—द—

= दकारः तवर्गीयतृतीयवर्णः व्यञ्जनवर्णभेदः अस्योच्चारणस्थानं दन्तमूलम्। दन्तमूलेन सह जिह्वाग्रेण स्पर्शनादस्य उच्चार्य्यत्वात् स्पर्शवर्णता। अस्योच्चारणे याह्यभयत्नाः संवारनादघोषा अल्पप्राणश्च। तस्य वाघकशब्दा वर्णाभिधानोक्ता यवा।

“दोऽद्रीशोधातकि र्धाता दाता त्रासः कलत्रकम्। दीनं ज्ञानञ्च दानञ्च भक्तिरावहनी धरा। सुषुम्णा योगिनी सद्यःकुन्तलो वामगुल्फकः। कात्यायनी शिवा दुर्गाऽनङ्गनामा त्रिकण्टकी। स्वस्तिकः कुटिलारूपः कृष्णः श्यामा जितेन्द्रियः। धर्मकृद्वामदेवश्च भ्रमरेहः सुचञ्चला। हरिद्रापुरवेदी च दक्षपाणिस्त्रिरेखकः” श्रस्याधिष्ठातृदेवता ध्यानादि यथा “ध्यानमस्य दकारस्य वक्ष्यते शृणु पार्वति!। चतुर्भुजा पीतवस्त्रां नवयौवनसंश्रिताम। अनेकरत्नघटितहारनुपूरशोभिताम् एवं ध्यात्व दकारन्तु तन्मन्त्रं दशधा जपेत्। त्रिशक्तिसहितं देवि! त्रिविन्दुसहितं तथा। आत्मादितत्त्वसंयुक्तं दकारं प्रणमान्थहम्” वर्णोद्धारतन्त्रम्। अस्य स्वरूपं यथा “दकारं शृणु चार्वहि! बतुर्वर्गप्रदायकम्। पञ्चदवमयं वर्णं पञ्चप्राणमयं सदा। त्रिशक्तिसहितं देवि! त्रिविन्दु सहितं यदा। व्यात्मादितत्त्रसंयक्तं स्वयं परमकुण्डली। रक्तविद्युल्लताकार टकरि हृदि भावयेत्” कामधेनुमन्त्रम्। ताव्यादौ अस्व प्रयोगे सौख्यं फलम्। दोघः सौख्यं मुदं नः” वृत्त० र० टी० उक्तेः। मावृकान्वासेऽस्य वामगुल्फे न्यास्यः।

= पु० दैप्–शुद्धो दा–दाने टो–खण्डने वा क दद–दाने बा० ड वा। १ पर्वते २ दत्ते ३ दातरि च मेदि०। ४ कलत्रे न० एकाक्षरकोषः। दो–खण्डने सम्प० भावे क्विप्। ५ खण्डने ६ रक्षणे च स्त्री मेदि०। “दाददोदुद्ददुद्दादीदादादोदूददीददोः। दुद्दादं दददे दुद्देददाददददोऽददः” माघः अस्य मल्लिनाथवाख्यायामर्थ विशेषा बोध्याः। “स्मरशापावधिदां सरस्वतीम्” कुमा० “करिणां मुदे सनलदा नलदाः” किरा०। “स्यादस्यानलदं विना न दलने तापस्य कोऽपि क्षमः” “दे! वःपतिर्विदुवि नैषधराजगत्याः” नैषधम्। हे विदुषिदे विद्वज्जने दात्रि! वो वरुणः इति वरुणपक्षे च्छेदः।

दंश = पु० दन्श–कच् भावे घञ् वा। (डाश) प्रसिद्धे कीटभेदे २ सन्नदहने (वर्मणि) ३ दशने च मेदि०। ४ दोषे ६ सर्पक्षते च विश्वः करणे घञ। ७ दन्ते पु० हेमच० “सर्वञ्च दंशमशकं स्थावरञ्च पृथग्विधम्”। “स्वेदजा दंशमशकं यूकामक्षिकमत्कुणम्” मनः। “कण्डूयनैर्दंशनिवारणैश्च” रघुः। गौरा० ङीष् क्षुद्रोदंशः अल्पार्थे ङीप् वा। ८ क्षुद्रदंशे (मशक) भेदे स्त्री अमरः।

दंशक = पु० दन्श–ण्वुल्। (डाश) १ मक्षिकाभेदे हारा०। २ दंशनकर्त्तरि त्रि०।

दंशन = न० दन्श–भावे ल्युट्। (कामडान्) (हुलवमान) १ दन्तादिना खण्डने “दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः” सा० द० २ वर्म्मणि न०। “धृष्टदुम्रमहत्वा तु न विमोक्ष्यामि दंशनम्” भा० क० ५७ अ०।

दंशनाशिनी = स्त्री दंशं नाशयति नाशि–णिनि–ङीप्। तैलकीटभेदे राजनि०।

दंशभीरु = पु० दंशात् भीरुः। महिषे हेमच०।

दंशमूल = पु० दंश्यते कर्मणि घञ् दंश मूलमस्य। शिग्रौ (सजिना) राजनि०।

दंशित = त्रि० दंशः वर्म संजातोऽस्य तार० इतच्। १ कृतसन्नाहे धृतवर्मणि “सूर्य्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः। तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्” भा० वि० ४२ अ० “छत्राणि च विराजन्ते दामतानि सि तानि च” हरिवं ५४५४ श्लो०।

दंशूक = त्रि० दन्श वा० उक। दशनशीले। “तस्मात् क्लीवाः दन्दं शूका दंशूकाः” तैति० ब्रो० १। ७। ८। २।

दंष्ट्रा = स्त्री दंश–ष्टन् गौरादिषु नातामहशब्दस्य पाठात् षित्त्वात् ङीषोऽनित्यत्वात् टाप्। स्थूलदन्तभेदे। दन्त- पङक्तिद्वयप्रान्ते चत्वारो दन्तभेदा दंष्ट्रा इति प्रसिद्धिः। द्विगुणाकृतदन्तावलिरित्येके “दंष्ट्राकरालानि च ते मुखानि” गीता। “दंष्ट्रायां धरणिर्नखे दितिसुताधीशः पदे रोदसी” सा० द०। “दंष्ट्रामयूखैः शकलानि कुर्वन्” रघुः

दंष्ट्रानखविष = पु० दंष्ट्रायां नखे च विषं यस्य। मार्ज्जारादौ यथाह सुश्रुतः। “तत्र दृष्टिनिश्वासं दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुखमन्दंशविशर्द्धितगुदास्थिपित्तशूकशवानीति” विषस्थानोपक्रमे “मार्जारश्ववानरभकरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथान्ये दंष्ट्रानखविषाः”।

दंष्ट्राल = त्रि० दंष्ट्रा + अन्त्यर्थे चूडा० ल। दंष्ट्रायुक्ते “धूम्बकेशो हरित्श्मश्रुर्दंष्ट्रालौष्टपुटाननः” हरिवं० ४७ अ०।

दंष्ट्राविष = पु० दंष्ट्रायां विषमस्य। १ भौमे गर्पे “भौमास्तु दंष्ट्राविषाः” सुश्रुतः २ लूताभेदे स्त्री। यथाह सुश्रुतः

“विषन्तु लालानश्चमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण। सप्तप्रकारं विसृजन्ति सूतास्तदुग्रमध्यावरवीर्य्ययुक्तम्। सकण्डूकोठं स्थिरमल्पमूलं लाणाजतं मन्दरुजं दन्ति। शोफश्च कण्डूश्च पुलानिका च धूमायनं चैव गस्याग्रदंशे। दंशन्तु मूत्रेण सकृष्णमध्यं सरक्तपर्य्यन्तमवेहि दीणम्। दंष्ट्राभिरुग्रं कठिनं विवर्णं जागीहि दंशं स्थिरमण्डलञ्च”। लालाविपादयोऽप्यत्र।

दंष्ट्रास्त्र = पुंस्त्रो दंष्ट्रास्त्रमिवास्य। वराहे शब्दार्थग्नि०। दंष्ट्रायुधादयोऽप्यत्र

दंष्ट्रिका = स्त्री दंष्ट्रा स्वार्थे क कापि ह्रस्वे अत इत्त्वम्। दाडिकाय दंष्ट्रायपदार्थे दंष्ट्रा + व्रीह्या० वा ठन्। दंष्ट्रायुक्ते त्रि०।

दंष्ट्रिन् = पु० दंष्ट्रा अस्त्यर्थे व्रीह्या० इनि। शूकरे अमरं २ सर्पे शब्दर०। ३ दंष्ट्रायुक्ते त्रि०। “टंष्ट्रिभिः शृङ्गिभिर्वापि हताम्लेच्छैश्च तस्करैः” शु० त० अग्निपु०।

दंसना = स्त्री चु० दनूस–भावे युच्। १ कर्म्मणि निरुक्ते दंशस् इति शब्दस्म कर्मपर्य्यायतोक्त स्तथार्थत्वम्। “तप क्रत्वा तव तद्दंसनाभिः” ऋ० ६। १७। ६। “दंसनाभिः कर्मभिः” भा०। “शची वस्तव दंसना” ऋ० १। २९। २।

दंसस् = न० दन्स–असुन्। कर्म्मणि निघण्टुः “चारुतममसि दंसः” पा० १। ६२। ६। “अवर्द्धयो वलिनो अस्य दंससा” १०। १२८। “दंममा कर्म्मणा” भा०। “सजोषावश्विना दतोभिः” तजु० १२। ७४।

दंसि = पु० दन्स–इन्। कर्म्मणि। “कुत्साय मन्मन्नह्यश्च दं- सयः” ऋ० १०। १३८। १। “दंसयः कर्माणि” भा० “दंसयः कर्माणि दंसयत्येनानि” निरुक्ते ४। २५।

दंसिष्ठ = त्रि० दन्स–तृन् दंसयिता अतिशयेन सः इष्ठन् तृणो लुकि णिलोपः। १ अत्यन्तकर्मकर्त्तरि। “दस्रा दंसिंष्ठा रथ्या रथीतमा” ऋ० १। १८२। २। “दंसिष्ठा अतिशयितकर्मार्णा” भा० औस्थाने आध्। २ दर्शनीयतमे ३ अतिशयेन शत्रुहिंसके च। “येना दंसिष्ठ! कृत्वने” ऋ० ८। २४। २५। “हे दंसिष्ठ! दर्शनीयतम! यद्वा शत्रूणां क्षपयितः!” भा०। अत्र दृशेः दंसे र्वा धातोरूपं पृषो०।

दक = न० उदक + पृषो० दैप्–शोधे क ततः संज्ञायां कन् वा। जले त्रिका० दकोदरम्। दकार्गलम्।

दकोदर = न० दकं जलस्फीतमुदरं यत्र। सुश्रुतोक्ते कलोदरापरनामके उदररोगभेदे यथा “यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्पथ वा निरूढः। पिवेज्जलं शीतलमाशु तस्य स्रीतांसि दुष्यन्ति हि तद्वहानि। स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरं पूर्बवदभ्युपैति। स्रिग्धं महत्सम्परिवृत्तवाभि भृशोन्नतं पूर्णमिवाम्बुना च। यथा दृतिः क्षुभ्यति, कम्पते च शब्दायते धापि दकोदरं तत्। “नाभेरधश्चतुरङ्गुले सेवन्या वामपार्श्वे दकोदरे” “वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम्” मश्र०।

दक्ष = वृद्धौ शीघ्रार्थे च भ्वा० आत्म० अक० सेट्। दक्षते अदक्षिष्ट। ददक्षे। दक्षः। “त्वमिनो शतहिमासि दक्षसे” ऋ० २। १। ११।

दक्ष = हन्त्यर्धे (गतौ बधे च) भ्वा० आत्म० सक० सेट्। दक्षते अदक्षिष्ट ददक्षे। मित् तत्करणसामर्थ्यात् अनुपधाया अपि दीर्घे चिणि० अदाक्षि अदक्षि णमुलि दक्षं दक्षम् दासं दाक्षमिति रूपं षित भावे अ। दक्षा।

दक्ष = पु० दक्ष–कर्त्तरि अच्। १ ताम्रचूडे दक्षसंहिताकर्त्तरि २ मुनिमदे ३ शिववृषभे ४ वृक्षभेदे ५ अग्नौ च विश्वः। ६ महेश्वरे शब्दरत्ना०। ब्रह्मणो दक्षिणाङ्गुष्ठजाते ७ प्रजापतिभेदे। ८ चतुरे ज्ञेयेषु कर्त्तव्येषु चोपस्थितेषु सद्य एव ज्ञातं कर्तुं च समर्थे पटौ त्रि० मेदि०।

“दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवान् ऋषिः। ब्रह्मणः पृथिवीपाल! शान्तात्मा सुमहातपाः। वामादजायताङ्गुष्ठाद्धार्य्या तम्य महात्मनः। तस्यां पल्लाशतं कन्याः स एवाजनयन् मुनिः। ताः सर्वास्त्वनवद्याङ्घ्यः कन्याः कमललोचनाः। पुत्रिकाः स्वापयामास नष्टपुत्रः प्रजा- पतिः” भा० आ० ६६ अ० तस्य पुत्रनाशकथा दक्षसुत शब्दे दृश्यम् हरिवंशे २ अ० तु तस्य प्राचेतसत्वमुक्तं यथा

“उपगम्याब्रवीदेतानथ सोमः प्रजापतीय। कोपं यच्छत राजानः! सर्वे प्राचीनबर्हिषः!। वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ। रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी। भविष्यं जानता तत्त्वं धृता गर्भेण वै मया। मारिषा नाम कन्येयं वृक्षाणामिति निर्मिता। भार्य्यावोऽस्तु महाभागा सोमवंशविवर्द्धिनी। युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः। अस्यामुत्पत्स्यते पुत्रो दक्षी नाम प्रजापतिः। स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै। अग्निनाऽग्निसमो भूत्वा प्रजाः संवर्द्धयिष्यति। ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः। संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्। मारिषायां ततस्ते तु मनसा गर्भमादधुः। दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः। दक्षोजज्ञे महातेजाः सोमस्यांशेन भारत!। पुत्रानुत्पादयामास सोमवंशविवर्द्धनान्। अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पपदः। स सृष्ट्वा मनसा दक्षः पश्चादप्यसृजत् स्त्रियः। ददौ स दश धर्माय कश्यपाय त्रयोदश। शिष्टाः सोमाय राज्ञेऽथ नक्षत्राख्या ददौ प्रभुः। तासु देवाः खगा गावो नागा दितिजदानवाः। गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः। ततः प्रभृति राजेन्द्र! प्रजा मैथुनसम्भवाः। सकल्पाद्दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा”।

अनयोर्विरोधमाशङ्क्य कल्पभेदादविरोधः भेङ्ग्या तत्रैव समाहितो यथा

“जनमेजय उवाच। देवानां दानवानाञ्च गन्धर्वोरगरक्षसाम्। सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः। अङ्गुष्ठाद् ब्रह्मणो जातो दक्षः प्रोक्तस्त्वयाऽनघ! वामाङ्गष्ठात्तथा चैव तस्य पत्नी व्यजायत। कथं प्राचे तसत्व स पुनर्लेभे महातपाः। एतन्मे संशयं विप्र! सम्यगाख्यातुमर्हसि। दौहित्रश्चैव सोमस्य कथं श्वशुरताङ्गतः”। वैशम्प्रायन उवाच। “उत्पत्तिश्च निरोधश्च नित्यौ भतेषु पार्थिव!। ऋषयोऽत्र न मुह्यन्ति विद्वांसश्चैव ये जनाः। युगे युगे भवन्त्येते सर्वे दक्षादयो नृपाः। पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यपि। ज्यैष्ट्यं कानिष्ट्यमप्येषां पूर्वं नासीज्जनाधिप!। तप एव गरीयोऽभूत् प्रभावश्चैव कारणम्” हरिवं० २ अ०। ९ औशीनरपुत्रनृपभेदे “शिविर्बलः कृमिर्दक्षश्चत्वारौशीनरात्मजाः” भाग० ९। २३। ४। ९ दक्षिणभागे “वामतो जानकी यस्य दज्ञभागे च लक्ष्मणः। मारुतिः पुरतो यस्य” रामकवचम्। १० विष्णौ “उग्रः संवत्सरो दक्षः” विष्णुस०। “जगद्रूपेण वर्द्धमानत्वात् सर्वकर्माणि क्षिप्रं करोतीति बा दक्षः” भा० तत्र कुशले “दक्षमिष्टमधुवासरसारम्” “उपवनपवनानुपातदक्षैः” माघः “रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ” रघुः। “मेरौ स्थिते दोग्धरि दोहदक्षे” कुमा०। दक्ष हिंसे करणे घञ्। ११ बले निघण्टुः। “स दक्षाणां दक्षपतिर्बभूव” ऋ० १। ९५। ६। दक्षाणां बलानाम् मध्ये यदतिशयितं बलं तस्याधिपतिः” भा०। १३ वीर्य्ये न० “स्वैर्दक्षैर्दक्षपितेह सीद देवानाम्” यजु० १४। ३। “स्वैर्दक्षैः वीर्य्यैः सामर्थ्यैः सह, दक्षशब्दोऽत्र वीर्य्यार्थः। दक्षपिता दक्षं वीर्य्यं पातीति पालयिता” वेददी०।

दक्षकन्या = स्त्री ६ त०। दक्षस्य सुतासु ताश्च षष्टिः। यथाह मत्स्यपु० ५ अ०।

“ततस्तेषु विनष्टेषु षष्टिं कत्याः प्रजापतिः। वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा। प्रादात् स दश धर्माय कश्यपाय त्रयोदश। सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमये। द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते। द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्”। “तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः। षष्टिं ततोऽसृजत् कन्यां वैरिण्यामिति नः श्रुतम्। तास्तदा प्रतिजग्राह भार्य्यार्थं कश्यपः प्रभुः। सोमो धर्मश्च कौरव्य। तथैवान्ये महर्षयः। ददौ स दश धर्माय कश्यपाय त्रयोदश। सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने। द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा। द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु” हरिवं० ३ अ०। २ सतीनाम्न्यां भवपत्न्यां दुर्गायाञ्च तत्कथा “प्रसूतिं मानवीं दक्षः उपयेमे ह्यजात्मजः। तस्यां ससर्ज्ज दुहितॄः षोडशामललोचनाः। त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः। पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे” भाग० ४। १। “अथापमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी। सती सती योगविसृष्टदेहा कुमा० दक्षसुतादयोऽप्यत्र।

दक्षक्रतु = पु० ६ त०। दक्षप्रजापतिकृते निरीश्वरभागे यज्ञभेदे। तद्यज्ञकथा काशी० ८७ अ० यथा

“अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः। भवन्तु यज्ञसम्भारानानयन्तु त्वरान्विताः। श्वेतद्वीपनथो गत्वा चक्रे चक्रिणमच्युतम्। सहाक्रतूपदेष्टारं यज्ञपूरुषमेव च। तस्यर्त्विजोऽभवन् सर्वे ऋषयो ब्रह्मवादिनः। प्रावर्त्तत ततस्तस्य दक्षस्य च महाध्वरः। दूरादेव निकायाच्च तस्मिन् दक्षमहाध्वरे। अनोश्वरात्ततो वेधा व्याजं कृत्वा गृहं ययौ। दधीचिरथ संवीक्ष्य सर्वांस्त्रैलोक्यवासिनः। दक्षयज्ञे समेयातान् सतीश्वरविव र्जितान्। प्राप्तसम्मानसम्भारान् वासोऽलङ्कृतिपूर्वकम्” इत्युपक्रमे तत्र दधीचिना सह दक्षस्य उक्तिप्रत्युक्ती यथा

“तं विदन्ति वशिष्ठाद्यास्तवार्त्विज्यं भजन्ति ये। एको रुद्रो न द्वितीयः संविदानाअपीति हि। प्रावर्त्तन्तर्षयोऽन्येऽपि गौरवात्तव च क्रतौ। यदि मे ब्राह्मणस्यैकं शृणोषि वचनं हितम्। तदा क्रतुफलाधीशं विश्वेशं तं समाह्वय। विना तेन क्रतुरसौ कृतोऽप्यकृत एव हि। सति तस्मिन् महादेवे विश्वकर्मैकसाक्षिणि। तवापि चैषां सर्वेषां फलिष्यति मनोरथः। यथा जडानि वीजानि न फलन्ति स्वयं तथा। जडानि सर्वकर्माणि न फलन्तीश्वरं विना। अर्थहीना यथा वाणी धर्महीना यथा तनूः। पतिहीना यथा नारी शिवहीना तथा क्रिया। गङ्गाहीना यथा देशाः पुत्रहीना यथा गृहाः दानहीना यथा सम्पत् शिवहीना तथा क्रिया। मन्त्रहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः। योषाहीनं यथा सौख्यं शिवहीना तथा क्रिया। दर्भहीना यथा सन्ध्या तिलहीनं तु तर्पणम्। हविर्हीनो यथा होमः शिवहीना तथा क्रिया। इत्थं दधीचिनाख्यातं जग्राह वचनं न तत्। दक्षो दक्षोऽपि तत्रैव शम्भोर्मायाविमोहितः। प्रोवाच च भृशं क्रुद्धः का चिन्ता तव मे क्रतोः। क्रतुमुख्यानि सर्वाणि यानि कर्माणि सर्वशः। तानि सिध्यन्ति नियतं यथार्थकरणादिह। अयथार्थविधानेन सिद्ध्येत् कर्मापि नेशितुः। स्वकर्मसिद्धये वाथ सर्व एव हि चेश्वरः। ईश्वरः कर्मणां साक्षी यत् त्वयापीति भाषितम्। तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित्। जडानि सर्वकर्माणि न फलन्तीश्वरं विना। यदुक्तं भवता तत्राप्यहो दृष्टान्तयाम्यहम्। जडान्यपि च वीजानि कालं संप्राप्य चात्सना। अङ्कुरयन्ति कालाच्च पुष्प्यन्ति च फलन्ति च। विनाऽपीशं यथा कर्म स्वयं काले फलत्यहो। किमीश्वरेण तेनात्र महाऽमङ्गलमूर्त्तिना। दधीचिरुवाच। यथार्थकरणात् सिद्धमपि कार्यं कदाचन। ईश्वरप्रातिकूल्याच्च सिद्धमेवाशु नश्यति। ईश्वरेच्छाबलात् कर्म कृतमप्यविधानतः। संसिध्येत्तदधीनाश्च कथं सर्व इहेश्वराः। सामान्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम्। साक्षी भवेदसन्दिग्धं फलस्य प्रतिभूरपि। भूजलादिस्वरूपेण विदध्यादङ्कुरोदयम्। यत् त्वयोक्तं विनापीशं काले कर्म फलेत् स्वयम्। सं एव कालो भगवान् सर्वकर्त्ता महेशिता। अन्यच्च भवता प्रोक्तं यदेकं तथ्यमेव तत्। किमीश्वरेण तेनात्र महामङ्गुलभूत्तिना। ये महान्तो भवन्त्येव ये च मङ्गलमूर्त्तयः। ईश्वराख्या च ये सन्ति किन्तैरत्र तवान्तिके। उत्तरादुत्तरञ्चेति प्रत्युत्तरयति द्विजे। दधीचौ चुकुपेऽत्यन्तं दक्षो गर्वी हतश्रिया। आदिदेश समीपस्थानालोक्य परितस्त्विति। ब्राह्मणाप्रसदं चामुं परिदूरयताशु वै। अमुष्मादध्वरश्रेष्ठादनादिष्टात्मनाऽऽगतम्। इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव। किं मां दूरयसे मूढ! दूरीभूतो भवानपि। सर्वेभ्यो मङ्गलेभ्यश्च सर्वैरेभिः समं ध्रुवम्। अकाण्डे क्रोधजो दण्डस्तव मूर्घ्नि पतिष्यति। महेशितुस्त्रिजगतीपुरीशास्तुः प्रजापते!। इत्युक्त्वा निर्जगामाशु यज्ञवाटात् ततो द्विजः। तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो महान्। उत्तङ्क उपमन्युश्च ऋचीलोद्दालकावपि। माण्डव्यो वामदेवश्च गालवो गर्गगौतमौ। शिवतत्त्वविदीऽन्येऽपि दक्षयज्ञाद्विनिर्थयुः”। दक्षयज्ञादयोऽप्यत्र। दक्षाः कुशलाः क्रतवः संकल्पायेषाम्। २ चक्षुरादीन्द्रियरूपेषु प्राणेषु “ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते नोऽवन्तु” यजु० ४११। “ये देवा ईदृशाः दीव्यन्ति द्योतन्ते इति देवाश्चक्षुरादीन्द्रियरूपाः प्राणाः। “इमे वै प्राणाः वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा इति” शत० ब्रा० ३। २। २। १३ श्रुत्युक्ताः। किम्भूताः मनोजाताः दर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः इच्छोत्पत्तौ तेषां प्रवर्त्तमानत्वात्। तथा मनोयुजः रूपादिदर्शनकालेऽपि मनसा युक्ता एव वर्त्तन्ते अन्यमनस्कस्य रूपादिप्रतिमासाभावात्। यद्वा स्वप्नावस्थायां मनसा युज्यन्ते ते मनोयुजः। तथा दक्षक्रतवः दक्षाः कुशलाः क्रतवः संकल्पाः येषां ते सङ्कल्पितार्थकारिण इत्यर्थः। ते देवा नोऽस्मानवन्तु यज्ञानुष्ठानविघ्नपरिहारेण पालयन्तु तेभ्यः प्राणरूपेभ्यः स्वाहा इदं क्षीरं हुतमस्तु” वेददी०।

दक्षक्रतुध्वंसिन् = पु० दक्षक्रतुं ध्वंसयति ध्वन्स–णिच्- णिनि। १ महादेवे तदंशाविर्भूते २ वीरभद्रे च तत्कथा क्रतुध्वंसिन् शब्दे २२८४ पृ० दृश्यम्।

दक्षजा = स्त्री दक्षात् जावते जन–ड। सतीरूपायां १ दक्षकन्यायां महेशकलत्रे दुर्यायाम् २ अश्विन्यादौ च। दक्षजातादयोऽप्यत्र।

दक्षजापति = पु० ६ त०। १ शिवे २ चन्द्रे च हेमच०।

दक्षतनया = स्त्री ६ त०। दक्षप्रजापतेर्दुहितरि १ अश्विन्यादौ २ दुर्गायाम्। ३ वेदिरूपायां भूमौ च। “अदितिर्ह्यजनिष्ट दक्ष! या दुहिता तव” ऋ० १०। ७२। ५। दक्षस्य भूमिजत्वेऽपि तज्जनकत्वासम्भवमाशङ्क्य निरु० ११। १३। समाहितं यथा “अदितेर्दक्षो अजायत” “दक्षाद्वदितिं परीति” च तत्कथमुपपद्येत? समानजन्मानौ स्यातामित्यपि वा देवघर्मणेतरेतरजन्मानौ वेतरेतरप्रकृती”। पृषो० दक्षतनाप्यत्र “दक्षस्य पितरं तनां ऋ० ३। २७। ९ “दक्षस्य दक्षप्रजापतेस्तना तनया” भा०।

दक्षपितृ = पु० दक्षः दक्षप्रजापतिः पिता उत्पादकोऽस्य समासान्तविधेरनित्यत्वात् न कप्। दक्षप्रजापतिजातप्राणाभिमानिदेवे “ये देवा मनोजाता मनोयुजः सुदक्षाः दक्षपितारस्तेनः पान्तु” तैत्ति० १। २। ३। १। दक्षपितार इत्यत्र गौणत्यात् वृद्धिः। चक्षुरादिप्राणाभिमानिनो ये देवाः सन्ति तेऽस्मान् पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बर्हिश्च शुद्धिसम्पादनेन पालयन्तु। कीदृशा देवाः। उत्पत्तिकाले मनसा सहोत्पन्नाः। व्यवहारकालेऽपि मनसा युज्यन्ते। अन्यमनस्कस्य चक्षुरादिभिः सन्निहिनविषयाणामप्यनव गमात्। सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाः कुशलाः। दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः” भा०। लोके तु कप्। दक्षपितृका अश्विन्यादिषु स्त्री। दक्षस्य वीर्य्यस्य पिता पालक!। ३ वीर्य्योत्पादके दक्षशब्दशेषे उदा० दृश्यम्।

दक्षविहिता = स्त्री १ गीतिकाभेदे। “ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका। गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्” याज्ञ०। “ऋग्गाथाद्याश्चतस्रो गीतिकाः” मिता०। २ दक्षकृते त्रि०।

दक्षस् = न० दक्ष–करणे असुन्। बले। “वृषणा दक्षसे यसुः” ऋ० २। २५९। ३। “दक्षसे बलाय” भा०।

दक्षसावर्णि = पु० मनुभेदे नवमे मनो। “नवमो दक्षसावर्णि र्मनुर्वरुणसम्भवः। धृष्टकेतुर्दीप्तिकेतुरित्याद्यास्तत्सुता नृप। परे भुरीचितर्भाद्या देवा दून्द्वः श्रुतः स्मृतः। द्युति- मत्प्रमुखाः सप्त भविष्यन्त्यृषयस्ततः। आयुष्मतोऽन्धुधारायामृषभो भगवान् किल। भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः” भाग० ८। १३३। ९। “८ सावर्णि ९ र्दक्षसावर्णि १० र्ब्रह्मसावर्णिकस्ततः। ११ धर्मसावर्णिको १२ रुद्रपुत्रो १३ रौच्यश्च १४ भौत्यकः” पुराणान्तरम्। हरिवंशे तु नवमस्य रोहितत्वतृमुक्तं यथा। “च्यवनश्चैव वाशिष्ठ आत्रयो हव्यवाहनः। पौलहः सत्य इत्येते मुनयो रौहितेऽन्तरे। देवतानां गणास्तत्र त्रय एव नराधिप!। दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः। मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकतिः। पृथुश्रवा भूरिधामा ऋर्वाकोऽष्टहतो गयः। प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः” ७ अ०। कल्पभेदादविरोधः।

दक्षसुत = पु० ६ त०। १ देवे शब्दार्थचि०। देवस्य दक्षसृष्टत्वात् नष्टपुत्रेण दक्षेण पुत्रिकासर्मेण दचायामादितावुत्पन्नत्वेन तस्य पुत्रिकापुत्रत्राच्च तत्सुतत्वम् यथाह हरिवं० ३ अ०। “प्रजाः सृजेति व्यादिष्ठः पूर्वं दक्षः मयम्भुवा। यथा ससर्ज्र भूतानि तवा शृणु महीपते!। मनसा चैव भूतानि पूर्वमेवासृजत् प्रभुः। ऋषीन् देवान् सगन्धर्वानसुरानथ राक्षसान्”। २ हर्य्यश्वादिषु तत्कथा “दक्षस्य पुत्रा हर्य्यश्वा विवर्द्धयिषवः प्रजाः। समागता महावीर्य्या नारदस्तानुवाच ह। वालिशा वत यूयं वै नास्या जानीथ वै भुवः। प्रमाणं स्रष्टुकामा वै प्रजाः पाचेतसात्सजाः। अन्तरूर्द्धसधश्चैव कथं स्रक्ष्यथ वै प्रजाः। ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशः। अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः। हर्य्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः। वैरण्यामेव पुत्राणां सहस्रमसृजत् प्रभुः। विवर्द्धयिषवस्ते तु शवलाश्वाः प्रजास्तदा। पूर्वोक्तं वचनं तात! नारदेयैव चो दिताः। अन्योन्थमूचुस्ते सर्वे सम्यगाह महामुनिः। भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः। ज्ञात्वा प्रमाणं पृथ्वाश्च सुखं स्रक्ष्यासहे प्रजाः। एकाग्राः स्वस्थमनसो यथावदनुपूर्वशः। तेऽपि तेनैव मार्गेश्च प्रयाताः सर्वतो दिशम्। अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः। नष्टेषु शवलाश्वेषु दक्षः क्रुद्धोऽब्रवीद्वचः। नारदं माशमेहीति गर्भवासं वसेति च। तदा प्रभृति वै भ्राता भ्रातरन्वेषणे नृप!। पयातो नश्यति क्षिप्तं तन्न कार्म्यं” विपश्चिता। तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्ष। प्रजापतिः। षष्टिं ततोऽसृजत् कन्यां वैरण्यामिति न श्रुतम्”। ३ अश्विन्यादौच स्त्री “तमोऽपहं दक्षसुता इवाबभुः” रघुः।

दक्षाध्वरध्वंसक = दक्षस्याध्वरं ध्वंसयति ध्वन्स–णिच्ण्वुल्। १ शिवे २ वीरमद्रे च दक्षाध्वरनाशकादयोऽप्यत्र।

दक्षाय्य = पु० दक्ष–आय्य। १ गरुडे २ गृध्रखगे च उणादिवृत्तौ सि० कौ०। दक्ष–वृद्धौ अन्तर्भूतण्यर्थे ण्वुल्। ३ वर्द्धके त्रि०। “मित्रो दक्षाय्यो अर्य्यमेवासि सोम!” ऋ० २। ९२। ३। “दक्षाय्यः सर्वेषां वर्द्धकः” भा०।

दक्षिण = त्रि० दक्ष–इनन्। १ परच्छन्दानुवर्त्तिनि पराभिप्रायानुवर्त्तिनि २ सरले। ३ दक्षभागस्थे च मेदि०। ४ अवामे अपसव्ये देहभागभेदे (डाहिन) ख्याते भागे हेमच०। “एषु त्वनेकमहिलासु समरागो दक्षिणः क्रथितः” सा० द० उक्ते ५ नायकभेदे यथा “स्नाता तिष्ठति कुन्तलेश्वरसुना वारोऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कमलया, देवी प्रासाद्याद्य च। इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाऽप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः”। स्वापेक्षया मेरुगिरितो विप्रकृष्टायां ६ दिशि स्त्री ७ तद्वर्त्तिनि त्रि०। ८ यज्ञदानान्ते दाने ९ प्रतिष्ठायां स्त्री यज्ञाद्यन्तदक्षिणानामनिरुक्तिः” शत० व्रा० २। २। २। २। “स एष यज्ञो हतो न ददक्षे। तं देवा दक्षिणासिरदक्षयंस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदेवात्र यज्ञस्य हतस्य व्यथते तदस्यैतद्दक्षिणाभिर्दक्षयत्यथ समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति”। दक्षिणाविशेषनिर्ण्णयः हेमा० दा० यथा

भविष्यपुराणे “अदत्तदक्षिणं दानं व्रतञ्चैव नृपोत्तम!। विफलं तद्विजानीयाद्भस्मनीव हुतं हविः”। षट्त्रिंशन्मतात् “श्रद्धायुक्तः शुचिर्दान्तो दानं दद्यात् सदक्षिणम्। अदाक्षणन्तु यद्दानं तत् सर्वं निष्फलं भवेत्”। मैत्रायणीयपरिशिष्टम् “दक्षिणालाभे मूलानां भक्ष्याणां ददाति न त्वेवं यजेत्”। तथा शतपथश्रुतिः “तस्मान्नादक्षिणं हविः स्यादिति”। भविष्योत्तरे “काम्यं यद्दीयते किञ्चित्तत्समग्रं सुखावहम्। असमग्रन्तु दोषाय भवतीह परत्र च। तस्मान्न दक्षिणा हीनं विधानविकलं न च। देयं दानं महाराज। तमग्रफलकाङ्क्षया। अन्यथा दीयमानं तदपकाराय केवलम्। पत्यक्षतश्चार्थहानिर्न च तत् फलदं भवेत्”। आह भगवान् व्यासः “सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सर्वेषामेव दानानां सुवर्णं दक्षिणेष्यते।” एतच्च, विशेषविहितगोवस्त्रादिदक्षिणकदानवर्जं सामान्यविहितदक्षिणेषु दानेषु व्यवतिष्ठते तत्रापि परा श्रेष्ठतमेति प्राशस्त्यं दर्शयति न त्वन्यां दक्षिणां निराचष्टे आनन्त्यांर्थत्वाद्दक्षिणायाः सुवर्णस्य प्रकृष्टत्वात् सर्वदानेषु सुवर्णं दक्षिणेतिवचनार्थः, अन्यदपि पुरुषस्याहारौपयिकं तण्डुलादिकं दक्षिणार्थेन योज्यं यत्तु श्रूयते “अन्येषाञ्चैव दानानां सुवर्णं दक्षिणा स्मृता। सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते” इति तदेतच्छ्रौतस्तैन्यं परिज्ञाय श्रद्धातव्यम्। “सुवर्णं रजतं ताम्रं तण्डुला धान्यमेव च। नित्यश्राद्धं देवपूजा सर्वमेव सदक्षिणम्”। स्कन्दपुराणे। “देयद्रव्यतृतीयांशं दक्षिणां परिकल्पयेत्। अनुक्तदक्षिणे दाने दशांशं वापि शक्तितः”। तुलापुरुषादिदानानि अधिकृत्य लिङ्गपुराणे “दक्षिणा च शतञ्चार्द्धं तदर्द्धं वा प्रदापयेत्। ऋत्विजाञ्चैव सर्वेषां दश निष्कान् प्रदापयेत्”। भविष्यीत्तरे “ज्ञेयं निष्कशतं पार्थ। दानेषु विधिरुत्तमः। मध्यमस्तु तदर्द्धेन तदर्द्धेनाधमः स्मृतः। मेष्याञ्च कालपरुषे तथान्येषु महत्ष्वपि। एवं वृक्षे तथा द्वे च धेनोः कृष्णाजिनस्य च। अशक्तस्यापि कॢप्तोऽयं पञ्चसौवर्णिको विधिः। अतोऽप्यल्पेन यो दद्यान्महादानं नराधमः। प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत्”। जयाभिषेकमुदाहृत्य लिङ्गपुराणे “अष्टषष्टिपलोन्मानं दद्याद्वै दक्षिणां गुरोः। होतॄणाञ्चैव सर्वेषां त्रिंशत्पलमुदाहृतम्। अध्येतॄणां तदर्द्धेन द्वारपानां तदर्द्धतः”। एतेनान्यत्रापि, गुरोरर्द्धम्, ऋत्विजां तदर्द्धं, जापकानां तदर्द्धं द्वारपालानां तदर्द्धमिति दक्षिणाविभागोऽवगन्तव्यः।” अन्वा अपि दक्षिणाः तत्र तत्रोक्ता वेदितव्याः। यज्ञभेदे दक्षिणाभेदः कात्या० श्रौ० सू० उक्तः कातीयशब्दे दर्शितप्रायः विशेषतोदृश्यः। सर्वत्र दक्षिणाया अदाने कालविलत्बभेदे च दोषा दक्षिणानामनिरुक्तिसहिता उक्ता यथा। “कार्त्तिक्यां पूर्णिमायान्तु रासे राधामहोत्सवे। आविर्भूता दक्षिणांसात् कृष्णस्य तेन दक्षिणा”। यज्ञो दक्षिणया सार्द्धं पुत्रेण च फलेन च। कर्मिणां फलदात्री चेत्येवं वेदविदो विदुः। कृत्वा कर्म च तस्यैव तूर्णं दद्याच्च दक्षिणाम्। तत् कर्मफलमाप्नोति वेदैरुक्तमिदं मुने!। कर्त्ता कर्मणि पूर्णे च तत्क्षणं यदि दक्षिणाम्। न दद्याद्व्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथ वा। मुहूर्त्ते समतीते तु द्विगुणा सा भवेद्ध्रुवम्। एकरात्रे व्यतीते तु भवेत् शतगुणा च सा। त्रिरात्रे तद्दशगुणा सप्ताहे द्विगुणा ततः। मासे लक्षगुणा प्रोक्ता ब्राह्मणानाञ्च वर्द्धते। संवत्सरे व्यतीते तु सा त्रिकोटीगुणा भवेत्। कर्म तद्यजमानानां सर्वञ्च निष्फलं भवेत्। स च ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः। दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी। तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम्! पितरी नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम्। एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम्। दाता न दीयते दानं ग्रहीता च न याचते। उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा धटः। नार्पयेद्यजमानश्चेद्याचितृषु च दक्षिणाम्। भवेद्ब्रह्म स्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम्। वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः। ततो भवेत् स चाण्डालो व्याधियुक्तो दरिद्रकः। पातयेत् पुरुषान् सप्त पूर्वांश्च सप्तजन्मतः” ब्रह्मवैवर्त्ते प्रकृतिखण्डे। प्राणिरूपदक्षिणाद्रव्यग्रहणे मन्त्रभेदेनाभिमन्त्रणम् अप्राणिद्रव्यग्रहणे तु अभिमर्शनमात्रम् यथाह आश्व० श्रौ० सू० ५। १३। १५। “क इदं कस्मा अदात् कामायादात् कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वाप्रतिगृह्णामि कामैतत्ते वृष्टिरसि द्यौस्त्वा ददातु पृथिवी प्रतिगृह्णात्वित्यतीतास्वनुमन्त्रयेत् प्राणि”। सू० “विहारदेशमतीत्य नीतेषुदक्षिणाद्रव्येषु तन्मध्ये यत् प्राणिद्रव्यं तदेतेनानुमन्त्रयते” नारा०। “अभिमृशेदप्राणि” सू० “तन्मध्ये यदप्राणि तदभिमृशेत् नारा०। सा च यज्ञपत्नी तथाह “दक्षिणा यज्ञपत्नी च दीक्षा सर्वल पूजिता। यया विनापि विश्वस्य सर्वं कर्म तु निष्फलम्” भाग० २९। २। २। २८। १० नायिकाभेदे स्त्री यथा “या गौरवं भयं प्रेम सद्भावं पूर्वनायके। न मुञ्चत्यन्यसक्तापि सा ज्ञेया दक्षिणा बुधैः” इति विष्णुपु० टीकायां स्वामी” ११ विष्णौपु०। “अक्रूरः पेशलो दक्षो दक्षिणः दक्षिणाम्बरः” विष्णुस०। अस्य दिग्देशादिव्यवस्थायामेव सर्वनामता तेन दक्षिणे गायकाः अन्यत्र दक्षिणाः (कुशलाः) इत्येव। “दिशः सपत्नी भव दक्षिणस्याः” रघुः “दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम्। दक्षिणः क्षितिपति- र्व्यशिश्रयद्दक्षिणाः सदसि राजसूयकीः” माघः। अनृतादौ दक्षिणकर्णस्पर्शनं पराशरो विधत्ते। “क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते। पतितानाञ्च सम्भाषे दक्षिणं श्रवणं स्पृशेत्। ब्रह्मा विष्णुश्च रुद्रश्च सोमः सूर्य्योऽनलस्तथा। ते सर्वे चापि तिष्ठन्ति कर्णे विप्रस्य दक्षिणे”। १२ आचारभेदे दक्षिणाचारशब्दे दृश्यम्। १३ दक्षिणाग्नौ पु० “दक्षिणपश्चिमे दक्षिणम् आश्व० गृ० ४। २। ३।

दक्षिणकालिका = स्त्री दक्षिणा कालिका। १ शिवहृदये न्यस्तदक्षिणपादायां कालिकायाम्।

दक्षिणगोल = पु० कर्म०। विषुवरेखातो दक्षिणस्थिते तुलादिराशिषट्के यथाह सि० शि० “ससोम्यगोलो भदलं यदाद्यं याम्योऽपरं सायनभागभानोः” दक्षिणायनशब्दे रङ्गनाथ व्याख्या दृश्या।

दक्षिणतस् = अव्य० दक्षिणा–तसिल् सर्वनाम्नोवृत्तिमात्रे पुंवद्भावः। १ दक्षिणस्यां दिशि। २ दक्षिणभागे च “पितृभ्यो बलिशेषन्तु सर्वदक्षिणतो हरेत्” मनुः।

दक्षिणतस्कपर्द्द = त्रि० दक्षिणतः शिरसो दक्षिणभागे कपर्दश्चूडा यस्य। दक्षिणभागचूडायुक्ते “श्वित्यञ्चो मा दक्षिणतस्कपर्दाः” ऋ० ७। ३३। २। चूडाकर्मणि दक्षिणतो वशिष्ठानामिति स्मर्य्यते” भा०।

दक्षिणतीर = न० कर्म० तीरस्य तारभावः। नद्यादे र्दक्षिणस्थतीरे।

दक्षिणत्रा = स्त्री दक्षिण + वेदे नि० त्रा। दक्षिणभागादौ। “धिष्व वज्रं हस्त आ दक्षिणत्राभिः” ऋ० ६ २८। ९।

दक्षिणदिक् = स्त्री दक्षिणा दिक्। स्वापेक्षया मेरुतो विप्रकृष्टदिशि। तदधिपः भौमः र्यथाह “सूर्य्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः शशी। सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः” ज्यो० त०। तत्र बलिनौ ग्रहौ भास्करभूमिजौ यथाह तत्रैव “प्राच्यां भौम्यसुराचार्य्यौ याम्यां भास्करभूमिजौ। प्रत्यक् सौरिरुदीच्यां तु सितेन्दू दिग्बलान्वितौ” तद्दिक्पतिः शक्रः “इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्। कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात्” इत्युक्तेः। तद्दिग्वलिनो राशयश्च अजवृषमृगसिंहाः। “ऐन्द्रे मानुषराशयस्तु पशवो याम्ये सवीर्य्याअलिर्वारुण्यां बलयुक् तथैव बलिनः पानीयजाश्चोत्तरे” ज्यो० त० उक्तेः। तद्दिक्पतिराशवः वृषकन्यामकरराशयः यथाह ज्यो० त० “प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम्। मेषाद्याराशयो ज्ञेयास्त्रिरावृत्त्या परिभ्रमात्”। तद्दिङ्मुखनक्षत्राणि च मघादिसप्तकम्। “कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्” ज्यो० त० उक्तेः। दक्षिणदिग्भागस्था देशाश्च कूर्म्मविभागशब्दे वृ० सं० १४ अ० उक्ताः “अथ दक्षिणेन लङ्का” इत्युपक्रमे दर्शिताः।

दक्षिणपश्चात् = अव्य० दक्षिणस्याः परायाश्च दिशः अन्तराला दिक् बहु० आति परस्य पश्चादेशः। प्रथमापञ्चमी सप्तम्यर्थवृत्तौ दक्षिणपश्चिमाशब्दार्थे नैरृतकोणे।

दक्षिणपश्चिमा = स्त्री दक्षिणस्याः पश्चिमाया दिशोऽन्तरालादिक्। “दिग्नामान्यन्तराले” पा० बहु० पुंवत्। १ नैरृते कोणे। “जग्मुर्मरतशार्दूल! दिशं दक्षिण पश्चिमाम्” भा० महाप्र० १ अ०। २ तद्देशवर्त्तिनि त्रि० “दक्षिणपश्चिमे दक्षिणम्” आश्व० गृ० १। २। १३।

दक्षिणपूर्व्वा = स्त्री दक्षिणस्वाः पूर्वस्या दिशोऽन्तराला दिक् बहु० पुंवत्। १ अग्निकोणे २ तद्दिग्भागस्थे त्रि० “दक्षिणपूर्वे उद्धृतान्त आहवनीयं निदधाति” आश्व० गृ० ४। २। १

दक्षिणमानस = न० गयास्थिते तीर्थभेदे “तस्य दक्षिणभागे तु तीर्थं दक्षिणमानसम्। दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम्” वायुपु० गयामा०।

दक्षिणमार्ग = पु० १ तन्त्रोक्ते आचारभेदे २ पितृयाणे मार्गभेदे “निर्विण्णोऽहं दक्षिणमार्गेण गतागतलक्षणेन” ईशोपनिषद् भाष्यम्।

दक्षिणसमुद्र = पु० कर्म्म०। दक्षिणदिक्स्थे समुद्रे लवणाम्बुधौ।

दक्षिणस्थ = त्रि० दक्षिणे भागे तिष्ठति स्था–क ७ त०। १ दक्षिणभागस्थिते २ सारथौ पु० अमरः।

दक्षिणा = अ० दक्षिणा + प्रथमापञ्चमीसप्तम्यर्थे आच्। प्रथमाद्यर्थवृत्तिके दक्षिणाशब्दार्थे दक्षिणा वसति आगच्छति रमणीयं वा “अयं दक्षिणा विश्वकर्मा” यजु० २३। ५५

दक्षिणांसव्रणिन् = पु० दक्षिणांसे दक्षस्कन्धे व्रणीऽस्त्यस्य इनि। दक्षिणस्कन्धस्थव्रणयुक्ते “पितृस्वस्रभिंगमनात् दक्षिणांसव्रणी भवेत्। तेनापि निष्कृतिः कार्य्या अजादानेन शक्तितः” पराशरः।

दक्षिणाग्नि = पु० दक्षिणोऽग्निः। अन्वाहार्य्यपचनाख्ये यज्ञाग्निमध्येऽग्निभेदे। “अन्वाहार्य्यं दक्षिणाग्नावधिश्रयति” कात्या० श्रौ० २। ५। २७ “हीनं यज्ञस्यान्वाहरतीत्यन्वाहार्य्यः अध्यर्युरन्वाहार्यसंज्ञकं दक्षिणार्थं तण्डुलरूपमोदनं दक्षिणाग्नावधिश्रयति चतुर्णामृत्विजां तृप्तिर्यावता सम्भाव्यते तत्परिमाणं ततोऽधिकं वान्वाहार्यमोदनं कुर्य्यात्” कर्कः। “उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्निमानीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रियमाणं वा प्रज्वाल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत्” आश्व० श्रौ० २। २। १ “उत्सर्गे अजस्रीत्सर्गे अग्निहोत्रहोमार्थं विहरेत् नाजस्रेषु। होमस्त्वजस्रेष्वपि भवतीत्युक्तम्, एवं स्थिते विहरणसहितमग्निहोत्रहोमप्रयोगं वक्तुकाम उत्सर्ग इत्युक्तवान्। अत्रापराह्णशब्देन अह्नश्चतुर्थमागो गृह्यते। विहरणकाले गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षिणाग्निं वैश्यगृहादानयेत्। चतुर्णां वर्णानामन्यतमस्य द्रव्यवतो वा गृहात्, गार्हपत्याद्वा। धार्य्यश्चेत् प्रज्वलयेत्। काले काले यदि निर्मन्यः तदा मन्थेत्। एषां प्रकाराणामुत्पत्तिवशाद्व्यवस्था। तेषामन्यतमप्रकारेण दक्षिणाग्निं साधयित्वा ततो गार्हपत्यात् ज्वलन्तमग्निमाहवनीयार्थमुद्धरेत् पात्रान्तरेण पृथक् कुर्य्यादित्यर्थः” नारा०। तस्य स्थापनञ्च नैरृतकोणे “दक्षिणपश्चिमे दक्षिणम्” आश्व० गृ० ४। १३। उक्तेः।

दक्षिणाग्र = पु० दक्षिणस्यामग्रमस्य। दक्षिणदिग्भागस्थाग्रे कुशादौ “अथ यान्यमून्युदीचीनाग्राणि तृणानि भवन्ति दक्षिणाग्राणि तानि करोति पितृदैवत्यमेवैनत्तत्करोति” शत० ब्रा० १२। ५। १। १२। “उदगग्रान् दक्षिणाग्रान् करोतीति श्रुतेः” कात्या० श्रौ० ४। १०। १५।

दक्षिणाचल = पु० दक्षिणस्थितोऽचलः। मलयपर्वते हेमच० दक्षिणपर्वतादयोऽप्यत्र।

दक्षिणाचार = पु० कर्म० १ तन्त्रोक्ते आचारभेदे। “स्वधर्मनिरतो भूत्वा पञ्चतत्त्वेन पूजयेत्। स एव दक्षिणाचारः शिवो भूत्वा शिवां यजेत्” आचारभेदतन्त्रम्। इयांस्तु तत्र भेदः मद्यस्थाने विजयारसः। “चतुर्मकाराः सन्त्येव पञ्चमो विजयारसः” इत्युक्तेः। दक्षिणा दक्षिणस्यां चारो गतिरस्य। २ दक्षिणदिग्गतिशालिनि त्रि०। “दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः” भा० वि० ५ अ०।

दक्षिणाज्योतिस् = पु० दक्षिणा दक्षिणस्यां ज्योतिरस्य। पञ्चौदने छागभेदे। “योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति” अथ० ९। ५। २२। २३। २४। २५। ६। तद्वानफलमुक्तम्।

दक्षिणात् = अव्य० दक्षिण + प्रथमापञ्चमीसप्तम्यर्थे आति। प्रथमाद्यर्थवृत्तौ दक्षिणशब्दार्थे दक्षिणात् रमणीयम् आगच्छति वसति वा।

दक्षिणान्तिका = स्त्री “षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नोनिरन्तराः। न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः” इत्युपक्रमे “तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः” वृ० र० उक्तलक्षणे वैतीलीयभेदे मात्रावृत्तभेदे। “समस्तपादेषु द्वितीयलः यदि तृतीययुक् द्वितीयमात्रातृतीयमात्राभ्यामेको गुरुश्चेत् शेषं वैतालीयवत् तदा दक्षिणान्तिका नाम च्छन्द इत्यर्थः।

दक्षिणापथ = पु० दक्षिणा (आजन्तः) पन्थाः अच् समा०। देशभेदे तद्देशवर्ण्णनं भा० व० ६१ अ० यथा

“एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्। अवन्तीमृक्षवन्तञ्च समतिक्रम्य पर्वतम्। एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणां बहुमूलफलान्विताः। एष पन्था विदर्भाणाममी गच्छन्ति कोशलाम्। अतः परञ्च देशोऽयं दक्षिणे दक्षिणापथः”। “दक्षिणापथजन्मानः सर्वे नरवरान्ध्रकाः। गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा० शा० २०७ अ०। “युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः। तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्” भा० स० ३० अ०। “तथापरे जनपदा दक्षिणापथवासिनः। पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च। सेतुका मुख्यकाश्चैव कुपथाचारवासिकाः। नवराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः। कालेराश्च सहैषीकैराटव्याः शवरास्तथा। पुलिन्दा विन्ध्यमूषिका वैदर्भादण्डकैः सह। कुलीयाश्च सिरालाश्च रूपसास्तापसैः सह। तथा तैत्तिरकाश्चैव सर्वे कारस्करास्तथा। नासिकाद्याश्च ये चान्ये ये चैवान्तरनर्मदाः। भानुकच्छाः समाहेयाः सह सारस्वतैस्तथा। कच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्बुदैः सह” मत्स्यपु०। २ दक्षिणास्थितमार्गमात्रे पु०। “कृष्णाजिनानि धुन्वन्तः स्वयमेव दक्षिणापथं यान्ति” आश्व० श्रौ० ५। १३। १२। दक्षिणापथोऽस्त्यस्य स्वामित्वेन आवासत्वेन सम्बद्धत्वेन वा ठन्। दक्षिणापथिक तद्देशनृपे तत्र वासिनि तत्सम्बद्धे च। “एते चान्ये च बहवो दक्षिणपथिकान् पथः” हरिवं० ११० अ०।

दक्षिणापरा = स्त्री दक्षिणाया अपराया दिशोऽन्तराला दिक् १ नैरृतकोणे “दक्षिणपूर्वस्यां दिशि दक्षिणपरस्यां वा आश्व० मृ० ४। १। ६। २ तत्संस्थिते त्रि० “पुनर्दक्षिणापरेऽध्वर्य्युः पूर्वोत्तरे यजमानः” कात्या० श्रौ० ८। ५। १९। दक्षिणायां परः। ३ यज्ञपूर्त्त्यर्थद्रव्यदानरूपदक्षिणा तत्परे त्रि०।

दक्षिणाप्रवण = त्रि० दक्षिणा (आजन्तः) दक्षिणस्यां प्रवणं निम्नम्। उत्तरापेक्षया दक्षिणतो निम्ने श्राद्धादिदेशे “दक्षिणाप्रवणम्” कात्या० श्रौ० २२। ३। ६। “दक्षिणाप्रवणं देवयजनं भवति” कर्कः “शुचिदेशं विविक्तं च गोमयेनोपलेपयेत्। दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्” मनुः। “दक्षणाप्लवनमप्यत्र परिश्रुते शुचौ देशे दक्षिणाप्लवने तथा” याज्ञ० श्राद्धदेशोक्तौ।

दक्षिणाप्रष्टि = पु० धुर्य्यापेक्षया प्रकृष्टं देशमश्नोति प्र + अशक्तिच् पृषो० दक्षिणा दक्षिणभागे प्रष्टिः वाह्यः। धुर्य्यमध्ये दक्षिणस्थे पुष्टाङ्गे प्र कृष्टदेशस्थे वा अश्वभेदे “दक्षिणाप्रष्टिं जवो यस्त इति” कात्या० श्रौ० १४। ३। ८। “रथे तृतीयमश्वं युनक्ति धुर्य्यापेक्षया प्रकृष्टं देशमश्नोतीति प्रष्टिर्बाह्यो युग्यः” सं० व्या०। दक्षिणस्यां स इव इति विग्रहे २ दक्षिणस्थे प्रष्टिसदृशेऽश्वे च। “अथ द–क्षिणा प्रष्टिं युनक्ति सव्यप्रष्टिं वा” शत० ब्रा० ५। १। ४। ९। “प्रष्टिर्नाम पादत्रयोपेतो भोजनपात्रादिकाधारः” (तेषाइ) भा०।

दक्षिणाबन्ध = पु० दक्षिणायां बन्धः अनुबन्धः। गृहस्थादीनां दक्षिणानुबन्धभेदे यथा “दक्षिणाबन्धो नाम गृहस्थब्रह्मचारिभिक्षुवैखानसानां काममोहोपहतचेतसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते” तत्त्वसारः।

दक्षिणाभिमुख = त्रि० दक्षिणा दक्षिणस्यामभिमुखमस्य। दक्षिणदिङ्मुखे। “दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा” आह्नि० त०। दक्षिणामुखादयोऽप्यत्र। “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः”। “उदकेनैव विधिना निर्वपेत् दक्षिणामुखः” मनुः। “यद्वेष्टितशिराभुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः” मनुना श्राद्धीयविप्रस्थ तथा भोजनं निषिद्धम्। दक्षिणा दक्षिणस्यां मुखम्। दक्षिणदिक्स्थे मुखे न०। “अमाश्राद्धं गयाश्राद्धं दक्षिणामुखभोजनम्। न जीवत्पितृकः कुर्य्यात् कृते च पितृहा भवेत्” ति० त०।

दक्षिणामूर्त्ति(क्) = पु० दक्षिणा अनुकूला मूर्त्तिरस्य वा कप् संज्ञात्वात् न पुंवत्। शिवमूर्त्तिभेदे तद्ध्यानादिकं यथा “प्रोद्यच्छाखमहावटद्रुमतले योगासनस्थं प्रभुं प्रत्यक्तत्त्वबुभुत्सुभिः प्रतिदिशं प्रोद्वीक्ष्यमाणाननम्। मुद्रां तर्कमयीं दधानममलं कर्पूरगौरं शिवं हृद्यन्तः कलये स्कुरन्तमनिशं श्रीदक्षिणामूर्त्तिकम्”। “नित्यशो दक्षिणामूर्त्तिं ध्यायेत् साधकसत्तमः। शास्त्रव्याख्यानसामर्थ्यं लभन्ते वत्सरान्तरे” तन्मन्त्रादिकं तन्त्रे दृश्यम्। ध्यानान्तरं ध्यानशब्दे दृश्यम्।

दक्षिणायन = न० दक्षिणा दक्षिणस्यां दक्षिणे गोले वाऽयनं रवेः। रवेः स्वाधिष्ठितस्थानापेक्षया १ दक्षिणदिग्गमने २ दक्षिणगोलरूपतुलादिराशिषट्के गमने तदुपलक्षिते ऋतुत्रयात्मके ३ कालभेदे च तत्राद्यार्थे “ऋतुत्रयञ्चाप्ययनं द्वे अयने वर्षसंज्ञिते। कर्कटादिस्थिते भानौ दक्षिणायनमुच्यते” मल० त० विष्णुपु०। द्वितीयार्थे “दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः। अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्” मनुः। अयनशब्दे ३५३ पृ० उत्तरायणशब्दे ११०४ पृ० खगोलशब्दे च दक्षिणायनशब्दार्थस्योक्तप्रायत्वेऽपि दक्षिणायनव्यवस्थार्थमधिकमत्रोच्यते यद्यपि चन्द्रस्यापि स्वाधिष्ठितस्थानापेक्षया दक्षिणस्यां दक्षिणगोले च गतिः सम्भवति तथापि सूर्य्यस्यैव गतिभेदे तदुपलक्षितकाले च दक्षिणायनशब्दव्यवहारः। “सौरेण द्युनिशीर्वामं षडशीतिमुखानि च। अयनं विषुवं चैव संक्रान्तेः पुण्यकालता” सू० सि० अयनस्य सौरत्वोक्तेः “यान् मासान् दक्षिणा आदित्य एति यान् मासानुत्तरादित्य एति” वाजसनेयिनां पञ्चाग्निविद्यायां दक्षिणोत्तरमार्गयोः पाठात् “तस्मादादित्यः षण्मासान् दक्षिणेनैति षण्मासानुत्तरेणैतीति तैत्तिरीयश्रुतेश्चादित्यगतिमुपजीव्यैवायनशब्दप्रवृत्तेश्च। तेनादित्यगतिनिष्पन्नत्वात्तस्य सौरत्वम्। उभयविधदक्षिणायनस्य किमवधिकस्य मनूक्तं रात्रित्वं तदभिधीयते। तत्र “भेषादौ देवभागस्थो देवानां याति दर्शनम्। असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः” सू० सि०। “जम्बुद्वीपलवणसमुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्सुगसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्तमार्गे भ्रमति मेषस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः। मकरादिस्थानं विषुव द्वृत्ताश्चतुर्विंशत्यंशान्तरे दक्षिणतः। तत् स्वस्थाने प्रवह- वायुना भ्रमति। एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवह वायुना भ्रमन्ति। तत्र मेषादौ देवभागस्थः “जम्बुद्वीपं च तत्रापि देवासुरविभागकृदिति” पूर्वोक्तेः। तत्सम्बद्धा मेषादिकन्यान्ता राशय उत्तरगोलः। तत्रस्थः सूर्यो मेषादौ मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्त्तिनां दर्शनं षण्मासानन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्वृत्तस्य तत्क्षितिजत्वात्। एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामित्यसुराणामित्युक्तेनैवोक्तम्। तद्भागसञ्चरो दैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशसूर्यस्तुलादिप्रदेशे तुक्क्वाराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपि विषुवद्वृत्तक्षितिजत्वात्” रङ्गना०। “देवासुरा विषुयति क्षितिजस्थं दिवाकरम्। पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे” सू० सि०। “विषुवति काले देवदैत्याः सूर्य्यं क्षितिजस्थं पश्यन्ति विषुवद्वृत्तस्य तयोः स्वस्थानाद्भूगोलमध्यस्थत्वेन क्षितिजत्वात्। एतेषां देवदैत्यानामन्योन्यं परस्परं ये वामसव्ये अपसव्यसव्ये ते क्रमेण दिनक्षपे दिवसरात्री भवतः। अयं भावः देवानां भूमेरुत्तरभागः स्वकीयत्वात् सव्यमतो दैत्यानामपसव्यं स्वकीयत्वाभावात्। एवं दैत्यानां भूमेर्दक्षिणभागः स्वकीयत्वात् सव्यं देवानां स्वकीयत्वाभावादपसव्यमतो दैत्यानां वामसव्यगावुत्तरदक्षिणगोलौ देवानां क्रमेण दिनरात्री। देवानां वामसव्यभागौ दक्षिणीत्तरगोलौ दैत्यानां दिनरात्री। अन्यथाऽन्योन्यं वामसव्ये इत्यनयोः सङ्गतार्थानुपपत्तेः। अतएव पूर्वं मेषादावित्याद्युक्तमिति” रङ्गना०। अथ पूर्वश्लोकोत्तरार्धस्य सन्दिग्धत्वशङ्कया दिनपूर्वापरार्धकथनच्छलेन तदर्थं श्लोकाभ्यां विशदयति। “मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम्। सञ्चरन् प्रागहर्मध्यं पूरयेम्भेरुवासिनाम्। कर्कादीन् सञ्चरंस्तद्वदह्नः पश्चार्धमेव सः। तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम्” सू० सि०। “मेषादौ विषुवद्वृत्तस्थक्रान्तिवृत्तभागे रेवत्यासन्न उदितो दर्शनतां प्राप्तः सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत् त्रीन् राशीनुदगुत्तरभागस्थान् मेषवृषमिथुनान् सञ्चरन्नतिक्रामन् सत् मेरुस्थानां देवानां प्रागहर्मध्यं प्रथमं दिनस्यार्धं पूरयेत् पूर्णं करोतित्यर्थः। मिथुनान्ते सूर्ये मेरु स्थानां सध्याह्नं स्यादिति फलितार्थः। कर्फादीन् त्रीन् राशीन् कर्कसिंहकन्थास्तद्वत् क्रमेणेत्यर्थः। अतिक्रामन् सन् स मूर्यो दिवसस्य पञ्चार्धमपरदलम्। एवकारोऽन्ययोगव्यवच्छेदार्थः। पूरयेत्। कन्यान्ते सूर्ये मेरुस्थानो सूर्यास्तो भवतीति फलितार्थः। अथ दैत्यानामाह। तुलादीनिति। सुरद्विषां मेरोर्दक्षिणाग्रवर्त्तिनां देत्याना मित्यर्थः। तुलादींस्त्रीन् राशींस्तुलावृश्चिकधनुराख्यान् मृगादींस्त्रीन् राशीन् मकरकुम्भमीनांस्तद्वत् क्रमेणातिक्रामन् सूर्यः। चकारस्तुलामृगादिक्रमेण पूर्वापरार्धमित्यर्थकः। एवकार उक्तातिरिक्तव्यवच्छेदार्थः। दिनं पूरयतीत्यर्थः। धनुरन्ते सूर्ये दैत्यानां मध्याह्न मीनान्ते सूर्ये सूर्यास्ती भवतीति फलितार्थः” रङ्गना०। “अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात्। अहोरात्रपमाणं च भानोर्मगणपूरणात्। दिनक्षपार्धमेतेषामयनान्ते विपर्ययात्। उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः” सू० सि०।

“एतेषां देवदैत्यानामयनान्तेऽयनसन्धौ विपर्ययाद्व्यत्यासाद्दिनक्षपार्धं दिनार्धं रात्र्यर्धं च भवति। यत्र देवानां मध्याह्नं रात्र्यर्धं च तत्र दैत्यानां क्रमेण रात्र्यर्धमध्याह्ने यत्र च दैत्यानां मध्याह्नरात्र्यर्धे तत्र देवानां क्रमेण रात्र्यर्धमध्याह्ने इति फलितार्थः। अत्र हेतुमाह। उपरीति। देवदैत्या मेरोरुत्तरदक्षिणाग्रवर्तिनोऽन्योन्यमात्मानं स्वसुपरिभाग ऊर्द्धभागे कल्पयन्त्यङ्गीकुर्वन्ति। वस्तुतो भूमेर्गोलत्वेन सर्वत्र तुल्यत्वान्निरपेक्षोर्ध्वाधोभागयोरनुपपत्तेः। तथा च देवा दैत्यापेक्षयोर्ध्वस्थत्वं मन्यमाना दैत्यानधःस्थानङ्गीकुर्वन्ति। दैत्याश्च देवस्थानापेक्षयार्ध्वस्थं मन्यमाना देवानधः कुर्वन्तीति तात्पर्यार्थः। एवं च देवदैत्ययोर्विपरीतावस्थानाद्दिनरात्र्योर्वैपरीत्यं युक्तमेवेति भावः” रङ्गना०। ततश्च उत्तरगोलरूपगेषादिराशिषट्कस्थरविककालस्य देवानां दिनत्वेदक्षिणगोलरूपतुलादिराशिषट्कस्थरविक कालस्य रात्रित्वे स्थितेऽपि मकरादिकानां देवानां दिनरात्रिकालतोक्तिः श्रौतस्मार्त्तकर्म्मोपयोगिनी रवेः स्वाधिष्ठितस्थानापेक्षया दक्षिणोत्तरतो गत्या वा तथा व्यवह्रियते इति बोध्यम् अतएव सि० शि० उक्तं यथा “दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति। कुपृष्ठगानां द्युनिशं यथा नृणां तथा पितॄणां शशिपृष्ठवासिनाम्” इदानीं संहितोक्तस्याभिप्रायमाह। “दिनं सुराणामयनं यदुत्तरं निशेतरत् सांहितिकैः प्रकीर्तितम्। दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्त्तनाय तत्। द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरवरीहतीनः। यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न विलोक्यते किम्?”। “सांहितिकानां न चेदयमभिप्रायस्तर्हि मेषादेरूर्द्धं मिथुनान्तं यावद्यै र्वृत्तैरेवारोहणं कुर्वन्नपि देवैर्वृष्टस्तैरेव पुनरवरोहणं कुर्वन् किं न दृश्यत इति” प्रमिता०।

एतदभिप्रायेणैव श्रीपत्युक्तं यथा

“मृगादिराशिद्वयभानुभोगात् षट्चर्त्तवः स्युः शिशिरो वसन्तः। ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः।। शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदामरम्। भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां च सा। गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम्। सोम्यायने सर्म शुभं विधेयं यद्गर्हितं तत् खलु दक्षिणेच”।

एतदभिप्रायेणैव च सत्यव्रतः–“देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ। दक्षिणाभिमुखे कुर्वन् न तत्फलमवाप्नुयात्” सूर्य्यस्य दक्षिणोत्तराभिमुख्येनैव प्रतिष्ठाद्यै विधिनिषेधावाह। अतएव सू० सि० “भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम्। कर्कादेस्तु तथैव स्यात् षण्मासादक्षिणायनम्” इत्युक्तम्। अतः स्वापेक्षया दक्षिणोत्तरगमनादेव दक्षिणोत्तरायणव्यवहारो भाक्तो दक्षिणोत्तरगोलयोर्गत्या तु मुख्य इत्यवधेयम्। तेन भाक्ते दक्षिणायन एव प्रतिष्ठादिनिषेधः न मुख्ये” प्रागुक्तसत्यव्रतवाक्यैकवाक्यत्वात्। विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम्। यज्ञगृहप्रवेशादिदानार्च्चनप्रतिष्ठनम्। पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने” म० त० भविष्यपु०। तत्रावपादः कालमा० वेखानसंहितायां यथा “मातृभैरववाराहनरसिंहत्रिविक्रमाः। महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने”

४ तदभिमानिदेवताभेदे च “धूसो रात्रिस्तथा कृष्णः षण्मासादक्षिणायनम्” गीता। “आतिवाहिकास्तल्लिङ्गात्” शा० भा० धूमादीनां तदभिमानिदेवतापरत्वसमर्थनात्। ५ दक्षिणभागस्थे प्राणे च “दक्षिणस्थो यदा प्राणस्तदा स्यात् दक्षिणायनम्। पञ्चभूतात्मकास्तत्र ह्रस्वाः पञ्चोदयन्ति वै” पदार्थादर्श धृतप्रयोगसारवाक्यम्।

दक्षिणारण्य = न० दक्षिणस्थमरण्यम्। अरण्यभेदे।

दक्षिणारुस् = पु० दक्षिणे भागे अरुर्व्रणमस्य। व्याधकृतदक्षिणाङ्गके मृगे अमरः।

दक्षिणार्ह = पु० दक्षिणामर्हति अर्ह–अण् उप्र० स०। दक्षिण्ये ऋत्विजि।

दक्षिणावत् = त्रि० दक्षिणा + अस्त्यर्थे मतुप् मस्य वः। दक्षिणायुक्ते अन्वाहार्य्यशब्दे २२० पृ० दृश्यम्।

दक्षिणावर्त्त = त्रि० दक्षिणे आवर्त्तते आ + वृत–अच्। १ दक्षिणे आवर्त्तयुक्ते। “मृत्कुम्भवालुकारन्ध्रपिधानरचनेच्छया। दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्ण्णीकृतो मया” सा० द०। दक्षिणा दक्षिणस्यां वर्त्तते वृत–अच्। २ दक्षिणदिक्स्थे त्रि०। “दक्षिणावर्त्त आदित्य एतन्मे मनसि स्थितम्” भा० भी० १२० अ०।

दक्षिणावर्त्तकी = स्त्री दक्षिणावर्त्त इव कायति कै–क गौरा० ङीष्। वृश्चिकाल्यां राजनि०।

दक्षिणावह = पु० दक्षिणा दक्षिणदिक्तो वहति वह–अच्। दक्षिणानिले।

दक्षिणावृत् = त्रि० दक्षिणा आवर्त्तते वृत–क्विप्। दक्षिणावर्त्ते। “तस्मादिमं लोकं दक्षिणावृत् समुद्रः पर्य्येति” शत० ब्रा० ७। १। ११२।

दक्षिणाशापति = पु० ६ त०। १ यमराजे २ भौमे ग्रहे च।

दक्षिणाहि = अव्य० दक्षिण + आहि दूरे। दूरस्थे दक्षिणभागे

दक्षिणित् = अव्य० दक्षिणात् + वेदे पृषो०। दक्षिणस्यामित्याद्यर्थे। “प्रदक्षिणिद्धरिवो मा वि वेनः” ऋ० ५। ३६। ४।

दक्षिणीय = पु० दक्षिणामर्हति छ। दक्षिणार्हे ऋत्विजि। “क्रतवः संप्रवर्त्त्यन्तां दक्षिणीयैर्द्विजातिभिः। दक्षिणाश्चोपवर्त्तन्तां यथार्थं सत्रयाजिनाम्” हरिवं० ४९ अ०।

दक्षिणेन = अव्य० दक्षिण + एनप्। सप्तम्यर्थवृत्तौ १ दक्षिणस्यां दिशि २ दक्षिणदेशे च। एनपा योगे पञ्चमीबाधिका द्वितीया। “तत्रागार धनपतिगृहान् दक्षिणेनास्मदीयम्” मेध०। “जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ” भा० व० २७८१ अ०।

दक्षिणेर्म्मन् = पु० दक्षिणे ईर्म्मं व्रणं यस्य नि० अनिच्। व्याधकृतव्रणयुक्तदक्षिणाङ्गके मृगे अमरः। “मृगयुमिव मृगोऽथ दक्षिणेर्म्मा” भट्टिः।

दक्षिण्य = यि० दक्षिणामर्हति यत्। दक्षिणार्हे ऋत्विगादौ “दक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः।

दक्षेश्वत् = न० काशीस्थे दक्षप्रजापतिस्थापिते लिङ्गभेदे तत्कथा

“यत्त्वया स्थापितं लिङ्गमेतद्दक्षेश्वराभिधम्। अस्य संसेवनात् पुंसामपराधसहस्रकम्। क्षमिव्येऽहं स सन्देहस्तस्मात् पूज्यमिदं जनैः” काशीख० ८९ अ०।

***