त्मन् = पु० आत्मन् + आलोपः। आत्मनि “त्मनमूर्जं न विश्वध क्षरध्यै” ऋ० १। ६३। ८। त्मनमात्मानम्। “आङोऽन्यत्रापि छन्दसि दृश्यते” पा० इत्यात्मन आकारलोपः संज्ञापूर्वकस्य विधेरनित्यत्वादुपधादीर्घा भावः” भा०। “त्मने तोकाय तनयाय मृड” ऋ० १। ११४। ६। “उप त्मन्या वनस्पते” ऋ० १। १८८। १०। “त्मन्या आत्मना” भा०। तृतीयास्थाने या। “अश्वो घृतेन त्मन्या” यजु० २९। १०। “वनस्पतिरवसृष्टो न पाशैः त्मन्या” २०। ४५।
त्यक्त = त्रि० त्यज–कर्मणि क्त। कृतत्यागे उत्सृष्टे समुज्झिते अमरः “अदृष्टार्थत्यक्तद्रव्यस्वीकारः प्रतिग्रहः” शूलपाणिः त्यजधातौ उदा०। २ त्यक्तुमुद्यते च “मदर्थे त्यक्तजीविताः” गीता “इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः, रामा० कि० ५४ अ०।
त्यज = हानौ दाने च भ्वा० सक० पर० अनिट्। त्यजति अत्याक्षीत् तत्याज। त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वा त्यागी। “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” चाणक्यः “योऽत्याक्षीत् संयुगं भयात्” भा० द्री० ९५ अ० “तं तत्याजाहितं पुत्रम्” रामा० २। ३६ अ०। “नैव नीलिवर्णेन कदाचित् त्यज्यते” पञ्चत०। (शूराः) “मदर्थे त्यक्तजीविताः” गीता “प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्द्धुषिस्तथा” मनुः “न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति” मनुः “त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपः कर्म न त्याज्यमिति चापरे” गीता “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः”–मनुः “चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु” वृ० स० ६० अ०। वेदे तु नि०। णलि तित्याज “यस्तित्याज सचि विदं सखायम्” ऋ० १०। ७१। ६। त्यागश्च स्वत्वध्वं सानुकूलव्यापारः न ममेदमित्याकारः। स च मूर्त्तद्रव्याणामेव भवति अमूर्त्तजीवनादेर्वियोजनरूपः। उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तत्यागे इति भेदः।
त्यजस् = पु० त्यज–भावेऽसुन्। १ त्यागे “इन्द्रश्च न त्यजसा वि ह्रुणाति” ऋ० १। १६६। १२। “त्यजसा त्यागेन” भा० कर्त्तरिअमुन्। २ त्यागकर्त्तरि त्रि०। “चिद्धारयातेमहि! त्यजः” ऋ० १०। १४४। ६। त्यजो दुःखस्य वर्जयितृ भा० “न तं तिग्मं चन त्यजो न” ऋ० ८। ४७। ७। करणे असुन्। ३ क्रोधे च क्रोधात् प्रयुज्यमानमायुधं मुच्यते इति तस्य तथात्वम्।
त्यद् = त्रि० त्यज–“त्यजितनियजिभ्यो डित्” उ० अदि डिच्च। १ प्रसिद्धे। अस्य सर्वनामतया त्यदादिकार्य्यम्, स्यः त्यौ त्ये त्यस्मै त्यस्मात् त्येषां त्यस्मिन्। स्त्रियां स्था त्ये त्याः। क्लीवे त्यद् त्यें त्यानीति भेदः। २ सर्वदा परोक्षाभिधानार्हे वस्तुनि। “द्वे बाव ब्रह्मणो रूपे मूर्त्तञ्चैवामूर्त्तञ्च मर्त्यञ्चामृतञ्च स्थितञ्च यच्च सच्च त्यच्च। तदेतन्मूर्तं यदन्यद्वायीश्चान्तरीक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् तस्यैतस्य मूर्त्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सत्यो ह्येष रसः। अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस इत्यधिदैवतम्” वृ० उ०। “ते एते द्वे वाव वावशब्दोऽवधारणार्थः। द्वे एवेत्यर्थः। ब्रह्मणो परमात्मनो रूपे रूप्यते याभ्यामरूपं परमब्रह्माविद्याध्यारोपणाभ्यां के ते द्वे। मूर्त्तञ्च एव मूर्तमेव च। तथा अमूर्त्तञ्च एवामूर्तमेव चेत्यर्थः। अन्तर्नीतस्वात्मविशेषणे मूर्त्तामूर्ते द्वे एवेत्यवधार्य्येते। कानि पुनस्तानि विशेषणानि मूर्त्तामूर्तयोरित्युच्यन्ते। मर्त्यं मरणधर्म्यमृतञ्च तद्विपरीतम्। स्थितं परिच्छिन्नं गतिपूर्वकं यत् स्थास्नु। यच्च यातीति यद्व्याप्यपरिच्छिन्नं स्थितविपरीतम्। सच्च सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत्। तच्च तद्विपरीतं त्यदित्येव सर्वदा परोक्षाक्षाभिधानार्हम्। अथासूर्तमथाधुनाऽमूर्तमुच्यते। वायुश्चान्तरिक्षञ्च यत्परिशेषितं भूतद्वयं एतदमृतममूर्तत्वादस्थितमतोऽविरुध्यमानं केनचिदमृतममरणधर्म तद्यत् स्थितविपरीतं व्याप्यपरिच्छिन्नं यस्माद्यदेतदन्येभ्योऽप्ररित्यज्यमानविशेषमतस्त्यत्त्यदिति परोक्षाभिधानार्हमेव पूर्ववत्। तस्येतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्यैव रसः। कोऽसौ। य एष एतस्मिन्मण्डले पुरुषः करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते। यः स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः, एतत्पुरुषसारञ्चामूर्तं भूतद्वयं हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात्तस्मात्तादर्य्यात्तत् सारं भूतद्वयम्। त्यस्य ह्येष रसो यस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यसारश्च भूतद्वयस्य च साधर्म्यम्। तस्माद्युक्तं प्रसिद्धवद्धेतूपादानं त्यस्य ह्येष रस इति” पा० भाष्यम् “सूतो वा सूतपुत्रो वा यो वा स्यो वा भवाम्यहम्” वेणी०। अव्ययीभावे शदरा० अच् समासान्तः। उपत्यदम्।
त्यदादि = पु० पा० गणसूत्रोक्ते शब्दसमूहे। स च गणः “त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवत् किम्” “त्यदादीनामः” पा० अत्र अत्त्वबिधौ द्विपर्य्यन्तस्यैव ग्रहणमिति भाष्यकारेष्टिः।
त्याग = पु० त्यज–भावे घञ्। उत्सर्गे मूर्तद्रव्यस्य स्वत्वध्वंसानुकूलव्यापारे न ममेदमित्याकारे। “न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति” “उन्मत्तं पतितं क्लीवमवीरं पापरोगिणम्। न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम्” मनुः अमूर्तद्रव्यस्य २ वियोगमात्रे च। त्यागश्च सात्त्विकादिभेदात् त्रिविधः। यथाह गीता “नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः। दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। कार्य्यमित्येव यत् कर्म नियतं कुरुतेऽर्जुन!। सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः”। विशेषणाभावात् विशेष्याभावात् उभयाभावाच्च पुनरपि सात्त्विकस्त्यागः त्रिविधः तथा हि फलाभिसन्धिपूर्वककर्मत्यागः सत्यपि कर्मणि फलाभिसन्धित्यागादेकः। स च सात्त्विकत्वादादेयः। सत्यपि फलाभिसन्धौ कर्मत्यागात् द्वितीयः। स च दुःखबुद्ध्या कृतो राजसः विपर्य्यासेन कृतस्तामसः इति भेदः। द्विविधोऽपि हेयो भवति। फलाभिसन्धेः कर्मणश्च त्यागात् तृतीयः। स च कर्मानधिकारिकर्त्तृको नैर्गुण्यरूपः। सोऽपि साधनफलभेदेन द्विविधः। तत्र सात्त्विकेन फलाभिसन्धित्यागपूर्वककर्मानुष्ठानरूपेण त्यागेन शुद्धान्तःकरणस्योत्पन्नविविदिषस्य आत्मज्ञानसाधनश्रवणाख्यं वेदान्तविचाराय फलाभिसन्धिरहितस्यान्तःकरणशुद्धौ सत्यां तत्साधनस्य परित्यागः स एकः साधनभूतो विविदिषासन्न्यास उच्यते। जन्मान्तरकृतसाधनाभ्यासपरिपाकादस्मिन् जन्मनि आदावेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वत एव फलाभिसन्धेः कर्मणश्च परित्यागः फलभूतः स विद्वत्सन्न्यास इत्युच्यते। “त्यागप्रपञ्चरूपस्यचिदात्मत्वावलोकनात्। त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः। त्यागेन युक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति। न त्यागिनां दुष्करमस्ति किञ्चित् त्यागो हि सर्वव्यसनानि हन्ति” शब्दार्थचि० धृतवाक्यम्।
त्यागिन् = त्रि० त्यज–घिणुन्। १ दातरि, २ शूरे, ३ वर्ज्जनशीले, ३ कर्मफलत्यागिनि च “न द्वेष्ट्यकुशलं कर्म कुशलेनानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः। न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते” गीता “आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया” मनुः।
त्यागिमन् = त्रि० त्यागेन निष्पन्नं त्याग + इमन्। त्यागेन निर्वृत्ते।
त्याज्य = त्रि० त्यज + ण्यत् कुत्वाभावः। १ वर्ज्जनीये “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः” प्रा० त०। २ दातुं योग्ये च। “त्याज्यो दृष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता” रघुः। “सा त्ववाप्यान्यतो गर्भं त्याज्या भवति पापिनी। महापातकदुष्टा च पतिगर्भविनाशिनी” व्यासस०।
त्रक = गतौ भ्वा० आत्म० सक० सेट्। त्रकते अत्रकिष्ट। तत्रके।
त्रख = गतौ भ्वा० पर० सक० सेट् धातुपाठः। त्रखति अत्रखोत् अत्राखीत्। तत्राख।
त्रख = गतौ भ्वा० पर० सक० सेट् इदित् धातुपाठः। त्रङ्खति अत्रङ्खीत्। तत्रङ्ख।
त्रग = गतौ भ्वा० पर० सक० सेट् इदित्। त्रङ्गति अत्रङ्गीत्। तत्रङ्ग। अयं दिवा० धातुपाठः। त्रङ्ग्यति।
त्रङ्ग = पुंस्त्री त्रगि–अच्। पुरभेदे हरिश्चन्द्रपुरे सौभे उद्गङ्गे प्रतिमार्गके त्रिका०।
त्रद = चेष्टायां भ्वा० पर० अक० सेट् इदित्। त्रन्दति अत्रन्दीत्। तत्रन्द।
त्रप = लज्जायां भ्वा० आ० अक० वेट्। त्रपते अत्रपिष्ट अत्रप्त त्रेपे। णिच् वा घ०। त्रपयति त्रापयति। षित् त्रपा। “कान्तया कान्तसंयोगे किमकारि नवोढया। अत्रापि च क्रिया प्रश्नोत्तरा गुप्ता न बुध्यते” विदग्धमुख०। “अपेक्षाभिक्षायामपि किमपि चेतस्त्रपयति” शान्तिश०।
अप–अन्यतो लज्जायाम् “तस्माद्बलैरपत्रेपे” भट्टिः। “लज्जा सापत्रपान्यतः” अमरः।
त्रपा = स्त्री त्रप–भावे अङ्। १ लज्जायाम् अमरः। कर्त्तरि अच्। २ सलज्जे त्रि०। ३ कुलटायां स्त्री मेदि०। ४ कुले ५ कीर्त्तौ च शब्दच०।
त्रपाक = पुंस्त्री० त्रप–आक। म्लेच्छजातिभेदे उणादि०।
त्रपारण्डा = स्त्री त्रपायां रण्डा। लज्जाहीनायां वेश्यायां जटा० शब्दक० बस्तुतः त्रपारण्डेति नामद्वयं मेदिनौ त्रपाशब्दस्य वेश्यार्थकत्वोक्तेः रण्डाशब्दस्य च तदर्थप्रसिद्धेस्तत्समानार्थकत्वौचित्यात्।
त्रपिष्ठ = त्रि० अतिशयेन तृप्रः अतिशायने इष्ठन् प्रियादि० त्रपादेशः। तृप्रतरे।
त्रपीयस् = त्रि० अतिशयेन तृप्रः ईयसुन् त्रपादेशः। तृप्रतमे स्त्रियां ङीप्।
त्रपु = न० अग्निं दृष्ट्वा त्रपते लज्जते इव त्रप–उन्। १ सीसके २ रङ्गे च मेदि० तस्य विकारः अण् “त्रपुजतुनोः सुक् च” पा० सुक् च। त्रापुष तद्विकारे त्रि०। “ताम्रायःकांस्यरैव्यानां त्रपुणः सीसकस्य च” मनुः। “सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम्” भा० उ० ३८ अ०।
त्रपुकर्कटी = स्त्री त्रपु इव शुभा कर्कटी। (ससा) इति ख्याते लताभेदे।
त्रपुटी = स्त्री त्रप–बा०–उटक् गौरा० ङीष्। सूक्ष्मैलायाम्। रत्नमाला।
त्रपुल = न० त्रप–बा० उल। रङ्गे द्विरूपकोषः।
त्रपुष(स) = न० त्रपुस्याः (ष्याः) फलम् अण् फले तस्य लुप्। त्रपुषी(सी)फले। “त्रपुसं(षं) लघु नीलञ्च नवं तृट्क्लमदाहजित्। स्वादु पित्तापहं शीतं रक्तपित्तहरं परम्। तत्पक्वमम्लमुष्णं स्यात् पित्तलं कफवातनुत्। तद्वृहन्मूत्रलं शीतं रूक्षं पित्तास्रकृच्छ्रजित्” भावप्र०।
त्रपु(ष)स = न० त्रप–बा० उस(ष) १ रङ्गे द्विरूपकोषः। गौरा० ङीष् २ माहेन्द्रवारुण्यां कर्कटीभेदे (ससा) लताभेदे। सा च षीतपीष्पा काण्ण्डालुः बहुफला तुन्दिलफला कण्टकफला सुधावासा च।
त्रप्सा = स्त्री घनीभूतश्लेष्मादौ। “कृमिकीटपदक्षेपैर्दूषिता यत्र मेदिनी। त्रप्सया कर्षणैः क्षिप्ता वान्बैर्वा दुष्टतां व्रजेत्। नखदण्डतनूजत्वक्तुषपांशुरजोमलैः। भष्मपङ्कत्रणैर्वापि प्रच्छन्ना मलिना भवेत्” “त्रप्सा घनीभूतश्लेष्म दि” शु० त०।
त्रप्स्य = न० घनेतरदधनि अमरटीकायां विद्याविनोदः।
त्रय = न० स्त्री त्रयाणामवयवम् अयच्। त्रितये १ त्रित्वसंख्यायाम् “वेदत्रयं निरदुहत् भूर्भुवः स्वरितीति च” मनुः। स्त्रीत्वपक्षे ङीप्। “व्याघोतिष्ट सभावेद्यामसौ नरशिखित्रयी” माघः त्रयोऽवयवा अस्य अयच्। २ त्रित्वसंख्यान्विते त्रि० स्त्रियां ङीप्। “प्रत्यक्षमनुमानञ्च शास्त्रञ्च विविधागमम्। त्रयं सुविदितं कार्य्यं धर्म- शुद्धिमभीप्सताः” मनुः ङीषन्तः “ऋग्यजुःसामरूपे ३ वेदत्रये त्रित्वसंख्यान्वितेषु ऋगादिवेदेषु अमरः “एतद्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्वहम्” “त्रैविद्येभ्यस्तवीं विद्याद्दण्डनीतिञ्च शाश्वतीम्” मनुः। “ब्रह्माऽथ पुरुषो रुद्रस्त्रयमेतत् त्रयीमयम्। सर्गादावृङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः। रुद्रः साममयोऽन्ताय तस्मात् तस्याशुचिर्ध्वनिः” मनुः। ४ पुरन्ध्र्यां ५ सुमतौ स्त्र्यी विश्वः ६ सोमराजीवृक्षे स्त्री शब्दच०। ७ भवान्याम् दुर्गायाम्। यथा “ऋग्यजुःसामभागेन साङ्गवेदगतापि या। त्रयीति पट्यते लोके दृष्टा दृष्टार्थसाधिनीति” देवीपु०।
त्रयःपञ्चाशत् = स्त्री त्र्यधिका पञ्चाशत् त्रिशब्दस्य त्रय आदेशः। (तिपान्न) १ त्र्यधिकपञ्चाशत्संख्यायां २ तत्संख्यान्विते च बहुत्वेऽप्येकत्वम्। एवं त्रयोदशत्रयोविंशतित्रयस्त्रिंशत् त्रयश्चत्वारिंशत् प्रभृतयः त्र्यधिकदशादिसंख्यायां तत्संख्ये ये च। इयांस्तु भैदेः अशीतिभिन्ने चत्वारिंशदादौ वा त्रय आदेशः। तेन पक्षे त्रिचत्वारिंशादित्यादि तत्रार्थे अशीतौ नेति त्र्यशीतिः।
त्रययाय्य = पु० त्रयं जन्मत्रयं याति या–बा० आय्य। जन्मत्रयप्राप्ते “सूनुर्न त्रययाय्यः” ऋ० ६। २। ७। “त्रययाय्यो जन्मत्रयं प्राप्तः। जन्मत्रयं–स्मर्य्यते। मातुरग्रेऽधिजननात् द्वितीयं मौञ्जिबन्धनात्। तृतीयं यज्ञदीक्षाया इति जन्मत्रयं स्मृतमिति” तादृशः पुत्र इति” भा०।
त्रयस्त्रिंश = त्रि० त्रयस्त्रिंशत् + पूरणे डट्। त्र्यधिकत्रिंशत्संख्यापूरणे स्त्रियां ङीप्।
त्रयस्त्रिंशत्पति = पु० त्रयस्त्रिंशतो देवानां पतिः। १ इन्द्रे हेमच०। २ प्रजापतौ च तयोः त्र्यधिकत्रिंशतो देवानां पतित्वात् तथात्वम्। देवानां त्रयस्त्रिंशत्त्वं तु
“अष्टौ वसवः एकादश रुद्रा द्वादशादित्या इमे एव द्यावा पृथिवी त्रयस्त्रिंश्यौ, त्रयस्त्रिं शद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तदेनं प्रजापतिम्” शत० ब्रा० ४। ५। ६। २। “कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति” शत० ब्रा० ११। ६। ३। ५। तु अन्यथोक्ता अस्मिन् पक्षे निर्द्धारणसप्तम्यासमासात् इन्द्रप्रजापतिपरत्वम् तयोस्तेषां मध्ये श्रेष्ठत्वेन पतित्वात्तथात्वमिति बोध्यम्। “आदित्यांश्च वसूंश्चैव रुद्रांश्चैवाश्विनावपि” रामा० ३। २०। अन्यथा संख्योक्ता।
त्रयस्त्रिंशस्तोम = पु० त्रयस्त्रिंशत स्त्रोमा अस्य पृषो०। यज्ञ- भेदे। “त्रयस्त्रिंशस्तोमेन शोणः सात्रासाहः पाञ्चालो राजा। तदेतद्गाथयाऽभिगीतम् “सात्रासाहे यजमाने अश्वमेधेन तौर्वशाः। उदीरते त्रयस्त्रिंशाः षट्सहस्राणि वर्मिणाम्” शत० ब्रा० १३। ५। ४। १६।
त्रयस्त्रिंशिन् = न० त्रयस्त्रिंशत् ऋचः सन्त्यस्मिन् इनि डिच्च। त्रयस्त्रिंशदृग्भिर्गीयमाने सामभेदे। “त्रयस्त्रिंशि नाम साम माध्यन्दिने पवमाने भवति” तैत्ति० १। २। २। ४
त्रयीतनु = पु० त्रयी वेदा एव तनुरस्य। १ सूर्य्ये हला०। “स्वर्गद्वारं त्रय्या विद्याया भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते” भाग० ५। २०। ७। तस्य त्रयीमयत्वोक्तात्तथात्वम्।
त्रयीधर्म्म = पु० त्रय्या वेदत्रयेण विधीयमानो धर्भः शाक०। वैदिके धर्मे ज्योतिष्टोमादौ अमरः।
त्रयीमय = पु० त्रय्यात्मकः मयट्। १ सूर्य्ये त्रयीतनुशब्दे उदा० २ त्रयीधर्म्मात्मके त्रि०। “एवं मुहूर्त्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्त्तते पुरीषु” भाग० ५। २१। १७। “त्रयीमयं रूपमिदञ्च शौकरम्” इत्युक्ते वाराहे ३ रूपे न० तद्रूपविवृतिस्तत्रैव “स्रुक्तुण्ड आसीत् स्रुवईश! नासयोरिडी दरे चमसाः कर्णरन्ध्रे। प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम्। दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयणीयदंष्ट्रः जिह्वाप्रवर्ग्यस्तवशीर्षकं क्रतोः सत्यावसर्थ्यं चितयोऽसवो हि ते। सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः। सत्राणि सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः। नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्बक्रतवे क्रियात्मने” भाग० ३। १३। ४०। ४ परमेश्वरे च पु०। “स एष आत्मात्मववतामधीश्वरस्त्रयीमयो धर्भमयस्तपोमयः” भाग० २। ४। १९।
त्रयीमुख = पु० त्रयी मुखेऽस्य। विप्रे हेमच०।
त्रयोदशन् = त्रि० त्रयश्च दश च, त्र्यधिका वा दश शाक० त्रय आदेशः। १ त्र्यधिकदशसङ्ख्यायां २ तत्संख्यान्विते च। “क्वचित् द्वादश मासाः संवत्सराः क्वचित् त्नयोदश मासाः” श्रुतिः म० त०। ततः पूरणे डट्। त्रयोदश तत्पूरणे त्रि० “ज्यैष्ठे ज्येष्ठस्य कुर्वीत त्रयोदशदिनात् परम्” ज्यो० स्त्रियां ङीप्। सा च चन्द्रस्य त्रयोदशकलाक्रियात्मके तिथिभेदे सा च स्मरतिथिः तत्रैव तस्योत्पत्तेः। “त्रयोदशी पञ्चदशी च माघे” मन्वादिकथने “बरुणेन समायुक्ता मधौ कृष्णा त्रयोदशी” वारुणीकथने च ति० त०।
त्रय्यारुण = पु० मान्धातृवंश्ये त्रिधर्मणः सुते नृपभेदे “राज्ञ स्त्रिधर्मणश्चासीत् विद्वांस्त्रय्यारुणः सुतः” हरिवं० १३ अ०।
त्रस = गतौ ग्रहे निषेधे च चुरा० उभ० सक० सेट्। त्रसयति ते अतित्रसत् त।
त्रस = भासे बा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् इदित्। त्रिंसयति ते त्रंसति अतत्रंसत् त अत्रंसीत्।
त्रस = भये वा दिबा० पक्षे भ्वा० पर० अक० सेट्। त्रसति अत्रासीत् अत्रसीत् त्रत्रास फणा० त्रेसतुः तत्रसतुः। ईदित् त्रस्तः। तस्य दिवादित्वे सार्वधातुके श्यन्। त्रस्यति। “त्रस्यन्ती चलशफरीविघट्टितोरुः” माघः “त्रसत्तुराद्रिसुताससंभ्रमस्वयंग्रहाश्लेघसुखेन निष्क्रियाम्” “मुहुरत्रसद्भिरपि यत्र गौरवात्” माघः। “त्रस्यन् वै जायमानेभ्यः” भट्टिः। “ततो रामेति चक्रन्दुस्त्रेसुः परिदिदेविरे” भट्टिः “कपेरत्रासिषुर्नादान् मृगाः सिंहध्वनेरिव” भट्टिः। “राक्षसस्य न चात्रासीत् प्रनष्टुमयतिष्ट च” भट्टिः।
उद् + उत्कटत्रासे। “बालानुत्त्रासयन्ति ह” हरिवं० ३२७७।
त्रस = त्रि० त्रस–भये आधारे घञर्थे क। १ वने त्रिका०। त्रसगतौ अच्। २ जङ्गमे त्रि० अमरः। त्रसरेणुः।
त्रसदस्यु = पु० मान्धातृपौत्रभेदे। “तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप!। पुरुकुत्सञ्च धर्मज्ञं मुचुकुन्दञ्च धार्मिकम्। पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः” हरिवं० १२ अ०।
त्रसन = न० त्रस–भावे ल्युट्। १ भये २ उद्वेगे कर्तरि ल्यु। ३ त्रासयुक्ते त्रि०।
त्रसर = पु० त्रस–अरन्। तन्तुवायोपकरणभेदे (तासनी) अमरः
त्रसरेणु = पु० चसः चलो रेणुः कर्म०। “जालान्तरगते भानौ सूक्ष्मं यद्दृश्यते रजः। प्रथमं तत्प्रमाणानां त्रसरेणुं व्रचक्षते” मनूक्ते गवाक्षान्तर्गतसूर्य्यकिरणेषु १ दोधूयमाने रजसि २ परमाणुषट्कात्मकेद्व्यणुकत्रयात्मके रजसि “परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः” ब्रह्मवै०। “जालान्तरगते सूर्य्यकरे ध्वं सी विलोक्यते। त्रसरेणुस्तु विज्ञेयः त्रिंशता परमाणुभिः” इति वैद्यकपरिभाषया ३ त्रिंशत्परमाणुरूपे रजसि च। ४ सूर्य्यपत्नीभेदे स्त्री त्रिका०।
त्रसुर = त्रि० त्रस–उरच्। भीरौ संक्षिप्तसारः।
त्रस्त = त्रि० त्रस–क्तं। १ भीते २ चकिते। ३ शीघ्रे न०। “त्रस्तौ समासन्नकरेणुमुक्तात्” “त्रस्तः समस्तजनहासकरः करेणुः” माघः “जुमोपात्मानमत्रस्त्रः” रघुः।
त्रस्नु = त्रि० त्रस–क्रु। भीरौ त्रासशीले अमरः। “सीतां सौमित्रिणा त्यक्तां स ध्रीचीं त्रस्तुमेकिकास्” भट्टिः “अत्र त्रस्नुभिर्युक्तधुरं तुरङ्गैः” रघुवंशकाव्यम्।
त्रा = पालने अदा० आ० सक० अनिट् क्रमदीश्वरः। त्राते अत्रात। “कान्तारे ब्राह्मणान् गाश्च यः परित्राति कौशिकः!” भा० अनु० ७३ अ०। आर्षत्वात् पदव्यत्ययः।
त्राण = न० त्रै–पालने भावे ल्युट् भावे क्त तस्यनो वा। १ रक्षणे। कर्मणि क्त वा तस्य नः। २ रक्षिते त्रि० ३ त्रायमाणालतायां न० मेदि० तत्रार्थे स्त्री राजनि०। “न कुयादात्मनस्त्राणं गोरकृत्वा तु शुक्तितः” मनुः।
त्रात = त्रि० त्रै–कर्मणि क्त वा तस्य नत्वाभावः। १ रक्षिते भावे क्त। २ रक्षणे न०।
त्रापुष = त्रि० त्रपुषा निर्वृत्तम् अण् सुक् च। रङ्गमये पात्रादौ।
त्रामन् = त्रि० त्रै–पालने मनिन्। १ रक्षके “तव त्रामभिरिन्द्र! तूर्वयानम्” ऋ० १। ५३। १०।
त्रायन्ती = स्त्री त्रै–सम्प० भावे क्विप् त्राः तामयति गच्छति भ्वा० इ गतौ शवृ–ङीप्। त्रायमाणालतायाम् अमरः। “त्रायन्ती तुवरा तिक्ता सरा पित्तकफापहा। ज्वरहृद्रोगगुल्मास्रभ्रमशूलविषप्रणुत्” भावप्र०। “कलसी वृहती द्राक्षा त्रायन्ती निम्बगोक्षुरीः” सुश्रु०। स्वार्थे क। त्रायन्तिका तत्रार्थे “प्रियङ्ग्वनन्तायूथिका पद्मत्रायन्तिकालोहतिकाम्बष्टादाडिमत्वक्शालपर्णीपद्मतुङ्गकेशरधातकीबकुलशाल्मलीश्रीवेष्टकमोचरसेष्वरिष्टानयस्कृतीर्लेहानासवान् कुर्वींत” सुश्रु०।
त्रायमाण = त्रि० त्रायते त्रै–कर्मणि शानच्। १ रक्ष्यमाणायां (बाला)ख्यातायां २ लतायाम् अमरः। स्वार्थे क। तत्रार्थे स्त्री राजनि०।
त्रायोदश = त्रि० त्रयोदश्यां भवं सन्धिवेला० अण्। त्रयो दशीभवे।
त्रास = पु० त्रस–भावे घञ्। १ भये “त्रासाकुलः परिपतन् परितो निकेतान्” माघ०। २ मणिदोषभेदे च मेदि०।
त्रासन = न० त्रस–णिच् भावे ल्युट्। १ भयोत्पादने कर्तरि ल्यु। २ भयोत्पादके त्रि०।
त्रि = त्रि० ब० व० तॄ–ड्रि। त्रित्यसंख्याविशिष्टे। “इति वेदास्त्रयस्त्रयी” अमरः “न्यायैस्त्रिभिरुदीरणम्” कुमा० “त्रिभ्य एव तु वेदेभ्यः पादत्रयमददुहत्” मनुः। स्त्रियां गौण्ये मुख्ये च विभक्तौ परतः त्रिस्रादेशः। तिंस्रः अतित्रिसा कैश्चित्तु प्रियत्रिसेत्युदाहृतम् तच्चिन्त्यम् “त्रिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन्” कुमा०। त्रयाणां वेदे तु क्वचित् त्रीणाभिति रूपं “महि! त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः” ऋ० १०। १८५। १।
त्रिंश = त्रि० त्रिंशत् + पूरणे डट्। त्रिंशत्पूरणे, त्रिंशत्तमे “त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते” सू० सि०।
त्रिंशक = त्रि० त्रिंशता क्रीतः वुन् डिच्च। तिंशतसंख्यान्वितद्रव्येण क्रीते वस्तुनि।
त्रिंशत् = त्रि० त्रयोदशतः परिमाणमस्य नि०। १ त्रिदशकसंख्यायां २ तत्संख्यान्विते च। तत्र संख्येये “निमेषा दश चाष्टौ च काष्ठाः त्रिंशत्तु ताः कलाः। त्रिंशत् कलामुहूर्तः स्यादहोरात्रन्तु तावतः” “त्रिंशंद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम्” मनुः “संख्यायां “तत्त्रिंशता भवेन्मासः” सू० सि०।
त्रिंशत्क = त्रि० त्रिंशत्परिमाणमस्य कन्। १ त्रिंशत्परिमाणे अवयवे कन्। २ तत्संख्यायाम् “अमावास्याः पृथक् तेषां त्रिंशत्कं परिचक्षते” कामन्द०।
त्रिंशति = स्त्री त्रिं शत् + पृषो०। १ त्रिंशत्संख्यायां २ तत्संख्येये च। “पञ्चकं मण्डलं जय्यं त्रिंशत्याञ्च मनीषिभिः” काम०
त्रिंशत्तम = त्रि० त्रिंशतः पूरणः तमप्। १ त्रिंशत्संख्यापूरणे स्त्रियां ङीप्। “ततस्त्रिंशत्तमे व्यहे पङक्तिष्वतिष्ठन्त” शत० ब्रा० १०। ४। २। २३।
त्रिंशत्पत्र = न० त्रिंशत्संख्यानि पत्राणि दलानि प्रतिपुष्पमस्य। १ कुमुदे शब्दमाला।
त्रिंशांश = पु० त्रिंशस्त्रिंशत्पूरणोऽंशः। राशेस्त्रिंशत्पूरणे भागे षष्टिकलात्मके भागे षडवर्गान्तर्गतानां राशिभेदे तेषामंशविशेषाणामधिपतयः ज्यो० उक्ता यथा
“पञ्च पञ्चाह्यद्रिवाणा विषमे त्रिंशदंशकाः। माहेयशनिजीवज्ञशुक्राणां व्युत्क्रमात् समे”। विषमराशौ कुजशनिगुरुबुधशुक्राणां पञ्च पञ्चाष्टसप्तपञ्चमितास्त्रिंशांशकाः क्रमात् ज्ञेयाः। समे राशौ व्युत्क्रमात् तेषां विपर्य्ययेण त्रिंशांशा ज्ञेयाः। यथा मेषो विषमराशिः तत्र प्रथमावधिपञ्चांशा भौमस्य। षष्ठांशमारभ्य दशमांशपर्य्यन्तं पञ्चांशाः शनेः। एकादशांशमारभ्याष्टादशांशपर्य्यन्तमष्टार्वशा गुरोः। ऊनविंशांशमारभ्य पञ्चविंशंशपर्य्यन्तं सप्तांशा बुधस्य। ततः षड्विंशांशमारभ्य त्रिंशांशपर्य्यन्तं पञ्चांशाः शुक्रस्य त्रिंशांशाः क्रमात् ज्ञेयाः। मिथुनसिंहतुलाधनुःकुम्भेष्वप्येवम्। समराशौ व्युत्क्रमाद्यथा। वृषे प्रथमांशमारभ्य पञ्चांशा भृगोः। ततो द्वादशांशपर्य्यन्तं सप्तांशा बुधस्य, ततो विंशांशपर्य्यन्तमष्टावंशा गुरोः। ततः पञ्चविंशांशपर्यन्तं पञ्चाशाः कुजस्य त्रिंशांशाः। एवं कर्ककन्यावृश्चिकमकरमीनेष्वपि वोध्र्याः। त्रिंशदंशका इत्यत्र वृत्तौ त्रिभागवत् पूरणार्थता
त्रिंशिन् = त्रि० त्रिंशत् प्रमाणमस्य इनि डिच्च। त्रिंशत्प्रमाणे स्त्रियां ङीप्।
त्रिक = न० त्रयाणां संघः कन्। १ त्रित्वसङ्ख्यायाम् २ पृष्ठवंशाधोभागे, ३ कटिभागे, ४ त्रिफलायाम् (हरितक्यामलकीवयस्थाफलत्रये) ५ त्रिकटुनि, (शुण्ठोपिप्पलीमरिचत्रये)। वातादिषु मिलितेषु त्रिषु कायति कै–क। ६ गोक्षुरे पु० अमरः। ७ त्रिपथसंस्थाने हेम०। ८ त्रिमदे “गुडुचीसारसंयुक्तात् त्रिकत्रयसमन्वयात्। वातरक्तं निहन्त्याशु सर्वरोगहरन्त्वयः” सुखबोधः त्रिकत्रयं त्रिकटुत्रिमदम् त्रिफलम् चेति त्रयमित्यर्थः। “युगं ससूत्कारविवर्तितत्रिकः” माघः। “व्यपोढपार्श्वैरपवर्तितत्रिका” किरा०। “त्रिफला तु फलत्रिकम् “कश्चिद्विवृत्तत्रिकभिन्नहारः” रघुः। “एकं द्विकं त्रिकं चैव चतुषकं पञ्चकं तथा” हरिका०। तृतीयेण रूपेण ग्रहणं यस्य कन् पूरणप्रत्ययस्य वा लुक्। ९ तृतीयके त्रि०। त्रयः अधिकाः शुल्कं लाभो वृद्धिर्वा यत्र शतादौ १० त्र्यधिकलाभादियुक्ते शतादौ। “द्विकं त्रिकं चतुष्कञ्च पञ्चकञ्च शतं सभम्। मासस्य वृद्धिं गृह्णीयात् वर्णानामनुपूर्वशः” मनुः। (शतकरा तिनटाका सुद) “स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं स्मृतम्” इत्युक्ते ११ सन्धिभेदे न०।
त्रिककुद् = पु० त्रीणि ककुदतुल्यानि शृङ्गाण्यस्य ककुदस्य अन्त्यलोपः समा०। त्रिकूटाख्ये पर्वतभेदे अमरः। पर्वत एवास्य अन्त्यलोपः नान्यत्र। तत्र त्रिककुद तद्युक्ते त्रि०। २ विष्णावपि पु० वा अन्त्यलोपः। “तथैवासं त्रिककुदो वाराहं रूपमास्थितः। त्रिककुत् तेन विख्यातः शरीरस्य प्रमापणात्” भा० शा० ३४४ अ०। ३ दशरात्रसाध्ये यज्ञभेदेऽपि वा अन्त्यलोपः। “त्रिककुद्वा एष यज्ञो यद्दशरात्रः ककुत् पञ्चदशः ककुदेकविंशः ककुत्त्रयस्त्रिंशो य एवं विद्वान् दशरात्रेण यजते त्रिककुद एव समानानाम्” तै० स० ७। २। ५। २। “चतुष्टोमात् समूढ्वा त्रिककुदः शस्त्रम् अथ महात्रिककुदश्च, छन्दोमत्रिककुदश्च” सा० श्रौ० १९। २९। १४। “यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं गिरिं तिककुदमकरोत्” शत० व्रा० ३। १। ३। १२। “वर्षिष्ठः पर्वतानां त्रिककुन्नाम ते पिता” अथ० ४। ९। ८।
त्रिककुभ् = पु० त्रेधा कं पीतमुदकं स्कुभ्राति स्कुन्म क्विप् छान्दसः सलोपः। १ उदाने वायौ “उदानो वै त्रिककृप्छन्दः” शत० ब्रा० ८। ५। २। ४। २ नवरात्रसाध्ये यज्ञ- भेदे। त्रिककुभोऽप्यत्र। त्रिककुबध्यर्द्धः पृष्ठ्यः। महात्रिककुप् व्यूढो नवरात्रः। समूढत्रिककुप्समूढः” आश्वा० श्रौ० १०। ३। २१ नवरात्र इत्यनुवर्त्तते, नारा० “चतुष्टोम त्रिककुबवध्यर्द्ध्वोऽभिप्लवः एतैश्चतुर्भिः स्वानां श्रैष्ट्यकामो यजेत। २२ एतैस्त्रिककुम्महात्रिककुप्समूढत्रिककुप् चतुष्टोमत्रिककुब्भिः स्वानां श्रैष्ट्यकामो यजेत। एतेषां दशमो वैश्वानर एव भवति। कामश्चैतेषामेकैकेन सम्बध्यते” नारा०।
त्रिककुब्धामन् = पु० मूर्द्धाधोमध्याभेदेन त्रिसृणां ककुभां दिशां समाहारः त्रिककुब् तत् धाम आश्रयो यस्य। विष्णौ विष्णुस०।
त्रिकट = पु० त्रीन् वातादिदोषान् कटति आवृणोति अच्। गोक्षुरवृक्षे शब्दर०।
त्रिकटु = न० त्रयाणां कटुरसानां समाहारः। मिलितेषु शुण्ठीपिप्पलीमरिचेषु हेम०। “विश्वोपकुल्यामरिचं त्रयं त्रिकटु कथ्यते। त्र्यूषणं दीपनं हन्ति श्वासकास त्वगामयान्। गुल्ममेहकफस्थौल्य मेदश्लीपदपोनसान्” भावप्र०।
त्रिकण्ट = पु० त्रयः कण्टाः कण्टका अस्य। १ गोक्षुरे २ स्नुहीवृक्षे, च रत्नमा०। (टेङ्गरा) ३ मत्स्यभेदे शब्दर०। ४ पत्रगुप्ते शब्दच०। वृहत्यग्निदमनीदुःस्पर्शात्मके ५ द्रव्ये राजनि०।
त्रिकण्टक = पु० स्त्री लघुगर्गमत्स्ये त्रिका० समा० द्वि०। २ कण्टकत्रये स्त्री। ततः परिमाणे रजता० अञ्। त्रैकण्टक तत्परिमाणे। त्रयः कण्टका अस्य। ३ गोक्षुरकवृक्षे पु० हेमच०। ४ कण्टकत्रयान्विते त्रि०।
त्रिकद्रुक = पु० ज्योतिर्गौरायुरित्येतन्नामके “अभिप्लवाहत्रिके “अभिप्लवत्र्यहं पूर्वं त्रिकद्रुका इत्याचक्षते” आश्व० श्रौ० ११। १। ११ त्रिकद्रुकेषु पाहि सोममिन्द्र!” ऋ० २। ११। १७ “त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेषु आभिप्लविकेष्वहः स्युः भा० “त्र्यहार्थे ज्योतिर्गौरायुरिति त्रिकद्रुकाः” कात्या० श्रौ० २४। १। ९ त्रिकद्रुक इति ज्योतिरादीनां समुदितानां संज्ञा संव्यवहारार्था” कर्कः “त्रिकद्रुकाः पृष्ठावलम्ब्य इति पशुकामस्य” आश्व० श्रौ०। १०। ३। १९।
त्रिकर्म्मन् = पु० त्रीणि कर्म्माण्यस्य। यजनं याजनञ्चैव तथा दानप्रतिग्रहौ। अध्यापनञ्चाध्ययनं षट् कर्मा धर्मभाग् द्विजः” भा० अनु० १३१ अ०। उक्तेषु षट्सु कर्मसु मध्ये वृत्त्यर्थयाजनप्रतिग्रहाध्यापनभिन्नावृत्त्यर्थदानेज्याध्ययनरूपकर्मकारिणि द्विजे। “त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः। त्रिकर्मा त्रिपरिक्रान्तो मैत एष स्मृतः द्विजः” भा० अनु० १४१ अ०।
त्रिकश = न० त्रिसृणां कशानां तदाघातानां समाहारः। कशाघातत्रये। कशाघातत्रिकञ्च कशशब्दे १८३४ पृ० दर्शितम्।
त्रिकशूल = न० ६ त०। वातजन्ये त्रिकस्थे व्यथाभेदे। “स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं स्मृतम्। तत्र वातेन या पीडा त्रिकशूलं तदुच्यते” भावप्र०।
त्रिका = स्त्री त्रिधा कायति कै–क। कूपसभीपस्थे जलोद्धारके त्रिदारुमये यन्त्रभेदे क्षीरस्वामी।
त्रिकाण्ड = पु० त्रीणि काण्डान्यस्य। स्वर्गवर्गादिकाण्डभूमिवर्गादिकाण्डसामान्यकाण्डरूपात्मके नामलिङ्गानुशासने अमरसिंहकृते १ कोषभेदे तस्यैव शेषभूतस्त्रिकाण्डशेषः पुरुषोत्तमकृतः यथाह तदुपोद्घाते “अलौकिकत्वादमरः स्वकोषे न यानि नामानि समुल्लिलेख। विलोक्य तैरप्यधुना प्रचारमयं प्रयत्नः पुरुषोत्तमस्य”। २ निरुक्ते तदपि त्रिकाण्डं तच्चानुक्रमणिकाभाष्ये दर्शितम् यथा “आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा। तृतीयं दैवतं चेति समाम्नायस्त्रिधा मतः”। त्रयाणां कण्डानां समाहारः ङीप्। त्रिकाण्डी ३ काण्डत्रये स्त्री। त्रीणि काण्डानि प्रमाणमस्य मात्रच् द्विगोस्तस्य लुकि क्षेत्रपरत्वे ङीप् त्रिकाण्डी क्षेत्रभक्तिः। त्रिकाण्डमिते रज्ज्वादौ स्त्री टाप्।
त्रिकाय = पु० त्रयः काया अस्य त्रिकं दुःखत्रिकमेत्यस्मात् इअपादाने अच् वा। बुद्धदेवे हेमच०।
त्रिकार्षिक = न० कर्षाय हितम् ठक् त्रयाणां वातपित्तकफानां कार्षिकम्। नागरातिविषामुस्तारूपे मिलिते औषधभेदे राजनि०।
त्रिकाल = न० त्रयाणां कार्य्यकालभूतभविष्यत्कालानां समाहारः। १ भूतभविष्यद्वर्तमानकालत्रये २ प्रातर्मध्याह्नरूपकालत्रये च। “त्रिकालं पूजयेद्देवीम्” इति तन्त्रम्। त्रिकालज्ञः। त्रयः काला अस्य। ३ कालत्रयवर्त्तिनि ति०। साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्” सां० का०। करणस्य मनसः त्रिकालबुद्ध्यादिसाधनत्व यथा “नदीपुरभेदादभूद्वृष्टिः, अस्ति धूमादग्निरिह नगनिकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणाद्भविष्यति वृष्टिरिति। तदनुरूपाश्च सङ्कम्पाभिमानाध्यवसाया भवन्ति” सा० कौ०।
त्रिकालज्ञ = पु० त्रिकालवर्त्तिपदार्थान् जानाति ज्ञा–क। १ सर्वज्ञे त्रिकालबिदादयोऽप्यत्र। २ भूतभविष्यद्वर्त्तमानकालाभिज्ञे त्रि०। “युद्धं यथा यदा वा भविष्यदादिश्यते त्रिकालज्ञैः” वृ० स० १७ अ०। त्रिकालवेत्ताप्युभयत्र।
त्रिकालदर्शिन् = पु० त्रिकालं तद्वर्तिवस्तु पश्यति दृश–णिनि। १ऋषौ हारा०। २ त्रिकालज्ञे त्रि० “प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति” वृ० स० २१ अ०।
त्रिकूट = पु० त्रीणि कूटानि शृङ्गाण्यस्य। लवणसमुद्रमध्यस्थे लङ्कापुराधारे पर्वतभेदे अमरः। “तैरूहे केशरिक्रान्तत्रिकूटशिखरोपमा” माघः “स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटस्य तटे लङ्कां स्थितः खस्थो ददर्श ह” रामा० सु० २ अ०। स आकरत्वेनास्त्यस्य अच्। २ तद्भवे सामुद्रलवणे न०। ३ सुमेण्सुते क्षीरोदसमुद्रतीरस्थे पर्वते च तत्कथा वामनपु० “सर्वरत्नमयः श्रीमान् त्रिकूटो नाम पर्वतः। सुतः पर्वतराजस्य सुमेरोर्भास्कर द्युतेः। क्षीरोदजलवीच्या यो धौतामलशिलातलः। उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः” इत्युपक्रमे “तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः। नानापुष्पसमायुक्तं नानागन्धाधिबासितम्। द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः। पाण्डुराम्बुदसंकाशं तुषारचयसन्निभम्। वज्रेन्द्रनीलवैदूर्य्यतेजोभिर्भासयन् दिशः। तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम्। न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः। नातप्ततपसो लोका ये च पापकृतो जनाः। तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम्। कारण्डवसमाकीर्णं राजहंसोपशोभितम्। गजोह्यचलसंकाशो मदाच्चलितलोचनः। तृषितः पातुकामोऽसायवतीर्णश्च तज्जलम्। संलीनः पङ्कजवने यूथमध्यगतश्चरन्। गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना। गरुडस्थो जगन्नाथो लोकाधारस्तपोधन!। ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात्। उज्जहाराप्रमेयात्मा तरसा मधुसूदनः। स्थलस्थं दारयामास ग्राहं चक्रेण माधवः। मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम्”।
त्रिकूटलवण = न० त्रिकूटं सामुद्रमिव लवणम्। द्रोणीलवणे राजनि०।
त्रिकूटवत् = पु० त्रीणि कूटानि सन्त्यस्य मतुप् मस्य वः। १ त्रिकूटपर्वते। “हिमवान् पारिपात्रञ्च सह्यः सुह्मस्त्रिकूटवान्” भा० आश्वमेधिकप० श्रेष्ठपर्वतकथने” ४३ अ०।
त्रिकूटा = स्त्री भैरवीभेदे तन्त्रसा०।
त्रिकूर्चक = न० सुश्रुतोक्ते शस्त्रभेदे अर्द्धधारशब्दे ३७५ पृ० दृश्यम्। “विशेषेण बालवृद्धकुमारभीरुनारीणां राज्ञां राजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत्” सुश्रु०।
त्रिकोण = त्रि० त्रयः कोणा यस्य। त्रिकोटियुक्ते १ पदार्थे “विन्दुत्रिकोणवसुकोणदशारयुग्मम्” तन्त्रे श्रीचक्रोक्तौ। ज्योतिषोक्ते लग्नात् २ नवमपञ्चमस्थाने न०। “त्रिकोणं नवपञ्चमम्” दोपि०। “त्रिकोणगान् गुरुश्चैव पश्यन् पूर्णफलप्रदः” ज्यो० त०। ३ मोक्षे शब्दकल्पतरुः। ४ त्रिभुजे क्षेत्रभेदे न०। क्षेत्रशब्दे २३९१ पृ० समत्रिकोणविषमत्रिकोणादिस्वरूपादिकमुक्तम्। ५ कामरूपपीठभेदे “करतोयां समारभ्य यावद्दिक्करवासिनीम्। शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम्” कामाख्यातन्त्रम्। त्रिकोणपदार्थाश्च कतिचित् कविकल्पलतायां संक्षिप्य दर्शिताः। “हलहरनेत्रकामाख्यावह्निमण्डलैकारवज्शृङ्गाटशकटयोनिरूपाः”।
त्रिकोणफल = न० त्रिकोणं फलमस्य। १ शृङ्गाटके भावप्र०। ६ त०। त्रिभुजक्षेत्रफले “लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे फलं भवति” लीला०।
त्रिक्षार = न० त्रयाणां क्षाराणां समाहारः। मिलिते सर्जिकाक्षारयवक्षारटङ्कणक्षारेषु।
त्रिक्षुर = पु० त्रीणि क्षुराणीवाग्राण्यस्य। कोकिलाख्यवृक्षे रत्ना०।
त्रिख = न० त्रिधा खमाकाशोऽवकाशः फलेऽत्र। त्रपुषे शब्दच०।
त्रिखट्व = न० त्रिसृणां खट्वानां समाहारः। खट्वात्रये। ततः वा ङीप्। तत्रार्थे स्त्री अमरः।
त्रिखर्व = पु० सामवेदशाखाभेदाध्यायिनि “तामेतान्त्रिखर्वा उपासते तस्मात्ते स्पर्द्धमाना न व्लीयन्ते” ताण्ड्यब्रा० २। ९। ३। “तामेतां दशसप्ताख्यां विष्टुतिं त्रिखर्वाः शाखिन उपासते प्रयुञ्जते” भाष्यम्।
त्रिगङ्ग = अव्य० त्रिस्रो गङ्गा नद्यो यत्र बहुव्रीह्यर्थे “नदीभिश्च” पा० अव्ययी०। १ तीर्थभेदे। “सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्। सुधां चैव लभेत् भोक्तुं यो नरो जायते पुनः” भा० अनु० २५ अ०।
त्रिगण = त्रि० ६ त०। १ त्रिवर्गे अमरटीकायां नीलकण्ठः “न वाधतेऽस्य त्रिगणः परस्परम्” किरा०।
त्रिगन्धक = न० त्रयाणां गन्धकद्रव्याणां समाहारः। १ त्रिजातके त्रि० नैघण्टुपारस्करः। त्रिसुगन्धिकमप्यत्र। त्रिजातकशब्दे दृश्यम्।
त्रिगम्भीर = पु० त्रिभिर्गम्भीरः। स्वरेण सत्त्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः” काशी० ११ अ० उक्ते शुभलक्षणयुक्ते “त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः” इत्युपक्रमे “नाभिः स्वरः सत्वमिति प्रदिष्टं गम्भीरमेतत्त्रितयं नराणाम्” वृ० स० ६८ अ०।
त्रिगर्त्त = पु० त्रीणि गर्त्तानि यत्र। १ जालन्धरे देशे हेमच०। स च देशः वृ० स० १४ अ० कूर्मविभागे उत्तरस्यामुक्तः “उत्तरतः कैलास” इत्युपक्रमे “आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः” सोऽस्याभिजनः, तस्य राजा वा अण्। त्रैगर्त्त पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च बहुषु अणो लुक्। २ तत्रार्थे ब० व०। “द्रविडाम्बष्ठत्रिगर्तसौराष्ट्रान्” वृ० स० ९ अ०। “सुशर्मा च नरव्याघ्र! त्रिगर्तः प्रस्थलाधिपः” भा० द्रो० १७ अ०। आर्षत्वात् एकत्वेऽपि अणोलुक्। “मद्रराजश्च बलवान् त्रिगर्त्तानाधीश्वरः” हरिवं० ९१ अ०। स्वार्थे क। तत्रार्थे त्रिका०।
त्रिगर्तषष्ठ = पु० ब० व० त्रिगर्त्तः षष्ठो वर्गो यस्य। १ आयुजीविसंघभेदे स च संघः सि० कौ० उक्तो यथा “आहुस्त्रिगर्त्तषष्ठास्तु कौण्डोपरथदाण्डिकी। क्रौष्टुकिर्जालभालिश्च ब्रह्मगुप्तोऽथ जालकिः” “दामन्यादित्रिगर्त्तषष्ठाच्छः” पा० स्वार्थे तेभ्यः छ। काण्डोपरथीय इत्यादि।
त्रिगर्त्ता = स्त्री त्रयो योनिस्था गर्त्ताः अस्याः। कामुक्यङ्गनायां मेदि०। एकयोनिकाया अपि तस्या मैथुनाचरणे त्रियोनिकतुल्यत्वात्तथात्वम्।
त्रिगुण = न० त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः। समाहृता वा त्रयो गुणाः, त्रयोगुणा अस्य वा। सांख्यमतसिद्धे साम्यावस्थापन्नगुणत्रयात्मके १ प्रधाने। “त्रिगुणमविवेकिविषयं सामान्यमचेतनं प्रसवधर्मि” सा० कौ० “त्रिगुणं त्रयो गुणाः सुखदुःखभोहा अस्येति त्रिगुणं तदनेन सुखादीनामात्मगुणत्वं पराभिमतमपाकृतम्” त० कौ० “शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम्। त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्” विष्णु पु० “सत्त्वरजस्तमसां साम्यवस्था प्रकृतिः प्रकृतेर्महान्महतोऽहङ्कारोऽहङ्कारात् पञ्च तन्मात्राण्युभयमिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः” सा० सू० “सत्त्वादीनि द्रव्याणि न वैशेषिकवद्गुणाः संयोगवत्त्वात्, लघुत्वचलत्वगुरुत्वादिघर्मकत्वाच्च। तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात्पुरुषपशुवन्धकत्रिगुणात्मकमहदादिरज्वु निर्मातृत्वाच्च प्रयुज्यते। तेषां सत्त्वादिद्रव्याणां या साम्यावस्था न्यूनानतिरिक्तावस्था न्यूनाधिकभावेनासंहतावस्थेति यावत्। अकार्यावस्थेति निष्कर्षः। अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः। यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात् “सत्त्वं रजस्तम इति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च। सत्त्वादीनामनुगमाय सामान्येति। पुरुषव्यावर्तनाय गुणेति। महदादिव्यावर्तनाय चोपलक्षितान्तमिति। महदादयोऽपि हि कार्य्यसत्त्वादिरूपाः पुरुषोपकरणतया गुणाश्च भवन्तीति। तदत्र प्रकृतेः स्वरूपमेवोक्तम्” भाष्यम् २ सत्त्वादिगुणयुक्ते त्रि० “महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च। विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च” मनुः। त्रिभिर्गुण्यते गुण–घञर्थे क। ३ त्रिभिर्गुणिते त्रि० “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य” रघुः “व्रताय मौञ्जीं त्रिगुणां बभार याम्” कुमा० “एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्। त्रिगुणं स्याद्वनस्थानां यतीनान्तु चतुर्गुणम्” मनुः। त्रयोगुणा अस्याः। ४ मायायां स्त्री ५ तन्नामके (ह्रीं) वीजभेदे च “वेदाद्यं त्रिगुणां रमामथ वदेत् कामेन संसेविताम्” तन्त्रसा० श्रीविद्यामन्त्रभेदोक्तौ ६ त्रिशिखे त्रिशूले “त्रिगुणपरिवारप्रहरणः” किरा०। “त्रिगुणः त्रिशिखः परिवार आकारो यस्य” मल्लि०। कर्णशब्दे परेऽस्य लक्षणपरत्वे दीर्थत्वम् त्रिगुणौ कर्णौ अस्य। त्रिगुणाकर्ण तथा लक्षणयुक्ते त्रि०! “पदैस्त्रिभिर्वलिर्वद्धो रागादि त्रिपदाथ वा। उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता” देवीपु० ४५ अ० उक्तेः ७ दुर्गायां स्त्री।
त्रिगुणाकृत = त्रि० त्रिगुणं कृत्वा कृष्टं डाच् कृ–क्त। त्रिधाहलेन कृष्टे क्षेत्रादौ अमरः।
त्रिगुणात्मक = न० त्रयो गुणाः तेजोबन्नरूपा आत्मानोऽस्य। अज्ञाने। “गुणाश्च लोहितशुक्लकृष्णाः अज्ञानकार्य्येषु तेजोबन्नेष्ववान्तरप्रकृतिषु श्रुतिप्रसिद्धाः। तथा च कार्य्यगतत्रिरूपेण कारणमप्यज्ञानमव्यक्त्वात्मकं त्रिगुणात्मकम्। यद्वा रजःसत्त्वतमोलक्षणास्त्रयोगुणास्तद्युक्तमज्ञानं गुणगुणिनोरभेदबिवक्षया त्रिगुणात्मकं भवति।
त्रिगुणित = त्रि० त्रिभिर्गुणितः। त्रिरावृत्ते।
त्रिगुणी = स्त्री त्रयो गुणाः पत्रेऽस्याः गौरा०। विल्ववृक्षे तस्य पत्रस्य त्रिगुणात्मकत्वात्तथात्वम्। “मूलं धार्य्यं त्रिगुण्याः सवितरि विगुणे, क्षीरिकामूलमिन्दौ” ज्यो० “त्रिगुणी श्रीफलवृक्षः” प्रमिता०।
त्रिचक्र = पु० त्रीणि चक्राण्यस्य। अश्विनीकुमारयोः रथे। “अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीवाश्वो अश्विनो यांतृ सृष्टुतः” ऋ० १। १५७। ३।
त्रिचक्षुस् = पु० त्रीणि चक्षुष्यस्य। त्रिनेत्रे शिवे “त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च” भा० शा० ४३ अ०।
त्रिचतुर = त्रि०। त्रयो वा चत्वारो वा विकल्पार्थे बहु० डच् समा०। विकल्पेन त्रित्वचतुष्कसंख्यान्विते(तिन वा चार) अर्थे। “सद्यः पुरीपरिसरे च शिरीषमृद्वी गत्वा जवात् त्रिचतुराणि पदानि सीता” सा० द०।
त्रिचित् = पु० त्रोन् + अग्नीन् चिनोति स्म चि–भूते क्विप्। अतीताग्नित्रयचयनकर्तरि।
त्रिचित = पु० त्रिभागोत्मेधाभिरिष्टाकाभिः चितः। गार्हपत्येऽग्निभेदे। “त्रिचितमित्येके” कात्या० श्रौ० १७। १। २२। “गार्हपत्यं कुर्वन्ति तत्र च त्रिभागोत्सेधा इष्टका इति सम्प्रदायः। अस्मिंश्च पक्षे प्रथमचितिः लोकंपृणानां पूरणं मृग्यम्” कर्कः। “उपर्येव चितित्रयात्मकं चिनोति। अथ यो गार्हपत्येऽग्निः सोऽस्यावाङ् प्राणाः तं हैके त्रिचितं चिन्वन्ति” शत० ब्रा० ७। १। २। १५।
त्रिजगत् = न० त्रिगुणितं जगत् संज्ञात्वात् कर्मधारयः। स्वर्गमर्त्यपातालरूपे लोकत्रये “तस्यां शिवस्त्रिजगतो जनको जनन्याः” भाग० ८। ८। १९ श्लो०। त्रिजगत्यप्यत्र स्त्री “अन्तराल एव त्रिजगत्यास्तु दक्षिणस्याम्” भाग० ५। २६। ६ श्लो०।
त्रिजटा = स्त्री त्रिस्रो जटा यस्याः। १ रावणालयस्थे सीतापक्षपातिराक्षसीभेदे “सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा। राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्”। “एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः” राभा० २७ अ० “हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसानाञ्च गर्ज्जितम्” ३० अ०। “सीतां मायेति शंसन्ती त्रिजटा समजीवयत्” रघुः। २ शिवे पु०। “त्रिजटाय त्रिशीर्षाय त्रिशूलायुधपा णिने। त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः” भा० अनु० २८६। ३ विस्ववृक्षे पु०। “शृणु १ देवि! प्रवक्ष्यामि रहस्यं त्रिजटोत्तमम्। पत्रं ब्रह्ममयं देवि! अद्भुतं वरवर्णिनि!। श्रीशैलशिखरे जातः श्रीफलः श्रोनिकेतनः। विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा। ब्रह्मविष्णुशिवाः पत्रे वृन्ते च शक्तिरूपिणी। वृन्तमूले तु वज्रं स्यात् पत्रं ब्रह्म त्विदं प्रिये!। एवञ्च त्रिजटापत्रैर्हरं वा हरिमर्च्चयेत्। कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः” ज्ञानभैरवीतन्त्रे ६ प०।
त्रिजात = न० त्रिगुणितं जातं सुगन्धिद्रव्यरूपं सुन्दरद्रव्यं संज्ञात्वात् कर्म्म०। १ तुल्यभागे त्वगेलापत्ररूपे मिलितेसुगन्धिद्रव्यभेदे। स्वार्थे क। त्रिजातक तत्रार्थे “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम्। नागकेशरसंयुक्तं चतुर्जातकमुच्यते” राजनि०। “एलादिभिः समुद्दिष्टं त्रिजातं त्रिसुगन्धिकम्। चतुर्जातं सनागञ्चद्वयं वातकफापहम्” “शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः” “व्याषं त्रिजातकं मुस्ता विडङ्गामलके तथा” सुश्रु०।
त्रिजीवा = स्त्री त्रिषु राशिषु जीवा। त्रयाणां राशीनां ज्या३४३८ संख्यारूपे ज्यार्द्धरूपे पदार्थे “लम्बज्याघ्नत्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः” सू० सि०। “त्रिज्यया गजाग्निवेदराम ३४३८ सितया भक्तः” रङ्गना०। त्रिज्यादयोऽप्यत्र। “तच्छेषं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्ण्णयोः” सू० सि० “त्रिज्यान्त्यकर्ण्णयोस्त्रिराशिज्याद्वितीयशीघ्रकर्ण्णयोः” रङ्गना०।
त्रिण = न० तृण + पृषो०। तृणशब्दार्थे शब्दरत्ना०। तृणशब्दव्युत्पत्तौ रेफेकारसंयुक्तमव्युत्पन्नशब्दान्तरमस्तीति उज्ज्वलद०। “उत्क्षिप्तत्रिणपत्रप्रांशुविहगः सौम्यस्वनः पूजितः” वराहः।
त्रिणता = स्त्री त्रिषु स्थानेषु नता संज्ञात्वात् पूर्वपदात् णत्वम्। १ धनुषि त्रिका०। २ त्रिषु स्थानेषु नते त्रि०। असंज्ञायां न णत्वमिति भेदः। “स्वगुणैराफलप्राप्तेराकृष्य गणिका इव। कामुकानिव नालीकांस्त्रिणताः सहसाऽमुचन्” माघः। वेश्यानां मध्यभ्रूषु त्रिषु स्थानेषु नतत्वात् त्रिणतत्वं श्लेषे णनकारयोरभेद इत्यालङ्कारिकाः। त्रिणस्य भावः तल्। ३ तृणभावेतृणत्वे च स्त्री।
त्रिणव = पु० त्रिरावृत्तानव डच्समा० संज्ञात्वात् णत्वम्। सप्तविंशावृत्ते सामस्तोमभेदे। “त्रिणवत्रयस्त्रिंशौ स्तोमौ हेमन्तशिशिरावृतूः” यजु० १०। १४। “त्रिणवस्तोम एव माम्नातः “नवभ्यो हिंकरोति स तिसृभिः स पञ्चभिः स एकया” नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभि, नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृभिर्वजो वै त्रिणव इति” श्रुतिः। “प्रथमपर्य्याये प्रथमां त्रिर्गायेत् मध्यमां पञ्चकृत्वः उत्तमां सकृत्, द्वितीयपर्य्याये प्रथमां सकृद्गायेन्मध्यमां त्रि, रुत्तमां पञ्चकृत्वः, तृतीयपर्य्याये प्रथमां पञ्चकृत्वो, मध्यसां सकृ, दुत्तमां त्रिर्गायेत् सोऽयं त्रिरावृत्तनवसंख्योपेतत्वात् त्रिणवको वज्रसमानः स्तोमः” वेददी०। “त्रिणवान्युक्थानेकविंशानि पृष्ठानि षट्- त्रिंशाः” शतपथब्राह्मणे १३। ५। ४। २०। अध्यायादि।
त्रिणाचिकेत = पु० त्रिःकृत्वश्चितो नाचिकेतोऽग्निर्येन पृषो० संज्ञात्वात् णत्वम्। अध्यर्य्युभेदे “छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” इति श्रुतिः “त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्” मनुः।
त्रित = पु० १४६६। ६७ पृ० एकतशब्दोक्ते आप्त्ये १ देवभेदे ब्रह्मणो मानसपुत्ररूपे २ ऋषिभेदे च त्रिषु क्षित्यादिस्थानेषु तायमानः ताय–ड। त्रिषु विस्त्रीर्णतमे ३ प्रख्यातकीर्त्तौ च त्रि०। “यस्य त्रितो व्योजसा वृत्रं विपर्वमर्द्दयत्” ऋ० १। १८७। १।
त्रितक्ष = न० स्त्री त्रयाणां तक्ष्णां समाहरः अच् समा० तक्ष्णां त्रितये। स्त्रीत्वे वा ङीप्।
त्रितय = न० स्त्री त्रयाणामवयवः त्रयोऽवयवा येषाम् वा तयप्।। त्रयशब्दार्थे १ त्रित्वसंख्यायाम् “ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत्” याज्ञ० “उदूढलोकत्रितयेन साम्प्रतम्” माघः। “वरमाप स दिष्टपिष्टपत्रितयानन्यसदृग्गुणोदयाम्” नैष०। स्त्रियां ङीप्। २ तत्सङ्ख्यान्विते त्रि०। “पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे। इतरेषु च पाञ्चाल्याः त्रितयं त्रितयं त्रिषु” उद्भटः। “त्रितयं ज्ञानमयेन चक्षुषा” रघुः। “प्रणवव्याहृतिभ्यां च गायत्र्या त्रितये न च। उपास्यं परमं ब्रह्म आत्मा यत्र प्रतिष्ठितः” यो० याज्ञ०।
त्रिताप = न० त्रयाणां तापानां समाहारः। आध्यात्मिकाधिभौतिकाधिदैविकरूपे दुःखत्रये।
त्रिदण्ड = न० त्रयाणां दण्डानां समाहारः। १ चतुरङ्गुलगोबालवेष्टनादन्योन्यसंबद्धे यतेर्दण्डत्रये। २ वाङ्मनःकायदण्डत्रये च। तदस्यास्त्रीति अच्। ३ संन्यासाश्रमे पु०। त्रिदण्डिशब्दे दृश्यम्। “यस्त्वसंहतषड्वर्गः प्रचण्डेन्द्रियसारथिः। ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति” भाग०
त्रिदण्डिन् = पु० त्रिदण्डमस्त्यस्य इनि। सन्त्यासाश्रमे। “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च। यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते। त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः। कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति” मनुः। “त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते। अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते” लिखि० सं० तस्यापि पार्वणं श्राद्धं विहितम्।
त्रिदला = स्त्री त्रोणि त्रीणि दलानि प्रतिपत्रं यस्याः। (गोलालिया) १ गोधापदोलतायाम् जटा०। २ विल्ववृक्षे पु०।
त्रिदलिका = स्त्री त्रीणि दलानि प्रतिपत्रेऽस्याः कप् कापि अत इत्त्वम्। चर्म्मकसालतायां शब्दच०।
त्रिदश = पु० त्रिस्रो दशा जन्मसत्ताविनाशाख्या न तु वृद्धि परिणामक्षया मर्त्त्यानामिव यस्य, त्रीन् तापान् दशति वा दश–घञर्थे संज्ञायां कर्त्तरि को वा। १ देवे अमरः। अथ वा त्र्यधिकास्त्रिरावृत्ताश्च दश परिमाणमेषां डच् समा० शाक० अधिकावृत्तशब्दलोपः एकस्यैव त्रिशब्दस्य तन्त्रतयोच्चारणात् उभयार्थपरत्वम्। त्रयस्त्रिंशन्मुख्यगणवत्सु २ देवेषु अयमेव पक्षः श्रुत्यनुगुणःत्री च दश चेति छान्दोग्येऽभिहित्वात् त्र्यधिकावृत्तपरताद्योतनतार्थं त्री चेति द्विवचनान्ततया निर्द्देशः। ते च देवाः “अर्का द्वादश, रुद्रा एकादश, वसवोऽष्टौ, अश्विनौ द्वाविति। अश्विनीकुमारौ विहाय इन्द्रः प्रजापतिश्चेति वा द्वाभ्यां पक्षान्तरे संख्यापूरणं त्रय्स्त्रिंशत्पतिशब्दे मूलं दृश्यम् “तस्मिन् मघोनस्त्रिदशान् विहाय” कुमा०। “त्रिदशैर्दिशे नमः” माघः। तिस्रो दशा जाग्रदाद्यवस्था यस्य। २ जीवे त्रिदशाध्यक्षशब्दे दृश्यम्।
त्रिदशगुरु = पु० ६ त०। वृहस्पतौ। “धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपबधो दिवा दृष्टे” वृ० स० ८ अ०।
त्रिदशगोप = पु० त्रिदशो देवभेद इन्द्रः गोपो रक्षकोऽस्य तस्य वर्षाभवत्वात्। इन्द्रगोपकीटे “श्रद्दधे त्रिदशगोपमात्रके” रघुः।
त्रिदशदीर्घिका = स्त्री ६ त०। गङ्गायां हेमच०। त्रिदशवाप्यादयोऽप्यत्र
त्रिदशपति = पु० ६ त०। इन्द्रे त्रिदशेश्वरादयोऽप्यत्र।
त्रिदशमञ्जरी = स्त्री त्रिदशप्रिया मञ्जरी यस्य संज्ञात्वात् न कप। तुलस्याम् राजनि०।
त्रिदशवधू = स्त्री ६ त०। अप्सरःसु त्रिदशवनितादयोऽप्यत्र “कैलासस्य त्रिदशबनितादर्पणस्यातिथिः स्याः” मेघ०।
त्रिदशवर्त्मन् = न० ६ त०। नभसि शब्दार्थचि०।
त्रिदशसर्षप = पु० त्रिदशप्रियः सर्षपः। १ देवसर्षपे सर्षपभेदे नैघ० पारस्करः
त्रिदशाङ्कुश = पु० ६ त० वजे शब्दार्थचिन्तामणिः।
त्रिदशाचार्य्य = पु० ६ त०। वृहस्पतौ हलायु०।
त्रिदशाधिप = पु० ६ त०। शक्रे।
त्रिदशाध्यक्ष = पु० विष्णौ “त्रिपदस्त्रिदशाध्यक्षः” विष्णुस०। अस्य व्युत्पत्तिर्भाष्ये दर्शिता यथा “गुणावेशेन संजातास्तिस्रो दशा अपस्थाजाग्रदादयस्तासामध्यक्ष इति त्रिदशाध्यक्षः। त्रिदशानां वाऽध्यक्षः स्वामी”।
त्रिदशायन = पु० त्रिदशानामयनं यत्र। विष्णौ “नारायणायात्मभवायनाय लोकायनाय त्रिदशायनाय” हरिरं १५४ अ०।
त्रिदशायुध = न० ६ त०। १ वज्रे त्रिकाण्ड०। २ इन्द्रधनुषि च। “अथ नभस्य इव त्रिदशायुधम् कनकपिङ्गतडिद्गुणसंयुतम्” रघुः।
त्रिदशारि = ६ त०। असुरे शब्दरत्ना०।
त्रिदशालय = पु० ६ त०। १ स्वर्गे अमरः। २ सुमेरुपर्वते हलायु०
त्रिदशावास = पु० ६ त०। १ स्वर्गे हला०। २ सुमेरुपर्वते च।
त्रिदशाहार = ६ त०। अमृते सुधायां हलायु०।
त्रिदशेश्वर = पु० ६ त०। १ इन्द्रे २ दुर्गायां स्त्री ङीप्। “सुराह्वास्त्रिदशा देवा नन्दिनी दुन्दुभिर्मता। तेषाञ्च नन्दिनी नन्दी ईशत्वात् त्रिदशेश्वरी” देवीपु० ४५ अ०।
त्रिदिनस्पृश् = पु० त्रिदिनं स्पृशति स्पृश–क्विन्। १ त्र्यहस्पर्शे क्षयाहे अवमदिनभेदे यथा “तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यवमदिनम्। त्रिदिनस्पृक् दिनत्रयस्पर्शनादह्नः” इति ज्यो० त०। अयनशब्दे ४३१ पृ० तदानयनादि दृश्यम्। अस्य क्विन्नन्तत्वात् झलि पदान्ते च कुत्वम्।
त्रिदिव = पु० त्रयो ब्रह्मादयो दीव्यन्त्यत्र घञर्थे आधारे क, त्रिधा सत्त्वादिभेदेन दीव्यन्ति प्रकाशन्तेऽत्र दिव–क वा तृतीया द्यौः वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात् पृषो०। लोकात् पुंस्त्वम्। १ स्वर्गे, अमरः २ आकाशे, हेमच०। ३ नभसि ४ सुखे न० शब्दार्थचि०। ५ नदीभेदे स्त्री मेदि०। “न हीष्टमस्य त्रिदिवेऽपि भूपतेः”। “त्रिदिवस्थेष्वपि निस्पृहोऽभवत्”। “देवादिनाम त्रिदिवेऽपि यस्य” रघुः। “अमूं किल त्वं त्रिदिवादवातरः” माघः।
त्रिदिवाधीश = पु० ६ त०। १ इन्द्रे हेम० १ देवमात्रे च। त्रिदिवेश्वरादयोऽप्यत्र।
त्रिदिवेश = पु० ६ त०। १ देवे अमरः।
त्रिदिवोद्भवा = स्त्री त्रिदिव उभवो यस्याः। १ स्थूलैलायां राजनि०। २ गङ्गायाञ्च। ३ स्वर्गभवमात्रे त्रि०।
त्रिदिवौकस् = पु० त्रिदिव अओको यस्य। १ देवे अमरः। “यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः” मनुः पृषो० त्रिदिवौकसोऽपि तत्रार्थे।
त्रिदृश् = पु० तिस्रः दृशोऽस्य त्रीणि भूतादीनि पश्यति वा दृश–कर्त्तरि क्विप् वा। १ त्रिनयने शिवे हेमच०।
त्रिदोष = न० त्रयाणां दोषाणां वातपित्तकफजानां समाहारः। १ वातपित्तकफजदोषत्रये त्रयी दोषाहेतुत्वेन यत्र। २ त्रिदोषजे रोगभेदे त्रिदोषजशब्दे दृश्यम्।
त्रिदोषज = त्रि० त्रिदोषात् जायते जन–ड। दोषत्रयजाते वातादिसन्निपातजे रोगभेदे “चिरज्वरे बातकफोल्वणे वा त्रिदे षजे वा दशमूलमिश्रः। किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृताविमिश्रः” चक्रद०। अस्य पूर्वरूपं “सर्वलिङ्गसमवायः” भावप्र०। ज्वरशब्दे दृश्यम्।
त्रिधन्वन् = पु० सुधन्वनः पुत्रभेदे “सुधन्वनः सुतश्चासीत् त्रिधन्वा रिपुमर्दनः। राज्ञस्त्रिधर्म्मणश्चासीद्विद्वांस्त्रय्यारुणः सुतः” हरिवं० १२ अ०।
त्रिधा = अव्य० त्रि + प्रकारे धाच्। त्रिप्रकारे। “एकैकमूर्त्तिर्बिभिदे त्रिधा सा” कुमा०। “ज्ञानं कर्म च कर्त्ता च त्रिधैव गुणभेदतः” गीता।
त्रिधातु = पु० त्रीन् धर्मार्थकामान् दधाति पुष्णाति धा–तुन्। १ गणेशे त्रिका०। समा० द्विगुः। २ धातु त्रये न०।
त्रिधामन् = पु० त्रीणि धामानि भूरादीनि स्थानानि, तेजांसि सत्त्वादीनि वा यस्य। १ शिवे, २ विष्णौ, ३ अग्नौ च। शब्दार्थकल्पतरुः। समाहारद्विगुः। ४ धामत्रये न० स्त्री स्त्रीत्वपक्षे वा ङीप्। “स एवोक्तश्चक्रमिदं त्रिनाभिसप्ताश्वयुक्तं वहते वै त्रिधाम” भा० आनु० १५८ अ०। “त्रिधामानं जपंस्तत्र स्मरन् विष्णुं सनातनम्” हरिवं० २७१ अ०। ६ त०। ५ त्रिसंख्यान्विते त्रि० ताति च कतिचित् संक्षिप्य “त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी। प्रसूते” इत्युपक्रमे “त्रिपुष्करं स्वरान् देवीर्ब्रह्मादीनां त्रयं त्रयम्। वह्निकालत्रयं शक्तित्रयं वृत्तित्रयं महत्। नाडीत्रयं त्रिवर्गं सा यद्यदन्यत् त्रिधाम तत्” शा० ति० उक्तानि। अन्यान्यपि त्रित्वसंख्यान्वितानि एकादिशब्दे दृश्यानि।
त्रिधामूर्त्ति = पु० त्रिधा मूर्त्तिरस्य। ब्रह्मविष्णुमहेशरूपमूर्त्तित्रयान्विते परमेश्वरे।
त्रिधार = त्रि० तिस्रो धारा अग्राणि, त्रिषु स्थानेषु वा धाराः प्रवाहा अस्य अस्या वा। १ धारात्रयान्विते २ गङ्गायां स्त्री तस्याः स्वर्गमर्त्य पातालेषु धारासत्त्वात् तथात्वम् २ स्नुहीवृक्षे च शब्दार्थचि०। तस्य अग्रत्रयवत्त्वात् तथात्वम्।
त्रिधारक = पु० त्रिस्रो धारा अग्राण्यस्य कप् संज्ञायां कन् वा। गुण्डतृणे राजनि०।
त्रिधारस्नुही = स्त्री त्रिषु भागेषु धारा यस्याः कर्म्म०। (तेकांटासिजु) स्नुहीभेदे राजनि०।
त्रिधाविशेषः = पु० त्रिधा त्रिप्रकारो विशेषः। सूक्ष्मादित्रयरूपे विशेषे “सूक्ष्मा मातापितृजाः सह प्रभूतैः त्रिधा विशेषाः स्युः” सां० का०। “सूक्ष्मशरीरमेकः माता पितृजो द्वितीयः महाभूतानि तृतीवो विशेषः। तेषां मध्ये सूक्ष्मानियताः मातापितृजा निवर्तन्ते कीटान्ता वा भस्मान्ता वा विडन्ता वेति” त० कौ०।
त्रिधासर्ग = पु० त्रिकारः सर्गः। १ भूतादिसर्गे। “अष्टविकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति। मानुषश्चैकविधः समासतोऽयं त्रिधासर्गः” सां० का०। “ब्राह्मः प्राजापत्यः ऐन्द्रः पैत्रः गान्धर्वः याक्षः राक्षसः पैशाच इत्यष्टविकल्पो दैवः सर्गः। पशुमृगपक्षिसरीसृपस्थावरा इति पञ्चविधस्तैर्य्यग्योनः सर्गः। मानुष्यश्चैकविधः ब्राह्मणाद्यवान्तरजातिभेदाविवक्षया संस्थानस्य चतुर्ष्वपि वर्णेष्वविशेषात्” सा० त० कौ०।
त्रिनयन = पु० त्रीणि नयनानि यस्य “पूर्वपदात् संज्ञायामगः” पा० णत्वे प्राप्ते क्षुभ्रा० पाठात् न णत्वम्। १ महादेवे “योग्यस्य त्रिनयनलोचनार्च्चिः” “शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्” माघः। २ पार्वत्यां स्त्री “लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम्” तद्ध्याने तस्या नेत्रत्रयोक्तेः। ३ लोचनत्रययुक्ते त्रि० “बिभ्राणां विंशदप्रभां त्रिनयनां वाग्देवनामाश्रये” मातृकासरस्वतीध्यानम्। त्रिनेत्रत्रिलोचनादयोऽप्यत्र। इयांस्तु भेदः त्रिनेत्रशब्दस्य महादेवपरत्वे संज्ञात्वात् पूर्वपदात् णत्वे प्राप्ते गिरिनद्या० वा नत्वम्। अन्यत्र न णत्वमिति। शिवस्य तृतीयनेत्राविर्भावकथा भा० अनु० १० १४०। यथा
“सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत्। ततः स्मयन्ती पाणिभ्यां नर्म्मार्थं चारुदर्शना। हरनेत्रे शुभे देवी सहमा सा समावृणोत्। संवृताभ्यान्तु नेत्राभ्यां तमो भूतमचेतनम्। निर्होमं निर्वषट्कारं जगद्वै सहसाऽभवत्। जनश्च विमनाः सर्वो भयत्राससमन्वितः। निमीलिते भूतपतौ नष्टसूर्य्य इवाभवत्। ततो वितिमिरो लोकः क्षणेन समपद्यत! ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता। तृतीयञ्चास्य सम्भूत नेत्रमादित्यसन्निभम्” इत्युपक्रमे उमोवाच “भगवान् सर्वभूतेश! शृलपाणे! महाव्रत! संशयो मे महान् जातस्तन्मे व्याख्यातुमर्हसि। किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम्। किमर्थञ्च गिरिर्दग्धः सपक्षिगणकाननः। किमर्थञ्च पुनर्देव! प्रकृतिस्थस्त्वया कृतः। तथैव द्रुमसंच्छन्नः कृतोऽयं तु पिता मम” महेश्वर उवाच। “नेत्रे मे संवृते देवि! त्वया बाल्यादनिन्दिते। नष्टालोकस्तथा लोकः क्षणेन समपद्यत। नष्टादित्ये तथा लोके तमोभूते नगात्मजे!। तृतीयं लोचनं दीप्तं सृष्टं मे रक्षता प्रजाः। तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः। त्वत्प्रियार्थच्च मे देवि! प्रकृतिस्थः पुनः कृतः”। दुर्गायाः त्रिनयनाशब्दवाच्यत्वे हेतुर्देवीपु० ४५ अ० उक्तो यथा
“पक्षिणां चोत्तरं लोकं तथा ब्रह्मायनं परम्। नयं सम्मार्गधर्मत्वं दृष्टौ त्रिनयना मता” देवीपु० ४५ अ०। “पञ्चवक्त्रं त्रिनेत्रम्” शिवध्यानम्। “निजत्रिनेत्रत्वावतरत्वबोधिकाम्” नैष० साध्यगणभेदानां त्रिनेत्रत्वं मत्स्यपु० उक्तं यथा “ततः साध्यगणानीशस्त्रिनेत्रानसृसृत् पुजः। कोटयश्चतुरशीतिर्जरामरणवर्जिताः। कामं सृजन्नमर्त्यांस्तान् ब्रह्मणा विनिवारितः। नैवं विधा भवेत् सृष्टिर्जरामरणवर्जिता”।
त्रिनवति = स्त्री त्र्यधिका नवतिः शा० त०। १ त्र्यधिकनवतिसंख्यायां २ तत्संख्येये च। ततः पूरणे डट्। त्रिनवत तत्संख्यापूरणे त्रि० तमप् वा। त्रिनवतितम तत्संख्यापूरणे त्रि० स्त्रियामुभयतो ङीप्। पक्षे त्रयआदेशे त्रयोनवत्यादयोऽप्यत्र। तत्रायं भेदः “संख्या” पा० त्रिनवत्यादौ पूर्वपदे प्रकृतिस्वरः। त्रय आदेशोऽन्तोदात्त इति।
त्रिनाक = पु० नास्ति अकं दुःखं यस्मिन् नाकं पुण्यलोकः। तृतीयं नाकं वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात्। १ तृतीये नाके २ उत्तमस्थाने च। “यत्रानुकामं चरणं त्रिनाके” ऋ० ९। ११३। ९। “तावत्त्रिनाकं नहुषः शशास” भाग० ६। १३। १३ श्लोकः।
त्रिनाभ = पु० त्रयो लोका नाभौ यस्य अच् समा०। विष्णौ “त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे” भा० ८। १७। ०। विष्णुस्तुतौ।
त्रिनिष्क = त्रि० त्रिभिर्निष्कैः क्रीतम् ठञ् तस्य वा लुक्। त्रिभिर्निष्कैः क्रीते लुगभावे ठञि उत्तरपदस्य वृद्धिः। त्रिनैष्किक तत्रार्थे त्रि०।
त्रिनेत्रचूडामणि = पु० ६ त०। चन्द्रे त्रिका०।
***