तीव = स्थौल्ये भ्वा० पर० अक० सेट्। तीवति अतीवीत्। तितीव।
तीवर = पु० तॄ–ष्वरजन्तः नि०। १ समुद्रे, २ व्याधे, ३ वर्णसङ्करजातिभेदे(तेओर)पुं स्त्री० जातिशब्दे दृश्यम्। स्त्रियां ङीष्।
तीव्र = न० तीव–रक् तिज–वन् दीर्घः जस्य वो वा। १ अतिशये २ तद्वति त्रि० अमरः। ३ तीक्ष्णे ४ लौहभेदे (इस्पातं) ५ तीरे ६ त्रपुणि च उणा० ७ लौहमात्रे राजनि०। ८ अत्युष्णे ९ कटौ १० नितान्ते च त्रि० उणा०। ११ शिवे पु० शब्दर०। “विलङ्घिताधोरणतीव्रयत्नाः” रघुः। “तीव्रोत्थितास्तावदसह्यरंहसः” “तीव्रं महाव्रतमिवात्र चरन्ति वप्राः” माघः। वैराग्यस्य उपायस्य च तीव्रत्वं पात० सू० भाष्ये विवरणे च दर्शितं यथा “ते खलु नव योगिनोमृदुमध्याधिमात्रोपाया भवन्ति। तद्यथा, मृदूपायोमध्योषायोऽधिमात्रोपाय इति। तत्र सृदूपायोऽपि त्रिविघः मृदुसंवेगोमध्यसंवेगस्तीव्रसंवेग इति। तथा मध्योपायस्तथाधिमात्रोपाय इति, त्त्राधिमात्रोपायानाम्” भा० “तीव्रसंवेगानामसान्नतमः” पात० सू०। “समाधिलाभः समाधिफलञ्च भवतीति” भाष्यम् ननु श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत् फले स्यातां दृश्यते तु कस्यचित्सिद्धिः कस्यचिदसिद्धिः कस्यचिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण सिद्धिः कस्यचित्क्षिप्रमित्यत आह, “ते खलु नवयोगिन” इति। उपायाः श्रद्धादयोमृदुमध्याधिमात्राः प्राम्भवीयसंस्कारादृष्टवशाद् येषां ते तथोक्ताः संवेगोवैराग्यं तस्यापि मृदुमध्यतीब्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपीयसी सिद्धिस्तान् दर्शयति सूत्रेण, “तोव्रसंवेगानामासन्नतमः इति सूत्रम्” विव०।
तीव्रकण्ठ = पु० तीब्रः कण्ठो यस्मात् ५ ब०। सेवनेन कण्ठपीडके १ शूरणे (ओल)रत्नमा० तस्य सेवने हि कण्ठोद्वेजिता लोकपसिद्धा।
तीव्रकन्द = पु० तीव्रः कन्दोऽस्य। शूरणे राजनि०।
तीव्रगन्धा = स्त्री तीव्रो गन्धो यस्याः। यवान्यां राजनि०। २ तीव्रगन्धयुक्ते त्रि०। कर्म्म०। ३ तीव्रे गन्धे पु०।
तीव्रज्वाला = स्त्री तीव्रं यथा तथा ज्वालयति उद्वेजयति सेविनम् ज्वल–णिच्–अच्। १ धातक्याम् राजनि०। तत्स्पर्शने हि गात्रे व्रणजन्म लोकप्रसिद्धमिति तस्यास्तथात्वम् २ तीव्रज्वालायुक्ते त्रि०। कर्म०। ३ तीव्रायां ज्वालायां स्त्री।
तीव्रदारु = न० कर्म्म०। १ तीव्रे दारुणि। तस्य विकारः रजता० अञ्। तैव्रदारव तद्विकारे त्रि० स्त्रियां ङीप्।
तीव्रबन्ध = पु० तीव्रो वन्धो यस्मात्। तामसगुणे “दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता” गीतायां तामसकार्य्यासुरसम्पदोवन्धहेतुत्वोक्तेस्तथात्वम्।
तीव्रवेदना = स्त्री कर्म्म०। घोरायां यातनायाम् अमरः।
तीव्रसंवेग = पु० कर्म्म०। तीव्रवैराग्ये तीव्रशब्दे दृश्यम्।
तीव्रा = स्त्री तीव्र + टाप्। १ गण्डदूर्वायां २ कटुरोहिण्यां ३ राजिकायां (राइसरिसा) मेदि०। ४ नदीभेदे शब्दर०। ५ महाज्योतिष्मत्यां ६ तरदीवृक्षे ७ तुलस्याञ्च राजनि०। ८ तीव्रवेगयुक्तस्त्रीमात्रे च।
तीव्रानन्द = तीव्र आनन्दीऽस्य। शिवे शिवसहस्रनाम।
तु = वृत्तौ (वृद्धौ पा०) अक० हिंसायां पूर्त्तौ च सक० अदा० पर० अनिट्। तौति तवीति। अतौषीत्। अत्र “नाभ्यस्तस्याचिपिति सार्वधातुके” ७। ३। ८७। “सूत्रतः सार्वधातुके इत्य- स्यानुवृत्तिसम्भवेऽपि “तुरुस्तुशम्यमः सार्वधातुके” ७। ३। ९५ पा० सूत्रे “पुनः सार्वधातुकग्रहणमपिदर्थमिति” सि० कौ०। तेन “उतो वृद्धिर्लुकि हलि” ७। ३। ८९ पा० सूत्रात् हलीत्यस्य “ब्रुवईट्” ७। ३। ९३ पा० सूत्रात् “ईटः यङो वा” सू० वेत्यस्य चानुवृत्तिः न पितीत्यस्य तेन तुवीतः तुतः तुवीथः तुथः। अचि तु न। तुवन्ति। मुग्धबोधकृत्तुहलोत्यस्यानुवृत्तिवत् पितीत्यस्यानुवृत्तिरिति वभ्राम” तेन तन्मते तुत इत्येव इति भेदः। तुताव। वेदे तुजादि० अभ्यासदीर्घः। “स तूताब नैनमश्नीत्यंहतिरग्ने!” ऋ० १। ९४। २ “ब्रह्मा तूतोदिन्द्रो गातुमिष्मन्” ऋ० २। २०। ५। तु वृद्धावित्यस्य लङि बहुलं छन्दसि विकरणस्य श्लुः। अडागमाभावश्च” भा०।
तु = अव्य० तुद–मितद्रु० डु। १ पादपूरणार्थे निरर्थके। “निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्” चन्द्रालोकः। २ भेदे ३ अवधारणे अमरः। ४ समुच्चये ५ पक्षान्तरे ६ नियोगे ७ प्रशंसायां८विनिग्रहे शब्दर० तत्र पक्षान्तरे “आचारेण तु संयुक्तः संपूर्णफलभाक् भवेत्” मनुः। समुच्चये “उष्ट्रयानं समारुह्य खरयानं तु कामतः। स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति” मनुः। पूजायामेतद्योगे “तुपश्य पश्यताहैः पूजायाम्” पा० तिङन्तं न निहन्यते” आदह सुधाम तु पुनर्गर्भस्तु मेनिरे” सि० कौ० धृता श्रुतिः।
तुकाक्षीरी = स्त्री तुगाक्षीरी + पृषो०। वंशरोचनायाम् हेम०।
तुक्ष = त्रि० तुष–बा० कुस। तोषयुक्ते ततः पक्षा० चतुरर्थ्यां फक्। तौक्षायण तत्सन्निकृष्टदेशादौ त्रि०।
तुखा(षा)र = पु० विन्ध्यपर्वतस्थे जातिभेदे। “ये चान्ये विन्ध्यनिलतास्तुखा(षा)रास्तुम्बरास्तथा। अधर्म्मरुचयस्तात! विद्धि तान् वेणसम्भवान्” हरिवं० ५ अ०।
तुगा = स्त्री तुज–बा० घ किच्च। वंशरोचनायां राजनि०।
तुगाक्षीरी = स्त्री तुगैव क्षीरी। वंशरोचनायाम् राजनि०।
तुग्र = न० तुज–रक् न्यङ्क्वा० जस्य गः। अश्विनीकुमारयोः शिष्ये राजर्षिभेदे। “तुग्रोह भुज्युमश्विनोदमेघे रयिं न कश्चिन् समृ~वा अवाहाः” ऋ० १। ११६। २। अत्रेयमाख्यायिद्धा। “तुग्रो नामाश्विनोः प्रियः कश्चिद्राजर्षिः। स च द्वोपान्तरवर्त्तिभिः शत्रुभिरत्यन्तमुपद्रुतः सन् तेषां जयाय स्वषुत्रं भुज्युं सेमया सह नावा प्राहैषीत्। सा च नौर्सध्येसंमुद्रमतिदूरं गता वायुवशेन भिन्नासीत्। तदानीं स भुज्युः शीघ्रमश्विनौतुष्टाव” भा०। “ता भुज्युं विभिरद्भ्यः समुद्रात् तुग्रस्य सूनुमूहथूरजोभि” ऋ० ६। ६२। ६। “ता तौ अश्विनौ युवां तुग्रस्य सूनुं भुज्यं भुज्युनामकं समुद्रमध्ये भग्ननावम्” भा०
तुग्र्य्या = स्त्री तुज–रक् न्यङ्क्वा० कुः स्वार्थे यत्। १ जले निघण्टुः। “आवः शमं वृषभं तुग्र्य्यासु” ऋ० १। ३३। १५। “तुग्र्यासु जलेषु” भा०। निघण्टौ बुसं तुग्र्यमिति पाठान्तरात्। जले न०। तदनुसारेण “पिब स्वधैनवानामुत यस्तुग्र्ये सचा” ८। ३२। २०। बुसं तुग्र्यमित्युदक्रनामसु पाठात्” भा०। वस्तुतस्तु निघण्टौ बुसं तुग्रं तुग्र्यावर्वरमित्येव पाठः मुद्रितपुस्तके तुग्रमिति पतितम्। तुग्रस्य राजर्षेरपत्यं बा० यत्। तुग्रपुत्रे भुज्यौ पु०। “अस्तं वयो न तुग्र्यम्” ऋ० ८। ३। २३ “तुग्र्यं तुग्रपुत्रम्” भा०।
तुग्वन् = त्रि० तुज–बा० क्वनिप् न्यङ्क्वा० जस्य गः। १ हिंसके। “सुवास्त्वा अधि तुग्वनि” ऋ० ८। १९। ३७।
तुङ्ग = पु० तुजि–हिंसायां घञ् न्यङ्क्वा० कुः। १ पुन्नागवृक्षे २ पर्वते ३ बुधग्रहे हेमच०। ४ नारिकेले ५ गण्डके राजनि०। ६ उच्चे त्रि०। ७ ग्रहविशेषस्य राशिभेदे पु०। उच्चशब्दे १५८ पृ० दृश्यम् “अजवृषभमृगाङ्गनाकुलीरा झषबणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रयांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः”! “सूर्य्याद्युच्चान् क्रियवृषमृगस्त्रीकुलीरान्त्ययूके दिग्वह्नीन्द्रद्वयतिथिशरान् सप्तबिंशांश्च विंशान्। अंशानेतान् वदति यवनश्चान्त्य तुङ्गांस्तुतुङ्गांस्तानेवांशान् मदनभवनेष्वाह नीचान्सुनीचानिति”। तुङ्गस्थग्र हभेदफलम् “तुङ्गेऽर्कः शुभसंयुतः शुभकरै र्मित्रैश्च दृष्टो यदा दैवात् पश्यति सोऽपि वा शुभकरानेकं द्विकं वा त्रिकम्। वित्तेशः प्रथितो बिमर्द्दितरिपुः क्षौणीशमान्योऽथवा क्ष्मापालार्च्चितपादपद्मयुगलो राजा त्रिकोणे यदा”। र०। “तुङ्गे चन्द्रमसि प्रसन्नवपुषि ब्रध्नादनष्टद्युतौ प्रख्यातोऽरिव्रिमर्दकोऽगदतनू राजेश्वरो रूपवान्। क्ष्मापालार्च्चितपादपद्मयुगलो व्रा धर्म्मशीलो महान् सौम्यैरेव युतोऽथ वा प्रियतमैर्दृष्टे त्रिकोणेऽपि च”। च०। “यदि भवति मृगस्थो भूमिपुत्रस्तदा वै न दिनकरमयूखाद्भ्रष्टरश्मिर्नरेन्द्रः। अगदतनुरभीतः शत्रुदर्पापहारी प्रणतरिपुनरेन्द्रः स्यात्त्रिकोणेऽपि जातः”। म०। “कन्थास्थः शशलाञ्छनस्य तनयस्तिथ्यंशकैः संयुती दृष्टो वा यदि संयुतः शुभकरैर्ज्जातस्तदा भूपतिः। यात्रायां तुरगोष्ट्रमत्तकरिणां यानैर्मही कम्पते स क्ष्माभृद्वरणीरुहाविगलिता यान्ति त्रिकोणेऽपि च”। बु०। “तुङ्गे गुरौ मित्रखगेन दृष्टो राजा भवेदिन्द्रसमान- मूर्त्तिः। गजाश्वनौकार्णवपूर्णलक्ष्मीः पृथ्वीपतिः स्वस्य त्रिकोणगोऽपि”। वृ। “तुङ्गे भृगौ शुभसुहृत्प्रयुते च दृष्टे दैवात् पुनः स यदि पश्यति मित्रसंघान्। भूपाधिपो भवति कीर्त्तिकरः प्रधानो दौर्घारुग्रसुखभुग्भृगुजे त्रिकोणे”। शु। “तुङ्गे शनौ मित्रखगेन दृष्टे प्रचण्डदण्डो नृपतिप्रधानः। न दृश्यते दिग्गमने च गुर्वी त्रिकोणगे चापि नरेन्द्रमूर्त्तिः”। श। “भवति धरणीपालो नीचबुद्धिः प्रतापी हयगजधनपूर्णो जातिवर्गे विरक्तः। कुटिलमतिरनीतो भूरिभाण्डारयुक्तस्तमसि भिथुनसंस्थे जायते मानवेन्द्रः”। रा। “मृगपतिवृषकन्याकर्कटस्थे च राहौ भवति विपुललक्ष्मी राजराजाधिपो वा। हयगजनरनौकामण्डितः सार्वभौमोनृपतिरमरपूज्यो राहुतुङ्गी चिरायुः”। रा। “अरिंनिधनव्ययतुङ्गे कीर्त्तितमेतत्फलं व्यर्थं केन्द्रे त्रिकोणे लाभे वा तुङ्गफलं यथोद्दिष्टम्” इति कोष्ठीप्र०। ९ किञ्जल्के न० शब्दार्थचि०। १० उग्रे ११ प्रधाने १२ उन्नते त्रि० शब्दर०। “तुङ्गत्वमितरा नाद्रौ नेदं सिन्घावगाधता” माघः। १६ शिवे पु० तुङ्गवीजशब्दे दृश्यम्।
तुङ्गक = पु० तुङ्ग + स्वार्थे क संज्ञायां कन् वा। १ पुन्नागवृक्षे शब्दरत्ना० २ तुङ्गजशब्दार्थे ३ अरण्यरूपे तीर्थभेदे न०। “तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः। वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा। तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः। ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम्। ओङ्कारेण यथान्यायं सम्यगुच्चारितेन ह। येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम्। ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः। हरिर्नारायणस्तत्र महादेवस्तथैव च। पितामहश्च भगवान् देवैः सह महाद्युतिः। भृगुं नियोजयामास याजनार्थं महाद्युतिम्। ततः स चक्रे भगवान् ऋषीणां विधिवत्तदा। सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा। आज्यभागेन तत्राग्निं तर्पयित्वा यथाविधि। देवाः स्वभवनं याता ऋषयश्च यथागतम्। तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम!। पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्थ वा” भा० व० ८५ अ०। तत्कथा दृश्या
तुङ्गकूट = पु० तुङ्गं कूटमस्य। उच्चशृङ्गे पर्वतभेदे।
तुङ्गनाभ = पु० तुङ्गो नाभिरस्य। कीटभेदे। तुङ्गीनासशब्दे दृश्यम्।
तुङ्गभ = न० कर्म्म०। सूर्य्यादीनामुच्चराशौ मेषादौ तुङ्गशब्दे दृश्यम्। तुङ्गराश्यादयोऽप्यत्र।
तुङ्गभद्र = पु० तुङ्गोऽपि भद्रः। १ मदोत्कटकरिणि दक्षिणस्थे २नदीभेदे स्त्री मेदि०। “शर्करावर्त्ता तुङ्गभद्राकृष्णवेणेत्यादि” भाग० ५। १९। १८ श्लो० भारतस्थनदीकथने। “तुङ्गभद्राजलं स्वादु स्निग्धं प्रोक्तं तथा गुरु!। कण्डूपित्तास्रदं प्रायः सात्म्यं मेधाकरं मतम्” राजनि० तज्जलगुणा उक्ताः।
तुङ्गवीज = न० तुङ्गस्य शिवस्य वीजम्। १ पारदे। “तुङ्गवीजसमायुक्तं गोलयन्त्रं प्रसाधयेत्” सू० सि० “तुङ्गो महादेवस्तस्य वीजं वीर्य्यं पारद इत्यर्थः” रङ्गना०।
तुङ्गवेणा = स्त्री नदीभेदे “तुङ्गवेणा कृष्णवेणा कपिला शोण एव च” भा० व० २२१ अ०। “विनदीं पिङ्गलां वेणां तुङ्गवेणां महानदीम्” भा० भी० ९ अ०।
तुङ्गरस = पु० तुङ्गः श्रेष्ठो रसोऽस्य। गन्धद्रव्यभेदे “कालागुरुविमिश्रेण तथा तुङ्गरसेन च” भा० आ० १२७ अ०।
तुङ्गशेखर = पु० तुङ्गमुच्चशेखरमस्य। १ पर्वते शब्दमा०। २ उच्चशेखरयुक्ते त्रि०। कर्म्म०। ३ उच्चे शेखरे न०।
तुङ्गा = स्त्री तुङ्ग + टाप्। १ वंशलोचनायां २ शम्याञ्च राजनि०।
तुङ्गिन् = त्रि० तुङ्गं मेषादिकं स्थानमाश्रयत्वेनास्त्यस्य इनि। उच्चस्थिते ग्रहे ३ महाशतावर्य्यां स्त्री ङीप् राजनि०। ४ प्रधानस्थानस्थे त्रि०।
तुङ्गी = स्त्री तुङ्ग + गौरा० ङीष्। १ हरिद्रायां २ वर्वरायां मेदि०। ३ रात्रौ शब्दार्थचि०।
तुङ्गीनास = पु० तुङ्गी हरिद्रेव पीता नासाऽस्य। १ कीटभेदे। “तुङ्गीनासो विपिलकस्तालको बाहकस्तथा। कोष्ठागारी क्रिमिंकरो यश्च मण्डलपुच्छकः। तुङ्गनाभः सर्षपिकोऽवल्गुली शम्बुकस्तथा। अग्निकीटश्च घोराः स्युर्द्वादश प्राणनाशनाः” सुश्रु०।
तुङ्गीपति = पु० तुङ्ग्याः रात्रेः पतिः। निशापतौ चन्द्रे त्रिका०
तुङ्गीश = पु० कर्म्म०। १ शिवे २ कृष्णे ३ सूर्य्ये च शब्दर० तेषां प्रधानस्थानस्थित्या तथात्वम्। ६ त०। रात्रीशे ४ चन्द्रे।
तुच् = पु० त्वच–क्विप् बा० संप्रसा० तुज–क्विप् वा पृषो० जस्य चः। १ अपत्ये निघण्टु। “तुचे तनाय तत्सु” ऋ० ८। १८। १८। “तुचे पुत्राय” भा०। “तुचे तु नो भवन्तु” ८। २७। १४। “तोजयति पितुर्दुखादिकमिति तुच पुत्रः तस्मै” भा०। पृषो० जस्य चः इति भेदः। हेमचन्द्रे तु जान्ततयाऽयं पठितः वेदे तु सर्वत्र चान्तत्वेनैव प्रयोगः।
तुच्छ = न० तुद–सम्प० क्विप् तुदा व्यथया छति छो–क। १ पुलाके (तुष) २ हीने, उणा०। ३ शून्ये अमरः ४ अल्पे हेमच०। ५ शून्ये च त्रि०। “किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः। अनर्थैरर्थसङ्काशैर्नित्यानन्दघरोदधेः” भाग० ७। ७। ३८। ८५ नीलीवृक्षे ६ तुत्थायाञ्च भावप्र०। ७ मन्दे अलीके च त्रि०
तुच्छद्रु = पु० कर्म्म०। एरण्डवृक्षे शब्दच०।
तुच्छधान्यक = न० कर्म्म०। (भुसी) पुलाकु अमरः।
तुच्छ्य = न० तुच्छ–वेदे स्वार्थे इवार्थे वा यत्। १ तुच्छशब्दार्थे २ तुच्छकल्पे च “तम आसीत्तमसागूढमग्रेऽप्रकेतं सलिलं सर्वमा इदम्। तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिना जायतैकम्” ऋ० १०। १२९। ३ अयमर्थः। ननूक्तप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म? जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्यावश्यम्भावात्। अथैतद्दोषपरि जिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते कथं तस्य जन्म? अत आह। तमसागूढमग्र अग्रे सृष्टेः, प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत्तमसागूढम्। यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् आत्मतत्त्वस्यावरकत्वान् मायापरसं ज्ञं भावरूपाज्ञानमत्र तम इत्युच्यते। तेन तमसा निगूढं संवृतं कारणभूतेन तेनाच्छादितं भवति। छादकात्तस्मात्तमसो नामरूपाभ्यां यदाऽविर्भवनं तदेव तस्य जन्मेत्युच्यते। एतेन कारणावस्थायामसदेव कार्य्यमुत्पद्यत इत्यसद्वादिनोऽसत्कार्य्य वादिनो ये मन्यन्ते ते प्रत्याख्याताः। ननुकारणे तमसि तज्जगदात्मकं कार्य्यं विद्यते चेत् कथं नासीद्रज इत्यादि निषेधः। तत्राह तभ आसीदिति। तमोभावरूपाज्ञानं मूलकारणं तद्रूपता तदात्मनाम्। यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत इत्यर्थः। नन्वावरकत्वादावरकं तमः कर्त्तृ आवार्य्यत्वाज्जगत् कर्म्म। कथं तयोः कर्म्मकर्त्त्रोस्तादात्म्यम्। तत्राह अप्रकेतमिति। अप्रकेतमप्रज्ञायमानम्। अयमर्थः। यद्यपि जगतस्तमसश्च कर्म्मकर्त्तृभावोयौक्तिको न विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्ट न ज्ञायत इति तादात्म्यवर्णनम्। अतएव मनुना स्मर्यते “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः” इति। कुतो वा न प्रज्ञायते तत्राह सलिलम्। सल–गतौ। औणादिक इलच्। इदं दृश्यमानं सर्वं जगत् सलिलं कारणेन संगतमविभागापन्नम् आसीत्। अस्तेर्लङि तिपि बहुलं छन्दसीतीडभावे हल्ङ्याब्भ्य इति तिलोपे तिप्यनस्तेः पा० इति पर्य्युदासाद्दकाराभावः। यद्वा सलिलमिति लुप्तोपमम्। सलिलमिव! यथा क्षीरेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभागापन्नंजगन्न शक्यं विज्ञातुमित्यर्थः। ननु विविधविचित्र० रूपभूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः। तथा तमोऽपि क्षीरवद्वलवदित्येवोच्यते। तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवसम्भव इत्यत आह तुच्छ्येनेति। आसमन्ताद्भवतीत्याभु तुच्छ्येन। छन्दसो यकारोपजनः। तुच्छ्येन तुच्छकल्पेन सदसद्विलक्षणेन भावरूपाज्ञानेनापिहितं छादितमासीत्” भाष्यम्।
तुज = दीप्तौ चुरा० उभ० अक० सेट् इदित्। तुञ्जयति–ते अतुतुञ्जत्। तुञ्ज्यते।
तुज = प्रापणे हिंसायाञ्च भ्वा० पर० सक० बले अक० सेट् इदित्। तुञ्जति अतुञ्जीत्। तुतुञ्ज तुतुञ्जतुः। “तुञ्जे तुञ्जेय उत्तरे स्तोमाः” ऋ० १। ७। ७। इमामृवमधिकृत्य “तुञ्जतेर्दानकर्म्मणः तुञ्जे तुञ्जे दाने दाने” इति ६। १७ निरुक्तोक्तेः। दाने च।
तुज = हिसायां भ्वा० पर० सक० सेट्। तोजति अतोजीत्। तुतोज। वेदे तुजादि० अभ्यासस्य दीर्घः। तूतुजानः। प्रेरणे च “आ वां तोके तनये तूतुजानाः” ऋ० ७। ६७। ६। “प्रावत्तोके तनये तूतुजाना” ७। ८४। ५। “तूतुजानाःप्रेर्य्यमाणाः” भा०। “अस्मा इमु प्रभया तूतुजानः” निरु० ६। २० धृता ऋक्।
तुञ्ज = पु० तुजि–बले अच्। वज्रे निघण्टुः।
तुट = कलह तुद० कुटा० पर० अक० सेट्। तुटति अतुटीत् तुतोट।
तुटितुट = पु० शिवे। “नमस्तुण्डाय तुट्याय नमस्तुटितुटाय च” हरिवं० २७७ अ०।
तुटुम = पुंस्त्री० तुट–वा० उम। उन्दुरौ त्रिका०।
तुड = भेदे तु० कुटा० पर० सक० सेट्। तुडति अतुडीत् तुतोड।
तुड = निष्पीडने भ्वा० आ० सक० सेट् इदित्। तुण्डते अतुण्डिष्ट। तुतुण्डे। तुण्ड्यते।
तुड = द्विधाकरणे भ्वा० पर० सक० सेट्। तोडति अतोडीत् ऋदित्। अतुतोडत्–त।
तुडि = स्त्री तुड–इन् किच्च। तोडने।
तुड्ड = अनादरे भ्वा० पर० सक० सेट्। तुड्डति अतुड्डीत्। अयं द्वोपध इत्यन्ये तन्मते क्विपि तुद्–डोपधत्वे तुड् इति भेदः।
तुण = कुटिलीकरणे तु० पर० सक० सेट्। तुणति अतोणीत्। तुतोण।
तु(तू)णि = पु० तूण + सङ्कोचे इण् बा० पृषो०। १ कुणिरोगे अमरटीकायां र्क्षीरस्वामी २ नन्दिवृक्षे राजनि०। “तूणीरूक्षः कटुः पाके कषायो मधुरो लघुः। तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्तहृत्” भावप्र०।
तुणिक = पु० तुणि–स्वार्थे क। नन्दिवृक्षे राजनि०।
तुण्ड = न० तुडि–तोडने अच्। १ मुखे अमरः। “अयस्तुण्डैरुलुखलैः” हरिवं० २४५ अ०। “स तेन पतगेन्द्रेण पक्षतुण्डमुखक्षतः” भा० आ० ३२ अ०। “दीर्घनख्या दीर्घदन्त्यो दीर्घतुण्डाश्च भारत!” भा० श० ४७। २ शिव पु० तुटितुटशब्दे दृश्यम्। ३ राक्षसभेदे। “तुण्डेन च नलस्तत्र पटुघ्नः पनसेन च” भा० व० २८४ अ०।
तुण्ड(ण्डि)केरी = स्त्री प्रशस्तं तुण्डं(ण्डिः) कन् तद्–ईरयति ईर्त्ते वा ईर–अण् १ कार्पास्याम् तस्याः फलमुखविदारे हि विस्तीर्णसूत्रहेतुकार्पासोत्पत्तिः। २ विम्बिकायाम् (तेलाकुचा) तस्याः फलेन हि मुखाङ्गोष्ठसादृश्यदानात् तथात्वम्। स्वार्थे क ह्रस्वः। तुण्ड(ण्डि)केरिकाष्यत्र अमरः। संज्ञाया कन्। विम्बिकायां राजनि०।
तुण्डदेव = पु० तुण्डरूपो देवः तुण्डेन दीव्यति दिव–अच् वा। नृपभेदे तस्य विषयो देशः ऐषुका० भक्तल्। तुण्डदेवभक्त तदीये विषये देशे पु०।
तुण्डि = पु० तुण्ड–इन्। १ मुखे, २ चञ्चौ च। ३ विम्बिकायां, ४ वन्दायां, उणा०। ५ नाभौ स्त्री शब्दरत्ना० वा ङीप्। स्वार्थे कन् उक्तार्थेषु। ६ तुन्दौ माधवः तुण्डिभशब्दे दृश्यम्।
तुण्डिका = स्त्री तुण्डम् तदवयवाधरसादृश्यमस्त्यस्याः ठन्। १ विम्बिकायां तत्फलस्यास्यावयवाधरसादृश्यात्तथात्वम्। स्वार्थे क। नामौ शब्दरत्ना०।
तुण्डि(ण्ड)केशी = स्त्री तुण्डे (ण्डौ) मुखे कायति के–क तुण्डि(ण्ड)कः ओष्ठः तत्र ईष्टे तत्तुल्यशोभाधारणात् ईशअच् गौरा० ङीष्। विम्बिकायाम(तेलाकुचा)। शब्दच०।
तुण्डिभ(ल) = त्रि० तुण्डि + भ सिध्मा० लच् वा। १ तुन्दिले (भु~डि)युक्ते। अमरः। “तुन्दि(ण्डि) वलिवटेर्भः” पा० सू०। भूर्द्धन्योपधोऽयमिति माधवः। लान्तो २ मुखरे उणादि०।
तुण्डेल = पु० गर्भोपद्रावके असुरभेदे। “उपेषन्तमुदुम्बलं तुण्डेलसुत शालुडम्” अथ० ८। ६। १७।
तुतात = पु० सीप्तांसकगेदे। तेन प्रोक्तं ठक्। तोतातिक तत्प्रोक्तमीमांसादर्शने। तन्मतञ्च दिङमात्रम् अर्हच्छब्दे ३८२ पृ० दर्शितम्। “नैवाश्रावि गुरोर्मतं न विदितं तौतातिकं दर्शनम्” सा० द०।
तुतुर्वणि = पु० तूर्णोवनिर्भजनमस्य वेदे पृषो०। १ तूर्णभजने। “यज्ञायज्ञावः समानां तुतुर्वैणिः” ऋ० १। १६। १। “तुतुर्वणिः त्वरमाणः संभजमानः” भा०।
तुत्थ = स्तुतौ अद० चु० उभ० सक० सेट्। तुत्थयर्ति ते अतुतुत्थत्–त।
तुत्थ = पु० तुद–थक्। १ ग्रावणि उणा०। २ अग्नौ संक्षिप्तसा०। (तुर्ते) ३ अञ्जनमेदे न०। ४ नील्याम्, ५ सूक्ष्मैलायाञ्च स्त्री हेमच०। स्वार्थे क। तत्रार्थे। रसनाञ्जनस्य गुणादिकं भावप्र० उक्तं यथा
“तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत्। किञ्चित्ताम्रगुणं तस्मात् वक्ष्यमाणगुणञ्च तत्। तुत्थकं कटुकं क्षारं कषायं वामकं लघु। लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्। विषाश्मकुष्ठकण्डूघ्नं स्वर्परञ्चापि तदुगुणम्” भावप० अस्य शोधनम् “विष्ठायां मर्दयेत्तुत्थं मार्जारककपोतयोः। दशांशं टङ्कनं दत्त्वा पचेत् लघुपटे ततः। पुट दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये” भावप्र० “कासीसं रोचनां तुत्थ हरितालं मनः शिलाम्” सुश्रुतः।
तुत्थाञ्जन = न० कर्म्म०। १ अञ्जनभेदे (तुंते)। तद्वर्णत्वात् २ मयूरकण्ठे च राजनि०।
तुथ = पु० तु–थक् तुद–बधे थक् पृषो० वा। १ हननकर्त्तरि “तुथोऽसि जनधारयो नभोऽसि” ताण्ड्यब्रा० १। ४। ३। “तुद्यतेर्बधकर्म्मणः तुथः रक्षःप्रभृतीनां हन्ता” मा०। २ ब्रह्मणि। “तुथोऽसि विश्ववेदाः” यजु० ५। ३१।
“हे ब्राह्मणाछसिन् त्व तुथो विश्ववेदाश्चासि। व्रह्म वे तुथः “इति श्रुतेः। ब्रह्मरूपोऽसि। विश्वं वेत्ति विश्ववेदाः सर्वज्ञः। यद्वा तुथशब्देन देवान् प्रति दक्षिणानां विभागकर्त्ता पुरुष उच्यते तदाह तित्तिरिः “तुथो ह स्म वै विग्ववेदा देवानां दक्षिणा विभजतीति”। “ब्रह्मा वै तुथः” शत० ज्ञा० ४। ३। ४। १६। श्रुतेः। ३ दक्षिणाविमाजके ब्रह्मरूपे ३ ऋत्विग्भेदे। “तुथो वै विश्ववेदा विभजत्विति ब्रह्म वै तुथस्तदेना ब्रह्मणा विभजति। ब्रह्मावै दक्षिणीयं चादक्षिणीयं च वेद तुथो हास्यैता दक्षिणीयायैव दत्त्वा भजति नादक्षिणीयाय”। “रूपेण वो रूपनामभ्यां तुथो वो विश्ववेदा विभजतु”। यजु० ७ ४५ “किं च तुथो ब्रह्म- रूपः प्रजापति र्वा युष्मान् विभजतु यथायोग्यमृत्विग्भ्यो विभज्य ददातु “ब्रह्म वै तुथ इति श्रुतेः” वेददी०।
तुद = व्यथने तुदा० उभ० मक० अनिट्। तुदति ते अतौत्सीत्। अतुत्त तुतोद तुतुदे “तुतुदे गदयाचचारीन्”। “अतौत्सीत् गदयाङ्गदम्” भट्टिः। “इषुभिरिव मानसं कामिनां तुदति कुसुमचापः” ऋतु०। “यथा तदति मर्म्भाणि” भा० स० २५३०।
तुदादि = पु० शप्रत्ययनिमित्ते घातुसमुदाये स च गणः कविकल्पे शानुबन्धेन पटितः। “तुदादिभ्यः शः” पा०।
आ + सम्यग्व्यषने। “प्रतोदेनातुदन् भृगम्” मनुः। “धनुः कीट्यातुद्य कर्णेन वीरम्” भा० आ० १ अ०।
निस् + निष्पीडने। “सूचिभिरिव निस्तुद्यते दश्यत इव पिपीलिकाभिः”।
तुद = त्रि० तुद–क। व्यथके। तस्यापत्यं शुभ्रा० ढक्। तौदेय तदपत्ये पुंस्त्री०।
तुन्द = न० तृणु अर्दने अट्दा० नि०। उदरे अमरः।
तुन्दकूपी = स्त्री ह्रस्वः कूपः कूपी तुन्दस्य कूपीव। १ नाभौ त्रिका०। स्वार्थे क। २ तुन्दकूपिकाप्यत्र हेमच०।
तुन्दपरिमृज = पु० तुन्दं परिमार्ष्टि परि + मृज–क ६ त०। १ अलसे २ मन्दे। अण्। तुन्दपरिमार्जोऽप्यत्र रमानाथः।
तुन्दमृज = त्रि० तुन्दमुदरं मार्ष्टि मृज–क। १ अलंमे २ मन्दे च हेमच०।
तुन्दादि = पु० “तुन्दादिभ्य इलच्च” पा० अस्त्यर्थे इलचप्रत्ययनिमित्ते शब्दमणे स च गणः। पा० ग० सू० उक्तो यथा “तुन्द उदर पिचण्ड यवब्रीहि (स्वाङ्गाद्विद्वृद्धौ) विवृद्धौ कर्णौ यस्य स्तः कर्णिलः”। चादिनिठनौ मतुप् च। “तुन्दिलः तुन्दी तुन्दिकः तुन्दयान्” सि० कौ०।
तुन्दिक(ल)(भ) = त्रि० तुन्दं विद्यतेऽस्व ठन्। तुन्दि + भ तुन्द + इलच् वा। तुन्दियुक्ते (भु~डि) युक्ते।
तुन्दिकर = पु० तुन्दिं करोति कृ–अच्। (भु~डि) युक्ते तुन्दिले त्रिका०।
तुन्दिन् = त्रि० तुन्दीऽस्त्यस्य इनि। तुन्दयुक्ते (मु~डि) युक्ते स्त्रियां ङीप्।
तुन्दिलफला = स्त्री तुन्दिलं वृहत्फलमस्याः। त्रपुष्याम् (शशा) राजनि०।
तुन्न = पु० तुद–क्त। १ नन्दिवृक्षे (तुंद) अमरः। २ व्यथिते ३ छिन्ने च त्रि०। स्वार्थे क। अत्रैवार्थे।
तुन्नवांय = पु० तुन्नं छिन्नं वयति वे–अण्। १ सौचिके २ सूच्याजीविनि (दरजी) अमरः। “शैलूषतुन्नवायान्न कृतघ्नस्यान्नमेव च” मनुना तदन्नभक्षणं निषिद्धम्।
तुन्नसेवनी = स्त्री तुन्नं छिन्नं सीव्यतेऽनया सिव–करणे ल्युट् ङीप्। सूचीभेदे “प्रवेश्य तुन्नसेवन्या मुञ्कौ सीव्येत् ततः परम्” सुश्रुतः।
तुन्प = बवे भ्वा० सक० पर० सेट्। तम्पति अतुम्पीत्। तुतुम्प तुतुम्पतुः तुतुम्पिथ।
तुन्प = बधे सक० क्लेशे अक० तु० पर० सेट्। तुपति–तुम्पति अत्(पी)म्पीत्। त्तु(प)म्प तुतु(प)म्पतुः त्तुपिथ तुत्म्पिथ
तुन्फ = बधे भ्वा० पर० सक० सेट्। तुम्फति अतम्फीत्। तुतुम्फ तुतुफ(म्फ)तुः। तुतुम्फिथ।
तुन्फ = बधे सक० क्लेशे अक० तुदा० पर० सेट्। तुफति तुम्फति अतु(तु)म्फोत्। तुतु(तु)म्फ तुतुफ(म्फ)तुः तुतुफिथ तुत्म्पिथ।
तुप = बधे भ्वा० पर० सक० सेट्। तोपति अतोपीत्। तुतोप।
तुप = बधे सक० क्लेशे अक० तुदा० मुचादि० पर० सेट्। तुम्पति अतोपीत्। तुतोप। पारस्क० मुट्। प्रस्तुम्पति।
तुप = अर्द्दने चुरा० उभ० सक० सेट् इदित्। तुम्पयति ते अतुतुम्पत्–त्। तुम्य्यते।
तुफ = बधे सक० क्लेशे अक० तु० मुचा० पर० सेट्। तुम्फति अतोफीत्। तुतोफ।
तुफ = बधे भ्वा० पर० सक० सेट्। तोफति अतोफीत्। तुतोफ।
तुब = अर्द्दने वा चुरा० उभ० सक० पक्षे भ्वा० पर० सेट् इदित्। तुम्बयति–ते तुम्बति अतुतुम्बत्–त अतुम्बीत्।
तुभ = हिंसे भ्वा० आत्म० ऌङि उभ० सक० सेट्। तोभते। ऌदित्। अतुभत् अतोमिष्ट। तुतुभे।
तुभ = हिंसायां दिवा० क्य्रा० च पर० सक० सेट्। तुभ्यति तुभ्राति अतोभीत्। तुतोभ “संक्रुद्धो मुष्टिनातुभ्नादङ्गदोऽनु महोदरम्” “अश्वान् विभीषणोऽतुम्नात्” भट्टिः।
तुम = प्रेरणे आहनने च तुम्रशब्दे माधवः। सक० भ्वा० पर० सेट्। तोमति अतोमीत् तुतोम तुम्रः। तोमरः।
तुमुर = न० तुमुल + लस्य रः। तुमुले अमरटीका।
तुमुल = पुंन० सौ० तु–मुलन्। १ परम्परसंघातेन सङ्कुले युद्धे २ कलिवृक्षे मेदि० ३ व्याकलयुद्धे न० त्रिका०। “बभूब युद्धं तुमुलं जयैषिणोः” रघुः ४ सङ्कुलमात्रे त्रि०। “उभयोरपि पार्श्ववर्त्तिनां तुमुलेनार्त्तरवेण वेजिताः” रघुः
तुम्ब = पुंस्त्री० तुम्बति रुचिं तुवि–अर्द्दने अच्। १ अलाव्वाम् भरतः। २ वृहत्फलायाम्, राजनि०। ३ आमलक्यां, ४ गबि च स्त्री। रार्थे क तत्रार्थे शब्दरत्ना०। स्त्रीगव्यां अलाव्वां स्त्री त्रिका०। टाप्।
तुम्बर = न० तुम्बं तदाकारं राति–रा आदाने क। (तानपूरा) १ वाद्यभेदे तुम्बरचक्रम्। २ तुम्बरुगन्धर्वे च।
तुम्बरचक्र = न० नरपतिजयचर्य्योक्ते चक्रभेदे चक्रशब्दे २८२४ पृ० दृश्यम्।
तुम्बरु = पु० गन्धर्वमेदे। “सुप्रिया चातिबाहुश्च विख्यातौ च हाहाहूहूः। तुम्बरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः” भा० आ० ६५ अ०।
तुम्ब(ष)वन = न० देशभेदे स च देशः वृ० सं० दक्षिणस्यामुक्तः “अथ दक्षिणेन लङ्केत्युपक्रमे “तुम्ब(ष)वनकार्मणेयक याम्योदधितापसाश्रमा ऋषिकाः” १४ अ०।
तुम्बि(म्बी) = स्त्री तुबि–इन्। १ अलाब्वां (लाउ) शब्दरत्ना० वा ङीप् तत्रार्थे अमरः। “तुम्बी गोमांसतुल्या स्यात्” ति० त० नवम्यां तद्भक्षणनिषेधः। स्वार्थे क। तुम्बिका तत्रार्थे कटुतुम्ब्याञ्च राजनि०।
तुम्बिनी = तुबि–णिनि ङीप्। कटुतुम्ब्यां राजनि०।
तुम्बिपुष्प = न० तुम्बेरिव पुष्पमस्याः। लताम्बुजे हारा० ६ त०। अलाबूपुष्पे च।
तुम्बुक = न० तुबि उक। अलावूफले हड्डचन्द्रः।
तुम्बुर = पु० विन्ध्यपर्वतस्थे जातिभेदे। “ये चान्ये विन्ध्यनिलयास्तु(षा)खारास्तुम्बुरास्तथा” हरिवं०५ अ०।
तुम्बुरी = स्त्री तुबि + बा० उर गौरा० ङीष्। १ शम्यां २ धन्याके च मेदि०।
तुम्बुरु = पु० १ गन्धर्वभेदे जटा०। २ अर्हदुपासकभेदे हेम०। “गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः” भा० आ० १२३ अ०। ३ वृक्षभेदे। “तुम्बुरुः सौरभः सौरोवनजः सानुजोऽन्धकः। तुम्बरु प्रथितं तिक्तं कटु पाकेऽपि तत् कटु। रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लथु विदाहि च। वातश्लेष्माक्षिकर्णोष्ठशिरोरुक्गुरुताकृप्तिन्। कुष्ठशूला रुचिश्वासप्लीहकृच्छ्राणि नाशयेत्” भावप्र०।
तुम्र = त्रि० तुम–प्रेरणे आहनने च रक्। १ प्रेरके २ हिंसके च “सत्राहणं दाधृषिं तुम्रमिन्द्रम्” ऋ० ४। १७। ८। “तुम्रं प्रेरकम्” भा० “आगत्या तुम्रो वृषभो मरुत्वान्” ऋ० ३। ५०। १। तुम्रः आहन्ता तुमिराहननार्थः” भा०।
तुर = त्वरणे जुहो० पर० अक० सेट्। तुतोर्त्ति अतोरीत्। तुतोर। वैदिकोऽयम् धातुः। “अपामिवेदूर्मयस्तर्तुराणाः” ऋ० ९। ९५। ३। ताच्छील्ये चानश्। अभ्यासस्यातोऽत्त्वं च “सहिष्ठे तुरतस्तुरस्य” ऋ० ६। १८। ४। “अर्को वा यत्तुरते” तैस० २। २। १२। ४। वेदे गणव्यत्ययः पदव्यत्ययश्च। अस्यादन्त चुरादित्वमपि। तुरयति। “तुरयन्न जिष्यः” ऋ० ४३८। ७
तुर = त्रि० तुर–क। वेगवति। “प्र तव्यसो नम उक्तिं तुरस्याहम्” ऋ० ५। ४३। ९ “नहि त्वा शूरो न तुरो न घृ- ष्णुर्न” ऋ० ६। २५। ५। घञर्थे भावे क वा। २ वेगे तुरगः।
तुरग = पुंस्त्री तुरेण वेगेन गच्छति गम–ड। घोटके अमरः स्त्रियां जातित्वात् ङीष्। “तुरगशताकुलस्य परमेकतुरङ्गजन्मनः”। “उल्लङ्घ्य गन्तुं तुरगास्तदोषुः” माघः २ चित्ते मेदिनिः। मुग्धबोधे तुरां वेगं गच्छतीति वाक्यम्।
तुरगगन्धा = स्त्री तुरगस्येव गन्धोऽस्याः। अश्वगन्धायां राजनि० ६ त०। अश्वस्यगन्धे पु०। तुरङ्गगन्धादयोऽप्यत्र रत्नमा०।
तुरगदानव = पु० तुरगाकारो दानवः शा० त०। केशिदानवे। “यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः” “कृतं तुरगदैत्येन सर्वान् गोपान् जिघांसता” हरिवं० ८१ अ०।
तुरगब्रह्मचर्य्य = न० तुरस्येव ब्रह्मचर्य्यम्। स्त्रिया अलाभे तत्त्यागरूपे व्रतभेदे त्रिका०।
तुरगलीलक = पु० “द्रुतं द्वन्द्वं विरामान्तं लघुस्तुरगलीलके” संगोतदा० उक्ते तालभेदे।
तुरगातु = त्रि० तुरेण गातुः गम–वेदे वा० डातु। १ त्वरया गमनकारके। २ तूर्णगमने च “अनच्छये तुरगातु जीवमेजद्ध्रुवम्” ऋ० १। १६४। ३०। “तुरगातु स्वव्यापाराय गमनम्” भा०।
तुरगानन = पु० तुरगस्याननमिवाननमस्य। १ किन्नरभेदे तुरङ्गवदने। देशभेदे स च देशः वृ० स० १४ अ० उत्तरस्यामुक्तः। “उत्तरतः कैलासः” इत्युपक्रमे “त्रिगर्त्ततुरगाननाश्वमुखाः”।
तुरगिन् = त्रि० तुरगो वाहगत्वेनास्त्यस्य इनि। अश्वारोहिणिहे मच०। तुरङ्गिन् प्रभृतयोऽप्यत्र “तुरङ्गिभिर्यत्ननिरुद्धवेगाः” माघः।
तुरगी = स्त्री तुरगस्तद्गन्धोऽस्त्यस्या अच् गौरा० ङीष्। १ अश्वगन्धायाम् मेदि०। तुरग + जातौ ङीष्। २ तुरगजातिस्त्रियाञ्च।
तुरङ्ग = पुंस्त्री० तुरेण गच्छति गम–ख मुम् वा डिच्च। १ घोटके स्त्रियां जातित्वात् ङीष्। २ चित्ते न० शब्दरत्ना०। “नियोज्यतंहोमतुरङ्गरक्षणे” रघुः। तुरगशब्दे उदा०।
तुरङ्गक = पु० तुरङ्ग इव कायति कै–क। १ हस्तिघोषावृक्षे रत्नमाला०। स्वार्थे क। २ घोटके।
तुरङ्गद्विषणी = स्त्री तुरङ्गोद्विष्यतेऽनया बा० क्यु–ङीप्। महिष्यां राजनि०।
तुरङ्गप्रिय = पु० ६ त०। यवे राजनि०।
तुरङ्गम = पुंस्त्री० तरं गच्छति गम–खच् मुम्। १ घोटके अमरः स्त्रियां जातित्वात ङीष्। “अवेहि मां प्रीतमृते तुरङ्गमात” रघुः। “रसातलं संक्रमिते तुरङ्गमे” रघुः।
तुरङ्गवक्त्र = पु० तुरङ्गस्येव वक्वमम्य। अश्वाकारमुखे किन्नरे जटाधरः तुरङ्गवदनादयोऽप्यत्र अमरहेमचन्द्रौ।
तुरङ्गारि = पु० ६ त० सेवनेऽश्वनाशके १ करवीरे वृक्षे० जात्या तद्द्वेषिणि २ महिषे च रत्नमा०।
तुरङ्गिका = स्त्री तुरङ्गः तदाकारोऽस्त्यस्याः ठन्। देवदालीलतायाम् राजनि०।
तुरङ्गी = स्त्री तुरङ्गस्तद्गन्धोऽस्त्यस्याः अच् गौरा० ङीष्। १ अश्वगन्धायां रत्नमा० तुरङ्ग + जातौ ङीष्। २ घोटकजातिस्त्रियाञ्च।
तुरण = त्वरायां कण्ड्वा० पर० अक० सेट्। तुरण्यति अतुरणी(ण्यी)त्।
तुरण = न० जु० तुर–बा० भावे क्यु। क्षिप्रगमने “सुरेतस्तुरणे तुरण्युः” ऋ० १। १२१। ५। “तुरणे क्षिप्रगमने” भा०।
तुरण्य = पु० तुरण्य–कण्ड्वा० भावे घञ्। त्वरायाम्। “उषसस्तुरण्यसत्” ऋ० ४। ४०। २। “तुरण्यसद्त्वरया सीदतीति” भा०
तुरण्यु = त्रि० कण्ड्वा० तुरण्य–उन्। त्वरायुक्ते। “तुभ्यं शुक्रास सुरयस्तुरण्यवः” ऋ० १। १३४। ५। “तुरण्यवः त्वरायुक्ताः” भा०
तुरम् = अव्य० अद० चु० तुर–वा० असु। त्वरायाम्। “तुरं यतीषु तुरयन्नृजिप्यः” ऋ० ४। ३८। ७।
तुरस् = न० अद० चुरा० तुर–अमुन्। त्वरायाम्। “आयसस्तुरस्पेये” १०। ९६। ८।
तुरायण = न० तुर–क तस्यायनं “पूर्वपदात् संज्ञायाम्” पा० णत्वम्। १ यज्ञभेदे सि० कौ०। २ असङ्गे अमरः त्वरितस्य हि गमनमसङ्गवद्भवतीति तस्य तथात्वम्। २ सत्रभेदे “तुरायणं वैशाखशुक्लपञ्चम्याम्” “चैत्रस्य वा” कात्या० २४। ८। १। २। “तुरायणं सत्रनाम” कर्कः तद्विधानं तत्रैव उत्तरतो दृश्यम्। अत ऊर्द्धमिष्ट्ययनानि” आ० श्रौ० २। १४। १। उपक्रमे। “सांवत्सरिकाणि” २ स०। “इष्ट्ययनानि संवत्सरेण संवत्सरैर्वा साध्यानि” नारा०। तुरायणम् ४ सू० तद्विहितं इष्टिभिरयनं “तुरायणं हि व्रतमप्यधृष्यमक्रुधनोऽकरवं त्रिंशतोऽव्दान्” भा० आनु० १०३ अ०। तुरायणं यज्ञभेदमावर्त्तयति ठञ्। तौरायणिक तद्यज्ञकारके।
तुरासाह् = पु० तुरं त्वरितं साहयति अभिभवति चु० साहेः क्विप् पूर्वपददीर्घः। १ इन्द्रे अमरः अस्य हलादौ मुपि हस्य ढत्वे षत्वम्। तुराषाट्–अजादौ तु न षत्वं तुरासाहमित्यादि “तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः” कुमा०। “कालेनारिबधात् प्रीतः तुराषाडिव शार्ङ्गिणम्” रघुः “तुराषाट् विश्वमूत्ते सुराग्रज!” हरिवं० २५९ अ०। इन्द्रस्तुतौ।
तुरि(री) = स्त्री तुर–इन् “इगूधात् कित्” उणा० किच्च वा ङीप्। तन्त्रवायस्य काष्ठादिनिर्मिते वयनसाधने (माकु) द्रव्ये “तद्भटचातुरीतुरीति” नैष० तुरीतन्तुसंयोगः जगदीशः २ त्वरायुक्तमात्रे। “रुचा नृपतीवतुर्य्ये” ऋ० १०। १०६। “तुर्य्ये त्वरमाणायै संभ्रमवत्यै जनतायै” भा०।
तुरीप = त्रि० तूर्णमाप्तोति व्याप्तोति तूर्ण + आप–क पृषो०। तूर्ण व्यापके। “तुष्टातुष्टा तुरीपोऽद्भुत इन्द्राग्नी पुष्टिवर्द्धनी” यजु० २१। २०। तुरीपः तूर्णमाप्नोति तुरीपः” वेददी०। “तन्नस्तुरीपमद्भुतम्” १। १४२। १ “तुरीपं तूर्णं व्यापि” भा० मुद्रितपुस्तके तुरीयमिति पाठः मुद्रादोषात् भाष्यव्याख्यादर्शनात् तुरीपपाठस्यैवोचितत्वात्।
तुरीय = गतौ भ्वा० सक० सेट् गतिकर्म्मसु निघण्ठुः। तुरीयति अतुरीयीत्।
तुरीय = त्रि० तुरीय–अच् चतुर्णां पूरणः चतुर + छ आद्यलोपश्च। १ गतियुक्ते २ चतुर्णां पूरणे च। ३ तारके। “तनस्तुरीयमध पोषयित्नुः” ऋ० ३। ४। ८। “तुरीयं तारकम्” भा०। “गुहा त्रीणि निहितानेङ्गयन्ति” “तुरीयं वाचो मनुष्या वदन्ति” ऋ० १। १६४। ४५। अस्यार्थः भाष्ये वहुधा मतभेदेन दर्शितः किन्तु वैखरीरूपा वाक् चतुर्थीति निष्कृष्टार्थः तथा हि “परा प्रश्यन्ती मध्यमा वैस्वरीति चत्वारि। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते। नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात्। सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते मध्ये हृदयाख्ये उदीयमानत्वान् मध्यमायाः! अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैस्वरीत्युच्यते एवं चत्वारि बावः पदानि परिमितानि। मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणा वाचोऽस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः पदानि चत्वारि पदानि विदुः। जानन्ति। तेषु मध्ये त्रीणि परादीनि गुहानिहितानि हृदयान्तर्वर्त्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति। ४ सर्वाधारभूतेऽनुपहितचैतन्ये परब्रह्मणि “वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिविम्बाकाशयोर्वा आधारानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययोराधारभूतं यदनुपहितचैतन्यं तत् तुरीयमित्युच्यते” वेदान्तसा०। आधारश्चासौ अनुपहितश्चासौ आकाशश्च स तथा तद्वदिति यावत्। यद्यप्याकाशस्य वनाश्रयत्वं जलाश्रयत्व वा नास्ति तदनारम्भकत्वात् तथाप्याकाशमन्तरेण तयोः स्थित्यनुपपत्तेस्तदाधारत्ववचनमिति द्रष्टव्यम्। अस्य चैतन्यस्य तुरीयत्वं विश्वतैजसप्राज्ञापेक्षया द्रष्टव्यम्। “शिवमद्वैतं तुरीयं मन्यन्ते” वेदान्त सारधृता श्रुतिः “तुरीयो यज्ञो यत्र हव्यमिति”। यजु० १७। ५७ तुरीयः चतुर्थः “आदौ यजुर्जपः ततोहोत्रा ऋचां पठनम् ब्रह्मणोऽप्रतिरथजपः एवं च तुरीयोहोमः तथा च श्रुतिः “अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञ” इति वेददी०। “तुरीयः ब्रह्महत्यायाः क्षत्रियस्य बधे स्थितः” मनुः स्वार्थे क। तत्रार्थे। “भगिन्यश्च निजादशात् दत्त्वांशन्तु तुरीयकम्” याज्ञ०।
तुरीयवर्ण = पु० कर्म्म०। शूद्रे हला०।
तुरुष्क = पु० तुर–उसिक् स्वार्थे क इसुसोरिति षत्वम्। १ गन्धद्रव्यभेदे (शिलारस) अमरः। २ म्लेच्छजातिभेदे मेदि० ३ पारस्यभाषाभेदे च हेमच० ४ श्रीवासवृक्षे विश्वः।
तुर्फरी = त्रि० तृफ–हिंसायाम् बा० अरि। हन्तरि। “सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका” ऋ० १०। १०६। ६ “तृफ तृम्फ हिंसायाम्। अस्मात्तृजन्तस्य तुर्फरीतारावित्यस्य पृषोदरादित्वाद्वर्णविकारः। यद्वास्माद्वाहुलकादौणादिकोऽरीतुप्रत्ययः। उक्तं चात्र नि० १३। ५। “द्विविघा सृणिर्भवति भर्त्ता च हन्ता च तथा श्विनौ चापि भर्त्तारौ जर्भरी भर्त्तारावित्यर्थस्तुर्फरीतू हन्तारावित्यादि। जर्भरिशब्दे ३०६२ पृ० दृश्यम्।
तुर्फरीतु = त्रि० तृफ–वा० अरीतु पृषो०। हन्तरि त्र्फरीशब्दे दृश्यम्।
तुर्य्य = त्रि० चतुर + पूरणे यत् च भागस्य लोपः। चतुर्थे। “एक एवेश्वरस्तुर्य्यः भगवान् स्वाश्रयः परः” भाग० ६। ५। १२। “तुर्य्यशब्दस्य वा एकदेशिसमासः तुर्य्यं भिक्षायाः तुर्य्यभिक्षा पक्षे षष्ठोसमासः भिक्षातुर्य्यम्।
तुर्य्यगोल = पु० सि०। “दलीकृतं चक्रमुशन्ति चापं कोदण्डखण्डं खलु तुर्य्यगोलम्” शि० उक्ते कालज्ञानार्थे यन्त्रभेदे
तुर्य्यवाह = पु० तुर्य्यं चतुर्थं वर्षं वहति वह–ण्वि। चतुर्वर्षे पशौ। “तुर्य्यवाट् वयोऽनुष्टुप्छन्दः” यजु० १४। १९ “तुर्य्यवाट् तुर्य्यं चतुर्थं वर्षं वहतीति पशुः अनुष्टुप् छन्दो भूत्वोत्क्रान्तं तुर्य्यवाहं पशुं प्रजापतिर्वयसाऽग्रहीत्। तुर्य्यवाहं वयसाप्नोदनुष्टुप्भूत्वा तुर्य्यवाह उच्चक्रमुरिति” शत० व्रा० ८। २। ४। १५ श्रुतेः” वेददी०।
तुर्व = हिंसायां भ्वा० पर० सक० सेट्। तूर्वति अतूर्वीत्। तुतुर्वतुः “वृत्रं यादिन्द्र तूर्वसि” ऋ० ८। ९९। ६। “तूर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः” ऋ० ८। ९। १३। तूर्वणे। हिंसने” भा०।
तुर्वणि = त्रि० तर्णं वनुते वन् संभक्तौ इन् पृषो०। तूर्णसंभक्तरि “तुर्वणिरहा विश्वेव तुर्वणिः” ऋ० १। १३०। ९। “तुर्वणिस्तूर्णवनिः क्षिप्तं संभक्ता तुर्वणिस्तूर्ण्णवनिरिति निरुक्तम् (६। १४।) भा०।
तुर्वश = पु० नृपभेदे। “त्वमाविथ नर्य्यं तुर्वशं यदुम्” ऋ० १। ५४। ६। “नर्य्यादीन् हि राज्ञः” भा०। “उत त्या तुर्वशायदू अस्नातारा शचीपतिः” ऋ० ४। ३०। १७।
तुर्वशे = अव्य० अन्तिके निकटे निघण्टुः।
तुर्वसु = पु० ययातिनृपपुत्रभेदे। “अन्वगृह्णात् प्रजां सर्वां ययातिरपराजितः। तस्य पुत्रा महेष्वासाः सर्वे समुदितागुणैः। देवयान्यां महाराज! शर्म्मिष्ठायाञ्च जज्ञिरे। देवयान्यामजायेतां यदुस्तुर्वसुरेव च। दुह्युश्चानुश्च पूरुश्च शर्म्मिष्ठायां प्रजिज्ञिरे” भा० आ० ७५ अ० तस्मै ययातिशापकथा यथा। “तुर्वसो! प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन चरेयं वै विषयांस्तव पुत्रक!। पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वञ्चैव प्रतिपत्स्यामि पाप्मानं जरया सह। तुर्वसुरुवाच। न कामये जरां तात! कामभोगप्रणाशिनीम्। बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम्। ययातिरुवाच। यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मात् प्रजासमुच्छेदं तुर्वसो! तव यास्यति। सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च। पिशिताशिषु चान्त्येषु मूढ! राजा भविष्यसि। गुरुदारप्रसक्तेषु तिर्य्यग्योनिगतेषु च। पशुधर्म्मिषु पापेषु म्लेच्छेषु त्वं भविष्यसि” ८४ अ०।
तुर्वीति = पु० राजर्षिभेदे। “वृहद्रथं तुर्वीतिं दस्यवे सहः”। ऋ० १। ३६। १८
तुल = उन्माने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। तोलयति ते तोलति अतूतुलत् त। “पतिष्यति क्षितौभानुः पृथिवीं तोलयिष्यते” भट्टिः। तुलयतीति तु तुलाशब्दात्णिच्। “अन्तःसारं घनतुलयितुं नानिलः शक्ष्यति त्वाम्” “अन्तस्तीयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रामादास्त्वांथन! तुलयितुमलं यत्र तैस्तैर्विशेषैः” मेघ०। “तुलयति स्म विलोचनतारकाः” माघः। “नक्तन्दिनैस्तुलितकृत्रिमभक्तिशोभाः” रघुः।
उद् + उत्क्षिप्य तोलते। उत्तोलयति
तुलभ = पु० तुरेण वेगेन भाति भा–ड रस्य लः। आयुधजीवीसंघभेदे। ततः दामन्या० स्वार्थे छ। तुलभीय तदर्थे।
तुलसारिणी = स्त्री तुरेण वेगेन सरति सृ–णिनि ङीप्। तृणे शब्दमा०।
तुलसी = स्त्री तुलां सादृश्यं स्यति सो–क गौरा० ङीष् शकन्ध्वा०। स्वनामख्याते वृक्षभेदे। “यस्या देव्यास्तुला नास्ति विश्वेषु चाखिलेषु च। तुलसी तेन विख्याता” शब्दार्थचि० देवीभाग० उक्तनिरुक्तेस्तस्यास्तथात्वम्। “तुलसी कटुका तिक्ता हृद्योष्णादाहपित्तहृत्। दीपनी कुष्ठकृच्छ्रास्रपार्श्वरुककफवातजित्। शुक्ला कृष्णा च तुलसी गुणैस्तुल्या प्रकीर्त्तिता” भावप्र० तद्गुणा उक्ताः तुलस्यामाहात्म्यं यथा। “ब्रह्मोवाच। तुलस्याः शृणु माहात्म्यं पापघ्नं सर्वकामदम्। यत्पुरा विष्णुना प्रोक्तं तत्ते वक्ष्याम्यशेषतः। सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः। पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः १। दृष्टा२ स्पृष्टा३ तथा ध्याता४ कार्त्तिके नमिता५ऽर्च्चिता६। रोपिता७ सेचिता८नित्यं पापं हन्ति युगार्जितम्। अष्टधा तुलसी यैस्तु सेविता द्विजसत्तम!। युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे। रोपिता तुलसी यावत् कुरुते मूलविस्तृतिम्। तावद्युगसहस्राणि तनोति सुकृतं हरिः। तुलसीदलपुष्पाणि योदद्याद्धरये मुने!। कार्त्तिके सकलं पापं सोऽत्र जन्मार्जितं दहेत्। रोपिता तुलसी यावत् वर्द्धते वसुधातले। तावत्कल्पसहस्राणि विष्णुलोके महीयते। यत्फलं सर्वपुष्पैश्च सर्वपत्रेण यत्फलम्। तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्विष्णुपूजने। तुलसीगन्धमादाय यत्र गच्छति मारुतः। दिशोदश पुनात्याशु भूतग्राभांश्चतुर्विधान्। तूलसीकाननीद्भूता छाया यत्र भवेन्मुने!। तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे। तुलसीवीजनिकरो यस्मिन् पतति वैमुने!। तत् स्थानं परमं ज्ञेयं पितॄणां प्रीतिवर्द्धनम्। यस्मिन् गृहे द्विजश्रेष्ठ! तुलसीतलमृत्तिका। तत्रैव नीपसर्पन्ति भूतले यमकिङ्कराः। तुलसीमृत्तिकालिप्तो यदि प्राणान् परित्यजेत्। यमेन नेक्षितुं शक्तो मुक्तः पापशतैरपि। तुलसीमृत्तिकालिप्तं ललाटं यस्य दृश्यते। कुलं स्पृशति नो तस्य कलिर्मुनिवरोत्तम!। यः कश्चित्तुलसीमूले कार्त्तिके केशवप्रियः। दीपं ददाति विप्रेन्द्र! स लभेद्वैष्णवं पदम्। तुलसीकाननञ्चैव गृहे यस्यावतिष्ठते। तद्गृहं तीर्थभूतं हि नायान्ति यमकिङ्कराः। दर्शनं नर्मदायास्तु गङ्गास्नानं तंथैव च। तुलसीवनसंसर्गं सममेतत्त्रयं स्मृतम्। रोपणात् पालनात् सेकाद्दर्शनात् स्पर्शनान्नृणाम्। तुलसी दहते पापं वाङ्मनः कायसञ्चितम्। तुलसीमञ्जरीभिर्यः कुर्य्याद्धरिहरार्च्चनम्। न स गर्भगृहं याति मुक्तिभागी भवेन्नरः। पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा। वासुदेवादयोदेवा वसन्ति तुलसीदले। तुलसीमञ्जरीयुक्तो यस्तु प्राणान् विमुञ्चति। यमोन वीक्षितुं शक्तो युक्तं पाप शतैरपि” पाद्मोत्तरख०। “यत्रैकस्तुलसीवृक्षस्तिष्ठति द्विजसत्तम!। तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः। केशवः पत्रमध्येषु पत्राग्रेषु प्रजापतिः। पत्रवृन्ते शिवस्तिष्ठेत् तुलस्याः सर्वदैव हि। लक्ष्मीः सरस्वती चैव गायत्री चण्डिका तथा। शची चान्या देवपत्न्यस्तत् पुष्पेषु वसन्ति वै। इन्द्रोऽग्निः शमनश्चैव नैरृतो वरु णस्तथा। पवनश्च कुवेरश्च तच्छाखायां वसन्त्यमी। आदित्यादिग्रहाः सर्वे विश्वे देवाश्च सर्वदा। वसवो मनवश्चैव तथा देवर्षयोऽखिलाः। विद्याधराश्च गन्धर्वाः सिद्धाश्चाप्सरसस्तथा। तुलसीपत्रमाश्रित्य सर्वदा निवसन्ति वै। चिन्वन्ति तृणजातानि तुलसीमूलजानि वै। तद्देहस्था ब्रह्महत्याश्चिनोति तत्क्षणाद्धरिः। ग्रीष्मकाले द्विजश्रेष्ठ! सुगन्धैः शीतलैर्जलैः। तुलसीसेचनं। कृत्वा नरो निर्वाणमाप्नुयात्। चन्द्रातपं वा छत्रं वा तुलस्यै यस्तु यच्छति। विशेषतः निदाघेषु स मुक्तः सर्वपातकैः। वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः। सेचयेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः। कदाचित्तुलसीं दुग्धैः सेचयेद् यो नरोत्तमः। तस्य वेश्मनि विप्रर्षे! लक्ष्मीर्भवति निश्चला। गोमयैस्तुलसीमूले यः कुर्य्यादनुलेपनम्। सम्मार्ज्जनञ्च कुरुते तस्य पुण्यफलं शृणु। रजांसि तस्य यावन्ति दूरीभूतानि जैमिने!। तावत्कल्पसहस्राणि मोदते ब्रह्मणा सह। यद्धर्मकर्म्म कुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च। तत्सर्वमेव विफलं भवति द्विजेन्द्र! पद्मेक्षणोऽपि न हि तुष्यति देवदेवः। यस्य स्यात्तुलसीपत्रं मुखे शिरसिकर्णयोः। मृत्युकाले द्विजश्रेष्ठ! तत्र स्वामी न भास्करिः” पाद्मेक्रियायोगसारः। “स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः तुलसीपत्रतोये च योऽभिषेकं समाचरेत्। गवामयुतदानेन यत्फलं लभते नरः। तुलसीपत्रदानेन तत्फलं कार्त्तिके सति!। तुलसीतोय- कणिकां मृत्युकाले च यो लभेत्। रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च। त्रिकालं तुलसीपत्रं शुष्कं पर्य्युषितं सति!। श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्च्चने। भूगतं तोयपतितं यद्दत्तं विष्णवे सति!। शुद्धन्तु तुलसीपत्रं क्षालनादन्यकर्म्मणि” पार्वतीं प्रति शिववाक्यम्। तुलसीचयननिषेधकालो यथा। “पूर्णिमायाममायाञ्च द्वादश्यां रविसंक्रमे। तैलाभ्यङ्गे च स्नाते न मध्याह्ने निशि सन्ध्ययोः। अशौचेऽशुचिकाले च रात्रिवासान्वितेऽपि वा। तुलसीं ये च चिन्वन्ति ते छिन्दन्ति हरेः शिरः”। हरिभ०। तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे च दोषोतथा। “तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति। स याति कालसूत्रञ्च यावच्चन्द्रदिवाकरौ। करोति मिथ्याशपथं तुलस्या यो हि मानवः। स याति कुम्मीपाकञ्च यावदिन्द्राश्चतुर्दश” ब्रह्मवैवर्त्तेप्रकृतिखण्डम्। तुलसीपत्रचयने मन्त्रो यथा। “मातस्तुलसि! गोविन्दहृदयानन्दकारिणि!। नारायणस्य पूजार्थं चिनोमि त्वां नमोऽस्तु ते। कुसुमैः पारिजाताद्यैः सुगन्धैरपि केशवः। त्वया विना नैव तृप्तिं चिनोमि त्वामतः शुभे!। तया विना महाभागे! समस्तं कर्म निष्फलम्। अतस्तुलसि! देवि! त्वां चिनोमि वरदा भव। चयनोद्भवदुःखं यद्देवि! ते हृदि वर्त्तते। तत् क्षमस्व जगन्मातस्तुलसि! त्वां नमाम्यहम्। कृताञ्जलिरिमान् मन्त्रान् पठित्वा वैष्णवो जनः। करतालत्रयं दत्त्वा चिनुयात्तुलसीदलम्। शनैः शनैस्तथाकारैश्चीयते तुलसीदलम्। यथा न कम्पते शाखा तुलस्याद्विजसत्तम!। पत्राणां चयने विप्र। भग्नशाखा यथा भवेत्। तथा हृदि व्यथा विष्णोर्दीयते तुलसीपतेः”। पाद्मेक्रियायोगसारः। तुलसीकाष्ठमालामाहात्म्यं यथा। “तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः। पदेपदेऽश्वमेधानां लभते निश्चितं फलम्” ब्रह्मवैवर्त्ते प्रकृ०। “सात्वतैस्तुलसीकाष्ठमाला कुञ्जसमुद्भवा। धार्य्या नित्यं प्रयत्नेन त्वेतद्भक्तस्य लक्षणम्”। हरिभक्तस्य तुलसीकुञ्जकाष्ठसमुद्भवा। चिह्नार्थमात्मनो माला पुरा कृष्णेन दर्शिता” पाद्मोत्तरखण्डम् “काष्ठमालाधरं विप्रं यतिनं यानरोहिणम्। खट्टास्थां विधवां दृष्ट्वा सचेलं जलमाविशेत्” इति वचनस्य साकरत्वे तुलसीकाष्ठेतरकाष्ठविषयत्वमिति वैष्णवाः। स्मार्त्तास्तु विप्रेतरपरत्वं पाद्मोत्तरखण्डवाक्यस्य वर्णयन्ति। तन्मूलञ्च “तुलसीपत्रजातेन माल्येन भव भूषितः। विप्र! त्वं न च तत्काष्ठमालां गलगतां कुरु” इति वाक्यमालोच्य तथा व्यवस्थापयन्ति। अन्ये तु विष्णुदीक्षाविहीनविप्रस्य तत्काष्ठमालाधारणनिषेधः। विधिस्तु वैष्णवस्येति वर्णयन्ति। गणेशपूजने तुलसीनिषेधो यथा तुलसीं प्रति गणेशवाक्यम् “पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे!। कलांशेन महाभागे! स्वयं नारायणप्रिया। प्रिया त्वं सर्वदेवानां कृष्णस्य च विशेषतः। पूजा विमुक्तिदा नॄणां मम त्याज्या च सर्वदा” ब्रह्मवैवर्त्ते गणेशखण्डम्। “अक्षतैर्नार्चयेद्विष्णुं न तुलस्या विनायकम्। न दूर्वया यजेद्दुर्गां धुस्तुरेण न भास्करम्” राघवभट्टधृतम्।
तुलसीग्रहणविधिः वायुपुराणे। “अस्नात्वा तुलसीं छित्त्वा यः पूजां कुरुते नरः। सोऽपराधी भवेत् सत्यं तत् सर्वं निष्फलं भवेत्”। तच्चयने मन्त्रान्तरं स्कान्दे “तुलस्यमृतजन्मासि सदा त्वं केशवप्रिया। केशवार्थे चिनोमि त्वां वरदा भव शोभने”। “त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम्। तथा कुरु पवित्राङ्गि! कलौ मलविनाशिनि”। गारुडे च। मोक्षैकहेतो! धरणीप्रशस्ते। विष्णोः समस्तस्य गुरोः प्रियेति। आराधनार्थं वरमञ्जरीकं लुनामि पत्रं तुलसि! क्षमस्व। इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणंपाणिना। पत्राण्येकैकशोन्यस्येत् सत्पात्रे मञ्जरीरपि। तन्माहात्म्यञ्च स्कान्दे। “मन्त्रेणानेन यः कुर्य्यात् गृहीत्वा तुलसीदलम्। पूजनं वासुदेवस्य लक्षकोटिफलं लभेत्”। किञ्च “शालग्रामशिलार्च्चार्थं प्रत्यहं तुलसीक्षितौ। तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः”। इति। संक्रान्त्यादौ निषिद्धेऽपि तुलस्यवचयः स्मृतौ। परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते” हरिभ० तुलस्यवचयनिषेधकालः। विष्णुधर्म्मोत्तरे “नोच्छिन्द्यात् तुलसीं विप्रा द्वादश्यां वैष्णवः क्वचित्”। गारुड “भानुवारं विना दूर्वां तुलसीं द्वादशीं विना। जीवितस्याविनाशाय न विचिन्वीत धर्मवित्”। पाद्मे च श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये “द्वादश्यां तुलसीपत्रं धात्रीषत्रञ्च कार्त्तिके। लुनाति स नरो गच्छेन्निरयानतिगर्हितान्”। अतएवोक्तम्। “देवार्थे तुलसीच्छेदो होमार्थे समिधान्तथा। इन्दुक्षये न दुष्येत गवार्थे तु तृणस्य च”। “एवं कृत्वा महापूजामङ्गोपाङ्गादिकं प्रभोः। क्रमाद् यथा सम्प्रदायं तत्तत् स्थानेषु पूजयेत्”। हरिभक्तिविलासे ७ विलासे। तुलसीविवाहप्रतिष्ठाविधिः “श्रीवशिष्ठ उवाच। विवाहं सम्प्रवक्ष्यामि तुलस्यास्तु यथाविधि। यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा”। “आदावेव वने वाप्य तुलसीं स्वगृहेऽपि वा। वर्षत्रयेण पूर्णेन ततो यजनमारभेत्। सौम्यायने प्रकर्त्तव्यं गुरुशुक्रोदये तथा। अथ वा कार्त्तिके मासि भीष्मपञ्चदिनेषु च। वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः। मण्डपं कारयेत्तत्र कुण्डवेदी तथा पुनः। शान्तिकञ्च प्रकर्त्तव्यं मातृणां स्थापनं तथा। मातृश्राद्धादिकं सर्वं विवाहवत् समाचरेत्। ब्राह्मणांश्च शुचिः स्नातान् वेदवेदाङ्गपारगान्। ब्रह्मा चादेशकश्चैव चत्वारश्च तथर्त्विजः। वैष्णवेन विधानेन बर्द्धनीकलसं यजेत्। मण्डपं कारयेत्तत्र लक्ष्मीनारायणं शुभम्। ग्रहयज्ञं पुरः कृत्वा मातॄणां यजनं तथा। कृत्वा नान्दीमुखं श्राद्धं सौवर्णं स्थापयेद्धरिम्। कृत्वारोप्य च तुलसीं लग्ने त्वस्तमिते रवौ। वासःशतेन मन्त्रेण वस्त्रयुग्मेन वेष्टयेत्। यदा बध्नेति मन्त्रेण कङ्कणं पाणिपल्लवे। कोऽदादिति च मन्त्रेण पाणिग्राहो विधीयते। ततः कुण्डे समागत्य आचार्य्यः सहसा द्विजैः। आचार्य्यो वेदिकाकुण्डे जुहुयाच्च नवाहुतीः। विबाहकर्मवत् सर्वं वैष्णवं देशिकोत्तमैः। कर्त्तव्यश्च ततो होमोविशेषाद्विधिपूर्बकम्”। “यजमानः सपत्नीको ह्यन्ये ये गोत्रबान्धवाः। प्रदक्षिणाश्च कर्त्तव्याश्चत्वारो विष्णुना सह। तुलस्याः पाणिग्रहणे वेदिकायां विभावसौ। शातकुम्भं जपेत् सूक्तं पावमानीं विशेषतः। तथैव शान्तिकाध्यायम्। नवसूक्तीं तथैव च। जीवसूक्तं पुनर्जप्त्वा तथा वैष्णवसंहिताम्। शङ्खझल्लरिनिर्घोषैर्भैरीतूर्य्यस्य निस्वनैः। गायन्ति मङ्गलानार्य्यो माङ्गल्यं विधिमाचरेत्। दद्यात् पूर्णाहुतिं पश्चादभिषेकविधिं ततः। ब्रह्मणे वृषभं दद्यादाचार्य्यपरिधाप्य च। गां पटञ्च तथा शय्यामाचार्य्याय प्रदापयेत्। ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच्च दक्षिणाम्। एवं प्रतिष्ठिता देवी विष्णुना च समर्च्चिता आजन्मोपार्जितं पापं दर्शनेन प्रणश्यति। रोपयेत्तुलसीं यस्तु सेचयेच्च प्रयत्नतः। प्रतिष्ठाप्य यथोक्तेन विष्णुना सह मानवः। स मोक्षं लभते जन्तुर्विष्णुलोकं तथा घनम्। प्राप्तोति विपुलान् भोगान् विष्णुना सह मोदते” हरिभक्तिविलासे। “तुलसी घ्राणमात्रेण रुष्टा भवति सुन्दरी” तन्त्रसा०।
तुलसीद्वेषा = स्त्री तुलसीं द्वेष्टि तुल्यगन्धत्वात् स्पर्द्धते द्विष अण्। वर्वर्य्यां (वावुइ) रत्नमा०
***