दभ = प्रेरणे चु० उभ० सक० सेट् इदित्। दम्भयति ते अददम्भत् त।
दभ्र = न० दन्भ–रक्। १ अल्पे २ तद्वति त्रि० अमरः ३ समुद्रे पु० उणा० “अदभ्रदर्मामधिशय्य स स्थलीम्” किरा०। ४ उत्तरस्यां दिशि स्त्री निघण्टुः। “अ सिदभ्रस्य चिद्वृधः” ऋ० १। ८१। २।
दम् = अव्य० दम–विच्। कलत्रे शब्दार्थचि०।
दम = शमे दण्डे च दिवा० शमा० अक० सेट्। दाम्यति अदमत्–अदमीत् ददाम देमतुः। णिच् दमयति ते अदिदमत् त ट्वित् दमथुः दमितः दान्तः। उदित् दमित्वा दान्त्वा। “यमो दाम्यति राक्षसान्” “जानुभ्यामदमच्चान्यान्” “दमित्वाप्यरिसंघातान्” “अदान्तां स्त्रिदशैरपि” भट्टिः। दमः दम्यः दमनः।
दम = पु० दम–भावे घञ्। १ दण्डे, २ बाह्येन्द्रियाणां स्वस्वविषयेभ्यो निवर्त्तने, “निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते” इत्युक्ते वाह्येन्द्रियव्यापाररोधे, विकारहेतुसन्निधानेऽपि ३ मनसः स्थैर्य्ये, “कुत्सितात् कर्मणो विप्र! यच्च चित्तनिवारणम्। स कीर्त्तितो दम” इत्युक्ते ४ कुकर्मभ्यो मनसो निवारणे, ५ कर्दमे, मेदि० ६ दमने च। ६ भीमनृपपुत्रभेदे दमयन्तीशब्दे दृश्यम्। ७ विष्णौ पु० दमयितृशब्दे दृश्यम्।
दमघीष = पु० श्रुतस्रवोऽपरनामके शिशुपालपितरि राजभेदे “ततः संजनयामास सुप्रभे द्वे च दारिके। कुन्तीञ्च पाण्डोर्महिषीं देवतामिव भूचराम्। भार्य्याञ्च दमघोषस्य चेदिराजस्य सुप्रभाम्” हरिवं० ९५ अ०।
दमघोषज = पु० दमघोषाज् जायते जन–ड। शिशुपाले “सुदमो दमघोषजः” माघः।
दमघोषसुत = पु० ६ त०। शिशुपाले “दमघोषसुतो वीरः शिशुपालो महामतिः” भा० आ० १८७ अ० दमघोषतनयादयोऽप्यत्र।
दमथ = पु० दम–भावे उणा० अथच्। १ दण्डे २ तपःक्लेशसहने च।
दमथु = पु० दम–भावे अथु। १ दमे दमने अमरः।
दमन = न० दम–भावे ल्युट्। १ दण्डे २ इन्द्रियादीनां बाह्यवृत्तिनिरोधे। कर्त्तरि अच्। (दोना) ख्याते ३ पुष्पचामरे पुष्पप्रधाने वृक्षभेदे “दमनस्तु रसे तिक्तो हृद्यो वृष्यः सुगन्धिकः। ग्रहणीविषकुष्ठास्रच्छेदकण्डूत्रिदोषजित्” भावप्र०। दमनारोपणोत्सवश्च नि० सि० उक्तो यथा “चैत्रशुक्लद्वादश्यां दमनोत्सवः “द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः। वौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरमिति” रामार्चनचन्द्रिकोक्तेः “ऊर्जे व्रतं मधौ दोला श्रावणे तन्तुपूजनम्। चैत्रे च दमनारोपमकुर्वाणी व्रजत्यधः” इति तत्रैव पाद्मवचनाच्च। शिवभक्तादिभिस्तु चतुर्दश्यादौ कार्य्यः “तत्र स्यात् स्वीयतिथिषु वह्न्यादेर्दमनार्पणम्” इति तत्रैवीक्तेः। ज्योतिःप्रकाशेऽपि “स्वस्वदेवप्रतिष्ठायां मन्त्रसंग्रहणे तथा। पवित्रदमनारोपे ग्राह्या तत्तत्तिथिर्वुधैः”। तिथयस्तु “वह्निर्विरिञ्चिर्निरिजा गणेशः फणी विशाखो दिनकृन्महेशः। दुर्गान्तको विश्वहरिः स्मरश्च शर्वः शशी चेति तिथीषु पूज्याः” इत्युक्ताः आगमोक्तदीक्षावतो दमनरीपणविधिः रामार्चनचन्द्रिकायाम्। तद्विधिस्तत्रैव दृश्यः। ४ उपशान्ते ५ वीरे शब्दर०। ६ कुन्दवृक्षे राजनि०। ७ ऋषिभेदे दमयन्तीशब्दे दृश्यम्। “यद्वरात् भीमस्य नृपस्य दमयन्तीकन्यावरलाभः। “दमनादमानाक् प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात्। वरमाप” नैष०। दमयति–दम–णिच्–ल्यु। ८ शासनकर्त्तरि त्रि० दुष्टदमनः सर्वदमन इत्यादि। ९ विदर्भाधिपभीमनृपसुतभेदे च दमयन्तीशब्दे दृश्यम्। स्वाधिकारात्प्रमाद्यन्तीः प्रजाः दमयितुं शीलमस्य युच्। १० परमेश्वरे। “मरीचिर्दमनो हंसः” विष्णुस०। “वैवस्वतादिरूपेण दमयितृत्वात् वा” भाष्योक्तेस्तथात्वम्। भावे ल्युट्। ११ दमने न० “न्यस्य दुष्टदमनक्षमं हरिम्” माघः।
दमनक = पु० स्वार्थे क। १ दमनवृक्षे “द्विगुणनगणमिह वितनुहि। दमनकमिति गदति शुचि हि” इत्युक्ते २ षडक्षरपादके छन्दोभेदे ३ एकादशाक्षरपादके छन्दोभेदे च। “द्विजवर! युगलममलं तदनु कलय नलघुगुरुकम्। फणिपतिवरपरिगदितं दमनकमिदमतिललितम्” वृ० र० टी०
दमनी = स्त्री दम्यतेऽग्निरनया–करणे ल्युट् ङीप्। अग्निदमनीवृक्षे राजनि०।
दमन्य = दमन इवाचरति दमन–क्यच् वेदे अन्त्यलोपः दमनकर्त्तृतुल्याचारे पर० अक० सेट्। दमन्यति अदमन्यीत्। “षडक्षं त्रिशीर्षाणं दमन्यत्” ऋ० १०। ९९।
दमयन्ती = स्त्री विदर्भाधिपभीमनृपस्य कन्याभेदे तत्कथा भा० व० ५५ अ० यथा
“तथैवासीद्विदर्भेषु भीमो भीमप्रराक्रमः। शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः। स प्रजार्थे परं यत्नमकरोत् सुसमाहितः। तमभ्यागच्छद्ब्रह्मषिर्दमनो नाम भारत! तं स भीमं प्रजाकामस्तोषयामास धर्मवित्। महिष्या मह राजेन्द्र! सत्कारेण सुवर्चसम्। तस्मै प्रसन्नो दमनः सभार्य्याय वरं ददौ। कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः। दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम्। उपपन्नान् गुणैः सर्वैर्भीमान् भीमपराक्रमान्। दमयन्ती तु रूपेण तेजसा यशसा श्रिया। सौभाग्येषु च लोकेषु यशः प्राप सुमध्यमा”। भा० व० ५ त० अ०। सा च पुण्यश्लोकनलराजकलत्रम् यथोक्तं तत्रैव ५७ अ०
“सा समीक्ष्य तु तान् देवान् पुण्यश्लोकञ्च मारत!। नैषधं वरयामास भैमी धर्मेण पाण्डव!। विलज्जमाना वस्त्रान्ते जग्राहायतलोचना। स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्। वरयामास चैवैनं पतित्वे वरवर्णिनी” “पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः। दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम्। गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः। विवाहं कारयामास दमयन्त्या नलस्य च। उष्य तत्र यथाकमं नैषधी द्विपदां वरः। भीमेन समनुज्ञातो जगाम नगरं स्ककम्”। “त्वयि वीर! विराजते परं दमयन्तीकिलकिञ्चितं किल” नैष०।
दमयितृ = त्रि० दम–णिच्–तृच्। १ शासनकर्त्तरि २ विष्णौ पु० “दण्डो दमयिता दमः” विष्णुस०।
दमाय = दमं दमनमिच्छति क्यच्–आत्मनोदमनेच्छायां पर० अक० सेट्। दमायति अदमायीत् “शृण्वे वीर! उग्रमुग्रं दमायन्नन्यमन्य मतिने नीयमानः” ऋ० ६। ४७। १६। “दमायन्तु ब्रह्मचारिणः” तै० उ० १। ४। २।
दमित = त्रि० दम्यते स्म दम–णिच्–क्त वा दान्तेत्यादि इट्। कृतदमने वृषादौ।
दमिन् = त्रि० दम–शमा० शीलार्थे घिणुन्। १ दमनशीले स्त्रियां ङीप्। २ सागरसिन्धुनदीसङ्गमदक्षिणस्थे तीर्थभेदे न० ३ तत्प्रवर्त्तकर्षिभेदे पु० “सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत!” इत्युपक्रमे “प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ!। तीर्थं कुरुवरश्रेष्ठ! त्रिषु लोकेषु विश्रुतम्। दमीति नाम्ना विख्यातं सर्वपापप्रणाशनम्। तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्। तत्र स्नात्वाऽर्चयित्वा च रुद्रदेवगणैर्वृतम्। जन्मप्रभृति यत्पापं तत्स्नातस्य प्रणश्यति। दमी चात्र नरश्रेष्ठ! सर्वदेवैरभिष्टुतः। तत्र स्नात्वा नरव्याघ्र! हयमेधमवाप्नुयात्” भा० व० ८२ अ०।
दमु(मू)नस् = पु० दम–ऊनसि पृषो० वा ह्रस्वः। १ अग्नौ, अमरः २ शुक्राचार्य्ये उणा०। निरुक्ते ४। ५। “जुष्टो दमूना अतिथिर्दूरोणाः” ऋचमधिकृत्य अस्य अन्या निरुक्तिरुक्ता यथा “दमूना दममना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यान्मना मनोतेः”। ३ दमयितरि त्रि०। “दमूना गृहपतिर्दम आ~” ऋ० १। ६०४। “दमयति राक्षसादिकमिति दमूनाः” भा०।
दमे = अव्य० दम–बा० के। मृहे निघण्टुः।
दम्प्रती = पु० द्वि० ब०। जाया च पतिश्च द्वन्ये जायाशब्दस्य पक्षे दमादेशः। मिलितयोः जायापत्योः अमरः। “तौ दम्पती वशिष्ठस्य गुरोर्जन्मतुराश्रमम्” रघुः। “भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती” मनुः। “दम्पत्योर्मध्यग धनम्” दायभा०। तयोरिदं पत्यन्तत्वात् यक्। दाम्पत्य तत्सम्बन्धिनि त्रि०।
दम्भ = पु० दन्भ–घञ्। १ कपटे २ शाट्ये अधार्मिकेणात्मनो धार्मिकत्वस्य ख्यापने ४ लोमवञ्चनाभ्यां विहितकर्मानुष्ठाने ५ पूजाप्राप्त्यर्थं स्वधार्म्मिकत्वख्यापने। “द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्ज्जयेत्” मनुः। “सत्कारमानपजार्घं तपो दम्भेन चैव यत्” गीता। न्यायसूत्रवृत्तौ तु दम्भस्य रागविशेषेच्छाभेदरूपत्वमुक्तं यथा “तद् त्रैराश्यं रागद्वेषमोहान्तर्भावात्” गौ० सू०। “तत्र रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभो माया दम्भः” इत्युक्त्वा “कामो विरंसा रतिश्च विजातीयः संयोगः नारीगताभिलाष इति तु न युक्तं स्त्रियः कामेऽव्याप्तेः मत्सरः स्वप्रयोजनप्रतिसन्धानं विना पराभिमतनिवारणेच्छा, यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि। एवं परगुणनिवारणेच्छाऽपि। स्पृहा धर्माविरोधेन प्राप्तीच्छा तृष्णा इदं मे न क्षियतामितीच्छा उचितव्ययाकरणेनापि धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव। धर्मविरोधेन परद्रव्येच्छा लोभः, परवञ्चनेच्छा माया, कपटेन धार्मिकात्वादिना स्वोत्कर्षख्यापनेच्छा दम्भः” गौ० वृ० ४। ३ कामादिकदम्भान्तानामिच्छाविशेषरूपत्वात् रागरूपे दोषे अन्तर्भाव उक्तः अधिकं दोषशब्दे वक्ष्यते।
दम्भक = पु० दन्भ–ण्वुल्। प्रतारके। “धर्म्मध्वजी सदालुब्धश्छाद्मिको लोकदम्भकः” मनुः।
दम्भन = पु० दन्भ–भावे ल्युट्। १ दम्भे २ मोहने च। “व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम्” मनुः।
दम्भिन् = त्रि० दन्भ–णिनि। दम्भकर्त्तरि। “दम्भिहैतुकपाषण्डवकवृत्तींश्च वर्ज्जयेत्” याज्ञ०।
दम्भोद्भव = पु० १ सार्वभौमे नृपभेदे। “राजा दम्भोद्भवो नाम सर्वभौमः पुराऽमवत्” भा० उ० ९१ अ०। इत्युपक्रमे तस्य नरनाम्ना ऋषिणा गर्वो निहतस्तत्कथा तत्रैवाध्याये दृश्या। “दण्डको नृपतिः कामात्, क्रोधाच्च जनमेजयः। लोभादैलस्तु राजर्षिर्वातापिर्हर्षतोऽसुरः। पौलस्त्यो राक्षसो नानात् मदाद्दम्भीद्भवो नृपः। प्रयाता निधनं ह्येते शत्रुषड्वर्गमाश्रिताः” काम०। दम्भ उद्भवो यस्य। २ दम्भसमुत्थे कर्म्मादौ त्रि०।
दम्भोलि = पु० दभ्नोति खेदयति दन्भ–ओलि। १ वज्रेऽस्त्रे। २ हीरके अमरः।
दम्य = त्रि० दम–पवर्गान्तत्वात् यत्। १ प्राप्तभारवहनयोग्यावस्थे वत्सतरे २ अनडुहि च अमरः। २ दमनीये ४ दमनार्हे त्रि०। “अप्राप्तदम्यावस्थः” प्रा० त०। “धुर्य्येण दम्यः सदृशं बिभर्त्ति” रघुः।
दय = गतौ बधे, दाने पालने च भ्वा० आत्म० सक० सेट्। दयते अदयिष्ट अदयिढ्वम् अदयिध्वम् अदयिद्ध्वम्। दयाम् बभूव आस चक्रे। “न वा पलायाञ्चक्रे विर्दयाञ्चक्रे न राक्षसः” भट्टिः दया दयितः। “व्रजन्ति तेषां दयसे न कस्मात्”। “स चापि रुधिरैर्मर्त्तः स्वेषामप्यदयिष्ट न” भट्टिः
दया = स्त्री दय–भिदा० भावे अङ्। १ दुःखितेषु भूतेष्वनुकम्पायाम्। २ परदुःखाऽसहने करुणाशब्दे दृश्यम्। ३ परदुःखप्रहरणेच्छायाम्। “यत्नादपि परक्लेशं हर्तुं या हृदि जायते। इच्छा भूमिसुरश्रेष्ठ! सा दया परिकीर्त्तितेति”। आत्मवत् सर्वभूतेषु यो हिताय शुभाय च। वर्तते सततं हृष्टः क्रिया ह्येषा दया स्मृता। प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा। आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः”। इयं मोहपत्नी यथा। “मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया। सर्वलोकाश्च सर्वत्र निष्फलाश्च यया विना” देवीभागवते ९ स्क० १ अ०। यत्र मोहोस्ति तत्र दयायाः सत्त्वाद्दया मोहपत्नीति “अहिंसा परमो धर्म्मो विप्राणां नात्र संशयः। दया सर्वत्र कर्त्तव्या ब्राह्मणेन विजानता। यज्ञादन्यत्र विप्रेन्द्र! न हिंसा याज्ञिकी मतेति” देवीभागवतम्। यज्ञादन्यत्र दया कर्त्तव्या यज्ञे तु हिंसैव कर्त्तव्या न सा याज्ञिकी हिंसा हिंसा भवति। “अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः” इति श्रुतेः। “या वेदविहिता हिंसा नियतास्मिंश्चराचरे। अहिंसा मेव तां विद्याद् वेदाद् धर्मो हि निर्बभाविति” मनुस्मृतेश्च। “तृणं वाप्यविधानेन छेदयेन्न कदाचनेति” कुलार्णवोक्तेश्च। ४ दक्षकन्याजाते धर्मस्य पत्नीभेदे तदपत्यम् अभयम् धर्म्मशब्दे दृश्यम्। “धनुर्भृतोऽप्यस्य दयार्द्रभावम्” रघुः। “तव धर्म्मः सदयोदयोज्ज्वलः” नैष० सा च शान्तिरसस्य व्यभिचारिभावः यथाह सा० द०। शान्तरसोपक्रमे “रोमाञ्चाद्याः स्वानुभावास्तथा स्युर्व्यभिचारिणः निर्वेदहर्षस्मरणमतिभूतदयादयः”।
दयाकूट = पु० दयायाः कूट इव। बुद्धे हेम०।
दयालु = त्रि० दय–आलुच्। कृपायुक्ते। “दयामुरपि म कृष्णः” इत्युद्भटः। “यशःशरीरे भव मे दयालुः” “निरीक्षमाणः सुतरां दयालुः” रघुः।
दयावीर = पु० दयया वीरः। १ दयासहिते वीरे रसे २ तद्युक्ते नायकभेदे च सा० द० वीररसलक्षणमुक्त्वा “स च दानधर्म्मयुद्धैर्दयया च समन्वितश्चतुर्द्धा स्यात्” स च दानवीरो धर्मवीरोदयावीरो युद्धवीरश्चेति चतुर्विधः” इति विभज्य “दयावीरो यथा जीमूतवाहनः। “शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांस मस्ति। तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन्”। एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः” उदाजहार।
दयित = पु० दय–क्त। १ पत्यौ अमरः। २ प्रियमात्रे त्रि०। ३ भार्य्यायां स्त्री। “दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते” रसग०। “न गजा नगजा दयिता दयिताः” भट्टिः।
दयित्नु = त्रि० दय–इत्नु। दयाशीले।
दयू = त्रि० देव–क्विप् ऊठ्। देवनकर्त्तरि।
दर = अव्य० दॄ–भये अप्। १ ईषदर्थे। २ भये, ३ गर्त्ते चपुंन०। अमरः “दरादराभ्यां दरकम्पिनी पपे” नैषधम् “दरमीलन्नयनानिरीक्षते” रसगङ्गा०। “न जातहार्द्देन न विद्विषादाः” किरा०। ४ कन्दरे पुंस्त्री० स्त्रीत्वे ङीप्। “दरीगृहोत्सङ्कनिषक्तभासः”। “दरीमुखो त्वितेन समीरणेन” कुमा०। ५ शङ्खे शब्दार्थचि०। “स उच्चकाशे धवलो दरोदरीप्युरुक्रमस्याधरशीणशीणिमेति” भाग०।
दरक = त्रि० दर + भये “कृञादिभ्यो वुन्” पा० वुन्। भीरौ शब्दार्थचि०।
दरकण्टिका = स्त्री दर ईषत् कण्टो यस्याः कप् क्वापि अत इत्त्वम्। शतावर्य्याम् राजनि०।
दरणि = पुंस्त्री दॄ–अनि। नद्यादेः कूनभङ्गे (भाङ्गन) शब्दार्थचि०। स्त्रीत्वे वां ङीप्।
दरथ = पु० दॄ–विदारे “दॄगमिदमिभ्यश्च” उज्ज्वलदत्तधृतसूत्रात् अथ। १ दिक्षु प्रसरणे २ गर्त्ते च उज्ज्वलदत्तः।
दरद् = स्त्री दॄ–विदारणे “शृदॄभसीऽदिः” उणा० अदि। १ हृदये २ कूले च उज्ज्वलद०। दॄ–भये अदि। ३ पर्वते ४ प्रपाते ५ भये च पु० मेदि०। ६ म्लेच्छजातौ अमरटीका।
दरद = त्रि० दरं भयं ददाति दा–क दर ईषत् दायति शुध्यति दैप–शोधे–क वा। १ भयदायके २ हिङ्गुले पु० न० भावप्र० तद्भेदादिकमुक्तं यथा “हिङ्गुलं दरदं स्रेच्छमिङ्गुलञ्चूर्णपारदम् दरदस्त्रिविधः प्रोक्तश्चर्मारः शुक्रतुण्डकः। हंसपादस्तृतीयः स्याद्गुण- वानुत्तरोत्तरम्। चर्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः। जवाकुसुमसङ्काशो हंसपादो महोत्तमः। तिक्तं कषायं कटुहिङ्गुलं स्यान्नेत्रामयघ्नङ्कफपित्तहारि। हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च गरन्निहन्ति। ऊर्द्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम्। हिङ्गुलं तस्य सूतन्तु शुद्धमेवं न शोधयेत्। ३ देशभेदे पु० स च देशः वृ० स० १४ अ० ऐशान्यामुक्तः ऐशान्यामित्युपक्रमे अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः” “शूद्राभीराश्च दरदाः काश्मीराः पत्तिभिः सह” भा० भी० ९ अ०। प्राच्योदीच्यदेशोक्तौ। सोऽभिजनोऽस्य तस्य राजा वा अण्। दारद पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च। बहुषु अणो लुक्। “गृहीत्वा तु बलं सारं फाल्गुनः पाण्डुनण्डनः। दरदान् सह काम्बोजैरजयत् पाकशासनिः। प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः। निवसन्ति वते ये च तान् सर्वानजयत् प्रभुः” भा० स० २६ अ०। आर्षे क्वचिदेकत्वेऽपि अणो लुक्। “शाल्वराजश्च दरदो। विदेहाधिपतिस्तथा” हरिवं० ९१ अ०। ४ म्लेच्छजतिभेदे। ५ भये शब्दरत्ना०। ६ शनैः क्रियालोपात् शूद्रत्वापन्ने क्षत्रियभेदे च। “शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः” इत्युपक्रमे “पारदापह्नवाश्चीनाः किराता दरदाः खसाः” मनुः।
दरवर = प० दरेषु शङ्खेषु वरः। पाञ्चजन्ये भगवतः शङ्खे श्रीधरः। “दध्मौ दरवरं तेषां विषादं शमयन्निव” भाग० १। ११। २।
दरसान = पु० दॄ–विदारणे असानच्। द्योते उज्ज्वलद०।
दरि(री) = स्त्री दॄ–विदारे इन् वा ङीप्। १ कन्दरे शब्दरत्ना०। २ तक्षककुलजे सर्पभेदे पु० “पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः” भा० आ० ५७ अ०।
दरित = त्रि० दरो जातोऽस्य तार० इतच्। जातभये हेमच०।
दरिद्र = त्रि० दरिद्रा–क। १ दुर्गते २ निःस्वे अमरः। “प्रणीय दारिद्र्यदरिद्रतां नृपः” नैष०। “स्त्रीबालोन्मत्तवृद्धान्ध दरिद्राणाञ्च रो गणाम्” मनुः। दरिद्रत्वे हेतुः “अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च। अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते” प्रा० त०। “दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः” भाग०। “अयं पटः सूत्रदरिद्रतां गतः” मृच्छ०।
दरिद्रा = दुर्गतौ अदा० स्वपा० पर० अक० सेट्। दरिद्राति जक्षा० दरिद्रति अदरिद्रीत्–अदरिद्रासीत्। दरि- द्रामास बभूव चकार ददरिद्र ददरिद्रौ इत्येके। दरिद्रिता दरिद्र्यात्। दरिद्रिष्यति। दरिद्राणः। सनि। दिदरिद्रिषति दिदरिद्रासति।
दरिन् = त्रि० दॄ–भये विदारे वा इनि। १ भीरौ २ विदारणशीले च।
दरोदर = पु० दुरोदर + पृषो०। पाशके “आश्रित्य दुर्गं गिरिकन्दरोदरं क्रीडन्त्यमुष्मिन् सततं दरोदरम्” “यमकात् दरोदरो निरुकारः इति गोवर्द्धनः” उज्ज्वलद०
दर्त्तृ = त्रि० दॄ–विदारे वेदे इडभावः। दारयितरि “स व्रजं दर्त्ता पार्ये अध द्योः” ऋ० ६। ६६। ८। “दर्त्ता दारयिता” भा०। लोके तु दरी(रि)ता इत्येव।
दर्त्नु = पु० दॄ–विदारे बा० त्नु इडभावश्छान्दसः। दारके। “यत् पुरां दर्त्नुमारत्” ऋ० ६। २०। ३। “दर्त्नुं दारकम्” भा०
दर्दर = पु० दॄ–यङ् अच् पृषो०। १ पर्वते। २ ईषद्भग्नभाजने च मेदि०।
दर्दरार्द्र = न० व्यञ्जनभेदे शब्दच०।
दर्दरीक = न० दॄ–विदारे फर्फरीका० नि०। १ वाद्यभेदे।
दर्दुर = न० दृणाति कर्णौ शब्देन उरच् नि०। १ भेके २ मेघे ३ वाद्यभेदे ४ पर्वतभेदे “शैलस्य दर्दुरपुटानिव वादयन्तः” माघः “कौषेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः” मनुः “स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ” रघुः। “हिमवान् पारिपात्रश्च विन्ध्यकैलासमन्दराः। मलयो दर्दूरश्चैव महेन्द्रो गन्धमादनः” भा० स० १० अ०। “निर्याय तस्मादुद्देशात् पश्यामो लवणाम्भसः। समीपे सह्यमलयौ दर्दुरञ्च महागिरिम्” भा० व० २८१ अ०। “मलयात् दर्दुराच्चैव चन्दनागुरुसञ्चयान्” ५१ अ०। दर्दुरः पर्वतः सन्निकृष्टतयास्त्यस्य अच्। ५ तत्सन्निकृष्टे देशभेदे च। स च देशः “अथ दक्षिणेन लङ्का” इत्युपक्रमे “गिरिनगरवनादर्दुरमहेन्द्रमालिच्चमरुकच्छाः” वृ० स० १४० अ० दक्षिणस्यामुक्तः। ६ राक्षसमेदे संक्षिप्तसारः। ७ चण्डिकायां स्त्री मेदि०।
दर्दुरकं = पु० दर्दुराय कायति दर्दुर इव कायति शब्दायते वा कै–क। १ वाद्यभेदे शब्देन मेघसूचके २ भेके। स्वार्थे क। ३ दर्दुरशब्दार्थे।
दर्दुरच्छदा = स्त्री दर्दुर इव छदो यस्याः। ब्राह्म्यां पारस्करनिघण्टुः।
दर्द्रु(र्द्रू) = पु० दरिद्रा–दरिद्रातेर्यालोपश्च उणा० ऊ उवा इकाराकारयोर्लोप” उज्ज्वलदत्तः। १ दद्रुरोगे भोजदेवशब्दानुशासने तु “दरिद्रातेर्यालोपश्चेति तिपानिर्देशात् रिश्च आश्चेति संहितापाटेर्याशब्दलोपे दद्रुरित्यपि साधितम्। तथा रश्च इश्च आश्चेत्यन्त्यसदेशद्वितीयरेकलोपेन दर्दुरित्यपि साधितम्। एवञ्च रूपचतुष्टयमिति। सि० कौ०।
दर्द्रु(र्द्रू)घ्न = पु० दद्रुं(र्द्रूं) हन्ति हन–ठक्। चक्रमर्द्दकेशब्दर०।
दर्द्रु(र्द्रू)नाशिनी = स्त्री दद्रुं(द्रूं)नाशयति नश–णिच् णिनि ङीप्। तैलिनीवृक्षे राजनि०।
दर्प = पु० दृप–भावे घञ् कर्त्तरि अच् वा। १ अहङ्कारे परावधीरणाहेतौ गुरुनृपाद्यतिक्रामके २ चित्तवृत्तिभेदे। गर्व० भेदे ३ हर्षजन्यगर्वे ४ मृगमदे मेदि०। ५ ऊष्मणि त्रिका०। ६ उच्छृङ्खलत्वे ७ धर्म्म मर्य्यादातिक्रमे नीलकण्ठः दर्पलक्ष णविषयभेदादिकं ब्रह्मवैव० जन्मस्य० उक्तं यथा “अहङ्कारश्च सर्वेषां पापवीजममङ्गलम्। ब्रह्माण्डेषु च सुर्वेषां सर्वपर्य्यन्तमुन्नतिः। वेषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परे। विज्ञाय सर्वं सर्वात्मा तेषां शान्ताहमेव च। क्षुद्राणां महताञ्चैव येषां गर्वो भवेत् प्रिये!। एवंविधमहं तेषां चूर्णीभूतं करोमि च। चकार दर्पभङ्गञ्च महाविष्णोः पुरा विभुः। ब्रह्मणश्च तथा विष्णोः शेषस्य च शिवस्य च। धर्मस्य च यमस्यापि शाम्बस्य चन्द्रसूर्य्ययोः। गरुडस्य च वह्नेश्च गुरोर्दुर्वाससस्तथा। दौवारिकस्य भक्तस्य जयस्य विजयस्य च। सुराणामसुराणाञ्च भवतः कामशक्रयोः। लक्ष्मणस्यार्जुनस्यापि वाणस्य च भृगोस्तथा। सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च। सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा। सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च। प्राणाधिष्ठातृदेव्याश्च प्रियायाः प्राणतोऽपि च। प्राणाधिकाया राधाया अन्येषामपि का कथा। हत्वा दर्पञ्च सर्वेषां प्रसादञ्च चकार सः”।
८ उत्साहे मल्लिना० “तेजो विहीनं विजहाति दर्पः” किरा० “दर्प उत्साहः” मल्लि०।
दर्पक = पु० दर्पयति दृप–हर्षमोहनयोः णिच्–ण्वुल्। मोहकारके १ कन्दर्पे अमरः। २ अहङ्कारमोहयोः कारके त्रि०।
दर्पण = पु० चु० दृप–सन्दीपने ल्यु। १ आदर्शे (आयना)। मुकुरे अमरः २ नेत्रे न० जटा० ३ पर्वतभेदे ४ नदभेदे च। “ततः पूर्वं महाराज! दर्पणो नाम पर्वतः। कुवेरोयत्र वसति धनपालैः समं सदेति। यस्मिन्नास्ते मध्यभागे रोहिणो रोहिताकृतिः। यस्मिन् लोहादिव स्पृष्टं स्वर्णतां याति तत्क्षणात्। तन्नातिदूरे स्नवति दर्पणो नाम वै नदः। हिमाद्रिप्रभवो नित्यं लौहित्य मदृशः फले। समुत्पन्नं हि लौहित्यं सर्वैर्देवगणैर्हरिः। सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम्। तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः। तेनायं दर्पणो नाम पुरा देवगणैः कृतः। अस्मिन् स्नात्वा नदवरे योऽर्चपेद् दर्पणाचले। कुवेरं प्रतिपत्तिथ्यां कार्त्तिके शुक्लपक्षतः। स याति ब्रह्मसदनमिह भूतिशतैर्युतः” इति कालि० पु० ८१ अ०। “दर्पणनिर्मलासु पतिते वनतिमिरमुषि” माघः।
“भूयो बभौ दर्पणमादधाना” कुमा०। “लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति” चाण०। दर्पणस्य विम्बस्य स्वगतत्वव्यत्यस्तमुखत्वादिमोहजनकत्वात् दर्पणत्वम्।
दर्पद = त्रि० दर्पं ददाति दा–क। १ गर्वदायकपदार्थे। २ विष्णौ पु० “दर्पहा दर्पदः दृप्तः” विष्णुसह० “धर्मवर्त्मनि वर्त्तमानानां दर्पं ददाति दर्पदः” भा०।
दर्पहन् = त्रि० दर्पं हन्ति हन–क्विप्। १ गर्वहारके २ विष्णौ पु०। दर्पदशब्दे दृश्यम्।
दर्भ = पु० दृभ–घञ् अच् वा। कुशभेदे तल्लक्षणादिकं कुशशब्दे २१४३ पृ० उक्तम्।
दर्भट = न० दृभ–संदर्भे बा० अट्न्। निभृतगृहे त्रिका०।
दर्भपत्र = पु० दर्भस्येव पत्रमस्य। काशे राजनि०।
दर्भपुष्प = पु० सर्पभेदे अहिशब्दे सुश्रुतवाक्यं दृश्यम्।
दर्भमय = त्रि० दर्भात्मकः शरा० मयट्। कुशनिर्म्मिते ब्राह्मणादौ
दर्भमूला = स्त्री दर्भस्येव मूलमस्याः पाककर्णेति ङीष्। औषधीभेदे।
दर्भर = त्रि० दर्भस्य सन्निकृष्टदेशादि दर्भ + अश्मा० रः। दर्भादूरदेशादौ।
दर्भानूप = पु० दर्भप्रचुरोऽनूपः संज्ञात्वेऽपि क्षुम्नादिपाठात् पक्षे पूर्वपदात् न णत्वम्। दर्भप्रचुरेऽनूपे देशभेदे।
दर्भाह्वय = पु० दर्भमाह्वयते सादृश्यात् आ + ह्वे–श। मुञ्जे तृणभेदे राजनि०।
दर्भि = पु० ऋषिभेदे अर्द्धकीलाख्यं तीर्थं तेन निर्म्मितं यथाह भा० व० ८३ अ०।
“अर्द्धकीलञ्च तत्रैव तीर्थं कुरुकुलोद्वह”। “विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा। व्रतोपनयनाभ्याञ्चाप्युपवासेन चाप्युतं। क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्थान्न संशयः। क्रियामन्त्रविहीनोऽपि तत्र स्रात्वा नरर्षभ!। चीर्णव्रतो भवेद्विद्वान् दृष्टमेतत् पुरातनैः। समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा। तेषु स्नात्वा नरश्रेष्ठ न दुर्गतिमवाप्नुयात्। फलानि गोसहस्राणां चतुर्णां विन्दते तु सः।
दर्म्म = त्रि० दॄ–विदारे वा० म। दारके। “पुरां दर्मो अपामजः” ऋ० ३। ४५। २। मनि दर्म्मन् तत्रार्थे “दर्मा दर्षीष्ट विश्वतः” ऋ० १। १३२। ६।
दर्य्य = त्रि० दरस्य हितम् गवा० यत्। दरहिते भयसाधने।
दर्व = पुंस्त्री दॄ–व। १ राक्षसे उज्ज्वलद०। स्त्रियां ङीष्। २ उशीनरपत्नीभेदे स्त्री “उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः। सृगा कृमिर्नवा दर्वा पञ्चमी च दृशद्वती” “नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत्” हरिवं० ३१ अ०। ३ हिंस्रे त्रि०। घञ्। ४ हिंसायां पु०
दर्वट = पु० दर्वाय हिंसायै अटति अट–अच् शक०। दण्डवादिनि हारा०।
दर्वरीक = पु० दॄ–विदारे फर्फरीकादि० नि०। १ इन्द्रे २ वाते ३ वाद्यभेदे संक्षिप्तसा०।
दर्वि(र्वी) = स्त्री दॄ–विन् वा ङीप्। व्यञ्जनदारके (हाता) ख्याते पदार्थे खजाकायाम्।
“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत्। वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम्। एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी द्व्यङ्गलपृथ्वग्रा तुरीयोनन्तु मेक्षणम्” कात्या० स०। “मासर्तुदर्वीपरिघट्टनेन” भा० व० यक्षप्रश्ने। २ अहिफणायां शब्दरत्नादर्वीकरः।
दर्विका = स्त्री स्वार्थे क। दर्व्यां रायमुकुटः। दर्मक पु० तत्रार्थे द्विरूपकोषः।
दर्वि(र्वी)होम = पु० ६ त०। दर्वीमाधने होमभेदे “दर्वीहोमानुपादाय सर्वान् यः प्राप्नुते क्रतून्” भा० स० १२ अ०।
दर्वीकर = पु० दर्वी फणा कर इवास्य। सर्पे अहिशब्दे दृश्यम्।
दर्वीसंक्रमण = न० तीर्थभेदे। “दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम्। अश्वमेधमवाप्नोति स्वर्गलोकञ्च गच्छति” भा० व० ८४ अ०।
दर्श = पु० दृश्येते शास्त्रदृष्ट्या सूर्य्यचन्द्रौ एकत्र स्थितौ यत्र। दृश–आधारे घञ्। १ सूर्य्येन्दुसङ्गमकाले अमावास्यातिथौ “एकत्रस्थौ चन्द्रसूर्य्यो दर्शनात् दर्श उच्यते” मत्स्यपु० कुहूशब्देऽस्य विवृतिः। स निमित्ततयाऽस्त्यस्य अच्। २ दर्शकालकर्त्तव्ये यागभेदे। आग्नेयाष्टापालैन्द्रदध्यैन्द्रपयोरूपयागत्रयात्मकोदर्शयागः। कातीयशब्दे तदितिकर्त्तव्यता दृश्या। “सर्वेभ्यो दर्शपौर्णमासौ” श्रुतिः भावे घञ्। दर्शने ३ चाक्षुषज्ञाने।
दर्शक = त्रि० पश्यति दृश–ण्वुल् दर्शयति दृश–णिच् ण्वुल् वा। १ द्रष्टरि २ प्रधाने ३ निपुणे मेदि०। ४ द्वारपाले पु० अमरः स हि द्वारदेशे समागतान् निवेद्य राजानं दर्शयतीति तस्य तथात्वम् ५ दर्शयितरि च। “कर्ण्णधार इवापारे भगवान् पारदर्शकः” भाग० १। १३। ३८। तुमर्थे ण्वुल्। ६ द्रष्टुमित्यर्थे। अनिमन्त्रितोन गच्छेत यज्ञं गच्छेत दर्शकः” भा० अनु० १०४ अ०। दर्शकः द्रष्टुमित्यर्थः एतद्योगेन कर्म्मणि न षष्ठीत्यतः यज्ञमित्यत्र द्वितीया।
दर्शत = पु० दृश्यतेऽसौ दिवि दृश–कर्म्मणि अतच्। १ सूर्य्ये २ चन्द्रे च सि० कौ०। ३ दर्शनीये त्रि०। “स दर्शतश्रीरतिथिर्गृहे गृहे” ऋ० १०। ९१। २। “दर्शतश्रीः दर्शनीयविभूतिः” भा०।
दर्शन = न० दृश–भावकरणादौ ल्युट्। १ नेत्रे २ स्वप्ने ३ बुद्धौ ४ धर्मे ५ दर्पणे ६ शास्त्रे मेदिनि० ७ इज्यायाम् अजयपा० ८ वर्णे त्रिकाण्ड० ९ निभालने जटाध०। दृश्यते यथार्थतया ज्ञायते पदार्थोनेन करणे ल्युट्। अध्यात्मावेदके १० शास्त्रभेदे तानि च नास्तिकवौद्धजैनवैष्णवास्तिकादिमतभेदेन नानाविधानि। तानि च सर्वदर्शनसंग्रहे तत्तन्मतप्रदर्शनावसरे दर्शितानि। तत्रास्तिकदर्शनानि षट् तत्र गौतमेन न्यायदर्शनं, कणादेन वैशेषिकं, कपिलेन साङ्ख्यं, पतञ्जलिना योगदर्शनं, जैमिनिना पूर्वमीमांसाव्यासेन वेदान्तदर्शनम् प्रणीतम्। तच्च वेदान्तदर्शनं व्यासप्रणीतमेकमपि बहुभिर्विद्वद्भिः द्वैताद्वैतविशिष्टाद्वैतशुद्धाद्वैतप्रभेदेन नानाविधं यथा बुद्धस्यैकस्योपदेशकत्वेऽपि विनेयानां बुद्धिवैचित्र्यात् स्वस्वबुद्ध्यनुमारिपदार्थकल्पनया योगाचारमा ध्यमिकादिभेदा उपज ताः। एवं वेदान्तस्यापि “षड्दर्शनानि मेऽङ्गानि पादौ कुक्षिः करौ शिरः। तेषु भेदन्तु यः कुर्यान्मदङ्गच्छेदको हि सः। एतान्येव कुलस्यापि षड ङ्गानि भवन्ति हि। तस्मान्मदात्मकं कौलमहं कौलात्मकः पिये!” तन्त्रशास्त्रम्। पदार्थभेददर्शने फलभेदो यथा
“नन्द उवाच। “येषाञ्च दर्शने! पुण्यं पापञ्च यस्य दर्शने। तत्सर्वं वद सर्वेश! श्रेतुं कौतूहलं हि मे। श्री भगवान् उवाच। सुब्राह्मणानां तीर्थानां वैष्णवानाञ्च दर्शने। देवताप्रतिमादर्शात् तीर्थस्वायी भवेन्नरः। सूर्य्यस्य दर्शने भक्त्या सतीनां दर्शने तथा। सन्न्यासिनां यती नाञ्च तथैव ब्रह्मचारिणाम्। भक्त्या गवाञ्च वह्नीनां गुरूणाञ्च विशेषतः। गजेन्द्राणाञ्च सिंहानां श्वेताश्वानां तथैव च। शूकानाञ्च पिकानाञ्च खञ्जनानां तथैत्र च। हंसानाञ्च मयूराणां चासानां शङ्खपक्षिणाम्। वत्सप्रयुक्तधेनूनामश्वत्थानां तथैव च। पतिपुत्रवतीमाञ्च नराणां तीर्थयायिनाम्। प्रदीपानां सुवर्णानां मणीनाञ्च विशेषतः। मुक्तानां हीरकाणाञ्च माणिक्यानां महाशय!। तुलसीशुक्लपुष्पाणां दर्शनं पापनाशनम्। फलानि शुक्लधान्यानि घृतं दधि मधूनि च। पूर्णकुम्भञ्च लाजांश्च राजेन्द्रं दर्पणं जलम्। मालाञ्च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः। गोरोचनाञ्च कर्पूरं रजतञ्च सरोवरम्। पुष्पोद्यानं पुष्पितञ्च दृष्ट्वा पुण्यं लभेन्नरः। देवाश्रितं देवधटं सुगन्धिपवनं तथा। शङ्खञ्च दुन्दुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः। शुक्लपक्षस्य चन्द्रस्य पीयूषं चन्दनं तथा। कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द। पुण्यं लभेन्नरः। पताकामक्षयवट तरुं देवोत्थितं शुभम्। देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः। शुक्तिं प्रबालं रजतं स्फाटिकं कुशम्लकभ्। गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः। पुराण पुस्तकं शुद्धं सवीजं विष्णुयन्त्रकम्। स्निग्धदूर्वाक्षतं रत्नं दृष्ट्वा पुण्यं लभेन्नरः। तपस्विनं सिद्धमन्त्रं समुद्रं कृष्णमारकम्। यज्ञं महोत्सवं दृष्ट्वा सुपुण्यं लभते नरः। गोभूत्रं गेमयं दुग्धं गोधूलिं गोष्ठ गोस्पदम्। पक्वशस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेन्नरः। रुचिरां पद्मिनीं श्यामां न्यग्रोवपरिमण्डलाम्। सुवेशिकां सुवसनां दिव्यभूषणभूषिताम्। वेश्यां क्षेमङ्करीं गन्धं सदूर्वाक्षततण्डुलम्। सिद्धान्नं परमान्नञ्च दृष्ट्वा पुण्यं लभेद्ध्रुवम्। कार्त्तिक्यां पूर्णिमायाञ्च णधिकाप्रतिमां शुभाम्। संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम्। हिङ्गुलायां तथाष्टम्यामिषे मासि सिते शुभे। श्रीदुर्गाप्र तमां दृष्ट्वा करोति जन्मखण्डनम्। शिवरात्रौ च काश्याञ्च विश्वनाथस्य दर्शनम्। कृत्वोपवासं पूजाञ्च करोति जन्मखण्डनम्। जन्माष्टमीदिने भक्तो दृष्ट्वा मां विन्ध्यमाधयम्। प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम् उपोव्य व्रजभूमौ। च भाण्डीरे मालतीवने। संपूज्य राधां मां चैव करोति जन्मखण्डनम्। पौषे मासि शुक्लरात्रौ यत्र तत्र स्थले नरः। पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम्। सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः। उपोष्यैकादशीं स्रात्वा प्रभाते द्वादशीदिने। द्वष्ट्वा काश्यामन्नपूर्णाकरोति जन्मखण्डनम्। दत्त्वा विष्णुपदे पिण्डं विष्णुं यश्च विलोकयेत्। पितॄणां स्वात्मनश्चैव करोति जन्मखण्डनम्। प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्वयेत्। उपोव्य नैमिपारण्ये करोति जन्मखण्डनम्। ष्टपोषप्र पुष्करे स्नात्वा किं वा वदरिकाश्रमे। संपूज्य दृष्ट्वा मामेव करोति जन्मखण्डनम्। सिद्धां कृत्वा च वदरीं भुङ्क्ते वदरिकाश्रमे। दृष्ट्वा मत्प्रतिषां नन्द! करोति जन्मखण्डनम्। दोलायमानं गोविन्दं दृष्ट्वा वृन्दावने च माम्। दृष्ट्वा सपूज्य नत्वा च करोति जन्मखण्डनम्। भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम्। संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम्। रथस्थञ्च जगन्नाथं यो द्रक्ष्यति कलौ नरः। संपूज्य भक्त्या नत्वा च करोति जन्मखण्डनम्। उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत्। संपूज्य दृष्ट्वा मामेव करोति जन्मखण्डनम्। कार्त्तिक्यां पूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमां शुभाम्। उपोष्य पूजां कृत्वा च करोति जन्मखण्डनम्। चन्द्रभागासमीपे च माध्याञ्च मां नमेत् शनैः। राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम्। रामेश्वरं सेतुबन्धे आषाढपूर्णिमादिने। उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम्। दीननाथं दिनकरं लोलार्के चोत्तरायणे। उपोष्य दृष्ट्वा मंपूज्य करोति जन्मनः क्षयम्। ऋषिकोष्ठे सुवसने कलविङ्के सुगह्वरे। विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके। पार्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम्। नन्दिनं शङ्करं दृष्ट्वा करोति जन्मनः क्षयम्। त्रिकूटे मणिभद्रे च पश्चिमोदधिसन्निधौ। समुपोष्य दधि प्राश्य मां दृष्ट्वा मुक्तिमाप्नुयात्” ब्रह्म० वे० जन्म० ख०। शकुनभेददर्शने फलभेदः शकुनशब्दे दृश्यम्।
दर्शनप्रतिभू = पु० दर्शनाय प्रतिभूः। प्रतिभूभेदे “दर्शने प्रातिमाव्ये च विधिः स्यात् पूर्वचोदितः” “यो यस्य प्रतिभूस्तिष्ठेत् दर्शनायेह मानवः। अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनादृणम्” मनुः। वीरमि० विस्तरेण तद्विधिरुक्तो यथा
“अथ प्रतिभूः तत्र प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः। तद्भेदानाह वृहस्पतिः “दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा। चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः”। प्रत्ययो विश्वासः दानम् ऋणापाकरणार्थमर्थार्पणम्। ऋणिद्रव्यार्पणम् ऋणिनो यद्द्रव्यं गृहोपकरणादि तदर्पणम्। चतुःप्रकाराणां प्रतिभुवां प्रातिभाव्याङ्गीकारप्रकारं दर्शयति स एव “आहैको दर्शयामीति साधुरित्यपरोऽब्रवीत्। दाताहमेतद्द्रविणमर्पयाम्यपरोऽब्रवीत्”। एको दर्शनप्रतिभरहमेनं मकायमप्रवृनं दर्शयि- व्यामीत्याह। अपरः प्रत्ययप्रतिभूरेषः साधुर्न त्वां प्रतारयिष्यति यतोऽयं श्रेत्रियपुत्रोऽस्य सर्वशस्यसम्पन्नो ग्रामोऽस्ति मत्प्रत्ययेनास्य द्रव्यं देहीति ब्रवीति। दानप्रतिभूर्यद्ययं न ददाति तदा सवृद्धिकमृणमह दातेति। अपरः ऋणिद्रव्यार्पणप्रतिभूयद्ययं न ददाति तदाहमेतदीयगृहोपकरणादिकमर्षयिष्यामीति कथयतीत्यर्थः। दर्शनप्रतिभुवा यदा धनिकस्य धारणिकदर्शनापेक्षा तदैव स दर्शनीयः इत्याह कात्यायनः “दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत्”। यस्मिन् देशे काले च धनिकस्तद्दर्शनमपेक्षते तत्रैव दर्शयेत् अधमर्णमिति शेषः। दर्शिते च तस्मिन् धनिकेन प्रातिमाव्यात् स मो क्तव्य इत्युत्तरार्द्धेनाह स एव। “यद्यसौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर्भवेत्”। एवं प्रत्ययादिप्रतिभुवोऽपि तदविसंवादे मोक्तव्याः, अन्यथा धारणिकन्देयं धनं दाप्या इत्याहतुः कात्यायनवृहस्पती “यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः। अदर्शयन् स तन्तस्मै प्रयच्छेत् स्वधनादृणम्। आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम्। उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा”। यत्तु योगीश्वरेण प्रतिभुवान्त्रैविध्यमेवोक्तम। “दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते” तद्दानार्पणयोरनतिभेदाभिप्रायेण। “आद्यौ तु वितथे दाप्या वितरस्य सुता अपि”। वितथे दर्शनप्रत्यये विसंवादे इतरस्य सुता न दाप्याः। सुता इत्यभिधानान्न पौत्रा इत्युक्तम्भवति दानं स्वधनार्पणं धनिकाय। अर्पणन्तु धारणिकधनमानीय तस्य अर्पणं धनिकस्य स्वधनलाभे उभयतो न विशेषः अतएव सूक्ष्मभेदविवक्षया पञ्चप्रकारा अपि प्रतिभुवो हारीतेनोक्ताः। “अमये प्रत्यये दाने उपस्थाने प्रदर्शने। पञ्चस्वेषु प्रकारेषु ग्राह्यो हि प्रतिभूर्वुधैः” अभयमुपद्रववारणम्। उपस्थानमत्र धारणिकधनस्य धनिकायानीयार्पणं न दर्शन तस्य पृथङ्निर्देशात् पञ्चस्वित्यनन्वयाच्च। व्यासस्त सप्तभिर्विषयैः सप्तप्रकारं प्रतिभुवमाह। “लेख्ये कृते च दिव्ये वा दानप्रत्ययदर्शने। गृहीतबन्धोपस्थाने ऋणिद्रव्यार्पणे तथा”। प्रतिभूर्ग्राह्य इत्यत्र प्रकृतम्। कात्यायनोऽपि “दानोपस्थानवादेषु विश्वासशपथाय च। लग्नकङ्कारयेदेवं यथायोग्यं विपर्यये”। वादोविवादस्तत्र प्रतिभूग्रहणम्। “उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णय” इति। योगीश्वरेणाप्युक्तन्तच्च प्रागेव व्याख्या- तम्। दर्शनप्रत्ययदानेषु यथायथं सर्वेषामन्तर्भावसम्भव इति परमार्थः। दर्शनप्रतिभुवे नष्टधारणिकान्वेषणाय कालावधिर्देय इत्याह। वृहस्पतिः “नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी। देशानुरूपतः पक्षं मासं ञ्चार्द्धमथापि वा”। सार्द्धमासमिति परमावधिः। तथा च कात्यायनः “नष्टस्मान्वेषणार्थन्तु देयं पक्षत्रयं परम्। यद्यश्चो दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत्। काले प्रतीते प्रतिभूर्यदि तं नैव दर्शयेत्। स तमर्थं प्रदाप्यः स्यात् प्रेते चैष विधिः स्मृतः”। परं परमावधिभूतम्। प्रतीतेऽन्वेषणाय परिकल्पिते, प्रेते क्षैष विधिरिति धारणिके मृते प्रतिभूस्तमर्थं प्रदाप्य इति विधिः कालावधिविधेस्तत्रान्ययवाधात्। एतदपि दैवराजकृतप्रतिबन्धाभावे बोध्यम्। अतएव कात्यायनः “दर्शनप्रतिभूर्यत्र देशे काले न दर्शयेत्। निबन्धमाबहेत्तत्र दैवराजकृतादृते”। निबन्धमृणम्। दैवकृतो दीर्घरोगमरणादिरूप ऋणदानप्रतिबन्धः। राजकृतो बन्धनासेधदण्डादिरूपः। प्रतिभूभेदेन स्पष्टमाह नारदः “ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वाथ हापिते। प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथेति”। ऋणिष्यधर्मर्णेष्वप्रतिकुर्वत्स्वसाध्येषु निर्डनत्वादिना ऋणमप्रत्यर्पयत्स्विति दानप्रतिभूविषयम्। पत्यये विश्वासे हापिते विसंवादिते इति प्रत्ययप्रतिभूविषयम्। अनुपस्थापयन्नृणिनमदर्शयन्नृणिनः सकाशादाधिमृणं पर्याप्तं तद्धनं वोत्तमर्णायानर्पयन्निति दर्शनद्रव्यार्पणप्रतिभूविषयमिति विवेकः”।
दर्शनीय = त्रि० दृश–कर्म्मणि अर्हादौ वा अनीयर। १ मनोहरे, २ दर्शनयोग्ये च धरणिः। “दर्शनीयतमो नृणामिदं वचनमब्रवीत्” भा० स० ७५ अ०।
दर्शप = पु० दर्शेन दर्शनेन पिबन्ति पा–क। दर्शनमात्रेण पातृषु देवेषु “न वै देवा अश्रति पिवन्ति एतदेवामृतं दृष्ट्वा तृष्यन्ति” छा० उ० दर्शनमात्रेण तेषां तृप्तिहेतुपानसम्भवस्योक्तेस्तथात्वम्। “शुद्धाश्च निर्म्माणरताख्यदेवाः स्पर्शाशना दर्शपा आज्यपाश्च” भा० अनु० १६ अ०।
दर्शयामिनी = स्त्री दर्शस्येव यामिनी। अन्धकारयुक्तायां रात्रौ हेमच०।
दर्शयितृ = त्रि० दृश–णिच्–तृच्। १ दर्शनकारके दर्शके “पथः श्रुतेर्दर्शयितारः ईश्वराः” रघुः २ प्रतीहारे द्वारपाले पु०
दर्शविपद = पु० दर्शे अमावास्यायां विपद् नाशोऽदर्शनमस्य। चन्द्रे त्रिका०।
दर्शित = त्रि० दृश–णिच्–क्त। १ प्रकटिते २ प्रकाशिते ३ प्रतिपादिते च हेमच०।
दर्शिन् = त्रि० दृश–णिनि। १ द्रष्टरि २ विवेचके ३ साक्षात्कारके च। “तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः” कुमा०। “तस्यै मुनिर्दोहदलिङ्गदर्शी” रघुः। मन्त्रदर्शिभिरुच्यते” मनुः। स्त्रियां ङीप्। प्रतीपदर्शिनी।
दर्शिवन् = त्रि० दृश–“अन्येऽपि दृश्यन्ते” इति पा० इवनिप्। द्रष्टरि। “कुरूणां पाण्डवानां च भवान् प्रत्यक्षदर्शिवान्” भा० आ० ६ अ०। “अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवम्” सू० सि०। “अत्र दर्शिवस्” इति शब्दकल्पनमतीव प्रामादिकम्।
दल = भेदे भ्वा–पर० अक० भेदने सक० सेट्। दलति अदालीत् णिचि वा घटा० दलयति दालयति। ददाल देलतुः दलितः। दला “ददाल भूर्नभोरक्तं गोष्पदप्रं बवर्ष च” “ददाल भूः पुपूरे द्यौः कपीनामपि निखनैः” “अदालिषुः शिलादेहे चूर्ण्यभूवन् महाद्रुमाः” भट्टिः “दलति शतधा यन्न हृदयम्” अमरु०।
दल = भेदने चुरा० उभ० सक० सेट्। दालयति–ते अदीदलत् त। “मुष्टिनाऽदालयत्तस्य” “दालयत्यष्टौ कुलक्ष्माभृतः” अनर्घरा०। भेदश्चेह द्विधाकरणं विकमनञ्च तत्रविकसने। “दरविदलितमल्लीवल्लिचञ्चत्परागे” गीतगो०।
दल = न० दल–अच् १ उत्सेधे २ खण्डे ३ पत्रे च्छदे मेदि०। ४ घने शब्दर० ५ तमालपत्रे राजनि० ६ अर्द्धे लीलावतो “प्राप्तापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा” मनुः “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः” रघुः “वापीष्वन्तलीनमहानोलदलासु” माघः। “अङ्घ्रिः स्वत्र्यंशयुक्तः सनिजदलयुतः कीदृशः कीदृशोऽसौ” लीला०।
दलकोष = पु० दलान्थेव कोषो यस्य। कुन्दपुष्पवृक्षे शब्दमा०। तस्य पुष्पे कोषान्तराभावात् तथात्वम्
दलतृ = त्रि० दल–बा अतृन्। द्विधाकारके। तेन निर्वृत्त अरी० वुञ्। दालितृक तन्निर्वृत्तादौ त्रि०।
दलनिर्मोक = पु० दलतीति दलं वल्कलं निर्मोक इव यस्य भूर्ज्जपत्रवृक्षे शब्दमाला। तस्य हि वल्कलस्य निर्मोक कारत्वात्तथात्वम्।
दलन = न० दल–करणे ल्युट्। १ दलनकारणे (डेला) २ लोष्ट्रे स्त्री० ङीप् रत्नावली। तथाभूतस्त्रियां स्त्री “प्रति पक्षपक्षदलनी” विद्वन्मनो०।
दलप = न० दल–कपन्। १ प्रहरणे उज्ज्वलद०। २ विदारकमात्रे त्रि० ३ स्वर्णे उणादि०। दलं पाति पा–क। ४ दलपतो दलाधिपदलपत्यादयोऽप्यत्र पु०।
दलपुष्पा = स्त्री दल इव पुष्पमस्याः। केतक्याम् राजनि०। सा हि दलाकार पुष्पा”
दल(मा)शाली = स्त्री दलेन मलति सम्बध्नाति मल–णिनि शलते शल–णिनि वा। कञ्चुकशाके पारस्करनि०।
दलसारिणी = स्त्री दले पत्रे सारोऽस्त्यस्या इनि। केमुके रत्नमा०
दलसूचि(ची) = स्त्री दलस्य सूचिरिव। कण्टके हारा०।
दलस्नसा = स्त्री ६ त०। पत्नसिरायाम् हेमत्न०।
दलाढक = पु० दलेनाढक इव। १ स्वयंजाततिलवृक्षे, २ पृश्न्याम्, ३ गैरिके ४ फेने, ५ खातके, ६ नागकेशरे, ७ महत्तरे, मेदि० ८ कुन्दे, ९ करिकर्णे, १० शिरीषे, ११ वात्यायाञ्च हेमच०।
दलाढ्य = पु० दलेन द्वैधेनाढ्यः। पङ्ककर्वटे (दलदलिया) कर्दमभेदे त्रिका०।
दलामल = न० दलेनामलम्। १ मरुवके मेदि०। २ मदनवृक्षे ३ दमनवृक्षे च पु० शब्दर०।
दलाम्ल = न० दलेनाम्लम्। चुक्रे (चुकापालङ्ग) राजनि०।
दलि = स्त्री दल–इन्। १ लोष्ट्रे उज्ज्वल० तत्रार्थे पुंस्त्री रन्तिदेवः। संज्ञायां कन्। दलिक ३ काष्ठे हेमच०।
दलित = त्रि० दल–क्त। १ विकशिते। २ खण्डिते ३ अर्द्धीकृते। “व्येका दलिता विभाजितेष्टेन” “दलिता बाधे तयोः स्याताम्” लीला०।
दलिन् = त्रि० दल–सुखा० मत्वर्थे इनि। दलयुक्ते स्त्रियां ङीप्।
दलेगन्धि = पु० दले गग्धो यस्याः इत् समा० सप्तम्या अलुक्। सप्तच्छदवृक्षे (छातिम गाछ) त्रिका०।
दलोद्भव = त्रि० दलादुद्भवति उद् + भू–अच् ५ त०। दलजाते २ मधुभेदे न०। “छर्द्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम्” सुश्रु०।
दल्भ = पु० दल–भ। १ ऋषिभेदे २ चक्रे च उज्ज्वल० ततो० गर्गा० अपत्ये घञ्। दाल्भ्य तदपत्ये पुंस्त्री। “तेन तं ह वको दाल्भ्यो विदाञ्चकार” छान्दो०।
दल्मि = पु० दल–मि। १ इन्द्रे २ वज्रे उज्ज्वलद०। ततो मत्वर्थे मतुप् यवादि० मोपकत्वेऽपि न मस्य वः। दल्मिमत् वज्रयुक्ते इन्द्रे।
दल्य = त्रि० दलस्यादूरदेशादि दल + चतुरर्थ्यां बला० य। दलस्यादूरदेशादौ।
दव = गतौ भ्वा० पर० सक० सेट् इदित्। दन्वति अदन्वीत्। ददन्व। क्विपि दन्।
दव = पु० दुनोति दु–अच्। १ वने, २ वनानले च अमरः। भावे अप्। ३ उपतापे। “अतिमात्रं दववद्दहन्नमि” माघः।
दवथु = पु० दु–उपतापे भावे अथुच्। उपतापे। “स दवथु वपुर्वचोविषम्” माघः “केचिद्वेपथुमासेदुरल्यो दवथु- मुत्तमम्” भट्टिः।
दवदग्धक = न० दवेन दग्धं सत् कायति प्रकाशते कै–क। रोहिषतृणे राजनि०।
दवदहन = पु० दवजातो वनजातो दहनः। दावानले। “सरःसव्येऽसव्ये दवदहनदाहव्यतिकरः” उद्भटः। “किञ्चात्मजविश्लेषज्वरदवदहनशिखाभिः” भाग० ५। ८। २७ श्लो“दवाग्निप्रभृतयोऽप्यत्र “शशाम वृष्ट्यापि विना दवाग्निः रघुः।
दवि = दूरीकरोति दूर + णिच्–स्थूलदूरेत्यादिना दवादेशः नामधातुः दूरीकरणे सक० सेट्। दवयति अदी(द)दवत्। “दवयदतिरयेण प्राप्तमुर्वीविभागम्” भट्टिः।
दविष्ठ = त्रि० इदमेषामतिशयेन दूरम् इष्ठन् दवादेशः। दूरतमे। ईयसुन् दवीयस् तत्रार्थे त्रि० “तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते” माघः स्त्रियां ङीप्। “नैव मुक्तिरपि दवीयसी” किरा०।
दश = दीप्तौ चु० उभ० अक० सेट् इदित्। दंशयति–ते अददंशत्–त।
दश = दंशने चुरा० आत्म० सक० सेट् इदित्। दंशयते अददंशत
दशक = न० दश परिमाणमस्य कन्। दशति, दशसङ्ख्याम्।
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्”। “मृगयाऽक्षो दिवास्वप्नः परीवादः स्त्रियो मदः। तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः” मनुः।
दशकण्ठ = पु० दश कण्टा यस्य। १ रावणे हेमच०।
दशकण्ठजित् = पु० दशकण्ठं जयति जि–क्विप्। १ रामे त्रिका०। दशकण्ठारिप्रभृतयोऽप्यत्र “दशकण्ठारिगुरु विदुर्बुधाः” रघुः।
दशकन्धर = पु० दश कन्धरा यस्य। रावणे हेमच०। पृषो० रलोपे दशकन्धोऽप्यत्र “दशकन्धराजसून्योस्तथा युद्ध मभून्महत्” भा० व० २८९ अ०।
दशकन्धरजित् = पु० दशकन्धरं जयति जि–क्विप्। रामे चिका०।
दशकर्म्मन् = न० दशविधम् कर्म्म। गर्भाधानादिश्मशानान्ते दशविधे संस्कारकर्म्मणि। दशकर्म्मपद्धत्यादौ तद्विवृतिर्दृश्या।
दशकुलवृक्ष = पु० दशगुणितः कुलवृक्षः संज्ञात्वात् कर्मधा० वा व० ब०। तन्त्रोक्ते कुलवृक्षदशके कुलवृक्षदशकं च तन्त्रसारोक्तं यथा “श्लेष्मातकः करञ्जश्च विल्वाश्वत्यकदम्बकाः। निम्बो वटोदुम्बरौ च धात्री चिञ्चा दश स्मृताः” “साधकः प्रातरुत्थाय कुलवृक्षं प्रणम्य च”।
दशक्षीर = व० दशविधं क्षीरम्। नृगीगर्द्दभीक्षीरसहिते “गव्यनाजं तथा चौष्ट्रप्ताविकं माहिषञ्च यत्। अश्वायाश्चैव नार्य्याश्च करेणूनां तथैव च” इत्युक्ताष्टविधक्षीररूपे क्षीरदशके “पुनः पचेत् दशक्षीरं सितामधुकचन्दनौं सुश्रुतः।
दशग्रामपति = पु० दशानां ग्रामाणां पतिः उत्तरपदद्विगुः। दशग्रामाध्यक्षे। तन्नियोगादि मनुनोक्तं यथा
“ग्रामस्याधिपतिं कुर्य्यात् दशग्रामपतिं तथा। विंशतीशं शतेशञ्च सहस्रपतिमेव च। ग्रामे दोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्। शंसेद्ग्रामदशेशाय दशेशो विंशतीशिनम्। विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत्। शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्। यानि रजिप्रदेयानि प्रत्यहं ग्रामवासिभिः। अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्। दशी कुलन्तु भुञ्जीत विंशी पञ्चकुलानि च। ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्। तेषां ग्राम्याणि कार्य्याणि पृथक् कार्य्याणि चैव हि। राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः”।
दशग्रामिक = त्रि० दश ग्रामा अधिकृतत्थेन सन्त्यस्य ठन्। तस्यादूरदेशादि कच्छ्वा० चतुरर्थ्यां ष्ठच् वा। १ दशग्रामाधिपे २ तस्यादूरदेशादौ। स्त्रियां ङीष् चतुरर्थान् काश्या० ठञ् ञिठो वा। दाशग्रामिक तस्यादूरदेशादौ त्रि० ठञि स्त्रियां ङीप् ञिठे टाप् इति भेदः।
दशग्रामिन् = पु० दश ग्रामा अधिकृतत्वेन सन्त्यस्य इनि। दशग्रामाधिपतौ। “स्वसीम्नि दद्यात् ग्रामस्तु पदं वा यत्र गच्छति। पञ्चग्रामी बहिः कोशात् दशग्राम्यथ वा पुनः” याज्ञ०।
दशग्रीव = पु० दश ग्रीवा अस। १ रावणे।
“पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ। कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि”। “दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः। महोत्साहो महावीर्य्यो महासत्त्वपराक्रमः” भा० व० २७४ अ०। २ असुरविशेषे “दशग्रीवश्च वाली च मेघवासा दशारवः। टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः” भा० व० ९ अ०। ३ दमघोषस्य पुत्रभेदे। “शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली। सर्वास्त्रकुशला वीरा वीर्य्यवन्तो महाबलाः” हरिवं० ११७ अ०। ४ एकादशमन्वन्तरीयेन्द्रशत्रुभेदे तदुपक्रमे गरु० पु० ८७ अ० “एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृथः। दशग्रीवो रिपस्तस्य स्त्रोकपी घातयिष्यति”।
दशज्योति(स्) = पु० सुभ्राजः पुत्रभेदे। “सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः। दशज्योतिः शतज्यीतिः सहस्वज्योतिरेव च। दशपुत्रसहस्नाणि दशज्योतेर्महात्मनः” भा० आ० १ अ०।
दशत् = स्त्री दश परिमाणमस्य अति। दशानां वर्गे–दशके दशसङ्ख्यायाम्। “स वै दक्षिणा नयन्।। अन्यूना दशतो नयेद्यस्मा एकां दास्यन्त स्याद्दशभ्यस्तेभ्यो दशतमुपावर्त्तयेद्यस्मै द्वे दास्यन्त स्यात् पञ्चभ्यस्तेभ्यो दशतमुपावर्त्तयेद्यस्मै तिस्रो दास्यन्त स्यात्त्रिभ्यस्तेभ्यो दशतमुपावर्त्तयेद्यस्मै पञ्च दास्यन्त स्याद्द्वाभ्यो तभ्यां दशतमुपार्त्तये देवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिं लोके कामदुघा भवति” शतब्रा० ४। ५। ८। १६। “या प्रथमा दशदयं स लोको या द्वितीयान्तरिक्षं तद्या तृतीया द्यौः सेममेव लोकं प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवं तृतीयया तथैवैतद्यजमान इममेव लोक प्रथमया दशता रोहत्यन्तरिक्षं द्वितीयया दिवं तृतीयया” ८। ५। २। १५। “एकादश दशत आलभते। एकादशाक्षरा वै वीर्य्यं त्रिष्टुबिन्द्रियस्यैव वीर्य्यस्यावरुद्ध्या एकादश दशत आलभते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेव पशून्त्समर्द्धयति” शत० ब्रा० १३। २। ५। ४।
दशतय = त्रि० दशावयवा यस्य दशानामवयवा वा संख्यायाः अवयवे तयप्। १ दशसंख्यायां २ तत्संख्यान्विते त्रि० स्त्रियां ङीप्। “अथास्य संस्तविका देवा इन्द्रः सोमो वरुणः पर्जन्य ऋतव आग्नावैष्णवं हविर्न त्वक्संस्तविकी दशतयीषु विद्यते” निरु० ७। ८। “तदेकमेव जातवेदसं गायत्रं तृचं दशतयीषु विद्यते” २०।
दशति = स्त्री दशावृत्ता दश नि०। दशावृत्तदशके शतसंख्यायां “कालेन महता कद्रुरण्डानां दशतीर्दश। जनयामास विप्रेन्द्र!” भा० आ० १६ अ०। यथा “दशावृत्ता नव नवतिः तथा दशावृत्ता दश दशतिः शतमित्यर्थः। दश दशतीर्दशशतानीत्यर्थः नीलक०। तत्संख्यायाञ्च “ओङ्कारस्याथ जायन्ते सृतयो दशतिर्दश” भा० उ० १०७ अ०
दशदशिन् = त्रि० दशावृत्ता दश परिमाणमस्य डिनि। शतगुणिते स्त्रियां ङीप्।
दशधर्म्म = पु० दशविधो घर्मः। सर्ववर्णसाधारणे मनूक्ते धर्मभेदे दशकशब्दे दृश्यम्।
दशधा = अव्य० दशानां प्रकारः धाच्। दशप्रकारे “गायत्रीं दशधप जप्त्वा ततः सन्ध्यां समाचरेत्” मल० त०। “मृते षर्वं रिक्तजातं दशधा परिकल्प्य च” मनुः।
दशन् = त्रि० दत्श बा०–कनिन्। संख्याविशेषे १ द्विगुणितपञ्चके २ तत्संख्यान्विते च। तत्संख्यावाचकाश्च एकादिशब्दे उक्ताः “दिशा दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि। दशैव मासान् विभ्रति गर्भवत्यो दशैरेका दश दाशा दशार्हाः” भा० व० १३४ अ०। आसमन्तादी रयन्ति उपदिशन्ति एरका उपदेष्टारः दशोपनिषदां प्राधान्येन दशत्वात् तत्प्रतिपाद्योपदेशकत्बेन तेषां दशत्वम्।
दशन = न० दश्यतेऽनेन वा दन्श–भाषे करणादौ वा ल्युट् नि० नलोपः। १ कवचे वर्मणि २ शिखरे पु० मेदि०। ३ दन्ते पुंन० अमरः। “वभौ सदशनज्योत्स्ना सा विभोर्वदनीद्भवा” रघुः। “तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः। “ताम्बूलाक्तं दशनमसकृत् दर्शयन्तीह चेटी” सा० द०।
दशनच्छद = पु० दशनान् दन्तान् छादयति छादि–घञ् ह्रस्वः। ओष्ठे “दशन्तो दशनच्छदान्” भा० आ० १०२ अ०।
दशनपद = न० दशनस्य दशनक्षतस्य पदम्। दशनक्षतस्थाने तदङ्के “दशनपदं भवदधरगतं मम जनयति चेतसि खेदम्” गीतगो०
दशनवासस् = न० दशनस्य वास इवाच्छादकत्वात्। ओष्ठमात्रे अमरः।
दशनवीज = पु० दशन इव वीजमस्य। दाडिमीवृक्षे पारस्करनि०
दशनाङ्क = पु० ६ त०। दशनक्षते।
दशनाढ्या = स्त्री दशन आढ्यी यस्याः सेवनात्। चुक्रिकायां (चुकापालङ) शब्दच०।
दशनोच्छिष्ट = न० दशनेनोच्छिष्टं यत्र। अधरादिचुम्बने “रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ” माघः। २ निश्वासे पु० ६ त०। ३ दन्तोच्छिष्टे त्रि० मेदि०।
दशप = पु० दश ग्रामान् पाति रक्षति पा–क। दशग्रामी रक्षके राजनियुक्ते पुरुषभेदे। तन्नियोगादिकं भा० शा० ८७ अ० उक्तं यथा
“ग्रामस्याधिपतिः कार्य्यो दशग्राम्यास्तथाऽपरः। द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्। ग्रामेयान् ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत्। तान् ब्रूयाद्दशपायासौ स तु विंशतिपाय वै। सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने। ग्रामाणां शतपालाय सर्वमेव निवेदयेत्। यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्नीयात्। दशपस्तेन भर्त्तव्यस्तेनापि द्विगुणाधिपः। ग्र मं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः। महान्तं भातश्रेष्ठ! सुस्फीतं जनसङ्कुलम्। तत्र ह्यनेकपायत्तं राज्ञो मवति भारत!। शाखानगरमर्हस्तु सहस्रपतिरुत्तम। धान्यं हिरण्यं भोगेन भोक्तुं राष्ट्रीयसङ्गतः। तेषां संग्रामकृत्यं स्याद् ग्रामकृत्यञ्च तेषु यत्। षर्भज्ञः सचिवः कश्चित्तत् प्रपश्येदतन्द्रितः”।
दशपञ्चतपस् = पु० दशसु इन्द्रियेषु पञ्चसु वह्निषु च तपो यस्य। इन्द्रियजयपूर्वकपञ्चाग्नितपश्चारिणि। “अब्भक्षो वायुभक्षश्च दन्तोलूखनिकस्तथा। अश्मकुट्टो निरशनः दशपञ्चतपाश्च यः” हरिवं० ४५ अ०।
दशपारमिताध्वर = पु० दशभिर्बलैः पारमितोऽध्वरो येन। बुद्धे। हेमच०
दशपुर = न० दश दिशः पिपर्त्ति पॄ–क। १ कैवर्त्तीमुस्तके अमरः। दश पुरो यत्र अच् समा०। २ मालवदेशैकखण्डे मेदि० स च देशः वृ० सं० १४ अ० अथ दक्षिणेन लङ्केत्युपक्रमे “दशपुरगोनर्द्धकोलकाः” दक्षिणस्यामुक्तः। “पात्रीकुर्वद् दशपुरवधूनेत्रकौतूहलानाम्” माघः
दशपुरुष = पु० दशगुणितः पुरुषः। स्वजनकावधिपुरुषदशके। “यो मातृतः पितृतश्च दशपुरुषं समनुष्ठिता विद्यातपोभ्यां पुण्यैश्च कर्मभिर्येपामुभयतो नाब्राह्मण्यं निनयेयुः” आश्व० श्रौ० ९। ३। २०। “येषां मातृतः पितृतश्चोभयतो ये दशपूर्वाः पुरुषाः ते विद्यया तपसा पुण्यैः प्रतिषिद्धवर्जितैश्च युक्ताः सम्यगनुष्ठितवन्तो वैदिकं पन्थानम्, अपि च अव्राह्मण्यं न निनयेयुः निश्चयेना ब्राह्मण्यं न गमयेयुः। अब्राह्मण्यगमनं नाम शूद्रायामपत्योत्पादनमित्युच्यते। विद्या नाम षडङ्गो वेदः, तदर्थज्ञानश्च। तपो नाम श्रौतस्मार्त्तकर्मानुष्ठानम्। पुण्यकर्म नाम प्रतिषिद्धवर्जनम्। तानेवंविधान् पुरुषाननुप्रसर्पयेयुः, एतदुक्तं भवति मातृतः पितृतश्चोभयतः पूर्वं दश ये पुरुषाः ते षडङ्गवेदाध्ययनेन तदर्थज्ञानेन च श्रौतस्मार्त्तकर्मानुष्ठानेन च प्रतिषिद्धवर्जितेन च युक्ताः शूद्रायामपत्योत्पादनं चाकृतवन्तो ये पुरुषा तानेवंविधान् पुरुषाननुप्रसर्पयेयुः। दशपुरुषमिति दशपुरुषा इत्यर्थः। नारा०। “मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः” भा० अनु० ९० अ० “दशपुरुषविख्यातश्रोत्रियाणां महाकुलम्” स्मृतिः।
दशपूर = न० दश दिशः पूरयति पूर–अण्। कैवर्त्तीमुस्तके अमरे पाठान्तरम्।
दशपेय = पु० दशभिः पुरुषैश्चमसंपेयमत्र। यागभेदे। “संसृपेष्टिभिश्चरित्वा दशपेयेन यजेत” आश्व० श्रौ० ९। २। १७। “संसृपेष्टयो नाम सप्तेष्टयः आग्नेयादयः ताभिः सप्ताहं चरित्वा दशपेयेन यजेत। दशपेयो नाम यज्ञ- क्रतुः” नारा०। “तत्र दश दशैकैकं चमसं भक्षयेयुः” १८ “तत्र दशपेये एकैकं चमसं दशपुरुषा भक्षयन्ति” नारा०।
दशबल = पु० दश बलानि यस्य। वुद्धदेवे अमरः तानि च बलानि “दानशीलक्षमावीर्य्यष्यानप्रज्ञाबलानि च। उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै”।
दशबाहु = स्त्री दश बाहवोऽस्याः। दशभुजायां दुर्गायाम्। दशबाहुयुक्ते त्रि०
दशभुजा = स्त्री दश भुजा अस्याः। दुर्गायां “इतिवृत्तं पुरा कल्पे मनोः स्वायम्भुवेऽन्तरे। आविर्भूता दशभुजा देवी देवहिताय वै” कालिकापु० ५९ अ०।
दशभूमिग = पु० दशसु भूमिषु दानादिबलेषु गच्छति गम–ड। बुद्धे हेमच०।
दशभूमीश = पु० दशानां दानादीनां भूमीनामीशः। बुद्धे त्रिका०।
दशम = त्रि० दशानां पूरणे डटि नान्तत्वात् मट्। दशसंख्यायाः पूरणे। “दशमस्त्वमसि” वेदान्तपरिभाषा। “नवमे दशमे मासि प्रबलैः सूतिमारुतैः” याज्ञ०। “आददीताथ षड्भागं प्रनष्टाधियतान्नृपः। दशमं द्वादशं वापि सतां धर्ममनुस्मरन्”। यद्यपि स्यात्तु सत्पुत्रोऽप्यपुत्रोऽपि वा भवेत्। नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः” मनुः। स्त्रियां ङीप्। सा च “शतायुर्वे पुरुषः” इति श्रुतेः पुरुषस्यायुःकालस्य शतमंख्यकतया तस्य दशभिर्विभागे नवतेरूर्द्धं दशवर्षावच्छिन्ने २ काले पुरुषावस्थादौ स्त्री। “यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः”। “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च” मनुः। चन्द्रस्य दशमकलाक्रियारूपे तदुपलक्षिते वा काकभेदरूपे ३ तिथिभेदे स्त्री। सा च शुक्ला एकादश्या, कृष्णा तु नवम्या युता ग्राह्या। “सम्पूर्णा दशमी कार्य्या पूर्वया परयाथ वा। युक्ता न दूषिता यस्मादिति सा सर्वतो मुखी”। यथा सम्पूर्णा दोषरहिता तथा विद्धापीति विकल्पे व्यवस्थापयति विष्णुधर्मोत्तरीयम्। “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः। कृष्णपक्षे तिथिर्ग्राह्या थस्यामस्तमितो रविः”। “आरभ्य तस्यां दशमीञ्च यावत्” तिथित०। “कृष्णपक्षे दशम्यादि वर्जयित्वा चतुर्दशीम्” मनुः।
दशमभाव = पु० कर्म० जन्मवर्षादिलग्नांशविशेषानीतेषु तन्वादिद्वादशभावेषु दशमे भावे। तदानयनप्रकारो यथा। “पूर्वं नतं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम्। दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्व- परं नतं स्यात्। तत्काले सायनार्कस्य भुक्तभोग्यांशसंगुणात्। स्वोदयात् खाग्निलब्धं यत् भुक्तं भोग्यं रवेस्त्यजेत्। इष्टनाडीपलेभ्यश्च गतगम्यान्निजोदयात्। शेषं खत्र्याहतं भुक्तमशुद्धेन लवादिकम्। अशुद्धं शुद्धभे हीनयुक् तनुर्व्ययनांशकम्। एवं लङ्कोदयैर्भुक्तभोग्यं शोध्यं पलीकृतात्। पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत्”। जातकोपयोपयोगितद्भावे शुभाशुभं सर्वार्थचि० उक्तं यथा
“दशमात् प्रवृत्तिमाज्ञां कीर्त्तिं वृष्टिं प्रवासपूर्त्तादीन्। मानं कर्माजीवं जानुस्थानं च निर्दिशेद्धीमान्। कर्माधिपे हीनबले सपापे कर्मादिवैकल्यमुशन्ति तज्ज्ञाः। कर्मेशवागीशशशाङ्कपुत्रावीर्यान्विता यज्ञकरा भवन्ति। शुभग्रहैर्दृष्टिसमन्वितास्ते वीर्य्यान्विता यज्ञविशेषमाहुः। दुःस्थाः शशाङ्कात्मजजीवशुक्राः पापेक्षिताः कर्मविनाशमाहुः। नाशस्थितास्तत्र तदंशनाथास्तद्युक्तराशेरधिपाश्च नाशम्। राहौ च माने यदि वा दिनेशे भागीरथी स्नानमुशन्ति तज्जाः। माने च मीने यदि वा ससौम्ये भौमान्विते वा भविता च मुक्तिः। जलर्क्षगे पूर्णशशाङ्कजीवे ग्रानस्थिते गाङ्गजलादिपूतः। माने गुरौ शुक्रयुते च केन्द्रे खोच्चस्थिते तादृशतोयपूतः। माने धने शुक्रयुते सजीवे केन्द्रोच्चगे तादृशतोयपूतः। बुधे व्यये वा यदि वा तदीशे स्वोच्चान्विते तादृशपुष्पभाक् स्यात्। चन्द्रे तृतीये जलराशियुक्ते सौम्यान्विते तादृशपुष्पभाक् स्यात्। शुभेश्वरे केन्द्रयुते जलर्क्षे सौम्येक्षिते तादृशतोयपूतः। बुधे सजीवे यदि वा सभौमे प्राकारकृन्मण्डपगोपुरादीन्। मानस्थिते तद्गृहनाथयुक्ते करोति जीर्णोद्धरणादि तत्र। करोति कूपादितटागभूमिं कर्मेश्वरे गोपुरभागयुक्ते। मृद्वंशके वा शुभदृष्टियुक्तभाग्येश्वरेणापि निरीक्षिते वा। चन्द्रात्मजे कर्मगते तदीशे भाग्यस्थिते पापविवर्जितेऽस्मिन्। सौम्येक्षिते शोभनभावयुक्ते यज्ञस्य कर्त्ता स भवेत् तदानीम्। कर्माधिपेऽस्मिन् यदि सोमपुत्रे स्वोच्चस्थिते वा यदि धर्मराशौ। विवर्जितः स्याच्छिखिराहुपापैर्यज्ञस्य कर्त्ता स भवेत्तदानीम्। कर्माधिपे स्वोच्चगते सपापे नीचांशगे नाशगतेऽपि तस्मिन्। विघ्नो भवत्येव मखस्य तस्य क्रूरादिषष्ठांशगतेऽपि चैवम्। तुङ्गस्थिते सोमसुते तदीशे स्वोच्चान्विते सोमसुतेन दृष्टे। शुभेक्षिते वा सबुधे स्वराशौ यज्ञस्य कर्त्ता स भवेत्तदानीम्। आज्ञास्थानाधिपे सौम्ये शुभदृष्टियुतेऽपि वा। शोभनांश- गते वापि जातस्त्वाज्ञाधिपो भवेत्। आज्ञास्थानगते सूर्ये भूमिपुत्रेऽथ वा युते। केन्द्रान्विते तदीशेऽपि क्रूरामाज्ञां करोति सः। आज्ञाधिपे मन्दयुते रन्ध्रनाथेन संयुते। क्रूरांशे केन्द्रराशौ वा क्रूरामाज्ञां करोति सः। मानाधिपे केन्द्रयुते शुभयुक्तेक्षितेऽपि वा। क्रूरषष्ठांशसंयुक्ते सौम्यामाज्ञां करोति सः। राहुमन्दयुते माने रन्ध्रे राहौ ध्वजेऽपि वा। नीचस्थे धर्मभावेशे क्रूरामाज्ञां करोति सः। शशाङ्के कर्किसंयुक्ते गुरुशुक्रनिरीक्षिते। पारावतादिभागस्थे सत्कीर्त्तिसहितो भवेत्। तदीशे शुभसंयुक्ते शुभमध्यगतेऽपि वा। शुभग्रहाणासंशे वा सत्कीर्त्तिरहितो भवेत्। कान्तिस्थानाधिपे सौम्ये स्वोच्चमित्रस्ववर्गगे। सौम्यषष्ठांशके वापि सत्कीर्त्तिसहितो भवेत्। तदीशे देवलोकस्थे सिंहांशे शुभनायके। बलपूर्णे विलग्नेशे सत्कीर्त्तिसहितो भवेत्। पापग्रहाणां सम्बन्धे माननाथे बलक्षये। क्रूरषष्ठांशसंयुक्ते सत्कीर्त्तिसहितो भवेत्। अपकीर्त्तियुतो जातः कर्मस्थे च रवौ शनौ। पापांशके पापदृष्टे पापमध्यगतेऽपि तत्। शुभग्रहाणां सम्बन्धे मानतन्नायकेऽपि वा। स्वोच्चे वा स्वगृहे वापि जातो मानी दृढव्रतः। इङ्गितज्ञोऽपि मानी स्यान्माने जीवेऽथ वा शुभे। तदीशे शुभसम्बद्धे शुभमध्यगतेऽपि वा। पापे माने पापदृष्टे तदीशे नीचराशिगे। पापराश्यंशके वापि मानहीनो भवेन्नरः। मानाधिपे चरांशस्थे सञ्चारसहितो भवेत्। स्थिरांशस्थैर्य्यमुद्दिष्टं मृगयात्र द्विदेहगे। षष्ठेशे कर्मराशिस्थे कर्मेशे मन्दसंयुते। केन्द्रत्रिकोणगे वापि दासी दासान् विनिर्दिशेत्। कर्माधिपस्थांशपतौ शनिसम्बन्धसंयुते। षष्ठाधिपस्य सम्बन्धे बहुदासान् विनिर्दिशेत्। शुभग्रहेण संदृष्टे कर्मराशौ तदीश्वरे। भानुपुत्रेण वा युक्ते बहुदामान् विनिर्दिशेत्। कर्मनाथेन वा भुक्तिप्रश्ने पूर्तिं विनिर्दिशेत्। तत्र पापसमायोगे जानुदौर्वल्यमादिशेत्”।
वर्षलग्नात् दशमभावफलादिकं नील० ता० उक्तं यथा
“सबलेऽव्दपतौ खस्थे राज्यार्थसुखकीर्त्तयः। स्थानान्तराप्तिरन्यस्मिन् केन्द्रे गृहसुखाप्तयः। इत्थं वली रविः खस्थः पूर्वार्जितपदाप्तिकृत्। एकादशेऽस्मिन् सख्यं स्यान्नृपामात्यगुणोत्तमैः। रविस्थानेन्थिहा लग्ने स्वे वा राज्याप्तिसौख्यदा। नीचेऽर्के पापसंयुक्ते भूपाद्बन्धवध दिशेत्। सिंहे रविर्बली खस्थः स्थानलाभनृपा- श्रय०। स्थानान्तराधिकाराप्तिः इन्दुः सारपदे बली। खेशलग्नेशवर्षेशेत्थशालो राज्यदायकः। वर्षेशे राज्यसहमेऽर्केत्थणाले महान्नृपः। शनिस्थाने कुजः पश्यन् मुथहां पापकृन्मतः। नृपभीतिं वित्तनाशं दद्याद्दशमगो यदि। ईदृशे त्रिनवस्थेऽस्मिन् दग्धे नष्टेऽघसञ्चयः। मन्दोऽव्दपोऽधिकारी त्रिधर्मगे धर्मवृद्धिदः। तस्मिन् दग्धेऽपि नष्टे च पापकृद्धर्मनिन्दकः। ईदृशीदृक्फलं सूर्य्ये गुरावित्थं नयार्थभाक्। तत्रस्था सुस्थहा पुण्यागमपापं खलाश्रयात्। सूतौ खेशे रवौ खस्थे वर्षेमुथशिलं यदि। लग्नाधिपेन राज्याप्तिरुक्ता वीर्य्यानुमानतः। घर्मकर्माधिपौ दग्धौ धर्मराज्यक्षयावहौ”।
दशमहाविद्या = स्त्री दशावृत्ता महाविद्या। “कालो तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती तथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” इति तन्त्रोक्तेषु दशसु देवीमूर्त्तिभेदेषु।
दशमालिक = पु० १ देशभेदे २ तन्नृपे ३ तद्वासिजने च ब० व०। “तथैव रमणाश्चीनास्तथैव दशमालिकाः” भा० भी० ९ अ०।
दशमास्य = पु० दश मासान् गर्भे स्थितः यत्। दशमासान् व्याप्य गर्भे स्थिते बाले। तथाभूतस्य गर्भात् सुखनिर्गमाय पाठ्यमृक्त्रयं ऋ० दर्शितं यथा।
“यथा वातः पुष्करिर्णी समिङ्गयति सर्वतः। एवा ते गर्भ एजतु निरैतु दशमास्यः” ऋ० ५। ७८। ७। “यथा वातो यथा वनं यथा समुद्र एजति। एवा त्वं दशमास्यः सहावेहि जरायुणा” ८। “दश मासाञ्छयानः कुमारो अधिमातरि। निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि” ९। “एतदाद्यृक्त्रयं गर्भस्राविण्युपनिषत्। “एतदाद्यृक्त्रयेणासौ सप्तवध्रिः स्वयोषितः। गर्भिण्याः प्रसवायाशु स्तुतवानश्विनावृषिः”। “यथा वातः पुष्करिणों सर आदिकं सर्वतः समिङ्गगयति सम्यक् चालयति एवैवं तव गर्भ एजतु कम्पताम्। इतस्ततः सञ्चरतु। दशमास्यो दश मासान् गर्भे स्थितो निरैतु”। निर्गच्छतु “वातो यथा कम्पमानो वनं कम्पयति स्वयम्। यथा समुद्रश्चलति चाल्यते वाथ वायुना। स्थित्वा दशैव मासांस्त्वं गर्भोल्वेन सुवेष्टितः। निर्गच्छ जठरान्मातुर्जरायुजस्ततः पतेत्। दशमासानुषित्वासौ जननीजठरे सुखम्। निर्गच्छतु सुखं जीवो जननी चापि जीवतु” भा०।
दशमिन् = त्रि० तवतेरुर्द्धं दशमी साऽवस्थाभेदाऽस्त्यस्य पूरणार्थात् इनि। नवत्यूर्द्धवयस्के अतिवृद्धे अमरः।
दशमीस्थ = त्रि० दशम्यामवस्थायां तिष्ठति स्था–क। १ अतिवृद्धे दशमशब्दे उदा०। २ स्मरकृतानां कामिनां दशानां मध्ये नाशरूपां दशां प्राप्ते च दशाशब्दे दृश्यम्।
दशमुख = पु० दश मुखान्यस्य। १ रावणे “गत्वा चोर्द्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः” मेघ०। २ महाकालीरूपेदेवीभेदे स्त्रो “नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम्” महाकालीध्यानम्। तस्या दशास्यवत्त्वात्तथात्वम्। दशवदनादयोऽप्यत्र।
दशमुखरिपु = पु० ६ त०। रामे “सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्याम्” रघुः।
दशमूत्रक = न० दशानां मूत्राणां समाहारा। दशानां प्राणिनां गोमहिषाजाविहयगजखरोष्ट्रमानुषमानुषीणां मूत्रे। प्राणिभेदे तद्गुणाः सुश्रुते उक्ता यथा
“गोमूत्रं कटुतीक्ष्णोष्णं सक्षारत्वान्न वातलम्। लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित्। शूलगुल्मोदरानाहविरेकास्थापनादिषु। मूत्रप्रयोगसाध्ये च १ गव्यं मूत्रं प्रयोजयेत्। दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु। आनाहशोफयुल्मेषु पाण्डुरोगे च माहिषंम् २। कासश्वासापहं शोषकामलापाण्डुरोगनुत्। कटुतिक्तान्वितं छाग ३ मीषन्मारुतकोपनम्। कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम्। सक्षारन्तिक्तकटुकमुष्णं वातघ्नमाविकम् ४। दीपनं कटुतीक्ष्णोष्णं वातचेतोविकारनुत्। आश्वं ५ कफहरं मूत्रं कृमिददुषु शस्यते। सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम्। तीक्ष्णं क्षारे किलासे च नागं ६ मूत्रं प्रयोजयेत्। गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत्। दीपनं गार्दभं ७ मूत्रं कृमिवातकफापहम्। शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम्। अर्शोघ्नं कारभं ८ मूत्रं भानुषन्तु ९ १० विषापहम्”।
दशमूल = न० दशसंख्यकानां मूलानां समाहारः पात्रा० न वा ङीत्। चक्रदत्तोक्ते पाचनभेदे “विल्वश्यीनाकगाम्भारी पाटलागणिकारिकाः। दीपनं कफवातघ्नं पञ्चमूलमिदं महत्। शालपर्णीपृश्निपर्णीवृहतीद्वयगोक्षुरम्। वातपितहरं वृष्यं कनीयः पञ्चमूलकम्। उभयं दशमूलन्तु सन्निपातज्वरापहम्। कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते। पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम्”। अत्र वा ङीप्। दशमूलीरसे सर्पिः” चक्रद०।
दशमूलघृत = न० चक्रदत्तोक्ते ज्वरध्ने घृतभेदे।
“दशमूलीरसे सर्पिः सक्षीरे पञ्चकोलकैः। सक्षारैर्हन्ति तत्पूर्वं ज्वरकासाग्निनन्दताः। वातपित्तकफव्याधीन् प्लीहानं चापि पाण्डुताम्”। २ तत्रोक्ते कासघ्ने घृतभेदे च। “दशमूलीकषायेण भार्गीकल्कं पचेत् घृतम्। दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत्”।
दशमूलतैल = न० चव्रदत्तोक्ते बाधिर्य्यनाशके तैलभेदे।
“दशमूलीकषायेण तैलप्रस्थं विपाचयेत्। एतत्कल्कं प्रदायैव बाधिर्य्ये परमौषधम्”।
दशमूलषट्पलघृत = न० चक्रदत्तोक्ते कासादिघ्ने घृतभेदे। “दशमूलाचतुःप्रस्थे रसे प्रस्थोन्मितं हविः। सक्षारै पञ्चकोलैस्तु कल्कितं साधु साधितम्। कासहृत्पार्शशूलघ्नं हिक्काश्वासनिवर्हणम्। कल्कं षट्पलमेवात्र ग्राहयन्ति भिषग्वराः”।
दशमूलाद्यघृत = न० चक्रदत्तोक्ते कासनाशके घृतभेदे
“दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्। पुष्कराह्वशटीविल्वसुरसव्योषहिङ्गुभिः। पेयानुपानं तत् देयं कासे वातकफाधिके। श्वासरोगेषु सर्वेषु कफवातात्मकेषु च”
***