दार = पु० ब० व०। दारयति भ्रातॄन् दॄ–णिच् दारि–कर्त्तरि अच्। भार्य्यायां “दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्” भा० आ० १०३ अ० “दाराणां मुरवैरिणो रतिपतेर्मातुस्त्रिलोकजितः” धनञ्जयवि०। “पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्” मनुः। “सदृशानाहरेत् दारान्” यमः। करणे घञ्। २ औषधभेदे। भावे घञ्। ३ विदारणे पु०।
दारक = त्रि० दॄ–ण्वुल्। १ विदारके २ बालके “चाण्डालदारकेणानुगम्यमानम्” काद० “एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः। तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दारकान्” भा० आ० १२६ अ०। “मुद्गरांश्च महाघोरान् समरे शत्रुदारकान्” मा० द्रो० १५६ अ० ३ पुत्रे “कुमारो भर्त्तृदारकः” अमरः। ४ कन्यायां स्त्री “सन्तानसन्धिर्विज्ञेयः दारिकादानपूर्वकः” कामन्दकी० “पूतनां दैत्यदारिकाम्” हरिवं० ४२ अ० ५ ग्रामशूकरे पुंस्त्री राजनि०। तस्य भूमिविदारकत्वात् तथात्वम्।
दारकर्म्मन = न० दाराणां तद्भावस्य प्रतिपादकं कर्म। भार्य्यात्व सम्पादके ज्ञानविशेषरूपे विवाहे त्रिका० “सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने”। “सवर्णाग्रे द्विजातीनां प्रशस्ता दारदर्मणि” मनुः। दारक्रियाऽप्यत्र स्त्री “पुनर्दारक्रियां कुर्य्यात् पुनराघानमेव च” मनुः “दारक्रिया योग्यदशञ्च पुत्रम्” रघुः। “क्लीवे दारक्रिया यादृक्” भा० स० ३६ अ०।
दारग्रहण = न० दाराणां दारत्वस्य सम्पादकं ग्रहणं ज्ञानम्। दारत्वसम्पादके ज्ञानरूपे विवाहे “तेन भार्य्यात्वसम्पादकं ग्रहणं विवाहः। तस्य स्वीकाररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात् वरकन्ययोर्विवाहकर्तृत्व कर्मत्वे अतएव “कन्यापुत्रविबाहेष्विति” विष्णुपुराणोक्तं संगच्छते। भार्यात्बस्य स्वरूपसद्विशेषेणत्वेन नेतरेतराश्रयदोष इति” उद्वा० रघु०। “तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु” भा० आ० १३ अ०। दारपरिग्रहा दयोऽप्यत्र “अतःपरं समावृत्तः कुर्य्याद्दारपरिग्रहम्” मनुः
दारण = न० दारयति जलमलम् दृ–णिच् युच्। १ कतकफले शब्दर०। तस्य जलकालुष्य दारणात्तथात्वम् २ दारकमात्रे त्रि०। “समाधत्तं शितं वाणं गिरीणामपि दारणम्” भा० क० ४९ अ० करणे ल्युट्। ३ विदारणसाधने अस्त्रादौ त्रि० स्त्रियां ङीप्। “नमस्ये शुम्भहननीं निशुम्भ ह्वदि दारणीम्” हरिव० १६६ अ०। भावे ल्युट्। ४ विदारणे भेदने “दारुदारणपथैः समाहतम्” “तद्दारुदारणपथेषु चतुर्षु किं स्यात्” लीला०। द्वैधीकरणे व्रणादिस्फोटनसाधके ५ औषधभेदे तच्च सुश्रुतेनोक्तं यथा “चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः। कपोत गृध्रकङ्कानां पुरीषाणि च दारणम्। क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम्”
दारद = न० दरदि देशभेदे भवः सनिग्ध्वा० अण्। १ विषभेदे अमरः २ पारदे ३ हिङ्गुले च मेदि०। दरदो देशस्य सन्निकृष्टः अण्। ४ समुद्रे हारा०।
दारबलिभुज् = पु० दारेण चञ्चुपुटेन विदारणेन बलिं भुङ्क्ते भुज–क्विप्। वकपक्षिणि त्रिका०।
दारव = त्रि० दारुणः विकारः रजता० अञ्। दारुविकारे काष्ठमये पदार्थे “दारवाणां च तक्षणम्” मनुः। “अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्” सू० सि०
दारि = त्रि० दॄ–णिच्–इन्। १ दारके स्त्रियां वा ङीष्।
दारिका = स्त्री दारक + टाप् कापि अत इत्त्वम्। कन्यायाम् जटाध० दारकशब्दे उदा०।
दारिद्र्य = न० दरिद्रस्य भावः ष्यञ्। दरिद्रतायां दुर्गती धनादिराहित्ये “प्रणीय दारिद्र्यदरिद्रतां नृपः” नैष० दारिद्र्यवर्णनं मृच्छकटिकायां यथा “सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीप- दर्शनम्। सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति। दारिद्र्यमनन्तकं दुःखम्। षयस्य! न ममार्थान् प्रति दैन्यम्। पश्य “एतत्तु मां दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्जयन्ति। संशुष्कसान्द्रमदलेखसिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलम्”। सत्यं न मे विभवनाशकृतास्ति चिन्ता, भाग्यक्रमेण हि धनानि भवन्ति यान्ति। एतत्तु मां दहति नष्टधनाश्रयस्य यत् सौहृदादपि जनाः शिथिलोभवन्ति। दारिद्र्याद्ध्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभूयते, परिभवार्न्निर्चेदमापद्यते। निर्विण्णः शुचमेति, शोकपिहितो बुद्ध्या परित्यज्यते, निर्वुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्। दारिद्र्यं हि पुरुषस्य। निवासश्चिन्तायाः परपरिभवो वैरमपरं, जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम्। वनं गन्तुं बुद्धिर्भवति च कलत्रात् परिभवो, हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च”। तत्रैव अन्यत्र स्थाने “दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते, सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः। सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते, पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते। सङ्गं नैव हि कश्चिदस्य कुरुते सम्भाष्यते नादरात् सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते। दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्। दारिद्र्य! शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युशित्वा। विपन्नदेहे मयि श्रन्दभाग्ये, ममेति चिन्ता क्व गमिष्यसि त्वम्”। तत्सूचकयोगभेदा जातकपद्धतावुक्ता यथा “समस्तपापखेचरैर्युतेक्षितं धनाभिधम् दरिद्रताविधायकं विशेषतः कुशानुना”। “बुधगुरुकवयश्चेद्वित्तगा वित्तनाशं विदधति यदि दृष्टाः सोमसौम्येन्दुपुत्रैः” “क्षोणः शशी ज्ञेन विलोकितोऽर्थे पूर्वाजितार्थस्य विनाशदः स्यात्”। “नवीनवित्तागमरोधकोभवेत् रविर्धनेऽत्यष्टिमिते कुजोऽङ्के षङ्गिंशके ज्ञेधननाशदः स्यात्”। नाभनयोगशब्दे वक्तव्यलक्षणशूलयुगगोलकयोगैर्दरिद्रताप्तिः वृहज्जा० उक्ता यथा “विघनश्च शुले” “धनविरहितः पाषण्डी वा युगे त्वथ गोलके विधनमलिन” इत्यादि “पुष्पवन्तार्कियोगे स्यान्मूर्खो धूर्त्तो धनोज्झितः”। “तपनारार्कपुत्राणां योगे निःस्योऽति दुःखितः”। “नृपतेर्वंशजातीऽपि केमद्रुमभवो नरः। मलिनो दुःखितो नीचो निःस्वोदासः खलो भवेत्”। अस्य अपवादः “लग्नाद्विधोर्वा वृद्धिस्थैः शुभैः सर्वैः शुभं फलम्। द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति दरिद्रता”। जातकपद्धतिः।
दारित = त्रि० दॄ–णिच्–क्त। विदारिते अमरः।
दारी = स्त्री दारयति दॄ–णिच्–इन्-ङीप्। क्षुद्ररोगभेदे। तल्लक्षणं सुश्रुते उक्तं यथा “परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः। पादयोः कुरुते दारीं सरुजां तल संश्रिताम्”।
दारु = पु० न० दीर्य्यते दॄ–ऊण्। काष्ठे अमरः “प्रतिगृह्णन्न विद्वांस्तु भस्मीभवति दारुवत्”। “वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च” मनुः “शैक्यं कमण्डलुञ्चैव द्विदलं दारुमेव च” हरिवं० २०१ अ०। १ पित्तले २ देवदारुणि मेदि०। ३ शिल्पिनि ४ दारके त्रि० धरणिः। दा–दाने दो–खण्डने वा रु। ५ दानशीले ६ खण्डनशीले च त्रि०।
दारुक = न० दारु + स्वार्थे क। १ देवदारुणि राजनिः। दारु + संज्ञाया कन्। २ कृष्णस्य सारथौ पु०। “रथेष्वतिरथो यन्ता दारुकः केशवस्य वै” हरिवं० ११६ अ०। “रैवतञ्च गिरिं देवो गत्वा दारुकमब्रवीत्। मदीयं रथमेतं त्वं ग्रहायेहैव दारुक!” १३२ अ० “उत्कन्धरं दारुक इत्युवाच” माथः तस्यापत्यं फिञ्। दारुकि तदपत्ये “शिक्षितो दारुकिस्तदा” भा० व० १८ अ०
दारुकच्छ = पु० देशभेदे तत्र भवः कच्छान्तदेशवाचित्वात् वुञ्। दारकच्छक तद्भवे त्रि०।
दारुकदली = स्त्री दारु इव कठिना कदली। १ काष्ठकदल्यां २ वनकदल्यां च राजनिः।
दारुका = स्त्री दारुणा कायति कै–क। दारुणः प्रतिकृतिर्वा इवार्थे क। काष्ठमयपुत्तलिकायाम् शब्दरत्ना०
दारुकावन = न० वनभेदरूपे तीर्थभेदे शिवपु०
दारुकेश्वर = पु० शिवलिङ्गभेदे शिवपु०।
दारुगन्धा = स्त्री दारुणि गन्धी यस्याः। (चीडा) गन्धद्रव्यभेदे राजनि०।
दारुगर्भा = स्त्री दारु तन्मयो गर्भोऽस्याः। काष्ठकदल्यां हारा०
दारुचिनी = स्त्री स्वनामख्यातायां गुडत्वचि शब्दार्थचि०।
दारुचीर्णक = न० गुडत्वचि शब्दार्थचि०।
दारुज = त्रि० दारुणो जायते जन–ड। १ काष्ठजाते २ मर्दले वाद्यभेदे पु० शब्दर०।
दारुण = पु० दारयति भीषयते चित्तं दृ–भये णिच् “कृतृदा रिभ्य उनन्” उणा० उनन्। १ चित्रवृक्षे २ भयानकरमे अमरः। ३ तद्वति भयानके दुःसहे भीषणे ४ भयहेतौ त्रि० “हृदयकुसुमशोषी दारुणो दीर्घशीकः” सा० द०। उज्वल दत्तस्तु दॄ–विदारे इत्यस्यैव णिजन्तस्य रूपमिदमित्याह। ५ रौद्रसंज्ञकनक्षत्रगणे ज्यो०। “उपेन्द्र! बज्रादपि दारुणोऽसि” गीत० दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते” सुश्रुतः। “वाचा दारुणया क्षिपन्” मनुः। ६ विदारके त्रि०। ततः भृशा० अभूततद्भावेऽर्थे क्यङ् दारुणायते “वियोगिहृद्दारुणि दारुणायसे” नैष० ७ विष्णौ पु० “सुधन्वाखण्डपरगुर्दारुणोद्रविणप्रदः” विष्णुस०। “सन्मार्गविरोधिनां दारुणत्वात् (खण्डकत्वात्) दारुणः” भा०।
दारुणक = पु० सुश्रुतोक्ते क्षुद्ररोगभेदे क्षुद्ररोगशब्दे २३८३ पृ० दृश्यम्। “सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्द्धनि” सुश्रु०।
दारुणा = स्त्री “तृतीयाऽक्षयसंज्ञा या दारुणा सा प्रकीर्तिता” इत्युक्ते १ तिथिभेदे। २ नर्मदाखण्डाधिष्ठातृदेवीभेदे च शब्दार्थचि०।
दारुतीर्थ = न० दारुवनभेदरूपे तीर्थभेदे शिवपु०।
दारुनिशा = स्त्री दारुप्रधाना निशा हरिद्रा। दारुहरिद्रायाम् रत्नमा०।
दारुपत्री = स्त्री दारुणः देवदारुणः पत्रमिव पत्रमस्याः ङीप्। हिङ्गुपत्र्याम् राजनि०।
दारुपात्र = न० दारुणः पात्रम्। काष्ठमये जलाधारादिपात्रे “अलाबुं दारुपात्रञ्च मृण्मयं वैदलं तथा। एतानि यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत्” मनुः।
दारुपीता = स्त्री दारुणा काष्ठेन पीता। दारुहरिद्रायां राजनि०।
दारुपुत्रिका = स्त्री दारुमयी पुत्रिका। काष्ठपुत्तलिकायाम्। हारा०।
दारुमुख्याह्वया = स्त्री दारुमुख्यमाह्वयते आ + ह्वे–श। गोधायां राजनि०। आ + ह्वे–क। दारुमुख्याह्वाऽप्यत्र शब्दार्थ०।
दारुमूषा = स्त्री दारुप्रधाना मूषा। (दारुमूषीति) ख्याते ओषधिभेदे शब्दार्थचि०।
दारुयन्त्र = दारुमयं यन्त्रम्। काष्ठनिर्मितयन्त्रभेदे “अस्वतन्त्री हि पुरुषः कार्य्यते दारुयन्त्रवत्। केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया” भा० उ० १५८ अ०।
दारुवधू = स्त्री दारुमयी वधूः वधूप्रतिमा दारुमयी वधूरिव वा। १ काष्ठपुत्तलिकायां २ काष्ठमयीस्त्रीप्रतिमायाञ्च। “जलविन्दुमिन्दुभणिदारुवधूम्” माघः। “इन्दुमणिः चन्द्रकान्तशिला सैव दारुवधूस्तन्मयी वधूः स्त्रीप्रतिमा” मल्लि० दारुस्त्रीदारुपुत्रीदारुपुत्तलिकादयोऽप्यत्र।
दारुवह = न० दारु वहति वह–अच् “इको वहेऽपील्यादिभ्यः पा० पील्वा० न पूर्वपददीर्घः। दारुवाहके जलादौ।
दारुसार = पु० दारुषु सारः श्रेष्ठः। चन्दने शब्दार्थचि०।
दारुसिता = स्त्री दारुणि सितेव (दारुचिनीति) ख्यातायां गुडत्वचि। “ज्ञेया दारुसिता स्वाद्वी तिक्ता चानिलपित्त हृत्। सुरभिः शुक्रलावल्यमुखशोषतृषापहा” भावप्र० तद्गुणा उक्ताः।
दारुहरिद्रा = स्त्री दारुमयी हरिद्रा। स्वनामख्यातायाम् हरिद्रायाम् रत्नमाला।
दारुहस्तक = पु० दारुणोहस्त इव “इवे प्रतिकृतौ” पा० कन्। काष्ठमयदर्वीभेदे अमरः।
दार्घसत्र = त्रि० दीर्घसत्रे भवः अण् “देविकाशिंशपेत्या” पा० आद्यच आत्। दीर्घसत्रे भवे।
दार्ढ्य = न० दृढस्य भावः ष्यञ्। दृढत्वे “उत्साहो वाग्मिता दार्द्यभापत्क्लेशसहिष्णुता” कामन्दकी०।
दार्तेय = त्रि० दृतौ भवादि ढञ्। १ दृतिभवे २ तत्रस्थे च।
दार्दुर = पु० दर्दुरः मृत्पात्रभेदस्तदाकारोऽस्त्यस्य प्रज्ञा० ण। १ दक्षिणावर्त्तशङ्खभेदे शब्दार्थचि०। दर्दुर स्येदम् अण्। २ दर्दुरसम्बन्धिनि त्रि० स्त्रियां ङीप्। “चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै। प्रविष्टो दार्दुरीं मायामनावृष्टिं चकार ह” हरिवं० ४१६१ अ०। दर्दुरश्चेह राक्षसः तेन दार्दुरी राक्षसी
दार्दुरिक = त्रि० दर्दुरः मृत्पात्रभेदः शिल्पमस्य ठञ्। मृत्पात्र भेदकारके (कुमार) कुलाले।
दार्भ = त्रि० दर्भस्येदम् अण्। कुशसम्बन्धिनि।
दार्भि = पुंस्त्री दर्भस्य गोत्रापत्यम् इञ्। दर्भर्षिगोत्रापत्ये आग्रायणे तु तस्मिन् फक्। दर्भायण इत्येव।
दार्भ्य = त्रि० दर्भे भवः कुर्वा० ण्य। दर्भभवे।
दार्व = पु० देशभेदे स च देशः वृ० स० कूर्मविभागे १४ अ० ऐशान्यामुक्तः “ऐशान्यां मेरुकनष्टराज्येत्युपक्रमे ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः”। “कोलिसर्पाः समहिषा दार्वाश्चोलाः सकेरलाः” हरिवं० १४ अ०। ३ तत्रस्थे २ नदीभेदे च तस्या इदम् नद्यादि० ढक्। दार्वेय तदीयजलादौ त्रि० दार्वेषु भवः बहुवचनार्थे वुञ्। दार्वक दार्वजनपदेषु भवे त्रि०।
दार्वट = न० दारु इव निश्चलतया निरूपणीयविषयनिश्चयार्थमटन्त्यत्र अट–घञर्थे क। १ चिन्तागृहे, २ मन्त्रगृहे च। हारा०।
दार्वण्ड = पुंस्त्री दारु–इव कठिनोऽण्डोऽस्य। मयूरे शब्दार्थकल्प०। स्त्रियां जातित्वात् ङीष्।
दार्वाघाट = पुंस्त्री दारु आहन्ति आ + हन–अण् “दारावा हनोऽण् अन्तस्य च टः संज्ञायाम्” वार्त्ति० अण् नस्थाने टः। (काटठोकरा) पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष्। “पुरुषमृगश्चन्द्रमसो गोधा–कालका–दार्वा घाटास्ते वनस्पतीनाम् यजु० २४। ३५। असंज्ञायां तु न टान्तादेशः। दार्वाघात काष्ठाघातमात्रे त्रि०। स च दार्वाघातखगे शब्दरत्ना० अत्रार्थे टान्तत्वमेव युक्तं वार्त्तिके संज्ञायां टान्तत्वस्यैव साधनात्।
दार्विका = स्त्री दारयति दॄ + उल्वादित्वात् साधुः ङीप् दार्वी दारुहरिद्रा तद्विकाराऽपि दार्वी अभेदोपचारात् स्वार्थे क। १ दारुहरिद्राक्वाथोद्भवे तुत्थे अमरः २ गोजिह्वौषधौ शब्दार्थचि०।
दार्विपत्रिका = स्त्री दार्व्या दारुहरिद्रायाः पत्रमिव पत्रमस्त्यस्याः ठन् संज्ञायां ह्रस्वः तत् तदाकारः पत्रेऽस्त्यस्या वा ठन्। गोजिह्वायां रत्नमाला।
दार्वी = स्त्री दारयति दॄ–णिच् उन् स्त्रियां दारणस्य अवयवविभागरूपत्वेन गुणवचनत्वात् वा ङीष् दॄ + उल्वा० नि० ङीप् वा। दारुहरिद्रायाम्।
दार्वीक्वाथोद्भव = न० दार्व्या दारुहरिद्रायाः क्वाथादुद्भवति उद् + भू–अच्। १ रसाञ्जने राजनि० २ कृत्तिमरसाञ्जने रत्नमा०।
दार्श = त्रि० दर्श भवम् आर्षे ठञं बाधित्वा अण्। १ दर्शमवे “दार्शमस्कन्दयन्पर्वपौर्णमासञ्च योगतः” मनुः। लोके तु कालात् ठञ्। दार्शिक इत्येव। दृशि नेत्रे भवः अण्। २नेत्रभवे त्रि०।
दार्शपौर्णमासिक = त्रि० दर्शे पौर्णमास्यां च मवः ठञ्। दर्शपौर्णमासीभवे। “दार्शपौर्णमासिकेतिकर्त्तव्यता” कात्या० श्रौ० ५। ६। ३१। सूत्रे कर्कः।
दार्षद = त्रि० दृषदि पिष्टः शैषिकः अण्। दृषदि प्रस्तरे पिष्टे सक्तुप्रभृतौ
दार्षद्वत = न० द्वषदुत्या नद्यास्तीरे कर्त्तव्यम् अण्। सत्रभेदे तद्विधानादि यथा “दार्षद्वतमृत्विगाचार्य्ययोरन्यतरस्य गा रक्षेत् संवत्सरम्” कात्या० श्रौ० ४। ६। ३३ इत्यादिभिः “एत्य च दृषद्वतीतीरेण” इत्यन्तैः सूत्रैरुक्तः तस्याव भृथविशेषस्तत उत्तरसूत्रेषु दृश्यः। “दार्षद्वतमेतत्संज्ञं सत्रमभिधीयते” कर्कः।
दार्ष्टान्तिक = त्रि० दृष्टान्तेन युतः ठञ्। दृष्टान्तयुक्ते उपमेये “स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितम् वृ० उ० शङ्करमाष्यम
दाल = न० दले सञ्चितम् अण्। पुष्पात् पतिते दलसाञ्चत १ मधुभेदे भावप्र० उक्तलक्षणादि मधुशब्द रश्यम इन्द्रनीलदलाकारसूक्ष्ममक्षिकोत्पन्ने २ वृक्षकोठरान्तमके मतनि च राजनि०। ३ कोद्रवे धान्यभेदे पु० हेमच०।
दालन = पु० दालयति दल–णिच्–ल्यु। दन्तगते रोगभेदे रोमशब्दे ३४६६ पृ० दृश्यम्।
दालव = पु० दलति दल–उन् तस्यायम् अण्। स्थावरविषभेदे हेमच०
दाला = स्त्री दल्यते दल–कर्मणि–घञ। महाकाले किमपाके वृक्षे भावप्र० स्वार्थे क। दालिका तत्रार्थे
दालि = स्त्री दल–इन्। (दाल) इति ख्याते दलिते १ शमीघान्ये शब्दार्थचि०। दाडि डस्य लः। २ दाडिम्बशब्दार्थे च स्त्री त्वात् वा ङीप् तत्रार्थे सा च ३ देवदालीलतायां राजनि०।
दालिम = पु० दाडिम + डस्य लः। दाडिमवृक्षे भरतः
दाल्भ = पु० ब० व०। दालभ्यस्य दल्भगोत्रजस्य छात्राः अण् यलोपः। दाल्भ्यस्य छात्रेषु
दाल्भ्य = पुंस्त्री दलभस्य गोत्रापत्यम् गर्गा० यञ्। दल्मर्पिगोत्रापत्ये ववे मुनिभेदे। “वकोदाम्भ्यः स्थूलशिणः कृष्णद्वैपायनः शुकः” भा० स० ४ अ० दलभशब्दे छान्द्रो० वाक्यम् दृश्यम्। तस्य युवापत्यम् यूनि फिञ्। दाल्भ्यायनि दल्भ्यस्य यून्यपत्ये। २ पुण्याश्रमरूपे तीर्थभेदे। “दाल्भ्यघोषश्च दाल्भ्यश्च धरणीस्थो महात्मनः। कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः। आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः” भा० व० ९० अ०
दाल्मि = पु० दल–णिच् बा० मि। इन्द्रे त्रिका०।
दाव = पु० दुनाति दु–कर्त्तरि ण। १ वने २ वनभवेऽनले च अमरः। “ददर्श दावं दह्यन्तं महान्तं गहने वन” भा० व० २६० श्लो०। “वनमिव दावपरीतम्” वृ० स० २४ अ०। “इदमिन्द्रः सदा दाव खाण्डवं परिरक्षति” भा० आ० २२३ अ० “दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये” भा० द्रो० २९४२ श्लो०। “अधिज्यधम्बा विचचाण दावम्” रघुः। भावे घञ्। ३ उपतापे च।
दावन् = पु० दा–कर्मभावादौ उणा० बनि। १ देये २ दाने च “नियुत्वता रथेनायाहि दावने वायी मखस्य दावने” ऋ० १। १३४। १ “दावने दातव्याय हविषे तत्स्वीकाराय पुनः किमर्थं दावने अस्मभ्यमभिमतदानाय। उभयत्र ददातेः कर्मणि भावे च क्रमेणौणादिको वनिः। छान्दसः नीपधालोपः” माधवः। लोके तु दाव्ने इत्यादि। “अतो मनिन्क्वनिब्वनिपश्च” पा० सुप्युपसर्ग उपपदे च वनिप्। भूरिदावा इत्यादि बहुदातरि। अयं छन्दस्येव लोके तु न पाणिनिः मुग्धबोधे तु लोकेऽपीत्युक्तम्।
दावप = पु० दावं वनवह्निं पाति पा–क। पुरुषभेदे “अरण्याय दावपम्” यजु० ३०। १६ पुरुषमेधे एकादशयूपे आलभ्यपुरुषभेदोक्तौ।
दावसु = पु० अङ्गिरसो मुनौ पञ्चभाष्पब्रा०
दावाग्नि = पु० ६ त०। वनानले दावानलादयोऽष्यत्र। “दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम्” हरिवं० १५३ अ० “जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः” भा० वि० १४ अ०।
दाविक = त्रि० देविकायां नदीभेदे भवः अण् “दाविकाशिंशपेत्यादिना” आद्यच आत्। देविकानद्यां भवे। एवं देविकाकूले भवः अण। दाविककूल तत्कूलभवे शाल्यादौ।
दाश(स) = हिंसने स्वा० पर० सक० सेट्। दाश्नो(स्नो)ति अदाशी(सी)त् अयं वैदिकः। “यस्ते दाश्नीति नम उक्तिभिः” ऋ० ८। ४। ६ “दाशद्दाशुषे हन्ति वृत्रम्” ऋ० २। १। ९४ “यस्मै त्वं सुद्रविणो ददाशो अनागास्त्वमदिते!” ऋ० १। ९४। १५
दाश = दाने चु० उभ० सक० सेट्। दाशति–ते ऋदित् अदिदाशत्–त। “स वा एतेभ्यस्तत् पुरोऽदाशयत् तस्मात् पुरोडाशः” शत० ब्रा० १। ६। २। ५
दाश = दाने भ्वा० उभ० सक० सेट्। दाशति ते अदाशीत् अदाशिष्ट ऋदित् णिच् अदिदाशत्–त। “यस्तुभ्यं दाशान्न तमं हो अश्नवत्” ऋ० २। २३। ४ “तुभ्यं दाशतः स्यामः” ७। १४। ३
दाश(स) = पुंस्त्री दाश्नो(स्नो)ति मत्स्यान् दस(श)ति मत्स्यान् वा घञ् नि० नलोपः दाश(स्य)ते दीयते मत्स्यस्य मूल्य मस्मै घञ वा। १ मत्स्योपजीविनि धीवरे स्त्रियां जातित्वात् ङीष्। “दाशानां भुजवेगेन नद्याः स्रोतोजवेन च। वायुना चानुकूलेन तूर्णं पारमवाप्नुयात्” भा० आ० ५८७५ श्लो० “स्नेहात् संमोहमापन्नो नावि दाशो यथा तथा” भा० आश्र० १३९५ श्लो०। “एष नौयायिनामुक्तो व्यवहारस्य निर्णयः। दाशापराधतस्तोये दैविके नास्ति निग्रहः। यन्नावि किञ्चिद्दाशानां विशीर्येतापराघतः। तद्दाशैरेब दातव्यं समागम्य स्वतोऽंशतः”। “निषादो भार्गवं सूते दा(शं)सं नौकर्मजीविनम्। कैवर्त्तमिति यं प्राहुरार्यावर्तनिवासिनः” इति च मनुः स्वार्थे क। तत्रार्थे। ततः परं पुत्रशब्द आद्युदात्तस्तत्पुरुषे दाशकपुत्रः। दाश्यते भृतिरस्मै। २ भृत्ये (चाकर) पु० रमानाथः।
दाशग्राम = पु० दाशप्रधानो ग्रामः। धीवरप्रधाने ग्रामे ततः चतुरर्य्यां कुमुदादि० ठञ् काश्यादि० ठञ्ञिठौ वा दाशग्रामिक तस्य सन्निकृष्टदेशादौ त्रि०। स्त्रियां ठञि ङीप् ञीठि टाप् इति भेदः।
दाशतयी = त्रि दश अवयवा यस्य तयप् दशतयः ततः स्वार्थे प्रज्ञा० ण। दशावयवके ऋग्भेदसंहितायां स्त्री तस्याः दशमण्डलात्मकत्वात्तथात्वम्।
दाश(स)नदिनी = स्त्री ६ त०। व्यासमातरि सत्यवत्यां धीवर कन्यायाम्। कालीशब्दे २०२१ पृ० दृश्यम्।
दाश(स)पु(पू)र = न० दाशा(सा)न् कैवर्त्तान् पिपूर्त्ति पाल यति पॄ–क। पूरयति पूर–अण् वा। कैवर्त्तीमुस्तके क्षीरस्वामी
दाश(स)फली = स्त्री दाश(स)प्रियं फलमस्याः ङीप्। औषधिभेदे शब्दार्थचि०।
दाश(स)मेय = पु० देशभेदे स च देशः वृ० स० १४ अ० उत्तरतः कैलास इत्युपक्रमे “यौधेय दाश(स)मेय श्यामाकाःक्षे मधूर्त्ताश्च” उत्तरस्यामुक्तः।
दाशरथ = पु० दशरथस्येदम् अण्। १ श्रीरामे “प्रदीयतां दाशरथाय मैथिलीति” महानाटकम्। दाशरथेः श्रीरामस्येदम् अण्। ३ दाशरथिसम्बन्धिनि त्रि०। “अजीगणद्दाशरथं न वाक्यम्” भट्टिः।
दाशरथि = पु० दशरथस्यापत्यम् अत इञ्। दशरथस्यापत्येषु श्रीरामादिषु चतुर्षु। “जलधिं विलङ्घ्य शशिदाशरथिः” “एष दाशरथिभूयमेत्य च” “स्मरस्यदोदाशरथिर्भवन् भवान्” माघः। “सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम्” रघुः।
दाशराज्ञ = त्रि० दशानां राज्ञामिदं तद्धितार्थद्विगोः अण्। उपधालोपः। दशानां राज्ञां सम्बन्धिनि।
दाशरात्रिक = त्रि० दशरात्रेण निर्वृत्तः ठञ्। दशरात्रसाध्ये १ सत्रभेदे २ दशरात्रस्येदम् ठञ्। दशरात्रसम्बन्धिनि “दाशरात्रिकाण्याहानि द्व्यहादिष्वेकोच्चयेन” कात्या० श्रौ० २३। १। ५ “देवेभ्यो दशरात्रं दिग्भ्यो दाशरात्रिकं पृष्ठ्यम्” शत० ब्रा० १२। १। २। ३
दाशु = त्रि० दाश–दाने उन्। १ दातरि २ दत्ते च “यं युवं दाश्वध्वराय देवाः” ऋ० ६। ६८। ६ “दाश्वध्वराय दत्तहविष्काय” भा०।
दाशुरि = त्रि० दाश हिंसने उरिन्। हिंसके। “स्वयं चित्स मन्यते दाशुरिः” ऋ० ८। ४। १२। “दाशुरिर्दाश्वान्” भा०
दाशेय = पुंस्त्री दाश्या धीवर्य्या अपत्यम् ढक्। धीवर्य्या अपत्ये। स्त्रियां ङीप्। सा च व्यासमातरि सत्यवत्यां शब्दर० “अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवन्” भा० उ० १७३ अ०।
दाशेर = पुंस्त्री दाश्या अपत्यम् क्षुद्रा० ढ्रक्। धीवर्य्या अपत्ये स्त्रियां टाप।
दाशेरक = पु० दाशेरप्रधानः देशः संज्ञायां कन्। १ मालवदेशे २ तदधिपे नृपे पित्रादिक्रमेण ३ तद्देशवासिषु ब० व०। “दाशेरकगणैः सह” भा० भी० ५० अ०।
दाशौदनिक = पु० दश ओदना यत्र यज्ञे तस्य व्याख्यानो ग्रन्थः ठञ्। १ दशौदनयज्ञव्याख्याने ग्रन्थे। दशोदनयज्ञस्य दक्षिणा यज्ञाख्यत्वात् ठञ्। २ तदाख्ययज्ञदक्षिणायां स्त्री ङीप्।
दाश्य = त्रि० दश–क दशस्य दंशकस्यादूरदेशादि सग्काशा० चतुरर्थ्यां ण्य। दंशकादूरदेशादौ।
दाश्व = त्रि० दाश–वन् बा० इडभावः। दातरि जटाघ०। तत्र दाश्वस् इत्येव पाठो न्याय्यः।
दाश्वस् = त्रि० दाश–दाने क्वसु “दाश्वान् साहानित्यादिना” पा० नि० १ दत्तवति। दाश–हिंशने क्वसु। २ हिंसितवति। दाश धातौ (दाशुषे) इत्युदाहरणम्। “पीपरो दाश्वांसम्” ऋ० ४। २। ८ “दाश्वांसं हविर्दत्तवन्तम्” भा० “तस्मै मुनिर्दोरदलिङ्गदर्शी दाश्वान् सुपुत्राशिषमित्युवाच” रधुः। “पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्य दाशुषे” भाग० २। ४। १३
दास = –दाने भ्वा० उभ० सक० सेट्। दासति ते अदासीत् अदासिष्ट। ऋदित् णिच् अददासत् त। हनने च “यो नः कदाचिदपि दासति द्रुहः” ऋ० ७। १०४। ७। दासति हन्ति” भा० “स्वादिगणीयोऽप्येष दाशधातौ दृश्यः।
दास = त्रि० दन्स–दशने “दंसेष्टटनौ नस्य आत्” उणा० १ ज्ञातात्मनि २ शूद्रे ३ धीवरे च पुंस्त्री स्त्रियां ङीष्। दास्यते भृतिरस्मै दासति ददात्यङ्गं स्वामिने उपचाराय वा दास अच् वा। ४ भृत्ये (चाकर)। दास–दाने सम्प्रदाने घञ ५ दानपात्रे सम्प्रदाने ६ शूद्राणां नामान्त प्रयोज्योपाधिभेदे “शर्म्मान्त ब्राह्मणस्य स्यात् वर्म्मान्तं क्षक्षियस्य तु। गुप्तदासान्तकं नाम प्रशस्तं बैश्यशूद्रयोः” उद्वाह० त०। दासशब्दनिरुक्तिभेदादिक वीरमित्रोदये दर्शितं यथा
“शिष्यान्तेवासिभृतकाधिकर्मकरेभ्यो दासानाम्भेद न्दासशब्दव्युत्पत्तिप्रदर्शनमुखेनाह कात्यायनः “स्वतन्त्र स्यात्मनोदानाद्दासत्वं दारवद्भृगुरिति”। “यथा भर्त्तुः सम्भोगार्थं स्वशरीरदानाद्दारत्वम्। तथास्वतन्त्रस्यात्मनः परार्थत्वेन दानाद्दासत्वमिति भृगुराचार्योमन्यत इत्यर्थः। “अनेनात्यन्तपारार्थ्यमासाद्य शुश्रूषका दासाः। पारार्थ्यमात्रमासाद्य शुश्रूषकास्तु कर्मकरा इति भेदोऽप्युक्त इत्यवगन्तव्यम्। अत्यन्तपारार्थ्यं तु तेषाम्भवति यैः स्वपुरुषार्थवृत्तिनिरोधेन परार्थत्वमाश्रितमिति स्मृति चन्द्रिका। दासत्वं ब्राह्मणव्यतिरिक्तेष्वेव “त्रित्यु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचिदिति” तेनैवाभिधानात्। अनेन दासानां जातितो भेद उक्तः। विप्रेतरेष्वपि दास्यमानुलोम्येनैव भवति “वर्णानामानुलोम्येन दास्यन्न प्रतिलोमतः। राजन्यवैश्यश्रूद्राणान्त्यजताञ्च स्वतन्त्रतामिति” तेनैवोक्तत्वात्। स्वतन्त्रतां त्यजताम् अत्यन्तपारार्थ्यम्भजतामित्यर्थः। न प्रतिलोमत इति स्वधर्मपरित्यागिभ्योयतिभ्योऽप्यन्यत्र द्रष्टव्यम्। अतएव नारदः” “वर्णानां प्रातिलोम्येन दासत्वन्न विधीयते। स्वधर्भत्यागिनोऽन्यत्र दारवद्दासता मतेति”। “यथोत्तमवर्णं प्रति हीनवर्णा सवर्णावा भार्या भवति न पुनर्हीनवर्णं प्रत्युत्तमवर्णा तथैव दासोऽपि भवेदित्यर्थः। एतच्च प्रव्रज्यावसितो हीनवर्णस्यापि दासोभवतीत्यभिधानं क्षत्रियवैश्यप्रव्रज्यावसितविषयन्न तु ब्राह्मण प्रव्रज्यावसितविषयम् तस्य निर्वास्यत्वाभिधानेन दासत्वाभावात्। तस्य निर्वास्यत्वं दर्शितं कात्यायनेन” “प्रबज्यावसिता यत्र त्रयो वर्णा द्विजातयः। निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविट् भृगुरिति”। “कारयेद्राजेति शेषः क्षत्रञ्च विट्च क्षत्रविट् सर्वोद्वन्द्वोविभाषैकवद्भवतीति वचना देकवद्भावः। निर्वासनञ्च श्वपदेनाङ्कयित्वा कर्त्तव्यमित्याहतुर्दक्षनारदौ” “पारिव्रज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति। श्वपदेनाङ्कयित्वा तु राजा शीघ्रं प्रवासवेदिति”। न चैवं सति “राज्ञ एव तु दासः स्यात् पव्रज्यावसितो नरः। न तस्य प्रतिमोक्षोऽस्ति न विशुद्धः कथञ्चनेति” नारदेन प्रव्रज्यावसितोराज्ञ एव दासो नान्यस्येत्यभिधानात् स्वधर्मत्यागिनोऽन्यत्रेति यत्तेनैबोक्तं तन्निर्विषयमितीति वाच्यम्। यतोऽवेष्ट्यधिकरणन्यायेन क्षत्रियमात्रवचनेनापि राजशब्देनात्र लक्षणया प्रजापालस्य ग्रहणात् प्रजापालकत्वञ्च राज्याधिकृते वैश्यादावपि सम्भवाद यः क्षत्रियः प्रव्रज्यावसितः स हीनवर्णस्यापि प्रजापालस्य वैश्यस्य दासो भवतीति प्रतिपादनार्थत्वात्। केचित्तु प्रव्रज्यावसितस्य ब्राह्मणस्य दासत्वनिर्बासनयोर्विकल्पमाहुः तन्न पूर्वोक्तप्रकारेण सम्भवन्त्याङ्गतौ अष्टदोषदुष्टविकल्पाङ्गीकरणस्यान्याय्यत्वात् “दास्यं विप्रस्य न क्वचिदिति” निषेधाच्च। दारवद्दासतेति वचनाद्ब्राह्मणस्य सवर्णं प्रति दासत्वं प्राप्तं तन्निषेधार्थमाह कात्यायनः”। “सवर्णोऽपि हि विप्रं तु दासत्वन्नैव कारयेदिति” यदि ब्राह्मणः स्वेच्छया दास्यम्भजते तदाऽसावशुभङ्कर्म न कुर्यादित्याह स एव “शीलाध्ययनम्पन्ने तदूनं कर्मकामतः। तत्रापि नाशुभं कर्म प्रकुर्वीत द्विजोत्तमः” इति। “यस्मात्परोपकारः कर्त्तव्य इति विधिः तत्तस्मादूनं कर्ममध्यमोत्तमव्यतिरिक्तमपि कर्म कामतो वेतनमन्तरेणस्वेच्छया परोपकारार्थं कुर्यावित्यर्थः पूर्वार्द्ध्वस्य। तत्रापि तेष्वपि हीनकर्मसु यदशुभङ्कर्म गृहद्वारशोधनादिक तन्न कुर्यादित्युत्तरार्द्धार्थः। क्षत्रियवैश्यविषये स्वामिनः कर्त्तव्यमाह मनुः” “क्षत्रियञ्चैव वैश्यञ्च ब्राह्मणोवृत्तिकर्षितौ। बिभृयादानृशंस्येन स्वामी कर्माणि कारय न्निति”। आनृशंस्येन अक्रौर्येण। अयमर्थः। वृत्तिकर्षितं क्षत्रियं वैश्यञ्च दासीभूतमक्रौर्येण स्वानि कर्माणि कारयन् स्वामी पोषयेदिति। अत्र स्वामीत्यनेन न सम्बन्धिजनककर्माणि कारयेदित्याह कर्माणीति सामान्याभिधानेन जघन्यकर्माण्येव कारयितव्यानीति नियमो नास्तीति सूचयति। वृत्तिकर्षितावित्यनेन, गत्यन्तराभावे एव क्षत्रियवैश्ययोर्दासत्वाङ्गीकारः कार्यो न तु गत्यन्तरसम्भवे इति दर्शयति। बलाद्दासीकरणे दण्डमाह मनुः” “दास्यन्तु कारय~ल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान्। अनिच्छतः प्रभावत्वाद्राज्ञा दाप्यः शतानि षडिति”। “प्रभोः भावः प्रभावम् तस्मात् प्रभुत्वादित्यर्थः। साधारणादिभ्यः स्वार्थे अञ्वक्तव्य इति वार्त्तिकादञ्। द्विजातिपदान्न दण्डः शूद्रविषय इति दर्शयति। अत एवाह “शूद्रन्तु कारयेद्दास्यं क्रीतमक्रीतमेव वा। दास्यायैव हि सृष्टोऽसौब्राह्मणस्य स्वयम्भुवेति”। स च दासः पञ्चदशप्रकार इत्याह नारदः “गृहजातस्तथा क्रीतो लब्धोदायादुपागतः। अनाकालभृतश्चैव आहितः स्वामिना च यः। मोक्षितो महतश्चर्णात् युद्धप्राप्तः पणे जितः। तवाहमित्युपगतः प्रव्रज्यावसितः कृतः। भक्तदासश्च विज्ञेय- स्थथैव बडवाहृतः। विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः” इति। गृहजातः स्वगृहे दास्याञ्जातः। क्रीतो मूल्येन स्वाम्यन्तरात् प्राप्तः। लब्धः तत एव प्रातग्रहादिना। दायादुपागतः रिकथग्राहित्वेन लब्धः। अनाकालभृतोदुःर्मिक्षे यो भरणाद्दासत्वाय रक्षितः। आहितः स्वामिना ऋणदातर्याधितां नीतः। ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः। युद्धपाप्तः समरे विजित्य गृहीतः। पणे जितः दासत्वपणके द्यूतादौ जितः। तवाहमित्युपगतः तवाहन्दासोऽस्मीति स्वयमेवोपगतः। प्रब्रज्यावसितः प्रव्रज्यातश्च्युतः। कृतः एतावन्तं तव दासोभबामीत्यभ्युपगतः। भक्तदासः सर्वकालम्भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः। भक्षित यावत्ते मूल्यद्वारेण ददामि तावद्दास इत्यभ्युपगत इति स्मृतिचन्द्रिका। बडवाहृतः बडवा गृहदासी तया हृतस्तल्लोभेन तामुद्बाह्य दासत्वेन पविष्टः। यश्चात्मानं विक्रीणीते असावात्सविक्रेतेत्येवं धर्मशास्त्रे दासभेदाः पञ्चदशप्रकाराः स्मृताइत्यर्थः। अत्राद्यानां गृहजातक्रीतलब्धदायागतानाञ्चतुर्णां दासत्वापगमः स्वामिप्रसादादेव नान्यथेत्याह स एव” “तत्र पूर्वश्चतुर्वर्गो दासत्वान्न बिमुच्यते। प्रसादात् स्वामिनोऽन्यत्र दास्य मेषां क्रमागतमिति”। आत्मविक्रेतुरपि दासत्वं स्वामिप्रसादादन्यतो नापैतीत्याह स एव “विक्रीणीते स्वतन्त्रः सन् य आत्मानन्नराधमः। सजघन्यतमस्तेषां सोऽपि दास्यान्न मुच्यत इति” अत्र प्रसादात् स्वामिनोऽन्यत्र इत्यनुषज्यते। ततश्चायमर्थः। आत्मविक्रेतापि गृहजातादिवत् स्वमिप्रसादं विना दास्यान्न विमुच्यत इति एवञ्च गृहदासादयोऽप्यात्मविक्रेतृपञ्चमाः स्वामिप्रसादादकालभृता इव दास्यन्मुच्यन्त इति वचीभङ्ग्यादर्शितमिति मन्तव्यम्। स्वामिप्राणरक्षणादगृहजातादयोऽकालभृताश्च सर्वेऽपिदास्यान् मुच्यन्ते इत्याह स एव “यश्चैषां स्वामिनं कश्चिन्मोचयेत् प्राणसंशयात्। दासत्वात् स विमुच्येत पुत्रभागं लभेत चेति”। एषामिति निर्द्धारणे षष्ठी पञ्चदशानां मध्ये अन्यतमैत्यर्थः। यत्तु “ध्वजाहृतोभक्तदासोगृहजः क्रीतदत्त्रिमौ। पैतृको दण्डदासश्च सप्तैते दासयोनयः इति मनुवचने सप्त विधत्वमुक्तत्तेषां दासत्वप्रतिपादनाय न परिसंख्यार्थम्। ध्वजा गृहदासी। एतच्च स्वामिप्रसादात् प्राणरक्षणात् वा दास्यापगमनं प्रव्रज्यावसितभिन्नदासेषु द्रष्टव्यम्। तस्य दासत्वोन्मोकाभावात्। अतएव याज्ञवल्क्यः “प्रव्रज्यावसितोराज्ञोदास आमरणान्तिकम्” इति। राज्ञोदासः पार्थिवस्यैव दासो नान्यस्येत्यर्थः। अनाकाल भृताटीनां प्रव्रज्यावसितात्मविक्रेतृव्यतिरिक्तानान्नवानान्दास्यापनयनप्रकारमाह नारदः “अनाकाल भृतोदास्यान्मुच्यते गोयुगन्ददत्। आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत्। ऋणं तु सोदयदत्त्वा ऋणी दास्यात् प्रमुच्यते। तवाहमित्युपगतो युद्धपाप्तः रणेजितः। प्रतिशीर्षप्रदानेन मुच्येरंस्तुल्यमर्मणा। कृतकालव्यपगमात् कृतदासो विमुच्यते। भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते। निग्रहाद्बडवायास्तु मुच्यते बडवाभृतः” इति। एतदुक्तं भवति दुर्भिक्षे पोषणेन कारितो दासो गोयुग्मार्पणान्मुच्यते। आहित दासस्तु स्वामिना गृहीते ऋणे प्रत्यर्पिते सति उत्तमर्णदास्याद्विमुच्यते। ऋणदासस्तु स्वकृतमृणं येनोत्तमर्णाय यावद्धनन्दत्त्वापाकृतं तस्मै तावद्धनं सवृद्धिकं दत्त्वा विमुच्यये। तवाहमित्युपगतादयस्त्रयोदासाः स्वनिर्वर्त्त्य स्वीयव्यापारनिर्वर्त्तकदासान्तरप्रदानाद्विमुच्यन्ते। कृतकालस्तु दासो दास्यावधित्वेन परिभाषितकालस्यातिक्रमणाद्विमुच्यते। भक्तदासस्तु भक्तस्योत्क्षेपणाद्भक्षितभक्तमूल्यसमर्पणाद्विमुच्यते। गृहदासीलोभेन दासत्वं प्राप्तस्तत्सम्भोगत्यागाद्विमुच्यत इति। बलात्दासीकृतानान्त्यागमाह याज्ञवल्क्यः “बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते” इति। अपिशब्देन दत्ताहितौ गृह्येते। ततश्चायमर्थः। बलात्कारेण यो दासीकृतः यश्च चौरैरपहृत्य दासत्वेन बिक्रीत आहितोदत्तो वा स यस्य पार्श्वे दासभावेन तिष्ठति तेन प्रागुक्त मोचनहेतुमन्तरेणैव शीघ्रं मोचनीय इत्यर्थः। यदि तेन लोभादिवशादसौ न मुक्तस्तदा राज्ञा मोचयितव्य इत्याह नारदः “चौरापहृतविक्रीता ये च दासीकृता बलात्। राज्ञा मोचयितव्यास्ते दास्यन्तेषु हि नेष्यते” इति। चौरेणापहृताश्च ते विक्रीताश्चेति कर्मधारयः। यस्त्वेकस्य दास्यं पूर्वमङ्गीकृत्यापरस्यापि दासत्वमङ्गीकरोति असावपरेणापि विवर्जनीय इति स एवाह। “तवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति। न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तमिति”। अस्वतन्त्रः परदासत्वेनास्वतन्त्रः कामं नूतनस्वामिदास्यं काम्यमानम् इतरदासीभवन्तं दासं पूर्वस्वामी गृह्णीयादित्यर्थः। एव यदेतद्दासमधिकृत्योक्तन्तत्सर्वं दास्यामपि समानन्यायत्वाद् योजनीयम्। दासीस्वामिनमधिकृत्य विशेषमाह कात्यायनः “स्वां दासीं यस्तु सङ्गच्छेत् प्रसूता च गवेत्ततः। अवेक्ष्य वीजं कार्य्या स्याददासी सान्वया तु सेति”। स्वकृतगर्भाधानमनुसन्धाय सा दासी सन्तान सहिता दासत्वविमोकविधिना स्वकृतगर्भादेर्दासत्वपरिहारार्थं अदासीत्वेन कार्य्या स्यादित्यर्थः। कः पुनर्दासत्वविमोचकोविधिरित्याकाङ्क्षायामाह नारदः “स्वन्दासमिच्छेद् यः कर्तुमदासं प्रीतमानसः। स्कन्धादादाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा। साक्षताभिः सपुष्पाभिर्मूर्द्धन्यद्भिरवाकिरेत्। अदास इति चीक्त्वा त्रिः प्राङ्मुखन्तमथोत्सृजेदिति”। अत्रापि दासशब्देन दास्या अपि ग्रहणम् लिङ्गस्योद्देश्यविशेषणत्वेन ग्रहाधिकरणन्यायेनाविवक्षितत्वात्। एवमुत्सर्गे सति यद्भवति तदाह स एव “ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः। भोज्यान्नोऽप्यप्रतिग्राह्यो भवत्यभिमतः सतामिति”। स्वाम्यनुग्रहेण दास्यापाकरणरूपेण वक्तव्यः सम्भाषणार्हः। अदास्या अपि दासेन परिणिताया दासीत्वमेव भवतीत्याह कात्यायनः “दासेनोढा त्वदासी या सापि दासीत्वमाप्नुयात्। यस्माद्भर्त्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः” इति। दासधनस्यापि तत्स्वामिधनत्वमित्याह स एव “दासस्य तु धनं यत्स्यात् स्वामी तस्य प्रभुः स्मृतः” इति। ब्राह्मण्यादिषु दासीकरणे दण्डमाह कात्यायनः “आदद्याद् ब्रह्माणीं यस्तु विक्रीणीत तथैव च। राज्ञा तदकृतं कार्यं दण्ड्याः स्युः सर्व एव ते। कामात्तु सश्रितां यस्तु कुर्य्याद्दासीं कुलस्त्रियम्। संक्रामयन् तथान्यत्र दण्ड्यास्तच्चाकृतम्भवेत्। बालधात्रीमदासीञ्च दासीमिव भुनक्ति यः। परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसमिति”। तत्कार्यं अकृत निवर्तनीयमित्यर्थः। तेन राज्ञा दण्ड्याः स्युरिन्वयः। विष्णुरपि “यस्तूत्तमवर्णं दास्ये नियोजयति तस्योत्तमसाहसोदण्ड” इति। क्वचिद्दासीविक्रयणे दण्डमाह कात्यायनः “विक्रोशमानां यो भक्तां दासीं विक्रेतुमिच्छति। अनापदिस्थः शक्तः सन् प्राप्नुयात् द्विशतं दममिति”। द्विशतं पणानामिति शेषः। भक्तामित्यनेन दुष्टाया विक्रयणे दण्डाभाव इति दर्शितमिति”। “चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः। दत्ता- द्यास्तनयास्ते स्युरन्यथा दास उच्यते” कालिकापुराणोक्ते निजगोत्रेण संस्कारं विना गृहीते ७ दत्तकादौ च तेषां च दासवद्भरणीयतया तथात्वम् दत्तकशब्दे मूलं दृश्यम्। स्त्रियां ङीप्। दास–उपक्षेपे अच्। ८ उपक्षेपके त्रि०। ९ वृत्रासुरे पु० दासपत्नीशब्दे दृश्यम्। १० दस्यौ च दासवेशशब्दे दृश्यम्। दासस्वापत्यं नडा० फक्। दासायन दासापत्ये पुंस्त्री०। दास + भृशा० अभूततद्भावे क्यङ्। दासायते अदासो दासो भवतीत्यर्थः। अदासं दासं करोत्यर्थे च्विकृञाद्यनु प्रयोगः अदासो दासो भवति दासीभवति अदासं दासं करोति दासीकरोतीत्यादि संज्ञायां कन्। दासक गोत्रप्रवर्त्तकर्षिभेदे तस्य गोत्रापत्यम् अश्वा० फक। दासकायन तद्गोत्रापत्ये पुंस्त्री।
दासपत्नी = स्त्री ब० व०। दासयति दास–उपक्षेपे अच् दासीवृत्तासुरः पतिर्यासाम्। १ अप्सु। “दासपत्नीरहिगोपा अतिष्ठन्” ऋ० १। ३२। ११ “दासी विश्वोपक्षपणहेतुर्वृत्रः पतिः स्वामी यासामपां ता दासपत्नीः। दासपत्नीः दसु उपक्षये दासयतीतिं दासोवृत्रः पचाद्यच्। चित इत्यन्तोदात्तत्वम्। दासः पतिर्यासां “विभाषा सपूर्वस्य” पा० ङीप् तत्संनियोगेनेकरिस्य नकारः बहुब्रीहौ पूर्वपदप्रकृतिस्वरत्वम्” भा०। “अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नीः” भा० आ० ३ अ०। ६ त० दासम्य पत्नीव दासस्त्रियाञ्च सर्ववचनम्।
दासमित्र = न० ६ त०। दासस्य मित्रे ततः अदूरदेशादौ काश्या० ठञ् ञिठौ। दासमित्रिक तददूरदेशादौ त्रि०। स्त्रियां ठञि ङीष् ञिठि टाप्। दासमित्रस्यापत्यम् इञ्। दासमित्रि तदपत्ये पुंस्त्री०। ततः ऐषुका० विषये देशे भक्तल। दासमित्रिभक्त तदीये विषये देशे न०।
दासमीय = त्रि० दशमे देशभेदे भवः, दासं शूद्रं मिमते मानयन्ति मैथुनार्थिन्यस्ताद्रासम्यस्तामु भवोवा छ। १ दशमदेशभवे २ गृहस्थशूद्राभिरतस्त्रीजाते च। “व्रात्यानां दासमीयानां वाही कानामयज्वनाम्” भा० क० ४४ अ०। नीलकण्ठेनोक्तैव व्युत्प्रत्तिर्दर्शिता।
दासवेश = पु० दासस्य दस्योर्विशः। दस्युनाशे “पृक्षये च दासवेशाय चावहः” ऋ० २। १३। ८ “द्रासवेशाय दासानां दस्यूनां वेशाय नाशाय” भा०
दासी = स्त्री दास + गौरा० ङीष् दासस्य पत्नीव, तज्जातिस्त्री वा ङीष। १ परिचारिकायां कर्मकर्य्यां दासशब्दे दृश्यम्। “जातोऽपि दास्यां शूदूएण कामतोऽंशहरो भवेत्। मृते पितरि कुर्य्यस्तं भ्रातरस्त्वर्द्धभागिकम्” याज्ञ्य २ शूद्रकैवर्त्तयोर्भोर्य्यायां ३ तज्जातिस्त्रियाम्। ४ काकजङ्घायां ५ नीलाम्लाने ६ नीलझिण्ठ्याञ्च राजनि०। ७ पीतझिण्ठ्यां रत्नमा०। ८ वेद्यां विश्वः। दास्याः पाद इव पादोऽस्य हस्त्यादित्वान्नान्त्यलोपः। दासीपाद दासतुल्यपादयुक्तेत्रि०। स्त्रियां कुम्भपद्या० ङीष् पादस्य पद्भावश्च। दासीपदीत्येव “पतितस्योदकं कार्यं सपिण्डैर्बान्धवा बहिः। निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ। दासी घटमपा पूर्णं पर्यस्येत् प्रेतवत् पदा” मनुः। अत्र शब्दकल्पद्रुमे दासीघटेत्वेकपदकल्पनं प्रामादिकं तत्र दास्याः कर्त्तृत्वेन घटस्य च कार्यत्वेन भिन्नपदार्थत्वेन पदद्वयम्
दासीभारादि = पु० पूर्वपदे प्रकृतिस्वरनिमित्ते शब्दगणे स च पा० ग० सू० उक्तो यथा “दासीभारः देवहूतिः। देवभीतिः देवलातिः वसुनीतिः ओषधिचन्द्रमाः।
दासीसभ = न० दासीनां सभा संघातः “सभाऽराजमनुष्य पूर्वा” “अशाला च” पा० क्लीवता। दासीसंघाते अमरः दास्या मनुष्यत्वात् संघातार्थकत्वे एव अशालापरत्वे क्लीवता शब्दकल्पद्रुमे विग्रहे दास्याः सभेत्येकवचनोक्तिः प्रामादिषी एकस्याः संघातासम्भवात् शालार्थत्वे च क्लीवत्वाप्रसक्तेः।
दासेर = पुंस्त्री दास्याः अपत्यम् क्षुद्रत्वात् ढ्रक्। द्रास्या अपत्ये १ शूद्रे २ कैवर्त्ते च। स्त्रियां जातित्वात् ङीष्। दास्यां भवे त्रि०। दास–बा० एरच्। ३ उष्ट्रे पुंस्त्री मेदि० स्त्रियां जातित्वात् ङीष्। स्वार्थे क। दासेरक उष्ट्व्रे राजनि०। दासीपुत्रादौ च हारा०।
दास्य = न० दासस्य भावः कर्म वा ष्यञ्। दासस्य १ कर्मणि २ तस्य भावे च। “निवेदनं स्वस्व दास्यं नवधा भक्तिलक्षणम्” ब्रह्मवै० प्रकृ० “पशूनां रक्षणं चैव दास्यं शूद्रे द्विजन्मनाम्” मनुः। दासशब्दे उदा० दृश्यम्।
दास्र = न० दस्रौ देवते अस्य अण्। अश्विनीनक्षत्रे।
दाह = पु० दह–भावे घञ्। १ भस्मीकरणे “दाहशक्तिरिव कृष्णवर्त्मनि” रघुः “दाहादूर्द्ध्वमशौचं स्यात् यस्यवैतानिको विधिः” शु० त० स्मृतिः। “पांशुवर्षे निशां दाहे” मनुः। शवदाहप्रकारः छन्दोगपरिशिष्टे उक्तो यथा
“दुर्बलं स्नापयित्वा तं शुद्धचेलाभिसंवृतम्। दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निवेशयेत्। वृतेनाभ्यक्तमाप्लाव्यं सुवस्त्रमुपवीतिनम्। चन्दनोक्षितसवाङ्ग सुमनोभिर्विभूषयेत्। हिरण्यशकलान्यस्य क्षित्वा छिद्रेषु सप्तसु। मुख्येव्यथ पिधायैन निर्हरेयुः सुतादयः। आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम्। एकोऽनुगच्छेत्तस्यार्द्धमर्द्धं षथ्युत्सृजेद्भवि। अर्द्धमादहनं प्राप्त आसीनोदक्षिणामुखः। सव्यं जान्वाच्य शनकैः सतिलं पिण्डदानवत्”। “अथ पुत्त्रादिराहृत्य कुर्य्याद्दारुचयं महत्। भूप्रदेशे शुचौ देशे पश्चाच्चित्यादि लक्षणम्। तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं सूखे। आज्यपूर्णां स्रुचं दद्याद्दक्षिणाग्रं नसि स्रुवम्”। घृताक्तस्याल्पावने विशेपमाह वराहपुराणम् “दक्षिणाशिरसं कृत्वा सचेलन्तु शवं तथा। तीर्थस्वावाहनं कृत्वा स्नपनं तत्र कारयेत्। गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः। कुरुक्षेत्रञ्च गङ्गाञ्च यमुनाञ्च सरिद्वराम्। कौशिकीं चन्द्रभागाञ्च सर्वपापप्रणाशिनीम्। भद्रावकाशां सरयूं गण्डकीं पनसां तथा। वैणवञ्च वराहञ्च तीर्थं पिण्डारकं तथा। पृठिव्यां यानि तीर्थानि सरितः सागरांस्तथा। ध्यात्वा तु मनसा सर्वे कृतस्नानं गतायुषम्। देवाश्चाग्निमुखाः सर्वे गृहीत्वा तु हुताशनम्। गृहीत्वा पाणिना चैव मन्त्रमेतमुदीरयेत्”। ओम् “कृत्वा तु दुष्कृतं कर्म्म जानता वाप्यजानता। मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम्। धर्माधर्मसमायुक्तं लोभमोहसमावृतम्। दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु। एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम्। ज्वलमानं तथा वह्निं शिरःस्थाने प्रदापयेत्। चातुर्वर्ण्येषु संस्थानमेवं भवति पुत्त्रिके!”। साग्निकदाहप्रकारस्तु नारायण भट्टकृतान्त्येष्टिपद्धतौ दृश्यः। २ कुपितपित्तेजदेहसन्तापभेदे यथाह पित्तकोपकारणमुक्त्वा विदाहिलक्षणे भावप्र “विदाहि द्रव्यमुद्गारमम्लं कुर्य्यात्तथा तृषाम्। हृदि दाहञ्च जनयेत् पाकङ्गच्छति यच्चिरात्”। “असिद्धिमत्सु चैतेषु दाहः परम इष्यते”। “अतिदग्धे दाहपाकरागस्नावाङ्गमर्द्दक्लमपिपासामूर्च्छाः स्युर्मरणं वा। पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापान् जनयति” इति च सुश्रु०
दाहक = त्रि० दहति दह–ण्वुल। १ दाहकर्त्तरि “क्षेत्रवेश्म वनग्रामविवीतखलदाहकः” याज्ञ० स्त्रियां ङीपि अत इत्वम्। दाहिका “शक्तिर्यथाग्नौ खलु दाहिका स्थिता” ब्रह्म० वै० पु०। २ वह्नौ पु० ३ चित्रके वृक्षे च ४ रक्तचित्रकवृक्षे पु० राजनि०। वह्नौ च दाहिका शक्तिरतिरिक्तेति मीमांसकाः। तन्मतं च अनुमानचिन्तामणौ अतिरिक्तशक्तिवाद- निरासे उत्थाप्य दूषितं प्रसङ्गादत्र दिङ्मात्रं दर्श्यते यथा
“स्यादेतत् ईश्वरवत् कार्य्येणैव शक्तिरप्यनुमीयते तथा हि यादृशादेव करानलसंयोगाद्दाहो जायते तादृशादेव सति प्रतिबन्धके न जायते अतो यदभावात् कार्याभावस्तद्वह्न्यादावम्युपेय तेन विना तदभावात् यत्तद्भावानुपपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः। न चादृष्टवैगुण्यं दृष्टसाङ्गुण्ये तदभावात् तस्य तदर्थत्वात् अन्यथा दृढदण्डद्वन्द्वमपि चक्रं न भ्राम्येत। अथादृष्टविलम्बादपि विलम्बो यथा बन्ध्यास्त्रीप्रयोगे, परमाणुकर्मणि, अध्ययनतुल्यत्वे एकत्र फलतारतम्यमिति चेन्न अदृष्टविलम्बे हि न तन्नाशानुत्पादौ मण्यपसारणानुपदं दाहाभावप्रसङ्गात्। किञ्च नियमतो मणिसद्भावे कार्याभावस्तदभावे कार्य्यमिति दृष्टत्वात् मण्याद्यभाव एव कारणम् अन्यथा कदाचित् मण्याद्यभावेऽपि तदभावान्न कार्यं स्यात् बन्ध्या संप्रयोगे तु दृष्टव्यभिचाराददृष्टविलम्बादेव विलम्बः। अदृष्टञ्च क्वचित् साक्षाज्जनकम् अन्यथा परम्परया हेतु रपि न स्यात्। न च समप्रज्ञयोः समञ्च निरपवादमभ्यस्यतोरेकप्रगल्भते नापर इति दृश्यते। न च सर्वोत्पत्तिमतामदृष्टं निमित्तं कारणम् अगम्यागमनसाध्ये सुखे तदभावात् तद्विनाऽधर्मात् सुखं स्यात् न धर्मात्। एतेन सुगम्यागमनादुत्पाद्यं सुखमप्युक्तं तथा चागम्यागमनकारणत्वेन न स धर्मः श्येनापूर्ववन्निषिद्धफलकत्वेनानर्थत्वात्। दाहप्रतिकूलादृष्टादेव तदभाव इति चेन्न तस्योत्तेजकाभावसहितमण्यजन्यत्व तत्र दाहार्थिनोऽप्रवृत्तिप्रसङ्गात् तज्जन्यत्वे ततस्तदुत्पादकादेव दाहाभाव इति नियमस्यादृष्टेन प्रथमोपस्थितीपजीव्यत्वाच्च। पतिबन्धकाभावहेतुत्वस्य तेनाभ्युपगमात् अदृष्टात् शौचाचमनादेश्च साधारणस्यात्राप्यन्वयः स्यात्। अशुचेरेव तदुत्पत्तौ, शौच सति तदभावापत्तेः प्रतिपक्षसन्निधापकस्य तत्त्वे, अदृष्टे सति मण्यप्रयोगेऽपि दाहानापत्तिः अग्रिमकाल एव सन्निधिदर्शनेन तदसिद्ध्यभावात्। अस्तु तर्ह्युत्तेजकाभावसहकृतप्रतिबन्धकाभावस्यान्वयव्यतिरेकाभ्यां हेतुत्वम् एवं च केवलोत्तेजकसद्भावे उभयसत्त्ये उभयाभावे च विशिष्टाभावोऽनुमितोहेतुः प्रतिबन्धकत्वञ्च कारणीभूताभावप्रतियोगित्वं तच्च मण्याद्यभावत्वेन, न तु पतिबन्धकाभावत्वेनेति नान्योन्याश्रयः। एवं प्रतिबन्धकत्वाभिमतमण्यादीनामभावकूट् एव कारणं तेन सणिसद्भावे मण्याद्यभावेऽपि न कार्यम्। अनतिरि- क्ताभाववादिमते च व्यवहारार्थं तत्स्थानाभिषिक्तस्य हेतुत्वम्। न चाभावी न कारणं, भाववद्ग्राहकतौल्यात्। दृष्टञ्च कुड्यसंयोगाभावस्य गतौ, अनुपलम्भस्याभावविज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रामाण्ये जनकत्वमिति प्राञ्चः। मैवं विशिष्टं हि नार्थान्तरं येन तदभावोऽनुगतः स्यात् किन्तु विशेषणविशेष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य हेतुत्वे क्वचित् विशेषणस्याभावः क्वचित् मण्यभावः क्वचिदुभयं कारणमिति व्यभिचारान्नैकमपि हेतुः स्यात्। स्यादेतत् प्रतियोगिभेदादिव प्रतियोगितावच्छेदकविशेषणभेदेऽप्यभावो भिद्यते अन्यथा पृथिव्यां प्रत्येकरूपाभावेऽवगतेऽपि वायौ रूपसंशयो न स्यात्। एवञ्च यथा केवलदण्डसद्भावे, दण्डपुरुषसद्भावे, द्वयाभावे च विशेषणविशेष्योभयाभावप्रयुक्तः केवलपुरुषाभावोऽबाधितानुगतव्यवहारबलात् प्रतीतिसिद्धः तथा विशेष्यस्य प्रतिबन्धकस्याभावे विशेषणस्योत्तेजकाभावस्याभावे द्वयाभावे च केवलप्रतिबन्धकाभावो विशेष्यविशेषणोभयाभावव्यापकोऽनुगत एव दाहकारणमस्तु। अथ विशेषणाद्यभावादेव केवलपुरुषाभावव्यवहार एकशक्तिमत्त्वादिति चेन्न अनुगतव्यवहारस्यानुगतज्ञानसाध्यत्वात् शक्तेश्चातीन्द्रियत्वात्। अथोत्तेजकप्रयोगकाले मणेः कोऽभावः? न तावत् प्राग्ध्वंसाभावतु तयोः प्रतियोगिसमानकालत्वात् न च श्यामोऽयमासीदित्यत्र यथा श्यामध्वंसप्रयुक्तश्यामघटत्वेन पक्वघटस्य ध्वंसएव, तथोत्तेजकाभावध्वंसप्रयुक्त उत्तेजकाभावत्वेन मणिध्वंस एवेति वाच्यं ध्वंसस्यानन्तत्वे उत्तेजकापनयेऽपि दाहप्रसङ्गाभावात्। नाप्यत्यन्ताभावः, तस्य कादाचित्कत्वाभावादिति चेत् यथा दण्डोपनयापनयदशायां केवलपुरुषाभाव उत्पादविनाशवान् अबाधितकेवलपुरुषाभावतदभावव्यवहारयोरुपपादयितुमन्यथाऽशक्यत्वात् तथोत्तेजकोपनयापनयशृङ्खलायां प्रतिबन्धकाभावोऽपि तथैव स्वीकरणीयः तुल्य न्यायत्वात्। यदि च संसर्गाभावत्रयवैधर्म्यात्तत्र नान्तर्भवति तदा तुरीय एव संसर्गाभावोऽस्तु न हि कॢप्तविशेषबाधे सामान्यबाधो, विशेषान्तरमादायापि तस्य सम्भवात् अन्यथा कॢप्तानादिसंसर्गाभाववैधर्म्येण ध्वंसीऽपि न सिद्ध्येत् व्यवहारानुपपत्तिश्च तुल्यैब सीऽयमस्माकं सगोत्रकलहो न तु शक्तिवादः। अस्तु वा ध्वंसएवासौ संसर्गाभावविभागे जन्याभावत्वेन ध्वंसस्य विभजनात् न चैवं विनाशवत्त्वेन प्रागभाव एव सः परिभाषाया अपर्यनुयोज्यत्वात्। यद्वाऽत्यन्ताभाव पवासौ तस्य नित्यत्वेऽपि कादाचित्कप्रतीतिकार्य्यानुदयौ प्रत्यासत्तिकादाचित्कत्वात् प्रत्यासत्तिश्च विशेषणा भावो विशेष्याभाव उभयाभावश्च तथैव विशिष्टात्यन्ताभावसत्त्वादिति तन्न यदि प्रतीतविशेषणावच्छेदेन विद्यमानस्यैव विशेषस्य ध्वंसः स्यात् तदा क्षणरूपातीतविशेषणावच्छिन्नत्वेनं प्रतिक्षणं घटस्य विनाशः स्यात् इति क्षणभङ्गापत्तिः विद्यमानस्य विनष्टत्वे चाप्रतीतेः शिखा विनष्टा पुरुषो न विनष्ट इति विपरीताबाधित प्रत्ययाच्च न विशेषणाभावेऽपि विशेष्यध्वंसः श्यामोऽयमासीत् पुरुष इत्यादौ सविशेषणे इति न्यायेन विशेष्यवति श्यामकैवल्यध्वंस एव प्रतीयते ध्वंसस्य ध्वसानुपपत्तेः न विद्यमानस्य ध्वंसः। एतेनोत्तेजकसद्भावे सत्युत्तेजकाभावविशिष्टमणेरुत्पन्नध्वंसस्य उत्तेजकापनयसमये ध्वंसो जातोऽध्वस्तश्च सः कारणमिति न विफल उत्तेजकापनय इत्यपास्तं, विद्यमानध्वंसस्य ध्व साभावात्। न च ध्वंसान्यः संसर्गाभावो विशिष्टाभाव इति वाच्यम् उत्पन्नाभावस्य विशिष्टप्रत्ययहेतुतया ततोऽपि विद्यमानस्य विनष्टत्वप्रत्ययापत्तेः। नापि विशिष्टाभावोऽत्यन्ताभावः। तथा हि स एव क्वचित्विशेषणाभावसहितः क्वचिद्विशेष्याभावसहितो दाहकारणमिति अननुगमस्तदवस्थ एव विशेषणविशेष्याभावयोः प्रत्यासत्तिव्यवच्छेदकानुगतधर्माभावात्। अथ विशिष्टविरोधित्व विशेषणविशेष्याभावयोरनुगतं तदवच्छेदकमस्ति तयोश्च सत्त्व एव विशिष्टात्यन्तामावसत्त्वादिति चेत्तर्हि विशिष्टविरोधित्वेनानुगतेन तयोरेव विशिष्टाभावत्येन दाहव्यवहारादौ जनकत्वमस्तु कृतं तदुपजीविनातिरिक्तविशिष्टाभावेन। अथोत्तेजककाले विद्यमानात्यन्ताभावानुवृत्तावप्युत्तेजकापनये उत्तेजकाभावव्यक्तिर्या जाता तदवच्छिन्नमणेरभावो न तत्रेति तदा न कार्योदयः तत्तदुत्तेजकाभावविशिष्टमणेरभावकूटस्य जनकत्वादिति चेन्न तत्तदुत्तेजकाभावानामननुगतत्वेनानुगतविशिष्टाभावव्यवहारानुपपत्तेः उत्तेजकाभावत्वेनानुगमेऽतिप्रसङ्गः। अथ विशेष्यविशेषणाभावयोर्विशिष्टविरोधित्वमनुगतं कारणतावच्छेदकं यत्र तदन्यतराभावस्तत्र न विशिष्टं यत्र विशिष्टं तत्र न तयोरभाव इति सहानवस्थाननियमस्य विरोधस्यानुभवसिद्ध- त्वादिति चेन्न सहानवस्थाननियमो न परस्परविरहरूपतया विशेषणविशेष्याभावस्य प्रत्येकं विशिष्टाभावतया तत्प्रत्येकाभावाभावस्य विशिष्टत्वापत्तेः तथा च विशेष्यविशेषणयोः प्रत्येकं विशिष्टत्वापत्तेः तदभावस्य तत्त्वात् न चोभयाभाव उभयविशिष्ट एवं ह्यभावद्वयं विशिष्टाभावो न तु प्रत्येकभावरूप इति प्रत्येकाभावाद्विशिष्टव्यवहारो न स्यात्। नापि परस्परविरहव्यायत्वं तदाक्षेपकत्वं वा विशेषणविशेष्याभावस्य विशिष्टाभावत्वेन तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अमेदे तयीरभावात्। एतेनान्यदपि विशिष्टव्यवहारविरोधित्वादिनानुगतत्वमपास्तं केनाप्यनुगतेन विशेषणविशेष्याभावस्य विशिष्टाभावत्वे प्रत्येकाभावस्य विशिष्टाभावत्वेन तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अभेदे तयोरभावात्। विशेषणविशेष्यान्यतरमात्रस्य विशिष्टत्वापत्तेः तदभावाभावस्य तत्त्वादित्युक्तत्वात् तस्माद्विशेयणविशेष्याभावो विशेषणावच्छिन्नविशेष्याभावो न विशिष्टाभाव इति।
“अत्रोच्यते विशेषणविशेष्ययोः सम्बन्धाद्विशिष्टव्यवहार इति तयोः सम्बन्धाभावाद्विशिष्टाभावव्यवहार इति घटतदभावव्यवहाराविव घटसत्त्वासत्त्वाभ्याम्। न हि तयोरसम्बन्धे विशिष्टव्यवहारः। न च तदभावे सति न विशिष्टाभावव्यवहारः। यस्य च यत्र सम्बन्धः स एव तत्र तस्य वैशिष्ट्यम् स च सम्बन्धाभावोविशेषणाभावाद्विशेष्याभावादुभयाभावात् सर्वत्राविशिष्ट एकस्तेषां व्यापकोऽनुगतविशिष्टाभावव्यवहारकारणम् इह दण्डी पुरुषो नास्तीत्यत्र तथा दर्शनात्। अतएव दण्डमात्रसद्भावे दण्डपुरुषसद्भावे च कैबल्यपुरुषयोः सम्बन्धाभावः अर्वत्रास्तीत्यनुगतः केवलपुरुषतो व्यवहारः। एवञ्च प्रतिबन्धकोत्तेजकाभावयोः सम्बन्धाभावो दाहकारणं स च प्रतिबन्धकाभावे प्रतिबन्धकोत्तेजकसद्भावे उभयाभावे चास्ति सर्वत्र प्रतिबन्धकोत्तेजकाभावयोः सम्बन्धो नास्तीति प्रतितेः। नन्वेवं यत्र प्रतिबन्धकोत्तेजकाभावौ तत्रापि दाहः स्यात् अधिकरणाभावयोरतिरिक्तसम्बन्धाभावादिति चेन्न तदभावेऽपि स्वरूपसम्बन्धास्याभावात् सर्वत्र स्वरूपसम्बन्धादेवाधिकरणाभावयोर्वौशष्ट्यप्रतीतेः तथापि प्रतिबन्धकोत्तेजकाभावावेव स्वरूपसम्बन्धः तयोरभावश्च प्रतिबन्धकाभाव उत्तेजकञ्च दाहकारणं तथाचोभयाभावे उत्तेजकसत्त्वे पर दाहः स्यात् उत्तेजकवति च प्रतिबन्धके दाहो न स्यादिति चेन्न अधिकरणाभावावेव खरूपसम्बन्धस्तयोर्घटबद्भूतलचत्वरीयतदभावयोर्विशिष्टप्रत्ययजननयोग्यत्वमस्ति घटवति कदापि घटाभावप्रत्ययानुदयात् तदिहापि प्रतिबन्धकोत्तेजकाभावयोर्विशिष्टप्रत्ययजननयोग्यत्वं स्वरूपसम्बन्धः, अन्यथोत्तेजकवति प्रतिबन्धके चत्वरीयोत्तेजकाभावविशिष्टप्रत्ययापत्तेः। तादृशस्वरूपसम्बन्धाभावश्च प्रतिबन्धकाभावे प्रतिबन्धकीत्तेजकसद्भावे उभयाभावे चाविशिष्ट एव। यद्वा अदण्डपुरुषस्याभावे दण्डी पुरुषो न प्रतियोगी तस्य दण्डित्वाभावात् किन्तु तदन्यः, तस्य चाभावे दण्डिसद्भावेऽपि दण्डमात्रसत्त्वे उभयासत्त्वे चाविशिष्ट इति। तस्मात् केवलपुरुषाभावव्यवहारोऽनुगतः तदुक्तं न हि दण्डिनि सति अदण्डानामन्येषां नाभावः किन्तु दण्डाभावस्यैवेति युक्तम् अन्यथा तत्रान्येषामिति पदस्य व्यर्थत्वापत्तेः। तथा केवलप्रतिबन्धकाभावे उत्तेजकसहकृतः प्रतिबन्धको न तु प्रतियोगी तस्य केवलत्वाभावात् किन्तु तदन्यः, तदन्यस्य च प्रतिबन्धकस्याभावे उत्तेजकसहितप्रतिबन्धकसत्त्वे उत्तेजकमात्रसत्त्वे उभयासत्त्वे विशिष्ट इति नाननुगमः उत्तेजकापनये केवलप्रतिबन्धकोऽस्तीति न तदभाव इति दाहो न भवति ! ननु न प्रतिबन्धकाभावः कारणम् एकदण्डान्वये घटोत्पत्तिवत् प्रतिप्रतिबन्धकसत्त्वेऽपि तदन्यप्रतिबन्धकाभावेऽपि कार्य्यानुदयात् न हि यावत्कारणतावच्छेदकावच्छिन्नं तावदन्वयेऽपि कार्य्यमिति चेन्न प्रतिबन्धकाभावत्वेत न हेतुत्वं अन्योन्याश्रयात् किन्तु तत्तन्मण्याद्यभावत्वेनेत्युक्तत्वात् तत्त्वेऽपि वा घटे दण्डसलिलादिकप्रतिबन्धकाभावकूटहेतुत्वात्। यद्वा प्रतिबन्धकतावच्छिन्नप्रतियोगिक एक एवाभावः कारणं स च यावद्विशेषाभावनियत इति न प्रतिबन्धकसत्त्वेऽपरप्रतिबन्धकाभावेऽपि कार्य्योदयः प्रतिबन्धकस्य च संसर्गाभावो हेतुः तेन तत्सत्त्वे तदन्योन्याभावेऽपि न कार्य्यम् अन्वयव्यतिरेकाभ्यां व्याप्तकारणत्वयोर्ग्रहे संसर्गाभावस्य त्वयाऽपि हेतुत्वाङ्गीकारात् अन्यथा सामग्रीव्यापकयोः सत्त्वे तदन्योन्याभावे च कार्य्यव्याप्याभावापत्तौ कार्य्यकारणयोर्व्याप्यव्यापकभावाभावे व्याघातात्। किञ्च तवापि प्रतिवन्धकाभावे शक्तिरस्तीति तत्सत्त्वे तदन्योभावमादाय शक्तिसत्त्वप्रसङ्गः। न च स दुर्वचः न वा प्रागभावत्वादिनाननुगमव्यभिचारौ। प्रतियोग्यधिकरणयोः संसर्गमारोप्य यो निषेधः स संसर्गाभावः भूतलं घटसंसर्गो नोयत्र भूतले घटसंसर्गस्य संसर्गो नारोप्यते किन्तु तादात्म्यम्। वयन्तु ब्रूमः यत्र प्रतियोगिनमधिकरणे समारोप्य निषेधागमः स संसर्गाभावः यत्र चाधिकरणे प्रतियोगितावच्छेदकमारोप्य निषेधावगमः सोऽन्योन्याभावः भूतलं न घट इत्यत्र भूतलस्य घटत्वावगमात् घटत्वमेव च घटतादात्म्यम्। आरोपस्य हेतुत्वे किं मानमिति चेत् मा भूत्तावदन्यथा, इदमिह, नेदमित्यबाधितविलक्षणव्यवहारस्यैव तत्र मानत्वादिति। ननु प्रतिबन्धकात्यन्ताभावो न हेतुः तस्मिन् सत्यपि संसर्गाभावात् न हि करादौ मण्यत्यन्ताभावः तत्संयोगात्यन्ताभावो वा मणेः स्वावयववृत्तित्वात् संयोगस्य चाव्याप्यवृत्तित्वात् अतएव न तत्प्रध्वंसप्रागभावौ हेतू तयोः करादाववृत्तेः गुणकर्मादेश्च प्रतिबन्धकत्वानापत्तेश्च तस्य जन्यधर्मानाश्रयत्वेन तत्र तयोरभावात् न चान्यः संसर्गाभावोऽस्तीति चेन्न संसर्गावच्छिन्नप्रतियोगिकस्याभावविशेषस्य प्रतिबन्धकेऽन्तर्भावात् न च समयावच्छेदेन संसर्गितया अत्यन्ताभाव एव तथैवान्वयव्यतिरेकावधारणात्। अथैवं प्रागभावप्रध्वंसस्थले समयविशेषावच्छिन्नात्यन्ताभावेनैवोपपत्तौ न तयोः सिद्धिः अत्यन्ताभावोह्यव्याप्यवृत्तिः तस्य चैकत्र भावाभावे क्वचिद्देशोऽवच्छेदकः क्वचित्काल इति चेन्न तत्र विद्यमानताविरोधित्वेनैव कपाले न घट इति प्रतीतिवैलक्षण्यात् नत्वेवं भूतले घटाभावप्रतीतिः। अन्ये तु भविष्यति घटो घटो नष्ट इति विलक्षणप्रतीत्या अत्यन्ताभावेनैकेन समयितुमशक्यत्वात् अन्य एवायं संसर्गाभाव इत्यप्याहुः। एतेन विशेषणाभावविशेष्यभावतदुभयाभाववटितसामग्रीत्रयमेवास्तु हेतुः दाहे च जातित्रयकल्पनमिति प्रत्युक्तं अनुगतहेतुसत्त्वात् ढ्यहवैजात्यम्य याग्यानुपलब्धिबाधितत्वात् व्यक्तियोग्यतैव जातियाग्यत्वे मानं योग्येऽयोग्यजात्यभावात्। ननु प्रहरमा दहेत्यादौ सावधिमन्त्रपाठे मन्त्रविनाशे दाहः स्यात् न च सकल्पविषयकालविशेष एव तत्र प्रतिबन्धकः संकल्पनाशसमयस्य स्वतोऽविशेषात्। न च मन्त्रपाठजनितमदृष्टमेव तत्र प्रतिबन्धक तत्कालदाहाप्राप्तिकफल नाश्यत्बेनाग्रे दाहाप्रतिबन्धादिति वाच्यं प्रतिबन्धकस्याविहितत्वेनानिषिद्धत्वेनादृष्टाजनकत्वात्। तदाचारस्याविगोतत्वेन श्रुत्याद्यनुभावकत्वादिति चेत् मैवम् उद्देश्यज्ञानाहितसंस्कारविषयकालस्य प्रतिवन्धकत्वात् प्रतिबन्धमकुवतामप्रतिबन्धकत्वात् न शक्तिमनपकुर्वतां मन्त्रा- दीनां प्रतिबन्धकत्वमतः शक्तिसिद्धिः। न च कार्यानुत्पाद एव प्रतिबन्धः तज्जनकमेव प्रतिबन्धकमिति वाच्यं कार्यानुत्पादो हि तत्र न प्रागभावो न वा तदुत्तरकाल संसर्गः तस्य मन्त्राद्यजन्यत्वात् इति चेन्न मन्त्रदीक्षाप्रतिवन्धकत्वात् तत्प्रयोक्तारस्तु प्रतिबन्धकाः ते च किञ्चित्करा एव मन्त्रादौ कार्यकारणोपचारात् स्वार्थिकफलप्रत्ययात् वा तथा व्यपदेशः। प्रतिबन्धकश्च सामग्रीविरहः मन्त्राद्यभाबघटितसामग्रीविरहः स च मन्त्रादिरेव तदभावाभावस्य तत्त्वात्। नव्यास्तु प्रतिबन्धकाभावो न कारणं न वा शक्तिः, किन्तु तत्तत्कालीनदाहविशेपं प्रति तत्तत्कालप्रतिवन्धीत्तरवह्नेः कारणत्वमिति प्रतिबन्धकाभावः कारणतावच्छेदको न तु कारणं दण्डत्ववत् आकाशाद्येकव्यक्तिके न यथा कारणत्वं क्वचित् प्रतिबन्धेऽप्यन्यत्र शब्दोत्पत्तेः किन्तु भेर्य्यादेस्तथा कारणत्वमिति तत्प्रतिबन्धे शब्दोत्पत्तिर्नेत्याहुः। तन्न वह्निप्रतिबन्धकाभावयोरन्वयव्यतिरेकतौल्येनोभयस्यापि कारणत्वात् नत्वेकमवच्छेदककं विनिगमकाभावात्। किञ्च यस्मिन् सत्यपि यदभावात् कार्य्याभावस्तस्य कारणत्वमायाति न तु तदवच्छेदकत्वं न हि कार्प्येऽयोगव्यवच्छेदः कारणत्वं किन्तु नियतपूर्वसत्त्वं तच्च सहकारिविरहप्रयुक्तकार्य्याभावेऽप्यक्षतम्। अन्यथा चक्रसहितदण्डत्वेन कारणत्वे सहकार्य्युच्छेदः। यस्य यद्धर्म्ममवगत्यैव नियतपूर्ववर्त्तित्वमवगम्यते तदवच्छेदकं दण्डत्वमिव। सहकारी तु न तथा। ननु मा भूत् अर्थापत्तिः शक्तौ मानमनुमानन्तु स्यात्। तथाहि स्थिरोऽवयवी जनकदशाविशिष्टबह्निरजनकदशाव्यावृत्तभावभूतधर्मवान् जनकत्वात् कुण्ठकुठारात्तीक्ष्णकुठारवत् दाह्यासंयुक्तवह्नेर्दाह्यसंयुक्तवह्नित्वादेः प्रतिबन्धकसत्त्वं संयोगादेरजनकदशाव्यावृत्तत्वेन तदतिरिक्तातीन्द्रियभावभूतधर्मसिद्धिः। यद्यपि शक्तेर्भावहेतुत्पेन नाजनकदशाव्यावृत्तत्वं तथाप्युक्तविशिष्टाया मुख्यत्वम् यद्वा धर्मेऽतीन्द्रियत्वं विशेषणं न च दृष्टान्तासिद्धिः तुल्यधारत्वेऽपि लौहविशेषघटितकुठारे विलक्षणच्छिदाक्रियारूपकार्य्यबद्यादतीन्द्रियत्वसिद्धे०। अथ वा तथाभूत एव वह्निः कार्य्यानुकूलविशिष्टातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत्। अतीन्द्रियत्वञ्च यद्यपि न साक्षात्काराविषयत्वं अनित्यसाक्षात्काराविषयत्वं योगजधर्मजन्यसाक्षात्कारविषयत्वं वा परं स्वं वा प्रत्यसिद्धेः सयोगादिपञ्चकजन्यज्ञाना- विषयत्वमैन्द्रियकाणामपि। तथापि संयोगाद्यन्यतरप्रत्यासत्तिजन्यसाक्षात्काराविषयत्वमुभयवादिसिद्धम् अन्यतरच्च तदन्यान्यत्वं न चाभावातीन्द्रियत्वं तस्यासिद्धेः। न च वह्नौ स्थितिस्थापकेनार्थान्तरं तत्र तदभावात् क्रियाया वेगेनादृष्टवदात्मसंयोगे वा उत्पत्तेः, नचात्मत्वं नित्यत्वं वोपाधिः स्पर्शैकत्वादिमति द्व्यणुके साध्याव्यापकत्वात् यद्वा पिण्डीभूतोवह्निः दाहानुकूलातीन्द्रियभावभूतधर्मवान् दाहजनकत्वात् आत्मवत्। नचार्थत्वमुपाधिः अदृष्टस्य दाहानुकूलत्वेनादृष्टसाध्याव्यापकत्वात्। अथ वा करवह्निसंयोगः कार्य्यानुकूलातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत् द्व्यणुकवच्च। न चात्मत्वं द्रव्यत्वं वीपाधिः द्व्यणुकैकत्वस्पर्शादौ साध्याव्यांपकत्वात्। यद्वा प्रतिबन्धकदशायां प्रत्यक्षसकलदाहहेतुसमवहितोदाहाजनकोवह्निर्जनकदशावृत्तिकार्यानुकूलभावभूतधर्मशून्यः अजनकत्वात् तीक्ष्णात् कुण्ठवत् यद्वा तथाभूतोवह्निः दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्म्मशून्यः दाहाजनकत्वात् दाह्यासंयुक्तवह्निवत् अनुकूलत्वञ्च कार्य्याभावव्याप्याभावप्रतियोगित्व कारणतदवच्छेदकसाधारणं दृडदण्डत्वेन कारणत्वदृढत्वाभावादपि कार्य्याभावदर्शनादिति। उच्यते। साध्यं विनाप्युभयसिद्धप्रतिबन्धकाभावादेव जनकत्वादिहेतुसम्भवात् विपक्षबाधकाभावेनानुमानानामप्रयोजकत्वं यदि च सहचारदर्शनव्यभिचारादर्शनोपाध्यनुपलम्भमात्रादेव व्याप्तिग्रहस्तदा शक्तिसिद्ध्यनन्तरं तेनैव हेतुना शक्त्यतिरिक्तत्वाक्षेपेण शक्त्यतिरिक्तदाहानुकूलातीन्द्रियधर्म्ममिद्धिः एवं तत्तदतिरिक्तत्वस्य प्रक्षेपात्तेनैव हेतुनाऽनन्ततादृशधर्म्मसिद्धिप्रसङ्गः। द्वितीयादितादृशधर्म्मं विनापि प्रथमानुमितशक्त्यैव जनकत्वाद्युपपत्तेः न तादृशानन्तसिद्धिरिति चेत् हन्तैवं शक्तिं विनापि तदर्थसिद्धेः किं शक्त्या। यत्त्वीश्वरानन्त्यवन्न शक्त्यानन्त्यमित्युक्तं तदबोधात् कार्य्यमात्रे हि कर्तृत्वेन कारणत्वं नत्वीश्वरत्वेन द्विकर्तृकत्वादिना वा गौरवात् घटे त्वार्थः समाजः। एवञ्च जनकदशाव्यावृत्तत्वेनैव प्रयोजकत्वं न तु भावभूतत्वेनेति गौरवात्। अपि च भावकार्य्यमात्रस्य समवायिकारणजन्यत्वेन शक्तेरपि तथात्वात् शक्त्यनुकूला शक्तिरपरा समवायिकारणे मन्तव्या एवं सापि समवायिक्वारणजन्येऽपि तदनुकूलशक्तिस्वीकारे शक्त्यनवस्था। किञ्च प्रथमानुमाने जनकत्व न स्वरूप- योग्यत्वं वह्नौ कुठारे च तदभावात् किन्तु कार्य्यानुपधानं तथा च तदुपधानदशायामपि वह्नौ शक्तिः कुठारे तैक्ष्ण्यमिति बाधोदृष्टान्तासिद्धिश्च। लौहविशेषाणामेव सातिशयच्छिदाजनकत्वमतोनातीन्द्रियतैक्ष्ण्यसिद्धिः। अग्निमचतुर्षु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वेन दूषकत्वात्। अपिच जनकत्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्ध्या नान्वयव्यतिरेकी न च जनकत्वाभावस्य शक्तावेव प्रसिद्धिः अन्योन्याश्रयात् न च गुरुवचनपरम्परातएव वाक्यार्थतया तत्मिद्धिः अन्वये सिद्धार्थस्याप्रमाणत्वात्। न च परार्द्धसंख्यायां साध्यजनकत्वव्यतिरेकयोः प्रसिद्धिः अप्रत्यक्षायाः शब्दैकवेद्यायास्तस्याः प्रत्यक्षेण साध्यहेतुव्यतिरेकयोर्ग्रहीतुमशक्यत्वात्। एतेन पण्डापूर्बेऽपि तत्प्रसिद्धिरपास्ता। स्यादेतत् तृणारणिमणीनां वह्नौ कारणत्वादेकशक्तिमत्त्वमुखेयमेकता एकजातीयकार्य्ये एकजातीयकरणत्वनिप्यभात्। वह्न्यवान्तरजातीये तेषां प्रत्येकं कारणत्वमिति चेन्न वह्निजातीयत्वस्याकस्मिकतापत्तेः कारणगतैकरूपमपहाय कार्य्यगतबहुतररूपकल्पने गौरवात् तृणारणिमणिप्रभववह्नित्वावान्तरजातेरनुपलब्धिबाधितत्वाच्च। यत्र च तत्तदिन्धनप्रयोज्यं प्रदीपदारुदहनादौ वैजात्यमनुभूयते तत्र कारणे त्वेकशक्तिसत्त्वमपि नास्ति, किञ्च गोमयवृश्चिकप्रभववृश्चिकादिषु वैजात्यकल्पने तत्प्रभववृश्चिकेऽपि वैजात्यं कल्प्यम् एवं तत्प्रभवत्वं तत्प्रभवेष्वपीति वैजात्यानन्त्यं विजातीयकारणानां विजातीयकार्य्यजनकत्वनियमात्। न च तयोर्नैको वृश्चिको बुद्धिव्यपदेशयोरविशेषात्। यदि विजातीयेष्वेककार्य्या शक्तिः समवेयात् न कार्य्यविशेषात् कारणविशेषः तदभावात्तदभावः क्वाप्यनुमीयेत तदभावेऽपि तज्जातिशक्तिमतोऽन्यस्मादपि तत्त्वापत्तिसम्भवादिति चेत् वह्निवृश्चिकादावेवमेतन्निरूपितनियतवह्न्यादिकारणत्वे धूमादौ कुतो न तदनुमानम् अन्यथा कार्य्यवैजात्येऽपि तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं न तु धूममात्रे तृणादिप्रभवत्वग्रहानन्तरं वह्न्यवान्तरजातिग्रहवत् वह्नि–तदन्यजन्यत्वज्ञानानन्तरं धूमावान्तरजातिग्रहो भविष्यतीत्यप्याशङ्क्येत। बाधकं विना धूमत्वेन वह्निकार्य्यतेति चेत्तर्हि बाधकं विना धूमं प्रति वह्नित्वेन कारणतेत्यपि तुल्यम्। यत्तु तृणत्वेन कारणत्वग्रहस्योपजीव्यत्वात्तद्रक्षार्थं वह्नौ जातिविशेष एव कल्प्यते इति तन्न वह्नित्वेन कार्य्यत्वग्रहात्तद्रक्षार्थं तृणादौ शक्तिकल्पनौचित्यात्। यथा चान्वयव्यतिरेकाभ्यां तृणफुत्कारयोः परस्परसहकारित्वं तथैव तच्छक्त्योरपि परस्परसहकारित्वेन वह्न्यनुकूलत्वं तथैव कार्य्यदर्शनात एवं तृणारणिमणिफुत्कारनिर्मन्थनतरणिकिरणाना वह्न्यनुकूलशक्तिमत्त्वेन कारणत्वेऽपि फुत्कारेण तृणादेव, निर्मन्यनेनारणेरेव प्रतिफलिततरणिकिरणैर्मणेरेवाग्न्युत्पत्तिः न तु मणिफुत्कारादिभ्यो, मणिफुत्कारशक्त्योः परस्परसहकारित्वविरहात्। यत्तु तृणफुत्कारादिस्तोमत्रये विशिष्टे शक्तिरिति तन्न तृणत्वेन ग्रहीतकारणताभङ्गप्रसङ्गादिति। उच्यते। तृणारणि मणिफुत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तशक्तिस्वीकारे गौरवं तावदनन्तव्यक्तिजन्यावान्तरवह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव कल्प्यते न च जातौ योग्यानुपलब्धिवाधः गोमयप्रभववृश्चिकप्रभववृश्चिकयोर्वा पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् तृणजन्यनानावह्निषु तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्ति। जातिविषया तृणजन्यत्वेनोपाधिनाऽसाविति चेन्न बाधकं विनानुगतबुद्धेस्तद्व्यङ्ग्यजातिविषयत्वनियमात् न च। गोमयवृश्चिकप्रभववृश्चिकजातिपरम्परायामननुगतजात्यापत्तिः गोमयजन्यवृश्चिक–प्रभवत्वजातेः सत्त्वात् वह्निमात्रे च दाहस्पर्शवानवयवः तत्संयोगः सेवनादिश्च कारणानि न तु तृणादिकं विनापि, तदुत्पत्तिप्रसङ्गः विशेषसामग्रीमादायैव सा, साध्यसामग्र्याजनकत्वात्। ननु तृणारणिमणीनां वह्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनं तद्ग्रहश्च नान्वयव्यरिरेकाभ्यां व्यभिचारात्। अथारणिमण्यभाववति स्तोमविशेषे तृणं विना वह्निव्यतिरेकः तृणान्वयवह्निरित्यन्वयव्यतिरेकाभ्यां तत्रैव स्तोमे तदितरहेतुसकलसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियतान्वयेन रासभादिव्यावृत्तेन तृणादिकारणत्वग्रह इति चेन्न तृणं विनापि वह्निरिति ज्ञाने सति नियतपूर्ववर्त्तित्वस्य कारणस्यग्रहीतुमशक्यत्वात्। तृणाजन्येवह्नौ मणेः कारणत्वग्रह इति चेत् व्यभिचारेण वह्नौ तृणजन्यत्वाग्रहे तदजन्यत्वस्याप्यग्रहात् वह्निमात्रस्यैव उपजन्यत्वाच्च। न च मण्यजन्यत्वेन तृणजन्यत्वग्रह इति, अन्योऽन्याश्रयात्। यत्तु यत्र कारणताग्राहकं नास्ति तत्र व्यभिचारस्तद्ग्रहपरिपन्धीति तन्न अवाधितनियतपूर्ववर्त्तिताभावग्रहे तद्ग्रहस्यासम्भवात् अभावप्रमायां भावज्ञानानुदयादति उच्यते उक्तग्राहकैर्वह्निंनिष्ठकार्य्यतानिरूपितकारणतावच्छेदकरूपवत्त्वं तृणस्य तृणनिष्ठनिरूपितकार्य्यतावच्छेदकरूपवत्त्वं वह्नेर्वाऽकार्य्यकारणव्यावृत्तं परिच्छिद्यते। न तु तृणत्वेन कारणत्वं वह्नित्वेन वा कार्य्यत्वं तच्चोभयथापि सम्भवति वह्नित्वेन कार्य्यतया तदनुकूलशक्तिमत्त्वेन तृणादीनां कारणतया वह्नित्वावान्तरजातिविशेषेण कार्य्यतया वा अत्र च विनिगमकमुक्तमेव। अथ तृणारणिमणीनामभावत्रयेण कार्य्यमित्यन्वयव्यतिरेकाभ्याम् अभावत्रयाभावत्वेन तृणादीनां कारणत्थमिति न व्यभिचारः अभावाभावत्वस्य भावपर्य्यवसन्नत्वादिति चेत् अभावत्रयाणामभावः किं तृणदिप्रत्येकव्यापकेऽप्येक एव उत तृणादि प्रत्येकमेव। आद्येऽभावस्य कारणत्वमिति किमायातं तृणादिकारणत्वे, द्वितीये तृणस्य नारणिमण्यभावाभावत्वं भावाभावत्वतदुभयापत्तेः। एतेनाभावत्रये कार्य्यं न तदभावे कार्य्यमित्यन्वयव्यतिरेकाभ्यां तृणादिप्रत्येकस्य कारणत्वग्रह इति परास्तम्”।
दाहकाष्ठ = न० दाहस्य दाहार्थं काष्ठमस्य। दाहागुरुणि गन्धद्रव्यभेदे राजनि०।
दाहघ्न = न० दाहं हन्ति हन–टक्। देहदाहनाशके औषधादिभेदे तच्च चक्नद० उक्तं यथा।
“शतधौतघृताभ्यक्तं दिह्याद्वा यवसक्तुभिः। कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान्। छादयेत् तस्य सर्वाङ्गमारनालार्द्रवाससा। लामज्जेनाथ शुक्तेन चन्दनेनानुलेपयेत्। चन्दनाम्बुकणास्यन्दितालवृन्तोपवीजितः। सुप्याद्दाहार्दितोऽम्भोजकदलीदलसस्तरे। परिषेकावगाहेषु व्यजनानाञ्च सेवने। शस्यते शिशिरं तोयं तृष्णादाहोपशान्तये। क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनान्वितैः। अन्तर्दाहं प्रशमयेदेतैश्चान्यैश्च शीतलैः। कुशादिशालपर्णीभिर्जीवकाद्येन साधितम्। तैलं घृतं वा दाहघ्नं वातपित्तविनाशनम्। फलिनीलोध्रसेव्याम्बुहेमपत्रं कुटन्नटम्। कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्। ह्रीवेरपद्मकोशीरचन्दनक्षोदवारिणा। संपूर्णामवगाहेत द्रोणीं दाहार्दितो नरः”।
दाहज्वर = पु० दाहप्रधानो ज्वरः। देहज्वालाविशेषरूपदाहकारके ज्वरभेदे “पीतं वृश्चिकमूलन्तु पर्य्युषित जलेन वै। सार्द्रं विनाशयेद्दाहज्वरञ्च परमेश्वर।” गारुडे १९३ अ०।
दाहनागुरु = न० दाहनस्य दाहनाय अगुरु। दाहागुरुणि गन्धद्रव्यभेदे राजनि०।
दाहमय = त्रि० दाहेन प्रचुरः दाहप्रधाने ज्वरादौ। “तत्र दाहमयत्वे भूमीच्छादयः” सा० द०।
दाहसर = पु० दाहार्थं स्रियतेऽसौ सृ–आधारे अप्। श्मशाने त्रिका०।
दाहहरण = न० दाहो ह्रियतेऽनेन ह–ल्युट् णिच्–कर्त्तरि ल्यु वा। १ वीरणमूले (वेणारमूल) शब्दच०। २ दाहनाशके त्रि०
दाहागुरु = न० दाहस्य दाहार्थमगुरु। स्वनामख्याते गन्धद्रव्यभेदे राजनि०। तत्काष्ठस्य दाहेनैव गन्धोत्पादनात् तस्य तथात्वम्।
दाहिन = त्रि० दहति दह–णिनि। दाहके “अगारदाही गरदः” मनुः। स्त्रियां ङीप्।
दाहुक = त्रि० दह–बा० उकञ्। दाहके “नास्याग्निर्दाहुको। भवतीति विज्ञायते” आश्व० गृ० २। ८। १०
दाह्य = त्रि० दह–कर्म्मणि ण्यत्। १ दहनीये दग्धव्ये २ दाहार्हे च। “अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता
***