त्रिपक्ष = पु० तृतीयः पक्षः संख्याशब्दस्य वृत्तौ पूरणार्थत्वात्। तृतीये पक्षे “षष्ठे मासि त्रिपक्षे वा” श्रा० त०
त्रिपञ्च = त्रि० ब० व०। त्रिगुणिताः पञ्च। पञ्चदशसंख्यान्विते “त्रिपञ्चारे पीठे” कर्पूरस्तवः।
त्रिपञ्चाङ्ग = पु० त्रिपञ्च पञ्चादशाङ्कान्यस्य। समाधिभेदे तदङ्गानि च “यमो हि नियमस्त्यागो मौनं देशः सुकालता। आसनं मूलबन्धश्च देहसाम्यञ्च दृक्स्थितिः। प्राणसंयमनञ्चैव प्रत्याहारश्च धारणा। आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात्” शब्दार्थचि० धृतवाक्योक्तानि।
त्रिपञ्चाशत् = स्त्री त्र्यधिका पञ्चाशत् शा० त०। १ त्र्यधिकपञ्चापत्संख्यायां २ तत्संख्यान्विते च। ततः पूरणे डट्। ३ त्रिपञ्चाश तत्संख्यापूरणे त्रि०। पक्षे तमप्। त्रिपञ्चाशत्तम तस्मिन्नर्थे स्त्रियामुभयतो ङीप्। पक्षे त्रय आदेशे। त्रयःपञ्चाशदादयोऽपि उक्तार्थेषु।
त्रिपटु = पु० काचे पारस्करनिघण्टुः।
त्रिपताक = न० तिस्रः पताका इव यस्मिन्। पताकाकारवलित्रयान्विते १ ललाटे, हारा० मध्यमानामिकासङ्कोचेनावशिष्टाङ्गुलित्रयोन्नतत्वेन २ त्रिपताकाकारिते करे पु०। “त्रिपताकं करं कृत्वा” इत्यादि सा० द० जनान्तिकशब्दनिर्वचने स्थितम्।
त्रिपत्र = पु० त्रीणि त्रीणि पत्राणि प्रतिपत्रं यस्य सप्तच्छदवत् संख्याशब्दस्य वृत्तौ वीप्सार्थत्वम्। १ विल्ववृक्षे। तदीयपत्रेषु ब्रह्मादीनां स्थितिरुक्ता यथा “ऊर्द्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम्। अहं दक्षिणपत्रं च त्रिपत्रदलमित्युत” वृहद्धर्म्म पु० ११ अ०। २ पुत्त्रत्रययुक्ते त्रि०। समा० द्विगुः। ३ पत्रत्रये न०।
त्रिपत्रक = पु० त्रिपत्र + संज्ञायां कन्। १ पलाशवृक्षे राजनि०। त्रयाणां पत्राणां समाहारः संज्ञायां कन्। “तुलसी कुन्दमालूरपत्राण्याहुस्त्रिपत्रकम्” देवीपु० उक्ते २ तुलस्यादिपत्रत्रये न०।
त्रिपथ = न० त्रयाणां पथां समाहारः अच् समा०। “पथः संख्याव्ययादेः” पा० क्लीवता। १ मार्गाणां त्रितये। त्रयः पन्थानो यत्र अच् समा०। २ त्रिमार्गयुक्ते (तेमाथा पथ) इति ख्याते स्थाने। “शून्यागारे श्मशाने वा निर्जने वा चतुष्पथे। विल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा भजेन्निशि। स भवेत् सर्वसिद्धीशः सर्ववेदविदां वरः” गुप्तसाधनतन्त्रम्।
त्रिपथगा = स्त्री त्रयाणां पथां समाहारः अच् समा० तेन गच्छति गम–ड। गङ्गायाम्। त्रिमार्गगादयोऽप्यत्र “गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च। त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता” रामा० बा० ४४ अ० “तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्” ४५ अ० “तन्वी शरत्त्रिपथगा पुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ” अमरुशत० “त्रिशिखां भ्रुकुटिञ्चास्य ददृशुर्दानवा रणे। ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव” हरिवं० २३५ अ०। “त्रीन् पथो हेतुना केन प्ताकयेल्लोकपावनी। कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा। त्रिषु लोकेषु धर्मज्ञ! कर्मभिः कैः समन्विता” इत्युपक्रमे रामप्रश्ने विश्वामित्रस्योत्तरम् रामा० आ० ३६ अ० वाक्यं गङ्गाशब्दे दृश्यम्। णिनि ङीप्। त्रिपथ गामिन्यादयोऽप्यत्र।
त्रिपदी = स्त्री त्रयः पादा अस्याः अन्त्यलोपः समा० ङीपि पद्भावः। १ त्रिपादयुक्तायां स्त्रियां २ गायत्रीच्छन्दसिच तस्या अष्टाक्षरपादत्वेन चतुर्विंशत्यक्षरायास्त्रिपादत्वात् तथात्वम्। यथा “इदं बिष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पांसुरे” ऋ० १। २२। १७। “गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे” शत० ब्रा० १४। ८। १५। १०। ३ हस्तिनां पादबन्धनार्थरज्वुभेदे “नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि” रघुः ४ अर्ध्याधारपात्रभेदे (तेपाइ) तन्त्र सा० ५ गोधापदीलतायां रत्नमा०। स्वार्थेक त्रिपदिकापि तत्रार्थे। भाषाकवितायां ६ छन्दोभेदे तल्लक्षणं यथा “पज्झटिकान्ता यदि यमकान्ता द्वादशपरिणतमात्रा किन्नरगीतिस्तदिति नीवितिः स्यार्द्धसमाक्षरगात्रा। (स्यःपदान्तः)। यैषा सङ्गीतके नित्यं निवीतिः किन्नराख्यिका। सैव स्यात् प्राकृते गाने त्रिपदीति परिश्रुता” इति काव्योदयः। “ढावृचि” पा० टापि भत्वात् पद्भावः। त्रिपद ७ गायत्र्यामृचि ऋग्भेदे स्त्री तच्छ न्दस्के ८ऋङ्मात्रे स्त्री “त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम्” मनुः। “द्विपदा याश्चतुष्पदास्त्रिपदा याश्च षट्पदाः” यजु० २३। ३४। “त्रीणि पदानि पादा अस्याः “इतिपदशब्देन समासः” वेददी०। त्रिविक्रमे ८ परमेश्वरे पु० त्रीणि पदानि विचक्रमे इति श्रुतेस्तथात्वम्। “त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्” विष्णु स०। ९ अरत्नेर्दशमभागरूपपदत्रययुक्ते प्रक्रमे पु० यथा। “पञ्चारत्निः पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य” कात्या० श्रौ० १६। ८। २१ “पञ्चारत्नयो यस्य सः पञ्चभिररत्निभिः पुरुषः दशभिः पदैः पुरुषो द्वादशभिरङ्गुलैः पदम् इत्येवमर्थो न भवति इतः प्रागरत्न्यादीनां लक्षणस्यानुक्तत्वेनासिद्धत्वात् अतश्चैवम् पुरुषस्य समविभक्तस्य यः पञ्चमो भागः सोऽरत्निः तस्य दशमो भागः पदम् पदस्य द्वादशो भागोऽङ्गुलम् त्रिभिः पदैरेकः प्रक्रमः” कर्कः।
त्रिपरिक्रान्त = पु० त्रिषु वृत्त्यर्थं कर्मसु परिक्रान्तः चेष्टमानः। याजनाध्यापनप्रतिग्रहरूपजीविकात्रयनिरते ब्राह्मणे। “त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः। त्रि- कर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः” भा० अनु० १४१ अ०।
त्रिपर्ण = पु० त्रीणि त्रीणि प्रतिपत्रं पर्णान्यस्याः। १ किंशुके। २ वनकार्पास्यां स्त्री राजनि० टाप् ङीप् वा। ३ शालपर्ण्याम्, लतायां ४ पृश्निपर्णीभेदे च स्त्री ङीप् भावप्र०। संज्ञायां कन्। त्रिपर्ण्णिका कन्दालौ “त्रिपर्णी मधुरा शीता श्वासकासविषव्रणान्। विनाशयति सा नित्यं पित्तकोपप्रशान्तिकृत्” राजनि०। समा० द्विगुः। ५ पर्णत्रये स्त्री ङीप्।
त्रिपाठ = पु० ६ त०। त्रयाणा पदक्रमसंहितानां पाठे।
त्रिपाठिन् = पु० त्रीन् पदक्रमसंहितारूपग्रन्थान् पठति पठ–णिनि। वेदानां पदक्रमसंहितारूपग्रन्थाध्यायिनि।
त्रिपाण = न० त्रिःकृत्वः पानं उदकपानं यस्य वृत्तौ सुचो लोपः संज्ञात्वात् णत्वम्। त्रिःकृत्वःपायिते १ सूत्रभेदे २ वल्कले च “तार्प्यं परिधापयति” कात्या० श्रौ० १५। ४। ७। “तार्प्यशब्दं स्वयमेव व्याकरोति “क्षौमम्” ८। क्षुमा अतसी तस्य विकारः। “त्रिपाणम्” ९। त्रिःकृत्वः पायितं वा सकृदिति विकल्पः। वयनकाले उदकेन त्रिस्तर्पयित्वा यदूयते सूत्रम् तत्तृप्यम् तस्य विकारस्तार्प्यम् त्रिः पायितैस्तन्तुभिर्व्यूतमित्यर्थः। केचित्त्रपाणं वल्कलभित्याहुः” कर्कः।
त्रिपाद = पु० त्रयः षादा अस्य संख्यापूर्वत्वेऽपि समासान्त् विधेरनित्यत्वान्नान्त्यलोपः। १ परमेश्वरे “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” छा० उ०। भाष्यकारस्तु “त्रिपात् अस्यामृतः दिवीति” छित्त्वा त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपादिति हलन्तमाह। “नमों द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे” भाग० ८। १६। २६। भत्वात् पादस्य पद्भावः। २ ज्वरे च “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नव लोचनः” हरिवं० १८१ अ०
त्रिपाद् = पु० त्रयः पादा अस्य संख्यापूर्वत्वादन्त्यलोपः। १ त्रिविक्रमे २ विष्णौ तस्य तथात्वकथा यथा “भूयश्चैवाव्रवीदेनं वामनं वटुरूपिणम्। स्वल्पैः स्वल्पमते! किन्ते पादैस्त्रिभिरनुत्तमम्। कृत्स्नां ददामि ते विप्र! पृथिवीं सागरैर्वृताम्” वामन उवाच “न पृथ्वीं कामये कृत्स्नां सन्तुष्टोऽस्मि पदैस्त्रिभिः। एष एव रुचिष्यो मे वरो दानवसत्तम!” वैशम्पायन उवाच “तथाऽस्त्विति बलिः प्रोच्य स्पर्शयामास दानवः। पदानि त्रीणि देवाय विष्णवेऽमिततेजसे। तोये तु पतिते हस्ते वामनोऽभूदवामनः। सर्वदेवमयं रूपं दर्शयामास वै प्रभुः। भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी। पादाङ्गल्यः पिशांचाश्च हस्ताङ्गुल्यश्च गुह्यकाः” हरिवं० २६२ अ० “तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे। नभः प्रक्रममाणस्य पादमूले व्यवस्थितौ। विष्णोरमितवीर्य्यस्य वदन्त्येवं द्विजातयः” २६३ अ० “क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः। पदं द्वितीयं क्रमतस्त्रिपिष्टपं न वै तृतीयाय तदीयमण्वपि। उरुक्रमस्याङ्घ्रिरुपर्य्युपर्य्यथो महर्जनाभ्यां तपसः परङ्गतः” भाग० ८। २०। २६ “बलिरुवच “यद्युत्तमश्लोक! भवन् ममेरितं वचो व्यलीकं सुरवर्य्य! मन्यते। करोम्यृतं तन्न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम्” ८। २२। ३। “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पांसुरे” ऋ० १। २२। १७। ३ परमेश्वरे च त्रिपादशब्दे छा० उ० वाक्यं दृश्यम्। ४ त्रेतायुगधर्मरूपे वृषे “राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव” रघु०।
त्रिपादिका = स्त्री त्रयः पदाः मूलान्यस्याः कप् टाप्। हंसपदीलतायां राजनि०।
त्रिपिण्ड = न० त्रीणि पिण्डानि देयान्यत्र। पित्रादित्रयोद्देशेन कर्त्तव्ये १ पार्वणश्राद्धे “ततः प्रभृति संक्रान्तावुपरागादिपर्वसु। त्रिपिण्डंमाचरेत् श्राद्धमेकोद्दिष्टं मृताहनि” श्रा० त० मत्स्यपु०। समाहारद्विगुः ङीप्। २ पित्राद्युद्देशेन पिण्डत्रये स्त्री।
त्रिपिब = पु० त्रिभिः कर्ण्णाभ्यां जिह्वया च पिबति स्पृशति जलं पा–क। वार्धीनसे लम्बकर्णे छागभेदे यथाह निगमे “त्रिपिबन्त्विन्द्रियक्षीणं श्वेत वृद्धमजापतिम्। वार्ध्रीनसन्तु तं प्राहुर्याज्ञिकाः पितृकर्भणि”। “नद्यादौपयः पिबतो यस्य त्रीणि जलं स्पृशन्ति कर्णौ जिह्वा च त्रिभिः पिबतीति त्रिपिबः” कुल्लू०।
त्रिपि(वि)ष्टप = न० मर्त्यपातालापेक्षया तृतीयं पि(वि)ष्टपं भुवनम् वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणार्थता। १ स्वर्गे अमरः “तत् त्रिपिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत” भा० आ० २०६ अ०। २ आकाशे शब्दर०।
त्रिपिष्टप(व)सद् = पु० त्रिपिष्टपे(वे) सीदति सद–क्विप्। देवे हला०।
त्रिपु = पु० स्तेने निघण्ठुः। तृपुरित्यत्र पाठान्तरम्।
त्रिपुट = पु० त्रीणि पुटान्यस्य। (खेसारीं) १ कलायभेदे २ शरे, ३ तालकयन्त्रे, ४ हस्तभेदे शब्दर०। ५ तीरे ६ गोक्षुरवृक्षे रत्नमा०। ७ मल्लिकायां ८ सूक्ष्मैलायां ९ त्रिवृति (तेओडि) च स्त्री मेदि०। १० कर्णस्फोटलतायां ११ स्थूलैलायां १२ रक्तत्रिवृति च स्त्री राजनि०। १३ देवीभेदे च स्त्री “ऋषिः सम्मोहनश्छन्दो गायत्री देवता पुनः। त्रिपुटाख्या द्विरुक्तैस्तैर्वीजैरङ्कानि षट् क्रमात्” तन्त्रसा० तस्याध्यानादिकं तत्रैव दृश्यम् १४ त्रिवृति एरण्डे वा ङीप्। त्रयाणां पुटानां समाहारः। १५ पुटत्रये स्त्री ङीप्। त्रीणि पुटानि यस्य कप्। १६ ब्रणाकारभेदे “तत्रायञ्चतुरस्रो वृत्तस्त्रिपुटक इति सर्वब्रणसमासः” सुश्रुतः। त्रिपुट + स्वार्थे क संज्ञायां कन् वा। त्रिवृति वैदले “मुद्गवनमुद्गफलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः” सुश्रु०।
त्रिपुटिन् = पु० त्रीणि पुटानि सन्त्यस्य इनि। एरण्डवृक्षे शब्दमा०
त्रिपुटी = स्त्री त्रीणि पुटानि सन्त्यस्याः अच् गौरा० ङीष्। त्रिवृति भरतः।
त्रिपुटीफल = पु० त्रिपुटी पुटत्रयं फलेऽस्य। एरण्डवृक्षे हारा०
त्रिपुण्ड्र = न० त्रयाणां पुण्ड्राणां इक्षुवदाकाराणां समाहारः। १ललाटस्थे तिर्य्यग् रेखात्रयात्मके, “वक्राः ललाटगास्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम्” इत्युक्ते तिलकभेदे “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया। पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः। तस्मान्मृदापि कर्तव्यं ललाटेऽपि त्रिपुण्ड्रकम्” ति० त० ब्रह्माण्डपुराणम्। “ऊर्द्धपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा। तिलकं वै द्विजः कुर्य्यात् चन्दनेन यदृच्छया। ऊर्द्ध्वपुण्डं द्विजः कुर्य्यात् क्षत्रियश्च त्रिपुण्ड्रकम्। अर्द्धचन्द्रञ्च वैश्यश्च वर्तुल शूद्रयोनिजः” आ० त०। “शिवागमे द क्षितैस्तु धार्य्यं तिर्य्यक् त्रिपुण्ड्रकम्। विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्वपुण्ड्रं विधारयेत्” इति नागोजीभट्टधृतसूतसंहिता “मृत्स्नया भस्मना वापि त्रिपुण्डं विन्दुसंयुतम्। ललाटे तिलकं कुर्याद्गायात्र्याबद्धकुन्तलः” इति महानिर्वाणतन्त्रम् “येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम्। श्मशानसदृशं तत् स्यान्न प्रेक्ष्यं पुण्यकृज्जनैरिति” देवीभाग०। अपि च तत्रैव नारदं प्रति नारायणवाक्यम् “त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते। धारयन्ति च ये भक्त्या धारयन्ति तमेव ते। तिर्य्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम्। तथापि मानवा मूर्खा न कुर्वन्ति त्रिण्ड्रकमिति”।
त्रिपुर् = स्त्री त्रिगुणिताः पुरः समासान्तविधेरनित्यत्वात् आर्षे न अच् समा०। पुराणां त्रये त्रिपुरशब्दे च पुरत्रयं दृश्यम्। “ददाह तेन दर्भेद्या हरोऽथ त्रिपुरो नृप!” भाग० ७। १०। ५४।
त्रिपुर = न० त्रयाणां पुराणां समाहारः। असुराणां १ पुरत्रये। तत्पुरकथा भा० क० प० ३३ अ०। “ततस्त सहिता राजन्! संप्रधार्य्यासकृद्बहु। सर्वलोकेश्वरं वाक्यं प्रणम्येदमथाब्रुवन्। अस्माकं त्वं वरं देव! प्रयच्छेमं पितामह!। वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्। विचरिष्याम लीकेऽस्मि~स्त्वत्प्रसादपुरस्कृताः। ततो वर्षसहस्रे तु समेष्यामः परस्परम्। एकीभावं गमिष्यन्ति पुराण्येतानि चानघ। समागतानि चैकत्वं यो हन्याद्भगवंस्तदा। एकेषुणा देववरः स नो मृत्युर्भविष्यति। एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्। ते तु लब्धवराः प्रीताः संप्रधार्य्य परस्परम्। पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्म्महासुरम्। विश्वकर्म्माणमजरं दैत्यदानवपूजितम्। ततो मयः स्वतपसा चक्रे धीमान् पुराणि च। त्रोणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा। काञ्चनं दिबि तत्रासीदन्तरीक्षे च राजतम्। आयसञ्चाभवद्भौमं चक्रस्थं पृथिवीपते!। एकैकं योजनशतं विस्तारायामसस्मितम्। गृहाट्टालकसंयुक्तं वृहत्प्राकारतोरणम्। गृहप्रवरसंबाधमसम्बाधमहापथम्। प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम्। पुरेषु चाभवन् राजन्! राजानो वै पृथक् पुथक्। काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः। राजतं कमलाक्षस्य विद्युन्मालिन आयसम्। त्रयस्ते दैत्यराजानस्त्री~ल्लो~कानाशु तेजसा। आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः। तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च। कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः। मांसादाश्च सुदृप्ताश्च सुरैर्विनिकृताः पुरा। महदैश्वर्य्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः। सर्वेषाञ्च पुनस्तेषां सर्वयोगवहो मयः। तमाश्रित्य हि ते सर्वे वर्त्तयन्त्यकुतोभयाः। यो हि य मनसा कामं दध्यात् त्रिपुरसंश्रयः। तस्मै कामं मयस्तं तं विदधे मायया तदा। तारकाक्षसुतो वीरो हरिर्नाम महाबलः। तपस्तेपे परमकं येनातुष्यत् पितामहः। सन्तुष्टमवृणोद्देवं वापी भवतु नः पुरे। शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः। स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः। ससृजे तत्र वापीं तां मृतसञ्जीवनी प्रभो!। येन रूपेण दैत्यास्तु येन योगेन चैव ह। मृतास्तस्यां परिक्षिप्तास्तादृशेनैव जज्ञिरे। तां प्राप्य ते पुनस्तांस्तु सर्वान् लोकान् बबाधिरे। महता तपसा सिद्धाः सुराणां भयव र्द्धनाः। न तेषामभवद्राजन् क्षयो युद्धे कथञ्चन”। “संगीयमानस्त्रिपुरावदानः” कुमा०। “गङ्गेव त्रिपुरद्विषः” रघुः “त्रिपुरदाहमुमापतिसेविनः” किरा०। त्रीणि पुराणि येषाम्। २ तारकाक्षसुतहर्म्यादिषु असुरभेदे पु० ब० प०। त्रीन् धर्म्मार्थकामान् पिपर्त्ति पॄ–क। ३ देवीभेदे स्त्री। “वैष्णव्याः मन्त्रमुख्येषु त्रिपुरायास्ततः शृणु” तन्त्रसारः। “शृणु त्वं त्रिपुरामूर्त्तेः कामाख्यायास्तु पूजनम्” का लकापु० ६२ अ०। शतदिनगर्य्यां त्रिपुराख्यदेशभेदे स्त्री ङीप् हेमच०।
त्रिपुरघ्न = पु० त्रिपुरं हन्ति हन–टक्। १ महादेवे तस्य त्रिपुरहननकथा भा० क० ३४ अ०। “मूर्त्तिं सर्वां समाधाय त्रैलोकस्य ततस्ततः। रथं ते कल्पयिष्यामो देवेश्वर! महौजसम्। तथैव बुद्ध्या विहितं विश्वकर्म्मकृतं महत्। ततो विवुधशार्दूलास्तं रथं समकल्पयन्। विष्णु सोमं हुताशञ्च तस्येषुं समकल्पयन्। शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशाम्पते!। कुद्मलञ्चाभवद्विष्णुस्तस्मिन्निषुवरे तदा। बन्धुरं पृथिवीं देवीं विशालपुरमालिनीम्। सपर्वतवनद्वीपां चकुर्भूतधरां तदा। मन्दरः पर्वतश्चाक्षं जङ्घा तस्य महानदी। दिशश्च प्रदिशश्चैव परिवारो रथस्य ह। ईषा नक्षत्रवशश्च युगः कृतयुगोऽभवत्। कूवरश्च रथस्थासीद्वासुकिर्भुजगोत्तमः। अपस्करमधिष्ठानं हिमवान् बिन्ध्यपर्वतः। उढयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः। समुद्रमक्षमसृजन् दानबालयमुत्तमम्। सप्तर्षिमण्डलञ्चैव रथस्यासीत् परिष्करः। गङ्गा सरस्वती सिन्धुर्धुरमाकाशमेव च। उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः। अहोरात्राः कलाश्चैव काष्ठाश्च ऋतवस्तथा। अनुकर्षं ग्रहा दीप्ता बरूथञ्चापि तारकाः। धर्म्मार्थकत्मसंयुक्तं त्रिवेणुं दारुवन्धनम्। ओषधीर्वीं रुधस्तत्र नानापुष्पफलोपगाः। सूर्य्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे। पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे। दश नागपतीनीषां धृतराष्ट्रमुखान् दृढान् द्यां युगं युगचर्म्माणि संवर्त्तैकबलाहकान्। सन्ध्यां धृतिञ्च मेधाञ्च स्थितिं सन्नतिमेव च। ग्रहनक्षत्रताराभिश्चर्म्म चित्रं नभस्तलम्। सुराम्बुप्रेतवित्तानां पतील्लो~केश्वरान् हयान्। कालपृष्ठोऽथ नहुषः कर्कोटकधनञ्जयौ। इतरे चाभवन्नागा हयानां बालबन्धनाः। दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम्। वषट्कारः प्रतोदोऽभूत् गायत्री शीर्षबन्धनी। सिनीबालीमनुमतिं कुहूं राकाञ्च सुव्रताम्। योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्टकान्। कर्म्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः। अधिष्ठानं मनश्चासीत् परिरथ्या सरस्वती। नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः। विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन्। यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः। संवत्सरो धनुस्तद्वै सावित्री ज्या महास्वना। दिवञ्च वर्म्म विहितं महार्हरत्नभूषितम्। अनेद्यं विरजस्कं वै कालचक्रबहिष्कृतम्। ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः। पताकाश्चाभवन्मेघास्तडिद्भिः समलङ्कृताः। रेजुरध्वर्य्युमध्यस्था ज्वलन्त इव पावकाः। कॢप्तन्तु तं रथं दृष्ट्वा विस्मिता देवताभबन्। सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष!। युक्तं निवेदयामासुर्देंवास्तस्मै महात्मने। एवं तस्मिन् महाराज! कल्पिते रथसत्तमे। देवैर्म्मनुजशार्दूल! द्विषतामभिमर्दने। स्वान्यायुधानि दिव्यानि न्यदधात् शङ्करो रथे। ध्वजयष्टिं वियत् कृत्वा स्थापयामास गोवृषम्। ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः। परिष्कन्दा रथास्यासन् सर्वतोदिशमुद्यताः। अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः। ऋग्वेदः सामवेदश्च पुराणञ्च पुरःसरा। इतिहासधनुर्वेदौ पृष्ठरक्षौ बभूवतुः। दिव्या वाचश्च दिव्याश्च परिपार्श्वचराः स्थिताः। स्तोत्रादयश्च राजेन्द्र! वषट्कारस्तथैव च। ओ~कारश्च मुखे राजन्निति शोभाकरोऽभवत्। विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः। छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयारणे। कालो हि भगवान् रुद्रस्तस्य संवत्सरो धनुः। तस्माद्रौद्री कालरात्रिर्ज्यां कृत्वा धनुषोऽजराम्। इषुश्चास्याभवद्विष्णुर्ज्वलनः सोम एव च। अग्नीषोमं जगत् कृत्स्न वैष्णवञ्चोच्यते जगत्। विष्णुश्चात्मा भगवतो भवस्यामिततेजसः। तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते। तस्मिन् शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः। भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम्। स नीललोहितो धूम्रः कृत्तिवासा भयङ्करः। आदित्यायुतसंङ्काशस्तेका- ज्वालादृतोऽज्वलत्। दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः। नित्यं त्राता च हन्ता च धर्माधर्माश्रितान्नरान्। प्रमाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः। विभाति भगवान् स्थाणुस्तैरेवात्मगुणैर्युतः तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्। जङ्गमाजङ्गमं राजन्! शुशुभेऽद्भुतदर्शनम्। दृष्ट्वा तन्तु रथं युक्तं कवची स शरासनी। वाणमाटाय तं दिव्यं सोमविष्ण्वग्निसम्भवम्। तस्य राजंस्तदा देवाः कल्पयाञ्चक्रिरे प्रभोः। पुण्यगन्धवहं राजन्! श्वसनं देवसत्तमम्। तमास्थाय महादेवस्त्रासयन् दैवतान्यपि। आरुरोह तदा यत्तः कम्पयन्निव मेदिनीम्। तमारुरुक्षुं देवेशं तुष्टुवुः परमर्षयः। गन्धर्वा देवसंघाश्च तथैवाप्सरसाङ्गणाः। ब्रह्मर्षिभिःस्तूयमानो वन्द्यमानश्च वन्दिभिः। तथैवाप्सरसांवृन्दैर्नृत्यद्भिर्नृत्यकोविदैः। स शोभमानो वरदः खङ्गी वाणी शरासनी। हसन्निवाब्रवीद्देवान् सारथिः को भविष्यति। तमब्रुवन् देवगणा यं भवान् संनियोक्ष्यते। स भविष्यति देवेश! सारथिस्ते न संशयः। तानब्रवीत् पुनर्देवो मत्तः श्रेष्ठतरो हि यः। तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य मा चिरम्। एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना। गत्वा पितामहं देवाः प्रसाद्येदं वचोऽब्रुवन्। यथा तत् कथिता देव! त्रिदशारिविनिग्रहे। तथा च कृतमस्माभिः प्रसन्नो नो वृषध्वजः। रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः। सारथिञ्च न जानीमः कः स्यात्तस्मिन् रथोचमे। तस्माद्विधीयतां कश्चित् सारथिर्देवसत्तम!। सफलं तां गिरं देव। कर्त्तुमर्हमि। नो विभो! एवमस्मासु हि पुरा भगवन्नुक्तवानसि। हितं कर्तास्मि भवतामिति तत् कर्त्तुमर्हसि। स देवयुक्तो रथसत्तमो नो दुराधरो द्रावणः शात्रवाणाम्। पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन् दानवानुद्यतोऽसौ। तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला च रथो महात्मनः। नक्षत्रवंशानुगतो वरूंथी हरो हि योद्धा सारथिर्नाभिलक्ष्यः। तत्र सारथिरेष्टव्यः सर्वै रैतैर्विशेषवान्। तत्प्रतिष्ठो रथो देव! हरो योद्धा तथैव च। कवचानि सशस्त्राणि कार्मुकञ्च पितामह!। त्वामते मारथिं तत्र नान्यं पश्यामहे वयम्। त्वं हि सर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो!। स रथं तूर्णमारुह्य संयच्छ परमान् हयान्। जयाय त्रिदशेशानां बधाय त्रिदशद्विषाम्। इति ते शिरसा नत्वा त्रिलोकेशं पितामहम्। देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम्”। पितामह उवाच। “नात्र किञ्चिन्मृषा वाक्यं यदुक्तं त्रिदिवौकसः। संयच्छामि हयानेष युध्यतो वै कपर्दिनः”। इत्युपक्रमे “तान् सोऽसुरगणान् दग्ध्वा प्राक्षिपत् पश्चिमार्णवे। एवन्तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः। महेश्वरेणक्रुद्धेन त्रैलोक्यस्य हितैषिणा” भा० क० ३४ अ०। भा० द्रो० २०० अ० किञ्चिदन्यथोक्तं यथा
“गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः। पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः। अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः। चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक्। अणीं कृत्वैल पत्त्रञ्च पुष्पदन्तञ्च त्र्यम्बकः। युगं कृत्वा तु मलयमवनाहञ्च तक्षकम्। योक्त्राङ्गानि च सत्त्वानि कृत्वा शर्वः प्रतापवान्। वेदान् कृत्वाथं चतुरश्चतुरोऽश्वान्महेश्वरः। उपवेदान् स्वलीनांश्च कृत्वा लोकत्रयेश्वरः। गायत्रीं प्रग्रहं कृत्वा सावित्रीञ्च महेश्वरः। कृत्वोङ्कारं प्रतोदञ्च व्रह्माणञ्चेव सारथिम्। गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा च वासुकिम्। विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च। वायुं कृत्वाथ वाजाभ्यां पुङ्खे वैवस्वतं यमम्। विद्युत् कृत्वाथ निर्य्याणं मेरुं कृत्वाथ वै ध्वजम्। आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः। त्रिपुरस्य बधार्थाय स्थाणुः प्रहरतां वरः। असुराणामन्तककरः श्रीमानतुलविक्रमः। स्तूयमानः सुरैः पार्थ! ऋषिभिश्च तषोधनैः। स्थानं महेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः। अतिष्ठत् स्याणुभूतः स संहस्रं परि त्सरान्। यदा त्रीणि समेतानि अन्तरीक्षे पुराणि च। त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः। पुर णि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्। शरं कालाग्मिसंयुक्तं विष्णुसोमसमायुतम्। पुराणि दग्धवन्तं तं दे याता पवीक्षितुम्”। त्रिपुरदहनादयोऽप्यत्र।
त्रिपुरभैरवी = स्त्री त्रिपुरा भैरवी कर्म्म०। त्रिपुराख्यदेवीभेदे “आद्यं त्रिषुरभैरव्याः वीजमाद्यं प्रकीर्तितम्” इति “चिन्तयेद्वरदां देवीमेवं त्रिपुरभैरवीम्” इति च तन्त्रसा०
त्रिपुरमल्लिका = स्त्री त्रीणि पुराणीव पूर्य्याणि यस्याः कर्भ०। त्रिपुरमालिकापुष्पवृक्षभेदे त्रिका०।
त्रिपुरान्तक = पु० त्रिपुरस्यान्तं करोति अन्त–णिच् ण्वुल्। शिवे अमरः।
त्रिपुरारि = पु० ६ त०। शिवे “त्रिपुरारिशिरश्चारि” गङ्गास्त्रवः।
त्रिपुरुष = न० त्रयाणां पुरुषाणां समाहारः। १ पित्रादिपुरुषत्रये। “क्रमात्त्रिपुरुष्वगता” स्मृतिः। त्रयः पुरुषाः पित्रादयो भोक्तारो यस्य। २ भोगभेदे पु०। त्रिपूरुषादयोऽप्यत्र। व्यासः “प्रपितामहेन यद्भुक्तं तत् पुत्रेण विना च तम्। तौ विना यस्य भोगः स्यात् स विज्ञेयः त्रिपूरुषः। पिता पितामहो यस्य जीवेच्च प्रपितामहः। त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः” व्यव० त०। त्रयः पुरुषाः परिमाणमस्याः ठन् तस्य लुक्। ३ पुरुषत्रयपरिमिते त्रि० “अथ त्रिपुरुषां रज्जु मिमीते” शत०ब्रा० १०। २। १२। वा ङीप्। त्रिपुरुषीत्यप्यत्र।
त्रिपुषा = स्त्री त्रीन् वातादिदोषान् पुष्णाति पुष–क। कृष्णत्रिवृति (कालतेओडि) शब्दच०।
त्रिपुष्कर = न० त्रयाणां पुष्कराणां समाहारः। १ पुष्करत्रये ब्रह्मकृततीर्थभेदे २ ज्येष्ठमध्यमकनिष्ठभेदेषु त्रिषु पुष्कराभिधह्रदेषु। ३ नक्षत्रतिथिवारयोगभेदे पु०। “वाराः क्रूरास्तिथिर्भद्रा बक्षत्रं भग्नपादकम्। जातेऽत्र जारजो योगो मरणेऽत्र त्रिपुष्करः” ज्यो० त०। स्वार्थे न अण्। त्रैपुष्करोऽप्यत्र पु० “भद्रातिथोरविजभूतनयार्कवारे द्वीशार्यमाजचरणादितिवह्निवैश्वे। त्रैबुष्करो भवति मृत्युविनाशवृद्धौ त्रैगुण्यदो द्विगुणकृद्धसुतर्क्षचान्द्रे” मु० चि०।
“अथ त्रिपुष्करयोगं सफलं वसन्ततिलकयाह भद्रेति भद्रासंज्ञिका तिथिः द्वितीया सप्तमी द्वादशी तथा शनिभौमसूर्य्यवारेषु तथाद्वीशं विशाखा अर्घमोत्तराफाल्गुनी अजचरणः पूर्वाभाद्रपदा अदितिः पुनर्वसुः वह्निः कृत्तिका विश्वमुत्तराषाढा एषु षट्सु नक्षत्रेषु उक्ततिथिवारनक्षत्ररूपे विशिष्टयोगे सति त्रिपुष्कर एव त्रैपुष्करः प्रज्ञादिभ्यश्चेति स्वार्थेऽण्। त्रिपुष्करयोगो भवतीत्यर्थः कीदृशः। मृत्युविनाशवृद्धौत्रैगुण्यदः तद्दिने यदि कश्चिन् म्रियेत तदा तदीयास्तत् सहितास्त्रयो म्रियेरन् यदि किञ्चिद्वस्तु विनष्टं तदा तस्य वस्तुत्रयनाशः तथा किञ्चिद्वस्तु लब्धं तदा त्रिगुणतद्वस्तुलामः इत्यर्थः उक्तञ्च वसिष्ठेन। “रविरविज भौमवारे भद्रायां विषमपादमृक्षञ्चेत्। त्रैपुष्कराख्ययोगः त्रिगुणफ्लो यमलभैर्द्विगुणः”। नारदेनापि। “अर्कार्किभौमवारे चेद्भद्रायां विषमाङ्घ्रिभम्। त्रिपुष्करः त्रिगुणदोद्विगुणो यमलाङ्घ्रिभे”। अत्र यस्मिन्नक्षत्रे प्रथमपादान्ते तृतीयपादान्ते वा राशिसमाप्तिस्तद्विषमपादमृक्षमुच्यते तदेव स्पष्टं द्वीशार्यमेत्यादिनोपनिबद्धम् अथ वासवोधनिष्ठा तक्षा चित्रा चान्द्रं मृगः एतानि भानि भद्रास्तिथयः रविजभूतनयार्कवाराश्च अत्रापि विशिष्टयोगे सति द्विपुष्करनामायोगो भवति तत्फलं मृत्युविनाशवृद्धौ द्वैगुण्यकृत् मृते नष्टे वृद्धौ द्विगुणतां करोतीत्यर्थः “द्विगुणो यमलाङ्घ्रिभे” इत्युक्तेः यन्नक्षत्रे द्वितीयचरणान्ते राशिसमाप्तिस्तद्यमलाङ्घ्रिभं तच्च मृगचित्राधनिष्ठारूपमेव। अथ दैवात्त्रिपुष्करादिके तिथिवारनक्षत्रात्मके विशिष्टयोगे सति कस्यचिन्मरणसम्भवस्तदा तद्दोषशान्त्यर्थं दानं विधेयं यथाह वसिष्ठं “त्रितयं गवां हि दद्याद्दोषस्यापनुत्तये विद्वान्। द्वितयं द्विपुष्करेऽपि च तिलपिष्टैर्विप्रमुख्येभ्यः”। द्वितयं गवामिति शेषः अत्र तिथिवाराभावे केवलं विषसाङ्घ्रिभे यमलाङ्घ्रिभे वा मरणसम्भवे दोषो नास्तीत्यर्थः। अमुमर्थं स्पष्टमाह नारदः “प्रदद्याद्दोषनाशाय गोत्रयं मूल्यमेव वा। द्विपुष्करे द्वय दद्यान्न दोषस्त्वृक्षमात्रतः” इति। अत्र त्रिपुष्करयोगे क्वचिद्वृहस्पतिवारोऽप्युक्तः यथाह कश्यपः “भद्रा तिथिः शनीज्यारवारे चेद्विषमाङ्घ्रिभम्। त्रिपुष्करं त्रिगुणदं द्विगुणं द्व्यङ्घ्रिभे मृताविति” इदमेव दृष्ट्वा श्रीपतिनाप्युक्तम्। “विषमचरणं धिष्ण्यं भद्रा तिथिर्यदि जायते सुरगुरुशनिक्ष्मापुत्राणां कथञ्चन वासरे। मुनिभिरुदितः सोऽयं योगः त्रिपुष्करसंज्ञितः त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा”। अस्य पूर्बोक्तवाक्यस्य चैकवाक्यतां देवाः कर्तुभर्हन्ति। कश्यपवाक्ये मृताविति पदोपादानान्मरण एवायं विचारो न तु नष्टे घृद्धौ च यदुक्तं ब्रह्मपुराणेऽपि “धनिष्ठापञ्चके जीवो मृतो यदि कथञ्चन। त्रिपुष्करे याम्यभे च कुलजान्मारयेत् ध्रुवम्। तदनिष्टविनाशार्थं विधानं समुदीरयेदिति” पी० धा०।
त्रिपुष्ट = पु० त्रयः धर्म्मार्थकामाः पुष्टा अस्य। १ प्राजापत्ये राजभेदे हेमच०।
त्रिपृष्ठ = न० त्रयाणां लोकानां पृष्ठः समाहारः। त्रिपृष्ठस्थिते सत्यलोके हेमच०।
त्रिपौरुष = त्रि० त्रीन् पित्रादीन् पुरुषान् व्याप्नोति अण् उत्तरपदवृद्धिः। पित्रादिक्रमेण पुरुषत्रयव्यापके भोगादौ। त्रिपुरुषशब्दे दृश्यम्। स्त्रियां ङीप् यस्य वेदश्च वेदी च उत्सन्ना त्रिपौरुषी स वै दुर्ब्राह्मणः” कात्या० श्रौ० ८। २। १६ सूत्रे कर्कः।
त्रिप्रश्न = पु० त्रयाणां दिग्देशकालानां प्रश्नः। १ दिग्देशकालानां प्रश्ने २ तन्मूलके दिगादिनिरूपणे च। तदधिकारेण सि० शि० उक्तं यथा “जगुर्विदोऽदः किल कालतन्त्रं दिग्देशकालावगमोऽत्र यस्मिन्। त्रिप्रश्ननाम्नि प्रचुरोक्तिधाम्नि”। सू० सि० “शिलातलेऽम्बुसंशुद्धे” इत्यादिनोक्त्वा “इति त्रिप्रश्नाधिकारः” इत्युक्तम् “दिग्देशकालानां प्रतिपादनमिदं परिपूर्त्तिमाप्तमित्यर्थः। दिशां साधनं शिलातल इत्यादि नियतं, तत्सम्बन्धेन समकोणयाम्योत्तरशङ्क्नां साधनान्यपि दिगन्तर्गतान्यनियतानि। पलमालम्बाक्षादिसाधनं देशनिरूपणं नियतम्। अग्राचरादिसाधननियतम्। कालसाधनं तद्वच्छायादिसाधनं च कालनिरूपणमिति विवेकः” रङ्गना०।
त्रिप्रस्रुत = पु० त्रिषु स्थानेषु प्रस्रुतः मेढ्रकपोलनेत्रेषुत्रिषु स्थानेषु क्षरितमदे मत्तगजे “जजानां तु प्रभिन्नानां त्रिधा ग्रस्रवतां मदम्” भा० आ० २२१ अ०। “त्रिप्रस्रुतमदः शूष्मी षष्टिवर्षोमतङ्गराट्” १५१ अ०। “करात् कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः”। पालकाव्ये तु मदप्रस्रावस्य सप्तस्थानत्वोक्तेरिह प्राधान्यात् त्रिस्थानत्वं बोध्यम्।
त्रिप्लक्ष = पु० देशभेदे तद्देशविवृतिः। “अवभृथमभ्यवयन्ति यमुनां त्रिप्लक्षावहरणं प्रति” कात्या० श्रौ० २४। ६। ३९। “यथा त्रिप्लक्षावहरणस्यार्जव्येन यमुनामवभृथमभ्युपैति तत्र च यमुनां प्राप्य त्रिप्लक्षहरणे देशे त्रिप्लक्षं नाम जनपदं प्राप्य तत्रैव यमुनायामवभृथमभ्युपैति तत्रैव हि देशे दृषद्वतो मनुष्येभ्यस्तिरोभवति। बहूदकापि सती तत्रैवान्तर्हिता भवतीत्यर्थः” कर्कः।
त्रिफला = स्त्री त्रयाणां फलानां समाहारः अजा० टाप्। “पथ्या विभीतधात्रीणां फलैः स्यात् त्रिफला समा” इत्युक्ते हरीतक्यादित्रये। तद्गुणा भावप्र० उक्ता यथा “फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता। त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा। चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी”।
त्रिफलाघृत = न० त्रिफलानां रसेन युक्तं घृतम् शा० त०। चक्रदत्तोक्ते घृतभेदे तच्च नानाविधं तत्रैवोक्तं यथा
“त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे। नागं सप्तनिषिक्तं करोति गरुडोपमञ्चक्षुः” अन्यदपि “त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम्। तिमिराण्यचिराद्धन्ति पीतमेतन्निशामुखे”।
त्रिफलादिलौह = न० भैषज्यरत्नावल्युक्ते लौहभेदे यथा “त्रिफला मुस्तकं व्योषं विडङ्गं पुष्करं वचा। चित्रकं मधुकञ्चैव पलांशं श्लक्ष्णचूर्णितम्। अयश्चूर्णपलान्यष्टौ गुगगुलोस्तावदेव हि। आलोड्य मधुनोपेतं पलद्वादशकेन च। प्रातर्विलिह्य भुञ्जानो जीर्णे तस्मिन् जयेद्रुजः। दुःसाध्यमामवातञ्च पाण्डुरोगं हलीमकम्। जीर्णान्न सम्भवं शूलं श्वयथुं विषमज्वरम्”
त्रिफलाद्यघृत = न० चक्रदत्तोक्ते घृतभेदे तदपि लघुमहद्भेदेन द्विविधं तत्र लघु यथा
“फलत्रिकं भीरुकषायसिद्धं कल्केन यष्टीमधुकस्य युक्तम्। सर्पिः समं क्षौद्रचतुर्थभागं हन्यात् त्रिदोषं तिमिरं प्रवृद्धम्” महत् यथा
“त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च। वृषभस्य रसप्रस्थं शतावर्य्याश्च तत्समम्। अजाक्षीरं गुडुच्याश्च आमलक्यारसन्तथा। प्रस्थं प्रस्थं समाहृत्य सर्वेरेभिर्घृतं पचेत्। कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्पलम्। मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका। तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत्। ऊर्द्ध्वपानमधःपानं मध्यपानञ्च शस्यते। यावन्तो नेत्ररोगास्तान् पानादेवापकर्षति। सरक्ते रक्तदुष्टे च रक्ते चातिस्रुतेऽपि च। नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे। अभिष्यन्देऽधिमन्थे च पक्षकोपे सुदारुणे। नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च। अदृष्टिं मन्ददृष्टिञ्च कफवातप्रदूषिताम्। स्रवतो वातपित्ताभ्यां सकण्ड्वासन्नदूरदृक्। गृध्नदृष्टिकरं सद्यो बलवर्णाग्निवर्द्धनम्। सर्वनेत्रामयं हन्यात्त्रिफलाद्यं महद्घृतम्”।
त्रिःफलीकृत = त्रि० त्रिः त्रिवारं फलीकृतः वितुषीकृतः। त्रिधा वितुषीकृते तण्डुलादौ। “दक्षिणोत्तराभ्यां पाणिभ्यां त्रिःफलीकृतांस्तण्डुलांस्त्रिर्देवताभ्यः प्रक्षालयेत्” गोभिलः “त्रिःफलीकृतान् त्रिधा वितुषीकृतान्” सं० त० रघुनन्दनः।
त्रिबन्धन = पु० हर्य्यश्वपौत्रे १ नृपभेदे। “हर्य्यश्वस्तत्सुतस्यासीदुरगोऽथ त्रिबन्धनः” भाग०। ७। ४। त्रीणि बन्धनानि यस्य। २ जाग्रदाद्यवस्थात्रययुक्ते जीवे पु०।
त्रिबली(लि) = स्त्री त्रिगुणिता ब(ली)बलिः। १ उ दरस्थे बलीत्रये “त्रिबलौबलयोपेतां भ्रुकुटीभीषणाननाम्” दुर्गाध्यानम्। तिमॄणां बलीनां समाहारः। २ त्रिबलि तत्रार्थे न० उज्ज्वलदत्तः।
त्रिबलीक = न० तिस्रो बल्यो यत्र कप्। पायौ हेम०। तस्य बलीत्रयबत्त्वात्तथात्वम्।
त्रिबाहु = पु० त्रयो बाहवोऽस्य। १ रुद्रानुचरभेदे “त्रिबाहुं पञ्चबाहुश्च व्याघ्रवक्त्रः सिताननः” हरिवं० २७७ अ०। २ असियुद्धाकारभेदे। “त्रिबाहुस्तुङ्गबाहु श्च” हरिवं ६१६ अ०। खड्गशब्दे २४६० दृश्यम्।
त्रिभ = न० त्रयाणां भानां राशीनां समाहारः। १ लग्नादिराशित्रये। “त्रिभं त्रिभं लग्नभतः क्रमेण स्त्रीणां नॄणां रात्रिदिनेषु तेषु” नील० ता०। २ राशित्रयमात्रे च। “सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः” सू० सि०। त्रीणि भानि नक्षत्राणि यत्र। ३ नक्षत्रत्रययुक्ते “कार्त्तिक्याटिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिभं मासत्रयं स्मृतम्” सू० सि०। “अत्र कार्तिकस्यादित्वेन ग्रहादन्त्य आश्विनः उपान्त्यः भाद्रः पञ्चमः फाल्गुनः। मासत्रयं त्रिभिः स्मृतम्। रेवत्यश्विनीभरणीतिनक्षत्रत्रयसम्बन्धादाश्विनः। शततारापूर्वोत्तराभाद्रपदेति ऋक्षत्रयसम्बन्धाद्भाद्रपदः पूर्वोत्तरफाल्गुनीहस्तेति ऋक्षत्रययोगात् फाल्गुनः” रङ्गना०।
त्रिभङ्गी = स्त्री “प्रथमं यदि दशमं वदति विरामं तदनु निकामं वसुकम्। वसुविमलतुरङ्गममतिहृदयङ्गमहृषितभुजङ्गमनृपतिलकम्। त्रिंशद्विकलासुविहितनिवासं सततविलासं हृदयमुदेति मदमुदितभुजङ्गी मोहनरङ्गी वदति त्रिभङ्गीवृत्तमदः” इत्युक्ते मात्रावृत्ते छन्दोभेदे।
त्रिभजीवा = स्त्री ६ त० राशित्रयधनुराकारक्षेत्रस्य जीवायाम् त्रिज्यायां त्रिज्याशब्दे दृश्यम्। “शङ्कुः सत्रिभजीवाघ्नः” सू० सि०। त्रिभज्याप्यत्र। “त्रिभज्यया भवेच्छङुस्तद्वर्गं परिशोधयेत्” सू० सि०।
त्रिभण्डी = स्त्री त्रीन् वातादिदोषान् भण्डति भण्ड–परिभाषणे अण्। त्रिवृति (तेओडि) अमरः।
त्रिभद्र = न० त्रिषु दन्तक्षतालिङ्गनमर्द्दनेष्वपि भद्रं यत्र। सुरते त्रिका०।
त्रिभाग = पू० तृतीयो भागः वृत्तौ संख्याशब्दस्य पूरणार्थत्वम्। तृतीये भागे “त्रिभागशेषासु निशासु च क्षणम्” कुमा०। “अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्य्यात् दिने दिने। त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा” ११४० ब्रह्मपु०।
त्रिभानु = पु० तुर्वसुवंश्ये नृपभेदे। “तुर्वसोस्तु सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान्। त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः” भाग० ९। २३। ४।
त्रिभाव = पु० त्रिषु कालेषु भावोऽस्य। त्रैकालिके पदार्थे तस्य भावः कर्म वा ब्राह्मणा० ष्यञ्। त्रैभाव्य तद्भावादौ न०।
त्रिभुक्ति = पु० त्रिषु भुक्तिरस्य। (तोरहुत) देशभेदे त्रिका०।
त्रिभुज = न० त्रयो भुजा यत्र। त्रिबाहुके त्रिकोणे क्षेत्रभेदे क्षेत्रशब्दे दृश्यम्। “त्रिभुजे भुजयोर्योगस्तदन्तरगुणो भृवा हृतो लब्ध्या” “स्पष्टं त्रिभुजे फलं भवति” लीला०। “योनिं कृत्वा त्रिभुजं शयानः” अथ० ८। ९। अत्र योनिं त्रिभुजमिव कृत्वेत्यर्थः तेन न स्त्रीत्वम्। अतः त्रिभुज् इति शब्दान्तरकल्पनं प्रामादिकम्।
त्रिभुवन = न० त्रयाणां भुवनानां लोकानां समाहारः पात्रा० न ङीप्। त्रिलोक्यां मिलितेषु स्वर्गमर्त्यपातालेषु। “त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् सा० द० “त्रिभुवनगुरोर्धाम चण्डीश्वरस्य” मेघ०।
त्रिभूम = पु० तिस्रो भूमयः ऊर्द्धाधोमध्यस्था अस्य अच्समा०। (तेताला) प्रासादभेदे।
त्रिमण्डला = स्त्री लूताभेदे “लूतास्तु द्विविधा स्मृताः” “तासामष्टौ कृच्छ्रसाध्यावर्ज्यास्तावत्य एव तु। त्रिमण्डला तथा श्वेता कपिला पितिका तथा। आलमूत्रविषा रक्ता कमला चाष्टमी स्मृता। ताभिर्दष्टे शिरो दुःखं कण्डूर्दंशे च वेदना। भवन्ति च विशेषेण गटाः श्लैष्मिक वातिकाः”। “त्रिमण्डलया दंशेऽसृक् कृष्णं स्रवति दीर्य्यते” इति च सुश्रु०।
त्रिमद = पु० त्रिगुणितो मदः संज्ञात्वात् कर्म०। “विद्यामदोधनमदस्तथैवाभिजनो मदः। एते मदा मदान्धानां त एव हि सतां दमाः” १ इत्युक्ते गर्वत्रये “नूनं नृपाणां त्रिमदोत्–पथानां महीं मुहुश्चालयतां चमूभिः” भाग० ३। १। ४३। २ मुस्ताचित्रकविडङ्गेषु च वैद्यकम्।
त्रिमधु = न० त्रिगुणितं मधु संज्ञात्वात् कर्म्म०। “दुग्धं सिता माक्षिकञ्च विज्ञेयं मधुरत्रयम्” इत्युक्ते १ दुग्धादित्रये। २ऋग्वेदैकदेशे पु० ३ तद्व्रतभेदे तदाचरणेन ४ तद्वेदाध्यायिनि पु० मिता० “मधुवाता इति त्रयः मधुशब्दा यत्र। मधुवाता इत्यादिके ५ऋक्त्रये पु०। “वेदार्थवित् ज्योष्ठसामा त्रिमधुस्त्रिसुपर्णकः” याज्ञ०। “त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित्” मनुः। ६ मधुशब्दत्रये च “गायत्री त्रिः सकृद्वापि जपेद्व्याहृतिपूर्विकाम्। मधुवाता इति तृचं मध्वित्येतत् त्रिकं जपेत्” इति पारस्करः। ७ आज्यप्रधुसितात्रये न० “कमलैश्च त्रिमध्वक्तैर्हुनेदष्टोत्तरं शतम्” तन्त्र०।
त्रिमधुर = न० त्रिगुणितं मधुरं संज्ञात्वात् कर्म्म०। दुग्धसितामाक्षिकरूपे मधुरत्रये त्रिमधुशब्दे दृश्यम्। त्रिमधुरेणाध्यर्च्चयेन्नागान्” वृह० ४८ अ०।
त्रिमातृ = त्रि० त्रयाणां लोकानां माता निर्माता। लोकत्रयनिर्मातरि “उत त्रिमाता विदथेषु सम्राट्” ऋ० ३। ५६। ५ अ०।
त्रिमात्र = पु० तिस्रः मात्रा उच्चारणकालेऽस्य। प्लुतस्वरे “एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” शिक्षा० “प्रणवस्य ऋषिर्ब्रह्मा देवोऽग्निस्तस्य कथ्यते। गायत्रञ्च भवेच्छन्दो नियोगः सर्वकर्मसु। त्रिमात्रस्तु प्रयोक्तव्यः प्रारम्भे सर्वकर्मणाम्” संवर्त्तः। भोजदेवेन तु तस्य सार्द्धत्रिमात्रकतोक्ता यथा “तज्जपस्तदर्थभावनम्” पा० सू० “तस्य सार्द्धत्रिमात्रिकस्य प्रणवस्य जपः” वृत्तिः। युक्तञ्चैतत् ओकारस्य प्लुतत्वेन त्रिमात्रत्वेऽपि तदुत्तरमकारस्य व्यञ्जनत्वादर्द्धमात्रत्वेन सार्द्धत्रिमात्रत्वं संवर्तवचने त्रिमात्रपदं सार्द्धत्रिमात्रे लाक्षणिकमिति बोध्यम्। वस्तुतः मकारान्तत्वे सार्द्धत्रिमात्रत्वम् अनुस्वरान्तत्वे त्रिमात्रत्वमिति भेदः। तदभिप्रायेणैव तस्य त्रिमात्रतया जपफलं प्रश्लोपनिषद्युक्तं तच्च ओम् शब्दं १५६० पृ० दर्शितम्।
त्रिमार्गगा = स्त्री त्रिभिर्मार्गैर्गच्छति गम–ड। १ गङ्गायां हेमच०। “त्रिमार्गगावीचिविमर्दशीतः” रघुः। “अन्वर्थसंज्ञैव परं त्रिमागेगा” माघः। गम–णिनि। त्रिमार्गगामिन्यादयोऽप्यत्र।
त्रिमार्गा = स्त्री त्रयो मार्गा अस्याः। १ गङ्गायां “त्रिमार्गयेव त्रिदिवस्य मार्गः” कुमा०। (तेमाता) २ पथि। “त्रयाणां मार्गाणां समाहारः। ३ मार्गत्रये स्त्री ङीप्।
त्रिमुकुट = पु० त्रीणि मुकुटानीव शृङ्गाणि यस्य। त्रिकूटपर्वते हेमच०।
त्रिमुख = पु० त्रीणि मुखानि अस्य। १ शाक्यमुनौ त्रिका०। गायत्रीजपाङ्गे चतुर्विंशतिमुद्रान्तर्गते मुद्राभेदे तल्लक्षर्ण विधानपारिजाते उक्तं यथा “संमुखासक्तयोः पाण्योः कनिष्ठाद्वययोगतः। शेषाङ्गुलीनां वैरल्यात् मुद्राः स्युर्द्विमुखादयः” “संमुखासक्तपाण्योः कनिष्ठाद्वययोगेन शेषाङ्गुलीनां विरलत्वेनाङ्गुष्ठद्वयमारभ्यानामि- कान्तं यावत् द्विमुखत्रिमुखचतुर्मुखपञ्चमुखाः मुद्राः स्युः” तद्व्याख्या। तथा चाङ्गुष्ठतर्ज्जनीनां वैरल्ये त्रिमुखमुद्रा। २ बुद्धदेवीभेदे मायादेव्यां स्त्री त्रिका०।
त्रिमुनि = न० त्रयाणां मुनीनां समाहारः। पाणिनिकात्यायनपतञ्जलिरूपे मुनित्रये। त्रयो मुनयो वंश्याः “संख्या वंश्येन” पा० स०। पाणिन्यादिमुनित्रयप्रणीते व्याकरणे विद्यातद्वतामभेदविवक्षया तस्य तथात्वम् “वंशश्च जन्मना विद्यया वा तत्र भवः वंश्यः” इति सि० कौ०।
त्रिमूर्त्ति = पु० त्रिस्रो मूर्तयोऽस्य। ब्रह्मविष्णुशिवरूपमूर्तित्रययुक्ते परमेश्वरे। “नमस्त्रिमूर्त्तये तुभ्यं प्राक्सृष्टेः केवलात्मने” कुमा०। त्रिमूर्तिर्यः सर्गस्थितिविलयकर्माणि तनुते” चिन्तामणिः २ ब्रह्मशक्तिभेदे स्त्री। “एकमूर्तिरपि भिन्नरूपिणी या जगज्जननपालनक्षये। काच्युतेश्वरतया विवर्तते ब्रह्मशक्तिमहमानतोऽस्मि ताम्” शब्दार्थचि० धृ० वाक्यम्। ३ बुद्धदेवीभेदे स्त्री त्रिका०।
त्रिमूर्द्ध = पु० त्रयो मूर्द्धानोऽस्य ष समा०। मूर्द्धत्रययुक्ते। “वहुमूर्ध्नो द्विमूर्द्धाश्च त्रिमूर्द्धांश्चाहतां मृधे” भट्टिः।
त्रियम्बक = पु० त्रौण्यम्बकानि दृष्टयो यस्य। “छन्दस्युभयथा” पा० वा इयङ्। त्रिनेत्रे। क्वचिल्लोकेऽपि इयङ् “त्रियम्बकं संयमिनं ददर्श” कुमा० तद्व्याख्यायां मल्लिनाथेन महाकविप्रयोग एव तत्र मूलतयोक्तः।
त्रियव = न० त्रयो यवाः परिमाणमस्य। कृष्णले “सर्षपाः षट्यवी मध्यस्त्रियवं त्वेककृष्णलम्” मनुः।
त्रियष्टि = स्त्री त्रिषु वातादिषु यष्टिरिव विद्रावकत्वात्। (क्षेतपापडा) १ क्षुपभेदे रत्नमा० रत्नमा०। तिस्रो यष्टयो यस्य। २ त्रिगुच्छे हारभेदे पु०।
त्रियामक = न० त्रिषु कालेषु यमयति अन्तर्भूतण्यर्थे यमण्वुक्। पापे शब्दमा०।
त्रियामा = स्त्री त्रयो यामा अस्याः आद्यान्त्ययोरर्द्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात्। १ निशायाम् अमरः “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम्। नाडीनां, तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त०। “संक्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा” मेघ०। “क्वचिदसमेतपरिच्छदस्त्रियामाम्” रघुः। “ज्योतिर्भिरुद्यद्भिरिव त्रियामा” कुमा० २ हरिद्रायाम् अमरः। कृष्णत्वात् ३ यमुनायां ४ नील्यां ५ कृष्णत्रिवृति च उणादिको०।
त्रियुग = पु० त्रीणि युगानि आविर्भावकालोऽस्य। १ यज्ञपुरुषे तस्य कृतयुये आविर्भावाभावात् कलौ छन्नत्वात् वा। “इत्थं नृतिर्य्यगृषिदेवझषावतारैर्लोकान् विभावयसि हंसि जगत् प्रतीपान्। धर्मं महापुरुष! पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्” भाग० ७। ९। ३८ “कलौ तु तन्न करोसि यतस्तदा त्वं छन्नोऽभवः यतस्त्रिष्वेव युगेष्वाविर्भावात् स एवम्भूतस्त्वं त्रियुग इति प्रसिद्धः” श्रीधरस्वामी। २ वसन्तादिकालत्रये। “या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा” यजु० १२। ७५ “युगशब्दः कालवाची त्रयाणां युगानां समाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च। वेददी०।
त्रियूह = पुंस्त्री कपिलाश्वे हेमच० स्त्रियां ङीष्।
त्रिरात्र = न० त्रिसृणां रात्रीणां समाहारः अच् समा०। “अह्नाहान्ताः क्ष्वेडभेदाः रात्रान्ताः प्रागसंख्यकाः” इत्यमरोक्तेः संख्यापूर्वत्वात् क्लीवता। १ रात्रित्रये २ तदुपलक्षिते दिनत्रये च। “उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्” “अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्” मनुः। त्रिभिः रात्रिभिः निर्वृत्तम् ठञ् तस्य लुक्। तद्धितार्थद्विगुत्वात् अच् समा०। ३ दिनत्रयोवाससाध्ये व्रतभेदे न०। “एकरात्रं त्रिरात्रं वा षड्रात्रं वा विधीयते” प्रा० वि० धृतवचनम्। रात्रित्रयसाध्ये ४ गर्गवेदादौ यज्ञभेदे पु०। “सहस्रदक्षिणे त्रिरात्रे” कात्या० श्रौ० १३। ४। १५। गर्गत्रिरात्रशब्दे २५४५ पृ० दृश्यम्।
त्रिरूप = पु० त्रीणि रूपाण्यस्य। अश्वमेधीये अश्वभेदे अश्वमेधशब्दे दृश्यम्।
त्रिरेख = पु० तिस्रो रेखा यत्र। १ शङ्खे हेमच०। समा० द्वि०। २ रेखात्रये न०।
त्रिल = पु० त्रयो लाः लघुवर्णा यत्र। लघुवर्णयुक्ते नगणे “त्रिलोनोऽष्टौ” वृ० र०।
त्रिलघु = त्रि० त्रयो लघवः यत्र। छन्दोग्रन्थप्रसिद्धे नगणे “त्रिलघुश्च नकारः” छन्दोम०। त्रिभिर्लघुः। २ शुभलक्षणभेदान्विते स्थानत्रयह्रस्वे पुरुषे “त्रिपृथुलघुगम्भीर” इत्युद्देशे “ग्रीवाजङ्घामेहनैश्च त्रिभिर्ह्रस्वोऽयमीडितः” काशी० ११ अ०। वृ० स० ६८ अ० तु चतुर्ह्रस्वस्यैव शुभत्वमुक्तं यथा “ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्घे च हितप्रदानि” तत्र ह्रस्वे पृष्ठाधिक्यमिति भेदः।
त्रिलवण = न० त्रयाणां लवणानां समाहारः पात्रा० न ङीप् त्रिगुणितं लवणं वा संज्ञात्वात् कर्म० वा। “सैन्धवञ्च विडञ्चैव रुचकं च तृतीयकम्। मिलित्वैतत् त्रिलवणम्” इत्युक्ते लवणत्रये राजनि०।
त्रिलिङ्ग = त्रि० त्रीणि लिङ्गान्यस्य। १ पुंस्त्वादिलिङ्गत्रययुक्ते शब्दे। समा० द्वि० ङीप्। २ लिङ्गत्रये स्त्री “त्रिलिङ्ग्यां त्रिष्विति पदम्” अमरः। त्रीणि सत्वादीनि लिङ्गानि अनुमापकान्यस्य। ३ अहङ्कारादौ त्रि० “रजःप्रधानान्महतस्त्रिलिङ्गो दैवनोदितात् जातः ससर्ज्ज भूतादिर्वियदादीनि पञ्चशः” भाग० ३। २०। १४। ४ वातादिधातुदोषजे रोगे च त्रि० सुश्रुतः।
त्रिलोकधृत् = पु० त्रयाणां लोकानां धृत् धृतिरस्य, धृ–सम्प० भावे क्विप् उत्तरपदद्विगुः। लोकत्रयस्यापतनानुकूलप्रयत्नविशेषरूपधारणशालिनि परमेश्वरे “लोकस्वामी त्रिलोकधृत्” विष्णुस०।
त्रिलोकनाथ = पु० त्रयाणां लोकानां नाथः उत्तरपदद्विगुघटितस्तत्पुरुषः। त्रयाणां लोकानां नाथे परमेश्वरादौ। “त्रिलोकनाथेन सतां मखद्विषः” रघुः। “त्रिलोकनाथः पितृसद्मगोचरः” कुमा०। त्रिलोकपत्यादयोऽप्यत्र।
त्रिलोकात्मन् = पु० त्रयो लोकाः आत्मानः स्वरूपाणि यस्य कार्य्यकारणयोरभेदात् उत्तरपदद्विगुघटिस्तत्पुरुषो वा। १ परमेश्वरे “त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः” विष्णुपु०।
त्रिलोकी = स्त्री त्रयाणां लोकानां समाहारः ङीप्। स्वर्गमर्त्यपातालरूपे लोकत्रये “यदि त्रिलोकी गणनापरा स्यात्” नैष०। “श्रियं त्रिलोकीतिलकः स एव” माघः।
त्रिलोकेश = पु० त्रयाणां लोकानामीशः उत्तरपदद्विगुघटितस्तत्पुरुषः। १ परमेश्वरे “त्रिलोकात्मा त्रिलोकेशः” विष्णु०। २ सूर्य्ये शब्दच०। त्रिलोकेश्वरादयोऽप्यत्र।
त्रिलोचन = पु० त्रीणि लोचनानि यस्य। १ शिवे “त्रिलोचनैकांशतया दुरासदः” रघुः। “त्रिलोचनस्तामुपचक्रमे च” कुमा०। २ काशीस्थे चतुर्दशमहालिङ्गान्तर्गते लिङ्गभेदे न०। “द्वितीयं च त्रिलोचनम्” ७५ अ०। तन्माहात्म्यं च तत्रैव दृश्यम्। २ लोचनत्रययुक्ते त्रि० “मुखेन पूर्णेन्दुनिभस्त्रिलोचनः” माघः। ४ दुर्गायां स्त्री। “लोचनतयसंयुक्ताम्” दुर्गाध्यानोक्तेः।
त्रिलोचनाष्टमी = स्त्री गौणचान्द्रज्यैष्ठकृष्णाष्टम्याम् “ज्यैष्ठेमासि नृपश्रेष्ठ! कृष्णाष्टम्यां त्रिलोचनम्। यः पूजयति देवेशमीशलोकं स गच्छति” संवत्सरकौमुदीधृतभविष्यपुराणम्। “ज्यैष्ठे मस्यसिते पक्षे अष्टम्याञ्च महेश्वरि!। शिवार्च्चने च तल्लोकं लभते नात्र संशयः” उत्तरकामाख्यातन्त्रे ११ पटले।
त्रिलौहक = त्रि० त्रीणि लौहानि धातवो यत्र कप्संज्ञायां कन् वा। सुवर्णरजतताम्रमये पात्रादौ।
त्रिलौही = स्त्री त्रीणि लौहानि साधनत्वेनास्त्यस्याः गौरा० ङीष्। सुवर्णरजतताम्रपरिमाणभेदेन निर्मिते मुद्राभेदे “अथ मन्त्रिणां हितार्थाय त्रिलौही मुद्रा निरूप्यते। सोमसूर्य्याग्निरूपाः स्थुर्वर्णा लौहत्रयं तथा। रौप्यमिन्दुः स्मृतो हेम सूर्य्यस्ताम्रो हुताशनः। लौहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया। तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम्। एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः। आग्नेया व्यापकाः सर्वे सोमसूर्य्याग्निदेवताः। स्वराः षोडश विख्याताः स्पर्शाः स्युः पञ्चविंशतिः। व्यापका दश ते कामधनधर्मप्रदायिनः। साष्टं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात्ततः। तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्वसंख्यया। निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्त वर्त्मना। आवाह्य पूजयेद्देवीमुपचारैर्विधानतः। अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः। इयं मुद्रा क्षुद्ररोगविषमज्वरनाशिनी। व्यालचौरमृगादिभ्यो रक्षां कुर्य्याद्विशेषतः। युद्धे विजयमाप्नोति धारयन् मनुजेश्वरः। मन्त्रसिद्धिकरी पुंसां चतुर्वर्गफलप्रदा। धारयन् मनुजो नित्यं देवतुल्यो भवेद्भुवि” तन्त्रसा०।
त्रिवत्स = पु०। त्रयो वत्सा वत्सरा वयोयस्य पृषो०। त्रिवर्ष वयस्के वृषे। स्त्रियां तु टाप् त्रिवत्सा। “त्रिवत्सश्च मे त्रिवत्सा च मे” यजु० १८। २६। “वत्सो वत्सरः त्रयो वत्सा यस्य स त्रिवत्सः त्रिवर्षो वृषः तादृशी गौस्त्रिवत्सा” वेददी०। “सोमक्रयणस्त्रिवत्सः साण्डः” कात्या० श्रौ० २२। ३। ४०। “त्रिवत्सस्त्रिवर्षः साण्डः अण्डसंयुक्त ऋषभः” कर्कः।
त्रिवर्ग = पु० त्रयाणां धर्म्मार्थकामानां वर्गः। १ धर्म्मार्थकामरूपेषु पुरुषार्थेषु, अमरः २ त्रिफलायां, ३ कटुत्रिके, मेदिनि० साङ्ख्योक्ते ४ सत्त्वरजस्तमोरूपगुणत्रये। “क्षयःस्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” अमरोक्ते राज्ञामायव्ययवृद्धिरूपेषु ५ पदार्थेषु च। “त्रिवर्गपारीणमसौ भवन्तम्” भट्टिः। “धर्म्मार्थावुच्यते श्रयः कामार्थौ धर्मएव च। अर्थ एवेह तु श्रेयस्त्रिवर्ग इति तु स्थितिः”। “तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते” मनुः।
त्रिवर्णक = न० त्रयो वर्णाः पुष्पेष्वस्य कप्०। १ गोक्षुरे। २ त्रिफलायां, ३ त्रिकटौ। समा० द्वि० पात्रा० स्वार्थे कन्। ४ ब्राह्मणक्षत्त्रियवैश्यरूपे द्विजातिवर्णत्रये न० मेदि०। ५ श्यामरक्तपीतात्मके वर्णत्रये च।
त्रिवर्त्तु = न० त्रिषु षसन्तादिषु ऋतुषु वर्त्तते वृत–उन्। वसन्तादिके ऋतुत्रये प्रातरादिकाले अतिशयेन वर्त्तमाने आदित्यतेजसि। “त्रीणि वा आदित्यस्य तेजांसि वसन्ते प्रातर्ग्रीष्मे मध्यन्दिने शरद्यपराह्णे” इति श्रुतेस्तस्य वसन्तादिषु प्रातरादिकालभेदेऽतिशयेन वर्त्तमानत्वात् तथात्वम्” “त्रिवर्त्तु ज्योतिःस्वभिष्ट्य स्मे” ऋ०७। १०१। २ “त्रिवर्त्तु त्रिष्वृतुष्वतिशयेन वर्त्तमानम्” भा०।
त्रिवर्त्मन् = पु० त्रीणि वर्त्मान्यस्य। देवयानपितृयानदक्षिणायानरूपमार्गत्रययुक्ते जीवे “स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः स करोति स्वकर्मभिः” श्वेता० ५। ७। त्रीणि वर्त्मानि देवयानादयो मार्गभेदा अस्येति त्रिवर्त्मा धर्म्माधर्मज्ञानमार्गभेदान् अर्हति वा” भा० २ गङ्गायां स्त्री। त्रिगुणितं वर्त्म। ३ स्वर्गमर्त्यपातालस्थे मार्गे “ऊर्द्ध्वावतों महापुण्यां मधुवतीं तिवर्त्मगाम”। भा० आनु० २६ अ०।
त्रिवर्ष = त्रि० त्रयो वर्षा वयोऽस्य। त्रिवर्षवयस्के १ प्राणिनि। “न त्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया” मनुः। २ त्रिहायण्यां गवि स्त्री “त्रिहायणी त्रिवर्षा गौः” अमरः। स्वार्थे क। त्रिवर्षिका तत्रार्थे। त्रिगुणितो वर्षः शा० त०। ३ वर्षत्रये पु० न० “न सिद्ध्यत्यर्द्दितं वाढं त्रिवर्षं वपनस्य च” सुश्रुतः।
त्रिवर्षीय = त्रि० त्रिवर्षे भवः गहा० छ। त्रिवर्षभवे “एकैकं वै त्रिवर्षीयं तेन पीवान् शुना सह” भा० आनु० ९६ अ०
त्रिवार = त्रि० त्रयो वारा अस्य। १ वारत्रययुक्ते। २ गरुडात्मजभेदे पु०। “त्रिवारः सप्तवारश्च वाल्मीकिर्दीपकस्तथा” भा० उ० १०० अ० गरुडात्मजोक्तौ।
त्रिविक्रम = पु० त्रयो विक्रमाः पादन्यासा अस्य। १ विष्णौ अमरः त्रिकमशब्दे दृश्यम्। “आनन्दो नन्दनानन्दः सत्यधर्मस्त्रिविक्रमः” विष्णुस०। “त्रयो विक्रमास्त्रिषु लोकेषु विक्रमः क्रान्तं यस्य स त्रिविक्रमः “त्रीणि पदानि विचक्रमे” श्रुतेः त्रयो लोका विक्रमाः क्रान्ता येनेति वा। “त्रिरित्येवं त्रयो लोकाः कीर्तिता मुनिसत्तमैः। क्रमसे तांस्तथा सर्वांस्त्रिविक्रमो जनार्द्दन!” विष्णुसं० भाष्यधृतहरिवं० वाक्ये तन्नाम निरुक्तिर्दर्शिता। ६ त०। २लोकत्रयक्रमणे पु० “त्रिविक्रमे यथा विष्णुः सर्वदैत्यबधे पुरा” रामा० ल० ७९ अ०।
त्रिविद्य = पु० तिस्रो विद्याऽस्य। त्रिवेदज्ञे धिजे।
त्रिविध = त्रि० तिस्रो विधा अस्थ। त्रिप्रकारे “अथ त्रिविध- दुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” सां० सू०। “त्रिविधदुःखञ्चाध्यात्मिकाधिभौतिकाधिदैविकरूपम्। “देवत्वं सात्त्विकं यान्ति मनुष्यत्वञ्च राजसाः। तिर्य्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः” मनुः। परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम्। वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्” मनुः। नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते” दक्षसं०। सात्विकादिभेदेन श्रद्धादित्रैविध्यं गीतायामुक्तं यथा
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव ताममी चेति तां शृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध्वः स एव सः। यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। भूतान् प्रेतगणांश्चान्ये यजन्ते तामसा जनाः। अशास्त्रविहितं धोरं तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः। कर्षयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान्। आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु। आयुःसत्त्ववलारोग्यसुखप्रीतिविवर्द्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः। कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजस्येष्टा दुःखशोकामयप्रदाः। यातयामं गतरसं पूतिपर्य्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः। अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ! तं यज्ञं विद्धि राजसम्। विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। देवद्विजगुरुप्राज्ञपूजनं शौचमार्जबम्। ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते। मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत्तपो मानसमुच्यते। श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते। सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्। मूदग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्- सादनार्थं वा तत्तामसमुदाहृतम्। दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्। यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्। अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतम्। ओ~तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा। तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्। तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः। दानक्रियाश्च विबिधाः क्रियन्ते मोक्षकाङ्क्षिभिः। सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ! युज्यते। यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते। अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत्। असदित्युच्यते पार्थ! न च तत् प्रेत्य नो इह” १७ अ०। “सन्न्यासस्य महावाहो! तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषोकेश! पृथक् केशिनिसूदन!। भगवानुवाच। काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः। त्याज्यं दोषवदित्येके कर्म पाहुर्मनीषिणः। यज्ञदानतपः कर्म न त्थाज्यमिति चापरे। निश्चयं शृणु मे तत्र त्यागे भरतसत्तम!। त्यागो हि पुरुषव्याघ्र! त्रिविधः संप्रकीर्त्तितः। यज्ञदानतपःकर्म न त्याज्यं कार्य्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्म्माणि सङ्गं त्यक्त्वा फलानि च। कर्त्तव्यानीति मे पार्थ! निश्चितं मतमुत्तमम्। नियतस्य तु संन्न्यासः कर्मणो नोपषद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः। दुःस्यमित्येव यत् कर्म कायक्ले शभयात्त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। कार्य्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन!। सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः। न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः। न हि देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यानीत्यभिधीयते। अनिष्टमिष्टं मिश्चञ्च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्। पञ्चेमानि महावाहो! कारणानि निवोध मे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्षकर्मणाम्। अविष्ठानं तथा कर्त्ता करणञ्च पृथग्विधम्। विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्। शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः। न्याप्यं वा विपरीतं वा पञ्चैते तस्य हेतवः। तत्रैवं सति कर्त्तारमात्मानं केवलन्तु यः। पश्यत्यकृतबुद्धित्वान्न पश्यति स दुर्मतिः। यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमा ल्लो~कान् न हन्ति न निबध्यते। ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्त्तेति त्रिविधः कर्मसंग्रहः। ज्ञार्न कर्म च कर्त्ता च त्रिधैव गुणभेदतः। प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि। सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अतिभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्। पृथकत्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्। यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पञ्च तत्तामसमिति स्मृतम्। नियतं सङ्गरहितमरानद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते। यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम्। अनुबन्धं क्षयं हिसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामसमुच्यते। मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्धितः। सिद्व्यसिद्वोर्निर्विकारः कर्त्ता सात्त्विक उच्यते। रागी कर्मफलध्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः। अयुक्तः षाकृतः स्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसृत्री च कर्त्ता तामस उच्यते। बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय!। प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये। बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी। यया धर्ममधर्मञ्च कार्य्यञ्चाकार्य्यमेव च। अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी। अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्यान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी। धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ! सात्त्विकी। यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन!। प्रसङ्घेन फलाकाङ्क्षी धृतिः सा पार्थ! राजसी। यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ! तामसी। सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ!। अभ्यासाद्रमते यत्र दुःखान्तञ्च निगच्छति। यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्। विषयेन्द्रियसंयोगात् यत्तदग्रेऽस्मृतोपमम्। परिणामे विष मिव तत् सुखं राजसं स्मृतम्। यदग्रे चानुबन्धे च सुखं मोहनमात्मानः। निद्रालस्यप्रमादोत्थं तत्ताममुमुदाहृतम्। न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः” १८ अ०। त्रिविधार्थश्च विष्णूक्तोऽर्थशब्दे ३६७ पृ० उक्तः। अन्यस्य त्रैविध्यं यथायथं यथास्थाने उक्तं वक्ष्यते च। उत्पातशब्दे उत्पातत्रैविध्यमुक्तम्। तस्य भावः ष्यञ्। त्रैविध्य त्रिप्रकारत्वे “एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते” भाषा०। “त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता” सा० द०।
त्रिविष्टप = न० विशन्त्यस्मिन् सुकृतिनः विश–कपन् तुट्षत्वञ्च। “विटपविष्टपविशिपोलपाः” उणा० उज्ज्वलदत्तेन विष्टपेत्यत्र पिष्टषेति पठितस। अन्थे तत्र दन्त्योष्ठ्यादितया पेठुः। “यत्र ब्रघ्नस्य विष्टपमित्यादिप्रयोगात् “विष्टपं भुवनं जगत्” अमरग्रन्थे विष्टपेति पाठस्य क्षीरस्वामिप्रभृतिसम्पतत्वाच्च। तृतोयं विष्टपम् वृत्तौ त्रिभागवत् संख्याशब्दस्य पूरणार्थत्वम्। १ स्वर्गे अमरटीकायां स्वामी। “त्रिविष्टपस्येव पतिं जयन्तः” रघुः। “स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः” भा० स्व० १ अ०। समा० द्वि०। २ त्रिभुवने न०
त्रिविष्टपसद् = पु० त्रिविष्टपे स्वर्गे सीदति सद–क्विप्। देवे हला०।
त्रिविष्टब्ध = न० त्रीणि विष्टब्दानि यत्र। त्रिदण्डरूपे अपष्टम्भत्रये “य इमा कुण्डिकां भिन्द्यात्त्रिविष्टन्धं च यो हरेत्। वासश्चापहरेत् तस्मिन् कथं ते मानसं भवेत्”। “नयीञ्च नाम वार्त्ताञ्च त्यक्त्वा पुत्रान् व्रजन्ति ये। त्रिविष्टब्धञ्च वासश्च प्रतिमृह्णन्त्यबुद्धयः” भा० शा० १८ अ०।
त्रिविस्त = त्रि० त्रीणि विस्तानि स्वर्णकर्षंऊल्यान्यनर्हति ठक् तस्य वा लुक्। स्वर्णकर्षत्रयमूल्यार्हे। लुगभावे त्रैविस्तिक तत्रार्थे त्रि०।
त्रिविस्तीर्ण = पु० त्रिभिः विस्तीर्णः। शुभलक्षणभेदान्विते पुरुषे। “त्रिपृथुघुगम्भीरो द्वात्रिं शल्लक्षणन्त्विति” ऊपक्रमे “ललाटफटिषक्षोभिस्त्रिविस्त्रीर्णो यथाह्यादौ। सर्वतेजोऽतितिगैश्वर्य्यं तथा प्रापस्थति नान्यथा” काशी० ११ अ०। त्रिपृषुशब्दोऽप्यत्र वृ० स० ६८ अ० तु “उरो ललाटं वदनञ्च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम्” विस्तीर्णचतुष्कप्रशस्ततयोक्तमिति भेदः।
त्रिवीज = पु० त्रीणि त्रीणि वीजानि प्रतिफलं यस्य। श्यामाके राजनि०।
***