दुच्छक = पु० दु–सन्तापे सम्प्र० भावे क्विप् तस्यै उपतापाय तन्निवृत्तये शक्नोति शक–अच्। मुरानामगन्धद्रव्ये विहाराद्यवकाशके च मेदि०।
दुच्छन् = पु० दुष्टःश्वा प्रा० स० पृषो०। दुष्टकुक्कुरे “आरेर्बाधस्य दुच्छुनाम्” यजु०१९। ३८ “दुष्टाश्च ते श्वानश्च तेषाम्” वेददी०।
दुच्छून = त्रि० दुष्ट उच्छूनः प्रा० स०। पृषो०। दुष्टे उच्छूने ततः भृशा० क्यङ्। दुच्छुनायते बाधते इत्यर्थः। “किमस्मान् दुच्छुनायसे” ऋ०७। ५५। ३ “दुच्छूनायसे बाधमे” भा०।
दुडि = स्त्री दुलि + लस्य डः। दुल्याम् रायमुकुटः।
दुण्डुक = त्रि० दुण्डुभ इव कायति कै–क पृषो० भलोपः। दुष्टचित्ते शब्दार्थकल्पतरुः।
दुण्डुभ = पुंस्त्री० दुण्डुभ + पृषो०। (ढोडा) सर्पभेदे अमरः। “शरमीनां महारौद्रां प्रासशक्त्यृष्टि दुण्डुभाम्। मज्जामांस महापङ्कां कबन्धावर्जितोडुपाम्” भा० द्रो० १५६ अ०।
दुण्डुभि = पु० दुन्दुभि + पृषो०। दुन्दुभिशब्दार्थे “दुण्डुभेर्मूषिकाणां च कीटानां कल्प एव च” इति सूत्रस्थाने प्रतिज्ञाय सुश्रुतेन कल्पस्थाने दुन्दुभिस्वनीयाध्याय उक्तः अतस्तयोरेकार्थता।
दुत = त्रि० दु उपतापे क्त। पीडिते “मृदुतया दुतया” माघः। दुगतौ इत्यस्य तु “दुग्वीर्धश्च” पा० नत्वे दीर्घश्च दून इत्येव सि० कौ०।
दुत्थोत्थदवीय = पु० नील० ताजकोक्ते वर्षप्रवेशे योगभेदे “वीर्योनितौ कार्यविलग्ननाथौ स्वर्क्षादिकेनान्यतरोयुनक्ति। अन्यौ यदा द्वौ बलिनौ तदान्यसहायतो वीर्य मुशन्ति सन्तः” तल्लक्षणम्।
दुद = पु० पर्वतभेदे। “शृङ्गवान् मन्दरो नीलो निषधो दुरुर्दुदस्तथा” भा० अनु० १६५ अ०। दर्दुरस्तथा इत्येव पाठः साधुः
दुदुह = पु० अनुवंश्ये नृपभेदे। “अनोस्तु पुत्रोधर्मोऽभूद्घृतस्तस्यात्मजोऽभवत्। घृतात्तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः” हरिवं० ३२ अ०
दुद्रुम = पु० दुष्टो द्रुमः प्रा० स०। हरित्पत्रे पलाण्डो अमरः।
दुध = हिंसने प्रेरर्ण च भ्वा० पर० सक० सेट्। दोधति अदोधीत् दुदोध दुधितम् “नेशत्तमो दुधितं रोचत” ऋ० ४। १। १७ “दुधिः प्रेरण कर्मा” भा०।
दुधि = त्रि० दुधिर्हिंसाकर्मेति भाष्योक्तेः दुध–हिंसायां कि। १ हिंसके “स्यूम गृभे दुधयेऽर्क! ते” ऋ० ६। ३६। २ “दुधये हिंसकाय” भा० उपचारात् २ दुर्धरे च “दुधेर्युक्तस्य द्रवतः सहानसा” ऋ० १०। १०२। ६ दुधेर्दुर्द्धरस्य” भा०
दुध्र = त्रि० दुध–बा० रक् दुष्टं वा धारयति धृ–मूल० क पृषो०। १ हिंसके २ प्रेरके ३ दुर्द्धरे ४ दुर्द्धर्षे ५ दुष्टानां व्यवस्थापके च। “दुध्र आभूषु रामयन्नि दामनि” ऋ०१। ५६। ३ “दुध्रः दुष्टानां धर्त्ता व्यवस्थापयिता वा” भा० “दुध्रकृतो मरुतो भ्राजदुष्टयः” ऋ०१। ६४। ११ “दुध्रकृत् दुध्रं दुष्टं नान्यैर्दुर्द्धषं वा आत्मना” भा० “विदथे दुध्रवाचः” ऋ० ७। २१। २ “दुध्रवाचः दुर्द्धरवाचः” भा०।
दुन्दभ = पु० दुन्द इत्यव्यक्तं भणति भण–ड। दुन्दुभिवाद्ये शब्दर०।
दुन्दु = पु० १ वसुदेवे त्रिका० २ दुन्दुभिवाद्ये शब्दरत्ना०।
दुन्दुभ = पु० दुन्दु इत्यव्यक्तं शब्दं भणति भण–ड। दुन्दुभि वाद्ये शब्दर०। दुन्दुम इति पाठान्तरम्।
दुन्दुभि = पु० दुन्दु इत्यव्यक्तशब्देनोभति पूरयति उभ–पूरणे कि शक०। वृहड्ढक्कायाम् अमरः। “दुन्दुभे! त्वं सपत्नानां थोषाद् हृदयकम्पनः” दुन्दुभिपूजामन्त्रः “विजय दुन्दुभितामयुरर्णवाः” रघुः “दुन्दुभिश्च तदा देवैस्ताडितो देवकिङ्करैः” भा० अनु० २६ श्लो०। १ वरुणे २ दैत्यभेदे मेदि० ३ राक्षसभेदे पु० शब्दर० ४ विषे हेमच० ५ पाशके स्त्री अमरः स्वर्णशृङ्गादिमये चतुःपार्श्वो विन्दुयुक्ते द्यूतोप्रकरणे (पाशटी) ख्याते ६ पदार्थे स्त्री ७ गन्धर्वीभेदे स्त्री वा ङीष्। “तेषां समक्षं गन्धर्वी दुन्दुर्भीं नाम नामतः। शशास वरदोदेवो गच्छ कार्यार्थसिद्धये। पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषे लोके कुब्जानामाभवत्तदा” भा० व० ३७५ अ० दुन्दुभिर्नामासुरभेदश्च मायाविनामासुरपिता तत्कथा रामा० कि० ९ सर्गे “मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं बालिनः स्त्रीकृतं पुरा” “यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्। प्रतिकालयते बाली मलयं प्रतिपर्बतम्। तदा विवेश महिषो मलयस्य गुहां प्रति। विवेश बाली तत्रापि मलयं तज्जिघांसया” रामा० कि० ४६ अ० ४ श्लो०। “दुन्दुभिं नामेति अत्र दुन्दुभिशब्देन तत्पुत्रो मायाविनामा दानव उच्यते तद्वृत्तान्तस्यैवाग्रे वक्ष्यमाण त्वात् “मायावी नाम तेजस्वी दुन्दभेः पूर्वजः सुतः” इति प्रोक्तेस्तस्य तत् पुत्रत्वं पितुर्महिषाकारत्वात् तत्पुत्रस्य तदाकारत्वमिति च वोध्यम्” तट्टीका
दुन्दुभिक = पु० कीटभेदे कीटशब्दे दृश्यम्।
दुन्दुभिनिर्ह्राद = पु० दुन्दुभे रिव निर्द्रादोऽस्य। दानवभेदे स्कन्दपु०।
दुन्दुभिषेण = पु० दुन्दुभिः सेनायां यस्य सुषामा० षत्वम्। नृपभेदे।
दुन्दुभिस्वन = पु० ६ त०। १ दुन्दुभिशब्दे दुन्दुभेर्वाद्यभेदस्य स्वनी यत्र विषचिकित्सायाम्। सुश्रुतोक्ते विषचिकित्साभेदे “अथातो दुन्दुभिस्वनीयमध्यायं व्याख्यास्यामः धवाश्वकर्णतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोडुम्बरकरहाटकार्जुनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरविल्वमहावृक्षारुष्करारालु मधुकमधुशिग्रुशाकगोजीवामूर्वातिल्वकेक्षुरकगोपघण्डारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परि- स्राव्य विपचेद्दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचकमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचोत्पलसारियाविडङ्गगृहधूमानन्तासोमसरलावाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवर्द्धमानवञ्जुलपुत्रश्रेणीसप्तपर्णदन्दकैलबालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानाञ्च समभागानि ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात्। अनेन दुन्दुभिं लिम्पेत् पताकातोरणानि च। श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्यते। एष क्षारागदो नाम शर्करास्वश्मरीषुच। अर्शःसु वातगुल्मेषु कासशूलोदरेषु च। अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे। एष सर्वविषार्त्तानां सर्वथैवोपयुज्यते। तथा तक्षकमुख्यानामयं दर्पाङ्गुशोऽगदः”।
दुन्दुभ्य = पु० दुन्दुभौ दानवभेदे विषे वाद्यभेदे वा भवः प्रसृतो वा यत्। १ रुद्रभेदे “नमो दुन्दुभ्याय वन्याय च” यजु० १६। ३५ दुन्दुभये तद्वादनाय साधुयत्। २ दुन्दुभिवादन साधने मन्त्रभेदे “ऐन्द्राः क्षत्रियस्य चक्रदुन्दुभ्याः” कात्या० श्रौ०। १४। ३। १३ “क्षत्रियस्य चक्रारोहणे दुन्दुभेर्वादनमन्त्रा ऐन्द्रा भवन्ति” कर्कः।
दुन्दुमार = पु० धुन्धुमार + पृषो०। धुन्धुमारदेशे शब्दाथकल्प०।
दुफानिकुत्थ = न० नी० ता० उक्ते वर्षप्रवेशे योगभेदे तल्लक्षणं तत्रोक्तं यथा “मन्दः शुभोच्चादिपदस्थितश्चेत् पदोनशीघ्रेण कृतेत्थशालः। तत्रापि कार्यं भवतीति वाच्यं वक्रादिनिर्वीर्यपदेन चेत् स्यात्”।
दुम्बक = पु० (दुम्बा) इति ख्याते मेषभेदे शब्दार्थचि०।
दुर्(स्) = अव्य० दु–रुक् सुक् वा। १ दुष्टे २ निन्दायां ३ निषेधे ४ दुःखे च पुरुषोत्तमः ५ ईषदर्थे ६ कृच्छ्रार्थे ७ कृशे ८ असम्पत्तौ ९ सङ्कटे च गणर० दुर्जीवनः दुर्बलः दुर्दिनम् “सुदुरोरधिकरणे” पा० दुष्कृतम्। क्रियायोगेऽस्योपसर्गता उपसर्गशब्दे १३३५ पृ० दृश्यम्।
दुर् = स्त्री दॄ–क्विप्। द्वारे “दुरोद्यूतान्यक्षरम्” ऋ० १। १८८। ५ “या दुरः यज्ञगृहद्वारः” भा० दुरो मानुषी देव आ च” ऋ०५। ४५। १ “मानुषीर्मनुष्य सम्बन्धिनीर्दुरः द्वारः” भा०
दुर = त्रि० दु–बा० कुर। दातरि “दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इलस्पतिः” ऋ० १। ५३। २ “दुरो दातासि” भा०
दुरक्ष = पु० दुष्टोऽक्षः प्रा० स०। १ कपटपाशके २ दुष्टनेत्रे च “अरुर्यै पुरुषस्याक्षि प्रशान्ममेति ह स्माह याज्ञबल्क्यो दुरक्ष इव हास पूयोहैबास्य दूषीका ते एवैतदनरुष्करोति यदक्ष्यावनक्ति” शत० व्रा० ३। १। ३। १० “दुरक्षमेव अञ्जनेन नाशयति” भा० ६ ब०। दुष्टमक्षि यस्य षच् समा। ३ तद्युक्ते त्रि० “अश्वः शुक्ल उदुष्टमुख इवाथोह दुरक्षोभावु कस्तमु” शत० ब्रा० ७। ३। २। १४ दुष्टोऽक्षो यत्र। ४ दुष्टद्यूते
दुरतिक्रम = त्रि० दुःखेनातिक्रम्यतेऽसौ दुर् + अति + क्रम–कर्मणि खल्। १ दुःखेनातिक्रमणीये २ दुर्लङ्घ्ये “सर्वन्तु तपसासाध्यं तपोहि दुरतिक्रमम्” मनुः। ३ विष्णौ पु० “समा वृत्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः” विष्णु० सं० “भयहेतुत्वादस्याज्ञा सूर्यादयोनातिक्रामन्तीति दुरतिक्रमः “भयादिन्द्रश्च बायुश्च मृत्युर्धावति पञ्चमः” इति मन्त्रवर्णात्” भा० “तस्याज्ञाया दुर्लङ्घ्यत्वात् तस्य तथात्वम्।
दुरत्यय = त्रि० दुःखेनातीयते दुर् + अति–इ–खल्। १ दुरतिक्रमणीये २ दुस्तरे च। “स्वर्गमार्गपरिघो दुरत्ययः” रघुः।
दुरत्येतु = त्रि० दुर + अति + इ–कर्मणि–तुन्। दुरतिक्रमणीये “ता भूरि पाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय” ऋ० ७। ६५। ३ “दुरत्येतू दुरतिक्रमणीयौ” भा०
दुरदृष्ट = न० दुष्टमदृष्टम् प्रा० स०। दुर्भाग्ये पापे।
दुरद्मनी = स्त्री अद–भावे मनिन् वा ङीप् दुष्टा अद्मनिः (नी) प्रा० स०। दुर्भोजने। “पाहि दुरद्मन्या अविषं नः पितुम्” यजु० २। २०। “अदनमद्मनी दुष्टा अद्मनी दुरद्मनी दुर्भोजनम् ततः मां पाहि चतुर्थी पञ्चम्यर्थे” वेददी०।
दुरधिग = त्रि० दुःखेनाधिगम्यतेऽसौ दुर + अधि + गम–बा० कर्मणि ड। १ दुष्प्रापे २ दुर्ज्ञेये च। “दिव्यान्नरैर्दुरधिगान्नृप। विक्रियाभिः” भाग० ३। २३। ८।
दुरधिगम = त्रि० दुःखेनाधिगम्यते दुर् + अधि + गम–कर्मणि खल्। १ दुषुप्रापे २ दुर्ज्ञेये च। “द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्” भाग० ५। २३। ३ “इह दुरधिगमैः किञ्चिदेवागमैः” किरा०।
दुरधीत = न० दुष्टमधीतम् प्रा० स०। वर्णानां यथास्थानानुच्चारणेन यथास्वरानुच्चारणेन च अध्ययने “दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधादिति” दुष्टांश्छन्दान्मा प्रयुक्ष्महीत्यध्येयं व्याकरणम्” महाभाष्योक्तेः “यदधीतमविज्ञातं निगदेनैव शब्द्यते। सोऽनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” श्रुतेश्चाध्ययनस्य दुष्टत्वं बोध्यम्।
दुरध्यय = त्रि० दुःखेनाघीयते कृच्छ्रार्थे दुर + अधि + इ–खल्। अध्येतुमशक्ये
दुरध्व = पु० दुष्टोऽध्वा प्रा० स० अच् समा०। दुष्टवर्त्मनि अमरः।
दुरन्त = त्रि० दुष्टोन्तोऽवसानं यस्य प्रा० ब०। १ मृगयाद्यूतपानादिषु व्यसनेषु शब्दार्थचि०। तानि हि प्रथमं सुखयित्वा अन्ते दुःखाकुर्वन्ति। “व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत्” मनुः। दुर्ज्ञेयोऽन्तः परिच्छेदो यस्य। २ दुर्ज्ञेये ३ गभीरे ४ दुरतिक्रमणीये च “नृत्यति युवतिजनेन समं सखि! विरहिजनस्य दुरन्ते” गीतगो०। कप्। दुरन्तक असङ्ख्यमर्य्यादे ५ शिवे पु० “दुर्विज्ञेयो महादेवो दुराधारो दुरन्तकः” भा० अनु० ४१ अ०।
दुरन्वय = त्रि० दुःखेनान्वीयतेऽसौ दुर + अनु–इ–कर्मणि खल्। दुःखेनानुगमनीये “दुरन्वयं दुष्प्रधर्ष दुरापं दुरमिक्रमम्। सर्वं वै तपसाभ्येति” भा० अनु० १२२ अ०
दुरभिग्रह = पु० दुःखेनाभिमुख्येन गृह्यतेऽसौ दुर् + अभि + खल्। १ अपाभार्गे २ दुःखेन ग्राह्ये त्रि०। ३ दुरालभायां ४ कपिकच्छ्राञ्च स्त्री राजनि०।
दुरवग्रह = त्रि० दुःखेनावगृह्यते निगृह्यतेऽसौ दुर् + अव + ग्रह–कर्मणि खल्। कृच्छ्रेणानिग्राह्ये “वंशागतो रिपुर्यस्तु विचलेत् दुरवग्रहः” कामन्दकी०
दुरवस्या = स्त्री दुष्टा अवस्था प्रा० स०। दारिद्र्यादौ दुष्टावस्थायाम्।
दुरस्य = दुष्ट + क्यच् “दुरस्युर्द्रविणस्युर्धिषण्यति” पा० वेदे नि०। दष्टीभवने पर० अक० सेट्। दुरस्यति अदुरस्यीत्। “अभि पृतन्यन्तं तिष्ठाभि योनो दुरस्यति” अथ० १। २९। २ लोके तु दुष्टीयति इत्येव।
दुराक = पु० दुर् + अक + संज्ञायां कर्त्तरि घञ्। म्लेच्छदेशभेदे उणादिको०।
दुराचर = त्रि० दुःखेन आचर्य्यते दुर् + आ + चर–कर्मणि खल्। १ कृच्छ्रेणाचरणीये “सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः” भा० शा० ६५६ श्लो०। आर्षत्वात् कर्तरि षष्ठी। दुष्टमाचरति अच्। २ दुष्टाचारयुक्ते त्रि० “समीरणः श्रोत्रगतोऽन्यथाचरः। समन्ततः शूलमतीव कर्णयोः। करोति दोषैश्च यथा श्रमावृतः स कर्णशूलो कथितो दुरा चरः” सुश्रु०
दुराचार = पु० दुष्ट आचारः प्रा० स०। दुष्टे आचारे “प्राप्ते कलियुगेघोरे नराः पुण्यविवर्जिताः। दुराचाररताः सर्वे सत्यवार्त्तापराङ्मुखाः” अध्यात्मरामा०। धार्ष्ट्याभावोव्रीडा वदनानमनादिकृत् दुराचारात्” सा० द०। दुष्ट आचारो यस्य प्रा० ब०। ३ दुष्टाचारयुक्ते त्रि० “तृणहानि दुराचारा घोररूपाशयक्रियाः” भट्टिः “दुराचारो हि पुरुषे लोके भवति निन्दितः” मनुः।
दुराढ्यङ्कर = त्रि० दुःखेन आढ्यं क्रियते “कर्त्तृकर्मणोश्च भूकृञोः” पा० कर्वृकर्मणोरीषदादिषु च उपपदेषुभुकृञोः खल् स्यात् यथासङ्ख्यं नेष्यते कर्तृकर्मणी धातोरव्यवधानेन प्रयोक्तव्ये ईषदायस्तु(ईष दुः सु) ततः प्राक्। “कर्वृकर्मणोश्च्व्यर्थयोरिति वाच्यम्” वार्त्ति० सि० कौ० कर्मणि उपपदे खल् मुम्। दुःखेन अनाढ्ये आढ्ये करणीये
दुराढ्यम्भव = न० दुःखेन अनाढ्येनाढ्येन भूयते दुर् + च्व्यर्थे आढ्ये कर्तरि उपपदे भावे खल् मुम्। दुःखेन अनाढ्यस्याढ्यभवने।
दुरात्मन् = त्रि० दुष्ट आत्मा अन्तःकरणं यस्य। दुष्टान्तःकरणे “यस्तु धर्मेण कार्याणि मोहात् कुर्यान्नराधिपः। अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः”। “यस्तु दीषवतीं कन्यामनाख्यायोपपादयेत्। तस्य तत् वितथं कुर्यात् कन्यादातुर्दुरात्मनः” मनुः।
दुराधन = पु० धृतराष्ट्रपुत्रभेदे। “अपराजितः पण्डितको विशालाक्षो दुराघनः” भा० आ० ६७ अ० धृतराष्ट्रसुतोक्तौ
दुराधर = पु० धृतराष्ट्रपुत्रभेदे। अपराजितः कुण्डशायी विशालाक्षो दुराधरः” भा० आ० ११७ अ० तत्पुत्रोक्तौ।
दुराधर्ष = पु० दुष्टान् राक्षसान् आधर्षति दुर् + आ + धृष अच्। १ श्वेतसर्षपे तत्क्षेपणे हि वेतालादीनामपसर्पणं स्मृतौ दर्शितम्। दुःखेन ईषदपि धर्षयितुमशक्यम् दुर् + आ + धृष–कर्मणि खल्। २ धर्षयितुमशक्ये त्रि०। “जगन्नाथो दुराधर्षो गङ्गां भागीरथीं प्रति” भा० अनु० ५८ अ० “स प्रभावात् दुराधर्षो महाबलपराक्रमः” भा० व० २०२ अ०। ३ कुटुम्बिनीवृक्षे स्त्री राजनि०।
दुराधार = पु० दुःखेनाधार्यते दुर् + आ–धारि–कर्मणि खल्। दुःखेन १ आधारणीये २ चिन्तनीये त्रि० ३ महादेवे पु०। दुरन्तशब्दे दृश्यम्।
दुरानम = त्रि० दुःखेनानम्यते दुर् + आ + नम–णिच्–कर्मणि खल्। दुःखेन आनमनीये। “स विचिन्त्य च धनुर्दुरानमम्” रघुः।
दुराप = त्रि० दुःखेनाप्यते दुर् + आप–खल्। १ दुष्प्राप्ये। “इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” रघुः “अस्त्रं हरादाप्तवता दुरापम्” रघुः सम्बन्धविवक्षया कर्तरि षष्ठी। भावे खल्। २ दुष्प्राप्तौ न०।
दुरारिहा = पु० दुष्टमियर्त्ति दुर् + ऋ–णिनि दुरारी दुर्गामी असुरः तं हन्ति हन्–किप्। विष्णौ “दुरावासो दुरारिहा” विष्णुसं० भाष्ये उक्तैव व्युत्पत्तिरुक्ता।
दुरारुह = पु० दुःखेनारुह्यतेऽसौ दुर् + आ–घञर्थे कर्मणि क। १ विल्वे २ नारिकेलवृक्षे च। ३ खर्जूर्यां स्त्री राजनि०। ४ दुरारोहणाये त्रि० “सुपुष्पितः स्यादफलः फलवान् स्याद्दुरारुहः” भा० आ० १४० अ०
दुरारोह = पुंस्त्री० दुःखेनारुह्यते दुर् + आ + रुह–खल्। १ सरटे स्त्रियां जातित्वात् ङीष्। २ श्रीवल्ल्यां स्त्री राजनि० ३ शाल्मलिवृक्षे स्त्री त्रिका०। ४ दुरारोहणीये त्रि०। “दुरारोह पदं राज्ञां सर्वलोकनमस्कृतम्” कामन्द० भावे खल्। ५ दुःखेनारोहणे पु०।
दुरालभा(म्भ) = स्त्री दुःखेनालभ्यते स्पृश्यते असौ दुर् + आ + लभ–खल् आगमविधेरनित्यात्वात् वा मुम्। (आलकुशी) १ लतायाम् राजनि०। “दुरालभा कटुस्तिक्ता क्षारोष्णा मधुराम्लिका। वातगुल्मप्रमेहाणां नाशिनी परिकीर्तिता” राजनि०। “यवासस्य गुणैस्तुत्या बुधैरुक्ता दुरालभा” भावप्र० २ दुःस्पर्शनीयमात्रे त्रि०। “चूर्णं श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा” सुश्रु० “तीक्ष्णवीर्य्यास्तु भूतानां दुरालम्भाः सकण्टकाः” भा० अनु० ९८ अ०।
दुरालाप = पु० दुष्ट आलापः प्रा० स०। गालिवचने शब्दार्थकल्पतरुः।
दुराव्य = न० अव–गत्यादौ भावे ण्यत् दुष्टमाव्यं मतिः प्रा० स०। दुष्टमतौ “सुविततस्य मनामहेऽतिसेतुं दुराव्यम्” ऋ० ९। ४१। २ “दुराव्यं दुष्टमतिम्” भा०।
दुराशय = पु० प्रा० स०। १ दुष्टे आशये “स्फुटनिर्भिन्नदुराशयोऽधमः” माघः। दुष्ट आशयो यस्य प्रादि० ब०। २ दुष्टाशययुक्ते त्रि० “उपेयिवान् मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य” भाग० ३। २१। १५
दुराशा = स्त्री प्रा० स०। दुस्पूरायामाशायामु।
दुरासद = त्रि० दुःखेनासद्यतेऽसौ दुर् + आ + सद–कर्मणि खल्। १ दुष्प्राप्ये २ दुगम्ये “त्रिलोचनैकांशतया दुरासदः” “स बभूव दुरासदः परैः” रघुः। “मृग्ययानमपि यद्दुरासदम्” माघः। “पापाटव्या दुरासदाया दवतः” नलोदयः।
दुरित = न० दुष्टमितं गमनं नरकादिस्थानप्राप्तिरस्मात्। १ पापे २ तद्वति त्रि० अमरः। “दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसूनवो हि यत्” रघुः “महानदीप्रवाहमिव सर्वदुरिततापहरम्” काद० “कामीवार्द्रापराधः स दहतु दुरितं शाम्भवोवः शराग्निः” अमरुश०
दुरितदमनी = स्त्री दुरितं दम्यतेऽनया दम–करणे ल्युट् ङीप्। १ शमीवृक्षे राजनि० २ पापदमनसाधनमात्रे त्रि० स्त्रियां ङीप्।
दुरितारि = ६ त०। १ दुरितनाशके। २ जैनानां शासनदेवताभेदे च। “चक्रेश्वर्यजिता बाला दुरितारिश्च कालिका। महाकाली श्यामा शान्ता भ्रुकुटिश्च सुतारका। आकाशा मानवी चण्डा विदिता चाङ्कुशी तथा। कन्दर्पनिर्वाणबला धारिणी धरणप्रिया। नरदन्ताऽथ गान्धार्यम्बिका पद्मावती तथा। सिद्धार्थिका चेति जैन्यः क्रमाच्छासनदेवताः” हेमच०।
दुरिष्ट = न० दुष्टमिष्टं यज्ञः। अमिचारार्थे यज्ञे। “देवद्विज पितृद्वेष्टा रत्नदूषयिता च यः। स याति कृमिभक्षे वै कृमीशे च दुरिष्टकृदिति” विष्णुप०
दुरिष्टि = स्त्री दुष्टा इष्टिः प्रा० स०। अशास्त्रीये यागे “पाहि दुरिष्ट्यै” यजु०२। २०। पञ्चम्यर्थे चतुर्थी।
दुरीश = पु० दुष्ट ईशः प्रा० स०। निन्दिते प्रभौ
दुरीषणा = स्त्री दुष्टा ईषणा प्रा० स०। शापे शब्दार्थकल्पतरुः।
दुरु = पु० पर्वतभेदे। “शृङ्गवान् मन्दरो नीलो निषधोदुरुर्दुदस्तथा” भा० अनु० १६५ अ०। दर्दुरस्तथेत्येव पाठः साधुः।
दुरुक्त = न० दुष्टमुक्तं प्रा० स०। दुष्टवचने “दुरुक्तभाषाभिहितैः प्राप्नुवन्ति सुदुष्कृतम्” भा० अनु० ५०२ श्लो०।
दुरुच्छेद = त्रि० दुःखेन उच्छिद्यनेऽसौ दु + उद् + छिद–कर्मणि खल्। १ दुर्वारे भावे खल्। २ दुःखेन वारणे पु०।
दुरुत्तर = त्रि० दुःखेनोत्तीर्यतेऽसौ दुर् + उद् + तृ–कर्म्मणि खल्। १ दुस्तरे “दुरुत्तरे पङ्क इवान्घकारे” भट्टिः। भावे खल्। २ दुःखेन ३ रणे पु०। दुष्टमुत्तरम् प्रा० स०। ४ दुष्टे उत्तरवाक्ये न०।
दुरुदाहर = त्रि० दुःखेनोदाह्रियते दुर् + आ–हृ–कर्म्मणि खल्। दुःखेन वचनीये “अनुज्झतार्थसम्बन्धः प्रबन्धो दुरुदाहरः” माघः। प्रा० स०। २ दुष्टे उदाहरणे पु०
दुरुधुरा = स्त्री जन्मकाले चन्द्रात् द्वितीयद्वादशस्थिते रवि भिन्नग्रहरूपे चान्द्रयोगभेदे तत्स्वरूपभेदफलादिकं वृहज्जा० भट्टोत्पलव्याख्यानयोर्दर्शितं यथा “हित्वार्कं सुनफाऽनफादुरुधुराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ। केन्द्रे शीतकरेऽथ वा ग्रहयुते केमद्रुमो नेष्यते। केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न सा। त्रिंशत्सरूपाः सुनफाऽनफाख्याः षष्टित्रयं दौरुधुरे प्रभेदाः। इच्छाविकल्पैः क्रमशोभिनीय नीते निवृत्तिः पुनरन्यनीतिः” वृहज्जा०
“अथ सुनफानफादुरुधुराकेमद्रुमाख्यं योगचतुष्टयं शार्दूलविक्रीडितेनाह हित्वार्कमिति। अर्कमादित्यं हित्वा त्यक्त्वा यदाऽन्यः कश्चिद्ग्रहो भौमादिकः शीतांशो श्चन्द्रात् स्वान्त्योभयस्थो भवति द्वितीयस्थो, द्वादशस्थो, वा द्वितीयद्वादशस्थौ वा द्वौ भवतस्तदा सुनफाऽनफादुरु धुराख्यं योगत्रयं भवति एतदुक्तं भवति अर्कं हित्वा यदाऽन्योग्रहः कश्चिच्चन्द्रात् द्वितीयस्थाने भवति तदा सुनफानामयोगो भवति अथार्कं वर्जयित्वा चन्द्रात् द्वादशगो भवति कश्चित्तदा अनफानामयोगो भवति एव’ छन्द्रात् द्वितीयद्वादशगौ ग्रहौ भवतस्तदा दुरुधुरानाम योगो भवति योगत्रयेऽप्यादित्यो यदि द्वितीये द्वादशे वास्थाने भवति तदा योगभङ्गकृद्भवति। किन्तु योगकर्त्तॄणां मध्ये न गण्यते। एते योगाः बहुभिराचार्यैः कथिताः अन्यथा तु बहुभिः केमद्रुमः उक्तः। अथास्य योगत्रयस्याभावे बहुभिरार्यैः केमद्रुमाख्योयोगोऽभिहितः एतदुक्तं भवति चन्दान्न द्वितीये न द्वादशे कश्चिद्ग्रहो भवति तदां केमद्रुमाख्योयोगो भवति अन्यैस्त्वसाविति अन्येषां गर्गादीनामेवं मतं केन्द्रे जन्मलग्नकेन्द्रे शीतकरे चन्द्रे वा भौमादिग्रहयुते भौमादिग्रहविरहितयोरपि चन्द्राद्द्वितीयद्वादशस्थानयोः केमद्रुमो न भवति केन्द्रे ग्रहयुते इत्यत्र कैश्चिच्चन्द्रकेन्द्रमेव केवलं व्याख्यातम् तच्चायुक्तम् चन्द्रकेन्द्रे ग्रहयुते चन्द्रमसोऽपि योगोऽन्तर्भवति शीतकरे ग्रहयुत इत्येतदपार्थकं स्यात् अत्र च भगवान् गार्गिः “व्ययार्थकेन्द्रगश्चन्द्राद्विना भानुं न चेद्ग्रहः। कश्चित् स्यात् वा विना चन्द्रलग्नात् केन्द्रगतोऽथ वा। योगः केमद्रुमोनाम तदा स्यादयत्र गर्हिताः। भवन्ति निन्दिंताचारा दारिद्र्यापत्तिसंयुताः” तथा च साराबल्याम् “सुनफानफा दुरुधुराः क्रमेण योगा भवन्ति रविरहितैः। वित्तान्त्योभयसंस्थैः कैरववनबान्धवाद्विहगैः” एतेन “यदा योगाः केन्द्रे ग्रहवर्जितः शशाङ्कश्च। केमद्रुमोऽतिकष्टः शशिनि च सर्वग्रहादृष्टे”। अन्ये आचार्या नेच्छन्ति वराहमिहिरस्तु पुनरिच्छत्येव अस्मिन्नर्थे तस्यैव तद्वाक्यम् अन्यथा केमद्रुम इति एवमुक्त्वा परमतगुक्तम् अन्यैरसौ इति “केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेव्यते” स्वल्पजा तकेऽपि। तेन सुनफानफादुरुधुराऽभावे केमद्रुमौक्तः तथा च “रविवर्जं द्वादशगैरनफा चन्द्रद्वितीयगैः सुनफा। उभयस्थितैर्दुरुधुरा केमद्रुमसंज्ञकोऽतोऽन्यः”। सत्यस्यापि सुनफानफादुरुधुराभावे केमद्रमः तथा च “सुनफा त्वनफायोगोदौरुधुरश्चन्द्रसंस्थितक्षेत्रात्। प्राक् पृष्ठतो ग्रहेन्द्रैरुभयगतैस्तेषु रविवर्जम्। केमद्रुमोऽत्र योगोऽन्यथा भवेद्यत्र गर्हितं जन्म” केचित् केन्द्रनवांशकेष्विति केचिदाचार्याः केन्द्रेषु केचिच्च नवांशकेष्वेतद्योगत्रयं वदन्ति यथा चन्द्राद्द्वितीयद्वादशोभयस्थैः ग्रहैः सुनफाद्या योगाव्याख्याताः तथा कैश्चिच्छ्रुतकीर्तिजीवशर्मप्रभृतिभिः केन्द्रवशास्रवांशकवशाच्च व्याख्याताः एतदुक्तं भवति ताराग्रहैश्चन्द्राच्चतुर्थस्थानस्थैः सुनफा दशमस्थानस्थैरनफा चतुर्थदशमस्थितैः दुरुधुरा अतोन्यथा केमद्रुमः तथा च श्रुतकीर्तिः “चन्द्राच्चतुर्थैः सुनफा दशमस्थितैः कीर्तितोऽनफा विहगैः। उभयस्थितैर्दुरुधुरा केमद्रुमसंज्ञितोऽन्यथा योगः” केचिन्नवांशकेषु वदन्ति यत्र तत्र राशौ यद्राशिसम्बन्धिनवांशके चन्द्रमा भवति तस्माद्राशेः यो द्वितीयो राशिः तत्र यदि ताराग्रहोभवति तदा सुगफा अथ चन्द्रनवांशकराशेर्द्वादशे ताराग्रहो भवति तदाऽनफा अथ चन्द्रनवांशकराशेः द्वितीये द्वादशे च यदा ग्रहौ भवतस्तदा दुरुधुरा अतोऽन्यथा केमद्रुमः। तथा च चन्द्रनवांशकराशितोद्विद्वादशराशी यदि ग्रहरहितौ भवतः तदा केमद्रुमः तथा च जीवशर्मा “यद्राशिसंज्ञे शीतांशुर्नवांशे जन्मनिस्थितः। तद्द्वितीयस्थितैर्योगः सुनफाख्यः प्रकीर्तितः। द्वादशैरनफा ज्ञेया ग्रहैर्द्विद्वादशस्थितैः। प्रोक्तो दुरुधुरा योगोऽन्यथा केमद्रुमः स्मृतः”। उक्तिः प्रसिद्धा न सा येषामेवंविधं मतं तेषामुक्तिः लोके न प्रसिद्धा तन्मतं वृद्धज्योतिषिकैः नाङ्गीकृतमित्यर्थः। अथ सुनफानफा दुरुधुराख्यप्रकारज्ञानमिन्द्रवज्रयाह त्रिंशत्सरूपा इति सरूपाः सैकाः त्रिंशदेकत्रिंशत् सुनफाख्यायोगाः तावन्त एवानफाख्याः षष्टित्रयमशीत्यधिकं शतं दुरुधुराप्रभेदानाम एषां पूर्ववद्विकल्पगणितम्। इच्छाविकल्पैरित्यादि। एतच्छ्लोके लोष्टुकप्रस्तारः पूर्वमेव नाभसयोगाध्याये व्याख्यातः इच्छाविकल्पैः क्रमशः परिपाट्याऽन्यत्र लोष्टु कमभिनीय नीते निवृत्तिः कार्या पुनः भूयोऽन्यनीतिरित्यन्यत्र स्थानान्तरे चालनम्। अथ सुनफादयो भौमबुधगुरुसितासितैः पञ्चभिर्निष्पाद्यन्ते तस्मादिच्छाविकल्पा पञ्च तेषां न्यासः अत्र प्राग्वत् पूर्वेण पूर्वेण गणिते० युक्तस्थानं विनान्त्यं प्रवदन्ति संख्यामिति कृत्वा जातम् ५ ४ ३ २ १ अथवा प्राग्यत् सैव संख्या जाता। एव१ २ ३ ४ ५ मेकविकल्पाः पञ्च, द्विविकल्पा दश, त्रिवि- कल्पा दश, चतुर्विकल्पाः पञ्च पञ्चविकल्पाः एकः, एवमेकत्रिंशत् ५। १०। १०। ५। १ तद्यथा द्वितीये चन्द्राद्भौमः १ बुधः २ वृहस्पतिः ३ शुक्रः ४ सौरः ५ एवमेकविकल्पाः पञ्च। अथ द्विविकल्पाः भौमबुधौ १ भौमजीवौ २ भौमशुक्रौ ३ भौमसौरौ ४ बुधजीवौ ५ बुधशुक्रौ ६ बुधसौरौ ७ जीवशुक्रौ ८ जीवसौरौ ९ शुक्रसौरौ १० एवं द्विविकल्पाः दश। अथ त्रिविकल्पाः भौबुधजीवाः १ भौमबुधशुक्राः २ भौमबुधसौराः ३ भौमजीवशुक्राः ४ भौमजीवसौराः ५ भौमशुक्रसौराः ६ बुधजीवशुक्राः ७ बुधजीवसौराः ८ बुधशुक्रसौराः ९ जीवशुक्रसौराः १० एवं त्रिविकल्पा दश १०। अथ चतुर्विकल्पाः भौमवुधजीवशुक्राः १ भौमबुधजीवसौराः २ भौमजीवशुक्रसौराः ३ भौसबुधशुक्रसौराः ४ बुधजीवशुक्रसौराः ५ एवं चतुर्विकल्पाः पञ्च ५। अथ पञ्चविकल्पः भौमबुधजीवशुक्रसौराः १ एवं पञ्चविकल्प एक १ एवमेकत्रिंशत् ३१। सुनफायोगाः उत्पादिता अनेनैव प्रकारेण। द्वादशस्थैः अनफाभेदाः एकत्रिंशत्। अथ दुरुधुराविकल्पाः एषां लोष्टुकप्रस्ताराभावात् स्वबुद्ध्या इच्छाविकल्पैः क्रमशोभिनीयेति न्यायेन व्युत्पत्तिः। एको द्वितीये, द्वितीयो (अन्यः) द्वादशे, एका द्वादशे द्वितीयो (अन्यः) द्वितीये, यथा भौमबुधौ १ बुधभौमौ २। भौमजीवौ ३ जीवभौमौ ४ भौमशुक्रौ ५ शुक्रभौमौ ६ भौमसौरौ ७ सौरभौमौ ८ बुधजीवौ ९ जीवबुधौ १० बुधशुक्रौ ११ शुक्रबुधौ १२ बुधसौरौ १३ सौरबुधौ १४ जीवशुक्रौ १५ शुक्रजीवौ १६ जीवसौरौ १७ सौरजीवौ १८ शुक्रसौरौ १९ सौरशुक्रौ २०। अथैको द्वितीये द्वादशे द्वौ, द्वितीये द्व द्वादशे चैकः तद्यथा भौसः बुधजीवौ १ बुधजीवौ भौमः २। भौमः शुक्रबुधौ ३ बुधशुक्रौ, भौमः ४। भौमः, बुधसौरौ ५, बुधसौरौ, भौमः ६। भौमः जीवशुक्रौ ७ जीवशुक्रौ, भौमः ८। भौमः जीवसौरौ ९ जीवसौरौ, भौमः १०। भौमः शुक्रसौरौ ११ शुक्रसौरौ, भौमः १२। बुधः भौमजीवौ १३ भौमजीवौ, बुधः १४। बुधः भौम शुक्रौ १५ भौमशुक्रौ, बुध १६। बुधः भौमसौरौ १७ भौमसौरौ, बुधः १८। बुधः जीवशुक्रौ १९ जीवशुक्रौ, बुधः २० बुधः, जीवसौरौ २१ जीवसौरौ, बुधः २२। बुधः शुक्रसौरौ २३ शुक्रसौरौ बुधः २४। जीवः भौमबुधौ २५ भौमबुधौ जीवः २६। जीवः, भौमशुक्रौ २७ भौमशुक्रौ, जीवः २८। जीवः भौमसौरा २९ भौमसौरौ जीवः ३०। जीवः बुधशुक्रौ ३१ बुधशुक्रौ जीवः ३३। जीवः बुधसौरौ ३३ बुधसौरौ, जीवः ३४। जीवः शुक्वसौरौ ३५ शुक्रसौरौ, जीवः ३६। शुक्रः भौमबुधौ ३७ भौमबुधौ, शुक्रः ३८। शुक्रः भौमजीवौ ३९ भौमजीवौ, शुक्रः ४०। शुक्रः भौमसौरौ ४१ भौमसौरौ, शुक्रः ४२। शुक्रः बुधजीवौ ४३ बुधजीवौ, शुक्रः ४४। शुक्रः बुधसौरौ ४५ बुधसौरौ, शुक्रः ४६। शुक्रः जीवसौरौ ४७ जीवसौरौ शुक्रः ४८। सौरः भौमबुधौ ४९ भौमबुधौ सौरः ५०। सौरः भौमजीवौ ५१ भौमजीवौ, सौरः ५२। सौरः भौमशुक्रौ ५३ भौमशुक्रौ सौरः ५४। सौरः बुधजीवौ ५५ बुधजीवौ, सौरः ५६। सौरः बुधशुक्रौ ५७ बुधशुक्रौ, सौरः ५८। सौरः जीवशुक्रौ ५९ जीवशुक्रौ सौरः ६०। एवमेकत्र जाता ८०। अथैको द्वितीये, द्वादशे त्रयः, त्रयो द्वितीये, द्वादशे चैकः तद्यथा भौमः बुधजीवशुक्राः १ बुधजीवशुक्राः भौमः २। भौमः बुधजीवसौराः ३ बुधजीवसौराः, भौमः ४। भौमः बुध शुक्रसौराः ५ बुधशुक्रसौराः, भौमः ६। भौमः जीवशुक्रसौराः ७ जीवशुक्रसौराः, भौमः ८। बुधः भौमजीवशुक्राः ९ भौमजीवशुक्राः, बुधः १०। बुधः भौमजीवसौराः ११ भौम जीवसाराः बुधः १२। बुधः भौमशुक्रसौराः १३ भौमशुक्र सौराः, बुधः १४। बुधः जीवशुक्रसौराः १५ जीवशुक्रसौराः बुधः १६। जीवः भौमबुधशुक्राः १७ भौमबुधशुक्राः, जीवः १८। जीवः भौमबुधसौराः १९ भौमबुधसौराः, जीवः २०। एकत्र १००। जीवः भौमशुक्रसौराः १ भौमशुक्रसौराः, जीवः २। जीवः बुधशुक्रसौराः ३ बुधशुक्रसौराः, जीवः ४। शुक्रः भौमबुधजीवाः ५ भौमबुधजीवाः, शुक्रः ६। शुक्रः भौमबुधसौराः ७ भौमबुधसौराः, शुक्रः ८। शुक्रः भौम जीवसौराः ९ भौमजीवसौराः, शुक्रः १०। शुक्रः बुधजीव सौराः ११ बुधजीवसौराः, शुक्रः १२। सौरः भौमबुधजीवाः १३ भौमबुधजीवाः, सौरः १४। सौरः भौमबुधशुक्राः १५ भौमबुधशुक्राः, सौरः १६। सौरः भौमजीवशुक्राः १७ भौमजीवशुक्राः, सौरः १८। सौरः बुधजीवशुक्राः १९ बुधजीवशुक्राः, सौरः २०। एवमेकत्र १३०। अथ द्वितीये एको द्वादशे चत्वारः, चत्वारो द्वितीये द्वादशे चैकः तद्यथा भौमः बुधजीवशुक्रसौराः १ बुधजीवशुक्रसौराः भौमः २। बुधः, भौमजीवशुक्रसौराः ३ भौमजीवशुक्रसौराः, बुधः ४। जीवः भौमबुधशुक्रसौराः ५ भौमबुधशुक्रसौराः, जीवः ६। शुक्रः भौसबुधजीवसौराः ७ सौमबुधजीवसौराः, शुक्रः ८। सौरः भौमवुधजीवशुक्राः ९ भौमबुधजीवशुक्राः सौरः १०। एवमेकत्र १३०। अथ द्वौ द्वादशे, द्वावेव द्वितीये तद्यथा भौ० बु०, जी० शु० १ जी० शु०, भौ०, बु० २। भौ० बु०, जी० सौ० ३ जी० सौ०, भौ० बु० ४। भौ० बु०, शु० सौ० ५ शु० सौ०, भौ० बु० ६। भौ० जी०, शु० बु० ७ शु० बु०, भौ० जी० ८। भौ० जी०, बु० सौ० ९ बु० भौ० जी० सौ० १०। भौ० जी०, शु० सौ० ११ शु० सौ०, भौ० जी० १२। भौ० शु०, बु० जी० १३ बु० जी०, भौ० शु० १४। भौ० शु०, बु० सौ० १५ बु० सौ० भौ० शु० १६। भौ० शु०, जी० सौ० १७ जी० सौ०, भौ० शु० १८। बु० जी०, भौ० सौ० १९ भौ० सौ० बु० जी० २०। एकमेकत्र १५०। भौ० सौ०, बु० शु० १ बु० शु०, भौ० सौ० २। भौ० सौ०, जी० शु० ३ जी० शु०, भौ० सौ० ४। बु० जी०, शु० सौ० ५ शु० सौ०, बु० जी० ६। बु० शु०, जी० सौ० ७ जी० सौ०, बु० शु० ८। जी० शु०, बु० सौ० ९ बु० सौ० जी० शु० १०। एवमेकत्र १६०। द्वौ द्वितीये त्रयो द्वादशे, द्वादशे द्वौ त्रयो द्वितीये तद्यथा भौ० बु०, जी० शु० सौ० १ जी० शु० सौ०, भौ० बु० २। भौ० जी०, बु० शु० सौ० ३ बु० शु०सौ०, भौ० जी० ४। भौ० शु०, बु० जी० सौ० ५ बु० जी० सौ०, भौ० शु० ६। भौ० सौ०, बु० जी० शु० ७। बु० जी० शु०, भौ० सौ० ८। बु० जी०, भौ० शु० सौ० ९। भौ० शु० सौ०, बु० जी० १०। एवमेकत्र १७०। बु० शु०, भौ० जी० सौ० १ भौ० जी० सौ०, बु० शु० २। बु० सौ०, भौ० जी० शु० ३ भौ० जी० शु०, बु० सौ० ४। जी० शु०, भौ० बु० सौ० ५। भौ० बु० सौ०, जी० शु०६। जी० सौ०, भौ० बु० शु० ७ भौ० बु० शु०, जी० सौ०८। शु० सौ०, भौ० बु० जी०९। भौ० बु० जी०, शु० सौ० १०। एवमेकत्र १८०। एवं दुरुधुरायोगभेदाः शतमशीत्यधिकं प्रदर्शितम्” भट्टो०। “सम्पन्नभोगसुखभुग्धनवाहनाढ्यस्त्यागान्वितो दुरुधुरा प्रभवः सुभृत्यः। केमद्रुमे मलिन्दुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः” वृहज्जा०। अस्य पुंस्त्वमपि। “प्रचुरधनसमेतो भोगसौख्यान्वितः स्याद्गजहयरथमुख्यैर्वाहनैरन्वितश्च। बहुवितरण लज्जाप्रापिताखण्डलद्रुर्दुरुधुरजनितो ना भृयवर्गैः प्रपूर्णः” जातकपद्धतौ पुंस्त्वोक्तेः। “दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधुराख्यमिन्दुना” माघः।
दुरुफ = पु० नी० ता० उक्ते योगभेदे। “तम्बीरकुत्थौ दुरुफश्च योगाः स्युः षोडगैषां कथयामि लक्ष्ण” पूत्युद्दिश्य “लग्नात् षष्ठेऽष्टमेऽन्त्ये रिपुररिगृहगो वक्रगो नीच गामी क्रूरैर्युक्तोऽस्तगो वा यदि सुथशिली कूरनीचा- रिभस्थैः। अनीक्षमाणस्तनुमस्तभागे स्थितः शुभोच्चादिपदैश्च शून्यः। क्रूरेसराफी न स वीर्ययुक्तः कार्यं विधातुं न विभुर्यतोऽसौ। चन्द्रः सूर्य्याद्द्वादशे वृश्चिकाद्ये षण्डे नेष्टीऽन्त्ये तुलायां विशेषात्। राशीशेनादृष्टमूर्तिर्न सर्वैर्दृष्टो ज्ञेयः शून्यमार्गः पदोनः। क्षीणो भान्ते नो शुभो जन्मकाले पुच्छायां वा चन्द्र एवं विचिन्त्यः। शुक्ले भौमः कृष्णपक्षेऽर्कसूनुः क्षुद्दृष्ट्युन्दुं वीक्षते नो शुभोऽसौ। शुक्ले दिवा नृगृहगोऽर्कसुतः शशाङ्कं कृष्णे कुजो निशि समर्क्षगतः प्रपश्येत्। दोषाल्पतां वितनुतेऽपरथा बहुत्वम् प्रश्नेऽथ वा जनुपि बुद्धिमतोहनीयम्”।
दुरूह = त्रि० दुःखेन ऊह्यते दुर् + ऊह–कर्मणि खल्। दुर्वितर्क्ये। “जानीते जयदेव एव शरणः श्लाघ्ये दुरूहद्रुते” गीतगो०।
दुरेर्वा = त्रि० दुर् + इ–बा० व। दुःखेन गम्ये “प्रादेवीर्मायाः सहते दुरेवाः” ऋ०५। २। ९। “दुरेवाः दुःखगमनाः” भा०।
दुरोक = त्रि० दुष्ट ओकः समवायोऽत्र प्रा० ब०। दुःसेवे “दुरोकमग्निरायवे शुशोच” ऋ० ७। ४। ३ “दुरोकं दुःसेवम्” भा०
दुरोण = पु० गृहे निघण्टुः। “नि दुरोणे अमृतो मर्त्यातां राजा ससाद विदथानि साधन्” ऋ० ३। १। १८। २ यज्ञगृहे च। “काव्ययो राजा नेषु क्रत्वा दक्षस्य दुरोणे” यजु० ३३। ७२ “दुरोणे यज्ञगृहे” वेददी० “असि दिवस्यायुर्दुरोणयुः” ऋ० ८। ६०। १९ “दुरोणयुर्यजमानगृहस्य मिश्रयिता” भा० यु–मिश्रणे बा० कु। “हंसः शुचिषद्वसुरन्तरिक्षसद्धीता वेदिषद् तिथिर्दुरोणसत्” कठोप०।
दुरोदर = पु० दुष्टम् आ समलादुदरमस्य। १ द्यूतकारे २ पणे मेदि०। ३ अक्षे ४ द्यूते न० अमरः। “दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः” किरा०। “न मृगयाऽमिरतिर्न दुरोदरम्” रघुः।
दुर्ग = पुंन० दुःखेन गम्यतेऽसौ दुर् + गम–बा० ड। (गड) (केल्ला) प्रसिद्धे राज्ञामाश्रणीये १ कोट्टे। तत्स्वरूपभेदादिकं मत्स्यपुराणे २१६ अ० उक्तं यथा “एवंविधं यथालाभं राजा विषयमावसेत्। तत्र दुर्गं नृपः कुर्यात् पण्णामेकतमं बुधः। घत्वदुर्गं महीदुर्गं नरदुर्गं तथैव च। वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव!। सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते। दुर्गं च परिखोपेतं वप्राट्टालकसंयुतम्। शत- घ्नीयन्त्रमुख्यैश्च शतशच समावृतम्। गोपुरं सकपाटञ्च तत्र स्यात् सुमनोहरम्। सपताकङ्गजारूढो येन राजा विशेत् पुरम्। चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः। एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम्। वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते। धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके। चतुर्थे, त्वथ वीथ्यग्रे गोपुरञ्च विधीयते। आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम्। मुक्तिहीनं त्रिकोणञ्च यवमध्यं तथैव च। आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम्। अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वसन्। अन्यत्तत्र न कर्त्तव्यं प्रयत्नेन विजानता। राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः। तस्यापि दक्षिणे भागे गजस्थानं विधीयते। गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी। आग्नेये च वथा भागे आयुधागारमिष्यते। महानसञ्च धर्मज्ञ! कर्मशालास्तथापराः। गृहं पुरोधसः कार्यं वामती राजवेश्मनः। मन्त्रिवेदविदाञ्चैव चिकित्साकर्त्तुरेव च। तत्रैव च तथा भागे कोषागारं विधीयते। गवां स्थानं तथैवात्र तुरगाणां तथैव च। उत्तराभिमुखी श्रेणी तुरगाणां विधीयते। दक्षिणाभिमुखी वाथ परिशिष्टास्तु गर्हिताः। तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः। कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः। धारयेदश्वशालासु सवत्सां धेनुमेव च। अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा। गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः। अस्तं गते न कर्त्तव्यो देवदेवे दिवाकरे। तत्र तत्र यथास्थानं राजा विज्ञाय सारतः। दद्यादावसथस्थानं सर्वेषामनुपूर्वशः। योधानां शिल्पिनाञ्चैव सर्वेषामविशेषतः। दद्यादावसथान् दुर्गे कालमन्त्रविदां शुभान्। गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च। आहरेत भृशं राजा दुर्गे हि प्रबला रुजः। कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते। न बहूनामतो दुर्गे विना कार्यं तथा भवेत्। दुर्गे च तत्र कर्त्तव्या नानाप्रहरणान्विताः। सहस्रघातिनो राजंस्तैस्तु रक्षा विधीयते। दुर्गे द्वाराणि गुप्तानि कार्य्याण्यपि च भूभुजा। सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते। धनुषां क्षेपणीयानान्तोमराणां च पार्थिव!। शराणामथ खड्गानां कवचानां तथैव च। लगुडानां गुडानाञ्च हुडानां परिघैः सह। अश्मनाञ्च प्रभूतानां मुद्गराणां तथैव च। त्रिशूलानां पट्टिशानां कुठाराणाञ्च पार्थिव।! प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तम!। परश्वधानां चक्राणां वर्मणाञ्चर्मभिः सह। कुद्दालक्षुरवेत्राणां पीठकानान्तथैव च। तुषाणाञ्चैव दात्राणामङ्गाराणाञ्च सञ्चयः। सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र चेष्यते। वादित्राणाञ्च सर्वेषामौषधीनान्तथैव च। यवसानां प्रभूतानामिन्धनस्य च सञ्चयः। गुडस्य सर्वतैलानां गोरसानान्तथैव च। वसानामथ मज्जानां स्नायूनामस्थिभिः सह। गोचर्मपटहानाञ्च धान्यानां सर्वतस्तथा। तथैवाभ्रपटानाञ्च यवगोधूमयोरपि। रत्नानां सर्ववस्त्राणां लोहानामप्यशेषतः। कलायमुद्गमाषाणाञ्चणकानां तिलैः सह। तथा च सर्वशस्यानां पांशुगीमययोरपि। शणसर्जरसं भूर्जं जतुलाक्षा च टङ्कणम्। राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन। कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा। मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम्। स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक्। कर्तव्यानि महाभाग! यत्नेन पृथिवीक्षिता। उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः। सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया। जीवकर्षभकाकोलमामलक्याटरूषकान्। शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च। माषपर्णी मदौ द्वौ च सारिवे द्वे बलात्रयम्। वारा श्वसन्ती वृष्या च वृहती कण्टकारिका। शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्दर्भरेणुका। मधुपर्णी विदार्ये द्वे महाक्षीरा महातपाः। धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः। पर्णी शताह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः। शुक्रातिशुक्रकाश्मर्यं छत्रातिच्छत्रवीरणाः। इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम!। सिंही च सहदेवी च विश्वेदेवाश्वरोधकम्। मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका। शतावरीमधूके च पिप्पलं तालमेव च। आत्मगुप्ता कट्फलाख्या दार्विका राजशीर्षकी। राजसर्षप घान्याकमृष्यप्रोक्ता तथोत्कटा। कालशाकं पद्मवीजं गोवल्ली मधुवल्लिका। शीतपाकी कुवेराक्षी काकजिह्वोड्रपुष्पिका। पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे। कसेरु कारुकाश्मीरी बल्या शालूककेसरम्। तुषधान्यानि सर्वाणि शमीधान्यानि चैव हि। क्षीरं क्षौद्रं तथा तक्रं तैलं मज्जा वसा घृतम्। नीपश्चारिष्टकाक्षोडवातामसोमबाणकम्। एवमादीनि चान्यानि विज्ञेयो मधुरोगणः। राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः। दाडिमाम्रातकौ चैव तिन्तिडीकाम्लवेतसम्। भव्यकर्कन्धुलकुचकरमर्दकरूषकम्। वीजपूरककण्डूरे मालतीराजम्बन्धुकम्। किलकद्वयपर्णानि द्वयोराम्नातयोरपि। पारावतं नागरकं प्राचीनोलकमेव च। कपित्थामलकं चुक्रं फलं दन्तशठस्य च। जाम्बवं नवनीतञ्च सौवीरकरुषोदके। सुरासवञ्च मद्यानि मण्डतक्रदधीनि च। शुक्तानि चैव सर्वाणि ज्ञेयमाम्लगणं द्विज!। एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे। सैन्धवोद्भिदपाठेयपाक्यसामुद्रलीमकम्। कुप्यसौवर्चलविडं वालकेयं यवाह्वकम्। और्वं क्षारं कालभस्म विज्ञेयो लवणोगणः। एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे। पिप्पली पिप्पलीमूलचव्यचित्रकनागरम्। कुवेरकं मरीचकं शिग्रुभल्लातसर्षपाः। कुष्ठाजमोदाकिणिही हिङ्गुमूलकधान्यकम्। कारवीकुञ्चिका याज्या सुमुखा फाकमाचिका। फणिज्झकोऽथ लशुनं भूस्तृणं सुरसन्तथा। कायस्था च वयस्था च हरितालं मनःशिला। अमृता च रुदन्ती च रोहिषं कुङ्कुमं तथा। जया एरण्डकाण्डीरं सल्लकी हञ्जिका तथा। सर्वपित्तानि मूत्राणि प्रायो हरितकानि च। फलानि चैव हि तथा सूक्ष्मैला हिङ्गुपत्रिका। एवमादीनि चान्यानि गणः कटुकसंज्ञितः। राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम! मुस्तं चन्दनह्रीवेरकृतमालकदारवः। दरिद्रानलदोशीरनक्तमालकदम्बकम्। दूर्वा पटोलकटुका दीर्घत्वक् पत्नकं वचा। किराततिक्तभूतुम्बी विषा चातिविषा तथा। तालीशपत्रतगरसप्तपर्णविकङ्कताः। काकोदुम्बरिका दिव्या तथा चैव सुरोद्भवा। षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका। रसाञ्जनं भृङ्गराजं पतङ्गी परिपेलवम्। दुःस्पर्शागुरुणी कामा श्यामाकं गन्धनाकुली। रूपपर्णी व्याघ्रनखं मञ्जिष्ठा चतुरङ्गुला। रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका। वेत्राग्र वेतसस्तुम्बी विषाणी लोध्रपुष्पिणी। मालतीकरकृष्णाख्या वृश्चिका जीविता तथा। पर्णिका च गुडूची च स गणस्तिक्तसंज्ञकः। एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे। अभयामलके चोभे तथैव च विभीतकम्। पियङ्गुधातकीपुष्पं मोचाख्या चार्जुनासनाः। अनन्ता स्त्री तुवरिका श्योना च कट्फलं तथा। भूर्जपत्रं शिनापत्रं पाटलापत्रलोमकम्। समङ्गा त्रिवृतामूलकार्पासगैरिकाञ्जनम्। विद्रुमं समधूच्छिष्टं कुम्भिका कुसुदोत्पसम्। न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशुपा शमी। प्रियाम- पीलुकासारिशिरीषाः पद्मकं तथा। बिल्वोऽग्निमन्थः प्लक्षश्च श्यामाकश्च वको घनम्। राजादनं करीरञ्च धान्यकं प्रियकस्तथा। कक्कोलाशोकबदराः कदम्बखदिरद्वयम्। एषां पत्राणि साराणि मूलानि कुसुमानि च। एवमादीनि चान्यानि काषायाख्यो मतो रसः। प्रयत्नेन नृपश्रेष्ठो राजा सञ्चिनुयात् पुरे। कीटाश्च मारणे योग्या व्यङ्गतायां तथैव च। वातधूमाश्च मार्गाणां दूषणानि तथैव च। धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव! विषाणां धारणं कार्यं प्रयत्नेन महीभुजा। विचित्राश्चाङ्गदा धार्या विषस्य शमनास्तथा। रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः। कालवदिश्च पुरुषाः पुरे धार्याः प्रयत्नतः। भीतान् प्रमत्तान् कुपितांस्तथैब च विमानितान्। कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे। यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम्। बणिग्जनैश्च वृतमावसेत दुर्गं सुगुप्तं नृपतिः सदैव। मनुरुवाच। रक्षोघ्नानि विषघ्नानि यानि घार्याणि भूभुजा। अगदानि समाचक्ष्य तानि धर्मभृतां वर! मत्स्य उवाच। विल्वाटकी यवक्षारं पाटला वाह्लिकोषणाः। श्रीपर्णी शल्लकीयुक्तो निक्वाथः प्रोक्षणं परम्। सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम्। यवसैन्धवपानीयवस्त्रशय्यासनोदकम्। कवचाभरणं छत्रं बालव्यजनवेश्मनाम्। शेलुः पाटलातिविषा शिग्रुमूर्वा पुनर्नवा। समङ्गावृषमूलञ्च कपित्थवृषशोणितम्। महादन्तशठन्तद्वत् प्रोक्षणं विषनाशनम्। लाक्षाप्रियङ्गुमञ्जिष्ठा सममेला हरेणुका। यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिता। निखनेद्गोविषाणस्थं सप्तरात्रं महीतले। ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत्। संसृष्टं सविषं तेन सद्यो भवति निर्विषम्। मनोह्वया शमीपत्रं तुम्बिका श्वेतसर्षपाः। कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः। शुनो गोः कपिलायाश्च सौम्याक्षिप्तोऽपरोगदः। विषजित् परमं कार्यं मणिरत्नञ्च पूर्ववत्। मूषिका जतुका चापि हस्ते बद्धा विषापहा। हरेणुर्मांसी मञ्जिष्ठा रजनी मधुका मघु। अक्षत्वक् सुरसं लाक्षा श्वषित्तं पूर्ववद् मुवि। वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः। श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः। त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम्। सूक्ष्मैला त्रिवृतापत्रं विढङ्गानीन्द्रवारुणी। मधुकं वेतसं क्षौद्रं विषाणे च निधापयेत्। तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजयेत्ततः। शुक्लं सर्जरसोपेताः सर्षपा एलाबालुकैः। सुवेगा तस्करपुरैः कुसुमैरर्जुनस्य तु। घूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्। न तत्र कीटा न विषं दर्दुरा न सरीसृपाः। न कृत्याकर्मणाञ्चापि धूपोऽयं यत्र दह्यते। कल्पितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः। मूर्वैलावालुसरसानाकुलीतण्डुलीयकैः। क्वाथः स विषकार्येषु काकमाचीयुतो हितः। रोचनापत्रनेपालीकुङ्कुमैस्तिलकान् वहन्। विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः। चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः। दिग्धं निर्विषतामेति गात्रं सर्वविषार्दितम्। शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च। गोमूत्रघृष्टं ह्यगदः सर्वकर्मकरः स्मृतः। एकवीर! महौषध्यः शृणु चातः परं नृप! बन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा। शतमूली सितानन्दा बला मोचा पटोलिका। सोमापिण्डा निशा चैव तथा दग्धरुहा च या। स्थले कमलिनी या च विशाली शङ्खमूलिका। घण्डाली हस्तिमगधा गोऽजापर्णो करम्भिका। रक्ता चैव महारक्ता तथा वर्हिशिखा च या। कोशातकी नक्तमालं प्रियालञ्च सुलोचनी। वारुणी वसुगन्धा च तथा वै गन्धनाकुली। ईश्वरी शिवगन्धा च शामला वंशनालिका! जतुकाली महा श्वेता श्वेता च मधुयष्टिका। वज्रकः पारिभद्रश्च तथा वै सिन्धुवारकाः। जीवानन्दा वसुच्छिद्रा नतनागरकण्टका। नालञ्च जाली जाती च तथा च वटपत्रिका। कार्तस्वरं महानीला कुन्दुरुर्हंसपादिका। मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके। सर्पाक्षी लवली ब्राह्मी विश्वरूपा सुखाकरा। रुजापहा वृद्धिकरी तथा चैव विशल्यदा। पत्रिका रोहिणी चैव नक्तमाला महौषधी। तथामलकवन्दाकं श्यामचित्रफला च या। काकोली क्षीरकाकोली पीलुपर्णी तथैव च। केशिनी वृश्चिकाली च महानागा शतावरी। गरुडी च तथा वेगा जले कुमुदिनी तथा। स्थले चोत्पलिनी या च महाभूमिलता च या। उन्मादिनी सोमराजी सर्वरत्नानि पार्थिब!। विशेषान्मरकतानि कीटपक्षं विशे षतः। जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः। रक्षोघ्नाश्च विषघ्नाश्च कृत्यावेतालनाशनाः। विशेषान्नर नागाश्च गोखरोष्ट्रसमुद्भवाः। सर्पतित्तिरगोमायुबस्त्रमण्डकजाश्च ये। सिंहव्याघ्रर्क्षमार्जारद्वीपिवानरसंभवाः। कपिञ्जला गजा वाजिमहिषैणभवाश्च ये। इत्येवमेतैः सकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम्। राजा वसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम्। मनुरुवाच “राजारक्षारहस्यानि यानि दुर्गे निधापयेत्। कारयेद्वा महीभर्ता ब्रूहि तत्त्वानि तानि च। मत्स्यौवाच। शिरीषोदुम्बरशमीवीजपूरं घृतप्लुतम्। क्षुद्योगः कथितो राजन्! मासार्द्धं तु पुरातनैः। कशेरुफलमूलानि इक्षुमूलं तथा बिसम्। दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परः। नरं शस्त्रहतं प्राप्तो न तस्य मरणं भवेत्। कल्माषवेणुना तत्र जनयेत्तु विभावसुम्। गृहे त्रिरपसव्यन्तु क्रियते यत्र पार्थिव!। नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा। कार्पासास्थ्ना भुजङ्गस्य तेन निर्मोचनं भवेत्। सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे। सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका। तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप!। दिवा च दुर्गे रक्ष्योऽग्नि र्वाति वाते विशेषतः। विषाच्च रक्ष्मोनृपतिस्तत्र युक्तिं निबोध मे। क्रीडानिमित्तं नृपतिर्धारयेन्मृगपक्षिणः। अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतरेषु च। बस्त्रं पुष्पमलङ्कारं भोजनाच्छादनं तथा। नापरीक्षितपूर्वन्तु स्पृशेदपि महामतिः। स्याच्चासौ वक्त्रसन्तप्तः सोद्वेगञ्च निरीक्षते। विषदोऽथ विषं दत्तं यच्च तत्र परीक्षते। स्रस्तीत्तरीयो विमनाः स्तम्भकुद्ध्यादिभिस्तथा। प्रच्छादयति चात्मानं लज्जते त्वरते तथा। भुवं विलिखति ग्रीवां तथा चालयते नृप!। कण्डूयति च मूर्द्धानं परिलोड्याननन्तथा। क्रियासु त्वरिती राजन्! विपरीतास्वपि ध्रुवम्। एवमादीनि चिह्नानि विषदस्य परीक्षयेत्। समाप्तैर्विक्षिपेद्वह्नौ तदन्नं त्वरयान्वितैः। इन्द्रायुधसवर्णन्तु रूक्षं स्कोटसमन्वितम्। एकावर्तन्तु दुर्गन्धि भृशञ्चटचटायते। तद्धूमसेवनाज्जन्तोः शिरोरोगश्च जायते। सविषेऽन्ने विलीयन्ते न च पार्थिव! मक्षिकाः। निलीनाश्च विपद्यन्ते संस्पृष्टे सविषे तथा। विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम!। विकृतिञ्च स्वरो याति कोकिलस्य तथा नृप!। गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति। क्रोञ्चो मदमथाभ्येति कृकवाकुर्विरौति च। विक्रोशति शुको राजन्! सारिका वमते ततः। चामीकरोऽन्यतो याति मृत्युं कारण्डव स्तथा। मेहते वानरो राजन्! ग्लायते जीवजीवकः। हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति। हर्षमायाति च शिखी विषसन्दर्शनान्नृप! अन्नञ्च सविषं राजश्चिरेण च विपद्यते। तदा भवति निःश्राव्यं पक्षपर्युषितोपमम्। व्यापन्नरसगन्धञ्च चन्द्रिकाभिस्तथायुतम्। व्यञ्जनानान्तु शुष्कत्वं द्रवाणां बुद्वुदोद्भवः। ससैन्धवानां द्रव्याणां जायते फेनमालिता। सस्यराजिश्च ताम्रा स्यात् नीला च पयसस्तथा। कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम! धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च। मधुश्यामा च तक्रस्य नीला पीता तथैव च। घृतस्योदकसङ्काशा कपोताभा च सत्तनुः। हरिता माक्षिकस्यापि तैलस्य च तथाऽरुणा। फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते। प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा। मृदुता कठिनानां स्यात् मृदूनाञ्च विपर्ययः। सूक्ष्माणां रूपदलनं तथा चैवातिरक्तता। श्याममण्डलता चैव वस्त्राणां वै तथैव च। लोहानाञ्च मणीनाञ्च मलपङ्कोपदिग्घता। अनुलेपनगन्धानां माल्यानाञ्च नृपोत्तम!। विगन्धता च विज्ञेया तथा राजन्! जलस्य तु। दन्तकाष्ठत्वचः श्यामास्तनुसत्वास्तथैव च। एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम!। तस्माद्राजा सदा तिष्ठेत् मणिमन्त्रौषधीगणैः। उक्तैः संरक्षितों राजा प्रमादपरिवर्जकः। प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्राष्ट्रमुपैति वृद्धिम्। तस्मात् प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र!” दुर्गशुभाशुभलक्षणञ्च कालिकापुराणे ८५ अ० यथा
“दुर्गांस्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः। भूषितान्नगराद्राजा दुर्गे दुर्गाश्रयं चरेत्। दुर्गं वलं मृपाणान्तु नित्यं दुर्गं प्रशस्यते। शतमेको योधयति दुर्गस्थायी धनुर्धरः। शतं दशसहस्राणि तस्मात् दुर्गं प्रशस्यते। जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च। अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम्। दुर्गं कार्यं नृपतिना यथायोग्यं स्वदेशतः। दुर्गं कुर्वन् पुरं कुर्य्यात् त्रिकोणं धनुराकृति। वर्तुलं वा चतुष्कोणं नान्यथा नगरं चरेत्। मृदङ्गाकृति दुर्गञ्च सततं कुलनाशनम्। यथा राक्षसराजस्य लङ्का दुर्गाजिता पुरा। वलेः पुरी शोणिताख्या तेजो दुर्गे प्रतिष्ठितम्। यतस्तत् व्यजनाकारमतो भ्रष्टः श्रियो बलिः। सौभाग्यं शाल्वराजस्य नगरं पञ्चकोणकम्। दिवि यद्वर्त्तते राजंस्तच्च भ्रष्टं भविष्यति। यच्चायोध्याह्वयं भूप! पुरमिक्ष्वाकुभूभुजाम्। धनुराकृति तच्चापि ततोऽभूद्विजयप्रदम्। दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्वारतः। पूजयित्वा विधानेन जयं भूपः समाप्नुयात्। अतो दुर्गं नृपः कुर्य्यात् सततं जयवृद्धये”। अधिकं दुर्गकर्मशब्दे दृश्यम् २ असुरभेदे तत्कथा काशीख०७० अ० “दुर्गोनाम महादैत्यो रुरुदैत्याङ्गजोऽभवत्। यतस्तप्त्वा तपस्तीव्रं पुंभ्योऽजेयत्वमाप्तवान्। ततस्तेनाखिला लोका भूर्भुवःस्वर्मुखा अपि। स्वसात्कृता विनिर्जित्य रणे स्वभुजसारतः!” ३ देवीभेदे स्त्री दुर्गासुरहननात् देव्या दुर्गेति नामाभूत् यथाह तत्रैव ७२ अ० “अद्य प्रभृति मे नाम दुर्गेति ख्यातिमेष्यति। दुर्गदैत्यस्य समरे घातनादतिदुर्गमात्” दुर्गासुरस्यैव नामान्तरं दुर्गम इति। “तत्रैव च बधिष्यामि दुर्गमाख्यं महासुरम्। दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति” देवीमा०। तत्र–शाकम्बरीप्रादुर्भावयुगे स च वैवस्वतमन्वन्तरे चत्वारिंशत्तमयुगकालः यथोक्तं लक्ष्मीतन्त्रे वैवस्वतमन्वन्तरमुक्त्वा “तस्मिन्नेवान्तरे शक्र! चत्वारिंशत्तमे युगे” शताक्षीशाकम्भर्य्योरवतारमुक्त्वा तत्रैव दुर्गासुरबधेन दुर्गानामताप्राप्तिरुक्ता। तेन श्वेतवराहकल्पे साऽद्यापि न प्रादुर्भूता कल्पान्तरे तस्याः प्रादुर्भावेण तस्या इदानीमर्चनीयतेति बोध्यम्। दुर्गाशब्दस्यान्यापि निरुक्तिरन्यत्र दर्शिता प्रसङ्गादि होच्यते यथा “दुर्गो दैत्ये ४ महाविघ्ने ५ भवबन्धे ५ कुकर्मणि। ७ शोके ८ दुःखे च ९ नरके १० यमदण्डे च ११ जन्मनि। १२ महाभयेऽतिरोगे १४ चाप्याशब्दो हन्तृवाचकः। एतान् हन्त्येव या देवी सा दुर्गा परिकीर्तिता”। अपिच “दैत्यनाशार्थवचनो दकारः परिकीर्त्तितः। उकारो विघ्ननाशस्य वाचको वेदसम्मतः। रेफो रोगघ्नवचनोगश्च पापघ्नवाचकः। भयशत्रुघ्नवचनश्चाकारः परिकीर्त्तितः। स्मृत्युक्तिश्रवणाद् यस्या एते नश्यन्ति निश्चितम्। ततो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता”। “दुर्गेति दैत्यवचनोऽप्याकारो नाशवाचकः। दुर्गं नाशयते या तु सा दुर्गा परिकीर्तिता”। विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः। तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्त्तिता”। अस्याः स्थानं कृष्णावेनातुङ्गभद्रयो र्मध्यभागे सह्याद्रेरीषत्प्राच्यां प्रसिद्धम्। “सर्वस्वरूपिणी शक्तिः सा दुर्गेति च पठ्यते” यथा मुण्डमालायाम् “भूतानि दुर्गा भुवनानि दुर्गा नराः स्त्रियश्चापि सुरा सुरादिकम्। यद्यद्धि दृश्यं खलु सैव दुर्गा दुर्गास्वरू- पादपरं न किञ्चिदिति” शब्दार्थचिन्तामणिधृतेषु महाविघ्नादिषु च पु० १३ गुग्गुलौ राजनि० १४ दुर्गममात्रे त्रि० १५ दुर्ज्ञेये १६ परमेश्वरे पु० “दुर्लभो दुर्गमो दुर्गो दुरावासो दुराधरः” विष्णुसं०। “अन्तरायप्रतिहतैर्दुराप्यते इति दुर्ग” भा०
दुर्गकर्म्मन् = न० दुगार्थं दुर्गे वा कर्म कार्यम्। मा० शा० ८६ अ० उक्ते दुर्गसाधनकर्मभेदे यथा “तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः। श्रुत्वा तथा विधातव्यमनुष्ठेयञ्च यत्नतः। षडविधं दुर्गमास्थाय पुराण्यथ निवेशयेत्। सर्वसम्पत्प्रधानं यद्बाहुल्यञ्चापि सम्भवेत्। धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च। मनुष्यदुर्गं मृद्दुर्गं वनदुर्गञ्च तानि षट्। यत् पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम्। दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम्। विद्वांसः शिल्पिनो यत्र निचयाश्च सुचिन्तिताः। धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः। ऊर्जस्विनरनागाश्वं चत्वरापणशीभितम्। प्रसिद्धव्यवहारञ्च प्रशान्तमकुतोभयम्। सुप्रभं शान्तनादञ्च सुप्रशस्तनिवेशनम्। शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम्। समाजोत्सवसम्पन्नं सदा पूजितदैबतम्। वश्यामात्यबलो राजा तत् पुरं स्वयमाविशेत्। तत्र कोषं बलं मित्रं व्यवहारञ्च वर्द्धयेत्। पुरे जनपदे चैव सर्वदोषान्निवर्त्तयेत्। भाण्डागारायुधागारं प्रयत्नेनाभिबर्द्धगेत। निचयान् बर्द्धयेत् सर्वांस्तथा मन्त्रायुधालयान्। काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्। मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च। शणं सर्जरसन्धान्यमायुधानि शरांस्तथा। चर्मस्नायुं तथा वेत्रं मुञ्जवल्वजबन्धनान्। आशयाश्चोदपानाश्च प्रभूता सलिलाकराः। निरोढव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः। सत्कृताश्च प्रयत्नेन आचार्यत्विक्पुरोहिताः। महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः। प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः। कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु। पूजयेद्धार्मिकान् राजा निगृह्णीयादधार्मिकान्। नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान् स्वकर्मसु। बाह्यमाभ्यन्तरञ्चैव पौर जानपदं तथा। चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्। चरान् मन्त्रञ्च कोषञ्च दण्डञ्चैव विशेषतः। अनुतिष्ठेत् स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्। उदासी नारिमित्राणां सर्वमेव चिकीर्षितम्। पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा। ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः। भक्तान् पूजयता नित्यं द्विषतश्च निगृह्णता। यष्टव्यं क्रतुभिर्नित्यं दातव्यञ्चाप्यपीडया। प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम्। कृपणानाथवृद्धानां विधवानाञ्च योषिताम्। योगक्षेमञ्च वृत्तिञ्च नित्यमेव प्रकल्पयेत्। आश्रमेषु यथाकालं चेलभाजन भोजनम्। सदैवोपहरेद्राजा सत्कृत्याभ्यर्च्य मान्य च। आत्मानं सर्वकार्य्याणि तापसे राष्ट्रमेव च। निवेदयेत् प्रयत्नेन तिष्ठेत् प्रह्णश्च सर्बदा। सर्वार्थत्यागिनां राजा कुले जातं बहुश्रुतम्। पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः। तस्मिन् कुर्वीत विश्वासं राजा कस्याञ्चिदापदि। तापसेषु हि विश्वासमपि कुर्व्नन्ति दस्यवः। तस्मिन् निधीनादधीत प्रज्ञां पर्य्याददीत च। न चापि तीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्। अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः। अटवीषु परः कार्यः सामन्तनगरेष्वपि। तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत्। परराष्ट्राटवीस्थेषु यथा स्वविषये तथा। ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने। राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः। एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्त्तितः। यादृशे नगरे राजा स्वयमावस्तुमर्हति”।
दुर्गकारक = पु० दुर्गं करोति वेष्टनेन कृ–ण्वुल्। १ वृक्षभेदे। २ दुर्गकर्त्तरि त्रि०।
दुर्गत = त्रि० दुर्गच्छति दुर् + गम–कर्त्तरि क्त। १ दरिद्रे २ दैन्यङ्गते च अमरः। “समाश्वसिमि केनाहं कथं प्राणिसि दुर्गतः” भट्टिः। “निधानकुम्भस्य यथैव दुर्गतः” सा० द०।
दुर्गतरणी = स्त्री दुर्गं तीर्य्यतेऽनया तॄ–करणे ल्युट् ६ त० ङीप्। देवीभेदे “सावित्री दुर्गतरणी वीणा सप्तविधा तथा” भा० स०११ अ० व्रह्मसभावर्णने। २ दुर्गतरणसाधने त्रि०
दुर्गति = स्त्री दुष्टा गतिः प्रा० स०। १ नरके अमरः। २ दारिद्र्ये मेदि०। “न दुर्गतिमवाप्नोति स्वर्गलोकञ्च गच्छति” भा० शा० ५५९३ श्लो० दुःस्थिता गतिरस्य प्रा० ब०। ३ तद्युते त्रि०।
दुर्गतिनाशिनी = स्त्री दुर्गतिं नाशयति नाशि–णिनि ६ त० ङीप्। दुर्गादेव्याम्। “ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः। ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी” ब्रह्मवै० गणे० ख०। २ दुर्गतिनाशके त्रि० स्त्रियां ङीप्।
दुर्गन्ध = पु० दुःस्थितो गन्धोऽस्य प्रा० ब०। १ सौवर्चललवणे हेम०। २ दुष्टगन्घयुक्ते त्रि०। प्रा० स०। ३ दुष्टे गन्धे “मांस- मेदोऽस्थिदुर्गन्धा” हरिवं ५३ अ० “सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम्” सुश्रुतः।
दुर्गन्धाङ्ग = त्रि० दुर्गन्धोऽङ्गे यस्य। पूतिगन्धान्वितदेहके स्त्रियां ङीप्। शाता० सौगन्धिकपुष्पाहरणेन तथाङ्गतेत्युक्तम् यथा “सौगन्धिकस्य हरणात् दुर्गन्धाङ्गः प्रजायते”
दुर्गन्धिन् = त्रि० दुर्गन्धोऽस्त्यस्य नित्ययोगे इनि “तेन न कर्मधारयात् मत्वर्थीयो बहुव्रीहिश्चेदर्थप्रतिपत्तिकरः” इत्यस्य न प्रवृत्तिः। १ दुष्टगन्धयुक्ते त्रि० रायमुकुटः “चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः” मनुः। स्त्रियां ङीप्।
दुर्गपति = पु० ६ त०। १ दुर्गरक्षके दुर्गाध्यक्षभेदे। २ दुर्गस्वामिनि च। “वयं जयेम हेलाभिर्दस्यून् दुर्गपतिर्यथा” भाग० ३। १४। १८
दुर्गपाल = पु० दुर्गे दुर्गं वा पालयति पाणि–अण् उप० स०। १ कृच्छ्रपालके “यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः” भाग० ८। २३। ५। २ दुर्गरक्षके च
दुर्गपुष्पी = स्त्री दुर्गं पुष्पमस्याः जातित्वात् ङीष्। (केशपुष्या) ख्याते वृक्षभेदे शब्दच०।
दुर्गम = पु० दुःखेन गम्यतेऽसौ दुर् + गम–कर्मणि खल्। १ दुर्गनामासुरभेदे “दुर्गमाख्यं महासुरम्” देवीमा०। २ दुर्गमनीये त्रि०। “कान्तारोवर्त्म दुर्गमम्” अमरः। ३ दुर्ज्ञेये च ४ परमेश्वरे पु० दुर्गशब्दे दृश्यम् “दुःखेन गम्यते ज्ञायते इति दुर्गमः” भाष्ये तन्नामनिरुक्तिः।
दुर्गल = पु० दुःस्थितो गलो यत्र लोकानाम्। देशभेदे “दुर्गलाः प्रतिमास्याश्च कुन्तलाः कोशलास्तथा” भा० भी० ९ अ० जनपदोक्तौ। सोऽभिजनोऽस्य, तस्य राजा वा अण्। दीर्गल पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च। बहुषु अणो लुक्। दुर्गला इत्येव।
दुर्गलङ्घन = पुंस्त्री० दुर्गं लङ्घ्यतेऽनेन लङ्घि–करणे ल्युट्। उष्ट्रे हेमच० स्त्रियां जातित्वात् ङीष्।
दुर्गसंस्कार = पु० ६ त०। प्रतिपक्षस्य युद्धार्थोद्योगे राज्ञा स्वदुर्गस्य भग्नप्रायस्य पुनर्नवीकरणे “अतो दुर्गसंस्कारे आरब्धव्ये किं कौमुदीमहोत्सवेन” इति मुद्रारा०
दुर्गसञ्चर = पु० दुर्गं संच्चर्यतेऽनेन सम् + चर–करणे अप्। (सांको) संक्रमे हेमच० घञ्। दुर्गसंञ्चारोऽप्यत्र अमरटीकायां क्षीरस्वामी
दुर्गसिंह = पु० कलापपरिशिष्टकारे विद्वद्भेदे
दुर्गा = पुंस्त्री दुर्गशब्दोक्ते १ देवीभेदे तन्निरुक्त्यादिकं तत्र दर्शितम्। २ नीलीवृक्षे मेदि०। ३ अपराजितायाम शब्दच० ४ श्यामाखगे राजनि०। ५ हिमालयकन्यायाञ्च “सा दुर्गा मेनकाकन्था दैन्यदुर्गतिनाशिनी” ब्रह्मवै० पु०
दुर्गाढ = त्रि० दुर् + गाह–कर्मणि क्त। कृच्छ्रेणावगाह्ये “दुर्गाढो नयमार्गोऽयमित्याहुस्तद्विदोजनाः” हरिवं० २३६ अ०
दुर्गाध्यक्ष = पु० ६ त०। युर्गक्षके सेनाभेदे “अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्भवः। दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्वकर्मसु” मत्स्यपु० तल्लक्षणमुक्तम्।
दुर्गानवमी = स्त्री दुर्गाप्रिया तत्पूजाङ्गत्वात् नबमी। कार्तिकशुक्लपक्षीयनवम्याम्। दुर्गाया इयम् अण् ङीप्। दौर्गी तत्पूजयाङ्गनवमीतिथौ “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्” ति० त०। तत्पूजाविधानादि योगिनीतन्त्रे यथा
“कार्तिकेऽमलपक्षे च नवम्याञ्च विशेषतः। उद्बुद्धां तु जगद्धात्रीं पूजयेद् दीपमालया” तन्त्रान्तरे “त्रिकालं पूजयेद्दुर्गां मनुनैकाक्षरेण (दु~) च। नानावलिविधानेन गीतवाद्यपुरःसरम्। कार्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः। कृत्वैवं साधकश्रेष्ठी लभेद्राज्यमकण्टकम्” कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम्। दुर्गां प्रपूजयेद् भक्त्या घर्मकामार्थसिद्धये। शक्तिसङ्गमतन्त्रे “कार्तिकस्य सिते पक्षे नवम्यां जगदीश्वरीम्। त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत्। निर्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः। पूजयित्वा परदिने प्रतिमां तां विसर्जयेत्। एवं कृत्वा चक्र वर्त्ती भवेत् साधकसत्तमः। पुत्रपौत्रघनैश्वर्य्यसंयुतास्य भवेत् पुरी। दासदासीगणैर्युक्तो मुक्तः स्यात् पापसङ्कटात्। विशेषतः वसुयुतां नवमीं प्राप्य साधकः। पूजयित्वा मृण्मयीं तां लमते वाञ्छितं फलम्” भविष्ये “मासैश्चतुर्भिर्यत् पुण्यं विधिना०० पूज्य चण्डिकाम्। तत् फलं लभते घीर! नवम्यां कार्तिकस्य च”। अधिकं जगद्धात्रीशब्दे ३००४ पृ० दृश्यम्।
दुर्गास्मरण = न० “दुर्गा जगदिदं सर्वं दुर्गा सर्वस्य कारणम्। अहञ्च दुर्गेत्येवं यत् तद्दुर्गास्मरणं विदुः” इत्युक्ते चिन्तनभेदे।
दुर्गाह्व = पु० दुर्गा आह्वास्य। भूमिजगुग्गुलौ राजनि०।
दुर्गृभि = त्रि० दुःखेन गृह्यतेऽसौ दुर् + ग्रह–बा० कर्मणि कि सम्प्रसारणम् वेदे हस्व भः। दुर्ग्राह्ये ग्रहीतुमशक्ये “न शृङ्गादविधाय दुर्गृभिः” ऋ० १। १४०। ६ “वृत्रस्य यत्प्रवेशे दर्गृभिश्वनः” १। ५२। ६ “दुर्गृभिश्वनः दुर्ग्रहव्यापनः” भा० अशू व्याप्तौ वा० वन शक०।
दुर्गोत्सव = पु० ६ त०। दुर्गाया देवीभेदस्य पूजानिमित्ते उत्सवे स च शारदिकः वासन्तिकश्च।
दुर्ग्रह = त्रि० दुःखेन गृह्यतेऽसौ दुर् + ग्रह–कर्मणि खल्। १ दुःखेन ग्राह्ये २ दुर्ज्ञेये ३ दुरासदे “दुर्गाणि दुर्ग्रहाण्यासन् तस्य रोद्धुरपि द्विषाम्” रघुः। ४ अपामार्गे स्त्री शब्दार्थचि०।
दुर्ग्राह्य = त्रि० दुर् + ग्रह–कर्मणि ण्यत्। ग्रहीतुमशक्ये दुःखेन ग्राह्ये “जग्राह तद्धनूरत्नं दुर्ग्राह्यं दैवतैरपि” हरिवं० ८४ अ०।
दुर्घट = त्रि० दुर् + घट–कर्मणि खल्। घटयितुमशक्ये दुःसंपाद्ये। “कोऽन्वर्थो दुर्घट इव भवति खरूपद्वयाभावात्” पाग० ६। ९। ३४
दुर्घोष = पुंस्त्री० दुष्टो घोषोऽस्य। १ भल्लूके राजनि० स्त्रियां जातित्वात् ङीष्। २ दुष्टशब्दयुक्ते त्रि० स्त्रियां टाप्। प्रा० स०। ३ दुष्टे शब्दे पु०
***