न० दुष्टं लेख्यम्। गर्हिते लेख्यपत्रे। “देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा। भिन्ने दग्धे तथा छिन्ने लेख्यमन्यत्तु कारयेत्” नार० सर्वैरेतैर्विशेषणैर्व्यवहाराक्षमता विवक्षिता। दुष्टं लिप्यक्षरपरिलोपेनावाचकतया वा यल्लेख्यं तत्तु दुर्लेख्यं, नष्टं सर्वथा नाशमुपगतम् उन्मृष्टं मसीदोषादिना मृदितलिप्यक्षरम्। यद्यपि दग्धमपि नष्ठमेव तथापि कालमात्रकृता शीर्णता नष्टपदेनात्र विवक्षिता। पत्रान्तरकरणञ्चार्थिप्रत्यर्थिनोः परस्परसम्प्रतिपत्तौ। विमतौ तु देशान्तरस्थपत्रानयनाय कालो देयोऽध्वापेक्षया व्यवहारो वाऽप्रवर्तनीयः दुर्लेख्यादौ तु सम्प्रतिपत्तौ पत्रान्तरकरणमन्यथा व्यवहार स्याप्रवृत्तिरेवेत्यवसेयं साक्षिषु सत्सु तैरेव निर्णयः”। तथाच नारदः “लेख्ये देशान्तरस्थे तु शीर्णे दुर्लिखिते हृते। सतस्तत्कालकरणमसतो द्रष्टृदर्शनमिति” वीरमि०
दुर्व = बधे भ्वा० पर० सक० सेट्। दूर्वति अदूर्वीत्। ईदित्। दूर्त्तः
दुर्वच = त्रि० दुःखेन उच्यते दुर् + वच–कर्म्मणि खल्। दुःखेन कथनीये वक्तुमशक्ये। “अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्” किरा०। खलर्थयोगे कर्त्तरि षष्ठ्या निषेधेन सम्बन्धविवक्षयाऽत्र षष्ठी” सौभराजमुपेत्याऽहमवोचं दुर्वचं वचः” भा० उ० १७७ अ०।
दुर्वचस् = न० दुष्टं वचः प्रा० स०। गर्हिते वचने वचलो दुष्टत्वमप्रियावेदकत्वेन “असह्यं दुर्वचो ज्ञातेर्मेघान्तरितरौद्रवत्” उद्भ० “नारीं जित्वा विरूत्थन्ते न च जल्पन्ति दुर्वचः” भा० द्रो० १४८ अ०। दुःस्थितं वचोऽस्य प्रा० ब०। २ दुष्ट वचनवक्तरि त्रि०।
दुर्वराह = पुंस्त्री० गर्हितो वराहः प्रा० स०। १ गर्हिते वराहे विड्वराहे ग्राम्यशूकरे स्त्रियां जातित्वात् ङीष्। “त्रयो ह वापशवोऽमेध्या दुर्वराहऐडकः श्वा” शत० ब्रा० १२। ४। १। ४
दुर्वर्ण = न० निन्दितो हेमापेक्षया निकृष्टो वर्णोऽस्य। १ रजते अमरः। “दुर्वर्णभित्तिरिह सान्द्रसुधासबर्णा” माघः १ एलवालुके मेदि०। २ निन्द्यवर्णयुक्ते त्रि०। “न तत्र कश्चिद्दुर्वर्णो व्याधितो वापि दृश्यते” भा० व० १९६ श्लो० ४ श्वेतकुष्ठिनि तस्य रजतवर्णशुभ्रत्वात् दुर्वर्णत्वम्। “दुर्वर्णः कुनखी कुष्ठी मायावी कुण्डगोलकौ” भा० व० १९९ अ०। दुष्टोवर्णः प्रा० स०। ६ निन्द्ये ब्राह्मादिवर्णे च। “दुर्वर्णोऽस्य भ्रातृव्यः” तेत्ति० व्र० २। २। ४। ६। दुष्टे ६ अक्षरे पु०।
दुर्वर्त्तु = त्रि० दुर् + वृ–कर्म्मणि तुन्। दुर्वारे “दुर्वर्तुःस्मा भवति भीम ऋञ्जन्” ऋ० ४। ३८। ८ “दुर्वर्तुः दुर्वारः” भा०।
दुर्वस = त्रि० दुःखेनोष्यतेऽत्र दुर् + वस–बा० आधारे खल्। कृच्छ्रेण वासयोग्ये वस्तुमशक्ये “त्रयोदशोऽयं संप्राप्तः कृच्छ्रात् परमदुर्वसः” भा० वि० १ अ०।
दुर्वसति = स्त्री दुःखेन वसतिः। दुःखेनावस्थितौ “रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः” रघुः।
दुर्वह = त्रि० दुःखेनोह्यतेऽसौ दुर् + वह–कर्म्मणि खल्। दुःखेन वहनीये वोढुमशक्ये। “न दुर्वहश्रोणिपयोधरार्त्ताः” कुमा० “अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्” रघुः। “दुर्वहो निग्रहो दण्डो हिरण्यबहुलस्तथा” भा० शा० ६१९० श्लो०।
दुर्वाच् = स्त्री गर्हिता वाक् प्रा० स०। १ निन्द्ये वाक्ये दुःस्थिता वागस्य प्रा० ब०। २ निन्द्यवचनान्विते त्रि० “शय्यासनमलङ्कारमन्नपानमनार्यताम्। दुर्वाग्भरं रतिञ्चैव ददौ स्त्रीभ्यः प्रजापतिः” भा० अनु० ४० अ० “अतीव जल्पन् दुर्वाचो भवतीह विहेटकः” भा० आ० ३०७६ श्लो०।
दुर्वाच्य = न० निन्द्यं वाच्यम् प्रा० स०। अपवाहे १ अकीर्त्तौ “क्रीडानिमित्तं न श्रुत्वा दुर्वाच्यं न भविष्यति” रामा० सु० १५२४ श्लो०। २ कष्टेन वाच्ये च।
दुर्वाद = पु० दुष्टो वादः प्रा० स०। अकीर्त्तौ स्तुतिपूर्वकाप्रियवाक्ये १ अपवादे जटाध० २ निन्दितवाक्ये च।
दुर्वान्त = न० दुष्टं वान्तं प्रा० स०। १ विधानातिक्रमेण वमने दुःस्थितं वान्तमस्य प्रा० ब०। २ दुष्टवमनयुक्ते त्रि०। “दुर्वान्तस्य तु समुत् क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपीडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति” सुश्रुतः।
दुर्वार = त्रि० दुःखेन वार्यतेऽसौ दुर् + वारि–कर्मणि खल्। दुःखेन वारणीये वारयितुमशक्ये “किञ्चायमरिदुर्वारः पाणौ पाशः प्रचेतसः” कुमा० “सा दुर्वारं कथममपि परित्यागदुःखं विषेहे” रघुः।
दुर्वारण = त्रि० दुःखेन वारणमस्य। १ दुःखेन वारणीये “संरब्धश्च शरानस्यन् द्रोणं दुर्वारणं रणे” भा० द्रो० १९३ अ०। २ शिवे पु० दुर्विषहशब्दे दृश्यम्।
दुर्वारि = त्रि० दुःखेन वारिर्वारणमस्य। कम्बोज्देशीये याधभेदे “एते दुर्वारयो नाम कम्बोजा यदि ते श्रुताः” भा० द्रो० ११२ अ०।
दुर्वार्त्ता = स्त्री गर्ह्या वार्त्ता प्रा० स०। अप्रियावेदकवार्त्तायां दुष्प्रवृत्तौ।
दुर्वासना = स्त्री दुष्टा वासना प्रा० स०। पूरयितुमशक्येच्छायाम्
दुर्वासस् = पु० मुनिभेदे स च शङ्करांशेनात्रेरनसूयागर्भजः। तदुद्भवकथा आत्रेयशब्दे ६९२ अ० दृश्या तन्नामनिरुक्तिश्च यथा “निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः” भा० अनु० ४७ अ०। “ममांशस्तु क्षितितले महाभागो द्विजो त्तमः। दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति” भा० आ० २२३ अ० शिववाक्यम्। तस्य रुद्रांशजत्वेन क्रोधनत्वं यथाह “दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः” भा० स० ७ अ० “शिष्यायुतसमोपेतो दुर्वासा नाम कामतः। तमागतममिप्रेक्ष्य मुनिं परमकोपनम्” भा० व० २६१ अ० तस्य क्रोधशीलत्वेन विशेषणम्। दुःसाध्यं वासः गृहे वासनमस्य इति वा व्युत्पत्तिः। गृहे तदीयवासनस्य दुःसाध्यत्वात् दुर्वासस्त्वं यथोक्तं भा० अनु० १५९ अ० यथा “अवसन्गे गृहे तात! ब्राह्मणो हरिपिङ्गलः। चीरवासा विल्वखण्डो दीर्घश्मश्रुः कृशो महान्। दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि। सर्वान् सञ्चरते लोकान् ये दिव्या ये च मानुषाः। इमां गाथां गायमानश्चरत्वरेषु सभासु च। दुर्वाससं वासयेत् को ब्राह्मणं सत्कृतं गृहे। रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते। परिभाषाञ्च मे श्रुत्वा कोऽनुदद्यात् प्रतिश्रयम्। यो मां कश्चिद्वासयीत न स मां कोपये दिति। यस्मान्निद्रायते कश्चित्ततोऽहं समवासयम्। स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा। एकदास्माल्पक भुङ्क्ते न चैवेति पुनर्गृहान्। अकस्माच्च प्रहसति तथाऽकस्मात् प्ररोदिति। न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा। अथ स्वावसथं गत्वा स शय्यास्तरणानि च। कन्याश्चालङ्कृता दग्धा ततो व्यपगतः पुनः। अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः। कृष्ण! पायसमिच्छामि भोक्तुमित्येव सत्वरः। तदैव तु मया तस्य चित्तज्ञेन गृहे जनः। सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा। भवन्तु सत्कृतानीह पूर्वमेव प्रचोदितः। तदोऽहं जायमानं वै पायस प्रत्यवेदयम्। तं भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत्। क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह। अविमृष्यैव च ततः कृतवानस्मि तत्तथा। तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यम्रक्षयम्। स ददर्श तदाम्यासे मातरन्ते शुभाननाम्। तामपि स्मयमानः स पायसेनाभ्यलेपयेत्। मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्। तमारुह्य रथञ्चैव निर्ययौ च गृहान्- मम। अग्निवर्णोज्वलन् धीमान् स द्विजो रथधूर्य्यवत्। प्रतोदेनातुदद्वालां रुक्मिणीं मम पश्यतः। न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा। तथा स राजमार्गेण महता निर्ययौ बहिः। तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः। तथाऽजल्पन् मिथः केचित् समाभाष्य परस्परम्। व्राह्मणा एव जायेरन् नान्यो वर्णः कथञ्चन। को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह। आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः। ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः। तस्मिन् व्रजति दुर्द्धर्षे प्रास्खलद्रुक्मिणी पथि। तत्रामर्षयत श्रीमांस्ततस्तूर्णमचोदयत्। ततः परमसंक्रुद्धो रथात् प्रस्कन्द्य सद्विजः। पदातिरुत्पर्थेनैव प्राद्रवद्दक्षिणामुखः। तमुत्पथेन धावन्तमन्वघावं द्विजोत्तमम्। तथैव पयसा दिग्धः प्रसीद भगवन्निति। ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह। जितः क्रोधस्त्वया कृष्ण! प्रकृत्यैव महाभुज!। न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत!। प्रीतोऽस्मि तव गोविन्द! वृणु कामान् यथेप्सितान्”।
दुर्विगाह = त्रि० दुर् + वि + गाह–कर्मणि खल्। १ दुःखेन गाहनीये २ धृतराष्ट्रपुत्रभेदे पु० “दुर्मदोदुर्विगाहश्च विवित्सुर्विकटाननः” भा० आ० ११७ अ०।
दुर्विदग्ध = त्रि० दुष्टो बिदग्धः प्रा० स०। गर्विते “अलीकवेगदुर्विदग्धं गरुत्मन्तम्” काद०।
दुर्विदत्र = त्रि० विद–लाभे विद–ज्ञाने वा बा० अत्र विदत्रं लभ्यं धनं ज्ञानं वा ततः प्रा० ब०। १ दुर्धनके २ दुर्ज्ञानके च “आ रे मन्युं दुर्विदत्रस्य धीमहि” ऋ० १०। ३५। ४। “दुर्विदत्रा निरृतिर्न” ऋ० १०। ३६। २।
दुर्विध = त्रि० दुस्था विधाऽस्य प्रा० ब०। दरिद्रे अमरः। (दमयन्तीक्षणे) “अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्भदुर्विधम्” नैष० “विविनक्ति न बुद्धिदुर्विधः” माघः। २ खले मेदि० ३ मूर्खे शब्दर०। “शास्त्रेष्वन्येषु कुवियो विद्यमानेषु दुर्विधाः। बुद्धिमान्वीक्षिकीं प्राप्य निरर्थान् प्रवदन्ति ते” रामा० २। १०९। २
दुर्विनय = पु० दुर् + वि + नी–भावे अच्। विनयराहित्ये। दुर् + वि + नी–क्तिन्। दुर्विनीति तत्रार्थे स्त्री
दुर्विनीत = त्रि० दुर + वि + नी–कर्त्तरि क्त। १ विनयाकर्तरि विनयशून्ये २ अशिक्षिताश्वे पुंस्त्री० हेमच० स्त्रियां जातित्वात् ङीष्।
दुर्विमोचन = त्रि० दुःखेन विमोचनं यस्य। १ दुःखेन मोचनीये २ धृतराष्ट्रपुत्रभेदे पु० “चित्रवाहुश्चित्रवर्मा सुवर्मा दुर्विमोचनः” भा० आ० ११७ अ०। तत्पुत्रोक्तौ तु ६७ अ०। दुर्विरोचन इति पाठान्तरम्। सोऽपि तत्पुत्रभेदे
दुर्विवाह = पु० निन्दितो विवाहः प्रा० स०। ब्राह्म्यादिचतुष्कभिन्नेषु आसुरादिषु चतुर्षु विवाहेषु ब्राह्म्यादीनष्टौ विवाहानुक्त्वा मनुनोक्तं यथा
“ब्राह्म्यादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः। ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः। रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः। पर्य्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः। इतरेषु तु शिष्टेषु नृशंसानृतवादिनः। जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः। अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा। निन्दितै र्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत्”
दुर्विष = पु० दुः स्थितो विषोऽस्य प्रा० ब०। विषकृतविकारशून्ये शिवे “दुर्द्धर्षो दुष्प्रकाशश्च दुर्विषो दुर्जयोऽजयः” भा० शा० २८६ अ० शिवनामोक्तौ। तस्यामृतमन्थनकाले विषपानेऽपि तत्कृतविकारराहित्यात् विषविकारस्य तं प्रति दुःस्थितत्वात्तस्य तथात्वम्। दुष्टो विषो वा पेयत्वे नास्त्यस्य अच् वा। दुष्टविषपानाद्वा तस्य तथात्वम्।
दुर्विषह = त्रि० दुःखेन विषह्यतेऽसौ दुर् + वि + सह–कर्मणि खल्। १ सोदुमशक्ये दुःखेन सहनीये “सैषा दुर्विषहा माया देवैरपि दुरासदा” हरिवं० ४६ अ० २ शिवे पु० “दुर्वारणो दुर्विषहोदुस्सहोदुरतिक्रमः” भा० शा० २८६ अ०। ३ धृतराष्ट्रपुत्रभेदे “दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः” भा० आ० १८६ अ० तत्पुत्रोक्तौ
दुर्वृत्त = न० दुष्टं वृत्तम् प्रा० स०। १ निन्दिते आचरणे “दुर्वृत्तं धार्त्तराष्ट्राणामुक्तवान् भगवानृषिः” भा० आ० १ अ० दुःस्थं वृत्तमस्य प्रा० ब०। २ दुर्जने “दुर्वृत्तवृत्तशमनं तव देवि! शीलम्” देवीमा० “चाटुतस्कर दुर्वृत्तमहासाहसिकादिभिः” याज्ञ०
दुर्वेद = त्रि० दुःखेन विद्यते लभ्यतेऽसौ दुर् + विद + लाभे–कर्मणि खल्। १ लब्धुमशक्ये दुःखेन लभ्ये “ये एव के च मारुत्यौ स्यातां दुर्वेदे एव वशा पृश्निर्यदि वशां पृश्नि” न विन्देदपि” शत० ब्रा० ५। १। ३। ३ दुरुत्सन्नो वेदोऽस्य प्रा० व०। २ वेदपाठरहिते च। “दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा। ब्राह्मणा नावमन्तव्या भस्माच्छन्ना इवाग्नयः” भा० व० १९९ अ०
दुर्व्यवहार = पु० दुर्दृष्टो व्यवहारः प्रा० स०। दुर्दृष्टशब्ददर्शिते रागलोभादिनाऽसङ्म्यनिर्णीते व्यवहारे तच्छब्दे दृश्यम्।
दुर्व्रजित = न० गर्हितं व्रजितम् प्रा० स०। निन्दितगतौ “दुर्व्याहृताच्छङ्कमाना दुःस्थिता दुरवेक्षितात्। दुरासिताद् दुर्व्रजितादिङ्गिताध्यासितादपि” भा० व० २३२ अ०
दुर्ह(ण)न = त्रि० दुःखेनाहन्यतेऽसौ दुर् + हन–कर्मणि खल्। हन्तमशक्ये दुःखेन हन्तव्ये “प्रकल्प्स्यति च तस्यार्थो निकुम्भे दुर्हने हते” भट्टिः वेदे तु णत्वम्। “मो षु णः परापरा निरृतिर्दुर्हणा बधीत्” ऋ० १। ३८। ६ “त्वं नो अस्या इन्द्र! दुर्हणायाः” ऋ०१। १२१। १४
दुर्हणायु = त्रि० दुष्टं हननमिच्छति क्यच् दुर्हणाय–उन् वेदे णत्वम्। दुष्टहननेच्छौ “स्त्रियं यद्दुर्हणायुवम्” ऋ०४। ३०। ८। “दुर्हणायुवं दुष्टहननमिच्छन्तीम्” भा० छान्दस उवङ्।
दुर्हणु = त्रि० दुःस्थो हनुरस्य प्रा० ब० दुर् + हन–उन् वा, वेदे णत्वम्। १ दुःखेन हननीये २ दुष्टहनुयुक्ते च “तदा रमस्व दुर्हणो!” ऋ० १०। १५५। ३। लोके तु दुर्हनु इत्येव दुष्टहनुके त्रि०।
दुर्हल(लि) = त्रि० दुष्टो हलिरस्य वा अच्समा०। दुष्टहलियुक्ते
दुर्हित = त्रि० निन्दितो हितः प्रा० स०। विरोधिलक्षणया शत्रौ “न दुर्हितः स्यादग्रे न पापया” ऋ० ८। १९। २६
दुर्हुत = न० निन्दितं हुतम् प्रा० स०। अफलजनके होमे “सदैव याचमानेषु तथा दम्भान्वितेषु च। एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम्” भा० शा० १८ अ०
दुर्हृणायु = त्रि० दुष्टं हृणीयते क्रुध्यति लज्जते वा दुर् + हृणी + क्रोधे लज्जायाञ्च कण्ड्वा० यक् तत उन् अल्लोपयलोपौ पृषो० वर्णव्यत्यासे ईकारस्याकारः, मृगय्वा० वा नि०। १ दुष्टक्रोधने २ दुष्टं लज्जमाने च। “दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति” ऋ० ७। ५९। ८ “दुर्हृणायुरशोभनं क्रुध्यन्” भा० “ऋतस्य शिमीवतो भामिनो दुर्हृणायून्” ऋ० १। ८४। १६
दुर्हृत् = त्रि० दुस्थं हृदयमस्य प्रा० ब० “सुहृद्दुर्हृदौ मित्रामित्रयोः” पा० निपा०। १ अमित्रे शत्रौ। दुःस्थितं हृदस्य प्रा० ब०। २ दुःस्थितहृदये त्रि० “अश्मसारमयं नूनं हृदयं मम दुर्हृदः” भा० व० ११२ अ०। तस्य भावः युवा० अण् द्विपदवृद्धिः दौहार्द्द दुष्टान्तःकरणत्वे शत्रुत्वे च न०।
दुर्हृदय = त्रि० दुःस्थं हृदयमस्य प्रा० ब० अशत्रुत्वेन न निपा०। १ दुष्टान्तःकरणयुक्ते। दुष्टं हृदयम् प्रा० स०। २ दुष्टे मनसि न०।
दुल = उत्क्षेपे (दोलान) चुरा० उभ० सक० सेट्। दोलयति ते अदूदुलत्। “नारी पदद्वयं स्थाप्य कान्तस्योरुद्वयोपरि। कटिं चेद्दोलयेदाशु बन्धः कन्दर्पशृङ्खलः” रतिमञ्जरी “आन्दोलत् क दोलने” कविकल्पद्रुमः। अस्य वा चुरारत्वमपि। दुल–कि “दुलिः अम्बादुली नितत्नीरभ्रयन्ती” तैत्ति० ४। ४। ५। १ दुलीति उत्क्षिपन्तीत्यर्थः।
दुलि = पु० दुल–कि। १ मुनिभेदे शब्दार्थचि०। २ कच्छषस्त्रियां स्त्री वा ङीष्। ३ उत्क्षेपके त्रि०।
दुलिदुह = पु० दिलीपनृपपितरि अनमित्रसुते “अनमित्र सुतो राजा विद्वान् दुलिदुहोऽभवत्। दीलिपस्तनयस्तस्य रामस्य प्रपितामहः” हरिवं० १५ अ०
दुल्लल = त्रि० दु + क्विप् दुतं ललति लल–अच्। रोमशे शब्दार्थचि०।
दुवस् = परिचरणे उपतापे च कण्ड्वा० नाम० यक् पर० सक० सेट्। दुवस्यति अदुवस्यीत् “अनेहसः स्तुभ इन्द्रो दुवस्यति” ऋ० ३। ५१। ३ “याभिर्वित्तजानिं दुवस्यथः” ऋ० १। ११२। १५ “समिद्भिरग्निं नमसा दुवस्यन्” ऋ०३१। १। २
दुवस् = न० दुवस् परिचरणे कण्ड्वा० दुवस्य–क्विप् अल्लोपयलोपौ। १ हविषि २ परिचरणे च “ऐभिरग्ने दुवोगिरोविश्वेभिः” ऋ०१। १४। ८ “दुवः परिचर्य्याम्”। दुव इच्छति क्यच् वा अनङि दुवन्यति “स त्वा भरिषो गरिषो दुवन्यसम्” ऋ०४। ४०२। दुवः परिचरणमिच्छन्तः दुवन्याः तत्र सीदति दुवन्यसम्” भा० कर्मणि ल्युट् अनङमावे पक्षे अल्लोपयलोपौ दुवसन परिचरणीये “श्येनासो न दुवसनासः” ऋ०४। ६। १० “दुवसनासः परिचरणीयाः” भा०
दुवस्य = त्रि० नाम० दुवस्य–शक्यार्थे यत् अल्लोपयलोपौ। “परिचर्य्यार्हे “आ यद्दुवस्याद्दुवसे न कारुः” ऋ० १। १६५। १४। “दुवस्यात् परिचर्य्यार्हात् दुवसे परिचरणाय” भा०
दुवस्यु = त्रि० दुवः परिचरणमिच्छति क्यच् “क्याच्छन्दसि पा० उन्। परिचरणेच्छायुक्ते “गोस्तूतूर्षति पर्यग्रं दुवस्युः” ऋ० १०। १००। १२ वेदे क्वचिदस्य स्त्रियामुवङ्। “स न ईलानया मह देवा अग्ने दुवस्युवा” ऋ० ८। १०२। २
दुवस्वत् = त्रि० दुवोहविः परिचरण वास्त्यस्य मतुप् मस्य वः सान्तत्वान् न पदकार्यम्। १ हविर्युक्ते २ परिचरणयुक्ते च “अवस्युरसि दुवस्वान्” यजु० ५। ३२ “सोमनेत्रेभ्यो देवेभ्य उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा” ९। ३५ “दुवस्वाञ्छम्भूर्मे” १८। ४
दुवोयु = त्रि० दुवः परिचर्यामिच्छति क्यचि वेदे वा पदकार्यम् उन्। परिचरणेच्छौ। “स तु श्रुधि श्रुत्या यो दुवोयुः” ऋ०६। ३६। ५। “दुवोयुरस्मदीयं परिचरणमात्मन इच्छन्” भा० पक्षे दुवस्यु तत्रार्थे
दुश्चर = त्रि० दुःखेन चर्यते दुर् + चर–कर्मणि खल्। चरितुमशक्ये १ दुःखेन चरणीये “चरतः किल दुश्चरं तपः” रघुः “स्थाने तपो दुश्चरमेतदर्थम्” कुमा० “अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम्” मनुः। दुःखेन दुष्टं वा चरति चर् + अच्। १ शम्बुके हारा० २ भल्लूके पुंस्त्री० राजनि०।
दुश्चरित = न० दुष्टं चरितम् प्रा० स०। १ दुष्कृते पापे “इहदुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा। प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम्”। “यथा महाह्रदं प्राप्य क्षिप्तं” लोष्ट्रं निमज्जति। तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति” मनुः। दुःखेन चरितम्। २ कृच्छ्रेण कृते त्रि० दुस्थं चरितं यस्य प्रा० ब०। ३ तद्युक्ते त्रि०।
दुश्चर्मन् = पु० दुःस्थितं चर्म यत्र प्रा० ७ ब०। १ स्वभावतोऽनावृतमेढ्रे रोगभेदे। “हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः” याज्ञ०। २ कोठरोगे राजनि०।
दुश्चारित्र = न० चरित्रमेवं स्वार्थे अण् चारित्रं दुष्टं चारित्रम् प्रा० स०। दुष्टे चरित्रे पापे। दुःस्थितं चारित्रमस्य प्रा० ब०। १ दुष्टचरित्रयुक्ते त्रि० “शूद्रो राजन्! भवति ब्रह्मवन्धुर्दुश्चारित्रोयश्च धर्मादपेतः” भा० शा० ६३ अ०।
दुश्चिकित्स्य = त्रि० दुर् + कित–स्वार्थे सन् कर्मणि यत्। दुःखेन चिकित्सनीये प्रतिकार्ये रोगे। सुश्रुतोक्ताः ते च रोगा अवारणीयशब्दे ४४९ पृ० दर्शिताः।
दुश्चिक्य = न० लग्नात् तृतीये राशौ “त्रित्रिकोणञ्च नवर्घ दुश्चिक्यं स्यात् तृतीयकम्” ज्यो० त०
दश्च्यवन = पु० दुःसहं च्यवनं चालनमस्य दुःसहश्च्यवनः शिवो येन वा प्रा० ब०, दुर् + च्यु–ल्यु, “छन्दसि गत्यर्थेभ्यः” पा० युच् वा। इन्द्रे अमरः “युत्कारेण दुश्च्यवनेन धृष्णुना” ऋ० १०। १०२। २ “दुश्च्यवनेनान्यैरविचाल्येन” भा० बहुकालानन्तर स्वस्थानात् पतनात् तस्य तथात्वम्। एकैकमन्वन्तरे हि चतुर्दश इन्द्रा भवन्तीति एकसप्ततिमहायुगस्य मन्वन्तरकालस्य चतुर्दशोभागः किञ्चिदधिकपञ्चसहस्रयुगात्मकस्तत्कालस्ततोऽनन्तरं तस्य पतनात् तथात्वम्। चतुर्दश इन्द्राश्च कल्पभेदेन भिन्ननामानः इन्द्रशब्दे ९४५ पृ० दर्शिताः। च्यवनेन शिवेनाभिभूतत्वात् तस्य तथात्वम् “असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः। सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्” भा० अनु० १६० अ० “बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत् प्रभुः” मल्लिनाथधृतपुराणम्।
दुश्च्याव = त्रि० दुःखेन च्याव्यतेऽसौ दुर् + च्यु–णिच् कर्मणि खल्। १ दुःखेन च्यावनीये। २ महादेवे पु० “दुश्च्यावश्च्यवनो जेता हन्ता ब्रह्मद्विषां हरः” भा० क० ३४ अ०
दु(दुः)श्श्रव = न० दुःखेन श्रूयतेऽसौ दुर् + श्रु–खल् वा रेफस्य श्चुत्वम्। श्रुतिदुःखावहे परुषवर्णयुक्ते काव्यदोषभेदे “दुःश्रवं त्रिविधाश्लीलानुचितार्थप्रयुक्तता” इत्युपक्रमे परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वमिति सा० द० लक्षयित्वा यथा “कार्त्तार्थं यातु तत्वङ्गी” इत्युदाहृतम्। तस्य चापरनाम श्रुतिकटुरिति चन्द्रालोके उक्तम् “भवेच्छ्रुतिकटुर्वर्णः श्रवणीद्वेजने पदुः”। अत्र स्वघटकवर्णस्यैव परुषत्वेन तद्घटितकाव्यस्य तथात्वं “पदे पदांशे वाक्येऽर्थे सम्भवन्ति रसेऽपि ते” सा० द० सामान्यतो दोषाणां पञ्चधोत्कीर्त्तनेऽपि श्रुतिकटुदोषस्य पदतदंशवाक्येष्वेव सम्भवः इत्येव विशेषः।
दुष = वैकृते दिवा० पर० अक० अनिट्। दुष्यति इरित् अदुषत् अदुक्षत् दुदोष दोष्टा दोक्ष्यति। “श्मशानेष्वपि तेजर्स्व पावको नैव दुष्यति” मनुः। “मेदं प्रजापते रेतोऽदुषत्” ऐत० ब्रा० ३। ३३ “राङ्कवे पट्टसूत्रे च सूचीविद्धं न दुष्यति” स्मृतिः। वैकृतञ्च यस्य यथास्वरूपं तद्वैपरीत्ये, यथा हेतोः साध्यानुमापकत्वं तद्वैपरीत्ये दुष्टत्वम् अशुद्धत्थञ्च। यथा मलादिना वस्त्रादेरशुद्धत्वम्। अशुद्धिश्च स्वरूपतः यथा मालिन्यादिना, शास्त्रविध्युल्लङ्घने दुरदृष्टजनकत्वेन वा। यथा नीलीवस्त्रादिधारणादेः शास्त्रनिषिद्धत्वात् तद्धारणे दुरदृष्टोत्पत्तेः तस्य दुष्टत्वम्। एवमन्यत्राप्युह्यम् “दुषधातोरिवास्माकं दोषसम्पत्तये गुणः” उद्भटः दोषः। दुष्टः। “अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः” पञ्चर० दोषी। णिचि। दूषयति चित्तविकारे तु दोषयति दूषयति वा चित्तम्। “न च किञ्चिदेवांशं काव्यस्य दूषयन्तः श्रुतिकट्वादयो दोषाः, किं तर्हि सर्वमेव काव्यम्” सा० द०। “दोषोविचारसुलभो यदि दूष्यते तद् व्याख्या मम प्रथममेव न दूषणीया” काव्यप्र० व्या० महेश्वरः “यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः” भा० स० ६२ अ० “यथा क्रतुषु विप्राणां सोमपानं न दूषितम्” कुला- र्णवतन्त्रम्। दूषयन् दूषणीयः दूषितः दूषयित्वा संदूष्य। उपसर्गपूर्वकः तत्तदुपसर्गद्योत्यार्थयुक्तविकारे
दुष्कर = त्रि० दुःखेन क्रियते दुर् + कृ–कर्मणि खल्। कर्त्तुमशक्ये १ दुःखेन करणीये “अपि यत् सुकरं कर्म तदप्येकेन दुष्करम्” मनुः “मुग्धे! दुष्करमेतदित्यतितरा मुक्त्वा सहासं बलात्” अमरुश०। २ आकाशे न० शब्दार्थकल्पतरुः तस्याजन्यत्वेन द्रुष्करत्वात्। भावे खल्। ३ दुःखेन करणे न०।
दुष्कर्मन् = न० दुष्टं कर्म प्रा० स०। १ पापे। दुष्कर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः” भा० उ० १२ अ० “दुष्कर्मजानृणां रोगा यान्ति चैव क्रसात् शमम्। जपैः सुरार्चनैर्होमैर्दानैस्तेषां क्षयोभवेत्” शातातपः। दुःस्थितं कर्मास्य प्रा० ब०। २ पापकर्मकारके त्रि० “ततो वसति दुष्कर्मा नरके शाश्वतीः समाः” भा० उ० १३१ अ०।
दुष्काल = पु० दुष्टः कालः प्रा० स०। निन्दिते काले। यस्य यः कालोविहितस्तस्य ततो वैलक्षण्ये कालस्य दुष्टता २ प्रलये च। दुःसहो कालः कलनमस्य प्रा० ब०। ३ शिवे “अकालश्चातिकालश्च दुष्कालः कालएव च” भा० शा० २८६ अ० शिवनामोक्तौ।
दुष्कुल = न० दुष्टं कुलम् प्रा० स०। १ निन्दिते कुले “अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि” मनुः। दुःस्थं कुलमस्य प्रा० ब०। २ निन्दितकुलजाते त्रि० “मदमूर्खताभिमाना दुष्कुलतैश्वर्यसंयुक्ताः” सा० द० दुष्कुले भवः पक्षे ख। दुष्कुलीन, ढक् दौष्कुलेय निन्द्यकुलभवे त्रि०
दुष्कृत = न० दुष्टं कृतम् प्रा० स०। १ पापे “दातुर्यत् दुष्कृतं किञ्चित् तत्सर्वं प्रतिपद्यते। निपानकर्त्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते” मनुः २ तज्जनके कर्मणि च “यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति” मनुः तदस्यास्ति इनि। दुष्कृतिन् तद्युक्ते “पुनःपुनर्दुष्कृतिनं निनिन्द” रघुः।
दुष्कृति = त्रि० दुस्था कृतिरस्य प्रा० ब०। दुष्कर्मकारके “पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम्” मनुः प्रा० स०। २ पापे स्त्री
दुष्क्रीत = त्रि० दुष्टं क्रीतम् प्रा० स०। रूपसंख्यादिकमपरीक्ष्य क्रीते क्रीतानुशयशब्दे दृश्यम् “क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी” नारदः।
दुष्खदिर = पु० दुष्टः खदिरः प्रा० स०। कालस्कन्दे क्षुद्रखदिरभेदे अमरः।
दुष्ट = त्रि० दुष–क्त। १ दुर्बले २ अधमे विश्वः। ३ दोषाश्रिते च दोषशब्दे वक्ष्यमाणव्यभिचारादीनामन्यतमयुक्ते ४ हेतौ। ५ पित्तादिदोषयुक्ते ज्ञानकारणे नेत्रादौ यथा कथञ्चित् ६ दोषयुक्ते च त्रि० ७ कुष्ठे न० (कुड) ख्याते शब्दच०। “त्याज्यो दुष्टः प्रियोऽप्यासीत्” रघुः “दुष्टः शब्दः स्वरतो वर्णतो वा” महाभाष्यधृता श्रुतिः।
दुष्टचारिन् = त्रि० दुष्टं चरति चर–णिनि। दोषयुक्तकर्म कारिणि “अथ यत्रैनमासीनं शङ्केरन् दुष्टचारिणः” भा० वि० ४ अ०।
दुष्टगज = पु० नित्यकर्म०। गम्भीरवेदिनि गजे हेमच०।
दुष्टनु = त्रि० दुस्था तनुरस्य प्रा० ब० वेदे षत्वम्। दुस्थदेह युक्ते “क्षुधा किल त्वा दुष्टनो! जक्षिवान्त्स न रूरुपः” अथ० ४। ७। ३ लोके तु दुस्तनु इत्येव तत्रार्थे
दुष्टयोग = पु० कर्म०। १ वैधृतिव्यतीपातादि योगे तस्य स्नानदानाद्यतिरिक्तकर्मसु वर्ज्यत्वमशुभसूचकत्वञ्च सू० सि० नानास्थाने उक्तं यथा
“तुल्यांशुजालसम्पर्कात् तयीस्तु प्रवहाहतः। तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते। विनाशयति पातोऽस्मिन् लोकानामसकृद् यतः। व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः। स कृष्णो दारुण्वपुर्लोहिताक्षो महोदरः। सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते। आद्यन्तकालयोर्मध्यः कालोज्ञेयोऽतिदारुणः। प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः। एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम्। सम्भवस्तावदेवास्य सर्वकर्सविनाशकृत्। व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा। एतद् भसन्घित्रितयं सर्वकर्मसु वर्जयेत् २ अरिष्टसूचके गोचरविलग्नादिस्थग्रहयोगभेदे च
दुष्ट(स्त)र = त्रि० दुःखेन तीर्यतेऽसौ कर्मणि खल् वेदे मुषामादेराकृतिगणत्वात् षत्वम्। “चर्कृत्यं मरुतः पत्सु दुष्टरम्” ऋ० १। ५४। १४ लोके तु न षत्वम् “तितीर्षुर्दुस्तरं मोहादुडपेनास्मि सागरम्” रघुः।
दुष्टरक्तदृक् = त्रि० दुष्टा रक्ता च दृगस्य। पित्तादिदोषजरक्त नेत्रके। “दीक्षितः स्त्रीपसङ्गेन जायते दुष्टरक्तदृक्” शातातपेन तत्कर्मपाक उक्तः।
दुष्टरीतु = पु० दुर् + तॄ–तुन् वेदे इट् दीर्घश्च षत्वम्। दुःखेन तरणीयेऽहिंस्ये “तुविग्रये वह्नये दुष्टरीतवे” ऋ०२। २१। २। लोके तु दुस्तर्तु इत्येव।
दुष्टवृष = पु० कर्म०। शक्तत्वेऽपि अधुर्वहे वृषे (गडिया) ख्याते हेमच०।
दुष्टव्रण = पु० नित्यक०। अचिकित्सनीये व्रणभेदे द्विव्रणीयशब्दे दृश्यम्।
दुष्टसाक्षिन् = पु० कर्म०। नारदाद्युक्ते असाक्षित्वप्रयोजकदोष युक्ते साक्षिणि। साक्षिणोदोषाश्च नारदेनोक्ताः यथा “यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते। स्थानात् स्थानान्तरं गच्छेदेकैकञ्चानुधावति। कासत्यकस्माच्च भृशमभीक्ष्णं निःश्वसित्यपि। विलिखत्यवनीं पद्भ्याम्बाहू वासश्च धूनयेत्। भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा। शोषमागच्छतश्चोष्ठाबूर्द्ध्वं तिर्यङ्गिरीक्षते। त्वरमाण इवाबद्धमपृष्टो बहु भाषते। कूटसाक्षी स विज्ञेयस्तं वापं विनयेद्भृशम्”। अबद्धमसम्बद्धम्। विनयेच्छिक्षयेद् यथा कौटसाक्ष्याद्बिभेतीत्यर्थः। न तु दण्डयेदित्यर्थः। प्राकृतवैकृतिकविकारविवेकस्य दुःशक्यत्वात् सम्भावनामात्रेण च दण्डनस्यान्याय्यत्वादिति मिता० उक्तम्। मदनरत्ने त्वाविद्धमिति पठित्वा आकुलमिति व्याख्यातम्। शङ्खलिखितावपि “मन्त्रिभिः शास्त्रसामर्थ्याद्दुष्टलक्षणं ग्राह्यन्तिर्यक्प्रेक्षते समन्तादेवावलोकयति। अकस्मान्मूत्रं पुरीषं विसृजति देशाद्देशं गच्छति पाणिना पाणिं पीडयति नखान्निकृन्तति मुखमस्य विवर्णतामेति प्रस्विद्यति चास्य ललाटन्न चक्षुर्न्न च वाचं प्रतिपूजयत्यकस्माद्ददाति, प्रशंसति पुनः पुनरन्यमपवदति बहिर्निरीक्षते शस्त्रं परामृशति शिरः प्रकम्पयत्यीष्ठौ निर्भुजति सृक्कणी परिलेढि अतिविस्मितः कर्मस्वमहत्स्वपि भ्रुबौ संहरति तुष्णीं ध्यायति पूर्वोत्तरविरुद्धं व्याहरति एव मादिदुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशीलादिति” अकस्मादिति तूष्णीमिति च यथायोगमनेकत्र सम्बन्धनीयम्। अन्यत्र प्रकृतिशीलादिति। प्रकृत्या खभावात् शीलन्तिर्यक्प्रेक्षणादिधर्मो यस्य स तथोक्तस्ततोऽन्यत्रैतानि दुष्टक्रुद्धलक्षणानि, एते अवान्तरवैलक्षण्यस्य दुर्ज्ञेयत्वादित्यवधानेन परीक्ष्य वस्तुतत्त्वानुसरणङ्करणीयमिति सूचितम्” वीरमि मुनिवाक्ये अन्येऽपि साक्षिदोषा असाक्षिलक्षणोक्त्या वीरमि० भङ्ग्यादर्शिता यथा मनुः “नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः। न दृष्टदोषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः। न साक्षी नृपतिः कार्य्यो न कारुककुशीलवौ। न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः। आध्यधीनी न वक्तव्यो न दस्युर्न विकर्मकृत्। न वृद्धो न शिशुर्नैको नाप्तो न विकलेन्द्रियः। नार्त्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः। न श्रमार्त्तो न कामार्त्तो न क्रुद्धो नुपि तस्करः” इति। अत्र सर्वैर्विशेषणैरसत्यसम्भावना विस्मरणादिकमसाक्ष्यनिमित्तमुपलक्ष्यते। अतएव वृद्ध विकलेन्द्रियविकर्म्मकृत्तस्करादीनां गोवृषन्यायेन पुनरुपादानम्। अत्र बहवः शब्दाः स्पष्टार्थाः। अन्ये मेधातिथ्यनुसारेण विव्रियन्ते। अर्थसम्बन्धिन उत्तमर्णाधमर्णाद्याः उत्तमर्णोह्यधमर्णवचनेन पराजीयमान स्तदानीमेव रोधाविष्टोऽधमर्णादृणं प्रत्यादातुं प्रयतेतेति तच्चित्तानुवृत्तिरधमर्णस्य तदनुगुणकौटसाक्ष्यहेतुत्वेन संभाव्यते। उत्तमर्णो निर्धनेऽधमर्णे स्वसाक्षितया घनं प्राप्य स्वस्मै तदर्पयिष्यतीति बुद्ध्या तदनुगुणवादी सम्भाव्यते। तथार्थः प्रयोजनन्तत्सम्बन्धिनोर्वादिप्रतिवादिनोरन्यतरस्माद् येषां स्वप्रयोजनं सिसाधयिषितन्तेऽप्युपकारगन्धान्न साक्ष्यार्हा इत्यादि। सर्ठत्र कौटसाक्ष्यसम्भावनोन्नेया। दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः। व्याध्यार्त्ता वचनविसंवादापादकव्याधिपीडावन्तः। दूषिता अभिशस्ताः। नृपतेरसाक्षित्वमकृताभिपायेणातो न प्राक्तननारदोक्ति विरोधः। लिङ्गस्थोऽपत्यादिः। सङ्गेभ्यो विनिर्गतः परित्यक्तः पित्रादिगुरुजनसंसर्गात् वृद्धानुपसेवनादस्याऽसत्यसम्भावना। आध्यधीनो बन्धकीकृतः तस्य तदाज्ञावशवर्त्तित्वात्। वक्तव्यो निन्दास्पदम् विकर्मकृत् अधर्माभीरुः। वृद्धविकलेन्द्रिययोर्वार्द्धकस्वभावहेतुकेन्द्रियवैकल्येन भेदः। आर्त्तः शोकेन। नारदोऽपि “दासनैःकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः। मत्तोन्मत्तप्रमत्तार्त्त कितवग्रामयाजकाः। महापथिकसामुद्रबणिक्प्रव्रजितातुराः। व्यङ्गैकश्रोत्रियाचारहीनक्लीवकुशीलवाः। नास्तिकव्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः। एकस्थालीसहायारिचरज्ञातिसनाभयः। प्राग्दृष्टदोषशैलूषविषजीव्यहितुण्डिकाः। गरदाग्निदकीनाशशूद्रापुत्त्रोपपातिनः। क्लान्तसाहसिकश्रान्तनिर्धूताग्न्यवसायिनः। भिन्नवृत्तासमावृत्तजडतैलिकमूलिकाः। भूताविष्टनृपद्विष्टवर्षनक्षत्र सूचकाः। अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः। कुनखी श्यावदन् श्वित्री मित्रध्रुक्शठशौण्डिकाः। ऐन्द्रजालिकलुब्धोग्रश्रेणी गणबिरोधिनः। वधकृच्चित्रकृत् शङ्खी पतितः कूटकारकः। कुहकः प्रत्यवसितस्तस्करो राजपूरुषः। मनुष्यपशुमांसास्थिमघुक्षीराम्बुसर्पिषाम्। विक्रेता व्राह्मणश्चैव द्विजो वार्धुषिकश्च यः। च्युतः स्वघर्मात्कुलिकः सूचको हीनसेवकः। पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः। श्रेण्यादिषु तु वर्गेषु कश्चिश्चेद्द्वेष्यतामियात्। तस्य तेभ्यो न साक्ष्यं स्याद्द्वेष्टारः सर्व एव ते”। नैकृतिकः परापकारशीलः। चाक्रिकस्तैलिकः। प्रमत्तः सदाऽनवहितः। महापथिको महापथगामी। सामुद्रबणिग्वहित्रवाही। एकः श्रीत्रियो द्वयोरननुमतः। एकः, श्रोत्रिय इति पृथग्वा प्रायश्चोक्तं च प्रागेव तत्। अपरार्केण तु युग्मैकेति पठित्वा युग्मौ ष्ट्वाविति व्याख्यातम्। एकस्थालीसहाय एकपाकभोजीति। सहाय्यन्यतरसाहाय्यकारी, मिश्रचण्डेश्वरौ। मदनरत्नाकरस्तु एकस्थालीः सहाय इति विशेषणद्वयं पृथक्कृत्य एकस्थाली स्थाल्यधिकरणकः पाकोलक्ष्यते। स एको यस्येत्येकस्थालीति व्याचख्यौ। समासान्तविधेरनित्यत्वादेकस्थालीत्यत्र “नद्यृतश्चेति” पा० न कप्। अर्द्धपिप्पलीत्यादिवन्न ह्रस्व इति च समादधे। अरिचरः भूतपूर्वः शत्रुः। भूतपूर्वे चरट्। कल्पतरौ त्वस्त्रधर इति पठित्वा शस्त्रधर इति व्याख्यातम्। ज्ञातयः सगोत्राः सनाभयो मातुलतत्सुतमातृष्वस्रियादयः। शैलूषः स्त्रीणां नर्तयिता। कुशीलवस्तु रङ्गापजीवी नट इति भेदः। विषजीवी विषक्रयजीवीति मदनरत्ने। विषवद्योपजीवीति रत्नाकरे। अहितुण्डिकः सर्पक्रीडोपजीवी व्यालग्राही। कीनाशः कर्कशः क्षुद्रा वा। कृपण इति तु मदनरत्न। उपपातित उपपातकीति कल्पतरुः। मदनरत्ने तूपपातक इति पठितम्। उप समीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्याख्यातञ्च। क्लान्तोऽतिखिन्नः श्रान्तोऽनवरतकर्मकारीति मदनरत्ने। अशान्त इति पठित्वाऽयीग्यकर्मकारीति रत्नाकरे। निर्धूतो वान्धवैस्त्यक्त इति मदनरत्ने। ग्रामराजकुलश्रेण्यादिभिर्निःसारित इति रत्नाकरे। मूलिकः लोकभयशून्य इति भवदेवः। मूलं विप्रलम्भस्तत्कारीति तु युक्तम्। अपरार्केण तु पौपिक इति पठित्वा पौपिकः पूपादिविक्रयीति व्याकृतम्। वर्षसूचको वर्षशकुनवेदो। नक्षत्रसूचको ज्यौतिषिकः। अथशसी परकीयपापप्रकाशकः। हीनाङ्ग उचितपरिमाणन्यूनाङ्गः। व्यङ्गस्तु छिन्नाङ्गुल्यादिरिति भेदः। भगवृत्तिर्भार्य्यादास्यादिसम्भोगशुल्कोपजीवी शङ्खी वृषभनर्त्तनजीवीति मदनरत्नरत्नाकरयोः। कुहको दाम्मिकः। प्रत्यवसितः प्रव्रज्यादिच्युतः। कुलिको राज्ञा व्यवहारपरिच्छेदकतया नियुक्तः। अस्य च साक्षित्वकरणे निषेधो, विधिस्तु कृतसाक्ष्य इति कल्पतरुः। मदनरत्ने तु कुलं व्राह्मणादिगणस्तदधिकारी कुलिक इति व्याख्यातम्। सूचको राज्ञा परदोषान्वेषणपूर्वकं स्वस्मै तन्निवेदने नियुक्तः। भेदकृन्मित्रादिप्रीतिभङ्गकर्त्ता। श्रेण्यादिष्वित्यस्यायमर्थः। येषु श्रेण्यादिषु यस्यैकोऽपि द्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छ्रेण्यादिनिविष्टाः सर्व एव न साक्षिणस्तत्र हेतुर्द्वेष्टारः सर्वएव त इति तच्छ्रेण्यान्तर्गतैकद्वेष्यनुरोधकृतवैरनिर्यातनार्थमन्यथावादित्वसम्भवात्। अतएव नारदः “बालोऽज्ञानादसत्यात् स्त्री पाप्याभ्यां स्याच्च कूटकृत्। विब्रूयाद्बान्घवः स्नेहाद्वैरनिर्यातनादरिरिति”। कात्यायनः “तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः। तद्वन्धु सुहृदो भृत्या आप्तास्ते तु न साक्षिणः। मातृष्वसुःसुताश्चैव पितृष्वसृसुतास्तथा। मातुलस्य सुताश्चैव सोदर्यसुतमातुलाः। एते सनाभयः प्रोक्ताः साक्ष्यन्तेषु न योजयेत्। कुल्याः सम्बन्धिनश्चैव विवाह्यो भगिनीपतिः। पिता बन्धुः पितृ व्यश्च श्वशुरो गुरवस्तथा”। तथा वृहस्पतिः “मातु पिता पितृव्यश्च भार्यायाभ्रातृमातुलौ। भ्राता सखा च जामाता सर्ववादेष्वसा क्षिणः। परस्त्रीपानसक्ताश्च कितवाः सर्वदूषकाः। उन्मत्तार्त्ताः साहसिका नास्तिकाश्च न साक्षिणः” इति। अत्र मातृष्वस्रादिशब्दानां सम्बन्धिशब्दत्वादर्थिप्रत्यर्थिनोरन्यतरस्य एतादृशसम्बन्धिनो न साक्षिणः सम्बन्धिनि स्नेहादन्यत्र वैरसम्भवादिति ध्येयम्। शङ्खलिक्षितौ “शुल्कगुल्माधिकृतौ दूतो वेष्टितशिराः स्त्रियोगुरुकुलवासिनः परिव्राजकवानप्रस्थनिर्ग्रन्थाः शङ्खिनः व्यालग्राहिणः” इति अत्राऽसाक्षिणः इति प्रकृतम् शुल्काधिकृतः शुल्कग्रहणस्थानाधिकारी। गुल्मः स्वस्थाननिवेशितः पदातिसमूहस्तदधिकृतः। वेष्टितशिराः उद्धतवेषोमूर्द्धव्याध्यभिभूतो वा इतरे प्रसिद्धा व्याख्याततराश्च। अनेन प्रपञ्चेन लोभादिकमसाक्षित्वनिमित्तमेव व्यक्तीकृतम्। यथाह मनुः “लोभान्मोहाद्भयात् क्रोधान्मैत्र्यात्कामात्तथैव च। अज्ञानाद्बालभावाच्च साक्षी वितथ उच्यत” इति।
दुष्ठु = अव्य० दुर् + स्था–कु सुषामा० षत्वम्। १ निन्दायाम् अमरः। २ अविनीते त्रि० उणादिको० ततः उद्गात्रा० भावे अण्। दौष्ठव अविनये न०।
दुष्पतन = न० दुष्टं पतत्यनेन दुर् + पत–करणे ल्युट्। १ अपशब्दे त्रिका०। अपशब्दप्रयोगस्य दुरदृष्टजनकतया पतनहेतुत्वात् तथात्वम्। “नापभाषितवै न मेच्छितवै म्लेच्छो ह वा नाम यदपशब्दः” इत्यादिश्रुत्या हि अपशब्दप्रयो गस्य निषिद्धत्वेन तत्प्रयोगस्य पापजनकत्वं सूचितम्। भावे ल्युट्। २ दुःखेन पतने न०।
दुष्पत्र = पु० दुःसहं पत्रमस्य प्रा० ब०। चोरनामगन्धद्रव्ये अमरः
दुष्पद = त्रि० दुःखेन पद्यते दुर् + पद–कर्मणि खल्। दुःखेन प्राप्ये प्राप्तुमशक्ये “श्रुतो लि चक्रेण रथ्या दुष्पदा वृणक्” ऋ०१। ५३। ९ “दुष्पदा दुष्पदेन प्राप्तुमशक्येन चक्रेण” भा० तृतीयास्थाने छान्दस आच्।
दुष्पराजय = त्रि० दुःखेन पराजीयतेऽसौ दुर् + परा + जि कर्मणि खल्। १ जेतुमशक्ये दुःखेन जेतव्ये २ धृतराष्ट्र पुत्रभेदे पु० “उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः” भा० आ० ११७ अ० तत्पुत्रोक्तौ।
दुष्परिग्रह = त्रि० दुःखेन परिगृह्यतेऽसौ दुर् + परि + ग्रहकर्मणि खल्। १ परिग्रहीतुमशक्ये “लोकाधाराः श्रियो राज्ञां दुरापा दुष्परिग्रहाः” कामन्द०। प्रा० स०। २ निन्द्यभार्य्यायाञ्च। दुःस्थितः परिग्रहो भार्या यस्य प्रा० ब०। ३ दुष्टभार्य्यके पु०
दुष्परिहन्तु = त्रि० दुर् + परि + हन–खलर्थे तुन्। १ दुःखेन नाशयितव्ये २ दुष्परिहार्ये च “यच्छता नो दुष्परिहन्तु शर्म्म” ऋ०२। २३। ६ “दुष्परिहन्तु हन्तुमशक्यम्” भा०
दुष्पर्श = त्रि० दुर् + स्पृश–कर्मणि खल् वा विसर्गलोपः। १ दुःखेन स्पर्शनीये स्प्रष्टुमशक्ये २ दुरालभायां स्त्री अमरः तत्रार्थे पु० भरतः।
दुष्पान = त्रि० दुःखेन पीयतेऽसौ “आतो युच्” पा० खलर्थे कर्मणि युच्। दुःखेन पेये १ पातुमशक्ये। भावे युच्। २ दुःखेन पाने न०।
दुष्पुरुष = पु० प्रा० स०। निन्द्ये पुरुषे ततः ब्राह्मणा० स्वार्थे भावे कर्मणि वा ष्यञ्। दौष्पुरुष्य तदर्थे पु० तद्भावे तत्कर्मणि तु न०।
दुष्पूर = त्रि० दुर् + पूरि–कर्मणि खल्। १ पूरयितुमशक्ये दुःखेन पूरणीये। “काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः” गीता २ अनिवार्ये च “कामरूपेण कौन्तेय! दुष्पूरेणानलेन च” गीता
दुष्प्रकाश = त्रि० दुष्टः प्रकाशः प्रा० स०। विरोधिलक्षणया अन्धकारे “पापस्य लोको निरयो दुष्प्रकाशो नित्यं दुःखं शोकभूयिष्ठमेव” भा० शा० ७३ अ०।
दुष्प्रकृति = त्रि० दुःस्था प्रकृतिरस्य प्रा० ब०। १ दुष्टस्वभावे “त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकीविदः” भा० क० ४० अ०। प्रा० स०। २ निन्दायां प्रकृतौ निन्द्ये स्वभावे स्त्री
दुष्प्रजस् = त्रि० दुस्था प्रजाऽस्य असिच् समा०। १ निन्द्य प्रजायुक्ते। प्रा० स० नासिच्। दुष्प्रजा २ निन्द्यप्रजायां स्त्री
दुष्प्रज्ञान = त्रि० दुःखेन प्रज्ञायतेऽसौ दुर् + प्र + ज्ञा–खलर्थे कर्मणि युच्। १ ज्ञातुमशक्ये। दुष्टं प्रज्ञानं प्रा० स०। २ निन्द्ये ज्ञाने न० “दुष्पज्ञानेन निरयाः बहवः समुदाहृताः” भा० शा० १२७ अ०।
दुष्प्रधर्ष = त्रि० दुष्करः प्रधर्षोऽस्य प्रा० ब०। १ धर्षयितुमशक्ये दुःखेन धर्षणीये “सा दुष्प्रधर्षा मनसाऽन्यहिंस्रैः” रघुः २ दुरालभायां ३ खर्जूर्याञ्च स्त्री राजनि०। ४ धृतराष्ट्रपुत्रभेदे पु० “दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः” भा० भी० ६४ अ०। तत्र दुष्प्रहर्षश्चेति पाठान्तरम् भा० आ० ६४ अ० तत्पुत्रोक्तौ तथोक्तेः
दुष्प्रधर्षण = त्रि० दुर् + प्र + धृष–भाषायां युच्। १ दुःखेन धर्वणीये धर्षयितुमशक्ये। “विन्दानुविन्दौ दुर्द्धर्षः सुवाहुर्दुष्प्रधर्षणः” भा० आ० ६७ उक्ते २ धृतराष्ट्रपुत्रभेदे पु० ३ वार्त्ताक्याम् स्त्री अमरः गौरा० ङीष्।
दुष्प्रधर्षिणी = स्त्री दुष्प्रधर्षोऽस्त्यस्याः इनि ङीप्। १ कण्टकार्यां राजनि० २ वृहत्याम् भावप्र०।
दुष्प्रवृत्ति = स्त्री प्रा० स०। दुष्टायां प्रवृत्तौ वार्त्तायां “तेषां सूर्पनखै वैका दुष्प्रवृत्तिहराऽभवत्” रघुः।
दुष्प्रवेश = त्रि० दुष्करः प्रवेशोऽत्र प्रा० ब०। १ दुःखेन प्रवेश्ये प्रवेष्टुमशक्ये “महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम्। दुष्प्रवेशं महाराज! नरैर्धर्मबहिष्कृतैः” भा० व० १४५ अ०। २ कन्थारीवृक्षे स्त्री राजनि०।
दुष्प्रहर्ष = त्रि० दुष्करः प्रहर्षोऽस्य प्रा० ब०। १ दुष्करप्रहर्षयुक्ते २ धृतराष्ट्रपुत्रभेदे पु० दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः” भा० आ० ६७ अ०। तत्पुत्रोक्तौ
दुष्म(ष्य)न्त = पु० १ पौरवे भरतपितरि राजभेदे “उपदानवी सुतान् लेभे चतुरस्त्वैलिकात्मजान्। दुष्मन्तमथ सुष्मन्तं प्रवीरमनघं तथा। दुष्मन्तस्य तु दायादो भरतो नाम वीर्य्यवान्। स संर्वदमनो नाम नागायुतबलो महान्। चक्रवर्त्ती सुतोजज्ञे दुष्मन्तस्य महात्मनः। शकुन्तलायां भरतोयस्य नाम्ना स्थ भारताः। दुष्मन्तं प्रति राजानं बागुवाचाशरीरिणी। माता भस्त्रा पितुः पुत्रो येन जातः सएव सः। भरस्व पुत्रं दुष्मन्त! माऽवमंस्थाः शकुन्तलाम्। रेतोधां पुत्र उन्नयति नरदेव! यमक्षयात्। त्वञ्चास्य धाता गर्भस्य सत्यमाह शकुन्तला” हरिव ३२ अ०। अस्य शकुन्तलापरिवेदनकथा शकुन्तलाशब्दे दृश्या तुर्वसुवंश्यमरुत्तकन्यायां सम्मतायां संवत्तर्षेः जाते २ नृपभेदे तत्कथा हरिवं० ३२ अ०। तुर्वसुवंशवर्णने यथा “अन्वस्त्वाविक्षितो राजा मरुत्तः कथितस्तव। अनपत्योऽभवद्राजा यज्वा विपुलदक्षिणः। दुहिता सम्मता नाम तस्यासीत् पृथिवीपतेः!। दक्षिणार्थे तु सा दत्ता संवर्त्ताय महात्मने। दुष्मन्तं पौरवञ्चापि लेभे पुत्रमकल्मषम्। एवं ययातेः शापेन जरासंक्रमणे तदा। पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम!। दुष्मन्तस्य तु दायादः करुत्थामः प्रजेश्वरः”। तस्यापत्यम् इञ् दौष्मन्ति भरते करुत्थामे च नृपभेदे
दु(दुः)स्थ = त्रि० दुर् + स्था–क वा विसर्गलोपः। दुःखेन स्थिते “कल्पान्तदुःस्था वसुधा तथोहे” भट्टिः १ कुक्कुटे २ कुक्कुरे च पुंस्त्री शब्दार्थचि० स्त्रियां जातित्वात् ङीष्।
दु(दुः)स्पृष्ट = न० दुष्टं स्पृष्टम् प्रा० स० वा विसर्गलोपः। जिह्वाग्रादिना वर्णोच्चारणस्थानस्य ईषत्स्पर्शरूपे आभ्यन्तरे वर्णोच्चारणप्रयत्ने तदस्यास्ति कारणत्वेन अच्। २ तेनोच्चार्यवर्णे च “अचोऽस्पृष्टायणस्त्वीषत् नेमस्पृष्टाः शलस्तथा” “दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च” पाणिनिशिक्षा। ऌकारस्य लकारादित्वेन दुस्पृष्टत्वमिति आकरे स्थितम्।
दुह = बधे भ्वा० पर० सक० सेट्। दोहति इरित् अदोहीत् अदुहत्। दुद्रोह दुहितः।
दुह = दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्मारणे उभ० अदा० द्विक० अनिट्। दोग्धि दुग्धे दुह्यात् अधोक् अदुग्ध। अधुक्षत् अदुग्ध अधुक्षन्त अधुक्ष्मह्नि अदुह्महि दुदोह। दुदोहिथ दुदुहिव दुदुहे। दुह्यात् धोक्ष्यति ते। दोग्धव्यं दुह्यं दोह्यम्। दोग्धा द्रोहनं दुग्धम्। दोग्धुम् दुग्ध्वा संदुह्य। “यं सर्वशैलाः परिकल्प्य वत्सं मेरो स्थिते दोग्धरिंदोहदक्षे। भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्” कुमा० “यः पयो दोग्धि पाषाणम्” “पयोवटीध्रीरपि गा दुहन्ति” भट्टिः एककर्माविवक्षायाम् अस्यैककर्मकत्वमपि “दुदोह यज्ञसिद्ध्यर्थ मृग्मसुःसामलक्षणम्” मनुः “दुग्ध्वा पयः पत्रपुटे मदीयम्” रघुः। निःसारणमात्रे च “दुग्धेऽस्मै सर्वं कामं यो वाचो दोहः” छा० उ० “न कर्मफलमाप्नोति योऽधर्मं दोग्धुमिच्छति” भा० व० ११६५ श्लो० “यत्र धर्मदुघा भूमिः सर्बकासदुघा सती। दोग्धि स्माभीप्सितानर्थान् यजमानस्य सर्वदा” माग० ४। १९। ७ दुधुक्षति। अस्य गौणकर्मणि ककारादि “प्रधानकर्मण्याख्येवे त्वादी- नाहुर्द्विकर्मणाम्। अपधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः” इत्युक्तेः। “तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा” हरिवं० ८१ श्लो० अस्य कर्मकर्त्तरि गौणकर्मणः कर्तृत्वविवक्षायाम् केवलं तङ् न यक्। गौःपयो दुग्धे। वा चिण्। अदोहि अधुक्षत अदुग्ध सि० कौ०
दुहादि = पु० गौणे कर्मणि लकारविधानार्थे धातुसमूहे स च “दुह्याच्पज्दुण्ड्रुधिप्रच्छि चिब्रूशासुजिमन्थ्मुषाम्। कर्मयुक् स्यादकथितं तथा स्यात् नीहृकृष्वहाम्” व्या० कारिकायां पठितः दुहप्रभृतिः मुषपर्यन्तः धातुसंघः। अस्य कस्यापि कारकसंज्ञाऽप्राप्तौ प्रधानकर्मोपयोगिनः कर्मसंज्ञा “दुहियाचिरुधिप्रछिभिक्षिचिञासुपयोगनिमित्तमपूर्वविधौ। ब्रुविशासि गुणेन च यत् सचते तदकीर्त्तितमाचरितं कविना” महाभाष्यकृतोक्तेः।
दुहि = पु० दुह–धातुनिर्देशे इक्। दुहघातौ दुहादिशब्दे उदा०।
दुहितुःपति = पु० ६ त० षष्ठ्या वा अलुक् स०। जामातरि पक्षे लुक्। दुहितृपतिरप्यत्र।
दुहितृ = स्त्री दुह–दह वा तृच्। “नप्तृनेष्टृत्वष्टृहोतृ पोतृभ्रातृजामातृमातृपितृदुहितृ” उणा० नि०। स्वजन्यस्त्रियां स्त्रीसन्ततौ ऋदन्तत्वेऽपि स्वस्रादित्वात् न ङीप्। तृणन्तत्वाभावात् सर्वनामस्थाने परे न वृद्धिः दुहितरौ दुहितर इत्यादि प्रियादिषु पाठात् अस्मिन् शब्देपरे पूर्व्रस्थितस्य उक्त पुंस्कस्त्रीलिङ्गस्य विशेषणशब्दस्य न पुंवत् जातादुहितृकः। “मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वथः” याज्ञ०। “मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्” मनुः। कन्याशब्देऽनुक्तं तद्दानपात्रफलादिकमधिकमुच्यते।
“कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम्। वराय गुणहीनाय वृद्धाय ज्ञानिने तथा। दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च। अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च। जडाय चैव मूर्खाय क्लीवतुल्याय पापिने। ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च। शान्ताय गुणिने चैव यूने च विदुषेऽपि च। वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत्”। कन्याविक्रये दोषो यथा “यः कन्यापालनं कृत्वा करोति विक्रयं यदि। विपत्तौ धनलोभेन कुम्भीपाकं स गच्छति। कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी। कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश। मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम्। विक्रीणीत मांसभारं वहत्येव दिवानिशम्” कन्यादानफलं यथा “दशवापीसमा कन्या दीयते व्राह्मणाय या। वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने। सन्ध्यावते वेद पाठकारिणे सत्यवादिने। अस्मै प्रदत्ता कन्या च दश वापीफलप्रदा। त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने। वेदज्ञाय च विप्राय दत्ताष्टफलदायिनी। प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः। मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी। परदारगृहीताय याजकाय द्विजाय च। शठाय सन्ध्याहीनाय वाप्येकफलदा सुता। त्यक्तसन्ध्याय गायत्रीविहीमाय शठाय च। विप्रोद्भवाय दत्ता सा वाप्यर्द्धफलदा सुता। पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च। दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा। विष्णुभक्ताय विदुषे विप्राय सत्यवादिने। जितेन्द्रियाय दत्ता या विंशद्वापीफलप्रदा। षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च। एवम्भूताय दत्त्वा च मोदते विष्णुमन्दिरे। दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथ वा। नारायणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम्। विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये। स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च” ब्रह्म० वै० प्र० ख०।
दु(दो)ह्य = त्रि० दुह–गौणे कर्मणि वा क्यप् पक्षे ण्यत्। १ दोहनगौणकर्मणि गव्यादौ गौणकर्माविवक्षायां दोहनप्रधानकर्मणि २ दुग्धादौ च।
दु(द्रु)ह्यु = पु० शर्मिष्ठायां जाते ययातिपुत्रभेदे। “अन्वगृह्णात् प्रजां सर्वां ययातिरपराजितः। तस्य पुत्रा महेष्वासाः सर्वे समुदिता गुणैः। देवयान्यां महाराज! शर्मिष्ठायाञ्च जज्ञिरे। देवयान्यामजायेतां यदुस्तुर्वसु रेव च। दुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे” मा० आ० ७५ अ० हरिवंशे तु ३० अ द्रुह्युरिति अणुरिति पाठः। लिपिकरप्रमादात् द्विधा पाठः “तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम्। देवयानीमुशनसः सुतां भार्य्यामवाप सः। शर्मिष्ठामासुरीञ्चैव तनयां वृषपर्वणः। यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत। द्रुह्युञ्चाणुञ्च पूरुञ्च शर्मिष्ठा वार्षपार्वणी”। तस्य राज्यदेशश्च तत्रैव अ० उक्तो यथा “सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम्। व्यभजत् पञ्चधा राजा पुत्राणां नाहुषस्तदा। दिशि दक्षिण पृर्वस्यां तुर्वसुं मतिमासृपः। प्रतीच्यामुत्तरस्याञ्च द्रु- ह्युञ्चानुञ्च नाहुषः। दिशि पूर्वात्तरस्यान्तु यदुं श्रेष्ठं न्ययोजयत्। मध्ये पूरुञ्च राजानमभ्यषिञ्चत् स नाहुषः। तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना। यथाप्रदेशमद्यापि धर्मेण परिपाल्यते”। तद्वंशवर्णनञ्च तत्रैव ३२ अ० यथा “द्रुह्योश्च तनयो राजन्! बभ्रुः सेतुश्च पार्थिवः। अङ्गारः सेतुपुत्रश्च मरुता पतिरुच्यते। यौवनाश्वेन समरे कृच्छ्रेण निहतो बली। युद्धं सुमहदस्यासीन् मासान् परि चतुर्दश। अङ्गारस्य तु दायादो गान्धारी नाम पार्थिवः। ख्यायते यस्य नाम्ना वै गान्धारविषयो महान्। गान्धारदेशजाश्चैव तुरगा वाजिनां वराः” तस्य पितुर्ययातेर्जराया अग्रहणे शापकथा भा० शा० ८४ अ० “ययातिरुवाच। “यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्माद्द्रुह्यो! प्रियः कामो न ते सम्पत्स्यते क्वचित्। यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च। हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च। वस्तानाञ्च गवाञ्चैव शिविकायास्तथैव च। उडुपप्लवसन्तारो यत्र नित्यं भविष्यति। अराजशब्दभाजन्तं तत्र प्रापस्यसि सान्वयः”
***