दीर्घ = पु० दॄ–विदारे बा० घङ् घस्य नेत्त्वम्। १ आयते (लम्बा) परिमाणभेदयुते दीर्घत्वञ्च परिमाणभेदे इति कणादाः महत्त्वावान्तरभेद इति सांख्याः। तथा हि कणाद सू० उपस्क रवृत्तौ च परिमाणसत्तां व्यवस्थाप्य मकारणं महत्त्वादिकं व्यवस्थापितं यथा “अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते” सू०। “नित्ये इति विषयेण विषयिणं नित्यत्वप्रतिपादकं चतुर्थाध्यायमुपलक्षयति उपलब्ध्यनुपलब्धी इति यथायोगमन्वयः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः” न्यायात् तदेवं स्थूलो नीलः कलस इति प्रात्यक्षिकप्रत्यये यथा नीलं रूप विषयस्तथा परिमाणमपि तेन च परिमाणेन परमाणुपर्य्यन्तं परिमाणमुन्नीयते द्रव्यत्वाच्च किञ्च द्रव्यपत्यक्षतायां रूपवत् परिमाणमपि कारणं न हि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति तथाच द्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं गुणोऽस्तीति निश्चीयते, यदि हि घटादिस्वरूपं परिमाणं स्यात् तदा महदानयेत्युक्ते घटमात्रमानयेत् तथा च प्रैषसंप्रतिपत्ती विरुद्ध्येयातामु एवं घटपदात् परिमाणं प्रतीयेत परिमाणपदाद्वा घट इति। मानव्यवहारासाधारणकारणत्वं द्रव्यसाक्षात्कारकारणविषयनिष्ठसामान्यगुणत्वंवा भहत्त्वत्वं मानव्यवहारोऽत्र हस्तवितस्त्यादिव्यवहारो न तु पलसङ्ख्यादिव्यवहारः। तच्च परिमाणञ्चतुर्विधं महत्त्वमणुत्वं दीर्घत्वं ह्रस्वत्वञ्च, तत्र परममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्त्तिनी परमाणुत्वपरमह्रस्वत्वे परमाणुवर्त्तिनी अवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्तिनी त्रसरेणुमारभ्य महावयविपयेन्तं महत्त्वदीर्घत्वे,। एवञ्च सर्वाण्यपि द्रव्याणि परिमाणद्वयवन्ति। विल्वामलकादावणुत्वव्यवहारःसमिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः, भक्तिश्चात्र प्रकर्षभावाभावः। आमलके यः प्रकर्षभावस्तस्याभावः कुबले, विल्वे यः प्रकर्षभावस्तस्याभाव आम- लके, स च गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः दीर्घत्वह्रस्वत्वे नित्ये न वर्तेते इत्येके, परिमाणे एव ते न भवत इत्यपरे, महत्सु दीर्घमानीयतामितिवत् महत्सु वर्तुलं त्रिकोणञ्चानीयतामिति निर्धारणबलाद्वर्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात्। इदानीं परिमाणकारणानि परिसञ्चष्टे” उप० वृ०। “कारणबहुत्वाच्च” सू० “चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यते इति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुके महत्त्वदीर्घत्वे जनयति महत्त्वप्रचययोस्तत्कारणेऽभावात् तच्च वहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽप्यदृष्टविशेषोपग्रहोनियामकः। एवं परमाणुद्वयगतं द्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तुभ्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहु त्वप्रचययोस्तत्राभावात्। यत्र च द्वाभ्यां तूलकपिञ्जाभ्यां तूलकपिञ्जारम्भस्तत्र परिमाणोत्कर्षदर्शनात् प्रचयः कारणं बहुत्वस्याभावात् महत्त्वस्य सत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात्। एवञ्च सति यदि महत्त्वं तत्र कारणं तदा न दोषः तदुक्तम् “द्वाभ्यामेकेन सर्वैर्वा” इति। प्रचयश्च आरम्भकः संयोगः, स च स्वाभिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिमुखकिञ्चिदवयवसंयोगलक्षणः, स चावयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः गुणकर्मारम्भे सापेक्ष इति वचनात्” उप० वृ०। “एतेन दीर्घत्वह्रस्वत्वे व्याख्याते” सू० “अणुत्वमहत्त्वप्रक्रियां दीर्घत्वह्रस्वत्वयोरतिदिशति। ह्रस्वत्वदीर्घत्वे अपि न ह्रस्वत्वदीर्घत्ववती। महत्त्वोत्पादकमेव दीर्घत्वोत्पादकमणुत्वोत्पादकमेव ह्रस्वत्वोत्पादकम्, कारणैक्यात् कथं कार्य्यभेद इति चेन्न प्रागभावभेदेन पाकजवदुपपत्तेः यत्रैव महत्त्वं तत्र दीर्घत्वं यत्राणुत्वं तत्र नित्यं ह्रस्वत्वमित्याद्यतिदेशार्थः” उप० वृ०। “अनित्येऽनित्यम्” सू०। “इदानीं विनाशकमाह एतच्चतुर्विधमपि परिमाणं विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव नश्यति न तु विरोधिगुणान्तरात्। घटे सत्यपि तत्परिमाणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभिज्ञेति चेन्न आश्रयनाशेन तत्र वटनाशावश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे तदाश्रितस्य त्रसरेणोस्तदाश्रितस्य चूर्णशर्करादेरविनाश इति युक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेति चेत्, सैवेयं दीपकलिकेति प्रत्यभिज्ञानवद्भ्रान्तित्वात्। प्रदीपप्रत्यभिज्ञाऽपि प्रमैव, ह्रस्वत्वदीर्घत्वे परमुत्पादविनाश शालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुपपत्तेरुक्तत्वात्। तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतमणुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्वमपि नश्यतीत्यत आह उप० वृ०। “नित्ये नित्यम्” सू० “नित्येष्वाकाशादिषु परमाणुषु च यत् परिमाणं तन्नित्यंविनाशकाभावात्” उप० वृ०। सांख्यसूत्रभाष्ययोस्तु परिमाणद्वैविध्यं व्यवस्थापितं यथा
“न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्” सू०। “अणु महद्दीर्घं ह्रस्वमिति परिमाणचातुर्विध्यं नास्ति। द्वैविध्यं तु वर्त्तत एव द्वाभ्यां तद्योगात् द्वाभ्यामेवाणुमहत्परिमाणाभ्यां चातुर्विध्यसम्भवादित्यर्थः। महत्परिमाणस्यावान्तरभेदावेव हि ह्रस्वदीर्घौ। अन्यथा क्रवादिरूपैः परिमाणानन्त्यप्रसङ्गादिति। तत्रास्मन्नयेऽणुपरिमाणमाकाशस्य कारणं गुणविशेषं वर्जयित्वा भूतेन्द्रियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यम्। अन्यव यथायोग्यं मध्यमादिपरममहत्त्वान्तपरिमाणानि तानि च महत्त्वस्यैवावान्तरभेदा इति”। दीर्घत्वे कारणञ्च पार्श्वतीयोजितायवबाहुल्यादिकम् स्थूलत्वे तु ऊर्द्धाधःस्थितावयवबाहुल्यादिकमिति भेदः। कालस्य दीर्घत्वप्रजोजकं तदुपाधेर्बहुकालस्थायित्वं तदभिप्रेत्यैव “दीर्घकालनैरन्तर्य्यादरसेवितात्” योगशास्त्रे “दीर्घयामा त्रियामा” इति काव्ये च प्रयोगः। २ व्याकरणपरिभाषिते द्विमात्रकालेनोच्चार्ये (आ ई ऊ) प्रभृतौ वर्णे च। “ऊकालोऽजह्रस्वदीर्घप्लुतः” पा० “एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” शिक्षा। “गुहानिवद्धप्रतिशब्ददीर्घम्” रघौ शब्दस्य गुणत्वेऽपि दीर्घत्वं बहुकालस्थायित्वेन भाक्तम्। एवं “हृदयकुसुमशोषी दारुणोदीर्घशोकः” “सा दीर्घं रोदिति विक्षिपत्यत इतः क्षामा भुजाबल्लरीम्” सा० द० शोकरोदनयोर्दीर्घत्वं बहुकालस्थायित्वाद् भाक्तमेव। ३ लताशालवृक्षे ४ इत्कटे पु० रत्नमाला। ५ रामशरे पु०६ उष्ट्रे पुंस्त्री० राजनि० स्त्रियां जातित्वात् ङीष्। “वृश्चिककन्यामृगपतिबणिजो दीर्घाः” ज्यो० त० उक्तेषु ७ सिंहकन्यातुलावृश्चिकराशिषु पु०।
दीर्घकणा = स्त्री नित्यकर्म०। श्वेतजीरके राजनि०।
दीर्घकण्टक = पु० दीर्घः कण्टको यस्य। वर्वुरे (वावला) राजनि०
दीर्घकण्ठ = पुंस्त्री० दीर्घः कण्ठो यस्य। १ वके शब्दच० स्त्रियां जातित्वात् ङीष्। २ दानवभेदे पु० ३ आयतक ण्ठकमात्रे त्रि० “विक्षरोदीर्घकण्ठश्च मद्यपो मारुताशनः हरिवं० २४० अ० कर्म०। ४ आयते कण्ठे पु०। व कप्। दीर्घकण्ठक। वकखगे शब्दच०
दीर्घकन्द = न० दीर्घः कन्दोऽस्य। १ मूलके। दीर्घः कन्दो यस्याः कप् अत इत्त्वम्। दीर्घकन्दिका २ मषल्याम् स्त्री राजनि०।
दीर्घकन्धर = पुंस्त्री दीर्घः कन्धरोऽस्य। १ वकखगे राजनि०। स्त्रियां ङीष्। २ दीर्घकन्धरयुक्ते त्रि० कर्म०। ३ दीर्घे कन्धरे पु०।
दीर्घकाण्ड = पु० दीर्घः काण्डोऽस्य। १ गुण्डतृणे २ पातालगरुडीलतायां ३ तिक्ताङ्गायां स्त्री राजनि०।
दीर्घकील = पु० दीर्घः कीलो यत्र। १ अङ्कोटके वृक्षे वा कप्। दीर्घकीलक तत्रैवार्थे कर्म०। २ दीर्घे कीले पु० न०।
दीर्घकूर = न० दीर्घं कूरम्। आन्ध्रदेशोद्भवे शालिभेदे राजान्ने राजनि०
दीर्घकेश = पुंस्त्री० दीर्घः केश इव लोमास्य। १ भल्लूके राजनि० स्त्रियां जातित्वात् ङीष्। २ आयतकेशयुते त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष्। “दीर्घकेशी सुमध्या” वृहन्नाटकम् वृ० सं० १४ अ० कूर्म्मविभागे उक्ते पश्चिमोत्तरदिक्स्थे ३ देशभेदे च यथा “एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च”।
दीर्घकोशि(षि)का = स्त्री दीर्घः को(शो)षो यस्याः कप् अतैत्त्वम् (झिनुक) दुर्णामायाम् अमरः। तालव्यमध्योऽपि भरतः।
दीर्घगति = पु० दीर्घा गतिरस्य। १ उष्ट्रे राजनि० तस्य पादविक्षेपस्य बहुदेशान्तरितत्वात्तथात्वम्।
दीर्घग्रन्थि = पु० दीर्घो ग्रन्थिः पर्व यस्य। गजपिपल्याम्। राजनि०।
दीर्घग्रीव = पुंस्त्री० दीर्घा ग्रीवा यस्य। १ उष्ट्रे राजनि० २ नीलक्रौञ्चे हेमच०। स्त्रियां जातित्वात् ङीष्। ३ पश्चिमोत्तरदिक्स्थे देशभेदे पु० दीर्घकेशशब्दे दृश्यम्।
दीर्घघाटिक = पुंस्त्री० दीर्घा घाटाऽस्त्यस्य ठन्। १ उष्ट्रे शब्दमाला।
दीर्घचञ्चु = पु० दीर्घा चञ्चुरस्य। खगभेदे पारस्करनि०।
दीर्घच्छद = पु० दीर्घाश्छदा यस्य। १ इक्षौ शब्दार्थचि०। ३ दीर्घच्छदके त्रि० कर्म्म०। ३ दीर्घे छदे पु०।
दीर्घजङ्गल = पुंस्त्री० नित्यकर्म०। भङ्गानमत्स्ये (भाङन) शब्दमाला स्त्रियां ङीष्।
दीर्घजङ्घ = पुंस्त्री० दीर्घा जङ्घा यस्य। १ उष्ट्रे जटाध०! २ वके त्रिकाण्ड० स्त्रियां ङीष्। ३ दीर्घजङ्घायुक्ते असुरादी त्रि० कर्म०। ४ दीर्घायां जङ्घायाम् स्त्री
दीर्घजिह्व = पुंस्त्री० दीर्घा जिह्वा यस्य। १ सर्पे हेमच० स्त्रियां ङीष्। ३ दानवभेदे पु० “गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः” भा० आ० ६५ अ० ४ राक्षसभेदे स्त्रियां टाप्। “द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम्” भा० व० २७९ अ०। ५ कुमारानुचरमातृगणभेदे “जाटालिका कामचरी दीर्घजिह्वा बलोत्कटा” भा० श० ४७ अ० “दीर्घजिह्वी च छन्दसि” पा० नि० पुंस्यपि ङीष् ६ कक्वुरे च “अप श्वानं श्लथिष्ट न सखायो दीर्घजिह्व्यम्” ऋ० ९। १०१। १।
दीर्घजीविन् = त्रि० दीर्घं बहुकालं जीवति जीव–णिनि। बहुकालजीविनि। “तत्र कालेन जायन्ते मानवा दीर्घजीविनः” मनुः।
दीर्घतन्तु = पु० दीर्घास्तन्तवः स्तुतयोऽस्य। प्रभूतस्तुतिके देवादौ “दीर्घतन्तुर्वृहदुक्षा यमग्निः” ऋ० १०। ६९। ७२ दीर्घकालव्यापिसन्तानके। कर्म०। ३ दीर्घे तन्तौ पु०।
दीर्घतपम् = त्रि० दीर्घं बहुकालव्यापकं तपोऽस्य। १ बहुकालव्यापकतपस्के २ आयुवंश्ये नृपभेदे पु० “काश्यस्य काश्यपः पुत्रो राजा दीर्घतपास्तथा। धन्वस्तु दीर्घतपसो धन्वात् धन्वन्तरिः सुतः” हरिवं० २९ अ० आयुवंशोक्तौ।
दीर्घतमस् = पु० उतथ्यर्षेः पुत्रे गुरुशापात् अन्धतां प्राप्ते ऋषिभेदे तत्कया उतथ्यशब्दे १०७५ पृ० उक्ता दृश्या “म वै दीर्घतमा नाम शापादृषिरजायत। वृहस्पतेर्वृहत्कीर्त्तेर्वृहस्पतिरिवौजसा। जात्यन्धो वेदवित् प्राज्ञः पत्नीं लेमे स विद्यया” भा० आ० १०४ अ० “ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः। त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय” हरिवं० २६३ अ० “दीर्घतमामामतेयो जजुर्वान् दशमे युगे” ऋ० १। १५८। ६
दीर्घतरु = पु० नित्यकर्म०। तालवृक्षे शब्दार्थकल्प०। २ दीर्घे वृक्षमात्रे च।
दीर्घतिमिष = स्त्री तिम–बा किषन् नित्यकर्म०। कर्कट्याम् शब्दमाला।
दीर्घतुण्डा = स्त्री दीर्घं तुण्डमस्याः। १ छुछुन्दर्यां भावप्र०। २ दीर्घमुखयुक्ते गजादौ पुंस्त्री०। कर्म०। ३ दीर्घे तुण्डेन०
दीर्घतृण = पु० दीर्घं तृणमत्र। १ पल्लिवाहे राजनि० कर्म्म०। २ दीर्थे तृणे न०
दीर्घदण्ड = पु० दीर्थो दण्ड इव काण्डेन। १ एरण्डवृक्षे २ गो- रक्ष्यां स्त्री भावप्र० गौरा० ङीष। ३ गोरक्षीवृक्षे स्त्रीटाप् राजनि०।
दीर्घदर्शिन् = पु० दीर्थं दीर्थात् वा पश्यति दृश–णिनि। १ भाविकार्य्यज्ञे २ पण्डिते च अमरः। ३ गृध्रे पु० शब्दरत्ना०। ४ भल्लूके राजनि०। ५ दूरात् दर्शके त्रि०। “स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्” भा० स० ४८ अ०
दीर्घदृष्टि = पु० दीर्घा दृष्टिरस्य। १ पण्डिते। दीर्घा दूरतो दृष्टिर्येन ३ ब०। २ दूरवीक्षणे यन्त्रभेदे हला०
दीर्घद्रु = पु० नित्यकर्म०। १ तालवृक्षे शब्दच० कर्म्म०। २ दीर्घे वृक्षे
दीर्घद्रुम = पु० नित्यकर्म०। शाल्मलिवृक्षे (शिमुल) राजनि०।
दीर्घनाद = पु० दीर्घो दूरगामित्वात् विस्त्रीर्णो नादोऽस्य क्षुभ्रा० न णत्वम्। १ शङ्खे राजनि० २ बहुकालस्थायिशब्दयुक्ते घण्टादौ त्रि०। कर्म्म०। ३ आयते शब्दे पु०।
दीर्घनाल = पु० दीर्घं नालं यस्य। १ यावनाले हेमच० गुण्डतृणे २ दीर्घरोहिषके न० राजनि०।
दीर्घनास = त्रि० दीर्घा नासाऽस्य। १ दीर्घनासिकान्विते। “वकघाती दीर्घनासो दद्यात् गां घवलप्रभाम्” शातातपेन तत्कर्मविपाक उक्तः। कर्म्म०। २ दीर्घायां नासायां स्त्री
दीर्घनिद्रा = स्त्री नित्यकर्म०। १ मरणे कर्म०। २ चिरकालव्यापिन्यां निद्रायाञ्च “अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्। रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः” रघुः।
दीर्घपक्ष = पु० दीर्घौ पक्षौ यस्य। १ कलिङ्गखगे शब्दच०। २ दीर्घपक्षयुक्ते खगमात्रे पुंस्त्री०।
दीर्घपटोलिका = स्त्री कुत्सिता पटली कन् कर्म०। (धु~धुल) ख्यातायां लतायाम् राजवल्लभः।
दीर्घपत्र = पु० दीर्घं पत्रं यस्य। १ राजपलाण्डौ २ विष्णुकन्दे ३ हरिदर्भे ४ कुन्दरे ५ तालवृक्षे च राजनि० ६ कुपीलौ भावप्र० कप्संज्ञायां कन् बा। दीर्घपत्रक ७ रक्तलशुने ८ एरण्डे ९ हिज्जले १० वेतसे च राजनि०। ११ करीरवृक्षे शब्दच० १२ जलजमधूके जटाध० १३ लशुने हेमच० कापि अत इत्त्वम्। दीर्घपत्रिका १४ श्वेतवचायां १५ शालपर्ण्यां १६ घृतकुमार्य्याञ्च स्त्री राजनि०।
दीर्घपत्रा = स्त्री दीर्घं पत्रं यस्याः। १ चित्रपर्णिकायां (चाकुलिया) भेदे ३ ह्रस्वजम्बुवृक्षे रत्नमाला ३ गन्धपत्रायां ४ केतक्यां ५ टोरीवृक्षे च राजनि०। गौरा० ङीष दीर्घपत्री ६ पलाशीलतायां ७ महाचञ्च शाके स्त्री राजनि०।
दीर्घपर्णी = स्त्री दीर्घं पर्णं यस्याः गौरा० ङीष्। पृश्निपर्ण्याम् राजनि०।
दीर्घपल्लव = पु० दीर्घः पल्लवोऽस्य। १ शणवृक्षे राजनि० २ आयत पत्रयुक्ते त्रि०। कर्म०। ३ आयते पल्लवे पुंन०।
दीर्घपाद् = पु० दीर्घः पादोऽस्य अन्त्यलोपः समा०। कङ्कपपक्षि शब्दर० समासान्तविधेरनित्यत्वात् दीर्घपादीऽप्यत्र हेमच० २ दीर्घपादयुक्ते त्रि०।
दीर्घपादप = पु० नित्यकर्म०। १ तालवृक्षे २ पूगे च राजनि०। कर्म०। ३ दीर्घे वृक्षे पु०।
दीर्घपृष्ठ = पुंस्त्री० दीर्घं पृष्ठमस्य। सर्पे अमरः स्त्रियां ङीष्।
दीर्घप्रज्ञ = पु० १ द्वापरयुगीये वृषपर्वासुरावतारे नृपभेदे “वृषपर्वेति विख्यातः श्रीमान् यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः!”। भा० आ०६७ अ० “अभितौजसे तथोग्राय हार्द्दिक्यायाहुकाय च। दीर्घप्रज्ञाय शूराय रोचमानाय वा विभी!” भा० उ० ३ अ०। २ दूरदर्शिनि त्रि० “काममूर्तिधरः क्रूरः कालकल्पीव्य दृश्यत। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः” भा० व० ११ अ०।
दीर्घफल = पु० दीर्घाणि फलान्यस्य। १ आरग्वधे (सोन्धाल) संज्ञायां कन्। दीर्घफलक। अगस्त्यवृक्षे पु०। वा कप् कापि अत इत्त्वम्। दीर्घफलिका १ कपिलद्राक्षायां, २ जतुकायाञ्च स्त्री राजनि०
दीर्घबाली = स्त्री दीर्घः बालः केशो यस्याः स्वाङ्गत्वात् ङीष्। चमर्य्यां राजनि०।
दीर्घबाहु = पु०। दीर्घौ बाहू यस्य। १ शिवानुचरभेदे “तस्याग्रे समपद्यन्त भूतसंघाः सहस्रशः” इत्युपक्रमे “दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः” हरिवं० २७७ अ०। २ धृतराष्ट्रपुत्रभेदे “दीर्घवाहुर्महावाहुर्व्यूढोरुः कनकाङ्गदः” भा० आ० ६७ अ०। ३ आयतबाहुयुक्ते त्रि० “दीर्घबाहुर्द्दिलीपस्य रघुर्नाम्नाऽभवत् सुतः” हरिवं०१५ अ०
दीर्घभुज = पु० दीर्घौ भुजौ यस्य। १ शिवानुचरभेदे दीर्घबाहु शब्दे दृश्यम्। २ दीर्घवाहुयुक्ते त्रि० कर्म०। ३ दीर्घे भुजे पु०।
दीर्घमारुत = पुंस्त्री दीर्घो मारुतो वेगवायुरस्य। गजे त्रिका० स्त्रियां जातित्वात् ङीष्।
दीर्घमूल = पु० दीर्घं मूलं यस्य। १ मोरटालतायां, २ विल्वभेदे च राजनि०। ३ लामज्जके न०। कर्म० संज्ञायां कन्। ४ मूलके राजनि०। ५ श्यामालतायां शालपर्ण्याञ्च स्त्री टाप् रत्नमाला। ६ दुरालभायां स्त्री ङीप् शब्दमाला।
दीर्घयज्ञ = त्रि० दीर्घः बहुकालव्यापको यज्ञो यस्य। १ बहुकालव्यापकयज्ञकारिणि। २ द्वापरयुगीये अयोध्याधिप राजभेदे पु० “अयोध्यायान्तु धर्मज्ञं दीर्घयज्ञं महावलम्। अजयत् पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा” भा० २९ अ०।
दीर्घयाथ = त्रि० या–कर्मणि थ। दीर्धकालेन याथः गन्तव्यः। दीर्घकालेन गन्तव्ये “वृथाऽसृजत् पथिभिर्दीर्घयाथैः” ऋ० २। १८। ३। “दीर्घायाथैर्दीर्घकालेन गन्तव्यैः” भा०।
दीर्घरद = पुंस्त्री० दीर्घो रदोऽस्य। १ शूकरे त्रिका० स्त्रियां ङीष्। २ दीर्घदन्तयुते त्रि० कर्म०। ३ दीर्घे दन्ते पु०।
दीर्घरसन = पुंस्त्री० दीर्घा रसना जिह्वास्य। सर्पे शब्दच० स्त्रिषां ङीष्।
दीर्घरागा = स्त्री दार्घो बहुकालस्थायी रागो रञ्जनं यस्याः ५ ब०। हरिद्रायाम् राजनि०।
दीर्घरात्र = न० दीर्घा बह्व्यो रात्रयः सन्त्यत्र अर्शआ० अच्। १ चिरकाले त्रिका० कर्म०। मुग्धबोधमते अ समा०। २ दीर्घायां रात्रौ “रात्राह्राहाः पुंसि” पा० उक्तेः पुंस्त्वम्।
दीर्घरोमन् = पु० दीर्घाणि रोमाण्यस्य। १ भल्लूके शब्दार्थकल्प०। २ शिवानुचरभेदे दीर्वबाहुशब्दे दृश्यम्। ३ धृतराष्ट्रपुत्रभेदे च “प्रमथश्च प्रमाथो च दीर्घरोमा च वीर्यवान्” भा० आ० ११७ अ० अत्र सर्वे नान्ता अदन्ताः स्युरित्युक्तेरदन्तताप्यस्य
दीर्घरोहिषक = न० नित्यकर्म०। कत्तृणे सुगन्घतृणभेदे राजनि०
दीर्घलोचन = त्रि० दीर्घमायतं लोचनमस्य। १ आयतनेत्रके २ शिवानुचरभेदे पु० “एते चान्ये च वहवो दीर्घास्या दीर्घ लोचनाः” हरिवं०२७ अ० ३ धृतराष्ट्रपुत्रभेदे पु० “अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः” भा० आ० ६७ अ०। धृतराष्ट्रपुत्रोक्तौ। कर्म०। ४ आयते नेत्रे न०
दीर्घवंश = पु० दीर्घो वंश इव। नलतृणे राजनि० कर्म्म०। २ सन्तते कुले च।
दीर्घवक्त्र = पुंस्त्री० दीर्घं वक्त्रमस्य। १ गजे शब्दमा० स्त्रियां जातित्वात् ङीष्। २ आयतमुखयुक्ते त्रि० स्त्रियां स्वाङ्गत्वेऽपि टाप् कर्म०। ३ आयते मुखे न०
दीर्घवच्छिका = स्त्री दीर्घवत् दीर्घेण तुल्यं शीकते सिञ्चति शीक–क पृषो० ह्रस्वः। कुम्भीरे शब्दार्थकल्प०।
दीर्घवर्षाभू = पुंस्त्री० नित्यकर्म०। श्वेतपतर्णवायाम् पारस्करनि०
दीर्घवल्ली = स्त्री नित्यकर्म्म०। १ पलाश्यां, २ पातालगरुडीलतायां ३ माहेन्द्रवारुण्याम् राजनि० कर्म०। ४ आयतायां लतायाञ्च
दीर्घवृक्ष = पु० नित्यकर्म०। १ शालवृक्षे २ तालवृक्षे च पारस्करनिघण्टुः।
दीर्घवृन्त(क) = पु० दीर्घं वृन्तमस्य। श्योनाके वृक्षे। वा कप्। तत्रार्थे। २ इन्द्रचिर्भट्यां स्त्री टाप् अमरः। संज्ञायां कन् अत इत्त्वम् दीर्ववृन्तिका। एलापर्ण्याम् स्त्री रत्नमाला।
दीर्घशर = पु० नित्यकर्म्म०। यावनाले राजनि०।
दीर्घशाख = पु० दीर्घा शाखा यस्य। १ शालवृक्षे संज्ञायां कन् टाप् अत इत्त्वम्। २ एलापर्ण्याम् स्त्री राजनि०। वा कप् अत इत्त्वम्। दीर्घशाखिका ३ नीलाम्न्याम् राजनि०।
दीर्घशिम्बिका = स्त्री दीर्घा शिम्ब्वी यस्य कप् ह्रस्वः। क्षवे (नाकछिक्नी) वृक्षे राजनि०।
दीर्घशूक = पु० दीर्घः शूकोऽग्रमस्य। शालिभेदे संज्ञायां कन्। दीर्घशूके राजान्ने राजनि० कर्म०। ३ दीर्घे शूके न०
दीर्घश्रवस् = पु० दीर्घं श्रवोऽस्य। दीर्घतमसः पुत्रे ऋषिभेदे “औशिजाय बणिजे दीर्घश्रवसे” ऋ० १। ११२। ११ “उशिक् संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवानाम कश्चिदृषिरनावृष्टौ जीवनार्थमकरोत् बाणिज्यम्” भा० २ दीर्घकर्णयुक्ते त्रि० कर्म०। ३ दीर्घे कर्णे न०।
दीर्घसत्र = न० कर्म०। १ दीर्घकालिके यज्ञभेदे ६ व०। २ तत्कर्तरि त्रि०। “हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः” रघुः। दीर्घाणि सत्राणि कृतानि यत्र। ३ तीर्थभेदे “ततो गच्छेत धर्मज्ञ! दीर्घसत्रं यथाक्रमम्। तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः। दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः। गमनादेव राजेन्द्र! दीर्घसत्रमरिन्दम!। राजसूयाप्वमेधाभ्यां फलं प्राप्नोति भारत!” भा० व० ८२ अ०। ४ यावज्जीवकर्तव्ये अग्निहोत्रे न० “दीर्घसत्रं ह वा त उपयन्ति येऽग्निहोत्रं जुह्वयेतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यन्ते मृत्युना वा” शत० व्रा० १२। ४। १। १
दीर्घसत्रिन् = पु० दीर्घसत्रमस्त्यस्य इनि। १ बहुकालिकसत्रकारके २ यावज्जीवकर्तव्याग्निहोत्रिणि च “यदेतस्य दीर्घ सत्रिणोऽग्निहोत्रं जुह्वतोऽन्तरेणाग्नी युक्तं वा वियायात्” शत० ब्रा० १२। ४। १। २
दीर्घसुरत = पुंस्त्री० दीर्घं बहुकालव्यापकं सुरतमस्य। १ र्कुक्कुरे त्रिका २ स्त्रियां जातित्वात् ङीष्। कर्म्म०। २ आयते सुरते न०।
दीर्घसूक्ष्म = पु० कर्म०। पात० सू० भाष्योक्ते प्राणायामभेदे तत्स्वरूपादि तत्रोक्तं यथा
“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” सू०। “सत्यासनजये बाह्यस्य वायोराचमनं श्वामः। कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः तयोर्गतिविच्छेद उभयाभावः प्राणायामः” भा०। “बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मः” सू०। “यत्र प्रश्वासपूर्वको गत्यभावः स वाह्यः यत्र श्वास- पूर्ष्वको गत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते। तथा द्वयोर्युगपद्गत्यभावैति। त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देशैति। कालेन परिदृष्टाः क्षणानामियत्ताबधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टाः एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वत् विगृहीतस्यैतावद्भिः द्वितीय उद्घातः एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा०। “बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू०। “देशकालसङ्ख्यामिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयः परिदृष्ट आक्षिप्तः उभयथा दीर्घसूक्ष्मः तत्पूर्वको भूमिजयात् क्रमेणाभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्धएव देशकालसङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्बको गत्यभावश्चतुर्थः प्राणायामः इत्ययं विशेषः” भा०।
दीर्घसूत्र = त्रि० दीर्घेण चिरकालेन सूत्रमीप्सितव्यापारो यस्य। १ चिरकालेन प्रारब्धकर्म्मानुष्ठातरि अमरः। “दीर्घमूत्रस्य आपत्प्राप्तिरितिहासमुखेन” भा० शा० १३७ अ० दर्शिता तथा “अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेव मुखमेधेते दीर्घसूत्रो विनश्यति। अत्रैव चेदमव्यग्रं शृणुष्वाख्यानमुत्तमम्। दीर्घसूत्रमुपाश्रित्य कार्य्याकार्य्य विनिश्चये। नातिगाधे जलाधारे सुहृदः शकुनास्त्रयः। प्रभूतमत्स्ये कौन्तेय! बभूवुः सहचारिणः। तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः। दीर्घसूत्रश्च तत्रैकस्त्रयाणां सहचारिणाम्। कदाचित् तं जलाधारं मत्स्यबन्धाः समन्ततः। निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः। प्रक्षीयमाणं तं दृष्ट्वा जलाधारं मयागमे। अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा। इयमापत् समुत्पन्ना सर्वेषां सलिलौकसाम्। शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति। अनागतमनर्थं हि सुनयैर्य्यः प्रबाधयेत्। स न संशयमाप्नोति रोचतां भो व्रजामहे। दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत् सम्यगुष्यते। न तु कार्य्या त्वरा तावदिति मे निश्चिता मतिः। अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम्। प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते। एवं श्रुत्वा निरक्रामद्दीर्घदर्शी महामतिः। जगाम स्रोतसा तेन गम्भीरं सलिलाशयम्। ततः प्रस्रुततोयन्तं प्रसमीक्ष्य जलाशयम्। वबन्धुर्वविधैर्योगैर्मत्स्यान् मत्स्यीपजीविनः विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये। अगच्छद्बन्धनं तत्र दीर्घसूत्रः सहापरैः। उद्दाने क्रियमाणे तु मत्स्यानां तत्र रज्ज्वुभिः। प्रविश्यान्तरमेतेषां स्थितः सम्प्रतिपत्तिमान्। गृह्यमेव तदुद्दानं गृहीत्वा तं तथैव सः। सर्वानेव च तांस्तत्र ते विदुर्ग्रथितानिति। ततः प्रक्षाल्यमाणेषु मत्स्येषु विपुले जले। मुक्त्वा रज्ज्वुं प्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान्। दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः। मरणं प्राप्तवान् मूढो यथैवोपहतेन्द्रियः। एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते। स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः। आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्। स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान्। अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेव सुखमेधेतेदीर्घसूत्रो विनश्यति” कर्म०। २ दीर्घे सूत्रे न०। ६ ब०। ३ दीर्घतन्तुके त्रि० “दीर्घसूत्र मकरोत् परिधानम्” माघः।
दीर्घसूत्रिन् = त्रि० दीर्घं सूत्रं कर्तव्यव्यापारोऽस्त्यस्य इनि। चिरक्रियावति। “अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते” गीता। “यदह्ना कार्यं तत्मासेनापि यो न सम्पादयति स दीर्घसूत्री” आ० त० रघु०।
दीर्घस्कन्ध = पु० दीर्घः स्कन्धः काण्डोऽस्य। तालवृक्षे राजनि०
दीर्घा = स्त्री दीर्घ + टाप्। पृश्निपर्ण्याम् राजनि०।
दीर्घाध्वग = पु० दीर्घमायतमध्वानं गच्छति गम–ड ६ त०। (धाओडिया) ख्याते पत्रवाहकभेदे।
दीर्घायु = त्रि० दीर्घमायुः यस्य। चिरकालजीविनि “जीवातुश्च दीर्घायुत्वं मे” यजु० १८। ६ “दीर्घायुत्वाय प्रति रतं न आयुः” ऋ० ८। ५९। ७
दीर्घायुध = पु० नित्यकर्म०। कुन्तास्त्रे त्रिका०। दीर्घं दन्तरूपमायुधं यस्य दीर्घात् आयुध्यते आ + युध–क। १ शूकरे पुंस्त्री शब्दमा०।
दीर्घायुष्य = यु० दीर्घमायुष्यं यस्य। १ श्वेतमन्दारकवृक्षे २ मार्कण्डेये च राजनि०। ३ आयतायुर्युक्तेषु चिरजीविशब्दार्थोक्तेषु त्रि० कर्म०। ३ दीर्घे वहुकालव्यापके आयुषि तत्कारणमुक्तं मनुना। “ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवाप्नुयुः”।
दीर्घायुस् = पु० दीर्घमायुरस्य। १ दीर्घायुष्ययुक्ते २ चिरजीविश- ब्दोक्तार्थे च। “दीर्घायुस्ते ओषधे! खनिता” यजु० १। २१००
दीर्घालर्क = पु० दीर्घोऽलर्क इव। श्वेतमन्दारवृक्षे राजनि०।
दीर्घास्य = त्रि० दीर्घमास्यं यस्य। १ आयतमुखे २ हस्तिनि च ३ शिवानुचरभेदे दीर्घलोचनशब्दे दृश्यम् दीर्घमास्यं यत्र देशे। ४ पश्चिमोत्तरदेशभेदे वृ० सं० १४ अ० वाक्यं दीर्घग्रीवशब्दे दृश्यम्।
दीर्घाहन् = पु० दीर्घाण्यहानि यत्र। निदाघसमये इह “हल्ञ्यादि” पा० सुलोपे प्रत्ययलक्षणेन “रोऽसुपि” पा० रकारनिषेधेन रुस्तस्यासिद्धत्वात् न नान्तलक्षण उपघादीर्घः” सि० कौ०। दीर्घाह्णा इत्यत्र “अह्नोऽदन्तात्” पा० नत्वम् कर्म०। “राजाहःसखिभ्यः ठच्” पा० ठच। दीर्घाह दीर्घदिवसे पु०।
दीर्घिका = स्त्री दीर्घैव स्वार्थे क कापि अत इत्त्वम्। १ जलाशयभेदे तत्प्रमाणं जलाशयोत्सर्गतत्त्वे यथा नव्यवर्द्धमानधृतवसिष्ठः “शतेन धनुर्भिः पुष्करिणी। त्रिभिः शतैर्दीर्घिका, चतुर्भिर्द्रोणः पञ्चभिस्तडागः!। द्रोणाद्दशगुणा वापी” इति संहितायामन्तरपदश्रुतेरत्रापि तथावगम्यते। तेन चतुर्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका” “शृङ्गाहतं क्रोशति दीर्घिकाणाम्” रघुः। २ जलाशयमात्रे “स्वर्णदी सुरदीर्घिका” अमरः दीर्घिकाभिश्च पूर्णाभिस्तया पुष्करिणीभिर्हि” भा० आ० १२८ अ०।
दीर्घेर्वारु = नित्यकर्म०। डङ्गरीलताभेदे राजनि०।
दीर्ण = त्रि० दॄ–क्त। १ विदारिते २ भीते च भावे क्त। ३ विदारे ४ भये च न०
दीस = त्रि० दी–क्षये क्विप् तां स्यति सो–क। क्षयनाशके गवादिगणे दीप्तेत्यत्र दीसेति पाठान्तरात् हितादौ यत्। दीस्य तद्धितादौ त्रि०।
दु = गतौ भ्वा० पर० अक० अनिट्। दवति अदौषीत् केचित्तु वेडयमित्याहुस्तेन अदावीदित्यपि। दुदाव वेट् कत्वेऽपि लिटि नित्येट् दुदुविव। दूनः। “पित्तेन दूने रसने सितापि” नैष०।
दु = उपतापे स्वा० प० सक० सेट्। उपतापःपीडनम्। दुनोतिअदावीत् अदौषीत् लिटि नित्येट् दुदुविव। दुतः। “मृदुतया दुतया” माघः। “दुनोति निर्गन्धतया स्म चेतः” कुमा० “स भस्मसाच्चकारारीन् दुदाव च कृतान्तवत्” भट्टिः “मृदु दूयेत यदङ्गमर्पितम्” रघुः कर्मकर्तरि रूपं दू–स्येदे दैवादिकस्य वा रूपम्।
दुःक(दुष्क)र्ण = पु० वा वत्वम्। धृतराष्ट्रपुत्रभेदे “दुर्मर्षणोदुर्मुखश्च दुष्कर्णः कर्ण एव च” भा० आ० ६७ अ० तत्पुत्रोक्तौ।
दुःख = दुःखकरणे कण्ड्रा० पर० अक० सेट्। दुःख्यति अदुःख्यीत् अदुःखीत्।
दुःख = तत्क्रियायाम् अद–चु० उभ० अक० सेट्। दुःखयति ते अदुदुःखत् त।
दुःख = न० दुष्टानि खानि यस्मिन्, दुष्टं खनति खन–ड, दुःख–अच् वा। सांख्यादिमतसिद्धे प्रतिकूलवेदनीये रजः कार्ये १ चित्तादिधर्मभेदे। न्यायमते २ आत्मधर्मभेदे “बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा। धर्म्माधर्म्मौ गुणा एते आत्मनः स्युश्चतुर्दश। अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम्” भाषा० “अधर्मत्वेन दुःखत्वेन कार्य्यकारणभावः। प्रतिकूलं, दुःखत्वज्ञानादेव सर्वेषां स्वाभाविकविषयः प्रतिकूल इत्यर्थः सि० मु०। “इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लिङ्गम्” गौ० सू० “यज्जाती यस्यार्थस्य सन्निकर्षात् सुखमात्मोपलब्धवान्। तज्जातीय मेवार्थं पश्यन्नुपादातुमिच्छति सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनीदर्शनप्रतिसन्धनाद् भवति लिङ्गमात्मनः, नियतविषये हि बुद्धिभेदमात्रे न सम्भवति देहान्तरवदिति। एवमेकस्यानेकार्थदर्शिनोदर्शनप्रतिसन्धानाद्दुःखहेतौ द्वेषः। यज्जातीयो यस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थं पश्यन्नादातुम् प्रयतते, सोऽयम् प्रयत्न एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात् निवतविषये बुद्धिभेदमात्रे न सम्भवति देहान्तरवदिति एतेन दुःखहेतौ प्रयत्नी व्याख्यातः। सुखदुःखस्मृत्या चायं तत्साघनमाददानः सुखमुपलभते दुःखमुपलभते सुखदुःख वेदयते पूर्वोक्त एव हेतुः” मा० “द्वितीयसूत्र भाष्ये च “दोषैः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसास्तेयप्र्तिषिद्धपरद्रोहं परद्रव्याभीप्सा नास्तिक्यञ्चेति सेयं पापात्मिका प्रवृत्तिरधर्म्माय” उक्तम्। कणा० सूत्रे उपस्करवृत्तौ च सुखदुःखयोः परस्परभेदः, ज्ञानाद्भेदश्च साधितो यथा “इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरथान्तरभावः” सू०। “आत्मगुणानां कारणभेदव्युत्पादनं दशमाध्यायार्थः, तत्र “आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखाभिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःखयोरेव प्रथमं भेदमाह। सुखदुःखयोर्मिथः परस्परमर्थान्तर- भावोभेदो वैजात्यमिति यावत् कुत इत्यत आह इष्टानिष्टकारणविशेषात् इष्टम् इष्यमाणं स्रक्चन्दनवनितादि अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपं यत्कारणं तस्य विशेषाद्भेदात् कारणवैजात्याधीनं कार्य्यवैजात्यमावश्यकं यतः। भेदकान्तरमाह विरोधात् सहानवस्थानलक्षणात् नह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः। चकारादनयोः कार्य्यभेदं भेदकं समुच्चिनोति, तथाहि अनुग्रहा भिष्वङ्कनयनप्रसादादि सुखस्य, दैन्यसुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः। तदुक्तं प्रशस्ताचार्यैः “अनुग्रहलक्षणं सुखं स्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसीः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम्” इति, तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजम्, अनागतेषु सङ्कल्पजम्, गौतमीये सूत्रे सुखापरिगणनं वैराग्याय, सुखमपि दुःखत्थेन भावयतो वैरास्यं स्यादेतदर्थमिति” उप० वृ०। “नन्वासातां सुखदुःखे परस्परं भिन्ने, ज्ञानादभिन्ने स्यातां स्मृत्यनुभववदित्यत आह उप० वृ “संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः” सू० “सुखदुःखयोर्ज्ञानान्तरत्वे ज्ञानभिन्नत्वे संशयनिर्णयावान्तरत्वाभावो हेतुर्लिङ्गमित्यर्थः, तदयमर्यः मुखं दुःखं वा ज्ञानं भवत् संशयरूपं वा स्यात् निर्णयरूपं वा, नाद्यः कोटिद्वयानुल्लेखित्वात् म द्वितीयः एककोट्यनुल्लेखित्वात्, तथा च यावद्विशेषबाधात् सामान्यबाधः, द्वावेवहि ज्ञानस्य विशेषौ संशयत्वं निर्णयत्वञ्च, तदुभयञ्च, सुखे दुःखे च बाधितमिति ज्ञानत्वमपि तत्र बाधितम्। चकारादनुभवबाधं समुच्चिनोति सुखदुःखयोरहं सुखी दुःखीति मानसीऽनुभवो नत्वहं जाने सन्देह्मि निश्चिनोमोत्याकारोऽनुभव इति। भेदकान्तरमाह” उपवृ० “तयोर्निष्यत्तिः प्रत्यक्षलैङ्गिकाभ्याम्” सू० “तयोः संशयनिर्णययोर्निष्पत्तिरुत्पत्तिः प्रत्यक्षाल्लिङ्गाच्च सुखं दुःखं वा न प्रत्यक्षसामग्रीजन्यं न वा लिङ्गजन्यम् चतुर्विधं हि सुख वेषयिक मानोरथिकम् आभिमानिकमाभ्यासिंकञ्च, तत्र त्रताणामिन्द्रियसन्निकर्षप्रभवत्वं नास्त्येव। प्रथममिन्द्रियार्थनन्निकर्षजन्यत्वात् ज्ञानं स्यादिति चेन्न सामग्र्येकदेशस्य कार्यस्य साजात्यानापादकत्वात् अन्यथा दिक्कालसाघारण्येन सकलकार्यैकजात्यापत्तेः, किञ्च इन्द्रियार्थसन्निकर्षादुत्पद्यमानं सुखं निर्विकल्पकं वा स्यात् सविकल्पकं वा, नाद्यः अतीन्द्रियत्वप्रसङ्गात्, न द्वितीयः विशेष्यविशेषणभावेन द्वयोरनाकलनरूपत्वात्। किञ्च सुखदुःखयोरवश्यसंवेद्यत्वात् ज्ञानस्यावश्यसंवेद्यत्वेऽनवस्थाप्रसङ्गात्। लैङ्गिकमिति लिङ्गमेव वैषयिकवत्। वृत्तिकृतस्तु तयो र्ज्ञानसुखयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां प्रत्यक्षलैङ्गिकज्ञानव्याख्यानाभ्यां व्याख्याता, प्रत्यक्षं ज्ञानमिन्द्रिर्यजम्, लैङ्गिकन्तु लिङ्गजम्, सुखादिकन्तु नैतादृशमिति व्याचक्रुः” उप० वृ०। “अभूदित्यपि” सू० “लैङ्गिकज्ञानाद् सुखादेः प्रकारभेदाधीनं भेदमाह इति शब्दः प्रकारे, अपिशब्दो भविष्यतीत्याकारान्तरसमुच्चये, तथाच पर्वते वह्निरभूद्भविष्यति वेति लैङ्गिके ज्ञानेऽतीतादिः प्रकारोदृश्यते न चैवं प्रकारं सुखं दुःखं वा उत्पद्यमानमुपललब्धम्” उप० वृ०। “सति च कार्यदर्शनात्” सू० “चशब्दः भेदकान्तरं समुच्चिनोति। सति इन्द्रियार्थसन्निर्कर्षे सति च व्याप्तिपक्षधर्म्भतादिप्रतिसन्धाने कार्य्यस्य सुखस्य दुःखस्य वाऽदर्शनात् न प्रत्यक्षमात्रं सुखं दुःखं वा न लैङ्गिकमात्रं वा, तदयमर्थः ज्ञानसामान्यं तावत् सुखदुःखे न भवत इत्युक्तं ज्ञानविशेषः प्रत्यक्षज्ञानं वा भवेदनुमितिरूपं वा इन्द्रियार्थसन्निकर्षे स्रक्कन्दनादिप्रत्यक्षे सुखत्वानुभवाभावात्, न द्वितीयः चन्दनाद्यनुमितौ वह्न्याद्यनुमितौ वा सुखत्वदुःखत्वान्यतराननुभवात्। एवं प्रत्यक्षविशेषेऽनुमितिविशेषे वा सुखदुःखयोरननुभवान्न तद्विशेषोऽपीति” उप० वृ०। “एकार्थसमवायिकारणान्तरेषु दृष्टत्वात्” सू०। “भेदकान्तरमाह सुखदुःखयोरिति शेषः, सुखं प्रति एकार्थसमवेतानि असाधारणकारणानि, धर्म्मः, सुखे रागः, सुखकारणेच्छा तदुपादानयत्नः, स्रक्चन्दनादिज्ञानम्। दुःखं प्रति तु अधर्म्मः, अनिष्टकण्टकादिज्ञानम्, एषु एकार्थसमवायिषु कारणेषु दृष्टत्वादित्यर्थः, ज्ञानन्तु निर्विकल्पकमेकार्थसमवेतमसाधारणकारणं नापेक्षत एव, सविकल्पकन्त्वपेक्षते विशेषणज्ञानं तन्न कारणान्यरं स्वविजातीयं कारणं न मवति, मनःसंयोगस्तु साधारणत्वादविवक्षितः। यद्यपि स्मृतिः संस्कारमसाधारणमपेक्षते तथापि तद्भेदः स्फुटसिद्ध एवेत्यनुभवमादाय भेदचिन्तनात्। लैङ्गिके यद्यपि व्याप्तिस्मृतिपक्षधर्म्मतादिज्ञानापेक्षा तथाप्यन्तरशब्देनैव तद्व्युदासः। तदयं प्रमाणप्रयोगः सुखदुःखे अनुभवभिन्ने स्वसमानाधिकरणसजातीयासाधारणकारणजन्यत्वात् स्मृतिवदाद्यशब्दवच्च” उप० वृ०। सांख्यास्तु तस्य रजःकार्यत्वम् चित्तस्य विषयाणाञ्च धर्मत्वं तत्त्रैविध्यञ्चोररीचक्रुः। तथा हि “दुःखत्रयाभिघातादित्यादि” सा० का० तत्त्वकौमुद्यामुक्तं यथा “दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधम् आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च। शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं, मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम्। सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम्। बाह्योपायसाध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च तत्राधिभौतिकं मानुपपशुपक्षिसरीसृपस्थावरनिमित्तम्। आधिदैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनम्। तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम्। तदनेन दुःखत्रिकेणान्तःकरणवर्त्तिना चेतनाशक्तेः प्रतिकूलतयाभिसम्बन्धोऽभिघातः इति। एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः। “यद्यपि न सन्निरुध्यते दुःखं तथापि तदभिभवः शक्यः कर्त्तुमित्युपरिष्टान्निवेदयिष्यते”
“भोग्ये हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयेते तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येन भवितव्यं नचानुकूलनीयाः प्रतिकूलनीया वा बुद्ध्यादयस्तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्तिविरोधात्। तस्माद्योऽसुखाद्यात्मा सोऽनुकूलनीयः प्रतिकूलनीयो वा स चात्मेति” सा० प्र० भा०। सर्वेषां त्रिगुणात्मत्वात् विषयस्यापि सुखदुःखात्मकत्वं त० कौ० व्यवस्थापितं यथा
“अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति। तेषाञ्च परस्परमभिमाव्याभिभावकभावान्नानात्वम्। तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात्। सैव स्त्री सपत्नीर्दुःखाकरोति तत्कस्य हेतोः? ताः प्रति तस्या दुःस्वरूपसमुद्भवात्। एवं पुरुषान्तरं तामविन्दत् सैव भोहयति तत्कस्य हेतोः? तत् प्रति तस्या मोहरूपसमुद्भवात्। अनया च स्त्रिया सर्वे भावा व्याख्याताः। तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः यन्मोहहेतुस्तन्मोहात्मकं तमः, सुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात्। तस्मात सखदुःखमोहैरिब विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाथवैर्न निमित्तभेदा उन्नीयन्ते एवं दुःखोपष्टम्भकप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति”। दुःखादीनाञ्च सा० प्र० भा० विषयगतत्वं यद्वर्णितं तच्च आनन्दशब्दे ७२२ पृ० दृश्यम् “प्रीत्यप्रतीतिविषादाद्यैर्गुणानामन्योन्यवैधर्म्यम्” सा० सू० “गुणानां सत्वादिद्रव्यत्रयाणामन्योऽन्यं सुखदुःखविषादाद्यैः साधर्म्यं कार्येषु तद्दर्शनादित्यर्थः। मोहादिकं च घटादेरपि रूपादिवदेव धर्मोऽन्तःकरणोपादानत्वादन्यकार्याणामित्युक्तम्। अत्रादिशब्दग्राह्याः पञ्चशिखाचार्यैरुक्ताः यथा “सत्वं नाम प्रसादलाघवाभिष्वङ्गप्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्मकम्। एवं रजोऽपि शोकादिनानाभेदं समासतो दुःखात्मकम्” सा० प्रवचनभाष्यम्। दुःखस्य चित्तवृत्तिविशेषरूपत्वम् शङ्करभाष्ये उक्तेम् तच्च अज्ञानशब्दे ६४३ पृ० दर्शितम्। कविकल्पलतायाञ्च लोकसिद्धानि कतिचित् दुःखकारणानि दर्शितानि यथा पारतन्त्र्यं १ आधिः २ व्याधिः ३ मानच्युतिः ४ शत्रुः ५ कुभार्य्या ६ नैःस्वम् ७ कुग्रामवासः ८ कुस्वामिसेवनम् ९ वहुकन्याः १० वृद्धत्वं ११ परगृहवासः १२ वर्षाप्रवासः १३ भार्य्याद्वयम् १४ कुभृत्यः १५ दुर्हलकरणककृषिः १६ वराहपुराणे दुःखतराणि कतिचिदुक्तानि यथा
“दुःखमेव प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे!। उचितेतोपचारेण दुःखं मोक्षविनाशनम्। अहङ्कारकृतो नित्यं नरा मोहेन चावृताः। ये मां नैव प्रपद्यन्ते ततो दुःखतरन्नु किम्। सर्वाशी सर्वविक्रेता नमस्कारविवर्जितः। ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम्। सर्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत्। अवैश्वदेवं योऽश्नाति ततो दुःखतरन्नुकिम्। प्राप्तकाले वैश्वदेवे दृष्टं ह्यतिथिमागतम्। अदत्त्वा तस्य यो भुङ्क्ते कतो दुःखतरन्नु किम्। असन्तुष्टस्तु वैषम्ये परदाराभि मर्दकः। परोपतापी मन्दात्मा ततो दुःखतरन्नु किम्। अकृत्वायुर्बलं कर्म्म गृहे संवसते नरः। मृत्युकालवशं प्राप्तस्ततो दुःखतरन्नुकिम्। हस्त्यश्वरथयानानि गच्छमानानि पश्यति। न वै तस्याग्रतः पृष्ठे ततो दुःखतरन्नु किम्। अश्नन्ति पिशितं केचित् घृतशालिसमन्वितम्। शुष्कान्नं केचिदश्नन्ति ततो दूःखतरन्नु किम। वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः। केचित् तृणेषु शेरन्ते ततो दुःखतरन्नुकिम्। विद्वान् कृती गुणज्ञश्च सर्वशास्त्रविशारदः। केचिन्मूकाश्च दृश्यन्ते ततो दुःखत्तरन्नु किम्। विद्यमाने धने केचित् कृपणा भोगवर्जिताः। दरिद्रो जायते दाता ततो दुःखतरन्नु किम्। पुरुषस्य तु द्वे भार्ये तयोरेकां प्रशंसयेत्। एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम्। लब्ध्वा तु मानर्सी संज्ञां पञ्चभूतसमन्विताम्। मामेव न प्रपद्यन्ते ततो दुःखतरन्नु किम्। लब्ध्वा ब्राह्मणभावन्तु त्रयो वर्णाः सुमध्यमे!। पापकर्म्मरता ह्यासंस्ततो दुःखतरन्नु किम्। एतत्ते कथितं भद्रे! दुःखकर्म विनिश्चितम्। सर्वभूतहितार्थाय यत्त्वया परिपृच्छ्यते”। “अवाच्यवादांश्च बहूत् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरन्नु किम्” गीता। “मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति” माघः। “सुखं हि दुःखान्यनुभूय शोभते” मृच्छ०। दुःखमनुभवति दुःख + क्यङ् दुःखायते दुखमनुभवतीत्यर्थः। “दुःखायते जनः सर्वः सएवैकः सुखायते” भट्टिः।
दुःखग्राम = पु० दुःखानां ग्रामोऽत्र। १ संसारे शब्दार्थचि०। ६ त०। २ दुःखसमुदाये च।
दुःखजात = त्रि० जातं दुःखमस्य परनि०। संजातसुखे “जातिकालसुखादिभ्यः” इत्यादिना पा० अस्यान्तोदात्तता ६ त०। २ दुःखसमुदाये न०।
दुःखत्रय = न० ६ त०। आध्यात्मिकाधिभौतिकाधिदैविकरूपे दुःखत्रिके दुःखशब्दे सा० का० त० कौ० वाक्यं दृश्यम्।
दुःखदिर = पु० दुष्टः खदिरः वा षत्वम्। महासारे खदिरभेदे शब्दार्थचि०।
दुःखदोह्या = स्त्री दुःखेन दोह्या। दुःखेन दोह्यायां गवि। हेमच०।
दुःखशील = त्रि० दुःखं शीलयति शील–अण् उप०। दुःखानुभवशीलनकर्त्तरि “कामेकपत्नी ब्रतदुःखशीलाम्” कुमा०।
दुःखित = त्रि० दुःख + तार० इतच्। संजातदुःखे “दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः” मनुः।
दुःखिन् = त्रि० दुःख + मुखा० गत्वर्थे इनि। दुःखान्विते
दुःशकुन = न० दुष्टं शकुनं वा रोः शः। अशुभसूचके निमित्तभेदे “बन्ध्याचर्मतुषास्थि सर्पलबणाङ्गारेन्धनक्लीवविट्तैलोन्मत्तवसौषधारिजटिलप्रव्राट्तृणव्याधिताः नग्नाभ्यक्तविमुक्तकेशपतित व्यङ्गक्षुधार्त्ता असृक् स्त्रीपुष्पं शरटः स्वगेहदहनं मार्जारयुद्धं क्षुतम्। काषायी गुड- तक्रपङ्कविधवाः कुब्जाः कुटुम्बे कलिर्वस्त्रादेः स्खलनं लुलापसमरं कृष्णानि धान्यानि च। कार्पासं वमनञ्च गर्दभरवो दक्षेऽतिरुट् गर्भिणी मुण्डार्द्राम्बरदुर्वचीन्ध वधिरोदक्या न दृष्टाः शुभाः। कृष्णाम्बरा कृष्णविलेपनाट्या कृष्णस्रजं मूर्द्धनि घारयन्ती। दृष्टा प्रकीपा यदि कृष्णवर्णा नारी नरैस्तद्विपदो भवन्तीति” शब्दार्थचि० धृतवाक्यम्
दिग्भेदादिभिः शकुनभेदे फलभेदः वृ० सं० ८६ अ० उक्ते यथा “अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम्। यत्तस्य शकुनः पाकं निवेदयति गच्छताम्। ग्रामारण्याम्बुभूव्योमद्युनिशोभयचारिणः। रुतयातेक्षितोक्तेषु ग्राह्याः स्त्रीपुन्नपुंसकाः। पृथग्जात्यनवस्थानादेषां व्यक्तिर्न लक्ष्यते। सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ। पीनोन्नतविपुष्टांसाः पृथुग्रीवाः सुवक्षसः। स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः। तनूरस्कशिरोग्रीवाः सूक्ष्मास्यपदविक्रमाः। प्रसक्तमृदुभाषिण्यः स्त्रियोऽतोऽन्यन्नपुंसकम्। ग्रामारण्यप्रचाराद्यं लोकादेवोषलक्ष येत्। सञ्चिक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम्। पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम्। स्वार्थे प्रधानं साम्यं स्याज्जातिविद्यावयोऽधिकम्। मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम्। अङ्गारिदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः। तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत्। परिशेषयोर्दिशोर्वाच्यं यथासन्नं शुभाशुभम्। शीघ्रमासन्ननिम्नस्थिश्चिरादुन्नतदूरगैः। स्थानवृद्ध्युपघाताच्च तद्वद्व्रूयात्फलं पुनः। क्षणतिथ्युडुवातार्कैर्दैवदीप्तो यथोत्तरम्। क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः। दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः। मांसामेध्याशनो रौद्रो विमिश्रोऽन्नाशनः स्मृतः। हर्म्यप्रासादमङ्गल्यमनोज्ञस्थानसंस्थिताः। श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च। स्वकाले गिरितीयस्था बलिनो द्युनिशाचराः। क्लीवस्त्रीपुरुषाश्चैषां बलिनः स्युर्यथोत्तरम्। जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः। स्वभूमावनुलीमाश्च तदूनाः स्युर्विवर्जिताः। कुक्कुटेभपिरिल्यश्च शिखिवञ्जुलछिक्कराः। बलिनः सिंहनादश्च कूटपूरी च पूर्वतः। क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः। कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः। गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः। विडालीत्सववादित्रगीतहासाश्च वारुणाः। शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः। चार्ष शल्यकपुण्याहथण्टाशङ्खरवा उदक्। न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः। दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा। द्वन्द्वरोगान्वितत्रस्ताः कलहामिषकाङ्क्षिणः। आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित्। रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः शशः। निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ। नंतु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः। शरद्यब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ। व्याघर्क्षवानरद्वीपिमहिषाः सबिलेशयाः। हेमन्ते निष्फला ज्ञेया षालाः सर्वे विमानुषाः। ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः। कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्। शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे। परतश्चापि मातङ्गगोपधर्मसमाश्रयाः। नैरृतीवारुणीमध्ये प्रमदासूतितस्कराः। शौण्डिकः शाकुनी हिंस्री वायव्यपश्चिमान्तरे। विषघातकगोस्वामिकुहकज्ञास्ततः परम्। धनवानीक्षणिकश्च मालाकारः परं ततः। वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः। एवं द्वात्रिंशतो भेदाः पूर्वदिग्भिः सहोदिताः। राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः। गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम्। गच्छतस्तिष्ठतो वापि दिशि यस्यां व्यवस्थितः। विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः। भिन्नभैरवदीनार्तपरुषक्षामजर्जराः। स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः। शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका। सूकरी परपुष्टा च पुन्नामानश्च वामतः। स्त्रीसञ्ज्ञा भासभषककपिश्रीकर्णचिक्कराः। शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः। क्ष्वेडास्पोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः। सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः। ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः। षड्जामध्यमगान्धारा ऋषभश्च स्वरा हिताः। रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः। धन्या नकुलचाषौ च सरटः पापदोऽग्रतः। जाहकाहिशशक्रोडगोधानां कीर्त्तनं शुभम्। रुतसन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः। ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः। चाषः सनकुलों वामो भृगुराहापराह्णतः। छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणा। अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः। श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे। कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः। जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ। पश्चादा सवषण्ढौ च खलासनहलान्युदक्। कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे। यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते। दिवा प्रस्थानवद्ग्राह्याः कुरङ्गरुरुवानराः। अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः। पश्चिमे शर्वरीभागे नप्तृकोलूकपिङ्गलाः। सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम्। नृपसन्दर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत्। गिर्यरण्यप्रवेशे च नदीनां चावगाहने। वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ। क्रियादीप्तौ विनाशाय यातुः परिघसञ्ज्ञितौ। तावेव तु यथाभागं प्रशान्तछतचेष्टितौ। शकुनौ शकुनद्वारसञ्ज्ञितावर्थसिद्धये। केचित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः। शकुनैरेकजातोयैः शान्तचेष्टाविराविभिः। विसर्जयति यद्येक एकश्च प्रतिषेधति। स विरोधोऽशुभो यातुर्ग्राह्यो वा बलवत्तरः। पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत्। सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययः। विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत्। प्राह यातुररेर्मृत्युं डमरं रीगमेव वा। अपसव्यास्तु शकुना दीप्ता भयनिवेदिनः। आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः। तिथिवाय्वर्कमस्थानचेष्टादीप्ता यथाक्रमम्। धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः। जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्। उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः। चितिकेशकपालेषु मृत्युबन्धबधप्रदाः। कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः। अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः। कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु ते। असिद्धिसिद्धिदौ ज्ञेयौ निर्हादाहारकारिणौ। स्थानाद्रुवन् व्रजेद्यात्रां शंसते त्वन्यथागमम्। कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः। उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्च घोषकृत्। एकस्थाने रुवन्दीप्तः सप्ताहाद्ग्रामघातकृत्। पुरदेशनरेन्द्राणामृत्वर्द्धायनवत्सरात्। सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशनाः। सर्पमूषिकमार्जारपृथुरोमविवर्जिताः। परयोनिषु गच्छन्तो मैथुनं देशनाशनाः। अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिमैथुनात्। बन्धघातभयानि स्युः पादोरुमस्तकान्तिगैः। अगष्पपिशितान्नादैर्वर्षमोषक्षतग्रहाः। क्रूरीग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः। चिरकालैश्च दीप्ताद्यास्वागमो दिक्षु तन्नृणाम्। सद्रव्यो वलवांश्च स्यात्सद्रव्यस्यागमो भवेत्। द्युतिमान् विनतप्रेक्षी सौम्यी दारुणवृत्तकृत्। विदिक्स्थः शकुनो दीप्तो वाम- स्थेनानुवाशितः। स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः। शान्तः पञ्चमदीप्तेन विरुतो विजयावहः। दिग्नरागमकारी वा दोषकृत्तद्विपर्यये। वामसव्यरुतो मध्यः प्राह स्वपरयोर्भयम्। मरणं कथयन्त्येते सर्वे समविराविणः। वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः। दीर्घाब्जमुषिताग्रेषु नरनौशिविकागमः। शकटेनोन्नतस्थे च छायास्थे छत्रसंयुतः। एकत्रिपञ्चसप्ताहात् पूर्वाद्यास्वन्तरासु च। सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुशङ्कराः। प्राच्यादीनां पतयो दिशः पुमांसोऽङ्गना विदिशः। तरुतालीविदलाम्बरसलिलजशरचर्मपट्टलेखाः स्युः। द्वात्रिंशत् विभक्ते दिक्चक्रे तेषु कार्याणि। व्यायामशिखिनिकूजितकलहाम्भोनिगडमन्त्रगोशब्दाः। वर्णाश्च रक्तपीतककृष्णसिताः कोणगा मिश्राः। चिह्नं ध्वजो दग्धमथ श्मशानं दरी जलं पर्वतयज्ञघोषाः। एतेषु संयोगभयानि विन्द्यात् अन्यानि वा स्थानविकल्पितानि। स्त्रीणां विकल्पे वृहती कुमारी व्यङ्गा विगन्धा त्वथ नीलवस्त्रा। कुस्त्री प्रदीर्घा विधवा च ताश्च संयोगचिन्तापरिवेदिकाः स्युः। पृच्छासु रूप्यकनकातुरभामिनीनां मेषाव्ययानमखगोकुलसंश्रयासु। न्यग्रीधरक्ततरुलोध्रककीचकाख्याश्चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च”। अन्यानि शुभाशुभशकुनानि तत्रोक्तानि तत्तच्छब्दे उक्तानि
दुः(दुश्श)शला = स्त्री धृतराष्ट्रकन्यायाम् वा रोः शः। दुश्शलाप्यत्र “कुण्डजश्चित्रकश्चैव दुःशला च शताधिका” भा० आ० ६७ अ०।
दुःशास = त्रि० दुःखेन शिष्यतेऽसौ शास–कर्मणि वेदे खल्। दुःखेन शिष्यमाणे।
दुःशासन = त्रि० दुःखेन शिष्यतेऽसौ “भाषायां शासियुधि दृशिधृषिमृषिभ्यो युच्” पा० भाषायां युचो विधानात् कर्मणि युच्। दुःखेन शिष्यमाणे दुर्योधनादिमध्ये २ धृतराष्ट्रपुत्रभेदे पु०। “दुर्योघनोयुयुत्सश्च राजन्! दुःशासनस्तथा” भा० आ० ६७ अ०
दुः(श्शी)शील = त्रि० दुष्टं शीलमस्य वा रोः शः। दुष्टशीले “पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति” भा० स० २० अ०
दुःशोध = त्रि० दुर् + शुध–कर्मणि खल्। १ दुःखेन शोधनीये प्रतीकार्ये च त्रि० “तथैव खलु दुःशोधान् शोधयेत् क्षारकर्मणा” सुश्रु०।
दुः(दुष्ष)षन्धि = पु० दुष्टः सन्धिः सुषामा० षत्वे विसर्गस्य वा षः। दुष्टे सन्धौ
दुः(दुष्ष)षमस् = अव्य० दुष्टं सममत्र तिष्टद्गु० अव्ययी० षत्वे रोर्वा षः। गर्हायाम् अमरः ६ ब०। अषत्वम्। असमञ्जमे त्रिका०।
दुः(दुस्स)सह = त्रि० दुःखेन सह्यतेऽसौ सह–खल् वा रोः सः। १ दुःखेन सोढव्ये “यो दुःसहासो वनुषा” ऋ० ९। ९१। ५ “तेषामापततां वेगः करिणां दुःसहोऽभवत्” भा० व० ६५ अ० “दुःसहेन हृदये निशाचरी” रघुः “भवत्यनिष्टादपि नाम दुःसहात्” कुमा०। २ नागदमन्यां स्त्री राजनि०।
दुःषु(सु)प्त = त्रि० दुर् + स्वप–क्त–वा षत्वम्। १ दुष्टस्वप्नयुक्ते भावे क्त। २ दुष्टे स्वप्ने न०।
दुःषूति = त्रि० दुष्टा सूतिः रोर्वा षः। दुष्टायां सूतौ।
दुः(दुष्षे)षेध = त्रि० दर्–सिध–खल् सुषामा० षत्वे रोर्वा षः। सेद्धुमसाध्ये।
दुःसक्थ(किथ) = त्रि० दुष्टं सक्थि यस्य वा अच् समा०। दुष्टसक्थियुक्ते।
दुःसाध(ध्य) = त्रि० दुःखेन साध्यतेऽसौ खल् तत्रार्थे। घञ् वा। साधयितुमशक्ये “छन्दोनुवृत्तिदुःसाधा” माघः “किं नाम मम दुःसाध्यं शत्रुणा निग्रहे रणे” हरिवं० २६७ अ०
दुःसाधिन् = त्रि० दुष्टं साधयति साधि–णिनि। १ दुष्टसाधके २ दौवारिके पु० शब्दमाला।
दुः(दु)स्त्री = स्त्री दुष्टा स्त्री प्रा० स० वा विसर्गलोपः। दुष्टायां स्त्रियां तस्याभावः कर्म वा अण्। दीस्त्रीण तस्याभावे कर्मणि च न०।
दुः(दु)स्थ = त्रि० दुष्टं तिष्ठति स्था–क वा विसर्गलोपः। १ दुर्गते २ मूर्खे ३ दुष्टं स्थिते च मेदि० ४ लुब्धे शब्दार्थचि०। “दुःस्थ तिष्ठसि यच्च पथ्यमधुना कर्त्तास्मि तत् श्नोष्यसि” अमरुश०।
दुः(दु)स्पर्श = त्रि० दुःखेन स्पृश्यंतेऽसौ दुर् + स्पृश–कर्मणि खल् वा विसर्गलोपः। १ स्प्रष्टुमशक्ये मेदि०। “दुर्ग्राह्यो मुष्टिना वायुः दुस्पर्शः पाणिना शशी” भा० आनु० ३३ अ० ३ दुरालभायाम् स्त्री अमरः ३ लताकरञ्जे राजनि० ४ कपिकच्छ्वाम् ५ आकाशवल्ल्यां ६ कण्टकार्य्याम् च स्त्री राजनि०।
दुः(दु)स्फोट = पु० दुष्टं स्फोटयति स्फुट–अच् वा विसर्गलोपः। १ कर्मणि खल्। २ दुष्टे ब्रणे च अस्त्रादौ हेमच०।
दुःस्वप्न = पु० दुष्टः स्वप्नः प्रा० स०। अशुभसूचके स्वप्नभेदे स च छान्दोग्यो० “अथ स्वप्ने कृष्णदन्तं पुरुषं पश्यति सएनं हन्ति” इत्युक्तः। कतिचित् दुःस्वप्नभेदाश्च ब्रह्मवैवर्तजन्मख० उक्ता यथा “सव श्रुत महाभाग! दुःस्वप्नं कथय प्रभो!। उवाच तञ्च भगवान्! श्रूयतामिति तद्वचः। श्रीभगर्वानुवाच स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति। नर्त्तन गीतमिष्टञ्च विपत्तिस्तस्य निश्चितम्। दन्ता यस्य विपीड्यन्ते विचरन्तञ्च पश्यति। धनहानिर्भवेत्तस्य पीडा चापि शरीरजा। अभ्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां दिशम्। खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः। स्वप्ने चूर्णं जवापुष्पमशोकं करवीरकम्। विपत्तिस्तस्य तैलञ्च लवणं यदि पश्यति। नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा। कपर्द्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात्। स्वप्ने रुष्टं ब्राह्मणञ्च ब्राह्मणीं कोपसंयुताम्। विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम्। वनपुष्पं रक्तवर्णं पलाशञ्च सुपुष्पितम्। कार्पासं रक्तवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात्। गायन्तीञ्च हसन्तीं वा कृष्णाम्बरधरां स्त्रियम्। दृष्ट्वा कृष्णाञ्च विधवां नरो मृत्युमवाप्नुयात्। देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च। आस्फोटयन्ति धावन्ति तस्य देशो विनश्यति। वान्तं मूत्रं पुरीषञ्च रैत्यं रत्नं सुवर्णकम्। प्रत्यक्षमथ वा स्वप्ने जीवितं दशमासिकम्। कृष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम्। उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति। मृतवत्सञ्च सुप्तञ्च मृगस्य वानरस्य वा। यः प्राप्नोत्यस्थिमालां च विपत्तिस्तस्य निश्चितम्। अभ्यङ्गितस्तु तैलेन हविषा मधुनाऽपि वा। तक्रेणैव गुडेनापि पीडा तस्य विनिश्चितम्। पतितं नखकेशञ्च निर्वाणाङ्गारमेव च। भस्मपूर्णां चितां दृष्ट्वा लमते मृत्युमेव च। मसीञ्च किञ्चित् कृष्णं वा दृष्ट्वा दुःखं लभेद्ध्रुवम्। पादुकाफलकं रक्तपुष्पमाल्यं भयानकम्। माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं भवेत्। करटं सरटं काकं भल्लूकं वानरं परम्। पूयगात्रमलं स्वप्ने केवलं व्याधिकारणम्। भग्नभाण्डं क्षतं शूद्रं यकृत्कुष्ठैश्च रोगिणम्। रक्ताम्बरञ्च जटिलं शूकरं महिषं खरम्। ऋक्षाकारं महाघोरं मृतजीवं भयङ्करम्। दृष्ट्वा स्वप्ने योनिलिङ्गं विपत्तिं लभते ध्रुवम्। कुवेशरूपं म्लेच्छञ्च यमदूतं भयङ्करम्। पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः। ब्राह्मणो ब्राह्मणी बाला बालको वा सुतः सुता। विदायं कुरुते कोपात् दृष्ट्वा दुःखमवाप्नुयात्। कृष्णपुष्पञ्च तन्माल्यं शस्यशस्त्रास्त्रधारिणम्। म्लेच्छाञ्च विकृताकारां दृष्ट्वा मृत्युं लभेद्ध्रुवम्। नाट्यञ्च नर्त्तनं गीतं गायनं रक्तवामसम्। मृदङ्गवाद्यमानन्दं दृष्ट्वा दुःखं लभेद्घ्रुवम्। प्राणत्यक्तं मृतं दृष्ट्वा मृत्युञ्च लभते ध्रुवम्। मत्स्यादिधारणं यो हि तद्भ्रातुर्मरणं भवेत्। छिन्नं भयङ्करं वापि विकृतं मुक्तकेशिनम्। क्षिप्तं नृत्यञ्च कुर्वन्तं दृष्ट्वा मृत्युं लभेन्नरः। मृतो वापि मृता वापि कृष्णा म्लेच्छा भयानका। उपगूहति यं स्वप्ने तस्य मृत्यु र्बिनिश्चितम्। उपगूहति यं स्वप्ने शृङ्गिणो दंष्ट्रिणोऽपि वा। बालका मानवाश्चैव तस्य राजकुलाद्भयम्। छिन्नवृक्षं पतन्तञ्च शिलावृष्टिं तुषं क्षुरम्। रक्ताङ्गारं भस्मवृष्टिं दृष्ट्वा दुःखमवाप्नुयात्। ग्रहं पतन्तं शैलं वा धूमकेतुं भयानकम्। भग्नं स्कन्धं तरोर्वापि दृष्ट्वा दुःखमवाप्नुयात्। रथगेहवृक्षशैलगोहस्तितुरगोऽम्बरात्। भूमौ पतति यत्स्वप्ने विपत्तिस्तस्य निश्चितम्। उच्चैः पतन्ति गर्त्तेषु भस्माङ्गारचितासु च। क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः। बलाद्गृह्णाति इष्टञ्च छत्रञ्च यस्य मस्तकात्। पितुर्नाशो भवेत्तस्य गुरोर्वापि नृपस्य वा। सुरभी यस्य गेहाच्च याति त्रस्ता सवत्सिका। प्रयाति पालतस्तस्य लक्ष्मीरपि वसुन्धरा। पाशेन कृत्वा बद्धञ्च यं गृहीत्वा प्रयान्ति च। यमदूताश्च ये म्लेच्छास्तस्य मृत्युर्विनिश्चितम्। गणको ब्राह्मणो वापि ब्राह्मणी वा गुरुस्तथा। परिरुष्टः शपति यं विपत्तिस्तस्य निश्चितम्। विरोधिनश्च काकास्तु कुक्कुरा भल्लुकास्तथा। पतन्त्यागत्य यद्गात्रे तस्य मृत्युर्न संशयः। महिषा भल्लुका उष्ट्राः शूकरा गर्द्दभास्तथा। रुष्टा धावन्ति यं स्वप्ने स रोगी निश्चितं भवेत्”। अस्य शान्तिस्तत्रोक्ता यथा “रक्तचन्दनकाष्ठानि घृताक्तानि च यो जुहेत्। गायत्र्या च सहस्रेण तेन शान्तिर्विधीयते। सहस्रधा जपेद् यो हि भक्त्या मां मधुसूदनम्। निष्पापो हि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नो भवेत्। अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम्। हंसं नारायणञ्चैव एतन्नामाष्टकं शुभम्। शुचिः पूर्वमुखः प्राज्ञो दशकृत्वश्च यो जपेत्। निष्पापो हि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नो भवेत्”। स्वापंसमयलग्ने दुःस्वप्नसूचकग्रहयोगभेदः नी० ल० त० उक्तो यथा “लग्नांशपेऽके तनुगेऽथ वाऽस्मिन् दुःस्वप्नमीक्षेत यथा र्कविम्बम्। रक्ताम्बरं वह्निमथापि चन्द्रे इत्येवमादि”।
“प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः। भूतैः प्रेतैः श्वभिर्गृघ्रैर्गोमायुखरशूकरैः। सरभैः करभैः कीशैः श्येनैरश्वतरैर्वृकैः। स्वप्ने स जीवितं त्यक्त्वा वर्षान्ते यममीक्षते। गन्घपुष्पांशकैः शोणैः स्वान्तनुं भूषितान्नरः। यः पश्येत् स्वप्नसमये सोऽष्टौ मासाननित्यहो” काशीख० अधिकं कालचिह्नशब्दे १९९७ पृ० दृश्यम्
दुकूल = न० दु–ऊलच् कुक् च दुष्टं कूलति कूल–आवरणे क वा पृषो०। १ क्षौमाम्बरे २ श्लक्ष्णवस्त्रे ३ सूक्ष्मवस्त्रे च मेदि०। “गोपवधूटीदुकूलचौराय” भाषा० “अथ सवल्क दुकूलकुथादिभिः” भट्टिः। “वधदकूलं कलहंसलक्षणम्” कुमा०।
दुगूल = न० दुकूल + पृषो०। दुकूलार्थे पट्टवस्त्रे हेमच०।
दुग्ध = न० दुह–क्त। १ पयसि क्षीरे स्त्रीजातिस्तननिष्यन्दिद्रवद्रव्ये। कर्मणि क्त। २ कृतदोहायां धेन्वादौ स्त्री ३ प्रपूरिते त्रि० मेदिनी०। भावे क्त। ४ दोहने न० क्षीरवर्गशब्दे २३७७ पृ० अस्य विवृतिः। तत्रानुक्तं भावप्र० उक्तं किं चिदत्राभिधीयते “रात्रौ चन्द्रगुणाधिक्याद्व्ययामाकरणात्तथा। प्राभातिकं तदा प्रायः प्रादोषाद्गुरु शीतलम्। दिवाकरकराघातात् व्यायामानलसेवनात्। प्राभातिकात्तु प्रादोषं लघु वातकफापहम्”। अथ दुग्धसेवने समयादिविशेषे गुणमाह। “वृष्यं वृंहणमग्निदीपनकरं पूर्वाह्णकाले पयो मध्याह्ने तु वलावहं कफहरं पित्तापहं दीपनम्। बाले वृद्धिकरं क्षये क्षयकरं वृद्धेषु रेतोवहम् रात्रौ पथ्यमनेकदोषशमनं क्षीरं सदा सेव्यते। वदन्ति पेयं निशि केवलं पयो भोज्यं न तेनेह सहौदनादिकम्। भवत्यजीर्णे निशि पीतशर्करा क्षीराल्पपानस्य न शेषमुत्सृजेत्। विदाहोन्यन्नपानानि दिवा भुङ्क्ते हि यन्नरः। तद्विदाहप्रशान्त्यर्थं रात्नौ क्षीरं सदा पिबेत्। दीप्तानले कृशे पुंसि वातवृद्धे पयःप्रिये। मतं हिततमं पथ्यं सद्यः शुक्रकरं यतः”। अथ मथितस्य दुग्धस्य गुणाः “क्षीरं गव्यमथाजं कोष्णं दण्डाहतं पिबेत्। लघु वृष्यं ज्वरहरं वातपित्तकफापहम्”। अथ गोजदुग्धगुणाः “गोदुग्धप्रभवं किं वा छागीदुग्धसमुद्भवम्। तद्भवेच्च त्रिदोषघ्नं रोचनं वलव र्द्धनम्। वह्निवृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु। अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते”। अघ निन्दितदुग्धम् “विवर्णं विरसं चाम्लं दुर्गन्धं श्रथितं पयः। वर्जयेदम्ललवणयुक्तं बुद्ध्यादिहृद्यतः”। अजादिदुग्धगुणादिभेदादिकं तत्तच्छब्दे उक्तम्। “केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीत माहुः। दोहान्तशीतं महिषीपयस्यं गव्यन्तु धारोष्णमिदं प्रशस्तम्। वृष्यं वृंहणमग्निवर्द्धनकरं पूर्वाह्णपीतं पयो मध्याह्ने बलदायकं रतिकरं कृच्छ्रस्य विच्छेदनम्। बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं बार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा। क्षीरं मुहूर्त्तत्रितयोषितं यदतप्तमेतद्विकृतिं प्रयाति। षण्णान्तु दोषं कुरुते तदूर्द्ध्वं विषोपमं स्यादुषितो दशानाम्। जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्। तदेव तरुणे पीतं विषवद्धन्ति मानुषम्”। क्षीरक्वाथगुणः। “चतुर्थभागं सलिलं निधाय यत्नाद् यदावर्त्तितमुत्तमं तत्। सर्वामयव्नं बलपुष्टिकारि वीर्यप्रदं क्षीरमति प्रशस्तम्। गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहिषम्। क्षीरं सशर्करं पथ्यं यद्वा सात्म्यञ्च सर्वदा। क्षीरं न भुञ्जीत कदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्द्धम्। पिष्टान्नसन्धानकमाषमुद्गकोशातकीकन्दफलादिकैश्च”। तथा
“मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः। शाकजाम्बवरसैश्च सेवितं मारयत्यवुधमाशु सर्पवत्। स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत्। दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च। नित्यन्तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः। पुष्यन्ति धातवः सर्व बलपूष्टिविवर्द्धनम्। क्षीरं गवाजकादेर्मधुरं क्षीरं नवप्रसूतानाम्। रूक्षञ्च पित्तदाहं करीति रक्तामयं कुरुते। मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम्। लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम्। गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम्। मध्यम वयसां मुक्तमिदं दुर्बलन्तु वृद्धानाम्। तासां मासत्रयादूर्द्ध्वं गुर्विणीनाञ्च यत् पयः। तद्दाहि लवणं क्षीरं मधुरं पित्तशोषकृत्। दुग्धाम्रं शीतलं स्वादु दृष्यं वर्णकरं गुरु। वातपित्तापहं रुच्यं वृंहणं बलवर्द्धनम्” राजनि०।
दुग्धतालीय = न० दुग्धस्य तालाय प्रतिष्ठाय हितं छ। १ दुग्धाम्रे २ क्षीरफेने च मेदि०।
दुग्धपाचन = न० दुग्धं पाच्यतेऽनेन पाचि–करणे ल्युट्। दुग्धपाकपात्रे हारा०।
दुग्धपाषाण = पु० दुग्धं निर्यासः पाषाण इव यस्य। (शिरगीला) ख्याते वृक्षभेदे राजनि०। स्वार्थे क। अत्रैवार्थे।
दुग्धपुष्पी = स्त्री दुग्धमिव शुभ्रं पुष्पं मञ्जरी यस्याः गौरा० ङीष्। (दुचपेया) ख्याते १ वृक्षभेदे २ सेवकालौ शब्दश्च०।
दुग्धफेन = पु० दुग्धस्य फेनी यत्र। शर्करासहिते क्षीरहिण्डीरे राजनि०। गौरा० ङीष्। दुग्धफेनी ३ क्षुपभेदे स्त्री। स्वार्थे क तत्रार्थे पु०
दुग्धबन्ध = पु० दुग्धार्थं बन्धः। दुग्धदोहनार्थं गोर्बन्धे “पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धकैः” हेमच०।
दुग्धवीजा = स्त्री दुग्धमिव वीजं शस्यवीजं यत्र। यावनालाद्यतण्डुलचिपिटे राजनि०।
दुग्धसमुद्र = पु० ६ त०। दुग्धोदके क्षीरसमुद्रे त्रिका०। दुग्धसिन्धु प्रभृतयोऽप्यत्र। “लबणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिं श्रीश्च यस्मात् बभूव” सि० शि०
दुग्धाङ्क = पु० दुग्धमिव शुभ्राऽङ्कः चिह्नभेदीऽस्य। उपलभेदे शब्दार्थक०।
दुग्धाश्मन् = पु० दुग्धं निर्यासः अश्मा इव। दुग्धपाषाणवृक्षे राजनि०।
दुग्धाम्र = न० दुग्धपक्वमाम्रम्। दुग्धतालीये राजनि०।
दुग्धिका = स्त्री दुग्धं क्षीरमिव निर्यासोऽस्त्यस्याः ठन्। (दुधि (क्षीरा) इति ख्याते वृक्षभेदे। “दुग्धिकोष्णा गुरूरूक्षा वातला पुत्रदायिनी। स्वादुक्षीरा कटुस्तिक्ता सृष्टमूत्रमला पटुः। साद्वी विष्टम्भिनी वृष्या कफकुष्ट कृमिप्रणुत्” भावप्र०। २ गन्धिका इति प्रसिद्धायामुत्तमफलिन्याम् युग्मफलायाम् रत्नमा०।
दुग्धिनिका = स्त्री दुग्धमस्त्यस्य इनि दुग्धिनि निर्यासेकायति कै–क अलुक्स०। रक्तापामार्गे राजनि०।
दुग्धी = स्त्री दुग्धमिव निर्यासोऽस्त्यस्याः अर्श आद्यच् गौरा० ङीष्। १ दुग्धिकायाम् (दुधि) १ क्षीरावीलतायां मेदि०। २ दुग्धपाषाणे राजनि०।
दुघ = त्रि० दाग्धि–दुह–क हस्य घः। दोहनकर्त्तरि “कामदुघा गौः” सि० कौ०। अस्य कस्मिंश्चिदुपपदे एव साधुत्वं नान्यथा। “कामदुघाङ्घ्रिपस्य” भाग० ३। २१। १५
***