त्रोटक = त्रि० त्रोडयति चु० त्रुट–ण्वुल्। १ छेदके। “सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम्। त्रोटकं नाम तत् प्राहुः प्रत्यङ्कं सविदूषकम्” स द० उक्ते २ दृश्यकाव्यभेदे प्रत्यङ्कं सविदूषकत्वात् शृ रोऽत्राङ्गीति बोध्यम्। तत्र सप्ताङ्कं स्तम्भितरम्भम्। पञ्चाङ्कं विक्रमोर्वशी।

त्रोटि(टी) = स्त्री चु० त्रुट–इ बा ङीप्। १ कट्फ्गल, २ चञ्च्वाम्, (पक्षिर ठोठ) ३ पक्षिभेदे ४ मत्स्यभेदे च मेदिनि०।

त्रोटिहस्त = पुंस्त्री त्रोटिर्हस्त इ ग्रहणसाधनं यस्य। खगे शब्दच०। स्त्रियां जातित्वात् ङीष्।

त्रोतल = न० १ त्रोडलतन्त्रे (तोतला) २ स्खलद्वाक्ये त्रि०।

त्रोत्र = न० त्रायतेऽनेन० त्रै–त्र। प्राजने तोदने गवादेः प्रेरणसाधने १ दण्डभेदे (पाचनी) अमरः। २ अस्त्रे सिं० कौ०। ३ आरूपक्रियायाम् ४ व्याधिभेदे च संक्षिप्तसा०।

त्रौक = गत्यां चुरा० आ० सक० सेट्। त्रौकयते ऋदित् अतुत्रौकत।

त्र्यंश = पु० तृतीयोऽंशः। १ तृतीये अंशे। “सर्वस्मिन् विधुपापयुक्तनुलवावर्द्धं निशाह्नोर्घटीत्र्यंशं वै कुनवांशकं ग्रहणतः पूर्वं दिनानां त्रयम्” मुहु०। २ त्रिगुणितेऽशे च “त्र्यंशं दायाद् हरेद्विप्रो द्वावंशौ क्षतियासुतः” मनुः

त्र्यक्ष = पु० त्रीण्यक्षीण्यस्य ष समा०। त्रिनेत्रे शिवे त्रिका० “त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतिः” हरिवं० १७६ अ०। २ नेत्रत्रययुक्तमात्रे त्रि०। “चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः। रासभारावसदृशं ररास च ननाद च” भा० स० ४२ अ०। स्त्रियां ङीष्। “द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्मिकाम्” भा० व० २८९ अ०। राक्षसीभेदोक्तौ। आर्षे क्वचित् न ष समा०। त्र्यक्षि शिवे। “त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च” भा० आश्व० ८ अ० शिवस्तुतौ।

त्र्यक्षर = पु० त्रीणि अकारोकारमकाररूपाणि अक्षराणि यत्र। १ प्रणवे “आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यत्र प्रतिष्ठिता। स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं येद स वेदवित्” मनुः। त्रीण्यरक्षाणि वर्ण्णा यत्र। मध्यानामके २ छन्दोभेदे न०। “विष्णुस्त्र्यक्षरेण (छन्दसा) त्रील्लो~कानुदजयत्” यजु० ९। ३१। “विष्णुस्त्र्यक्षरेणाक्षरत्रयात्मकेन छन्दसा त्रीन् भूरादीन् लोकान् उदजयत्” वेददी०। त्रिवर्ण्णात्मके तन्त्रोक्ते ३ मन्त्रनेदे तन्त्रसारे भूरिप्रयोगः। ४ विद्यायां स्त्री गौरा० ङीष्। ५ वर्ण्णत्रययुक्तमात्रे त्रि०। “तदेतत् त्र्यक्षरं सत्यमिति स इत्येकमक्षरं त्रीत्येकमक्षरममित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतं सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्ति” शत० ब्रा० १४। ८। ४। २। ६ खटके त्रिका०।

त्र्यङ्क(ङ्ग)ट = न०। १ शिक्यभेदे २ धौताञ्जने च मेदि०। ३ईश्वरे पु० हेमच०।

त्र्यङ्ग = न० त्रीणि अङ्गान्यस्य। सौविष्टिकृते हविषि “मध्यं जुह्वां द्वेधा कृत्वाऽवद्यत्यणिम त्र्यङ्गेषु” शत० ब्रा० ३। ८। ३। १८। “त्र्यङ्ग्यस्य दोष्णो गुदं द्वेधा कृत्वावद्यति त्र्यङ्ग्यायै श्रोणेरथ हिरण्यशकलाववदधाति”। ९। त्र्यङ्गाय हितं यत् त्र्यङ्ग्य तत्साधनद्रव्ये।

त्र्यङ्गल = त्रि० त्रिस्वोऽङ्गुल्यः प्रमाणमस्य तद्धितार्थद्धि० द्वयसच् तस्य लुकि अच् समा०। १ अङ्गुलित्रयमिते “द्व्यङ्गुलं त्र्यङ्गुलं वा तर्द्मातिक्रान्तं यूपस्य” कात्या० श्रौ० ६। २१। ३०। २ तथाभूतखातान्विते च स्त्रियां टाप् सा च सोमयज्ञस्य वेदिः। “तं खनन्त इवान्वीषुस्तं त्र्यङ्गुलेऽन्वबिन्दं स्तस्मात् त्र्यङ्गुला वेदिः स्यात्तदु हापि पाञ्चिस्त्र्यङ्गुलामेव सौम्यस्याध्वरस्य वेदिं चक्रे” शत० ब्रा० १। २। ५। ९। “पाञ्चिः सोमयागस्यापि वेदिं त्र्यङ्गुलखातामेव मेने” भा०

त्र्यञ्जन = न० समा० द्वि०। कालाञ्जनरसाञ्जनपुष्पाञ्जनरूपे मिलिते अञ्जनत्रये राजनि०।

त्र्यञ्जल(लि) = न० त्रयाणामञ्जलीनां समाहारः वा टच्स०। १ समाहृते अञ्जलित्रये “त्रिभिरञ्जलिभिः क्रोतः तद्धितार्थद्विगौ तु तद्धितलुकि न टच्। त्र्यञ्जलि इत्येवेति भेदः सि० कौ०।

त्र्यधिष्ठान = पु० त्रीणि मनोवाक्शरीराणि अधिष्ठानान्यस्य तिसृणां जाग्रदार्दीनामधिष्ठानं वा ६ त०। १ जीवे तत्पुरुषपक्षे न० “तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिगः” मनुः जाग्रदाद्यवस्थात्रयसाक्षिणि कूटस्थे २ चैतन्ये न०।

त्र्यध्वमा = स्त्री त्रिभिरध्वभिर्गच्छति गम–६ त०। गङ्गायाम् त्रिका०।

त्र्यनीक = पु० त्रीणि उष्णवर्षशीताख्यानि अनीकानि गुणा अस्य। संवत्सराभिमानिदेवभेदे “त्रिपाजस्यो वृषमो विश्वरूप उत त्र्युधा पुरुध प्रजावान्। त्र्यनोकः पत्यते माहिनावान्त्सरेतोधावृषभः शश्वतीनाम्” ऋ० ३। ५६। २। “त्र्यनीकस्त्रिभिरुष्णवर्षशीताख्यैरनीकैर्गुणैरुपेतः” भा०। २ हस्त्यश्वरथाङ्गे सेनाभेदे स्त्री।

त्र्यमृतयोग = पु० त्रयाणां तिथिवारनक्षत्राणाममृततुल्यो योगः। तिथिनक्षत्रवारभेदानां योगभेदे। स च योगः ज्यो० उक्तो यथा “नन्दा भौमार्कवारे श्रवणशतभिषार्द्रान्त्यचित्राखिमूलासार्पैर्भद्रा समेता, शशिनि भृगुसुते फल्गुयुग्भाद्रयुग्मैः। सोम्याहे वै जया स्यान्मृगगुरुहरिभेन्द्राश्वियाम्याभिजिद्भिर्जीवे रिक्ता च विश्वादितिवरुणविशास्वानुराधामघाभिः। सौरे पूर्श्वा धनिष्ठाकरकमलजन्मर्क्षयुक्ता यदि स्याद् योगं प्राछस्त्रिपूर्वं सततशुभकरं चामृताख्यं मुनीन्द्राः”।

त्र्यम्बक = न० त्रीणि अम्बकानि नयनान्यस्य, त्रयाणां लोकानां अम्बकः पितेति वा, त्रौन् वेदान् अम्धते शब्दायते वा अवि–शब्दे ओष्ठ्योपधः कर्मण्यण् संज्ञायाषिति कः त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो यस्येति वा, अम्बनम् अम्बः शब्दः। त्रयोऽकारोकारमकाराः अम्बाः शब्दाः प्रतिपादकाः वाचका वा अस्येति वा, त्रीणि पृथिव्यन्तरीक्षद्युलोकाख्यानि अम्बकानि स्थानानि यस्येति वा। १ शिवे अमरः “त्र्यम्बकंयजामहे सुगन्धिं पुष्टिवर्द्धनम्” यजु० ३। ६० “जडीकृतस्त्र्यम्बकवीक्षणेन” महेश्वरस्त्र्यम्बक एव नापरः” रघुः। २ दुर्गायां स्त्री “सोमसूर्य्यानलाक्षित्वात् त्र्यम्बका सा स्मृता बुधैः” देवीपुरा०।

त्र्यम्बकसख = पु० ६ त० टच् समा०। कुवेरे अमरः कुवेरशब्दे तस्य तथात्वम् दृश्यम्।

त्र्यरुण = पु० त्रिवृष्णपुत्रे राजर्षिभेदे त्रैवृष्णशब्दे ऋ० वा क्यादिकं दृश्यम्।

त्र्यरुषि = त्रि० त्रीणि अरुषीणि रोचमानानि शुभ्राणि ककुप्पृष्ठपार्श्वस्थानानि यस्य। रोचमानशुभ्रपृष्ठादित्रययुक्ते गवादौ। “त्र्यरुषीणां दश गवां सहस्रा” ऋ० ८। ४६। २२।

त्र्यवि = पु० षणमासात्मकः कालः अविः त्रिस्रोऽवयोऽस्य। अष्टादशमासवयस्के पशौ। “त्र्यविर्वयस्त्रिष्टुप्च्छन्दः” यजु० १४। १०। त्रीन् लोकान् अवति अव–रक्षणादिषु इन्। वेददी०। “तस्थौ त्र्यविं रेरिहाणा” ऋ० ३। ५५। १४। “त्र्यविं सार्द्धसंवत्सरवयस्को वत्सस्त्र्यविरुच्यते तत् प्रसाणमादित्यम् त्रीन् लोकानवति स्वतेजसा व्याप्तोतीति वा” भा० उक्तेः २ त्रैलोक्यव्यापके च।

त्र्यब्द = न० समा० द्वि० पात्रा०। १ वर्षत्रये “त्र्यवदं चरेद्वा नियतो जटी ब्रह्महणो व्रतम्” मनुः। त्रयीऽव्दावयोमानं यस्य तद्वितार्थद्विगुः आर्हीयष्ठञ् अध्यर्द्धेत्यादि पा० तस्य लुक्। २ त्रिवर्षवयस्के त्रि०।

त्र्यशौति = स्त्री त्र्यधिकाऽशीतिः शाक० त० त्रयश्च अशीतिश्च समा० द्व० वा। (तिराशी) १ त्र्यधिकाशीतिसंख्यायां २ तत्संख्येये च! ततः पूरणे डट्। त्र्यशीत तत्पूरणे त्रि०। स्त्रियां ङीप् तनप्। त्र्यशीतितम तत्पूरणे त्रि०। त्र्यशीत्या युतं शतादि ड। त्र्यशीत तद्युतशतादौ।

त्र्यष्टक = न० सुश्रुतोक्ते जलनिक्षेपणस्थानभेदे। पञ्च निक्षेपणानि भवन्ति। तद्यथा फलकं त्र्यष्टकं मुञ्जवलय उदकमङ्चिका शिक्यञ्चेति” सुश्रु०।

त्र्यष्टन् = त्रि० त्रिगुणिताः अष्ट। १ चतुर्विंशतिसंख्यायां २ तत्संख्येये च। “त्र्यष्टवर्षोऽष्टवर्षीयां धर्म्मे सीदति सत्वरः” मनुः।

त्र्यस्र = न० तिस्रः अस्रवः कोणा यस्य अच् समा०। १ त्रिकोणे राजनि०। “प्रथमत्र्यस्रे द्वितीयत्र्यस्रे इत्यादि” कालीपूजापद्धतिः।

त्र्यह = पु० त्रयाणामह्नां समाहारः टच् समाहारद्विगुत्वात् नाह्नादेशः। “अह्नाहाः पुंसिः” पा० पुंस्त्वम्। दिनत्रये। उत्तरपदद्विगौ तु अह्नादेशः त्र्यह्णप्रिय इत्यादि। “त्र्यहं न कीर्त्तयेत् ब्रह्म राज्ञो राहोश्च सूतके” “त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्। त्र्यहं परञ्च नाश्नीयात् प्राजापत्यं चरन् द्विजः” मनुः।

त्र्यहस्पर्श = पु० त्र्यहं चान्द्रदिनत्रयं स्पृशति स्पृश–अण्। १ तिथित्रयस्पर्शिन्येकसावनदिने त्र्यहस्पर्शिनि २ दिनक्षये च

त्र्यहस्पृश = पु० “एकं दिनं यत्रतिथित्रयं च स्पृशेत्तमाहुर्मुनयोऽवमाख्यम्। एका तिथिस्त्रीणि दिनानि यत्र स्पृशेत्तदाहुस्त्रिदिनस्पृशन्तु” इत्युक्ते सावनदिनत्रयस्पर्शिनि एकस्मिन् तिथौ “त्र्यहस्पृशं नाम यदेतदुक्तं तत्र प्रयत्नः कृतिभिर्विघेयः। विवाहयात्राशुभपुष्टिकर्म सर्वं न कार्य्यं त्रिदिनस्पृशे तु” ज्यो० त०। क्विन्। त्र्यहस्पृश् क्विन्न न्तत्वात् झणि पदान्ते च कुः। तत्रार्थे “तिथिर्वारत्रये चैका त्र्यहस्पृक् समुदाहृता”। “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। त्र्यहस्पृक् तदहो रात्रमुपोष्या सा सदा तिथिः” स्मृतिः।

त्र्यहीन = पु० त्रिभिरहोभिः निर्वृत्तः ख। त्रिदिनसाध्ये क्रतुभेदे।

त्र्यहैहिक = त्रि० ईहा चेष्टा तस्यां भवं ठण् ऐहिकम् धनादित्र्यहपर्य्याप्तमैहिकं धनं यस्य। दिनत्रयनिर्वाहोचितधनशालिनि। “त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा” भनुः।

त्र्याक्षायण = पु० त्र्यक्षस्य युयाऽपत्यम् फञ् ऐछकारिगणे “द्व्याक्षायण त्र्याक्षायणेति निर्देशात्” न य्वाभ्यां पदान्ताभ्यां पूर्वौ ताभ्यामैच्” पा० सूत्रोक्तं कार्य्यं न। त्र्यक्षस्य शिशुपालहरादेर्यून्यपत्ये। तस्य विषयो देशः ऐषुका० भक्तल्। त्र्याक्षायणभक्त तदीये बिषये।

त्र्यायुष = न० त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारः वेदे अच् समा०। वाल्याद्यायुस्त्रये। “त्र्यायुषं जमदभ्नेः कश्यपस्य त्र्यायुषम्” यजु० ३। ६२।

त्र्यार्षेय = पु० त्रयः आर्षेयाः ऋषयः यत्र। त्रिप्रवरे १ गोत्रभेदे आर्षेयशब्दे दृश्यम्। ऋषेरयम् ढक् आर्षेयः ऋषिधर्मः त्रयः आर्षेया धर्मायेषाम्। २ अन्धबधिरमूकेषु तेषाञ्च यथा ऋषिधर्मवत्त्वंतथा समर्थितं तत्त्वबोधिन्याम् यथा “एतन्न्यायमूलक एव तिर्य्यक्पङ्गुत्य्रार्थेयदेवतानां यागेषु नाधिकार इति प्रवादः। त्र्यार्षेयास्त्रय ऋषि- धर्मा अन्धत्वबधिरत्वमूकत्वानि येषां ते ऋषीणां हि परद्रव्यदर्शनेन तत्र रागोत्पत्तिसम्भावनया चक्षुर्निमीलनेनान्धत्वं, परनिन्दाश्रवणशङ्कया श्रोत्रनिग्रहेण बधिरत्वं मिथ्याकथनशङ्कया वाक्यसंयमनान्मौक्यम्”। अन्धादीनां कर्म्मानधिकारे हेतुश्च “मनुष्याणां वा आरम्भसामर्थ्यात्” ४ “अङ्गहीनाश्रोत्रियषण्ढशूद्रवर्जम्” कात्या० श्रौ० १। १। ५। सूत्राभ्यां निरूपितः अत्र कर्कव्याख्या “अङ्गहीनाश्रोत्रियषण्ढशूद्रान् वर्जयित्वा मनुष्याणामधिकारः कर्मसु भवति। मनुष्या अपि ये अङ्गहीना अङ्गेने चक्षुरादिना हीना अन्धपङ्गुमूकवधिरादयः अश्रोत्रिया अनधीतवेदाः षण्ढा नपुंसकाः शूद्राश्च नैतेषामधिकार इत्यर्थः। आरम्भसामर्थ्यादित्यत्राप्यनुवर्त्तते न चैतेऽङ्गहीनादयो यथाश्रुतं कर्मारब्धुं कर्तुं शक्रुवन्ति तद्यथा न ह्यन्ध आज्यावेक्षणं कर्तुं शक्नोति मूकश्च मन्त्रीच्चारणम्, पङ्गुश्च विष्णुक्रमम्। बधिरश्च प्रैषश्रवणम् अनधीतवेदोऽश्रोत्रिय इत्युच्यते स च किमपि मन्त्रसाध्यं कर्तुं न शक्रोति षण्ढो नपुंसकः तस्याप्यनधीतवेदत्वादद्रव्यत्वादशुचित्वाच्च नाधिकारः शूद्रस्य चानधीतवेदत्वादनधिकारः। आज्यावेक्षणाभिश्च विना कर्मणो वैगुण्यं भवत्येव। ननूक्तम् अशक्याङ्गरहितकर्मानुष्ठानादधिकारो भविष्यतीति। अत्रोच्यते। भवेदेवं यदि आज्यमवेक्षत इत्यादीन्यङ्गवाक्यानि स्वातन्त्र्येण पुरुषैः सम्बध्येरन् प्रधानवाक्यशेषत्वात्तेषाम्। तदङ्गयुक्तेन प्रधानवाक्येन तदङ्गयुक्तः क्रतुः पुरुषैः सम्बध्यमानोऽसमर्थान् परित्यज्य समर्थान् प्रतिज्ञायते तेनान्धस्य क्रतुरेवाविहितो न त्वाज्यावेक्षणमेवाविहितमितरच्च विहितमिति मन्तव्यम्। न च प्रधानवाक्यविरोधः सर्वाधिकारानिश्चयात् विशेषभावाद्धि सर्वाधिकारः स्यात् अस्ति च विशेषः आरम्भ सामर्थ्यम् अतः समर्थानामेवाधिकारः। यत्र तु प्रधानवाक्यविरोधो यावज्जीवं यजेतेत्यादौ तत्र यथाशक्तिप्रयोगादपि फलं भवति तदविरोधे तु सर्वाङ्गयुक्तकर्मानुष्ठानादेव फलम्। ननु आरम्भसामर्थ्यादित्यनेनैव गवादीनामिवान्धादीनामप्यधिकाराभावसिद्धेः किमर्थं पुनरङ्गहीनादिवर्जमित्युक्तम् उच्यते नियमार्थम् एतेषामेवानधिकारो न निर्धनस्य तस्य चाधिकारो भवत्येव न त्वारम्भसामर्थ्याभावादनधिकारः अतो निर्धनोऽपि क्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति। एव- मन्धादिरपि यद्योषधिशस्त्रादिनान्धत्वादिकं स्फोटयितुं शक्नोति तस्याप्यधिकारो भवत्य व पूर्वमनङ्गहीनत्वावस्थायामाहिताग्निश्चेत् पश्चाद्रोगादिनाङ्गवैकल्ये जाते काम्येष्वधिकारो न भवति नित्येषु तु यथाशक्ति कुर्वन्नधिक्रियत एव अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव” त्रीणि आर्षेयाणि यस्य। ३ त्रिगोत्रोत्पन्ने माधवः। अत्रेदमभिधीयते तत्त्वबोधिन्याम् त्र्यार्षेयशब्दस्यान्धादिपरत्वकल्पनं सूत्रभाष्यविरुद्धम्। तथाहि “अङ्गहोनश्च तद्धर्म्मा” ६। १। ४१। जै० सू०। “अग्निहीत्रादिषु एवाङ्गहीनं प्रति सन्देहः किम् असावधिक्रियते, उत न इति। तत्राप्यधिकरणातिदेशः। असमर्थः इति कृत्वा पूर्वः पक्षः शक्तेर्विद्यमानत्वात् उत्तरः। तदिदम् अभिधीयते अङ्गहीनश्च तद्धर्मा। किंधर्मा अद्रव्यधर्मा” शव० भा०। “उत्पत्तौ नित्यसंयोगात्” जै० ६। १। ४२ “यस्य तु अप्रतिसमाधेयमङ्गवैकल्यं तं प्रति विचारः किं अधिक्रियते न, इति पूर्वाधिकरणेन अधिक्रियते इति प्राप्ते ब्रूमः न अधिक्रियते इति। कुतः? शक्त्यभावात् न असौ केनचित् अपि प्रकारेण शक्तोति यष्टुम्, तस्मात् तस्य अधिकारो न गम्यते। ननु यत् शक्नोति तत्र अधिक्रियते इति चक्षुर्विकलो विना आज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनामनधिकारः इति यदि हि तं प्रति निर्दिश्येत ततो विकलोऽप्यधिक्रियते क्रतुम् प्रति। एषाम् उपदेशः प्रकरणाविशेषात् पुरुषस्य च आख्यातेन अनभिधानात् इति उक्तमेतत्। “विधिर्वा संयोगान्तरात् (३। ४। १३ ) इत्यत्र। तैश्च विना विगुणं कर्म प्रयुक्तमपि न फलं साधयेत्। तस्मात् तस्य अनधिकारः” भा०। “अत्रार्षेयस्य स न स्यात्” जै०६। १। ४३ “दर्शपूर्णमासयोः श्रूयते, “आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते पञ्चाति वृणीते इति। तत्र सन्देहः किम् अत्र्यार्षेयस्य अधिकारः उत न इति किं प्राप्तम्। अत्र्यार्षेयोऽप्यधि क्रियते” इति कुतः आर्षेयं वृणीते इति सामान्यवचनम् तस्मात् एकं वरिष्यति द्वौ वा तच्च दर्शयति एकं वृणीते इति तथा प्रतिषेधति न चतुरो वृणीते इति। न हि अप्राप्तस्य प्रतिषेधोऽवकल्पते। तस्मात् अत्र्याषे योऽप्यधिक्रियेत। एवं प्राप्ते ब्रूमः यो न त्र्यार्षेयः स न अधिक्रियते। कुतः? त्रीन् वृणीते इति विशेषवचनात् विधिश्च अप्राप्तत्वात्। ननु एकं वृणीते इत्यपि विशेषवचनमस्ति। न इत्युच्यते, विधायिकाया विभक्तेरभावात्। ननु स्तुत्या विधास्यन्ते यथा त्रीन् वृणीत इति। उच्यते त्रयाणामेव स्तुतिः सा त्रित्वं विधास्यति। एकं वृणीते इत्यवयुत्यवादोऽयं त्रयाणामेव, तत्रापि त्रित्वमेव श्रूयते विधातुम्। एवम् एकवाक्येन विधानं भविष्यति इति। न चतुरो वृणोते न पञ्चातिवृणीते इति नित्यानुवादो भविष्यति। तस्मात् त्र्यार्षेयस्य अधिकारो नान्यस्य इति” शव० भा०। न्यायमालायां माधवेस्तु “ऋषिर्गोत्रप्रवर्त्तकः कश्यपभरद्वाजादिस्तस्य सम्बन्ध आर्षेयस्तं वृणीते उच्चारयति कश्यपगोत्रोऽहं भरद्वाजगोत्रोऽहभिति एवम् उपमन्युवशिष्ठमोत्रोऽहमिति द्विगोत्रोच्चारणम्। आङ्गिरसवार्हस्पत्यभरद्वाजगोत्रोऽहमिति त्रिगोत्रोच्चारणम्”। एवञ्च सूत्रभाष्यादिग्रन्थेषु त्र्यार्षेयशब्दस्य अन्यार्थपरत्वात् जात्यन्धादेः सूत्रान्तरेण अनधिकारस्य प्रतिपादनात् त्र्यार्षेयशब्दस्य न अन्धादिपरत्वमिति सुधीभिर्भाव्यम्।

त्र्याशिर् = तिस्रः दधितक्रपयोरूपा आशिरः अधिश्रपणसाधनभूता यस्य। अग्नेर्वृषभेदे। “यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः। अश्वमेधस्य दानाः सोमा इव त्र्याशिरः” ऋ०५। २७। ५।

त्र्याहण = पुंस्त्री त्रिभिः चञ्चुपादैराहन्ति आ + हन–अच् पूर्वपदात् संज्ञात्वात् णत्वम्। विस्किरे पक्षिभेदे। “चकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्तिरिकुररबाहुकयवलप्रभृतयस्त्र्याहनाविष्किरालघवः शीतमधुराः कषायादोषशमनाश्च” सुश्रुतः।

त्र्याहाव = पु० देशभेदे तत्र भवः वुञ्। त्रैयाहावक तत्रार्थे

त्र्याहिक = त्रि० त्र्यहे भवः ठञ्। आर्षत्वात् त्र्याक्षायणेति निर्देशाद्वा य्वाभ्यां पूर्वं न ऐच्। त्र्यहभवे ज्वरादौ। “ऐकाहिको द्व्याहिकश्च त्र्याहिकश्चातुर्थिकेत्यादि अपराजितास्तोत्रे। त्र्यहपर्य्याप्तं धनं अण् त्र्याहम् तदस्यास्ति ठन्। त्र्यहपर्थ्याप्तधनयुक्ते त्रि०। “कुशूलकुम्भीधान्योवा त्र्याहिकोऽश्वस्तनोऽपि वा” याज्ञ०। लोके तु य्वाभ्यां पूर्वमैजेव त्रैयाहिक इत्येव त्र्यहभवे वस्तुनि।

त्र्युदय = न० त्रिषु सवनेषु उदयो गतिरस्य। सोमाख्ये द्रव्ये। “त्र्युदयं देवहितं यथा वः” ऋ० ४। ३७। ३।

त्र्युधन् = पु० त्रिभिः वसन्तशरद्धेमन्तैरृतुभिरूधोऽस्य अनङ् ह्रस्वश्च। वसन्तादिरूपोधोयुक्ते वत्सररूपे वृषभे। “उत त्र्युधा पुरुध प्रजावान्” ऋ० ३। ५६। ३।

त्र्यु(त्र्यू)षण = न० त्रयाणामुषणानां समाहारः पृषो० वा दीर्घः। मिलितशुण्ठोपिप्पलीमरिचत्रिके अमरः भरतस्तु दीर्घमध्यं पपाठ।

त्र्यृच = न० त्रिसृणामृचां समाहारः अच् समा०। ऋक्त्रये। “उदित्र्यृचा वा वारुण्या त्र्यृचेनाव्दैवतेन वा” “अथ त्र्यृचं जपेदव्दम्” मनुः। पक्षे संप्रसारणे तृचमप्यत्र।

त्र्येणी = स्त्री त्रीणि एतान्यस्य सि० कौ० त्रिषु स्थानेषु एतः कर्वुरो यस्याः ब० व० माधवः। “वर्णादनुदात्तात्” पा० ङीप् तस्य नश्च णत्वम्। त्रिषु स्थानेषु कर्वुरायां स्त्रियाम्। “तत्त्रेणी शलली भवति लोहः क्षुरः सा या त्र्येणी शलली सा त्रय्यै विद्यायै रूपं लोहः क्षुरो ब्रह्मणो रूपमग्निर्हि ब्रह्मणो हित इव ह्यग्निस्तस्माल्लोहः क्षुरो भवति” शत० ब्रा० २। ६। ४। ५। “त्र्येणीति त्रिषु स्थानेषु एतः श्वेतः वर्णो यस्याः सा त्र्येणी” भा०। “अथास्यैयुग्मेन शलाटुग्लप्सेन त्र्येण्या च शलल्या” आश्वा० गृ० १। १४। ४। त्रीण्ये तानि यस्याः सेयं त्र्येणी शलली। एतः शुक्ल इत्यर्थः” नारा०

त्व = त्रि० तन–विच् अनश्च वः। १ भिन्ने अन्यार्थे सर्वनामकार्य्यं सर्वनामगणे त्वत्त्वसमसिमेति पठित्वा “त्वत्वेति द्वावप्यदन्तौ अन्यपर्य्यायौ एक उदात्तोऽपरोऽनुदात्त इत्येके। एकस्तान्त इत्यपरे” सि० कौ० उक्तेः तान्तत्वमपि तच्चं क्विपि तुकि रूपमिति विवेकः। “ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत त्वः” ऋ० १०। ७१। ११ त्वशब्दः सर्वनामसु पठितः एकशब्दपर्य्यायः भा० उक्ते २ एकशब्दार्थे माधवः। “प्रजायै त्वस्यै यदशिक्ष इन्द्र!” ऋ० १०। ५४। १। “त्वस्यै एकन्यै प्रजायै” भा०। “उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम्। उतो त्वस्मै तन्वं वि सस्रो जायेव पत्य उशती सुवासाः” ऋ० १०। ७१। ४। “त्वशब्द एकवाची। एकः। उतशब्दोऽप्यर्थे। पश्यन्नपि मनसा पर्य्यालोचयन्नपि वाचं न ददर्श दर्शनफलाभावान्न पश्यति। त्व एकः शृण्वन्नप्येनां वाचं न शृणोति श्रवणफलाभावात्। इत्यनेनार्द्धेनाविद्वानभिहितः। तृतीयपादेन विदित- वेदार्थमाह। त्वस्मा एकस्मा अपि तन्वमात्मीयं शरीरं वि सस्रे, स्वयं वाग्विविधं गमयति” भा०। अस्या एव ऋचामर्थव्याख्याने ऋग्वेदोपद्घादे माधवः त्वशब्दस्य अन्यार्थतामभिप्रेत्याह, यथा “त्वः अन्यः कश्चिदर्थज्ञानाय व्याकरणाद्यङ्गानि शृण्वन्नपि मीमांसाराहित्यादेनां वेदरूपां वाचं न संम्यक् शृणोति” अत उभयार्थता “विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम्” अथ० ८। ९। ९। सर्वनामत्वात् जसः सीभावः

त्वक्कण्डुर = पु० त्वचः कण्डुं राति रा–क। ब्रणे हारा०।

त्वक्क्षीरा = स्त्री त्वचः वंशत्वचः क्षीरमस्त्यस्याः आकरत्वेन अच्। १ वंशरोचनायां। २ तत्रार्थे गौरा० ङीष् राजनि०। “सिताजगन्धा त्वक्क्षीरी विदारी त्रिवृता समा” सुश्रु०

त्वक्छद = पु० त्वगेव छदोऽस्य। क्षीरीशवृक्षे (क्षीरकञ्चुकी) प्रसिद्धे वृक्षे रत्नमा०।

त्वक्तरङ्ग = पु० त्वचस्तरङ्ग इव। कण्डुपदार्थे पार० निघण्टुः।

त्वक्पञ्चक = न० त्वचां पञ्चकम्। “न्यग्रोधीदुम्बराश्वत्थशिरीषप्लक्षपादपाः। पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चकं मतम्” इत्युक्ते न्यग्रोधादिवल्कले। केचित्तु शिरीषस्थाने वेतसं परे पारिशम् वदन्तीति शेषः “त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित्। विष्टम्भाध्मानजित् तिक्तं कषायं लघु लेखनम्” भावप्र०।

त्वक्पत्र = न० त्वगिव पत्रमस्य। १ गुडत्वचि (दारचिनि) २ तेजपत्रे च अमरभरतौ। “चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च” भा० शा० १७० अ०। ३ हिङ्गुपत्र्याम् स्त्री गौरा० ङीप् अमरः।

त्वक्पाक = पु० त्वचः पाको यत्र। शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्वे” इत्युपक्रमे “त्वक्पाकः शोणितार्वुदम्” इत्यादिना च तान् विभज्य “पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान्” सुश्रुतोक्ते शूकदोषनिमित्ते व्याधिभेदे।

त्वक्पारुष्य = न० त्वचः पारुष्यं कठोरता। त्वचः काठिन्ये “तस्य पूर्वरूपाणि त्वक्पारुष्यमकस्मात् रोमहर्षः” सुश्रुतः।

त्वक्पुष्प = न० त्वचः पुष्पमिव। १ रोमाञ्चे त्रिका० २ किलासे (छुली) ख्याते हेमच०। त्वचि पुष्पं यस्याः गौरा० ङीष्। ३ किलासे स्त्री जटा० स्वार्थे क। त्वक्पुष्पिका किलासे त्रिका०।

त्वक्ष = तनूकरणे भ्वा० पर० सक० सेट् त्वक्षति अत्वक्षीत्। “त्वष्टा तूर्णमश्नुते इति नैरुक्तास्त्रिषेर्वा स्यात् त्वक्षतेर्वा स्यात्” निरुक्ते ८। १२ उक्तत्वात् तथा धातुरस्तीति गम्यते। “प्रत्वक्षाणो अतिविश्वा महांसि” ऋ० १०। ४४। १। “प्रत्व“क्षाणः प्रकर्षेण तनूकुर्वन्” भा०।

त्वक्षस् = न० त्वक्ष्यतेऽनेन त्वक्ष–करणे असुन्। बले निघण्टुः। “सप्रविक्वा त्वक्षसा क्ष्मो दिवश्च” ऋ० १। १००। १५। “त्वक्षसा बलेन” भा०।

त्वक्षीयस् = त्रि० अतिशयेन त्वक्षिता ईयसुन् तृणो लोपः। दीप्ते “मरुत्वान् त्वक्षीयसा वयसा नाधमानम्” ऋ० २। ३३। ५। “त्वक्षीयसा दीप्तेन” भा०।

त्वक्सार = पु० त्वचि सारोऽस्य। १ वंशे अमरः। त्वगेव सारोऽस्य। २ गुडत्वचि (दारचिनि) ख्याते पदार्थे शब्दच०। ३ शोणवृक्षे ४ रन्ध्रप्रधानवंशे (तलतावा~श) राजनि०। “त्वक्साररन्ध्रपरिपूरणलब्धगीतिः” माघः। “चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान्” मनुः। “शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्सारादिचतुर्वर्गं छेघे भेद्ये च बुद्धिमान्” सुश्रु०। त्वक्सारः उत्पत्तिस्थानत्वे नास्त्यस्याः अच्। ५ वंशरोचनायां स्त्री राजनि०।

त्वक्सारभेदिनी = स्त्री त्वचः सारं भिनत्ति भिद–णिनि ङीष्। क्षुद्रचञ्चुवृक्षे राजनि०।

त्वक्सुगन्ध = पु० त्वचि फलत्वचि सुगन्धोऽस्य। नारङ्गे (नेवु) भेदे भावप्र०। २ एलवालुकाख्यगन्धद्रव्ये स्त्री शब्दार्थचि०।

त्वक्स्वाद्वी = स्त्री त्वचि स्वाद्वी। (दारचिनि) ख्याते गुडत्वचि शब्दार्थचि०।

त्वग = गतौ भ्वा० सक० पर० सेट् ईदित्। त्वङ्गति अत्वङ्गीत् तत्वङ्ग।

त्वगङ्कर = पु० त्वचः अङ्कुर इव। रोमाञ्चे हारा०।

त्वगाक्षीरी = स्त्री त्वचः आक्षीरं स्वल्पक्षीरं यस्याः गौरा० ङीष्। वंशरोचनायाम् जटा०।

त्वग्गन्ध = पु० त्वचि फलत्वचि गन्धोऽस्य। नागरङ्गे राजनि०

त्वग्ज = न० त्वचो जायते जन–ड। १ रोमणि २ रुधिरे च राजनि०।

त्वग्दोष = पु० त्वचं दूषयति दुष–णिच्–अण्। कोठरोगे राजनि० “श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाचिताम्” सुश्रुं०। “प्रियः प्रजानामपि स त्वग्दोषेण प्रदूषितः” भा० उ० १४८ अ०। ततः अस्त्यर्थे इनि तद्युक्ते त्रि०। “देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः!” भा० उ० १४८ अ०।

त्वग्दोषापहा = स्त्री त्वग्दोषमपहन्ति अप + हन–ड। वाकुच्याम् राजनि०।

त्वग्दोषारि = पु० ६ त०। हस्तिकन्दे राजनि० त्वग्दोषान्तोऽप्यत्र।

त्वच = संवरणे तु० पर० सक० सेट्। त्वचति अत्वाचीत् अत्वचीत्। तत्वाच। त्वक्।

त्वच्(चा) = स्त्री त्वच्यते संव्रियते देहोऽनया त्वचति संवृणोति वा देहम् त्वच–क्विप्। १ गुडत्वचि (दारचिनि) २ वल्कले ३ चर्मणि च मेदि०। ४ स्पर्शग्राहके वाह्येन्द्रियभेदे सा च देहव्यापिनी त्वचिस्थिता सूक्ष्मावायोः सत्त्वांशेनोत्पन्ना वाताधिष्ठातृदेवताका” वेदा० सा० दृश्यम्। तत्र “उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः। रूपान्यच् चक्षुषो योग्यं रूपमत्रापि कारणम्। द्रव्याध्यक्षे, त्वचो योगो मनसा ज्ञानकारणम्” भाषा० चर्म्मन् शब्दे २९०३ पृ० दृश्यम्।

चर्मणि “त्वचं समेध्यां परिधाय रौरवीम्” रघुः “आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः। “त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा०। वल्कले “भुर्जत्वचः कुञ्जरविन्दुशोणाः” कुमा०। गुडत्वचि “त्वगेलापत्रकैस्तुल्यैः त्रिसुगन्धि त्रिजातकम्” राजनि०। हलन्तत्वात् वा टाप्। तत्रार्थे शब्दरत्ना० त्वचापत्रम्। “मुक्तत्वच इवोरगः” भा० शा० २५० अ०। “श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्द्ध्वरोमा महत्त्रचः” हरिवं १७९ अ०।

त्वच = न० त्वच–अच्। वल्कले “त्वचवेष्टितमस्थिपञ्जरम्” उज्ज्वलद०। गुडत्वचम् इत्यादि। प्रशस्ता त्वगस्त्यस्य अच्। २ त्वक्पत्रे न०। “त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्च रूक्षकम्। पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम्। हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृदिति”।

त्वच = त्वचं करोति सत्यपाशेत्यादि० पा० स्वार्थे–णिच् नामधातुः। त्वचयति।

त्वचस् = न० त्वच–असुन्। त्वचि। त्वचसि हितम् यत्। त्वगिन्द्रियहिते “यक्ष्मं त्वचस्यं ते वयम्” अथ० २। ३३। ७।

त्वचापत्र = न० त्वचा त्वक् पत्रमिवास्य। (दारचिनि) त्वक्पत्रेशब्दार्थचि०।

त्वचिष्ठ = त्रि० अतिशयेन त्वग्वान् इष्ठन् मतुपो लुकि न पदान्तकार्यम्। अतिशयत्वग्युक्ते। ईयसुन् त्वचीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।

त्वचिसार = पु० त्वचि सारोऽस्य हलन्तत्वात् वा सप्तम्या न लुक्। वंशे अमरः।

त्वचिसुगन्धा = स्त्री त्वचि सुगन्धोऽस्याः अलुक् समा०। क्षुद्रैलायाम् हारा०।

त्वच्य = त्रि० त्वचि हितं यत् भत्वात् न पदान्तकार्य्यम्। त्वचिहिते। “त्वच्यं वृष्यं मधुरविपाकम्” सुश्रु०।

त्वत् = त्रि० तन–क्विप् अनो वः तुक् च। अन्यार्थे सर्वनामायम्। त्वशब्दे दृश्यम्। सर्वनामत्वात् टेरकच् त्वकत्। इति बोध्यम्।

त्वत्तस् = अव्य० एकार्थवृत्तेः युष्मदः तसिल् त्वदादेशः। त्वत्सकाशादित्याद्यर्थे “त्वत्तः सर्वं प्रवर्तते”।

त्वदीय = त्रि० तव इदम् त्यदादित्वेन वृद्धत्वात् छ त्वदादेशः। एकवचनार्थवृत्तियुष्मदर्थसम्बन्धिनि। “पितुस्त्वदीयस्य मयाऽपहारितः” रघुः।

त्वन्च = गतौ भ्वा० पर० सक० सेट्। त्वञ्चति अत्वञ्चीत्। त्वत्वञ्च। उदित्। त्वञ्चित्वा त्वक्त्वा। त्वक्तः

त्वन्च = सङ्कोचे रुधा० पर० सक० वेट्। त्वनक्ति अत्वाङ्क्षीत् मतान्तरे उदित्। क्त्वा वेट्। अन्यत्र सेट्। त्वक्तः।

त्वद्विध = त्रि० तवेव विधा प्रकारो यस्य। त्वत्सदृशे।

त्वम्पदलक्ष्यार्थ = पु० त्वमिति पदस्य लक्ष्योऽर्थः। अज्ञानादिव्यष्ट्युपाध्युपहिताधारभूते अनुपहितप्रत्यगानन्दरूपे तुरीयचैतन्ये।

त्वम्पदवाच्य = त्रि० ६ त०। त्वम्पदाभिधे। “देहादिभिः परिच्छिन्नो जीवस्तु त्वम्पदाभिधः” वेदान्तप्र०।

त्वम्पदवाच्यार्थ = त्रि० त्वम्शब्दार्थे अज्ञानादिव्यष्टिः एतदुपहिताल्पज्ञत्वादिविशिष्टं चैतन्यम् एतदनुपहितचैतन्यञ्च। एतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानः त्वम्पदवाच्यार्थो भवति” वेदान्तसा०।

त्वम्पदाभिध = पु० त्वम्पदमभिधा यस्य। त्वम्पदवाच्ये जीवे “आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः। अन्तःकरणसम्भिन्नबोधः स त्वम्पदाभिधः” इत्युक्तेः।

त्वयता = स्त्री त्वया दत्तम् पृषो०। त्वया दत्ते इत्यर्थे “मन इन्द्र! त्वयताया इषे” ऋ० ७। २०। २०। “त्वयतायै इषे त्वया दत्तायै इषे अन्नाय” भा० अन्नाय अन्नं भोक्तुमित्यर्थः।

त्वर = वेगे भ्वा० आत्म० अक० सेट्। त्वरते अत्वरिष्ट। घटा०। णिच्–त्वरयति। षित् त्वरा। ञीत् त्वरितोऽस्ति। “गच्छावः सहितौ तत्र ममापि त्वरते मनः” रामा० आर० ७८ स०। “यस्य वा त्वरते बुद्धिः” भा० स० १५५ श्लो० “दूता हि त्वरयन्ति माम्” रामा० बा० “अतत्वरच्च तान् योद्धुम्” भट्टिः।

त्वरा = स्त्री त्वर–अङ्। १ वेगे, २ अभीष्टलाभार्थं विलम्बासहने च “औत्सुख्येन कृतत्वरा सहभुवा व्यावर्त्तमाना ह्रिया” रत्नावली।

त्वरायण = त्रि० त्वरा अयनमस्य णत्वम्। त्वरासक्ते अमरः

त्वरायस् = त्वरणे कण्ड्वा० आकृतिगणः पर० अक० सेट्। त्वरायस्यति।

त्वरि = स्त्री त्वर–वेगे भावे इन्। त्वरायां हेमचन्द्रकोषः।

त्वरित = न० त्वर–क्त। १ शीघ्रे। २ तद्वति त्रि०। “पथोऽभिसस्रुस्त्वरितं चमूचराः” माघः “त्वरितगतिर्व्रजयुवतिः” छन्दोम०। ३ देवीभेदे स्त्री “अथाभिधास्ये त्वरितां त्वरितं फलदायिनीम्” इत्युपक्रमे तन्त्रसा० तद्ध्यानादिकमुक्तं दृश्यम्।

त्वरितक = पु० त्वरितं कायति प्रकाशते जायते कै–क। व्रीहिभेदे (तोरी) कृष्णव्रीहीत्याद्युपक्रमे “त्वरितककुक्कुटाण्डकेत्यादि” सुश्रु०।

त्वरितगति = स्त्री “त्वरितगतिश्च नजनगैः” छ० म० उक्ते दशाक्षरपादके वर्णवृत्तभेदे।

त्वरितोदित = न० त्वरितमुदितम्। शीघ्रोच्चारिते निरस्ते वचसि अमरः।

त्वलग = पु० जलग + पृषो०। जलसर्पे पारस्करनि०।

त्वष्ट = त्रि० त्वक्ष–तनूकरणे क्त। तनूकृते तष्टशब्दार्थे अमरः

त्वष्टि = पु० “मत्स्याघातो निषादानां त्वष्टिस्त्वायोगवस्य च” मनूक्ते सङ्कीर्णजातिभेदे।

त्वष्टीमती = स्त्री त्वष्टा तदनुग्रहोऽस्त्यस्याः मतुप् पृषो०। त्वष्टुरनुग्रहोपेतायां स्त्रियाम् “स्त्रीपुरुषमिथुनरूपाणां पशुमनुष्यादीनां शरीरनिर्माता त्वष्टा तथा च अग्न्युपस्थानप्र० श्रूयते “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायते” तादृशस्य त्वष्टुरनुग्रहोपेता” मा०।

त्वष्टृ = पु० त्वक्ष–तृच्। “एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते” भा० आ० ६५ अ० उक्ते १ द्वादशादित्यमध्ये १ आदित्यभेदे। “निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशत् विभोः। चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो नृणाम्” भाग० ३१६१४ श्लो०। उक्तेस्तस्य नेत्रोपकारकतया नेत्राधिष्ठातृत्वम्। २ देवशिल्पिभेदे अमरः “विश्वकर्मा च त्वष्टा च चक्राते ह्यायुधं बहु” हरिव० ३१९ अ०। “आह्वये विश्वकर्माणमहं त्वष्टारमेव च” रामा० वा० ९१ स०। “त्वष्टा तथैवोर्ज्जितविश्वकर्म्मा” हरिवं० २४३ अ० इत्यादिषु तयोर्भेदेन निर्देशात् न पर्य्यायता। ३ तद्देवताके चित्रानक्षत्रे। ४ सूत्रधरे तक्षके वर्णसङ्करभेदे च। ५ तक्षणकर्तरि त्रि० स्त्रियां ङीप्। ६ पशुमनुष्यादीनां गर्भान्तःस्थरेतोरूपविकारकारके देवभेदे त्वष्टीमतीशब्दे दृश्यम्।

त्वष्टृमत् = त्रि० त्वष्टृ + अस्त्यर्थे मतुप्। वीर्य्याधिष्ठातृदेवभेदयुक्ते “त्वष्टृमन्तस्त्वा सपेम” यजु० ३७। २०। “त्वष्टा रेतसामधि- ष्ठाता तत्सहिताः। मैथुनार्थोपस्पर्शे वीर्य्याधिष्ठातापेक्षितोऽत एतद्युताः” वेददी०।

त्वाम्कामा = स्त्री त्वां कामयते कम–णिङ् अण् वेदे द्वितीयायाः न लुक्। त्वामभिलषन्त्याम्। “अग्ने! त्वांकामया गिरा” ऋ० ८। ११। ७। लोके तु त्वत्काम इत्येव।

त्वायु = त्रि० त्वामात्मन इच्छति क्यच् युष्मदस्त्वदादेशे क्याच्छन्दसि” पा० उ। आत्मनः त्वां मयमाने। “सुता इमे त्वायवः” ऋ० १। ३। ४।

त्वावत् = त्रि० तवेव दर्शनमस्य युष्मद् + वतुप्प्रकरणे “युष्मदस्मद्भ्यां छन्दसि सादृश्ये उपसंख्यानम्” उक्तेः सादृश्ये बतुप् त्वादेशः “आ सर्बनाम्नः” पा० आ। त्वत्सदृशे “आ घ त्वावान् त्मानाप्तःः” ऋ० १। ३०। १४।

त्वावसु = पु० त्वं वसुर्व्यापकोऽस्य त्वादेशः वेदे पृषो० आ। त्वया व्याप्ते। लोके तु त्वद्वसुः इत्येव।

त्वाष्टी = स्त्री दुर्गायाम्। “तुष तुष्टौ स्मृतो धातुस्तस्य तुष्टीनिपातने। सृजत्येषा प्रजास्तुष्टी त्वाष्टी तेन प्रकीर्तिता” देवीपु० ४५ अ०।

त्वाष्ट्र = त्रि० त्वष्टा देवता अस्य अण्। त्वष्टृदेवताके १ आज्यादौ २ चित्रानक्षत्रे स्त्री। त्वष्टुः आदित्यभेदस्य अपत्यम् अण्। ३ विश्वरूपे ४ वृत्रासुरे च। “त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणः त्रीणि शीर्षापरावर्के” ऋ० १०। ८। ९। “विवस्वानर्य्यमा पूषा त्वष्टाथ सविता तथा” इत्युपक्रमे विवस्वदादीनां वंशमभिधाय। “त्वष्टुर्देत्यभिबत् भार्य्या रोचना नाम कन्यका। सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्य्यवान्। तं वव्रिरे सुरगणाः स्वस्त्रीयं द्विषतामपि” भाग० ६१६ अ० ३३ श्लो० इति विश्वरूपोत्पत्तिकथा। वृत्रासुरोत्पत्तिकथा च “हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे। इन्द्रशत्रो! विवर्द्धस्व मा चिरं जहि विद्विषम्” इत्युपक्रमे तदुत्पत्तिमुपवर्ण्य “येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना। स वै वृत्र इति प्रोक्तः पापः परमदारुणः” भाग० ६। ९ अ० दृश्या। त्वष्टुः स्त्र्यपत्यम् अण् ङीप्। संज्ञानामनि ४ सूर्य्यपत्न्यां स्त्री शब्दरत्ना०। छायाशब्दे २९८५ पृ० दृश्यम्। ५ क्षुद्ररथे त्रिका०। ६ सामभेदे। “इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत् तं त्वाष्ट्रेऽब्रुवन् जनन्यामेति तमेतैः सामभिरजनयन्” पञ्चभीष्मब्रा०।

त्विष = दीप्तौ भ्वा० उभ० अक० अनिट्। त्विषति ते। अत्विक्षत् अत्विक्षत। तित्वेष तित्वषे। त्विक्षीष्ट। “ओजस्तदस्य तित्विषे” ऋ० ८। ६। ५। “समच्यन्त वृजनाति त्विष्वन्त यत्” ऋ० ५। ५४। १२। “अग्निरिव मन्यो! त्विषितः सहस्व” ऋ० १०। ८४। २।

त्विष्(षा) = स्त्री त्विष्–सम्प० भावे क्विप्। दीप्तौ। “निशीथदीपाः सहसा हतत्विषः” रघुः। “रुचिधाम्नि भर्तरि परलोकमम्युपगते विविशुः। ज्वलनं त्विषः कथमिवेतरथा” “चयस्त्विषामित्यवधारितं पुरः” माघः। हलन्तत्वात् वा टाप्। तत्रार्थे शब्दरत्ना०।

त्विषामीश = पु० ६ त० अलुक् समा०। १ सूर्य्ये हेमच० २ अर्कवृक्षे च।

त्विषाम्पति = पु० ६ त० अलुक् स०। १ सूर्य्ये अमरः २ अर्कवृक्षे च।

त्विषि = पु० त्विष–इन्। किरणे हेमच०।

त्विषित = त्रि० त्विठ् जातास्य तार० इतच्। ज्वलिते। “अग्निरिव मन्यो त्विषितः” ऋ० १०। ८४। २।

त्वेषथ = त्रि० त्रिष–अथच्। दीप्ते। “शूरस्येव त्वेषथा दीषते वयः” ऋ० १। १४१। ८।

त्वेषस् = त्रि० त्विष–असुन्। दीप्ते “अस्येदु त्वेषसवरन्त सिब्धवः” ऋ० १। ६१। ११

त्वै = अव्य० त्वच–बा० डै। १ विशेषे २ वितर्के च शब्दार्थचि०।

त्वोत = त्रि० त्वया ऊतः वेदे नि०। त्वया रक्षिते इत्यर्थे। “त्वोतासो न्यर्वता” ऋ० १। ८। २। लोके तु त्वदूत इत्येव

त्सर = छद्मगतौ भ्वा० पर० सक० सेट्। त्सरति त्सारीत्। “यस्त्रा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम्” अथ० ८। ६। ८। “यो हैनं पाप्मा मायया त्सरति न हैनं सोऽभिभवति” शत० ब्रा० ११। १। ६। १२।

त्सरु = पु० त्सर–उत्! खड्गमुष्टौ। “मा मां पद्येन रपसा विदत् त्सरुः” ऋ० ७। ५०। १। “खड्गं च कनकत्सरुम्” भा० व० १५२७ श्लो०। “गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः। त्सरुमार्गान् यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु” भा० आ० ५२४४ श्लो०।

त्सारुक = त्रि० त्सरौ तद्युद्धे निपुणः आकर्षा० कन् ततः स्वार्थे अण्। असियुद्धनिपुणे। “तथाऽतिपुरुषानन्यान् त्सारुकौ यमजावुभौ” भा० आ० १३२–अ०।

त्र्यब्दस्पृश् = पु० त्र्यब्दं जैववर्षत्रयं स्पृशति स्पृश क्विन् जैववर्षत्रययृक्ते लुप्तसंवत्सरे सौरवर्षभेदे। “एकस्मिन् रविवर्षे सौरवर्षद्वयावसानं चेत्। त्र्यव्दस्पृगेवमेनं र्विलुप्तवत्सरं प्राहुः” यशोधरेजतन्त्रम्। “गुरुवर्षयुग्मर्वत्समा गदिता सा मन् मुप्तसंज्ञिता” ज्योतिर्विदाभरणम्। इति वाचस्पत्ये तकारादिशब्दार्थतङ्कलनम्।

—थ—

= थकारः तवर्गीयद्वितीयवर्ण्णो व्यञ्जनवर्णविशेषः अस्योच्चारणस्थानम् दन्तमूलं तस्वीच्चारणे दन्तमूलेन सह जिह्वाग्रस्यस्पर्शः आभ्यन्तरप्रयत्नः, अतएवास्य स्पर्शवर्णता। बाह्यप्रयत्नास्तु विवारश्वासाघीषामहाप्राणश्च। अस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा

थस्त्रिवासी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः। शिली शिरसिजो दन्ती भद्रकाली शिलोच्चयः। कृष्णो बुद्धिर्विकर्णा च दक्षिणाशाधिपोऽमरः। वरदा भोगदा केशो वामजङ्घाऽलसोऽनलः। नोज्जयिनी पृथुर्गुह्यः शरच्चन्द्रो विदारकः”। मातृकान्यासे अस्य वामजङ्घायां न्यासः। अस्याधिष्ठातृदेवीध्ये यरूपं यथा “नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम्। पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम्। एवं ध्यात्वा थकारन्तु तन्मन्त्र दशधा जपेत्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। तरुणादित्यशङ्काशं थकारं प्रणमाम्यहम्” अस्य स्वरूपं यथा “थकारं चञ्चलापाङ्गि! कुण्डली मोक्षरूपिणी। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। तरुणादित्यशङ्काशं जकारं प्रणमाम्यहम्” कामधेनुतन्त्रम्। काव्यादौ अस्यं प्राक्प्रयोगे युद्धं फलम् “थस्तु युद्धम्” वृ० र० टीको क्तेः।

= पु० थुड–थुर्व वा ड। १ पर्वते २ भयत्रायके त्रि० ३ मङ्गले ४ भये रक्षणे न० मेदि०।

थकार = पु० थ + स्वरूपे कार! थस्वरूपे वर्णे “थकारं चञ्चलापाङ्गिं!” कासधेनुत०।

थर्व्व = चरणे भ्वा० पर० सर्क सेट्। थर्वति अथर्वीत्। तथर्व “अङ्गीरसो नः पितरो नवग्वा अथर्वाणो भृगवः सौम्यामः” निघण्टुधृता श्रुतिः “अथर्वाणोऽचरन्तस्तर्वतिश्चरतिकर्मा तत्प्रतिषेधः” निरु० ११। ८। लोकेऽपि गतिशून्ये (अथर्व इति) प्रसिद्धिः।

थुड = संवृतौ तु० कु० पर० सक० सेट्। थुडति अथुडीत्। तुथोड।

थुत्कार = पु० थुत् इत्यव्यक्तशब्दस्य कारः। निष्ठीवनत्याषानुकरणे शब्दभेदे।

थुथूकृ = थुथु इत्यव्यक्त शब्दात् निष्ठीवनत्यागानुकरणशब्दात् च्वि–कृञोनुप्रयोगः। थुथूकरोति। “थुथूकृत्य वमद्भिरध्वगजनैः” सूक्तिकर्णामृतम्।

थुथूकृत् = स्त्री थुथु इत्यव्यक्तशब्दं करोत्यस्याम् कृ–बा० आधारे क्विप्। होलाकायां पारस्करनिघ०।

थुर्व्व = बधे भ्वा० पर० सक० सेट्। थूर्वति अथूर्वीत्। तुथूर्व।

थैथै = अव्य० थै–थै इत्यव्यक्तशब्दानुकरणशब्दभदे संगीतदामो०।

थो(थु)डन = न० थुड–भावे ल्युट् कुटादित्वेऽपि बा० गुणः। संवरणे। वस्तुतः थुडनमित्येव तत्रार्थे साधु शब्दकल्प दुमे थोडनशब्दकल्पनं प्रामादिकमव।

थौणेय = त्रि० स्थूणायां हितादि ढक् पृषो०। स्वणाहितादौ शब्दार्थचि०।

इति वाचस्पत्ये थकारादिशब्दार्थसङ्कलनम्।

***