दत्तात्मन् = पु० द्वादशपुत्रान्तर्गते बुत्रभेदे “दत्तात्मा तु स्वयंदत्तः” याज्ञ०। “मातापितृविहीनस्ताभ्यां मुक्ती वा तवाहं पुत्रो भवामीति स्वयंदत्त उपनतः” मिता०। “स्वयमेव स्वात्मानमन्यस्मै दत्तवांस्तवाहं पुत्रो भवामीति स्वयमुपगतो मातापितृविहीनस्ताभ्यां त्यक्तो वा सवर्णोऽपतितः स उच्यते तथा च मनुः “मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात्। आत्मानं स्पर्शयेद्यस्तु स्वयन्दत्तस्तु स स्मृतः” इति। अकारणात् पातित्यादिकारणमन्तरेणैव दुर्भिक्षादौ पोषणाद्यसामर्थ्यादिना मातापितृभ्यान्त्यक्तः स्वतन्त्र इत्यर्थः” वी० मि०।
दत्तात्रेय = पु० दत्तसंज्ञकः आत्रेयः। योगाचार्य्ये अनुसूयागर्भजे अत्रिपुत्रे षष्ठे भगवदवतारभेदे। आत्रेयशब्दे तस्योत्पत्तिक्वथा दृश्या “षष्ठमत्रेरपत्यत्वं वृतः प्राप्नोऽनुसूयया। आन्विक्षिकीमलर्काय प्रह्लादादिभ्यः स ऊचिवान्” भाग० १। ३। १२। तेन च स्वसंहितायां योगोऽनुशिष्ठः कार्त्तवीर्य्याय च तेन वरो दत्तः कार्त्तवीर्य्यशब्दे दृश्यः।
दत्तात्रेयेश्वर = पु० काशीस्थे शिवलिङ्गभेदे “भीष्मकेशवनामासौ दत्तात्रेयेश्वराह्वयम्। दत्तात्रेयेश्वरात् पूर्वमेष आदिगदाधरः” काशीख० ३३ अ०।
दत्तानपकर्म्मन् = न० दत्तस्य न अपकर्म्म यत्र। दत्ताप्रदानिकाख्ये व्यवहारविषयभेदे।
दत्ताप्रदानिक = न० दत्तस्य असम्यक्तया दत्तत्वात् पुनराप्रदानं ग्रहणमस्त्यत्र ठन्। अष्टादशविवादान्तर्गते व्यवहारविषयभेदे तत्स्वरूपादिकं वी० मि० उक्तं यथा नारदः “दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति। दत्ताप्रदानिकं नाम व्यवहारपदं हि तदिति”। असम्यक् अशास्त्रोयमार्गाश्रयणेनेत्यर्थः। दानप्रकारस्यादेयादिभेदैश्चतुर्विधत्वमाह स एव। “अदेयमथ देयञ्च दत्तं वाऽदत्तमेव च। व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः” इति। तत्र तावद्देयस्य स्वरूपभेदानाह वृहस्पतिः “सामान्यं पुत्रदाराधिसर्वस्वन्यासयाचितम्। प्रतिश्रुतमथान्यस्य न देयं त्वष्टधा स्मृतमिति”। सामान्यं साधारणं प्रतिश्रुतं वाचादत्तम्। नारदोऽपि “अन्वाहितं याचितकमाधिः साधारणञ्च यत्। निक्षेपः पुत्रदाराश्च सर्वस्वञ्चान्वये सति। आपत्स्वपि हि कष्टासु वर्त्तमानेन देहिना। अदेयान्याहुराचार्य्या यच्चान्यस्मै प्रतिश्रुतमिति”। साधारणं बहुस्वामिकं रिक्थादिकं न त्वविभक्तस्वामिकं सुवर्णादिकं तस्या सम्मतौ देयत्वेन वक्ष्यमाणत्वात्। अत्र पुत्रदानमेक पुत्रविषयं तद्दाने सन्ततिविच्छेदप्रसङ्गात्। अतएव विष्णुः, “शुक्रशोणितसम्भवः पुरुषो मातापितृनिमित्तस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतो नत्वेकं पुत्रं दद्यात्प्रतिगृणहीयाद्वा स हि सन्तानाय पूर्वेषामिति”। अतश्च “सुतस्य सुतदाराणां वशित्वन्त्वनुशासने। विक्रये चैव दाने च वशित्वं न सुते पितुः” इत्यादीनि स्मृत्यन्तरोक्तवचनानि सुतस्यादेयत्वप्रतिपादकानि एकपुत्रविषयाणीति ज्ञेयानि। अनेकपुत्रेष्वपि मातापितृवियोगसहनक्षम एव देयः। अतएव कात्यायनः “विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः। दाराः पुत्राश्चेति” यथा दारा विक्रयं दानं वा भर्त्त्रा न नेयास्तथा मातापितृभ्यां पुत्रा अपि पितृवियोगानिच्छवो न नेया इत्यर्थ उक्तः स्मृतिचन्द्रिकायाम्। न नेयाः स्युरनिच्छव इत्येतदनापद्विषयम्। “आपत्काले तु कर्त्तव्यं दानं विक्रयमेव वा। अन्यथा न प्रवर्त्तेत इति शास्त्रविनिश्चयः” इति तानेवाधिकृत्य तेनैवाभि धानात्। मात्रापि पत्यनुज्ञया देयमित्याह विष्णुः “न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुरिति”। अन्वाहितादिवत् स्त्रीधनमप्यदेयम्। अतएव दक्षः “सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम्। अन्वाहितञ्च निःक्षेपः सर्वस्वं चान्वये सति। आपत्स्वपि न देयानि नव वस्तूनि पण्डितैह्। यो ददाति स मूदात्मा प्रायश्चित्तीयते नरः” इति। अदेयदाने प्रतिग्रहे च दण्डमाह मनुः। अदेयं यथ गृह्णाति यश्चादेयं प्रयच्छति। तावुभौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहस मिति”। अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम्। अतएव नारदः। “गृह्णात्यदत्तं यो मीहाद्यश्चादेयं प्रयच्छति। दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षितेति”। अदत्तादेय ग्रहणाद्गृहीतस्य परावर्त्तनमपि कार्यमिति गम्यते। अदत्तग्रहणे दाने च दानसिद्ध्यभावात्परस्वत्वानुत्पत्तेरित्युक्तं स्मृतिचन्द्रिकायाम्। देयस्वरूपमाह स एव। “कुटुम्बभरणाद्द्रव्यं यत्किञ्चिदतिरिच्यते। तद्देयमुपहत्यान्यन्न तद्दोषमवाप्नुयादिति”। अन्यदुपहत्य भर्त्तव्य कुटुम्बमनवरुद्ध्येत्यर्थः। उपरोधश्च भोजनाच्छादनादिराहित्यनिबन्धनतोऽत्राभिमतो न ताम्बूलादिभोगसाधनवैकल्यनिबन्धनः। अतएव वृहस्पतिः। “कुटुम्ब भक्तवसनाद्देयं यदतिरिच्यत इति”। भक्तं भोजनं वसनम् आच्छादनम्। भक्तवसनाद्यदतिरिच्यत इत्यन्वयः। याज्ञवल्क्योऽपि” स्वं कुटुम्बाविरोधेन देयं दारसुतादृते” इति। कुटुम्बाविरोधेन कुटुम्बानुपरोधेन कुटुम्बभरणाबशिष्टं स्वन्देयमित्यर्थः। स्थावरविषये देयमाहतुः प्रजापतिवृहस्पती “सप्तागमाद्गृहक्षेत्राद्यद्यत्क्षेत्रं प्रदीयते। पित्र्यं वाथ स्वयंप्राप्तं तद्दातव्यं विवक्षितमिति”। सप्तागमात्पूर्वोक्तसप्तविधागमयुक्तात्। क्षेत्रग्रहणमुपलक्षणम्। पित्र्यं वंशपरम्परायातम्। स्वयंप्राप्तं स्वयमर्जितम्। पित्र्यस्वयंप्राप्तयोरुपादानं क्रीतादीनामुपलक्षणार्थम्। पित्र्यं वा स्वयंप्राप्तं वा यद्गृहक्षेत्रादिकं प्रदीयते तत्सप्तागमान्विताद्गृहक्षेत्रादुद्धृत्य दातव्यमिति विवक्षितमित्यर्थः। अत्र सप्तागमाद्गृहक्षेत्रादित्यभिधानं गृहक्षेत्रादिदानं कुटुम्बपर्य्याप्ते सागमके गृहे क्षेत्राद्यन्तरे सत्येव नान्यथेत्येवमर्थम्। यत्तु कात्यायनेनोक्तम् “सर्वस्वं गृहवज तु कुटुम्बभरणाधिकम्। यद्द्रव्यं तत् स्वकन्देयमदेयं स्यात्ततोऽन्यथेति”। तद्गृहाद्यन्तराभावविषयम्। स्वकं स्वकीयम् यथेष्टविनियोगार्हद्रव्यमिति यावत्। स्वयंप्राप्तं त्वविभक्तधनैर्भ्रातृभिरननुज्ञातमपि देयम्। “स्वेच्छादेयं स्वयंप्राप्तं बन्धाचारेण बन्धकम्” इति वृहस्पतिस्मरणात्। स्वेच्छादेयं भ्रात्राद्यनुज्ञामन्तरेणापि देयम्। बन्धकं बन्धाचारेणाधिरूपेण देयमित्यर्थः। यत्तु तेनैवोक्तम् “विभक्ता अविभक्ता वा दायादाः स्थावरे समाः। एकोऽप्यनीशः सर्वत्र दानाधमनविक्रये” इति। तत् समानाधिकाविभक्तस्थावरविषयम्। आधमनमा- धीकरणं विभक्ता अपि स्थावरे समाः किमुताविभक्ता इति दण्डापूपन्यायेन व्याख्येयम्। अन्यथा विभागो निरर्थकः स्यात्। अतश्च यदुक्तं स्मृत्यन्तरे “एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम्। आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः” इति। तत्क्रमायातविभक्तस्थावरविषयं सप्तानधिकस्थावरविषयं वेति मन्तव्यम्। स्वार्जितमपि किञ्चित्प्राप्तब्यवहारेषु पुत्रेषु सत्सु तदनुमत्यैव दातव्यमित्यभिप्रेत्याह भगवान् व्यासः। “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भूय सुतान् सर्वान्न दानन्न च विक्रयः। ये जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः। वृत्तिं च तेऽभिकाङ्क्षन्ति न दानन्न च विक्रयः” इति। अत्रोत्तरपद्यं पूर्वपद्यदर्शितवृहस्पतिवचनार्थस्य दण्डापूपन्यायप्रदर्शनेन दृढीकरणार्थम्। किञ्चिद्भर्त्रा पत्न्यनुज्ञातमेव देयम्। किञ्चिन्मुख्येनापि भ्रात्राद्यनुज्ञातमेव देयम्। तथा च वृहस्पतिः “सौदायिकं क्रमायातं शौर्य्यप्राप्तं च यद्भवेत्। स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयादिति”। सौदायिकं वैवाहिकं यस्याः परिणयने लब्धं तस्याः अनुज्ञयैव दातव्यम्। क्रमायातम्पितृपितामहादिक्रमायातम्। स्त्रीज्ञात्यनुमतं न सकलन्देयम्। “वैवाहिके क्रमायाते सर्वदानन्न विद्यते” इति तेनैवोक्तत्वात्। देयोक्तिप्रसङ्गेन प्रतिग्रहे प्रकारविशेषं दर्शयति याज्ञवल्क्यः “प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः” इति। प्रकाशः प्रकटः ससाक्षिक इति यावत्। पुत्रप्रतिग्रहे प्रकारविशेष उक्तो वसिष्ठेन। “पुत्रं परिग्रहीष्यन् बन्धूनाहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वाऽदूरबान्धवमसन्निकृष्टमेव गृहणीयादिति”। अदूरवान्धवं सन्निहितमातुलादिबान्धवम् असन्निकृष्टं सन्निकृष्टभ्रातृभगिनीपुत्रादिव्यतिरिक्तमेव प्रतिगृह्णीयादित्यर्थः। प्रासङ्गिकमुक्त्वा प्रकृतमप्याह याज्ञवल्क्यः “देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः” इति। इदन्ते दास्यामीति यत् प्रतिश्रुतन्तदवश्यं तस्मै दातव्यं यदि धर्म्मप्रच्युतो न भवति। प्रच्युते पुनर्न दातव्यं “प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति” गौतमस्मरणात्। “दत्त्वा नापहरेत् पुनः”। न्यायमार्गेण यत् दत्तं सप्तविधमपि पुनर्नापहर्त्तव्यम् किन्तु तथैवानुमन्तव्यमित्यर्थः। यत् पुनः प्रतिश्रुतन्न ददाति दत्तं वाऽपहरति ठस्य दोममाह हारीतः “प्रतिश्रुतार्थादानेन दत्तस्य छेद- नेन च। विविधान्नरकान् याति तिर्य्यग्योनौ च जायते। वाचैव यत्प्रतिज्ञातं कर्म्मणा नोपपादितम्। ऋणं तद्धर्मसंयुक्तमिह लोके परत्र च” इति। यद्धनं धर्म्मसंयुक्तं प्रतिगृहीतुः प्रवृत्तधर्म्मसम्पत्त्यर्थं वाचा प्रतिज्ञातन्न पश्चादर्पितं तदिह परत्र च ऋणवन्नापैतीत्यर्थः। प्रतिश्रुतमदद्राज्ञा तद्दाप्यो दण्ड्यश्चेत्याह कात्यायनः “स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम्। न दद्यादृणवद्दाप्यः प्राप्नुयात्पूर्वसाहसम्” इति। मत्स्यपुराणेऽपि “प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः” इति। अनयोर्दण्डयोरपराधानुसारेण व्यवस्था।
दत्तं सप्तविधमदत्तं षोडशप्रकारमित्याह नारदः
“दत्तं मुप्तविघं ज्ञेयमदत्तं षोडशात्मकम्” इति। तत्र दत्तभेदानाह स एव। “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः। स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः” इति। पण्यमूल्यं क्रीतद्रव्यस्य मूल्यम्। भृतिस्वरूपं कात्यायनेन दर्शितम्। “अभीप्सितोपलब्ध्यर्थं दानं यत्र निरूपितम्। उपलब्धिक्रियालब्धंसा भृतिः परिकीर्त्तिता” इति। प्रयोजनक्रियासम्पादनार्थं भृतिरिष्यत इत्यर्थः। तुष्ट्या परितोषेण वन्दिप्रसृतिभ्यो दत्तमिति शषः। स्नेहात् प्रीत्या दुहित्रादिभ्यो दत्तम्। प्रत्युपकारतः कृतोपकाराय प्रत्युपकारिणा दत्तम्। तत्प्रदर्शनार्थमाह। कात्यायनः “भयत्राणोपरक्षार्थात्तथाकार्यप्रसाधनात्। अनेन विधिना लब्धं भयत्राणादिकं धनम्”। उपकारकरणेन लब्धमिति यावत्। स्त्रीशुक्लं विवाहार्थं कन्याबन्धुभ्योदत्तम्। अनुग्रहार्थं परोपकारः कर्त्तव्य इति बिधिबलाद्यत्र कुत्राप्यनुग्रहार्थं दत्तमेतत् सकलं सफलं भवतीति दशयितुन्नारद आह “मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि। दीनानाथविशिष्टेभ्यो दत्तं तु सफलम्भवेदिति”। उपकारिणि परोपकारे सफलं फलातिशयोपेतमित्यर्थः। तदेतत्पण्यादि सप्तविधं दत्तमेव दान विदोविदुः अपरावर्तनीयं विदुरित्यर्थः। वृहस्पतिरपि “भृतिस्तुष्ट्या पण्यमूल्यं स्त्रीशुक्लमुपकारिणे। श्रद्धानुग्रहसंप्रीत्त्या दत्तं सप्तविधं विदुरिति” अदत्ताति दर्शयति नारदः “अदत्तन्तु भयक्रोधशोकवेगरुगन्वितैः। तथोत्कोचपरीहासव्यत्यासच्छलयोगतः। बालमूढा स्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम्। कर्त्ता ममायं कर्मेति प्रतिलाभेच्छया च यत्। अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते। यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतमिति”। रुक् उपतापः भयादिकृतोय उपतापस्तदन्वितैरित्यन्वयः। अपवर्ज्जितं दत्तं बालादिभिरपवर्ज्जितमित्यन्वयः। एतदुक्तं भवति भयोपतप्तेन वन्दि ग्राहादिभ्यो दत्तं क्रोधोपतप्तेन क्रोधविषयीभूतानां पुत्त्रभ्रात्रादीनां भयं कर्तुमितरेभ्यो दत्तम्। पुत्रादि वियोगजनितशोकवेगादुपतप्तेन किं स्थितेन धनेनेति तात्कालिक्या बुद्ध्या दत्तम्। उत्कोचेन राजकीयादिभ्यो दत्तम्। उपहासेन दत्तम्। व्यत्यासेन एकः स्वद्रव्यमन्यस्मै ददाति अन्योऽपि स्वीयन्तस्मै ददातीति दानव्यत्यासेन दत्तम्। छलयोगतः शतदानमभिसन्धाय सहस्रमिति परिभाष्य दत्तम्। बालेनाप्राप्तव्यवहारेण दत्तं मूढेन लोकवेदानभिज्ञेन दत्तम्। अस्वतन्त्रेण दासादिना दत्तम्। आर्त्तेन रोगीपहतेन दत्तम्। मत्तेन धुस्तूरादिभक्षणादिना मत्तेन दत्तम् उन्मत्तेन वातपित्ताद्युद्रेकादिना चलितधिया दत्तम्। अयं मदीयं कर्म करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्वाणाय दत्तम्। अपात्रायायोग्याय योग्योऽहम् इत्युक्तिमात्रेण दत्तम्। यज्ञादिं करिष्यामीत्युक्त्वा धनं गृहीत्वा द्यूतादिकर्म्मणि विनियुञ्जानाय दत्तं इत्येवं षोडशप्रकारमपि दत्तं पुनः प्रत्याहरणीयत्वाददत्तमुच्यत इत्यर्थः। पुनःप्रत्याहरणीयत्वमेवंविधानामाह कात्यायनः “कामक्रोधास्वतन्त्रार्त्तक्लीवोन्मत्तप्रमोहितैः। व्यत्यासपरिहाराय यद्दत्तन्तत्पुनर्हरेत्। या तु कार्यप्रसिद्ध्यर्थमुत्कोचा स्यात्प्रतिक्रिया। तस्मिन्नपि प्रसिद्धेऽर्थे न देया स्यात्कथञ्चन। अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्ततोबलात्। दण्डं चैकादशगुणमाहुगार्गीयमानवाः” उत्कोचस्वरूपमाह स एव। “स्तेयसाहसिकोद्वृत्तपारदारिकशंसनात्। दर्शनाद्वृत्तनष्टस्य तथाऽसत्यप्रवर्त्तनात्। प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यं तदुच्यते। न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभागिति” एतदुक्तं भवति यदि मह्यं न प्रयच्छसि तदा त्वत्कृतं स्तेयादि कथयामीति भीतिमुत्पाद्य स्तेयादिकर्त्तुः सकाशाद्धनमादत्ते। तथा त्वं यदि धनं मह्यन्न प्रयच्छसि तदा पलायमानं त्वां दर्शयामीति भीतिमुत्पाद्य पलायिनः सकाशाद्यत्किञ्चिदादत्ते तथा तव सत्यमपि स्वामिनिकटेऽसत्यं वदिष्यामीत्युक्त्वा यत्किञ्चिदादत्ते तदुत्कोचाख्यं तद्राज्ञा दात्रे दाप्यम् उत्कोचापादकग्राहकौ च दण्डनीयाविति पुनः प्रत्याहरणीयमिति वृहस्पति- रप्याह प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया। कार्य्ये वाधर्म्मसंयुक्ते स्वामी तत्पुनराप्नुयादिति”। आर्त्तदत्तस्यादत्तत्वं धर्म्मकार्य्यव्यतिरिक्तविषयम्। तथा च कात्यायनः “स्वस्थेनार्त्तेन वा दत्तं श्रावितं धर्म्मकारणात्। अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः” इति। मनुरपि सोपाधिकदानादेर्निवर्त्तनमाह “योगाधमनविक्रीतं योगदानप्रतिग्रहम्। यस्य वाप्युपधिम्पश्येत्तत्सर्वं विनिवर्त्तयेदिति”। योग उपाधिः येनागामिनीपाधिविशेषेणाधिविक्रयादानप्रतिग्रहाः कृतास्तदुपाधिविगमे ते सर्वेऽपि निवर्त्तेरन्नित्यर्थः।”
दत्तामित्र = पु० सौवीरे नृपभेदे। “दत्रामित्र इति ख्यातं संग्रामे कृतनिश्चयम्। सुमित्रं नाम सौवीरमर्ज्जुनोदम यच्चरैः” भा० आ० १३९ अ०।
दत्ति = स्त्री दा–क्तिन् ददादेशः। दाने “अनुगृह्णीष्व निवापदत्तिभिः” रघुः
दत्तिक = त्रि० अल्पो दत्तः ठक्। अल्पदत्ते। दत्तान्तशब्दात् मनुष्यनाम्नः घन् इलच् ठ क वा। देवदत्त + यज्ञदत्त + स्वार्थाद्यर्थे घादौ पूर्वपदलोपे दत्तिय, दत्तिल दत्तिक दत्तक देवदत्त यज्ञदत्त सोमदत्तादौ।
दत्तेय = पुंस्त्री० दत्ताया अपत्यम् ढक्। १ दत्ताया दत्तककन्याया अपत्ये २ इन्द्रे पु० हेमच० दन्तेयेति वा तत्र पाठः।
दत्तोलि = पु० पुलस्त्यमुनौ विष्णुपु०।
दत्र = न० दा–बा० कत्रन्। १ धने “इन्द्र! यत्ते माहिनं दत्रम्” ऋ० ३। ३६। ९। “दत्रं धनम्” भा०। “दत्रे विश्वा अधिथा इन्द्र! कृष्टीः” ऋ० ४। १७। ६। “दत्रे धने” भा०। २ हिरण्ये निरु० “यो दत्रवा~ उषसो न प्रतीकम्” ऋ० ६ ५०। ८।
दत्त्रिम = त्रि० दानेन निर्वृत्तः दा–क्त्रि–क्तेर्मप् च। १ दाननिर्वृत्ते। “निष्ठां गते दत्त्रिमसभ्यतोषे” भट्टिः। “माता पिता वा दद्यातां यमद्भिः पुत्रमापदि। सदृश प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः” इत्युक्ते २ दत्तकपुत्रे पु०।
दद = दाने धृतौ च भ्वा० आ० सक० सेट। ददते अददिष्ट दददे। “विटविटपममुं ददस्व तस्यै” माघः।
दद = त्रि० दा–वा० श। दातरि। पक्षे आदन्तग्वात् णः दाय तत्रार्थे।
ददन = न० दद–भावे ल्युट्। दाने शब्दर०।
ददि = त्रि० दा–कि द्वित्वम्। दानकर्त्तरि।
ददृत् = त्रि० दीर्य्यति दॄ–क्विप् ह्रस्वः द्वित्वं तुकम्। दीर्य्यति। विदारणशीले।
ददृशान = त्रि० दृश–शानच्। दृष्टे “अस्य शुष्मासो ददृशानपवे- र्जेहमानस्य” ऋ० १०। ३। ६। “ददृशानपवेः दृश्यमानायुधस्य” भा० अत्रंदृश्यमानेति विवरणं कालाविवक्षयेति बोध्यम्
दद्धि(ग्धि) = अव्य० याच्ञायाम् निघण्टुः। अयं धातुरित्यन्ये।
दद्रु = पु० ददते कण्डूं दद–रु। रोगभेदे। “सकर्ण्डुरागपिडकं दद्रुमण्डलमुद्गतम्” भावप्र०। उद्गतं उच्छूनम् कुष्ठशब्दे २१५४ पृ० दृश्यम्। स्वार्थे क। द्रद्रुक तत्रार्थे शब्दर०।
दद्रुघ्न = पु० दद्रुं हन्ति हन–टक्। १ चक्रमर्द्दके (दादमर्द्दन)। अमरः २ हाकुचेरत्नमा०।
दद्रुण = त्रि० दद्रू + पामा० अस्त्यर्थे न ह्रस्वश्च। दद्रुरोगयुक्ते अमरः।
दद्रू = स्त्री दरिद्रात्यनयाङ्गम् दरिद्रा–ऊ नि०। त्वगरोगभेदे (दाद्)।
दध = दाने धारणे च आ० भ्वा० सक० सेट्। दधते अदधिष्ट।
दधन्वत् = त्रि० दधि–मतुप् वेदे नि० दधन्नादेशे मस्य वः। दविविशिष्टे। “अच्छिद्रस्य दधन्वतः सुपर्णस्य दधन्वतः” ऋ० ६। ४८। १८। “दधन्वतः दधिमतः” भा०।
दधि = त्रि० धा–कि द्वित्वम्। १ धारणकर्त्तरि किप्रत्ययान्तत्वेन तद्योगे न कर्म्मणि षष्ठी “सृष्ट्वा दधिं सारुकमेतदर्चकान्” मुग्ध०। दध–इन्। २ दुग्धविकृतिभेदे, (दै) ३ वस्त्रे च न० हेमच०। दधिगुणभेदादिकं भावप्र० उक्तं यथा
“दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु। पाकेऽम्लं श्वासपित्तास्रशोथमेदःकफपदम्। मूत्रकृच्छ्रे प्रतिश्याये पीनसे विषमज्वरे। अतीसारेऽरुचौ कार्श्ये शस्यते बलशुक्रकृत्। अथ दधिभेदाः। “आदौ मन्दं ततः स्वादु स्वाद्वम्लञ्च ततः परम्। अम्लञ्चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा। अथ मन्दादीनां लक्षणानि गुणाश्च। मन्दं दुग्धं यदव्यक्तरसं किञ्चिद्घनं भवेत्। मन्दं स्यात् सृष्टविण्मूत्रं दोषत्रयविदाहकृत्। यत्सम्यग् घनतां यातं व्यक्तं स्वादुरसं भवेत्। अव्यक्ताम्लरसं तत्तु स्वादु विज्ञैरुदाहृतम्। स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफापहम्। वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम्। स्वाद्वम्लसान्द्रं मधुरं कषायानुरसं भवेत्। स्वाद्वम्लस्य गुणा ज्ञेयां सामान्यदधिवज्जनैः। यत्तिरोहितमाधुर्य्यं व्यक्ताम्लत्वं तदम्लकम्। अम्लन्तु दीपनं पित्तरक्तश्लेष्म विवर्द्धनम्। तदत्यम्ल दन्तरोमहर्षकण्ठादिदहकृत्। अत्यम्लं दीपनं रक्तवातपित्तकरं परम्”। गोदधिगुणाः “गव्यं दधि विशेषेण स्वाद्वम्लञ्च रुचिप्रदम्। पवित्रं दीपनं हृद्यं पुष्टिकृत पवनापहम्। उक्तं दशानशेषाणां मध्ये गव्यं गुणाधिकम्। माहिषदधिगुणाः। माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्। स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषकम्”। छागीदधिगुणाः “आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्। शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम्”। पक्कदुग्धदधिगुणाः। पक्वदुग्धभवं रुच्यं दधि स्निग्धं गुणोत्तमम्। पित्तानिलापहं सर्वधात्वग्निबलबर्द्धनम्। निःसरदुग्धदधिगुणाः। असारं दधि संग्राहि शीतलं वातलं लघु। विष्टम्भि दीपनं रुच्यं ग्रहणीरोगनाशनम्। गालितदधिगुणाः “गालितं दधि सुस्निग्धं वातघ्नं कफकृद्गुरु। बलपुष्टिकरं रुच्यं मधुरं नातिपित्तकृत्। शर्करादिसहितदधिगुणाः। सशर्करं दधि श्रेष्ठं तृष्णापित्तास्रदाहजित्। सगुडं वातनुद्वृष्यं वृंहणं तर्पणं गुरु।” अथ रात्रौ दधिभोजननिषेधः। न नक्तं दधि भुञ्जीत नचाप्यघृतशर्करम्। नामुद्गसूपं नाक्षौद्रं नोष्णं नामलकैर्विना। अयमर्थः। रात्रौ दधि न भुञ्जीत भुञ्जीत चेत्तदा अघृतशर्करममुद्गसूपं क्षौद्रमुष्णं विनामलकैश्च दधि न भुञ्जीत। तेन घृतशर्करादियुक्तं दधि रात्रावपि भुञ्जीतेत्यर्थः। तथा च। शस्यते दधि नो रात्रौ शस्तञ्चाम्बुघृतान्वितम्। रक्तपित्तकफोत्थेषु विकारेषु तु नैव तत्। तदम्बुघृतान्वितमपि। अथर्तुविशेषेण विधिनिषेधौ। हेमन्ते शिशिरे चापि वर्षासु दधि शस्यते। शरद्ग्रीष्मवसन्तेषु प्रायशस्तद्विगर्हितम्। अथाविधिना दधिसेवने दोषमाह ज्वरासृकपित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्। प्राप्नुयात् कामलाञ्चोग्रां विधिं हित्रा दधिप्रियः। अथ सरस्य मस्तुनश्च लक्षणं गुणाश्च। दध्नस्तूपरि यो भागो घनः स्नेहसमन्वितः। स लोके सर इत्युक्तो दध्नोमण्डस्तु मस्त्विति। सरः स्वादुर्गुरुर्वृष्यो वातवह्निप्रणाशनः। साम्लोवस्तिप्रशमनः पित्तश्लेष्मविवर्द्धनः। मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत्। स्रोतोविशोधनं ह्लादि कफवृष्णानिलापहम्। अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसञ्चयम्।
“दधि सुक्तेषु भोक्तव्यम् सर्वञ्च दधिसम्भवम्” मनुः। “विना लवणतोयाभ्यां दधि मासेन जीर्य्यतिः” “कफपित्तकरं दधि” इति वैद्य०। दधिशब्दस्य दुग्धविकाररूपार्थत्वे क्लीवत्वेन तदर्थे उक्तपुंस्कत्वाभावात् दादावचि न पुंवद्भावः। धारणकर्तृ- रूपार्थपरत्वे तु प्रवृत्तिनिमित्तसाम्यात् उक्तपुंस्कत्वात् क्लीवत्वेऽपि वा पुंवद्रूपं दधये दधिने कुलाय इत्यादि। अस्य उरःप्रभृतिषु पाठात् बहुव्रीहौ नित्यं कप् बहुदधिको यज्ञ इत्यादि।
दधिकूर्च्चिका = स्त्री “दध्ना सह पयः पक्वं यत् स्यात् सा दधिकूर्च्चिका” इत्युक्तलक्षणायामामिक्षायाम्।
दधिक्रा = पु० दधिः दधदन्यं धारयन् सन् क्रामति क्रम–विट् अन्तस्यात्। १ अश्वरूपे अग्न्यात्मके देवभेदे “दधिक्रामु दकद्युर्विश्वकृष्टिम्” ऋ० ४। ३८। २। उक्ता व्युत्पत्तिर्भाष्ये दर्शिता। “आ दधिक्राः शवसा पञ्च कृष्टीः” १०। ३। २ अश्वे निघ०। तन्नामनिरुक्तिः २। २७। तत्र दर्शिता यथा “तत्र दधिक्रा इत्येतद् दधत् क्रामतीति वा दधत् क्रन्दतीति वा दधदाकारी भवतीति वा। तस्याश्ववद् देवतावच्च निगमा भवन्ति”। अतो देवार्थतापीति गम्यते” स चाग्निंरूपः दधिक्रावन् शब्दे माधववाक्ये दृश्यम्।
दधिक्रावन् = पु० दधिः दधत् क्रामति क्रम–वनिप् अन्तस्यात्। अश्वरूपे अग्न्यात्मके देवभेदे। “दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखाकरत् प्राण आयूंषि तारिषत्” ताण्ड्य० व्रा० १। ६। १७। “दधिः दधद्धारयन् क्रामतीति दधिक्रावा क्रमेर्वनिपि विड्वनोरनुनासिकस्यादिति” मकरास्याकारः, तस्य दधिक्राव्णः एतत् संज्ञकस्याश्वरूपस्य देवस्य” भा० अत्र द्राह्यायणः, “आग्नीध्रीयं गत्वा दधिमक्षं भक्षयेयुरसमुपह्वूय दधिक्राव्ण इति। अत्र यद्यप्यस्मिन् मन्त्रे दधिक्राव्ण इति अश्वरूपोऽग्निविशेष एव देवेतात्वेनाभिधीयते, तथापि दधिशब्दयोगात् सामान्येन दभिभक्षणे विनियोग इति द्रष्टव्यम्” भा०। एतदनुसारेण पञ्चगव्यादिशोधनेऽपि दधिशोधनेऽयं मन्त्रो विनियुक्तः इति बोध्यम्।
दधिघर्म्म = पु० दधिसंस्कारके वैदिके कर्म्मभेदे। “दधिघर्म्मेण चरन्ति प्रवर्ग्यवांश्चेत्” आश्व० श्रौ० ५। १३। १। दधिघर्मो नाम कर्मविशेषः” नारा०। स च कात्या० श्रौ० उक्तो यथा १०। १। २०। “सप्रवर्ग्ये दधिघर्म्मः” सू० दध्याहरेति प्रेषितो दधिघर्मार्थं दध्याहरति तच्च यागार्थत्वात् सान्नास्यधर्मेण वत्सापाकरणादिना संस्कार्य्यं तत्र दध्नो द्व्यहसाध्यत्वात् पूर्वस्मिन्नहनि प्रातःसवनिक दध्यर्थदोहानन्तरं दधिचर्मः दध्यर्थमपि रात्रौ दोह आतञ्चनान्तः कर्त्तव्यः। तत्सम्बन्धिनो वत्सापाकरणादयोऽप्यनेनैव क्रमेण कर्त्तव्याः प्रवर्ग्यवत्येवायं दधिवर्मः” कर्कः। तत्करणप्रकारमपि तदुत्तरसूत्रैराह यथा “उपविश्य सदसः पुरस्तात् सपवित्रायामग्निहोत्रहवण्यां ग्रहणं ययोक्तम्” २१ सू०। तत् प्रतिप्रस्थात्राहृतदधि उत्तरवेदेः पश्चादासाद्यालभ्य ततः सदसः पश्चादुपविश्य सपवित्रायामग्निहोत्रहवण्यां शाखापवित्रेणाग्निहोत्रहवण्याम यथोक्तं यथा प्रवर्ग्याध्यायोक्तं तथा ग्रहणं करोति अतो यावतीति मन्त्रान्ते स्थालीमुखेनैवाग्निहोत्रहवण्यां निनयनं कर्त्तव्यम्। आनयनञ्च निनयनमेव” कर्कः विस्तरः तदुत्तरसूत्रेषु दर्शितः। तादृशकर्मममुदायश्च दधिघर्मशब्दार्थः।
दधिचार = पु० दधि चारयति चालयति चर–णिच्–अण उप० स०। मन्थानदण्डे हारा०
दधिज = न० दध्नो जायते जन–ड। १ नवनीते राजनि० २ दधिजातमात्रे त्रि।
दधित्थ = पु० दधीव तद्वर्णवत् द्रवे तिष्ठति स्था–क पृषो०। कपित्थे अमरः तद्द्रवस्य दधिवर्णत्वात् तथात्वम्। “दघित्थरससंयुक्तां पिप्पलीं माक्षिकान्विताम्” सुश्रु०।
दधित्थाख्य = पु० दधिमाख्याति आ + ख्या–क। सरलद्रवे (लोवान) रत्नमाला।
दधिधेनु = स्त्री दानार्थं कल्पितदधिकुम्भनिर्मिते धेनुभेदे तद्विधानं हेमा० दा० स्कन्दपु० उक्तो यथा
“दधिधेनोमहाराज! विधानं शृणु साम्प्रतम्। अनुलिप्ते महीभागे गोमयेन नराधिप!। गोचर्म्ममात्रन्तु पुनः पुष्पप्रकरसंयुतम्। कुशैरास्तीर्य्य वसुधां कृष्णाजिनकृतास्तराम्। दधिकुम्भञ्च संस्थाप्य सप्तधान्यस्य चोपरि। चतुर्थांशेन वत्सन्तु सौवर्णमुखसंयुतम्। प्रशस्तपत्रश्रवणां मुक्ताफलमयक्षणाम्। चन्दनागुरुशृङ्गीं च मुखं वै गन्धमालिकम्। जिह्वा शर्करया राजन्! घ्राणं श्रीखण्डकं तथा। फलमूलमया दन्ताः सितसूत्रस्य कम्बलाः। ताम्रपृष्ठा दर्भरोमा पुच्छं सूत्रमयं तथा। स्वर्णशृङ्गीं रौप्यखुरीं नवनीतमयस्तनीम्। इक्षुपादां सुसस्कृत्य सर्वाभरणभूषिताम्। आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम्। ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते। समाधियमयुक्ताय तादृशाय प्रदापयेत्। पुच्छदेशोपविष्टाय मुद्रिकाकर्णमात्रकैः। पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत्। दधिक्राव्णेतिमन्त्रेण दधिधेनु प्रदापयेत्। एवं दधिमयीं धेनुं दत्त्वा राजर्षिसत्तम!। एकाहारो दिनं तिष्ठेद्दधा च नृपनन्दन!। यजमानो वसेद्राजन्! त्रिदिवं च द्विजोत्तमः! दीयमानां प्रपश्यन्ति तेऽपि यान्ति परां गतिम्। दश पूर्वान् दश परानात्मानञ्चैकविंशकम्। विष्णुलोकमवाप्नोति यावदाहूतसंप्लवम्। दाता च दापकाश्चैव तेऽपि यान्ति परां गतिम्। यत्र मधुवहा नद्यो यत्र पायसकर्द्दमाः। ऋषयो मुनयं सिद्धास्तत्र गच्छन्ति धेनुदाः। य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः। सोऽश्वमेधफलं प्राप्य विष्णुलोकं स गच्छति”। वृतधेनुविधिवत् सर्वमत्र कर्म्म।
दधिपयस् = न० द्वि० व०। दधि च पयश्च। “जातिरप्राणिनाम् पा० अप्राणिजातित्वात् समाहारद्वन्द्वे प्राप्ते “न दधिपय आदीनि” पा० तन्निषेधः दधिपयसी।
दधिपयआदि = न० समाहारद्वन्द्वनिषेधनिमित्ते शब्दद्वयगणभेदे। स च गणः पा० ग० सूत्रे उक्तो यथा “दधिपयसी सर्पिर्मधुनी मधुसार्पषी ब्रह्मप्रजापती शिववैश्रवणौ स्कन्दविशाखौ परिव्राट्कौशिकौ प्रवर्ग्योपसदौ शुक्लकृष्णौ इध्मावर्हिषी दीक्षातपसी श्रद्धातपसी मेधातपसी अध्ययनतपसी उलूखलमुसले आद्यवसाने श्रद्धामेधे ऋक्सामे वाङ्मनसे”।
दधिपुष्पिका = स्त्री दधीव शुभ्रं पुष्पमस्याः कप् अत इत्त्वम्। श्वेतापराजितायाम् राजनि०।
दधिपुष्पी = स्त्री दधीव शुम्रं पुष्पमस्याः जातित्वात् ङीष्। कोलशिम्ब्यां राजनि०।
दधिपूप = पु० दधिपक्वः पूपः। अपूपभेदे। “शालिपिष्टं युतं दध्ना मर्दयित्वा घृते पचेत्। वेष्टयेत् पक्वखण्डेन सुवृत्तं दधिपूपकम्। दधिपूपो गुरुर्वृष्यो वृंहणोऽनिलपित्तहा। हृद्योऽग्निजननश्चैव विशेषाद् रुचिकारकः” पाकशास्त्रम्।
दधिफल = पु० दधीव द्रवः फलेऽस्य। कपित्ये अमरः तद्द्रवस्य दधितुल्याम्लरसत्वात् तथात्वम्।
दधिमण्ड = पु० ६ त०। दध्नः मस्तुनि (मात) ख्याते पदार्थे। रत्नमाला।
दधिमण्डोद(क) = पु० दधिमण्ड इवोदकमत्र उदकस्य वा उदादेशः। दधिमण्डतुल्यजले समुद्रभेदे। “दधिमण्डोद एवात्र विज्ञेयो वारिजासनः” हेमा० व्र० तद्ध्यानम्। “उत्तरेषु च कौरव्य! द्वीपेषु श्रूयते कथा। एवं तत्र महाराज! ब्रुवतश्च निवोध मे। घृततोयः समुद्रोऽत्र दधिमण्डोदकः परः। सुरोदः सागरश्चैव तथान्यो जलसागरः” भा० भी० १२ अ०।
दधिमुख = पु० १ रामसेनापतिवानरभेदे “श्रीमान् दधिमुखो नाम हरिवृद्धोऽतिवीर्य्यवान्” भा० व० २८२ अ०। १ नागभेदे “सुरामुखो दधिमुखस्तथा विमलपिण्डकः” भा० आ० ३५ अ० सर्पनामोक्तौ दधिवक्त्रादयोऽप्यत्र।
दधिवत् = त्रि० दधि अस्त्यत्र मतुप् वेदे मस्य वः। दधियुक्ते “अपूपवान् दधिवाश्चरुरेष सीदतु” अथ० १८। ४। १७। लोके तु न मस्य वः दधिमत् इत्येव स्त्रियां ङीप्
दधिवामन = न० १ शालग्राममूर्त्तिषु वामनमूर्त्तिभेदे ब्रह्मवै० प्रकृतिख० तल्लक्षणमुक्तं यथा। “अतिक्षुद्रं द्विचक्रञ्च। नवीननीरदोपमम्। दधिवामनकं ज्ञेयं गृहिणाञ्च सुखप्रदम्। दध्योदने होतव्यः वामनः। २ दध्योदनेन हवनीये वामनभेदे पु० “दध्यादनेन शुद्धेन हुत्वा मुच्येत दुर्गतः। स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमनन्यधीः” तन्त्रसारे दधिवामनप्रयोगः।
दधिवारि = न० ६ त०। दधिमस्तुपदार्थे (दधिर मात) हेमच०।
दधिवाहन = पु० अङ्गनामकनृपपुत्रे “अङ्गपुत्रो महानासीत् राजेन्द्रो दधिवाहनः। दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत्” हरिवं० ३१ अ०। दधिवामनपुत्रस्तु पुत्रो दिविरथस्य तु” भा० शा० ४९ अ०।
दधिशोण = पु० वानरे त्रिका०।
दधिषाय्य = पु० दधि स्यति सो–आय्य षत्वम्। १ घृते उज्ज्वल०। “दधिषाय्यः” उणा० सू० सि० कौ० वृत्तौ “दधातेराय्यः द्द्वित्वमित्त्वं सुक्च इत्युक्त्वा “मित्रावसो दधिषाय्य” इत्युदाजहार”।
दधिसक्तु = पु० व० व०। “दध्युपसिक्ताः सक्तवः “अन्नेन व्यञ्जनम्” पा० समासः। दध्युपसिक्तेषु सक्तुषु। कन्दुपक्वानि तैलेन पायसं दधिसक्तवः” ति० त० कूर्म्मपु०।
दधिसार = पु० ६ त०। नवनीते हेमच०।
दधिस्कन्द = पु० तीर्थभेदे।
दधिस्नेह = पु० ६ त०। दधिसारे त्रिका०।
दधिस्य(ध्यस्य) = अतिगार्द्ध्येन दधीच्छति क्यचिक् असु सुक् वा। अतिगार्द्ध्येन दधीच्छायाया प० अक० सेट्। दधिस्यति दध्यस्यति।
दधिस्वेद = पु० दध्नः स्वेद इव। तक्रे (घोल) जटाधरः।
दधी(च)चि = पु० अथर्वमुनेरौरसे कर्द्दमप्रजापतिकन्यायां शान्तिनाम्न्यां जाते मुनिभेदे। इन्द्रयाचितेन तेन च प्राणांस्त्यक्त्वा स्वदेहास्थीनि दत्तानि इन्द्रेण च तैर्वज्रं निर्माय वृत्तासुरो निहतः तत्कथा
“ऋतेऽस्थिभिर्दधीचस्य न हन्तु त्रिदशद्विद्धः। तस्मा- द्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः”। दधीचास्थीनि देहीति तैर्बधिष्यामहे रिपून्। स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तद्रा। प्राणत्यागं कुरुश्रेष्ठ! चकारैवाविचारयन्। सलोकानक्षयान् प्राप्तो देवप्रियकरस्तदा। तस्यास्थिमिरथो शक्रः संप्रहृष्टमनास्तदा। कारयामास दिव्यानि नानाप्रहरणानि च। वज्राणि चक्राणि गदा गुरून् दण्डांश्च पुष्कलान्” भा० शल्य० ५२ अ०। “गते शतधृतौ क्षत्तः! कर्द्दमस्तेन चोदितः। यथोचितं सुदुहितॄः प्रादात् विश्वसृजां ततः” इत्युपक्रमे “अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते” भाग० ३। २४। २४ अ०। “दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्म्माभेद्यं मदात्मकम्” भाग० ६। ९। ५१। तस्याथर्वणकर्द्दमदुहितृशान्तिजातत्वादाथर्वणत्वविशेषणम्। “ददौ चास्थीनि देवेभ्यो दधीचिः सुमनास्तदा” अग्निपु० दध्यन्च्शब्दे व्युत्पत्तिर्दृश्या।
दधीचास्थि = न० ६ त०। तज्जातत्वात् १ वज्रे २ तन्नामनामके हीरके च त्रिका०।
दधृष् = त्रि० धृष–क्विन् नि०। १ धृष्टे क्विन्नन्तत्वात् झलि पदान्ते च कुत्वम्। २ धर्षके च। “वाजेषु दधृषं कवे” ऋ० ३। ४२। ६। “दधृषम् शत्रूणामभिभावकम्” भा०।
दधृष्वणि = त्रि० दधृगिवाचरति ददृष् + क्विप् ततो बा० वनि। धर्षके। “सासहिमधृष्टं चिद् दधृष्वणिम्” ऋ० ८। ६१। ३।
दध्न = पु० दध–बा० न। यमभेदे। “औडुम्बराय दध्नाय नीलाय परमेष्ठिने” यमतर्पणमन्त्रः।
दध्यन्च् = पु० दधिं धारकमञ्चति अन्च–क्विप्। अथर्वर्षिपुत्रे दधीचौ मुनिभेदे “दध्यङ्ङाथर्वणस्त्वष्ट्रे” भाग० ६६। ९। ५१ “स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्” भाग० ६। ९। ५५। “यामथर्वा मनुष्पिता दध्यङ्धियमत्नत इत्यृचमधिकृत्य निरुक्ते तु १२। ३३ अन्या निरुक्तिरुक्ता “दध्यङ्प्रत्यक्तो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमिति वा”। “दध्यङ् ह नन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच” ऋ० १। ११६। १२। आथर्वणः अथर्वणः पुत्रो दध्यङ् एतत्संज्ञ ऋषिरवस्य शीर्ष्णा युष्मत्नामर्थ्येन प्रतिहितेन शिरसा वा~ युवाभ्यामीमिमां मधुविद्यां यद् यदा खलु प्रोवाच प्रोक्तवान्। तदानीमश्वस्य शिरसः सन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसन्धानलक्षणं च यद्भवदीयं कर्म तदाविष्कृणोनीत्यर्द्धः। अत्रेयमाख्यायिका “इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्यं यदीमामनस्मै वक्ष्यसि शिरस्ते छेत्स्यामी- त्युवाच। ततोऽश्विनावश्वस्य शिरश्छित्वा दधीचः शिरःप्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्तां तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास। तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत्। अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति। शाट्यायनवाजसनेययोः प्रपञ्चेनोक्तम्। तस्य टादावजादौ दधीचः दधीचा इत्यादि। ततः स्वार्थे अण् इञ् वा पृषो० वृद्ध्यभावे। दधीच दधीचि इति रूपमित्यवधेयम्।
दध्यन्न = न० दध्युपसिक्तमन्नम् “अन्नेन व्यञ्जनम्” पा० समासः। दध्युपसिक्ते अन्ने “दध्यन्नं पायसं चैव गुडपिष्टं समोदकम्” याज्ञ० दध्योदनोऽप्यत्र पु०। दध्योदनं हविश्चूर्णम्” याज्ञ० ग्रहवल्युक्तौ।
दध्याकर = पु० ६ त०। दधिसमुद्रे शब्दार्थकल्पतरुः।
दध्यानी = स्त्री दधि–दधिरसमानयति आ–नी–क गौरा० ङीष्। (सुदर्शनगुलञ्च) सुदर्शनायाम् रत्नमाला।
दध्युत्तर = न० ६ त०। दधिस्नेहे शब्दच०। “पयसः सर्पिषश्चैव दध्नोदध्युत्तरस्य च” हरिवं० ७९३ अ०।
दध्युत्तरग = न० दध्न उत्तरं गच्छति गम–ड। दधिस्नेहे रत्नमाला।
दध्युद(क) = पु० दधि उदकमिवास्य वा उदादेशः। दधिसमुद्रे जटाधरः।
दनायुस् = पु० दक्षकन्याभेदे सा च कश्यपपत्नीभेदः दनुशब्दे दृश्यम्। “दनुश्च दनायुश्च मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः” शत० ब्रा० १। ६। त। ९ “दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः। विक्षरो बलवीरौ च वृत्त्रश्चैव महासुरः” भा० आ० ६५ अ०।
दनु = स्त्री दक्षकन्याभेदे सा च कश्यपर्षिपत्नी दानवमाता। “प्रजज्ञिरे महाभाया दक्षकन्यास्त्रयोदश। अदितिर्द्दितिर्द्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्रधा च विश्वा च विनता कपिला मुनिः। कद्रूश्च मनुजव्याघ्र! दक्षकन्यैव भारत। एतासां वीय्यं सभ न्नं पुत्रपौत्रमनन्तकम्। “चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत। तेषां पथमजो राजा विप्रक्षित्तिर्महायशाः। सात्ररो नमुचिश्चेव पुलोमा चेति विश्रुतः। असिलोमा च केशी च दुर्ज्जनश्चैवादानवः। अयःशिरा अश्वश्विरा अश्वशङ्कुश्च वीर्य्यवान्। तथा गगनमूर्द्धा च वेगवान् केतुमांश्च सः। स्वर्भानुरश्वाऽश्वपतिर्वृषपर्य्याजक्रस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहु- ण्डश्च महाबलः। एकपादेकवक्रच विरूपाक्षमहोदरौ। निचन्द्रश्च निकुम्भश्च कुजटः कपटस्तथा। शरभः शलभश्चैव सूर्य्यचन्द्रमसौ तथा। एते ख्याता दनोर्वंशे दानवाः परिकीर्त्तिताः। अन्यौ तु खलु देवानां सूर्य्याचन्द्रमसौ स्मृतौ। अन्यौ दानवमुख्यानां सूर्य्यचन्द्रमसौ तथा। इमे च वंशाः प्रथिताः सत्त्वेवन्तो महाबलाः। दनुपुत्रा महाराज! दश दानववंशजाः। एकाक्षोऽमृतपो वीरः प्रलम्बनरकावपि। वातापिः शक्रतपनः शठश्चैव महासुरः। गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः। असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत!” भा० आ० ६५ अ०। दनोरपत्यम् अण्। दानव दनोरपत्ये पुंस्त्री स्त्रियां ङीप्।
दनायु = पु० दानवभेदे दानवशब्दे दृश्यम्। अयं शब्दः दनायुम् शब्दात् प्राक् पाठ्यः।
दनुज = पु० दनोर्जायते जन–ड। दनोरपत्ये असुरे अमरः।
दनुजद्विष् = पु० दनुजान् द्वेष्टि द्विष–क्विप्। देवे हेम०। दनुजारिप्रभृतयोऽप्यत्र।
दनुसूनु = पु० ६ त०। दानवे जटाधरः।
दन्त = पु० अन्तर्भावितण्यर्थे दम–तन्। १ मुखान्तःस्थचर्वणसाधनेऽस्थिभेदे (दा~त) २ कुञ्जे, ३ पर्वतनितम्बे ४ सानुनि, ५ द्वात्रिंशत्संख्यायाञ्च मेदि०। अत एव नैषध० दन्तानां द्विगुणितषोडशपदार्थरूपत्वेन भङ्ग्या द्वात्रिंशत्त्वं वर्णितं यथा। “उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थैः। आन्विक्षिकीं यद्दशनद्विमालीं तां मुक्तिकामाकलितां प्रतीमः”। ६ शैलशृङ्गे त्रिका० (।ऽऽ) रूपे ७ पञ्चमात्राप्रभेदेछन्दोग्र० सदन्ततया जन्मनि जन्मोत्तरं मासभेदे च तज्जन्मफलं ज्यो० त० उक्तं यथा “जातः सदन्तः पितृमातृहन्ता तातं विहन्यात् प्रथमे तु मासे। अम्बां द्वितीये सहजं तृतीये मासे चतुर्थे शुभकारकः स्यात्। मिष्टान्नभोजी सुभगः सुताख्ये ५ षष्ठे सुखी पण्डितकल्पबुद्धिः। ततोऽधिकः स्यात् बलवान् द्युनाख्ये ७ मासेऽष्टमे वित्तसुखैर्विहीनः। सुरप्रतापी नवमे मृत्युश्च दशमे तथा। एकादशे द्वादशे च सुखी च सुभगो भवेत्। अष्टौ पुत्तलकान् कृत्वा सुगन्धैर्गन्धकैस्तथा। स्रोतःसु संक्रमे चापि स्रापयेत् शुक्लपुष्पकैः। स्नानं संक्रमणस्याधः शम्भोर्द्दर्शनमन्ततः। होमं विप्रार्च्चनञ्चैवमशभे दन्तदर्शने”। “स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः” वृ० स० ६७ अ०। दन्तम्लप्रादुर्भावश्च गर्भोपनिषदि गर्भे सप्तममासे जायते इति प्रतिपादितम्।
दन्तक = त्रि० दन्ते दन्तमार्ज्जने प्रसितः कन्। १ दन्तमार्जनप्रसिते। दन्त इव कन्। २ शैलशृङ्गे गिरेः प्रदेशाद्बर्हिनिर्गते ३ पाषाणभेदे च हेमच०। स्वार्थे क। ४ दन्तशब्दार्थे पु०।
दन्तकर्षण = पु० दन्तान् कर्षति कृष–ल्यु। जम्बीरे शब्दर०।
दन्तकाष्ठ = न० दन्तंधावनार्थं काष्ठम्। १ दन्तधावने काष्ठे। तत्काष्ठमस्त्यत्र साध्यतया अच्। २ विकङ्कतवृक्षे पु० राजनि०। सफलतत्काष्ठभेदाः वृ० स० ८५ अ० उक्ता यथा
“वल्लीलतागुल्मतरुप्रभेदैः स्युर्दन्तकाष्ठानि सहस्रशो यैः। फलानि वाच्यान्यतितत्प्रसङ्गो मा भूदतो वच्म्यथ कामिकानि। अज्ञातपूर्वाणि न दन्तकाष्ठान्यद्यान्न पत्रैश्च समन्वितानि। न युग्मपर्वाणि न पाटितानि न चोर्ध्वशुष्काणि विना त्वचा वा। वैकङ्कतश्रीफलकाश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः। वृद्धिर्वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके ककुभे प्रियत्वम्। लक्ष्मीः शिरोषे च तथा करञ्जे प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात्। मान्यत्वमायाति जनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति। आरोग्यमायुर्बदरीवृहत्योरैश्वर्यवृद्धिः खदिरे सविल्वे। द्रव्याणि चेष्टान्यतिमुक्तके स्युः प्राप्नोनि तान्येव पुनः कदम्बे। निम्बेऽर्थाप्तिः करवीरेऽन्नलब्धिर्भाण्डीरे म्यादिदमेव प्रभूतम्। शम्यां शत्रूनपहन्त्यर्जुने च श्यामायां च द्विषतामेव नाशः। सालेऽश्वकर्णे च वदन्ति गौरवं सभद्रदारावपि चाटरूषके। वाल्लभ्यमाथाति जनस्य सर्वतः प्रियङ्ग्वपामार्गसजम्वुदाडिमैः। उदङ्मुखः प्राङ्मुख एव वाव्दं कामं यथेष्टं हृदये निवेश्य। अद्यादनिन्द्यं च सुखोपविष्टः प्रक्षाल्य जह्याच्च शुचिप्रदेशे। अभिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं यत्। अशुभकरमतोऽन्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम्”।
आ० त० नरसिंहपुराणे च “दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम्। सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः”। महाभारते। “तिक्त कषायं कटुकं सुगन्धि कण्टकान्वितम्। क्षीरिणो वृक्षगुल्माद्यान् भक्षयेद्दन्तधावने”। निषिद्धकाष्ठानि यथा “गुवाकतालहिन्तालास्तथा ताडी च केतकी। खर्जूरनारिकेलौ च सप्तैते तृणराजकाः। तृणराजसिरा पत्रैर्यः कुर्य्याद्दन्तधावनम्। तावद्भवति चाण्डालो याव- द्वङ्गां न पश्यति। तस्य स्थौल्यं परिमाणञ्चाह विष्णुः “कनिष्ठाग्रसमं स्थौल्यं सकूर्चं द्वादशाङ्गुलम्। प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावनम्” मरीचिः द्वादशाङ्गुलञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम्। चतुरङ्गुलमानेन नारीणां विधिरुच्यते। अन्तरप्रभवानाञ्च षडङ्गुलमुदाहृतम्”। दन्तधावनदन्तपवनशब्देऽधिकं दृश्यम्।
दन्तकाष्ठक = न० दन्तधावनोपयोगि काष्ठमस्मात्। आहुल्यवृक्षे राजनि०।
दन्तकूर = पु० दन्ताः कूरमन्नमिव चर्व्यत्वात् यत्र। संग्रामे नीलकण्ठः “माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद्दन्तकूरे” भा० उ० २२ अ०। “अयं कपाटेन जघान पाण्ड्यं तथा कलिङ्गान् दन्तकूरे ममर्द” ४७ अ०।
दन्तक्रूर = पु० दन्ताः क्रूरा यत्र। १ देशभेदे २ तन्नृपे च नीलक०। “ब्रह्मद्विषाञ्चाथ तस्मिन् सहस्राणि चतुर्दश। पुनरन्यानि जग्राह दन्तक्रूरं जघान ह” भा० द्रो० ७० अ०।
दन्तघर्ष = पु० ६ त०। दन्तानां परस्परघर्षभेदे। “यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा। जायते दन्तघर्षश्च स गतायुः स्मृतो बुधैः” मार्क० पु०।
दन्तचाल = पु० दन्तानां चालश्चलनमत्र। सुश्रुतोक्ते आतुरोपद्रवभेदे (दा~तनडा)। आतुरोपद्रवोपक्रमे “नेत्रस्तम्भं निमेषञ्च तृष्णां कासं प्रजागरम्। लभन्ते दन्तचालञ्च तांस्तानन्यानुपद्रवान्”।
दन्तच्छद = पु० दन्ताश्छाद्यन्तेऽनेन छद–णिच्–घ ह्रस्वः। ओष्ठे (ठो~ट) हलायुधः। “निंस्ते दन्तच्छदं न वा” भट्टिः। “दन्तच्छदैः सव्रणदन्तचिह्नैः” ऋतुसंहारः।
दन्तच्छदोपमा = स्त्री दन्तच्छद ओष्ठ उपमीयतेऽनया अङ्। विम्बीलतायाम् (तेलाकुचा) राजनि०। तत्फलेन हि ओष्ठसादृश्यं प्रसिद्धम्।
दन्तजात = त्रि० जातो दन्तोऽस्य निष्ठान्तत्वात् परनिपातः। १ जातदन्ते। “दन्तजातेऽनुजते वा कृतचूडे च संस्थिते” मनुः। दन्तजननं तज्जननयोग्यकालश्चोभयमपि दन्तजातशब्देनोच्यते। गर्भोपनिषदि सप्तममासे दन्तजननकालस्योक्तत्वात् तत्र दैवात् दन्तानुत्पत्तावपि जातदन्तकालत्वात् दन्तजनन इवाशौचनिमित्तिता” शुद्धित०।
दन्तजाह = न० दन्तानां मूलं कर्णा० जाह। दन्तमूले।
दन्तदर्शन = न० दन्तानां दर्शनम् दृश–णिच्–ल्युट्। युद्धस्यादौ योधानां प्रतियोधं प्रति स्वदन्तान् बहिष्कृत्य दर्शने (दातखामुटि) “दन्तदर्शनभारावस्ततो युद्धं प्रवर्त्तते” ना० व० उ० ७१ अ०।
दन्तधावन = पु० दन्तान् धावयति शोधयति धाव–ल्यु। १ खदिरवृक्षे २ गुञ्जकरञ्जे, राजनि० ३ बकुले शब्दच०। एतेषां तत्साधनत्वात् तथात्वम् भावे ल्युट्। ४ दन्तमार्जने तत्प्रकारो यथा “प्रातर्भङ्क्त्वा च मृद्वग्रं कषायं कटुतिक्तकम्। भक्षयेद्दन्तधावनं दन्तमांसान्यबाधयन्। तस्य काष्ठानि यथा “केऽप्यत्र करवीराम्रकरञ्जबकुलासनान्। दन्तकाष्ठार्थमन्ये तु सर्वान् कण्टकिनोऽभ्यधुः। स्वदिरश्च कदम्बश्च करञ्जश्च वटस्तथा। तिन्तिडी वेणुपृष्ठञ्च आम्रनिम्बौ तथैव च। अपामार्गश्च विल्वश्च अर्कश्चोडुम्बरस्तथा। एते प्रशस्ताः कथिता दन्तधावनकर्मणि”। तत्र निषिद्धकाष्ठानि यथा “गुवाकतालहिन्तालखर्जूरैः केतकीयुतैः। नारिकेलेन ताड्या च न कुर्य्याद्दन्तधावनम्”। तस्य दिगभेदमुखभेदे शुभाशुभफलं यथा “मृत्युः स्वाद्दक्षिणास्येन पश्चिमास्येन चामयः। पूर्वास्येनोत्तरास्येन सम्पदो दन्तधावनात्”। तस्य तिथिविशेषे निषेधो यथा “प्रतिपद्दर्शषष्ठीषु नवम्येकादशीषु च। दन्तानां काष्ठसंयोगी दहत्यासप्तमं कुलम्”। दन्तघर्षणानन्तरं चक्षुःसेचनं यथा। दन्तानूर्द्ध्वमधो घृष्ट्वा प्रातः सिञ्चेच्च लोचने। तोयपूर्णमुखस्तेन दृष्टिराशु प्रसीदति”। रोगविशेषे दन्तकाष्ठवर्जनं यथा “अर्दितः कर्णशूली च दन्तरोगी नवज्वरी। शोषी कासी च मूर्च्छार्त्तो दन्तकाष्ठं विवर्जयेत्”। तस्य गुणा यथा “निहन्ति वक्त्रवैरस्यं जिह्वादन्ताश्रितं मलम्। आरोग्यं रुचिमाधत्ते सद्यो दन्तविशोधनम्” इति राजबल्लभः। “कृतशौचस्ततः प्राज्ञः कुर्य्याद्दन्तस्य धावनम्। जिह्वाया माजनञ्चापि रसालच्छदनादिभिः। दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा। न दन्तधावनं कुर्य्यात् कुर्य्याच्चेन्नारकी भवेत्। मध्यमानामिकाभ्याञ्च वृद्धाङ्गुष्ठेन च द्विजः। दन्तस्य धावनं कुर्य्यात् तर्जन्या न कदाचन। अश्वत्थवटविल्वानां धात्र्याः काष्ठिकया बुधः। न दन्तधावनं कुर्य्यात्तथेन्द्रसुरसस्य च। नित्यक्रियाफलं प्रेप्सुस्त्वरया दन्तधावनम्। प्रभाते कुरुते प्राज्ञः सूर्य्योदयविवर्जिते। सूर्य्योदये द्विजश्रेष्ठ! यः कुर्य्याद्दन्तधावनम्। नित्यक्रियाफलं तस्य सर्वमेव विनश्यति। यः स्नानसमये कुर्य्यात् जैमिने! दन्तधावनम्। निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः। दन्तस्य धावनं कुर्य्याद्यो मध्याह्नापराह्णयोः। तस्य पुष्पं न गृह्णन्ति देवताः पितरो ज्रलम्। स्नानकाले पुष्करिण्यां यः कुर्य्याद्दन्तधावनम्। तावज्ज्ञेयः स चाण्डालो यावद् गङ्गां न पश्यति। भगवत्युदिते सूर्य्ये यः कुर्य्याद्दन्तधावनम्। तद्दन्तकाष्ठीं पितरो भुक्त्वा गच्छन्ति दुःखिनः। उपवासदिने विप्र! पितृश्राद्धदिने तथा। न च तत्फलमाप्नोति दन्तधावन कृन्नरः। प्रभाते मार्जयेद्दन्तान् वाससा रसनां तथा। कुर्य्याद्वादश विप्रेन्द्र! कवलानि जलैर्बुधः। उपवासे पितृश्राद्ध्वे विधिनानेन जैमिने!। दन्तधावनकृन्मर्त्यः संपूर्णं लभते फलम्” पाद्मे क्रियायोगसारः। “ऊषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत्। ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्वकम्। मुखे पर्य्युषिते नित्यं भवत्यप्रयतो नरः। तस्मात् सर्वप्रयत्नेन भक्षयेद्दन्तधावनम्। कदम्बविल्वखदिरकरवीरवटार्जुनाः। तगरं वृहती जातीकरञ्जार्कातिमुक्तकाः। जम्बूमधूकापामार्गशिरीषोडुम्बरासनाः। क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने। कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः। प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचमेत्। अमावास्यां तथा षष्ठ्यां नवम्यां प्रतिपद्यपि। वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे। अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ। अपां द्वादश गण्डूषैः कुर्व्वीत मुखशोधनम्” इति गारुडे २१४ अ० “मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्। पूर्वाह्ण एव कुर्वीत देवतानाञ्च पूजनम्” मनुः।
दन्तपत्र = न० दन्त इव पत्रमत्र। दन्ताकरपत्रयुक्ते कर्णभूषणभेदे शब्दर०। “विलासिनीविभ्रमदन्तपत्रम्” रघुः “कर्णावसक्तामलदन्तपत्रम्” कुमा० दन्तः गजदन्तः तन्निर्मितं पत्रम्। २ गजदन्तनिर्मिते पत्राकारे कर्णभूषणभेदे च “अहृदये! गृहाण निपतितं दन्तपत्रम्” काद०।
दन्तपत्रक = न० दन्त इव शुभ्रं पत्रं दलं यस्य कप्। कुन्दपुष्पे शब्दच०। स्वल्पार्थे ङीपि अत इत्त्वम्। दन्तपत्रिका स्वल्पे तत्रार्थे स्त्री विदग्धलीलोचितदन्तपत्रिका” माघः
दन्तपवन = न० दन्तं पुनाति अनेन पू–करणे ल्युट्। १ दन्तकाष्ठे। भावे ल्युट्। २ दन्तधावने च। तत्प्रकारो भावप्र० उक्तो यथा
“तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठिकापरीणाहमृज्वग्रथितमव्रणम्। अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्। अवेक्ष्यर्त्तुञ्च दोषञ्च रसं वीर्यञ्च योजयेत्। कषाय मधुरं तिक्त कटुकं प्रात- रुत्थितः। निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा। मधूको मधुरे श्रेष्ठः करञ्ज कटुके तथा। क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च। चूर्णेन तेजोवर्त्त्या च दन्तान्नित्यं विशोधयेत्। एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च। दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्। तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति। वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च। न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे। अथास्यपाके श्वासे च कासहिक्कावमीषु च। दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्त्तो मदपीडितः। शिरोरुगार्त्तस्तृषितः श्रान्तःपानक्लमान्वितः। अर्दितः कर्णशूली च दन्तरोगी च वर्जयेत्”
दन्तपात = पु० ६ त०। १ दन्तानां पतने। २ वर्षभेदे अश्वानां स्वतो दन्तविशेषपतने च तत्कालश्च वृ० सं० ६६ अ० उक्तो यथा “षडभिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः सन्दंशैर्मध्यमान्त्येः पतितसमुदितैस्त्र्यव्दपञ्चाव्दिकोऽश्वः। सन्दंशानुक्रमेण त्रिकपरिगताः कालिकापीतशुक्लाः काचा माक्षीकशङ्खावटचलनतो दन्तपातञ्च विद्धि”
दन्तपाली = स्त्री ६ त०। दन्ताग्रे “ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः। रक्तैस्तु रक्तसारा वहुसुखवनितार्थपुत्रयुताः” वृ० स० ६८ अ०।
दन्तपुप्पुटक = पु० दन्तरोगभेदे दन्तरोगशब्दे सुश्रुतवाक्यम्।
दन्तपुष्प = न० दन्त इव शुभ्रं पुष्पमस्य। १ कुन्दे, २ कतकफले च शब्दच०।
दन्तफल = न० दन्त इव शुभ्रं फलमस्य। १ कतकफले शब्दच० दन्तवत् शुभ्रं फलमस्य। २ कपित्थे पु० ३ पिप्पल्याम् राजनि० स्त्री टाप्।
दन्तभाग = पु० दन्तसम्बन्धी भागः। गजस्य मुखात् स्कन्धपर्य्यन्ते अग्रभागे अमरः।
दन्तमल = न० ६ त०। दन्तलग्नक्लेदे हारा०।
दन्तमांस = न० दन्तसंलम्बं मांसम्। दन्तसंलग्नमांसे (मेडे) ख्याते मांसभेदे।
दन्तमूल = न० दन्तरोगभेदे दन्तरोगशब्दे दृश्यम्।
दन्तमूलिका = स्त्री दन्त इव शुभ्रं मूलं यस्याः कप्। दन्तावृक्षे राजनि०।
दन्तमूलीय = पु० दन्तमूले भवः छ। तवर्गादौ। दन्त्यशब्दे दृश्यम।
दन्तरोग = पु० ६ त०। मुखरोगान्तर्गते दन्तदन्तमूलगते रोगभेदे स च रोगः सुश्रुते उक्तो यथा। “अथातो मुखरोगाणां निदानं व्याख्यास्यामः। मुख- रोगाः पञ्चषष्टिः सप्तखायतनेशु तत्रायतनान्योष्ठौ दन्तमूलानि दन्ता जिह्वा तालुकण्ठः “सर्वाणि चेति। तत्राष्टावोष्ठयोः। पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, इति चोपक्रम्योक्तं यथा। “दन्तमूलगतास्तु शीतादो १ दन्तपुप्पुटको २ दन्तवेष्टकः ३ शौषिरो ४ महाशौषिरः ५ परिदर ६ उपकुशो ७ दन्तवैदर्भो ८ वर्द्धनो ९ऽधिमांसो १० नाड्यः १५ पञ्चेति” इत्युद्दिश्य “शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते। दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च। दन्तमांसानि शीर्य्यन्ते पचन्ति च परस्परम्। शीतादो नाम स व्याधिः कफशोणितसम्भवः १। दन्तयोस्त्रिषुं वा यस्य श्वयथुः सरुजो महान्। दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः २। स्रवन्ति पूयरुधिर वला दन्ता भवन्ति च। दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ३। श्वयथुर्दन्तमूलेषु रुजावान् कफरक्ततः। लालास्रावी स विज्ञेयः कण्डूमान् शौषिरो गदः ४। दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्य्यते। दन्तमांसानि पच्यन्ते मुखञ्च परिपीड्यते। यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः ५। दन्तमांसानि शीर्य्यन्ते यस्मिन् ष्ठीवति चाप्यसृक्। पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ६। वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च। आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः। आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते। यस्मिन्नुपकुशः स स्यात्पित्तरक्तकृतो गदः ७। घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्। भवन्ति च चलादन्ताः स वैदर्भोऽभिघातजः ८। मारुतेनाधिको दन्तो जायते तीव्रवेदनः। वर्द्धनः स मतो व्याधिर्जाते रुक्च प्रशाम्यति ९। हातव्ये पश्चिमे दन्ते महान् शोथो महारुजः। लालास्रावो कफकृतो विज्ञेयः सोऽधिमांसकः १०। दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः १५। “दन्तगतास्तु दासनः १ क्रिमिदन्तको २ दन्तहर्षो ३ भञ्जनकः ४ दन्तशर्करा ५ कपालिका ६ श्यावदन्तो ७ हनुमोक्ष ८ श्चेति। दाल्यन्ते बहुधा दन्ता यस्मिंस्त्रीव्ररुगन्विताः। दालनः स इति ज्ञेयः सदागतिनिमित्तजः। कृष्णश्छिद्री चलः स्रावी ससंरम्भो महारुजः १। अनिमित्तरुजो वाताद्विज्ञेयः क्रमिदन्तकः २। दशनाः शीतमुष्णञ्च सहन्ते स्पर्शनं न च। यत्र तं दन्तहर्षन्तु व्याधिं विद्यात्समीरणात् ३ वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक्। कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ४। शर्करेव स्थिरीमूतो मलोदन्तेषु यस्य वै। सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ५। दलन्ति दन्तवल्कानि यदा शर्करया सह। ज्ञेया कपालिका सैव दशनांनां विनाशिनी ५। योऽसृग्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः। श्यावतां नीलतां वापि गतः स श्यावदन्तकः ७। वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विसंहतः। हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः ८”।
दन्तलेखक = त्रि० दन्तान् लिखति जीविकार्थम् लिख“संज्ञायाम्” पा० ण्वुल् “नित्यं क्रीडाजीविकयोः” पा० नित्यस०। दन्तलेखनरूपजीविकायुक्ते। “अकेजीविकार्थे” पा० पूर्वपदस्याद्युदात्तत्वम्।
दन्तवक्र = पु० करूषाधिपे द्वापरयुगोद्भवे हिरण्यकशिपोरवताररूपे नृपभेदे “हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत् पुरा। पृथुकीर्त्त्यां तु संजज्ञे तनयो वृद्धशर्भणः। करूषाधिपतिर्वीरो दन्तवक्रो महाबलः” हरिवं० ३५ अ०। “अधिराजाधिपञ्चैव दन्तवक्रं महाबलम्। जिगाय करदञ्चैव कृत्वा राज्ये न्यवेशयत्” भा० स० ३० अ०। सहदेवदक्षिणदिग्विजयोक्तौ “द्वारवत्यां निवसता यदुसिंहेन तेन वै” इत्युपक्रमे “दन्तवक्रश्च कारूषो निहतो दक्षिणापथे” हरिवं० १७३ अ०। द्वारकावासकाले कृष्णेन बधो वर्णितः। “मातृष्वस्रेयोवश्चैद्यो दन्तवक्रश्च पाण्डव!। पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ” भाग० ७। १। ३२ इत्युपक्रमे हिरण्याक्षादिजन्मनाशोक्त्यनन्तरम् “तावेव क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव। अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ”। ४४ “कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे। गाढनिर्भिन्नहृदय उद्वमन् रुधिरं मुखात्। प्रसार्य्य केशान् बाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः। ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्” भाग० १०। ७७। ७
दन्तवल्क = पु० दन्तस्य वलकमिव। दन्तावरकचर्मात्मके मांसभेदे “दलन्ति दन्तवल्कानि यदा शर्करया सह” सुश्रुतः।
दन्तवर्त्ति = स्त्री दन्तनिर्मिता वर्त्तिः। “दन्तैर्हस्तिवराहोष्ट्र गवाश्वाजखरोद्भवैः सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः क्षतशुक्रमपि व्याधिं दन्तवर्तिर्निवर्त्तयेत्” चक्रदत्तोक्ते वर्तिकाभेदे।
दन्तवस्त्र = न० दन्तस्य वस्त्रमिव च्छादकत्वात्। दन्तवाससि ओष्ठे हेम०।
दन्तवासस् = न० दन्नस्य वास इवाच्छादकत्वात्। ओष्ठे त्रिका० “तुलां यदारोहति दन्तवाससा” कुमा०।
दन्तवीज(क) = पु० दन्त इव वीजमस्य वा कप्। दाडिनीवृक्षे राजनि०।
दन्तवेष्ट = पु० सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम्।
दन्तवैदर्भ = पु० सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम्।
दन्तशङ्कु = पु० “वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवपत्रमुखे” सुश्रुतोक्ते अस्त्रभेदे।
दन्तशठ = पु० दन्तान् शठति क्लेदयति शठ–अच्। १ जम्बीरे २ कपित्थे ३ कर्मरङ्गे, ४ नागरङ्गे च। ५ चाङ्गेर्य्यां ६ चुक्राम्लिकायां स्त्री० मेदिनि० ७ अम्ले हेमच० ८ क्षुद्राम्लिकायाम् स्त्री राजनि०।
दन्तशर्करा = स्त्री दन्तस्य शर्करेव। दन्तरोगभेदे दन्तरोगशब्दे दृश्यम्।
दन्तशाण = पु० दन्तस्य शाण इव चिक्कणताहेतुत्वात् (मिषि) ख्याते चूर्णभेदे त्रिका०।
दन्तशूल = न० दन्तस्य शूलमिव। दन्तवेदनायाम्। “शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे” भा० शा० ३०५ अ०।
दन्तशोफ = पु० दन्तस्य शोफ इव। दन्तार्बुदे (दा~तेर आव) राजनि०।
दन्तसिरा = स्त्री दन्तस्य सिरा यत्र। (मेडे) ख्याते दन्ताधोभागे मांसपिण्डे शब्दच०।
दन्तहर्ष = पु० सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम्।
दन्तहर्षक = पु० दन्तान् हर्षयति हृष–णिच्–ण्वुल्। जम्बीरे जटाधरः।
दन्ताग्र = न० ६ त०। दन्तस्याग्रे ततः गहा० भवादौ छ। दन्ताग्रीय तद्भवादौ त्रि०।
दन्ताघात = पु० दन्तानाहन्ति आ + हन–अण् उप० स०। १ निम्बूके। भावे घञ्। २ दन्तैराहनने राजनि०। “दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरम्” गणेशध्यानम्। रतौ तत्स्थानानि यथा “स्तनयोर्गण्डयोश्चैव ओष्ठे चैव तथाधरे। दन्ताघातः प्रकर्त्तव्यः कामिनीनां सुखावहः” कामशास्त्रम्।
दन्ताद = पु० “केशरोमनखादाश्च दन्तादाः चिक्कशास्तथा। कुष्ठजाश्च परीसर्पाज्ञेयाः शोणितसम्भवाः” सुश्रुतोक्ते दन्तखाद्रककृमिरोगभेदे। “दन्तादानां समुद्दिष्टं विधानं मुखरोगिणाम्” सुश्रु०।
दन्तादन्ति = त्रि० दन्तैश्च दन्तैश्च प्रहृत्य प्रवृत्तं युद्धम् इच् समा० पूर्वाणोदीर्घः। परस्परदन्तप्तहारेण प्रवृत्ते युद्धे “कचाकचि युद्धमासीद्दन्तादन्ति नखानखि” भा० कर्ण्ण० ४९ अ०।
दन्तायुध = पुंस्त्री० दन्ता युधमिवास्य। शूकरे त्रिका० स्त्रियां जातित्वात् ङीष्।
दन्तार्बुद = पु० दन्तस्यार्वुदमिव। दन्तरोगभेदे राजनि०।
दन्तालिका = स्त्री दन्तान् अलति भूषयति, तेभ्यो वा पर्य्याप्नोति अल + ण्वुल्। वल्गायाम्। (लागाम) त्रिका० “दन्तालिकाधरणनिश्चलपाणियुग्मम्”। (वल्लवपालम्) माघः। अण् गौ० ङीष् दन्ताली तत्रार्थे वैजय०।
दन्तावल = पु० दन्त + अस्त्यर्थे वलच् पूर्वपददीर्घः। हस्तिनि अमरः।
दन्तिका = स्त्री दम–तन् + गौरा० ङीष् स्वार्थे क ह्रस्वः। दन्तीवृक्षे अमरः।
दन्तिजा = स्त्री दन्तिका + पृषो०। दन्त्योषधौ शब्दर०।
दन्तिन् = पु० दन्त + अस्त्यर्थे इनि। हस्तिनि अमरः “अनिर्वाणस्य दन्तिनः” रघुः। “पिष्टाद्रिपृष्ठास्तरसा च दन्तिनः” माघः।
दन्तिनी = स्त्री दन्तस्तदाकारोऽस्त्यस्याः मूले इनि ङीप्। दन्तीवृक्षे राजनि०।
दन्तिमद = ६ त०। हस्तिमदे गन्धद्रव्यभेदे शब्दार्थचि०।
दन्तिमूलिका = स्त्री दन्ति गजदन्तयुक्तमिव मूलमस्याः कप् कापि अत इत्त्वम्। दन्तीवृक्षे राजनि०।
दन्ती = स्त्री दम–तन् गौरा० ङीष्। १ उदुम्बरपर्ण्यां, प्रत्यक् पर्ण्यमोषधौ अमरः। दन्तः गजदन्त इव मूलमस्त्यस्याः अच् गौरा० ङीष्। २ स्वनामख्याते वृक्षे भावप्र० “लघुदीर्घप्रभेदेन प्रोक्तं दन्तीद्वयं बुधैः। दन्तीद्वयं सरं पाके रसे च कटु दीपनम्। गुदाङ्कुराश्मशूलास्रकण्डुकुष्ठविदाहनुत्। तीक्ष्णोष्णं हन्ति पित्तास्रकफशीथोदरक्रमीन्” भावप्र० तद्गुणा उक्ताः।
दन्तीवीज = न० दन्त्या इव वीजमस्य। जयपाले राजनि०।
दन्तुर = त्रि० उन्नताः दन्ताः सन्त्यस्य दन्त + उरच्। १ उन्नतदन्तयुक्ते, उन्नतानते विषमे स्थाने च शब्दार्थचि०। “शूकरे निहते चैव दन्तुरो जायते नरः” शाता० तथाभवनसाधनं कर्भविशेष उक्तः। “कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी। कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चला सतीति” सामुद्रकम्। “अमलमणिशलाका दन्तुराभिः किरीटकोतिभिः” काद०। “करयन्त्रणदन्तुरान्तरे” नैष०।
दन्तुरक = पु० देशभेदे स च देशः वृ० स० १४ अ० कूर्म्मविभागे अथ पूर्वस्यामित्युपक्रमे “मिथिलसभभटोड्राश्ववदनदन्तुरकाः”। पूर्वस्यामुक्तः।
दन्तुरच्छद = पु० दन्तुर उन्नतानतः छदी यस्य। वीजपूरे राजनि०।
दन्तोलुखलिक = पु० दन्ता एव उलूखलः कण्डनसाधनं विद्यतेऽस्य ठन्। वानप्रस्थभेदे स हि दन्तैरेव व्रीह्यादीन् कण्डयित्वा खादति। “दन्तोलूखलिकः कालपक्राशी पाश्मकुट्टकः” याज्ञ०। “अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा” मनुः। इनि। दन्तोलूखलीत्यप्यत्र।
दन्तौष्ठ = न० दन्ताश्च ओष्ठौ च तेषां समाहारः। दन्तौष्ठानां समाहारे। ततः शरीरावयवत्वात् भवादौ यत्। दन्त्योष्ठ्य तदुच्चार्य्ये दन्त्यवकारे “दन्तोष्ठ्योवः स्मृतो बुधैः” शिक्षा०
दन्त्य = पु० दन्ते दन्तमूले वा भवः यत्। दन्तदन्तमूलयीर्जाते १ तवर्गादौ वर्णे। “ऌतुलसानां दन्ताः” सि० कौ०। “दन्त्याऌतुलसाः स्मृताः” पा० शि०। शेखरादौ दन्तशब्दस्य दन्तमूलपरतोक्ता अन्यथा भग्नदन्तस्य तदनुच्चारणापत्तेः” दन्तेभ्यो हितः यत्। २ दन्तहितकारके त्रि०।
दन्त्यरिष्ट = न० दन्त्यम् अरिष्टं रिष्टाभावो यत्रौषधे। चक्रदत्तोक्ते अर्शोध्ने औषधभेदे। “दन्ती चित्रकमूलानि जलद्रोणे विपाचयेत्। त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्। तुलां गुडस्य तत्तिष्ठेन्मासार्द्धं घृतभाजने। तन्मात्रया पिबेन्नित्यमर्शोभ्यो विप्रमुच्यते। ग्रहणीपाण्डुरोगघ्नं वातवर्च्चोऽनुलोमनम्। दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः”।
दन्दशूक = पुंस्त्री गर्हितं दशति दन्श–गर्हार्थे यङ्–ऊक। १ राक्षसे, “दन्दशूकान् जिघांसौ” भट्टिः २ सरीसृपे, ३ सर्पे च मेदि०। “दन्दशूकः पतङ्गो वा भवेत् कीटोऽथवा कृमिः” याज्ञ०।
दन्द्रम्यमाण = त्रि० द्रम–यङ् शानच्। कुटिलगतियुक्ते।
दन्भ = दम्भे स्वा० पर० अक० सेट्। दम्नोति अदम्भीत्। दम्भित्वा दब्ध्वा। दब्धः। सनि वेट् इडभावपक्षे नलोपे धीप्सति धिप्सति दिदम्भिषति।
दन्भ = संघाते चुरा० आत्म० अक० सेट्। दम्भयते अददम्भत।
दन्श = हिंसने रदकरणकव्यापारभेदे दंशने (कामडान) भ्वा० पर० सक० अनिट्। दशति अदाङ्क्षीत् ददंश। “करौ निरोद्धुर्दशति स्म केवलम्” “कटुकीटान् दशतः सतः क्वचित्” नैष०। दृष्टः दंष्ट्वा।
***