दिक्क = पु० दिक्षु कायते कै–क। विंशतिवर्षवयस्के करिशावके करभे शब्दर०।
दिक्कन्या = स्त्री दिश एव कन्याः। १ दिग्रूपकन्यायाम्। “दिक्कन्याभिः पवनचमरैर्वीज्यमानः” भारतरत्नम्। दिश एव कन्याः ब्रह्मकन्याः। व्रह्मणः कन्यारूपायां दिशि तासां ब्रह्मकन्यात्वेनोतपत्तिकथा वराहपु० यथा “शृणु राजन्नवहितः प्रजापाल! कथामिमाम्। यथा दिशः समुत्पन्नाः श्रीत्रेभ्यः पृथिवीपते!। ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते। चिन्ताभून्महती को मे प्रजाः सृष्टिं करिष्यति। एवं चिन्तयतस्तस्य अवकाशं ध्रजत्विह। प्रादुर्बभुवुः श्रोत्रेभ्यो दश कन्या महाप्रभाः। पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा। ऊर्द्धाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप!। तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः। याः पश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः। ता ऊचुः प्रणयाद्देवं प्रजांपतिमकल्मषम्। अवकाशन्तु नो देहि देवदेव! प्रजापते!। यत्र तिष्ठामहे सर्वा भर्त्तृभिः सहिताः सुखम्। पतयश्च महाभाग! देहिं नोऽव्यक्तसम्भव!। ब्रह्मोवाच ब्रह्माण्डमेतत् सुश्रोण्यः! शतकोटिप्रविस्तरम्। वस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ। भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः!। यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधना। एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा। ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महाबलान्। दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन्। विवाहं कारयामास ब्रह्मा लोकपितामहः। एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च। निरृताय च देवाय वरुणाय महात्मने। वायवे धनदेशाय ईशानाय च सुव्रतः। ऊर्द्ध्वं स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम्। एवं दत्त्वा पुनर्व्रह्मा तिथिं प्रादात् दिशां पुनः। दशमीं भर्त्तृनाम्नस्तु अर्द्धनाम्नोद्धरन् प्रभुः। ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्त्तिताः”।
दिक्कर = पु०। दिशं स्त्रीमुखदंशनं करोति कृ–टच्। १ यूनि त्रिका० २ शिवे च दिक्करवासिनीशब्दे दृश्यम्।
दिक्करवासिनी = स्त्री दिक्वरे शिवे वासिनी। देवीभेदे “एवं दिक्करवासिन्याः कथितः पूर्ववत् क्रमः। यं श्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः। दिक्करस्तरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः। तस्मिन्नध्युषिता देवी तस्माद्दिक्करवासिनी” कालिका० पु० ८२ अ०।
दिक्करिका = स्त्री १ नदीविशेषे। तत् वा “अस्ति नाटकशैले तु सरो मानससन्निभम्। यत्र सार्द्धं शैलपुत्र्या जलक्रीडां सदा हरः। कुरुते नरशार्द्दूल! स्वर्णपङ्कजशोभिते। तस्य पश्चान्मध्यपूर्वभागेभ्यश्च सरित्त्रयम्। अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति। तस्य पश्चिम भागे तु नदी दिक्करिकाह्वया। दिग्गजक्षेत्रसंजाता तेन दिक्करिका स्मृता” कालि० पु० ८२ अ०। दिक् दन्तदंशनं करिका नखक्षतरेखा च यस्याः। २ युवत्यां स्त्री दिक्करिन्शब्दे उदा०।
दिक्करिन् = पु० दिक्षु स्थितः करी। ऐराव्तादौ दिग्गजे “परिणतदिक्करिकास्तटीर्बिभर्त्ति” माघः। ते च पूर्वादिक्रमेण स्थिताः अमरे दर्शिताः यथा “ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः। पुष्पदन्तः सार्वभौभः सुप्रतीकश्च दिग्गजाः”। दिक्षु स्थिताः गजाः दिग्गजाः इत्यर्थः। तत्स्त्रियां स्त्री ङीप्। तेषां क्रमेण स्त्रियश्च “करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्। ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती” अमरोक्ताः।
दिक्करी = स्त्री “दिग् दष्टे वर्त्तुलाकारे करिका नखरेखिका” वैजयन्त्युक्तेः दिशः वर्त्तुलाकारा दन्तक्षतभेदा करी च नखक्षतभेदा यस्याः संज्ञात्वात् न कप्, दिक्करः युवा ततः “वयसि अचरमे” वा० तरुणवयोवाचित्वात् स्त्रियां ङीष् वा। २ युवत्यां स्त्रियाम् हेमच०।
दिक्पति = पु० ६ त०। दिशां पत्यौ १ इन्द्रादौ दिक्कन्या शब्दे दृश्यम्। “पवनोदिक्पतिर्भौम आकाशः खचरामराः” संकल्पप्रारम्भमन्त्रः “वितरसि दिक्षु रणे दिक्पतिकमनीयम्” गीतगो०। “सूर्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः शशी सीम्यस्त्रिदशमन्त्री च पूर्वादिदिगधीश्वराः” इत्युक्तेषु २ सूर्य्यादिग्रहेषु।
दिक्पाल = पु० दिशं पालयति पालि–अण् उप० स०। दिक्पतौ इन्द्रादौ “त्रार्च्चयन्ति विधिना दिक्पालांश्चैव कर्मिणः” पद्मपु०। कलसशब्दे १७८१ पृ० उदा०।
दिक्शब्द = पु० दिशि दृष्टः शब्दः। दिग्वाचकशब्दे पूर्वापरादौ तस्य देशकालादिपरत्वेऽपि भूतपूर्वं गत्या दिग्वाचकत्वात्तथात्वम् “अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते” पा० “दिशि दृष्टः शब्दो दिक्शब्दः तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति” सि० कौ०।
दिक्शूल = न० दिशि दिग्भेदे गतौ शूलमिव। प्राच्यादिदिक्षु गमने निषिद्धवारभेदे। “शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्द्वोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत्। शूलानीति विलङ्घा यान्ति मनुजा ये वित्तलाभाशया भ्रष्टाशाः पुनरापतन्ति यदि ते शक्रेण तुल्या अपि” ज्योतिःसारसंग्रहः। केषाञ्चिन्मते “बौधे गुरौ दक्षिणाम्। ईशाने ज्वलने चीव नैरृते मारुते तथा। न गन्तव्यं सुराचार्ये प्रतीच्यां रविशुक्रयोः” इति
दिक्साधन = न० दिशः साध्यन्ते ज्ञानार्थम् अनेन। दिग्ज्ञान साधने उपायभेदे तच्च कुण्डार्के दर्शितं यथा “नृपाङ्गुलैः संमितकर्कटेन सूत्रेण वा वृत्तवरं विलिख्य। रव्यङ्गुलं शङ्कुममुष्य मध्ये निवेशयेत् खाक्षि मिताङ्गुलीभिः। चतुर्मिताभिश्च ऋजूत्तमाभिः संस्पृष्टशीर्षं तु शलाकिकाभिः। तच्छङ्कुभा यत्र विशेदपेयाद्वृत्ते क्रमात् स्तो वरुणेन्द्रकाष्ठे” नृपाङ्गलैः परिमितेन कर्कटेन सूत्रेण वा वृत्तं विलिख्य तन्मध्ये द्वादशाङ्गुलं दृडसूच्यग्रं स्थापयेत् कीदृशं विंशत्यङ्गुलमिताभिश्चतसृभिः ऋजुभिः समानाभिः शलाकामिः कल्पितचतुर्दिग्गतवृत्तस्थाभिः संस्पृष्टमस्तकम् एवं शङ्कुसमत्वं साधयित्वा तादृशस्य शङ्कोश्छाया पूर्वाह्णे यत्र यस्मिन् प्रदेशे वृत्ते प्रविशति यत्र वापराह्णे वृत्ताद्बहिरपैति तत्र चिह्नयोः क्रमात् प्रतीची प्राची च भवत इति अत्र दिगज्ञानशब्दे वक्ष्यमाणम् “वृत्तेऽम्भः सुसमी- कृतक्षितिगते इत्यादि सि० शि० वाक्यं प्रमाणम्। तत्र असार्द्धश्लोकस्योपपत्तिः ग्रमि० उक्ता यथा “दोःकोट्योर्नाम भेदो न स्वरूपभेद इति दोःकोटिवर्गयोगपद कर्णः १० वृत्तपरिधिस्पृष्टदिगन्ताच्छङ्क्वग्रं यावन्नीयमानाश्चतस्रः शलाकाः कर्णा भवन्ति समे देशे शङ्कुं निखाय शङ्कु समितया रज्ज्वा मण्डलं परिलिख्य यत्र शङ्क्वग्रछाया पतति सा प्राचीति” अत्र शङ्कुसंमितयेत्युपलक्षणं तेनाधिकयापि रज्ज्वा वृत्तं कार्य्यम्। अन्यथा यत्राक्षभा षडङ्गुला तत्र धनुःसंक्रान्तौ द्वादशाङ्गुलशङ्कोश्छायाप्रवेशस्तादृशे वृत्ते न स्यादेव तस्मादस्माभिः षोडशाङ्गुलसूत्रेण वृत्तं कारितं तथा वृत्ते कृते लाघवं चैकेनैव वृत्तेन शङ्कुसमत्वमाधनं दिक्साधनं च सिध्यति। अतएव रामवाजपेयी “शङ्कुमानाधिके व्यासदले वृत्ते विशेद्यदि” इत्याह एवं स्थूलप्राचीसाघनं कृत्वा सूक्ष्ममपि शालिन्याह। “कर्के कीटे गोमृगे यूकया सा द्वाभ्यां चाल्पा सिंहकुम्भात्त्रिकेऽपि। यां वै काष्ठां भानुमान् याति तस्यां चाल्पा द्वन्द्वे कार्मुके चालनं न।” सा प्राची कर्के कर्कसंक्रान्तौ कीटे वृश्चिकसंक्रान्तौ वृषभमकरसंक्रान्तौ एकया यूकया चाल्पा सूर्यस्यायनवशात् उत्तरायणे उत्तरतः दक्षिणायने दक्षिणतः एवं सिंहकुम्भात्त्रिके सिंहकन्यातुलासंक्रान्तौ कुम्भमीनमेषसंक्रान्तौ च द्वाभ्यां यूकाभ्यां चालनीया अयनवशात् मिथुनधनुःसंक्रान्तौ चालनं नास्तीति एवं प्राचीसाधनं कृत्वाथोत्तरदक्षिणयोः साधनं शालिन्याह “रज्ज्वुं द्विघ्नां मध्यचिह्नां सपाशां प्राचीं शङ्कौ पश्चिमे चापि दत्त्वा। कर्षेद्धीमान् दक्षिणे चोत्तरे च तच्चिह्ने स्याद्दक्षिणाचोत्तरा दिक्”। कुण्डमण्डपयोर्यावान् विस्तारस्तद्द्विगुणकृतमध्याङ्कादुभयतः पाशवती रज्ज्वुर्न्यस्या तां प्राची प्रचीच्योर्दत्तशङ्क्वोर्विन्यसेत् ततो मध्याङ्के धृत्या रज्ज्वुंदक्षिणे उत्तरे चाकर्षेत् विद्वान्, कर्षाङ्के दक्षिणा उत्तरा च स्यादिति अत्र स्पष्टैव युक्तिरिति। अथ रात्रौ दिक्साधनीपायं वसन्तमांलिकयाह “निशि वा श्रवणोदये दिगैन्द्री गुरुभस्योदयनेऽथ वह्निभस्य। शरवर्द्धकिवायुभान्तरालेऽप्यमुतः साधय पूर्ववच्च याम्याम्” अथवा रात्रौ श्रवणस्योदये प्राची अथ वा पुष्पस्योदये प्राची अथवा कृत्तिकोदये प्राची अथ शरवर्द्धकिस्त्वष्टा वायुस्तयोर्भे चित्रास्वात्यौ तयोरन्तराले प्राची। अमुतः प्राचीतः पूर्बवत् पूर्वोक्तेन तथा याम्यां दक्षिणादिशं साधयेदिति “कृत्तिका श्रवणः पुष्यश्चित्रास्वात्योर्शदन्तरम्। एतत् प्राच्या दिशो रूपं युगमात्रोदिते पुरः” इति। अथ चित्रास्वात्योर्यदन्तरे प्राचोत्युक्तं तन्मध्यस्य दुर्विज्ञेयत्वात्तदुपायमनष्टुभाह “चित्रां विद्ध्वैकया स्वातीमन्ययापि शलाकया। तिर्यक्स्थान्तरचिह्नात् तु द्विमूलेऽन्या स्फुटेन्द्रदिक्। एकया ऋज्वा शलाकया चित्रां विद्ध्वा अन्यया तादृशैव शलाकया स्वातीं विद्ध्वातयोः शलाकयोरुपाग्रं दक्षिणोत्तरा मध्याङ्कात् द्वितीयां शलाकां समतया दद्यात् प्रथमद्वितीययोः शलाकयोर्मूलम् एकीकृत्य तृतीयां मध्याङ्कादुभयसंपातं यावच्चतुर्थी शलाकां प्रान्ते रज्ज्वुप्रोतलम्बद्वयवतीं पूर्वापरायतां दद्यात् यत्र लम्बकौ भूम्यां पतितौ तत्राङ्कयोः पूर्वापरसूत्रदानात् स्पष्टा प्राचीत्यत्र स्पष्टा युक्तिरिति। अथ प्रकारान्तरेण लघूपायेनोदीचीसाधनमाह, दिनमानदले सप्ताङ्गुलच्छायाग्रतो हि यत्। शङ्कुमूले नीयमागं सूत्रं स्यादुत्तरा दिशा”। तिथिपत्राद्गणिताद्वा दिनमानमेतावदिति ज्ञात्वा ततो घटिकादिनां ज्ञाते दिनार्द्धे मध्याह्ने सप्ताङ्गुलशङ्कोर्यत्र छायाग्रं लगति तस्माच्छङ्कुमूलं यावन्नीयमानं सूत्रं दक्षिणोत्तरसूत्रमिति अथ वा सप्ताङ्गुलशङ्कोर्गणितागतमाध्याह्निकछायातुल्या तस्यैव छाया यदा स्यात्तदग्राच्छङ्कुमूले नीयमानं सूत्रं दक्षिणोत्तरेति। अत्र युक्तिस्तस्मिन् समये रविर्दक्षिणोत्तरवृत्ते भवतीति ततः पूर्ववत् पूर्वापरे साध्ये एवं दिक्साधनं विधाय मण्डपस्य चतुष्कोणत्वाच्चतुष्कोणसाधनं विपरीताख्यानक्याह “दिगन्तशङ्कुद्वयगं द्विपाशं विस्तारतुल्यं तु गुणं द्रलाङ्के। कोणे प्रकर्षे दिति वेदकोणेष्वेवं चतुःकोणमतीव साधु”। दिगन्तयोः पूर्वदक्षिणयोः दक्षिणापरयोः अपरीत्तरयो उत्तरपूर्वयोः शङ्कुद्वयगं द्वौ पाशौ यस्य तं विस्तारेण तुल्यगुणं सूत्रं अर्द्धचिह्ने धृत्वा कोणे आकर्षयेत्। एवं चतुर्ष्वपि कोणेष्विति कृते साधु चतुरस्रं स्यादिति” तद्व्याख्या। अधिकं दिग्ज्ञानशब्दे दृश्यम्।
दिक्स्रक्ति = न० दिक्कोणे। “दिकस्रक्ति पुरुषमात्रं मीयते” कात्या० श्रौ० २०। ३। २। ३८। “दिक्स्रक्ति दिक्कोणम्” संग्रह व्याख्या।
दिगंश = पु० ७ त०। सि० शि० उक्ते दिक्स्थे अंशभेदे यथा “चक्रांशकाङ्के क्षितिजाख्यवृत्ते प्राक्स्वस्तिकाभीष्ट दिशस्तु मध्ये। येऽंशाः स्थितास्तेऽत्र दिगंशकाख्यास्त- ज्ज्यात्र दिग्ज्येत्यपरे विभागे” सि० शि० “कदाचिदप्यभीष्टदिने यस्मिन् काले प्रच्छकः पृच्छति तत्र कालेऽर्कोपरि न्यस्तस्य दिग्मण्डलस्य क्षितिजस्य च सम्पाते याभीष्टा दिक् तस्याः प्राक् स्वस्तिकस्य चान्तरे क्षितिजवृत्ते येऽंशास्तेऽत्र दिगंशका ज्ञेयाः। तेषां ज्या दिग्ज्येति एवं पंश्चिममागेऽपि” प्र० मि०
दिगन्त = पु० ६ त०। १ दिशामन्ते। दिगन्तविश्रान्तरथोहि तत्सुतः “भुजार्जितानां च दिगन्तसम्पदाम्” रघुः। २ शास्त्रीयज्ञानकर्मयुतजनाधिष्ठितमध्यदेशादतिरिक्ते देशे च
दिगन्तर = न० दिशामन्तरमवकाशः। १ दिशामवकाशे “सञ्चारपूतानि दिगन्तराणि” रघुः। अन्या दिक् मयूर०। २ प्रकृतदिशोऽन्यस्यां दिशि च न०।
दिगम्बर = पु० दिक्शून्यमम्बरं यस्य। १ शिवे २ जैनभेदे पु० तन्मतमर्हच्छब्दे उक्तप्रायं किञ्चिदत्राधिकमुच्यते। “दिगम्बरा मध्यमत्वमाहुरापादमस्तकम्। चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि”। अस्य भाषा प्राकृतान्तरभेदमिन्ना मागधी। अस्य स्वरूपन्तु गलन्मलपङ्केन पिच्छिलबीभत्सदुष्प्रेक्ष्यदेहच्छविलुञ्चितचिकुरो मुक्तवसनो वेशदुर्दर्शनः शिखिशिखण्डपिच्छिकाहस्तः इति। एतन्मतसिद्धं जीवस्य मध्यमपरिमाणत्वं शा० सू० भाष्ययोर्निराकृतं यथा
“एवञ्चात्माऽकात्र्स्न्यम्” सू०। “शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते। शरीरपरिमाणतायां च सत्यामकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत। शरीराणाञ्चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित् कर्मविपाकेण हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात्, पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्न पुत्तिकाशरीरे सम्मीयेत। समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः। स्यादेतत्, अनन्तावयवी जीवस्तस्य त एवावयवा अल्पे शरीरे सङ्कुचेयुर्महति च विकाशेयुरिति। तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति वक्तव्यम्। प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन्। अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गः स्यात्। अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् अथ पर्य्यायेण वृहच्छरीरप्रतिपत्तौ च केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्ति इत्युच्येत तत्राप्युच्यते” भा०। “न च पर्य्यायादप्यविरोधी विकारादिभ्यः” सू०। “न च पर्य्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्व जीवस्याविरोधेनोपपादयितुं शक्यते कुतः विकारादिदोषप्रसङ्गात्। अवयवोपगमापगमाभ्यां ह्यनिशमापूर्य्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्य्यं विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत ततश्च बन्धमोक्षभ्युपगमो बाध्येत, कर्माष्टकपरिवेष्टितस्य जीवस्यालाबूवत् संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्द्ध्वगामित्वं भवतीति। किञ्चान्यदागच्छतामपगच्छताञ्चावयवानामागमोपाधिधर्मवत्त्वादेवानात्मत्वं शरीरादिवत्। ततश्चाव्यवस्थितः कश्चिदवयवी आत्मेति स्यात्, न च स निरूपयितुं शक्यते अयमसाविति। किञ्चान्यदागच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम्। न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च लीयेरन् अभौतिकत्वाज्जीवस्य। नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात्। किञ्चान्यदनवधृतस्वरूपश्चैवं सत्यात्मा स्यात् आगच्छतामपगच्छताञ्चावयवानामनियतपरिमाणत्वात्, अत एवमादिदोषप्रसङ्गात् न पर्य्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते। अथ वा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकात्र्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः पर्य्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यता न्यायेनात्मनो नित्यता स्यात्, यथा रक्तपटादीनां विज्ञानानवस्थानेऽपि तत्सन्ताननित्यता तद्वद्विसिचानां (विवसनानाम्) अपीत्याशङ्क्यानेन सूत्रेणोत्तरत्तच्यते। सन्तानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति”। ३नग्ने त्रि० “दिगम्बरत्वेन निवेदितं वसु”। कुमा० स्त्रियां गौरा० ङीष्। “तथा चैव दिगम्बरी” कालीध्यानम् “ह्रीरूपाऽपि दिगम्बरी त्रिजगतां माताऽपि सद्यौवना” कालीस्तवः। दिगेवाम्बरम्। ४ दिग्रूपे अम्बरे दिक् च अम्बरञ्च समा० द्व०। ५ दिगाकाशसमहारे च न० “आच्छादितायतदिगम्बरमुच्चकैर्गाम् माघः। ६ तमसि न० मेदि० स्वार्थे क। दिगम्बरक क्षपणके हारा०।
दिगादि = पु० “दिगादिभ्योयत्” पा० विहितयत्त्ययनिमित्ते शब्दगणभेदे स च गण पा० ग० सू० उक्तो यथा “दिक् वर्ग पूग गण पक्ष धाय्य मित्र मेधा अन्तर पथिन् रहस् अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेष यूथ (उदकात्संज्ञायाम्) न्याय वंश वेश काल आकाश”।
दिगीश्वर = पु० ६ त०। १ इन्द्रादौ दिक्षाले २ सूर्य्यादिग्रहे च “दिगीश्वरा भास्करशुक्रभौमा राह्वार्किचन्द्रज्ञसुरार्चिताः स्युः” ज्यो० त० दिगीशादयोऽप्यत्र “दिगीशवृन्दांशविभूति रीशिता” नैष०
दिगुपाधि = पु० ६ त० दिशां प्राच्यादिव्यवहारोपाधौ उदयाचलादौ।
दिग्गज = पु० दिशि स्थितो गजः। दिक्षु स्थिते ऐरावतादौ गजे दिक्करिन्शब्दे दृश्यम्। “नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे” रघुः। “चिरस्य याथार्थ्यमलम्भि दिग्गजैः” माघः।
दिग्जय = पु० दियां तत्स्यलोकमृपाणां जयः। जिगीषुकृते यद्धेन १ दिक्स्थितनृपजये विद्यया २ दिकस्थलोकादिजये च। दिग्विजवादभोऽप्यत्र
दिग्ज्ञान = न० ६ त० सि० शि० उक्ते दिशां प्राचीत्वादिज्ञानसाधनी प्रकारभेदे स च तत्रोक्तो यथा
“वृत्तेऽम्भःसुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमाड्गाग्रंयत्र विशत्यपैति च यतस्तत्रापरैन्द्र्यौ दिशौ। तत्कालापमजीवयोस्तु विवराद्भाकर्णमित्या हताल्लम्बज्याप्तमिताङ्गुलेरयनदिश्यैन्दी स्फुटां चालिता। तन्मत्स्यादथ याम्यसौम्यककुभौ सौम्या ध्रुवे वा भवेदेकस्मादपि भाग्रतीभुजमितां कोटीमिमां शङ्कुतः। न्यस्येद्यष्टिमृजुं तथा भुवि यथा यष्ट्यग्रयोः संयुतिः कोटिः प्राच्यपरा भवदिति कृते बाहुश्च याम्योत्तरा” मू० “उदकेन समीकृतायां भूमाविष्टपमाणं वृत्तं विलिख्य तस्य केन्द्रे द्वादशाङ्गुलशङ्कु निवश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाह्णे वा अपराह्णे यतो निर्गच्छति तत्र पश्चिमपूर्वदिशौ किल भवतः। परन्तु यस्मिन् काले छायाप्रवेशो जातो यस्मिन् काले च निर्गमस्तात्कालिकयोरर्कयोः क्रान्तिज्ये साध्ये। तयोरन्तरात् तस्याश्छायायाः कर्णेन मुणिताल्लम्बज्यया भक्ताद्यल्लब्धमङ्गुलादि फलं तेनैन्द्रो दिगुत्तरतश्चालिता स्फुटा भवति यद्युत्तरेऽयने रविर्वर्त्तते तदा उत्तरतः यदि दक्षिणे तदा दक्षिणतः। एवं स्फुटा प्राची। अन्यथा स्थूलेत्यर्थः। तन्मत्स्याद्याम्यसौम्यो दिशौ। अथ प्रकारान्तरेणाह। ध्रुवमवलम्बसूत्रेण विद्ध्वा ध्रुवाभिमुंखकी- लकः सौम्या। स्वस्थानकीलको याम्या। तन्मत्स्यात् पूर्वापरे। प्रथमं भाच्छायाग्रदर्शने दिग्ज्ञानमुक्तम्। इदानीमथवैकस्मादपि भाग्रतः। तच्चैवम्। अभीष्टकाले शङ्कोर्भाग्रं चिह्नयित्वा तस्याश्छायाया वक्ष्यमाणप्रकारेण भुजं कोटिं चानीय भुजकोटिमिते शलाके गृहीत्वा शङ्कुमूलाद्यथादिग्गतां कोटिशलाकां छायाग्राद्व्यस्तदिग्गतां भुजशलाकां च तथा भुवि न्यसेद्यथा शलकाग्रयोः संयुतिः स्यात्। एवं कृते सति कोटिः प्राच्यपरा दिग्भवति। बाहुश्च याम्योत्तरा। अत्रोपपत्तिः। अहोरात्रवृत्ते इष्टानामुन्नतघटिकानामग्रे पूर्वाह्णे समपण्डलेन यावदन्तरं तावदेवापराह्णे तावतीनां घटीनामग्रे भवति। अतस्तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुपपद्यते। परं तत्कालान्तरेण यदर्कक्रान्त्यन्तरं तेनान्तरितं भवति। अतस्तत् सन्धेयम्। तच्चैवम्। तस्मित् काले यानि कर्णवृत्ताग्राङ्गुलानि पूर्वाह्णे यानि चापराह्णे तेषामन्तरं कार्यम्। तत्र लाघवार्थं तत्कालक्रान्त्योरेवान्तरं कृतम्। ततोऽग्राकरणायानुपातः। यदि लम्बज्याकोट्या त्रिज्या कर्णस्तदा क्रान्तिज्यान्तरेण किमिति। अत्र लब्धमग्रान्तरम्। ततोऽन्योऽनुपातः। यदि त्रिज्याध्यासार्धे एतावदन्तरं तदा कर्णव्यासार्धे किमिति। अत्र तुल्यत्वाद्गुणकभाजकयोस्त्रिज्यानाशे कृते सत्युपपन्नं तत्कालापमजीवयोस्तु विवरादित्यादि। यद्युत्तरमयनं वर्तते उत्तरतोऽर्के चालिते शङ्कोर्भाग्रं दक्षिणतो याति तदोत्तरतश्चालनीयम्। अत उपपन्नमैन्द्रीस्फुटा चालितेति। भुजकोटीनामुपपत्तिरग्रे। सन्निवेशमात्रेण दिग्ज्ञानमिव दर्शितम्” प्रमि०।
दिग्ज्या = स्त्री दिगंशशब्दे दर्शिते सि० शि० उक्ते दिशामंशभेदे।
दिग्दर्शन = न० दिशो दृश्यान्तेऽनेन दृश–करणे ल्युट्। १ दिग्ज्ञानसाधने यन्त्रभेदे (कम्पास) ६ त०। २ दिशां दर्शने च
दिग्दाह = पु० दिशां दाहः। वृ० स० २१ अ० उक्ते उत्पातभेदे तच्छुभाशुभादिकं तत्रोक्तं यथा
“दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः। यश्चारुणः स्यादपसव्यकायुः शस्यस्य नाशं स करीति दृष्टः। योऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवत् यः। राज्ञो महद्वेदयते भयं सः शस्त्रप्रकोपं क्षतजानुरूपः। प्राक् क्षत्रियाणां सनरेश्वराणां प्राग्दक्षिणे शिल्पिकुमारपीडा। याग्गे सहोग्रैः पुरुषैस्तु वैश्या दूताः पुनर्भूप्रमदाश्च कोणे। पश्चानु शूद्राः कृषिजीविनश्च चौरास्तुरङ्गैः सह वायुदिक्स्थे। पीडां व्रजन्त्युत्तरतश्च विप्राः पाषाण्डनो बाणिजकाण शार्व्याम्(ऐशान्याम्)। नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति संदामतिश्च। दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य”।
दिग्देवता = स्त्री दिशां तन्मर्य्यादानां देवता साक्षिभूतेव। दिशां मर्य्यादासाक्षीभूतदेवतायाम् “दिग्देवता अतिरजस्वलमतिर्न विजानाति” भाग० ४। १४। ९
दिग्ध = पु० दिह–क्त। १ विषाक्तवाणे अमरः “हृदये दिग्दशरैरिवाहतः” कुमा०। २ अग्नौ ३ स्नेहे च पु० हेमच०। ४ प्रबन्धे अजयपालः। ५ लिप्ते त्रि० मेदि०।
दिग्बल = न० दिङ्निमित्तं ग्रहाणाम् बलम्। लग्नादौ स्थितग्रहाणां दिग्भेदनियमिते बले यथाह ज्योतिषे “लग्ने सौम्यसुराचार्य्यौ कुजार्कौ दशमे तथा। द्यूने सौरिश्चतुर्थे तु सितेन्दू दिग्बलान्वितौ”। अत्र कोणदिग्बलित्वनिरासाय लग्नदशमद्यूनचतुर्थपदैः पूर्वदक्षिणपश्चिमोत्तरदिगुपादनम्। लग्ने स्थितौ बुधगुरू पूर्वदिग्बलिनौ यती राशीनामुदयो लग्नं उदयस्तु पूर्वदिश्येव भवति। लग्नात् दशमे स्थितौ कुजार्कौ दक्षिणदिग्बलिनौ यतो लग्नाद्दशमराशिरेव दक्षिणदिशि तिष्ठति। सप्तमे स्थितौ शनिः पश्चिमदिग्वली यतो लग्नात् सप्तमराशिरस्तमेति। अस्तञ्च पश्चिमदिश्येव भवति। तथा लग्नाच्चतुर्थे स्थितौ शुक्रचन्द्रौ उत्तरदिग्बलिनौ यतो लग्नाच्चतुर्थराशिरेवोनरदिग्भगे तिष्ठति। तद्वलान्वितो ग्रहो दिग्बलीत्युच्यते” एतच्चायुर्दायादिषु बलगणनोपयोगि। यात्रादिषु यथास्थितपूर्वाद्यपेक्षयैव ग्रहाणां दिग्बलित्वं ज्यो० त० उक्तं यथा० “प्राच्यां सौम्यसुराचार्यौ याम्यां भास्करभूमिजौ। प्रत्यक् सौरिरुदीच्यान्तु सितेन्दू दिनबलान्वितौ”।
दिग्बलिन् = पु० दिग्बलमस्त्यस्य इनि। १ दिङ्निमित्तबलयुक्ते गृहे दिग्बलशब्दे दृश्यम्। २ तादृशे राशिमेदे च “ऐन्द्र्यां मानुषराशयस्तु पशवोयाम्ये सवीर्य्या अलिर्वारुण्यां बलयुक् तथैव बलिनः पानीयजाश्चोत्तरे” ज्यो० त०
दिग्वदन = न० दिग्भेदे वदनं यस्य। प्राच्यादिदिग्भेदेन तत्रस्थितमुखके राशिभेदे। “लग्ने दिग्वदनेऽतिदण्डगमनं प्राच्यादि शूलं विना” ज्यो० त० राशीनां दिगभेदेन सुखमुक्तं तत्रैव। “मेषाद्यास्त्रिभ्रमात् ज्ञेयाः प्रागादिदिङ्मुखास्त्वमी” तथा च मेषः प्राग्वदनः, वृषोयामीवदनः, मिथुनः पश्चिमामुखः, कर्क उत्तरामुखः एवं सिंहादयः धनुरादयश्च। दिद्वक्त्रदादयोऽप्यत्र।
दिग्वस्त्र = पु० दिग्रूपं वस्त्रमस्य। १ शिवे २ जैनभेदे च ३ नग्ने त्रि० “दिग्वस्त्रावद्धकाञ्चीमणिमयमुकुटाद्यैर्युतादीप्तजिह्वा” रक्षाकालीध्यानम्। दिग्वसनादयोऽप्यत्र।
दिग्वारण = पु० दिक्षु स्थितो वारणः। दिग्गजे ऐरावतादौ। “दिग्वारणमदाबिलम्” “प्रभिन्नदिग्वारणवाहनो वृषा” कुमा०।
दिग्विजय = पु० दिशां तत्स्थनृपलोकानां विजयः। विद्ययायुद्धेन वा दिक्स्थ नृपलोकजये “पाण्डवदिग्विजयः भीमदिग्विजयः शङ्करदिग्विजयः” इत्यादि।
दिङ्क = पु० दिङ् इति कायति शब्दायते कै–क। उत्कुणडिम्बे शब्दकल्प०। तत्स्फोटने हि दिङ् इति शब्दो जायते इति तस्य तथात्वम्।
दिङ्नक्षत्र = न० दिशि दिग्भेदेन स्थितं नक्षत्रम्। “कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्। यद्दिश्यं यस्य नक्षत्रं तत्र तस्य शुमं गृहम्” ज्यो० त० उक्ते ऋक्षभेदे
दिङ्नाग = पु० दिशि स्थितो नागः। दिग्गजे “दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्” मेघदू० दिङ्नाग मदगन्धिषु” कुमा०।
दिङ्मण्डल = त्रि० ६ त०। १ दिशां मण्डले २ मण्डलाकारे तत्समूहे च। “उन्नादाम्बुदवर्द्धितान्धतमसप्रभ्रष्टदिङ्मण्डले” उद्भटः।
दिङ्मात्र = न० दिशेव मात्रच्। एकदेशे शब्दार्थचिन्ता०।
दिङ्मूढ = त्रि० दिशि मूढः। दिग्भ्रान्तियुक्ते पूर्वादिदिशां यथार्थतोऽपरिज्ञानम् दिग्ममः तद्युक्ते दिशामयथार्थज्ञानयुक्ते।
दिण्डि = पु० डिण्डि + पृषो० वाद्यभेदे।
दिण्डिर = पु० दिण्डिर + पृषो०। वाद्यभेदे अमरः।
दित = त्रि० दो–खण्डने क्त इत्त्वम्। छिन्ने द्वैधीकृते अमरः।
दिति(ती) = स्त्री दो–खण्डने क्तिच् वा ङीप्। १ दैत्यमातरिकश्यपपत्न्याम्। “प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश। अदितिर्दितिः दनुःकाला” भा० आ० ६५ अ०। ताश्च कश्यपस्य पत्न्यः “ददो स दश घर्माय कश्यपाय त्रयोदश” हरिव० ६ अ०। भावे क्तिन् न ङीप्। २ सण्डने च।
दितिज = पु० दितेजायते जन–ड असुरे “द्रक्ष्य दितिज संघानाम्” भा० अनु० १४ अ०। “दितिजसहस्रगणैर्निषेव्यमाणम्” हरिवं० २३२ अ० “एकएव दितेः पुत्रो हिरण्यकशिपुः स्मृतः” भा० आ० ६५ अ०। उक्तेरेकस्यैव तत्सुतत्वेऽपि तद्वंशजानानामप्युपचारात् तज्जन्यत्वं द्रष्टव्यम्।
दितितनय = पु० ६ त०। दैत्ये दितिनन्दनदितिसुतादयोऽप्यत्र। “नखे दितिसुताधीशः पदे रोदसी” सा० द०।
दित्य = पु० दितौ भवः यत्। १ असुरे शब्दार्थकल्प०। दितिं खण्डनमर्हति यत्। २ छेदनार्हे–धान्यादौ त्रि०।
दित्यवाट् = पु० दित्यं छेदनार्हं धाव्यादिकं वहति वह–ण्वि। द्विवर्षेवयस्के पशौ। “दित्यवाट्योविराट् छन्दः” यजु० १४ १४०। “दो अवस्वण्डने क्तिन् प्रत्ययः दितिं खण्डनमर्हति दित्यं धान्यं वहति दित्यवाद् यद्वा द्विवर्षः पशुर्दित्यवाट् विराट् छन्दो भूत्वोत्क्रान्तं दित्यवाहं पशुं बयसा ग्रहीत् “दित्यवाहं वयसाप्नोद्विरात् छन्दः विराड्भूत्वा दित्यवाह उच्चक्रमुः” शत० ब्रा० ८। २। ४। १२। श्रुतेः, वेददी० स्त्रियां ङीपि वाहऔः। दित्यौहीत्येव। “दित्यवाट् न्व मे दित्यौही च मे” यजु० १८। २६। “द्विसंवत्सरो वृषोदित्यवाट् तादृशी गौर्दित्यौही” वेददी०।
दित्सा = स्त्री दातुमिच्छा दा–सन् इस् अभ्यासलोपः भावे अ। दानेच्छायाम्।
दित्सु = त्रि० दातुमिच्छुः दा–सन्–उ। दानेच्छावति “दिव्युः सुतां योधहरैस्तुरङ्गैः” भट्टिः क्वचित् आर्षे तु नाभ्यासलोपः “संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम्” भा० उ० ७ अ०।
दिदृक्षा = स्त्री द्रष्टुमिच्छा दृश–सन्–भावे अ। दर्शनेच्छायाम्। “द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया” भा० आ० १ अ०। “एकस्थसौदर्य्यदिदृक्षयेव” कुमा०।
दिदृक्षु = त्रि० द्रष्टुमिच्छुः दृश–सन्–उ। द्रष्टुमिच्छौ “कोपितोह्यसि मया दिदृक्षुणा” रघुः। “व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः” मनुः।
दिदृक्षेण्य = त्रि० द्रष्टुमेष्टव्यः दृश–सन् केन्य। “द्रष्टुमेष्टव्ये। “दिदृक्षेण्यः परि काष्ठासु जेन्यः” ऋ० १। १४६। ५।
दिदृक्षेय = त्रि० दिदृक्षामर्हति बा० ढक्। दर्शनीये “दिदृक्षेयः सूनवे भाऋजीकः” ऋ० ३। १। १२। “दिदृक्षेयः सर्वैर्दर्शनीयः” भा०
दिद्यु = पु० दिद्युत् + पृषो०। १ वज्रे निघण्टुः “सृजदस्ता धृषता दिद्युमस्मै” ऋ० १। ७१। ५। “पाहि मा दिद्योः” यजु० २। २०। २ वाणे च “क्षत्राणां क्षत्रपतिरेध्यति दिद्यून् पाहि” यजु० १०। १७। दो अवखण्डने द्यन्ति खण्डयन्ति दिद्यवो वाणाः “इषवो वै दिद्यव इषुबधमेवैनमेतदति नयतीति” शत० व्रा० ५। ४। २। २।
दिद्युत् = त्रि० द्युत–क्विप् नि०। १ दीप्तिशोले २ वज्रे पु० निघ०।
दिधिषाय्य = न० दधात्याह्ण दम् धा–आय्य नि० द्वित्वं षुक् च। १ मद्ये २ आरोपितवन्धुभावे ३ धारके त्रि०। “मित्र इव यो दिधिषाय्यो भूद्देव” ऋ० २। ४। १। “दिधिषाय्यो धारयिता” भा० उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वकादस्यतेराय्यः इति व्याचख्यौ।
दिधिषु = पु० दिधीं धैर्य्यम् इच्छति इष–क्विप् शकुब्ध्वा०। द्विरूढायाः स्त्रियाः पत्यौ पुनर्भूपतौ अमरः
दिधिषू = स्त्री दधाति पापं धिष्यते वा धा–धिष–वा ऊ अन्दूदृन्भू इत्यादिना नि०। वारद्वयविवाहितायां स्त्रियाम्। “ज्येष्ठाया यद्यनूढायां कन्यायामुह्यतेऽनुजा। सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता” देवलोक्तायां ज्येष्ठाविवाहप्रागभावकालीनबिवाहयुक्तायां २ कनिष्टायां भगिन्याञ्च।
दिधिषूपति = पु० ६ त०। “भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत कामतः। धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः” मनूक्ते विधवायां भ्रातृभार्य्यायां रते भ्रान्तरे।
दिधीषू = स्त्री दिधिषू–पृषो०। दिधिषूशब्दार्थे शब्दरत्ना०।
दिन = पु० न० द्यति तमः द–खण्डने दी–क्षये वा नक् ह्रुस्वः। १ सूर्यकिरणावच्छिन्ने काले तद्भेदादिकं अहन् शब्दे ५७६ पृ० दृश्यम्। २ षष्टिदण्डात्मके मानुषे अहोरात्रे चान्द्रे ३ तिथिरूपे काले ४ चान्द्रमासात्मके पैत्र्ये कालभेदे सौरवर्षरूपे ५ दैवे कालभेदे व्राह्मे ६ कल्परूपे काले च “अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा। निशासंज्ञाः स्मृताश्चैव शेषाश्चान्ये दिनाख्यकाः” इति ज्योतिषतत्त्वोक्ते ७ राशिभेदे। “दिने दिने त्वं तनुरेधि रेऽधिकम्” नैष० “दिनानि दीनोद्धरणोचितस्य” “दिनेषु गच्छत्सु नितान्तपीवरम्” रघुः। “प्रौढध्वान्तं दिनमिह जलदाः” माघः जीमूतवाहनस्तु सूर्यकिरणावच्छिन्नं चतुर्यामात्मकं दिनमित्याह० “दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति। कुपृष्ठगानां द्युनिशं यथा तथा पितॄणां शशिपृष्ठवासिनाम्” सि० शि० दिनमानशब्दे दृश्यम् “तिथिश्चान्द्रमसं दिनम” सू० सि०।
दिनकर = पु० दिनं करोति कृ–ट, दिने करःकिरणोवास्य। १ सूर्ये २ अर्कवृक्षे च “दिनकराभिमुखा बलरेणवः” रघुः। “ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः” सू० सि०।
दिनकरतनय = पु० ६ त०। अर्कनन्दने १ शनौ २ यमे च “चारवशात् द्वितीयगृहगे दिनतनये” वृ० स० १० ४ अ०। दिनकरसुतादयोऽप्यत्र ३ कर्णे ४ सुग्रीवे ५ तपत्यां ६ यमुनायां च स्त्री।
दिनकर्तृ = पु० दिनं करोति कृ–तृच्। १ सूर्य्ये २ अर्कवृक्षे च “दिनकर्त्ता न दृश्यते” हरिबं० १६३ अ०।
दिनकृत् = पु० दिनं करोति कृ–क्विप्। सूर्य्ये हेमच०। “शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः” वृ० सं० ३० अ०। २ अर्कवृक्षे च
दिनकेशव = पु० दिनस्य केशव इवान्तकत्वात्। अन्धकारे शब्दर०।
दिनक्षय = पु० दिनस्य तिथेः क्षयः। तिथिक्षये। “एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा। तदा विनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” मलमा० त० वशिष्ठः। तिथिक्षयशब्दे दृश्यम्।
दिनचर्य्या = ७ त०। भावप्र० उक्ते दिने कर्त्तव्यभेदे यथा
“मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा। तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम्। दिनचर्य्या निशाचर्य्यां ऋतुचर्यां यथोदिताम्। आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा”। तत्र स्वस्थस्य लक्षणः माह सुश्रुतः “समदोषः समाग्निश्च समधातुमलक्रियः। प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते”। क्रियात्र कर्म तेन समक्रियः शरीरानुरूपकर्मा। तत्र दिनचर्य्यामाह ब्राह्मे मुहूर्त्ते बुद्ध्येत स्वस्थो रक्षार्थमायुषः। तत्र दुःखप्रशान्त्यर्थं स्मरेद्धि मधुसूदनम्। दध्यन्नदर्शसिद्धार्थविल्वगोरोचनास्रजाम्। दर्शनं स्पर्शनं कार्य्यं प्रबुद्धेन शुभावहम्। स्वमाननं घृते पश्येत् यदीच्छेत् चिरजीवितम्। आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम्। तदत्र कूजनाध्मानोदरगौरववारणम्। आदिशब्देन वातमूत्रादीनां ग्रहणम्। आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषल्य तयोर्द्धवातः। पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य। परिकर्त्तिका गुदे परिकर्त्तनवत्पीडा। पुरीषस्य सङ्गो निराधः। ऊर्द्धवातः उद्गाढबाहुल्यम्। वातमूत्रपुरीषाणां सङ्गाध्माने क्लमो रुजा। जठां वातजाश्चान्ये रोगाःस्यु वातनिग्रहात्। वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजाः। विनामो वङ्क्षणानाह स्याल्लङ्गं मूत्रनिग्रहे। विनामः शरीरस्य नम्रता वङ्क्ष स्नानाहः वङ्क्षणस्याकर्षणवत्पीडा। न वेगितोऽन्यकार्य्यः स्यान्न वेगान् धारयेद् बलात्। कामशोकभयक्रोधान् मनोवेगान्विधारयेत्। गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम्। पवित्रकरमाख्यानमलक्ष्मीक्लि पापहृत्। प्रक्षालणं मतं पाण्याः पादयोः शुद्धिकारणम्। मलश्रमहरं वृष्यं चक्षुपां राजसापहम्। दन्तकाष्ठविधिः भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठिकाग्रवत् स्थूलभृज्वग्रन्धि तथाऽव्रणम्। एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु। दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्। क्षौद्रत्रिकटुकाक्तेन तैलसिन्धुभवेन वा। चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोघयेत्। तेजोवती (तेजवल्कल) इति लोके प्रसिद्धा। मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा। निम्बं स्यात्तिक्तके श्रेष्ठः कषाये स्वदिरस्तथा। समयन्तु समालोक्य दोषञ्च प्रकृतिं तथा। यथोचितैरसैर्वीर्य्यैर्युक्तं द्रव्यं प्रयोजयेत्। तेनास्य मुखवैरस्यदन्तजिह्वास्यजा गदाः। रुचिवैशद्य लघुता न भवन्ति भवन्ति च। अर्के वीर्य्यं वटे दीप्तिः करञ्जे विजयो भवेत्। प्लक्षे चैवार्थसम्पत्तिर्वदर्य्यां मधुराशनम्। खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम्। उदम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च। कदम्बे तु धृतिर्मेधा चम्पके दृढवाक्श्रुतिः। शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च। अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथासने। दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा। जातीतगरमन्दारैर्दुःस्वप्नञ्च विनश्यति। गुञ्जाकातालहिन्तालं केतकश्च वृहच्छरः। खर्जूरं नारिकेलञ्च सप्तैते तृणराजकाः। तृणराज समुत्पन्नं यः कुर्य्याद् दन्तधावनम्। नरश्चाण्डालयोनिः स्याद्यावद्गङ्गान्न पश्यति। न खादेद् गलताल्वोष्ठजिह्वा दन्तगदेषु तत्। मुखस्य पाके शोथे च श्वासकास वमीषु च। दुर्बलो जीर्णभुक्तश्च हिक्वामूर्च्छामदान्वितः। शिरोरुजार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः। अर्द्दितः कर्णशूली च नेत्ररीगी नवज्वरी। वर्ज्जयेद्दन्तकाष्ठन्तु हृदामययुतोऽपि च। अजीर्णभुक्तः न जीर्णं भुक्तं यस्य सः। जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा। पाटितं मृदु तत् काष्ठं मृदुपत्रमयं तथा। तत् काष्ठं दन्तशोधनयोग्यं काष्ठम्। दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत् सुखम्। तज्जिह्वामलवैरस्वदुर्गन्ध जडताहरम्। गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः। कफतृष्णामलहरं मुखान्तःशुद्धिकारकम्। मुखोष्णोदकगण्डूषः कफारुचिमलापहः। दन्तजाड्यहरश्चापि मुखलाघवकारकः। विषमूर्च्छागदार्त्तानां शोषिणां रक्तपित्तिनाम्। कुपित्ताक्षिमलक्षीण रूक्षाणां स न शस्यते। मुखोष्णोदकगण्डूषो यथा “मुखप्रक्षालणं शीतपयसा रक्तथित्तजित्। मुखस्यपीडिकाशोषनीलिकाव्यङ्गनाशनम्। कुर्य्याद्वापि कटूष्णेन पयसास्यविशोधनम्। कफवातहर स्निग्धं मुखशोबविनाशनम्। कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत्। प्रातः श्रेष्मणि मध्याह्णे पित्ते सायं समीरणे। सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः। निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः। सौवीरमञ्जनं नित्यं हितमक्ष्खोस्ततो भजेत्। लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने। सौवीरं (श्वेतसुरमा) दति लोके प्रसिद्धम्। स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम्। दृष्टेः कण्डूयनहरं दाहक्लेदरुजापहम्। अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ। नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत्। स्रोतोऽञ्जनं (कृष्णसुरमा) इति लोके। विशुद्धं शोधनं विनापि। सिन्धुसम्भवम् सिन्धुर्नाम पर्वतः तत्र सम्भवम्। रात्रौ जागरितः श्रान्तः छर्द्दितो भुक्तवांस्तथा। ज्वरातुरः शिरःस्नातो नाक्ष्णोरञ्जनमाचरेत्। पञ्चरात्रान्नखश्यश्रुकेशरोमाणि कर्त्तयेत्। केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम्। वौष्टिकं घनमायुष्यं शौचकान्तिकरं परम्। सम्प्रसाधनम् शोभाजनकम्। उत्पाटयेत्तु लोमानि नासायाः न कदाचन। तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत्। केशपाशे प्रकुर्वीत प्रसाधग्या प्रसाधनम्। केशप्रसाधनं केश्यं रजोजन्तुमलापहम्। आदर्शालोकनं प्रोक्तं माङ्गल्यं कान्तिकारकम्। पौष्टिक बल्यमायुष्यं पापालक्ष्मीविनाशनम्। लाघवं कर्मसामर्थ्यं विभक्तघनगात्रता। दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते। व्यायामे दृढगात्रस्य व्याधिर्नास्ति कदाचन। विरुद्धं वा विदग्धं वा मुक्तं शीध्रं विपच्यते। भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः। नचैनं सहसाक्रम्य जरा समधिरोहति। न चास्ति सदृशन्तेन किञ्चित् स्थौल्यापकर्षकम्। स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम्। वसन्ते शीतसमये सुतरां स हितो मतः। अन्यदापि च कर्त्तव्यो बलार्द्धेन यथाबलम्। हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते। मुखञ्च शोषं लभते तद् बलार्द्धस्य लक्षणम्। किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः। यदा सञ्जायते स्वेदो बलार्द्धन्तु तदादिशेत्। भुंक्तवान् कृतसम्भोगः कासी श्वासी कृशःक्षयी। रक्तपित्ती क्षती शोषी न तं कुर्य्यात् कदाचन। अतिव्यायामतः कासो ज्वरः छर्द्दिः श्रमः क्लमः। तृष्णाक्षयः प्रतमको रक्तपित्तञ्च जायते। अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम्। शिरःश्रवणपादेषु तं विशेषेण शीलयेत्। सार्षपं गन्धतैलञ्च यत्तैलं पुष्पवासितम्। अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन। गन्धतैलम् गन्धद्रव्याणामगुर्वादीनामग्नियोगेन निष्काशितः स्नेहः। अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम्। निद्रावर्णमृदुत्वायुः कुरुते देहपुष्टिकृत्। अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रियतर्पकः। दृष्टिपुष्टिकरो हन्ति शिरोभूमिगतान् गदान्। केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा। कृष्णतां कुरुते कुर्य्याच्छिरसः पूर्णतामपि। न कर्णरोगान्न मलं न च मन्याहनुग्रहः। नोच्चैःश्रुतिर्न व्याधिर्य्यं खालित्यं कर्णपूरणात्। रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रशस्यते। तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते। पादाभ्यङ्गश्च तत्स्थैर्य्यं निद्रादृष्टिप्रसादकृत्। पादसुप्ति श्रषस्तम्भसङ्कोचस्फुटनप्रणुत्। व्यायामक्षुण्णवपुषं पद्भ्यां समर्दितं तथा। व्याधयोनोपसर्पन्ति वैनतेयमिवोरगाः। लोमकूपं शिराजालं धमनीभिः कलेवरैः। तर्पयेद्बलमाधत्ते स्नेहयुक्तावगाहने। अद्भिः संसिक्तमूलानां तरूणाम्पल्लवादयः। वर्द्धन्ते हिं तथा नृणां स्नेहसंसिक्तधीस्तवः। नवज्वरी अजीर्णी च नाभ्यञ्जेत कथञ्चन। तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः। निरूढः दत्तो निरूहवस्तिः यस्मै सः। पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा। शोषाणां नत्विह प्रोक्ता बह्निसादादयो गदाः। पूर्बयोः तरुणज्वरिणोऽजीर्णिनश्च। उद्बर्त्तनङ्कफद्वरं मेदोघ्नं शुक्रदम्परम्। बल्यं शोणितकृच्चापि त्वकप्रमादमृदुत्वकृत्। मुखलेपात् दृढं चक्षुः पीनोगण्डस्तथाननम्। कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम्। दीपनं वृष्यमायुष्यं स्नानमोजो बलप्रदम्। कण्डूमलश्रमखेदतन्द्रातृड्दाहपाकनुत्। बाह्यैश्च सेकैः शीताद्यैरूम्मान्तर्याति पीडितः। नरस्य स्नातमात्रस्य दीप्यते तेन पावकः। शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत्। तदेवोष्णेन तोयेन बल्यं वातकफापहम्। शिरःस्नानमचक्षुष्यमत्युष्णेनाम्बुना सदा। वातश्लेष्मप्रकोपे तु हितन्तच्च प्रकीर्त्तितम्। “अशीतेनाम्भसा स्नानं पयःपानन्नवाः स्त्रियः। एतद्वो मानवा! पथ्यं स्निग्धमल्पञ्च भोजनम्।” हरिश्चन्द्रस्यैतत्। यः सदामलकैः स्नानं करोति स विनिश्चितम्। बलीपलितनिर्मुक्तो जीवेद्वर्षशतन्नरः। स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्त्तिषु। आध्मानपीनसाजीर्णमुक्तवत्सु च गर्हितम्। स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम्। कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम्। कौशेयौर्णिकवस्त्रञ्च रक्तवस्त्रन्तथैव च। वातश्लेष्महरन्तत्तु शीतकाले विधारयेत्। कौशेयं पट्टाम्बरम् तसरवस्त्रञ्च। मेध्यं सुशीतम्पित्तघ्नं कषायं वस्त्रमुच्यते। तद्धारयेदुष्णकाले तत्रापि लघु शस्यते। कषायं (कोमुकी) इति लोके कषायरागरक्तं वा। शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम्। नचोष्णन्न च वा शीतन्तत्तु वर्षासु धारयेत्। यशस्यङ्काम्यमायुष्यं श्रीमदानन्दवर्द्धनम्। त्वच्यं वशीकरं रुच्यं नवं निर्मलमम्बरम्। काम्यं कामोद्दीपकम्। कदापि न जनैः सद्भिर्धार्य्यम्मलिनमम्बरम्। तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरम्परम्। अलक्ष्मीः अशोभा हारिद्र्यञ्च। कुङ्कुमञ्चन्दनञ्चापि कृष्णागुरु च मिश्रितम्। उष्ण वातकफध्वंसि शीतकाले तदिष्यते। चन्दनं घनसारेण वालकेन च मिश्रितम्। सुगन्धि परमं शीतमुष्णकाले प्रशस्यते। घनसारः कर्पूरः बालकं ह्रीवेरम्। चन्दनं घुसृणोपेतं मृगनाभिसमायुतम्। न चोष्णं नच वा शीतं वर्षाकाले तदिष्यते। घुसृक्षं कुङ्कुमम्। मृगनाभिः कस्तूरी। अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित्। सौमाग्यतेजस्त्वग्वणप्रीत्योजोबलबर्द्धनः। स स्नानानर्हलोकानामनुलेपोऽपि नो हितः। सुगन्धिपुष्पपत्राणां धारणङ्कान्तिकारकम्। पापरक्षोग्रहहरं कामदं श्रीविबर्द्धनम्। भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः। शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम्। ग्रहरिष्टिहरं पुष्टिकरं दुःसप्ननाशनम्। पापदौर्माग्यशमनं रत्नामरणधारणम्। माणिक्यंन्तरणेः सुजात्यममलं मुक्ताफलम् शीतगोर्माहेयस्य च विद्रुमोनिगदितः सौम्यस्य गारुत्मतम्। देवेज्यस्य च पुष्परागमसुराचार्य्यस्य वज्र शनेः नीलन्निर्मलमन्ययोश्च गदिते गोमेद- वैदूर्य्यके। वासःशृङ्गाररत्नानां धारणं प्रीतिवर्द्धनम्। रक्षोघ्नमर्थ्यमौजस्यं सौभाग्यकरमुत्तमम्। सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च। रोचनासर्षपादीनां माङ्गल्यानाञ्च धारणम्। आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम्! हिंस्नादिभयविध्वंसि वशीकरणकारणम्। ततो भोजनवेलायां कुर्य्यात्माङ्गल्यदर्शनम्। तस्य प्रदर्शनन्नित्यमायुर्धर्मविवर्द्धनम्। लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः। पुष्पस्रक्सर्पिरादित्य आपो राजा तथाष्टमः। पादुकारोहणङ्कुर्य्यात् पूर्बं भोजनतः परम्। पादरोगहरं वृष्य चक्षुष्यञ्चायुषो हितम्। शरीरे जायते नित्यं वाञ्छा नॄणाञ्चतुर्विधा। वुक्षुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा। भोजनेच्छाविघातात् स्यादङ्गमर्दोऽरुचिः श्रमः। तन्द्रालोचनदौर्बल्यं धातुदाहो बलक्षयः। विघातेन पिपासायाः शोषः कण्ठास्ययोर्मवेत्। श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा। निद्राविघाततो जृम्भा शिरोलोचनगौरवम्। अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च। बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात्। मन्दीभवति कायाग्नि र्यथा चाग्निर्निरिन्धनः। आहारं पचति शिखी दोषानाहारवर्जितः। पचति दोषक्षये च धातून् धातुक्षये च प्राणान्। आहारः प्रीणनः सद्यो बलकृद्दे हधार्तणः। स्मृत्यायुःशक्तिवर्णौजःसत्वशोभाविबर्द्धनः। यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम्। विचार्य्य दोषकालादीन् कालयोरुभयोरपि। उभयोः कालयोः प्रातःसायञ्च। तथा च। सायं पातर्मनुष्याणामशनं श्रुतिबोधितम्। नान्तरा भोजनङ्गुर्य्यादग्निहोत्रसमोविधिः। प्रातः प्रथमयामादुपरि द्वितीययामादर्वाक्। तथा च। “याममध्ये न भोक्तव्य यामयुग्मं न लङ्घयेत्। याममध्ये रसोत्पत्तिर्य्यामयुग्माद् बलक्षयः”। अन्यच्च। “क्षुत् सम्भवति पक्वेषु रसढोषमलेषु च। काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः”। रसादीनां पाकज्ञानमाह उद्गारशुद्धिरुत्साहो येगात्सर्गो यथोचितः। लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम्। स्थानमाह आहारन्तु नरः कुर्य्यान्निर्हारमपि सर्वदा। उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशें हीयते श्रियाः। निर्हारो मलमूत्रोत्सगः। आहांरनिर्हारविहारयोगाः स देव सद्भिर्विजने विधेयाः”। अतः परम आहारविधिः स च आहारशब्दे सुश्रुतोक्तः उक्तप्रायः। आहारानन्तर कृत्यजातञ्च भावप्रकाशे दर्शितं यथा “एवं भुक्त्वा समाचामेद्रूक्षग्रहणपूर्वकम्। भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत्। दन्तान्तरगतं चान्नं शोधनेनाहरेत् शनैः। कुर्य्यादनिर्हृतं तद्धि मुखस्यांनिष्टगन्धताम्। दन्तलग्नमनिर्हार्य्यं लेपं मन्येत दन्ववत्। न तत्र बहुशः कुर्य्यात् यत्नं निर्हरणं प्रति। आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत्। भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन् सुखावहान्। विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा। सत्येन तेन मद्भुक्तं जीर्य्यत्वन्नमिदन्तथा। अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं ज्वरयत्वशेषम्। सुखञ्च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम्। अङ्गारकमगस्तिञ्च पावकं सूर्य्यमश्विनौ। पञ्चैतान् संस्मरेन्नित्यं भुक्तं तस्याशु जीर्य्यति। इत्युच्चार्य्य स्वहस्तेन परिमार्ज्य तथोदरम्। अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः। अतन्द्रितः निरन्तरं जाग्रत् तिष्ठेन्नतु स्वप्यात्। “भुक्तमात्रस्य तु स्वप्नाद्धन्त्यग्निं कुपितः कफः” इति वचनात्। जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेधते। भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि। विदग्धं किञ्चित् पक्वं किञ्चिदपक्वम्। ततः परं भुक्तमात्रे सञ्जातस्य कफस्य प्रतीकारोपाय ताम्बूलादिभक्षणम् तत्रोक्तं तच्च ताम्बूलशब्दे ३२०७ पृ० उक्तम्। खदिरगुणादिं च तत्रोक्तं खदिरशब्दे २४६४ पृ० उक्तम्। ततः कृत्यशेषास्तत्रोक्ता यथा “भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते। अङ्गसङ्घातशैथिल्यं ग्रीवाजानुकटीमुखम्। भुक्तोपविशतस्तन्द्रा शयानस्य तु पुष्टता। आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः। चङ्क्रममाणस्य पदशतं शनैर्गच्छतः। श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे। ततस्तद्द्विगुणान् वामे पश्चात् स्वप्याद् यथासुखम्। वामदिशायामनली नाभेरूर्द्धेऽस्ति जन्तूनाम्। तस्मात्तु वामपार्श्वे शयीत भुक्तः प्रपाकार्थम्। त्रिदोषशमनी खट्वा तूली वातकफापहा। भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला। अन्यः पुनराह “भूशय्या वातलातीव रूक्षा पित्तास्रनाशिनी। सुशय्या शयनं हृद्यं पुष्टिनिद्राधृतिप्रदम। श्रमानिलहरं वृष्यं विपरीतमतोन्यथा”। संवाहनं मांसरक्तत्वकप्रसादकरं परम्। प्रीतिनिद्राकरं वृष्य कफवातश्रमापहम्। प्रवातरौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत्। स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा। सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा। निर्वातमायुषे सेव्यमारोग्याय च सर्वदा। पूर्वोऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्रदूषकः। विदाही वातलः श्रान्तिकफशोषवतां हितः। स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन्। सन्निपातं ज्वरं श्वासमामवातञ्च कोपयेत्। स्वादुर्भक्ष्यद्रव्येषु बाहुल्येन मधुररसजनकः। दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः। वीर्य्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः। पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः। मेदःपित्तकफध्वसी प्रभञ्जनविवर्द्धनः। उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत्। क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः। दोषप्रकोपकृत् आतुराणाम्। आग्नेयो दाहकृद्रूक्षो नैरृतो न विदाहकृत्। वायव्यस्तु भवेत्तिक्त ऐशानः कटुकः स्मृतः। विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत्। अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे। व्यजनस्यानिली दाहस्वेदमूर्च्छाश्रमापहः। तालवृन्तभवो वातस्त्रिदोषशमको मतः। वंशव्यजनजस्तूष्णो रक्तपित्तप्रकोपणः। चामरो वस्त्रसम्भूतो मायूरो येत्रजस्तथा। एते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः। दिवास्वापं न कुर्वीत यतोऽसौ स्यात् कफापहः। ग्रीष्मवर्ज्येषु कालषु दिवास्वप्नो निषिध्यते। उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम्। वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा। व्यायामप्रमदाध्ववाहनरतान् क्लान्तानतीसारिणः शूलश्वासवतस्तृषापरिगतात् हिक्कामरुत्पीडितान्। क्षीणान् क्षीणकफान् शिशून् मदहतान् वृद्धान् रसाजीर्णिनो रात्रीजागरितान्नरान्निरशनान् कामं दिवा स्वापयेत्। दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः। न तेषां स्वपतां दोषो जाग्रतां चोपजायते। स्वपतां दिवा। जाग्रतां रात्रौ। भोजनानन्तरं निद्रा वातं हरति पित्तहृत्। कफं करोति वपुषः पुष्टिसौख्यन्तनोति हि। शयनं पित्तनाशाय वातनाशाय मर्द्दनम्। वमनं कफनाशाय ज्वरनाशाय लङ्घनम्। आसीनं चूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम्। अपरानप्युदरेऽन्नस्य संस्थापनहेतूनाह शब्दान् स्पर्शांश्च रूपाणि रसान् गन्धान् मनःप्रियान्। भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति। उदरे इति विशेषः। अन्नस्योदरेऽस्थितिहेतूनाह शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः। भुक्तमप्रयतञ्चान्नमतिहास्यञ्च वामयेत्। अप्रयतमपवित्रम्। अन्यदपि वर्ज्जनीयमाह शयनं चासनञ्चाति न भजेन्न द्रवाधिकम्। नाग्न्यातपो न प्लवनं न यानं नापि वाहनम्। प्लवनं बाहुभ्यां जलपतरणं यानं मार्गे चलनं, वाहनमश्वादि। व्यायामञ्च व्यवायञ्च धावनं यानमेव च। युद्ध गीतञ्च पाठञ्च मुहूर्त्तं भुक्तवांस्त्यजेत्। परिवर्जनार्थमजीर्णस्य हेतूनाह अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्य्ययाच्च। कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य। ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन। विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् पारिपाकमेति। सन्धारणात् अधोवातमलमूत्रादीनाम्। अध्यशनलक्षणमाह अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते। तन्निवारयन्नाह प्राग्मुक्ते चानले मन्दे द्विरह्नो न समाचरेत्। अस्यायमर्थः प्रातर्भुक्तेऽजीर्णे सति अहन्येव पुनर्न भुञ्जीत इत्यर्थः। रात्रौ पुनस्तथापि सति भुञ्जीतैव। यत आह सुश्रुत एव “प्रातराशे त्वजीर्णे तु सायमाशे तु दुष्यति। पूर्वभुक्ते विदग्धेऽन्ने मुञ्जानो हन्ति पावकम्”। अस्य त्वयमर्थः। पूर्वं भुक्ते रात्रिभुक्ते अन्ने विदग्धे किञ्चित् पक्वे प्रातर्भुञ्जानः पावकं हन्तीत्यर्थः। यत आह “सायमाशे त्वजीर्णे तु प्रातर्भुक्त विषोपममिति”। सायमाशाजीर्णे भोजनीपायमाह भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्। विचूर्णितां शीतजलेन युक्तां भञ्जीत चान्नं मितमन्नकाले। आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्। अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः। अवशः अजितेन्द्रियः। आस्या (स्थितिः) वर्णकफस्थौल्य सौकुमार्य्यसुखप्रदा। अध्वा(गतिः)वर्णकफस्थौख्यसौकुमार्य्यविनाशनः। यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्। तदायुर्बलमेधाग्निप्रदमिन्द्रियरोधनम। उष्णीषं कान्तिकृत् केश्यं रजोवात कफापहम्। लघु तच्छस्यते यस्मादगुरु पित्ताक्षिरोगकृत्। उपानद्धारणं नेत्र्यमायुष्यं पादरागहृत्। सुखप्रचारमोजस्यं वृष्यञ्च परिकीर्त्तितम्। पादाग्यामनुपानद्भ्यां सदा चङ्कुमणं नृणाम्। अनारोग्य सनायुष्यनिन्द्रियघ्नमदृष्टिदम्। छत्रस्य धारणं वर्षातप् वातरजोऽपहम्। हिमघ्नं हितमक्ष्णोश्च माङ्गल्यमपि कीर्त्तितम्। सत्वोत्साहबलस्थैर्य्यधैर्य्यतेजोविवर्द्धनम्। अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम्। कर्षाच्छादन संयुक्ता शिविका सर्ववल्लभा। तस्यामारोहणं नॄणां त्रिदोषशमकं मतम्। वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः। पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः। घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम्। मेदोवर्णकफघ्नञ्च हितं तद्बलिनां परम्। आतप स्वेदमूर्च्छास्रपित्ततृष्णाक्लमश्रमान्। दाहं विवर्णतां कुर्य्यादेतान् छाया व्यपोहति। वृष्टिर्वृष्या हिमावस्था निद्रालस्यविधायिनी।”
दिनज्योतिम् = न० ६ त०। आतपे राजनि०।
दिनदुःखित = पुंस्त्री० दिनमुद्दिश्य दुःखितः उत्कण्ठितः। चक्रवाके शब्दर०। स्त्रियां ङीष्। रात्रौ हि स्त्रीविरहेण दिनार्थमुत्कण्ठायुक्तत्वात् तस्य तथात्वम्।
दिनप = पु० दिनं पाति पा–क। १ सूर्ये हारा० २ अर्कवृक्षे ३ सूर्य्यादिषु वारेषु च “दिनाव्दमासहोराणामधिपा न समाः कुतः” इति मयस्य प्रश्ने “मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः। वर्षाधिपतयस्तद्वत् तृतीयाश्च प्रकीर्त्तिताः” सू० सि०। “शनेः सकाशादधः क्रमेण चतुर्थसङ्क्याका ग्रहा दिनाधिपतयो वारेश्वरा भवन्ति यथा शनिरविचन्द्रभौमबुधगुरुशुक्रा इति तत्क्रमः” रङ्ग० “सूतकानां परिच्छेदो दिनमासाव्दपास्तथा। मध्यमग्रहभुक्तिस्तु सावनेनैव गृह्यते” सू० सि०।
दिनपति = पु० ६ त०। १ सूर्ये २ अर्कवृक्षे च ३ वारेशसूर्य्यादौ च दिनपशब्दे दृश्यम् दिननाथदिनेशादयोऽप्यत्र। ४ दिनप्रवेशलग्नेशे दिनप्रवेशलग्नेश्वरादिषु मध्ये तल्लग्न दर्शिनि अधिकबलयुक्ते ५ ग्रहभेदे च दिनप्रवेशशब्दे दृश्यम्। “दिननाथपूर्णशशिनोरसम्भवाम्” माघः।
दिनपात = पु० दिनस्य चान्द्रदिनस्य तिथेः पातः क्षयः। दिनक्षये “अधिवासे दिनपाते धनुषि रवौ भानुलङ्घिते मासि। चक्रिणि सुप्ते कुर्य्यान्न माङ्गल्यं विवाहञ्च” भीमपराक्रमः।
दिनपिण्ड = पु० ६ त०। ज्योतिषोक्ते अहर्गणे।
दिनप्रणी = पु० दिनं प्रणयति करोति प्र + णी–क्विप्। १ सूर्ये २ अर्कवृक्षे च।
दिनप्रवेश = पु० ताजकोक्ते मासप्रवेशवत् वर्षमाससम्बन्धिदिनानां प्रवेशे तत्प्रवेशकालाद्यानयनं नील० ता० उक्तं यथा “मासार्कस्य तदासन्नपङ्क्त्यर्केण सहान्तरम्। कलीकृत्यार्कगत्याप्तदिनाद्येन युतोनितम्। तत् पङ्क्तिस्थं वारपूर्वं मासार्केऽधिकहीनके। तद्वाराद्ये मासवेशो दिवसेऽप्येव मेव तु”। अयमर्थः मासार्कः वर्षप्रवेशकालीन एव राश्यंशकलाविकलादियुक्तः सूर्यः प्रथममासार्कः द्वितीयमासार्कस्तु तथाभूतार्क एकैकराशिमात्रयुक्तः। तस्य तदासन्नपङ्क्त्यर्केण पाश्चात्त्यदेशप्रचलितमकरन्दानुसारितिथिपत्रिकास्थस्पष्टग्रहज्ञापकपङ्क्तिस्थेन स्फुटार्केण यदन्तरं तत् कलात्मकं कृत्वा तद्दिवसीयरविगत्या तद्दिवसीयस्फुट सूर्यगत्या हरणेन लब्धदिनाद्येन तत्पङ्क्तिस्थार्क! वारादिना युतमूनितं वा कार्यं तथा सति यदि मासार्कस्ततोऽधिको भवति तदा पूर्वोत्तरीत्या युते वारादौ मासप्रवेशे वारादिर्भवति यदि मासार्कस्ततो हीनो भवति तदा जनितं कार्यम् एवंकृते तथाभूते वारादिके मासप्रवेशो भवति। दिनप्रवेशे त्वयं भेदः। वर्षप्रवेशप्रथममासप्रवेशकालयोरैक्यमिब प्रथमदिनप्रवेशस्यापि तत्कालैक्यम्। द्वितीयादिदिनप्रवेशकालस्तु इत्थम् मासार्कस्थाने दिनार्क इति विपरिणमनीयम् तथा च मासार्के एकैकांशयोजने द्वितीयादिदिनार्को भवति तस्य पूर्ववत् आसन्नपङ्क्तिस्थ स्फुटार्केण यदन्तरं तत्कलात्मकं कृत्वा तद्दिवसीयार्थगत्या हृते लब्धेन दिनाद्येन पङ्क्तिस्थार्ककालवारादिकं युतमूनितं वा कार्यं तथा सति यद् अंशादिकं भवति तत्पङ्क्तिस्थार्ककालीनवारादिषु हीनमधिकं कार्यं तथा कृते यद्भवति तत् द्वितीयादिदिनप्रवेशे वारादि ज्ञेयम् तथा च तादृक्समये यस्य राशेरुदयः तत् अंशादिसंहितं दिनप्रवेशलग्नम् इति। दिनेशायन च तत्रैवोक्तं यथा “तत्र मासतनोर्नाथो मुन्थेशोजन्मपस्तथा। त्रिराशिपो दिननिशोरवीन्दुभपतिस्तथा। अव्दप्रवेशलग्नेश एषु वीर्याधिकस्तनुम्। पश्यन् मासपतिर्ज्ञेयस्ततो वाच्यं शुभाशुभम्। अपरे दिनलग्नेशं तथा प्राचुर्विचक्षणाः। मासघस्रेशयोर्वाच्यं फलं वर्षेशवद्बुधैः” नी० क० ०इत्युपक्रमे दिनपतिनिर्णयस्तत्फलं च तत्रोक्तं यथा “दिनप्रवेशकालेऽपि खेटान् भावांश्च साधयेत्। चन्द्रलग्नांशकाभ्यां तु फलं तत्र वदेब्बुधः। चतुष्कमिन्थिहेशादि दिनमासाव्दलग्नपाः। एषां बली तनुं पश्यन् दिनेशः परिकीर्त्तितः”। इन्थिहेशादिचतुष्कम् दिनमुन्येशः जन्म- {??}शः, दिवरात्रिभेदेन दिने दिनप्रवेशे सूर्यः, रात्रौ दिनप्रवेशे चन्द्रः, एतच्चतुष्कं, दिनमासावदपाः दिनप्रवेशमासप्रवेशवर्षप्रवेशलग्नेशास्त्रयः इति सप्तानां मध्ये योऽधिकबलवान् दिनप्रवेशलग्नदर्शी च स दिनपतिरिति बोध्यम्। इदन्त्ववधेयं मुन्या हि राश्यंशादियुतं जन्मलग्नमेव सा च एकैकवर्षे एकैकराशिमतिक्रम्य राश्यन्तरे गच्छति तेन तस्या मासे त्रैराशिकेन सार्द्धद्व्यंशमोगः दिने च पञ्चकलाभोगः तदनुसारेणैव मुन्थायाः राश्यादिकल्पनया तदघीशनिरूपणम्। “त्रिकोणकेन्द्रायगताः शुभाश्चेच्चन्द्रात्तनोर्वा बलिनः खलास्तु। षडन्त्यगास्तत्र दिने सुखानि विलासमानार्थयशोयुतानि। षडष्टरिपफोपगता दिनाव्दमासेन्थिहेशाः खलखेटयुक्तः। गदप्रदा मानयशोहराश्च केन्द्रत्रिकोणायगताः सुखाप्त्यै। लग्नांशपः सौम्यखगैः समेतो दृष्टोऽपि वा मित्रदृशेन्दुनापि। नैरुज्यराज्यादिशरीरपुष्टिर्मासोक्तवद्दुःखमतोन्यथात्वे। यदंशपः सूर्य्ययुगीक्षितो वा स्निग्धेक्षणाद्भावजसौख्यकृत् सः। दुःखप्रदः प्रोक्तवदन्यथात्वे सर्वेषु भावेष्वियमेव रीतिः। षष्ठाशकः सौम्ययुतो रोगटः पापयुक शुभः। व्ययांशः शुभयुग्दृष्टः सद्व्ययः पापतस्त्वसन्। जायांशः सौम्ययुग्दृष्टः स्वस्त्रीसौख्यविलासकृत्। पापैर्ग्रहैः कलिर्दुःखं पापान्तःस्थे मृतिं वदेत्। शुभमध्यस्थिते स्त्र्यंशे बहुलं कामिनीसुखम्। स्वस्यां रतिर्गुरावन्यखगेऽन्यासु रति वदेत्। मृत्यंशे मृत्युगैः सौम्यैर्युगदृष्टे मरणं रणे। मिश्रैर्मिश्रं खलैः सौक्यं वर्षलग्नानुसारतः। द्विद्वादशे खला हानिं व्यये सौम्याः शुभव्ययम्। कर्त्तरी पापजा रोगं करोति शुभजा शुभम्। लग्नेऽष्टमे वा क्षीणेन्दर्मृत्युदः पापदृग्युतः। रोगो वा ग्रहणं वापि रिपुतः, शस्त्रभीरपि। चन्द्रे सभौमे निधनारिसस्थे नृणां भयं शस्त्रकृतं पशीर्वा पापैः सुखस्थैः पतनं गजाश्वयानात्ततः स्याद्बहुला च पीडा। शुभा द्यूने विजयदा द्यूनादर्थे सुखाबहाः। नवमे धर्मभाग्यार्थराजगौरवकीर्त्तिदाः। दिनप्रवेशेऽस्ति विधुरवस्थायां तु यादृशि। तदवस्था तुल्यनसौ फलं दत्तेन संशयः। विहाय राशिं चन्द्रस्य भागा द्विघ्नाः शरोद्धृताः। लब्धं गता अवस्थाः स्युर्भोग्यायाः फलमादिशेत्। प्रबामं प्रवासोपगते रात्रिनाथेऽर्थनाशस्तु नष्टोषगे मृत्युभींतिः। मृतावस्थिते स्याज्जयायां जयस्तु विलासस्तु हास्योपगे कामिनीभिः। रतौ स्याद्रतिः क्रीडिता सौख्यदात्री प्रसुप्ता च निद्रां कलिर्देहपीडाम्। भयं तापराशिः सुखं स्यात्तु भुक्ता ज्वराकम्पितासु स्थितासु क्रमेष्ण”।
दिनबन्धु = पु० ६ त०। १ सूर्ये हेमच०। २ अर्कवृक्षे च
दिनबल = पु० दिने बलं यस्य। १ द्विपदराशिषु। ते च राशयः वृहज्जा० भट्टोत्पलयोरुक्ता यथा “होरा स्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्योत्कटाः केन्द्रस्था द्विपदादयोऽह्नि, निशि च प्राप्ते च सन्ध्याद्वये” मू० “वीर्योत्कटाः इत्यनुवर्त्तते द्विपदादयो द्विपदचतुष्पदकीटाः यथाक्रममह्नि, निशि, प्राप्ते च सन्ध्याद्वये वीर्यो त्कटाः भवन्ति अह्नि दिने द्विपदा बलिनः, निशिरात्रौ चतुष्पदाः, सन्ध्याद्वये कीटाः। अत्र न केवलं वृश्चिकं कीटः यावदाप्याः कीटग्रहणेणैव ज्ञेयाः। तत्र च श्रीदेवकीर्तिः “मिथुनतुलाकुम्भकन्या दिवावला धन्विनश्च पूर्वार्द्धम्। अजवृषसिंहा रात्रौ मृगहययोः पूर्वपश्चार्द्धे। वृश्चिकमीनकुलोरा मकरान्त्यार्द्धं च सन्ध्यायामिति” भट्टो०। एवं स्थिते शब्दक० पञ्चषष्ठादिराशीनां यद्दिन बलमुक्तं तन्मूलं चिन्त्यम्। दिने बलं यस्य। २ सूर्यगुरुशुक्रेषु ग्रहेषु यथाह वृहज्जा० “निशि शशिकुजसौराः सर्वदा ज्ञोऽह्नि, चान्ये, बहुलसितगताः ल्युः क्रूरसौम्याः क्रमेण” “शशिकुजसौराश्चन्द्रभौमशनयः निशि रात्रौ वीर्यवन्तो बलिनः, बुधः सर्वदा सर्वस्मिन् काले निशि दिने च बली, अन्ये परे रविगुरुसिता अह्नि दिने बलिनः” भट्टो०।
दिनमणि = पु० दिने मणिरिव प्रकाशकत्वात्। १ सूर्ये हारा०। २ अर्कवृक्षे च “दिनमणिमण्डलमण्डन! भवखण्डन!” गीतनी०। “महदहः किमहो रजनी तनुर्दिनमणौ गणकोत्तरगोलगे। ननु तनुर्दिवसो त्रहती निशा वद विचक्षण! दक्षिणदिग्गते” सि० शि०
दिनमयूख = पु० दिने मयूखोऽस्य। १ सूर्ये २ अर्कवृक्षे च दिनकिरणादयोऽप्यत्र।
दिनमान = न० दिनस्य मानम्। सूर्यदर्शनकालस्य मानभेदे तन्मानभेदे कारणं सि० शि० उक्तं यथा
“अतश्च सौम्ये दिवसो महान् स्यात् रात्रिर्लघुर्व्यस्तमतश्च याम्ये। द्युरात्रवृत्तं क्षितिजादधःस्थे रात्रिर्यतः स्याद्दिनमानमूर्द्धे। सदा समत्वं द्युनिशोर्निरक्षे नोमण्डलं तत्र कुजाद्यतोऽन्यत्। षट्षष्टिभागाभ्यधिकाः पलांशा तत्राय तत्रास्त्यपरो विशेषः। लम्बाधिका क्रान्तिरुदक च यावत् तावद्दिनं सन्ततमेव तत्र। यावच्च याम्यां सततं तमिस्रा ततश्च मेरौ सततं समार्द्धम्। विषुवद्वृत्तं द्युसदां क्षितिजत्वमितं तथा च दैत्यानाम्। उत्तरयाम्यौ क्रमशो मूर्धोर्द्ध्वगतौ ध्रुवौ यतस्तेषाम्। उत्तरगोले क्षितिजादूर्द्ध्वं परितो भ्रमन्तमादित्यम्। सव्यं त्रिदशाः सततं पश्यन्त्यसुरा असव्यगं याम्ये। दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति। कुपृष्ठगानां द्युनिशं यथा नृणां तथा पितॄणां शशिपृष्ठवासिनाम्। दिनं सुराणामयनं यदुत्तरं निशेतरत् सांहितिकैः प्रकीर्तितम्। दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्तनाय तत्। द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरवरोहतीनः। यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न विलोक्यते किम्?। विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितमामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकीर्ध्वे दर्शे यतोऽस्माद् द्युदलं तदैषाम्। भार्धान्तरत्वान्न विधोरधःस्यं तस्मान्निशीथः खलु पौर्णमास्याम्। कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्। यदतिदूरगतो द्रुहिणः क्षितेः सततमाप्रलयं रविमीक्षते। भवति तावदयं शयितश्च तद्युगसहस्रयुगं द्युनिशं विधेः। यो हि प्रदेशोऽपममण्डसस्य तिर्यक्स्थितो यात्युदयं तथास्तम्। सोऽल्पेन कालेन य जर्ध्वसंस्थोऽनल्पेन सोऽस्मादुदया न तुल्याः। य उद्गमे याम्यनता मृगाद्याः स्वस्वापमेनापि निरक्षदेशे। याग्याक्षतस्तेऽतिनतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन। कर्क्यादयः सौम्यनता हि येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम्। कालेन तस्माद्बहुनोदयन्ते तदन्तरे स्वं चरखण्डमेव। भचक्रपादास्तिथिनाडिकाभिः पृथक् समुद्यन्ति निरक्षदेशे। चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र पूर्णाग्नि३० मितामिरेव। मेषादेर्मिथुनान्तो नाडीभिस्तिथिमितामिरुद्वृत्ते। लगति कुजे तदधःस्थे प्रथमं ताभिश्चरोनाभिः। कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुद्वलये। लगति कुजे चोर्ध्वस्थे पश्चात् ताभिश्चराढ्याभिः। तदहितत्रिंशद्भिः कन्यान्तो बा झषान्तो वा। चरखण्डैरूनाढ्यास्तेन निरक्षोदयाः स्वदेशे स्युः। क्षितिजेऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत् सर्वम्। उक्तमनुक्तं चान्यच्छिष्याणां बोधजननार्थम्। योऽभ्युदेति समयेन येन तत्सप्तमोऽस्तमुपयाति तेन च। राशिरूर्द्ध्वमपमण्डलं कुजादर्धमेव सततं ततः स्थितम्। यत्र लम्बजलवा २४ जिनोनकास्तत्र नोदयचराद्यसुक्तवत्। नान्यसस्थिततयान्यथोदितं येन नैष विषयो मृगोचरः। यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते। प्राचि पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे”।
दिनमुख = न० ६ त०। अहर्मुखे प्रभाते।
दिनमूर्द्धन् = पु० दिनस्य मूर्द्धेवाद्यस्थानत्वात्। उदयाचले त्रिका०।
दिनयौवन = न० दिनस्य यौवनमिव। मध्याह्ने शब्दार्थचि०
दिनरत्न = न० दिनस्य रत्नमिव प्रकाशकत्वात्। १ सूर्ये हेमच० २ अर्कवृक्षे च।
दिनराशि = पु० ६ त०। ज्योतिषोक्ते १ अहर्गणे “यथाखभमणा भ्यस्तो दिनराशिः कुवासरैः। विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत्” सू० सि०। २ दिनसज्ञके वृषादौ राशौ च राशिशब्दे दृश्यम्।
दिनव्यास = पु० दिनस्य अहोरात्रात्मककालघ्नापकवृत्तस्य व्यासः। सृ० सि० उक्ते अहोरात्रदृत्तव्यासे “क्रान्तौ क्रमोत्क्रसज्ये द्वे कृत्वा तत्रोत्क्रमज्यया। हीनात्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्” मू० “दिनव्यासदलमहीरात्रवृत्तस्य व्यासार्धम्” रङ्ग०।
दिनांश = पु० ६ त०। त्रिधा विभक्तस्य दिनस्थ १ प्रातर्मध्याह्रसायाह्नेषु भागेषु राजनि०। पञ्चधाविभक्तस्य दिनस्य २ प्रातःसङ्गवादौ च “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु। मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततःपरम्। सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्” तिथित०।
दिनागम = पु० ६ न०। प्रभाते “नृशब्दानुगमक्रुद्धः स कदाचिद्दिनावगमे” हरिवं० ८१ अ०।
दिनादि = पु० ६ त०। प्रभावकाले राजनि०।
दिनान्त = पु० ६ त०। सायाह्ने “कृत्वा दिनान्ते निलयाय् गन्तुम्” रघुः। दिनावसानादयोऽप्यत्र। “दिनावसानोत्सुकबालवत्सा” रघुः।
दिनान्तक = पु० दिनमन्तयति अन्त + णिच्–ण्वुल्। अन्धकारे त्रिका०।
दिनारम्भ = ६ त०। प्रभाते
दिनार्द्व = पु० दिनस्य सूर्यकिरणप्रकाशात्मककालस्यार्द्धम्। दिवाभागस्यार्द्धे “एवं विषुवति छाया स्वदेशे या दिनार्द्धजा” सू० सि०।
दिनिका = स्त्री दिनं तत्रकृतं कर्महेतुतया अस्त्यत्र भृतौ ठन्। दिने कर्मकरणभृतौ (एकदिनेरभजुरि) रत्नमाला।
दिनेश = पु० ६ त०। १ सूर्ये हेमच०। २ अर्कवृक्षे दिनप्रवेशशब्दोक्ते दिनप्रवेशलग्नेशादिषु मध्येऽधिकवलयुते तल- दर्शिनि ३ ग्रहे ४ सूर्य्यादौ वारेशे च दिनेश्वरादयोऽप्यत्र।
दिनेशात्मज = पु० ६ त०। १ शनौ २ यमे ३ कर्णे ४ सुग्रीवे च ५ तपत्यां ६ तमुनायां च स्त्री।
दिन्भ = सघाते चु० आत्म० अक० सेट्। दिग्भयते अदिदिम्भत
***