तिरश्ची = स्त्री तिर्य्यक् जातिः स्त्री ङीप्। पशुपक्षिणां स्त्रियाम्।
तिरश्चीन = त्रि० निर्य्यगेव स्वार्थे ख। तिर्य्यग्भूते। “गतं तिरश्चीनमनूरुसारथेः” माघः “तिरश्चीनो विततो रश्मिरेषामधः” ऋ० १०। १२९। ५। २ वक्रे च “ईक्षमाणः पापेन तिरश्चीनेन चक्षुषा” भाग० ७। ८। ४।
तिरस = अव्य० तॄ–असुन् स्वरादि। १ अन्तर्द्धाने २ तिर्य्यगर्थे च अमरः। ३ तिरस्कारे क्षीरस्वामी। अस्य कृञि वा उप० स०। तिरस्कृत्य तिरः कृत्येति “तिरस्कृत्योच्चरेत् काष्ठेत्यादि मनुः “तिरस्क्रियन्ते कृमितन्तुजालैः” माघः। तिरस्करोति णिच्–सलोपः। तिरयति आच्छादयतीत्यर्थः। “मुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि वेदनाम्” जयदेवः।
तिरस्कर = त्रि० तिरःकरोति कृ–ट। आच्छादके। स्त्रियां ङीप्। “अहो वत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः” भाग० १। १०। २८।
तिरस्करिणी = स्त्री तिरः करोति कृ–णिनि संज्ञापूर्बकविधे रनित्यत्वात् वृद्ध्यभावः ङीप्। (परदा) (काणात)। पटमये आच्छादकपदार्थे अमरः। “तिरस्करिण्यो जलदा भवन्ति” कुमा०। २ आच्छादकमात्रे त्रि० “सोऽत्यासाद्यत तद्वेश्म तिरस्करिणमन्तरा” रामा० अयो० १५ स०।
तिरस्कार = पु० तिरस् + कृ–भावे घञ्। १ अनादरे हला०। कर्त्तरि अण्। २ अवज्ञाकारके त्रि०। “लौहस्तिरस्कार इवात्तमन्युः” किराता०।
तिरस्कारिन् = त्रि० तिरः करोति कृ–णिनि ६ त०। १ आच्छादके (कानात) २ पटभेदे स्त्री ङीप्। ३ अवज्ञाकारके ति०
तिरस्कृत = त्रि० तिरस् + कृ–कर्म्मणि क्त। १ अवज्ञाते अनादृते २ आच्छादिते च अमरः “अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्” काव्यप्र०। ४ तन्त्रसारोक्ते मन्त्रभेदे पु० “यस्य मध्ये दकारोऽस्ति कवचं मूर्द्धनि द्विधा। अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदीर्य्यते”।
तिरस्क्रिया = स्त्री तिरस् + कृ–भावे श। १ अनादरे २ तिरस्कारे अमरः २ आच्छादने च “अप्रकटीकृतशक्तिः शक्तोऽपि जनातिरस्क्रियां लभते” पञ्चत०। “द्विपद्विषः प्रत्युत सा तिरस्क्रिया” माव०।
तिरस्य = पु० तिरस् + कण्ड्वा० यक् अन्तर्द्धाने सक० सेट्। तिरस्यति अतिरस (स्यी)त्।
तिरिट = पु० तॄ–वा० इटक्। इक्षुग्रन्थौ शब्दमा०।
तिरिम = पु० तॄ–वा० इमक्। शालिभेदे राजनि०।
तिरिष = पु० तॄ–बा० इषक्। शालिभेदे राजनि०।
तिरीट = न० तॄ–ईटक्। लोध्रवृक्षे उज्जवलद०।
तिरोटक = पु० तिरीट + संज्ञायां कन्। लोध्रे अमरः।
तिरोधान = न० तिर + धा–भावे ल्युट्। १ अन्तर्द्धाने भावे अङ्। तिरोधाप्यत्र स्त्री।
तिरोभाव = पु० तिरस् + भू–भावे घञ्। १ गुप्तभावे २ अन्तर्द्धाने।
तिरोहित = त्रि० तिरस् + धा–क्त। १ अन्तर्हिते गुप्ते २ आच्छादिते च “अतिरोहितमन्यत्” तत्त्वकौ० “एष ह वै पुरोहितो य एवं वेदाथ स तिरोहितो य एवं न वेद” ऐत० ब्रा० “न चामारं न च न्यूनं न दूरे न तिरोहितम्” मनुः
तिर्य्यक्पातिन् = त्रि० तिर्य्यक् पतति पत–णिनि। वक्रप्रसारिते कुटिलवृत्तौ शब्दार्थचि०।
तिर्य्यक्प्रमाण = न० कर्म्म०। विस्तारप्रमाणे।
तिर्य्यक्स्रोतस् = पु० तिर्य्यक् स्रोतो आहारसञ्चारो यस्य। पशुपक्ष्यादौ तेषामशितान्नस्य तिर्य्यक्तया उदरे सञ्चारात् तथात्वम्। तद्भेदाभाग०। ३। १०। २१ “तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधोमतः। अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः। गौरजो महिषः कृष्णः शूकरो गवयोरुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम!। खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा। एते चैकशफाः क्षत्तेः! शृणु पञ्चनखान् पशून्। श्वा शृगालो वृको व्याध्रो मार्ज्जारः शशशल्लकौ। सिंहः कपिर्गजः कूर्म्मो गोधा च मकरादयः। कङ्कगृध्र वकश्येनभासभल्लूकवर्हिणः। हंससारसचक्राङ्गकाकोलूकादयः खगाः।” “तिर्य्यक्स्रोतसां सर्गमाह तिरश्चामिति। स चाष्टाविंशतिभेदः। तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञानशून्याः। भूरितमसः आहारादिमात्रनिष्ठाः। घ्राणज्ञाः घ्राणेनैवेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धानशून्याः। तथा च श्रुतिः “अथेतरेषां पशूनाम् अशनापि पासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकाविति”। अष्टाविंशतिभेदानाह गवादय उष्ट्रान्ताः द्विशफाः द्विखुरा नव गवादयः चमर्य्यन्ता एकशफाः षट्। श्वादयो गोधान्ताः पञ्चनखाद्वादश। एवमेते भूचराः सप्तविंशतिः, भकरादयो जलचराः कङ्कादयश्च खगाः। अभूचरत्वेनैकीकृत्य गृहीताः। तदेवमष्टाविंशतिभेदान् वदन्ति। तेषु कृष्णरुरुगौराः मृगविशेषाः अन्येषामपि तिर्य्यके प्राणिनामेतेष्वेब यथायथमन्तर्भावः।”
तिर्य्यग्योनि = स्त्री तिरश्चां योनिः पशुपक्ष्यादिजातौ “स लिङ्गिनां हरत्येनस्तिर्य्यग्योनौ च जायते” मनुः। “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यंग्योनिगतामपि” ति० त०।
तिल = गतौ भ्वा० पर० सक० सेट्। तेलति अतेलीत्। तितेल।
तिल = स्नेहे तु० पर० अक० अनिट्। तिलति अतेलीत्। तितेल।
तिल = स्नेहे चुरा० उभ० अक० सेट्। तेलयति ते अतीतिलत् त।
तिल = पु० तिल–क। स्वनामख्याते शस्यभेदे। भावप्र० तद्गुणाद्युक्तं यथा “तिलः कृष्णः सितो रक्तः सवर्ण्योऽल्पतिलः स्मृतः। तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः। विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्। बल्यः केश्यो हिमस्पर्शस्त्वच्यस्तन्योव्रणे हितः। दन्त्योऽल्पमूत्रकृद्ग्राही वातघ्नोऽग्निमतिप्रदः। कृष्णः श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः। अन्ये हीनतराः प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः”। तिलप्रतिग्रहनिषेधमाह ब्रह्मपुराणम् “ब्राह्मणः प्रतिगृहणीयात् वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपि मातङ्गतिललौहांश्च वर्जयेत्” तिलदाने फलमाह विष्णुः। “तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्”। महाभारते “कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा। तिलपात्रं प्रयच्छन् वै सर्वपापैः प्रमुच्यते”। श० त० स्मृतिः “प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप!। यावन्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते”। सप्तम्यादिवर्जं तिलैः सदा स्नानं कर्त्तव्यमाह मार्कण्डेयः “सर्वकालं तिलैः स्नानं पुण्यं व्यासोऽब्रवीन्मुनिः। श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः। सप्तमीं नवमीं चैव पर्वकालञ्च वर्जयेत्” जन्मतिथौ तिलनिष्पाद्याः षड्व्यापाराः कार्य्याः यथाह ति० त० “तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः। तिलभुक् तिलवापी च षट्तिली नावसीदति” कालविशेषे तिलतर्पणनिषेधः गङ्गादौ च सर्वदा निषिद्धदिनेऽपि तिलतर्पणकार्य्यता च तर्पणशब्दे ३२५८ पृ० उक्ता। रात्रौ तिलसंबद्धवस्तुमात्रस्याभक्ष्यता “सर्वञ्च तिलसंबद्धं नाद्यादस्तमिते रवौ” काशी० “तिलाश्चम्पकसंश्लेषात् प्राप्नु वन्त्यधिवासताम्” कामन्दकी० “विक्रीणाति तिलैस्तिलान्” पञ्चत०। २ तिलतुल्ये स्वल्पप्रमाणे च “तिलं तिलं समादाय रत्नामां यद्विनिर्मिता। तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः” भा० आ० ७९९६ श्लो०। ३ तिलाकारे देहस्थे (तिल) ख्याते तिलकालके च “देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती। तेनाहं नृप! जानामि भानुमत्यास्तिलं यथा” कालिदासः। तिलस्य विकारः अण्। तैल तिलनिर्यासे तिलस्नेहे तिलसदृशवस्तुजाते स्नेहे च “अदुष्टं सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः” तिथित०। पर्वणि तन्निषेधमाह “स्त्रीतैलमांससंभोगीविण्मूत्रनरकं व्रजेत्” ति० त० एवमन्यदिनेऽपि तैलनिषेधः स्मृतौ दृश्यः।
तिलक = न० तिल–क्कुन् तिल + इवार्थे स्वल्पे वा कन् वा। १ क्लोमनि २ कृष्णसौवर्चले अमरः ३ सौवर्चले मेदि०। ४ तिलवृक्षे, पु० राजनि०। ५ अश्वभेदे, पुंस्त्री० मेदि०। ६ रोगभेदे, अमरः। ७ मरुवके च हेमच०। स्वनामख्याते नासादौ धार्य्ये ८ चन्दनादिविशेषके पुंन०। तस्थ धारणप्रकारो यथा “द्वादशाङ्गे ललाटादौ तिलकं हरिमन्दिरम्। स्नानान्ते वैष्णवः कुर्य्यात् प्रत्येकं कृष्णनामभिः। वामे वक्षसि नेत्रान्ते गण्डेऽंसे शङ्खचिह्नितम्। तथैव दक्षिणे कुर्य्याद्धरेश्चक्राङ्कितं मुने!। ललाटे केशवं विद्यात् कण्ठे श्रीपुरुषोत्तमम्। वामवाहौ वासुदेवं सव्ये दामोदरन्तथा। नाभौ नारायणञ्चैव माधवं हृदये तथा। गोविन्दं दक्षिणे पार्श्वे वामे चैव त्रिविक्रमम्। विष्णुं सव्ये कर्णमूले दक्षिणे मधुसूदनम्। शिरोमध्ये हृषीकेशं पद्मनाभञ्च पृष्ठतः। हरेर्द्वादशनामानि पठित्वा तिलकानि तु। यः कुर्य्याद्वैष्णवो नित्यं स प्र मभक्तिमाप्नुयात्। ये कण्ठलग्नतुलसीभवकाष्ठमाला ये द्वादशाङ्गहरिनामकृतोर्द्धपुण्ड्राः। ये कृष्णभक्तिसुदृढा धृतशङ्खचक्रास्ते वैष्णवा भुवनमाशु पवित्रयन्ति। तिलकन्तूर्द्धपुण्ड्राख्यं मध्यच्छिद्रं हि नारद!। यदि कुर्य्याल्ललाटे तद्विज्ञेयं हरिमन्दिरम्। आनासामूलमाश्रित्य शिरोमध्यगतं मुने!। हरिपादाकृतं नासामूलमारभ्य यत्नतः। हरिमन्दिरवत् सर्वं तद्राधावल्लभीयकम्। श्रीराधावल्लभीयं यत्तिलकं सुमनोहरम्। यौगलं तत्तु विज्ञेयं यदि मध्यसुरङ्गितम्। यदूर्द्धपुण्ड्रं तिलकं शोभनं तन्मनोहरम्। तन्मध्ये पीतरेखञ्च श्रीमद्रामानुजं विदुः। श्रीरामोपामना यस्य तिलकं तूर्द्ध्वपुण्ड्रकम्। भ्रुवोर्म्मध्ये सविन्दु स्याद् यदि विप्र! मनोहरम्। हरेः सर्वावताराणां मत्स्यादीनां विशेषतः। उपासकानां तिलकं केवलं हरिमन्दिरम्। ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्रियाणां तथैव च। वैश्यानान्तु तथा विप्र! शूद्रादेर्मण्डलाकृति। अच्छिद्रमूर्द्ध्वपुण्ड्रन्तु ये कुर्वन्ति जनाधमाः। तेषां ललाटे सततं शुनः पादो न संशयः। दृष्ट्वा भाले द्विजातीनामच्छिद्रमूर्द्ध्वपुण्ड्रकम्। कार्ष्णः कृष्णिस्मृतिं कृत्वा वस्त्रेणाच्छादयेन्मुखम्। ललाटदक्षिणे ब्रह्मा वसेद्वामे महेश्वरः। मध्ये विष्णुर्वसेन्नित्यं तस्मान् मध्यं न लेपयेत्। वर्त्तुलं तिर्य्यगच्छिद्रं ह्रस्वं दीर्घं ततं नतम्। षष्ठलक्षणसंयुक्तं तिलकं यन्निरर्थकम्। स्वनित्रयष्टिकुकूनत्रिशूलमुकुराकृति। त्रिपुण्ड्रमर्द्धचन्द्रञ्च तिलकं यन्निरर्थकम्। प्रमाणन्तूर्द्ध्वपुण्ड्रस्य दीर्घं स्यात् कलिवर्द्धनम्। आनासामूलमारभ्य ब्रह्मरन्ध्रगतं यदि। शूद्रस्येकाङ्गुलं प्रोक्तमायतं द्व्यङ्गुलं विशि। क्षत्रिये त्र्यङ्गुलं तद्वद्ब्राह्मणे चतुरङ्गुलम्। नासिकायास्त्रिभागैको भागोमानेन यो भवेत्। भ्रुवोर्मध्यादधः स्थानं मूलमाहुर्मणीषिणः। ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा। कुर्य्यात् यदूर्द्ध्वपुण्ड्रं तद्वैष्णवो हरिमन्दिरम्। वैष्णवा विप्रा भूपाश्चेत् वैश्यशूद्रान्त्यजाश्रमाः। यदूर्द्ध्वपुण्ड्रं विभृयुस्तदेव हरिमन्दिरम्। नरोवाप्यथ वा नारी यदि कृष्णपथं लभेत्। यत्नतस्तुलसीमाला सन्धार्य्या हरिमन्दिरम्। मध्यच्छिद्रं न कुर्य्यात् यस्तिलकं यदि वैष्णवः। श्वपदं तच्चितातुल्यं भवेन्नारद! नान्यथा। दण्डाकारं द्विरेखं यत्तिलकं मूलकोणकम्। मध्यच्छिद्रन्तु तत्प्राहुरूर्द्ध्वपुण्ड्रं मनोहरम्। अधोमुखाब्जकलिकाकारं तिलकसुत्तमम्। मध्यच्छिद्रं युग्मरेखमूर्द्ध्वपुण्ड्रं प्रकीर्त्तितम्। तीर्थमृद् यज्ञकाष्ठञ्च विल्वोमलयसम्भवम्। अश्वत्थतुलसीमूलमृत्तिका गोष्पदस्य च। जाह्नवी मृन्महानिन्बतुलसीकाष्ठमेव च। कस्तूरीकुङ्कुमं फल्गुसिन्दूरं रक्तचन्दनम्। गोरोचना गन्धकाष्ठं जलं चागुरु गोमयम्। धात्रीमूलस्य मृद्गन्धो हरिद्रा गोगृहस्य च। स्नानान्ते सर्ववर्णानामाश्रामाणान्तथैव च। एतानि तिलकान्याहुः सन्ध्यादिसर्वकर्म्मसु”। “गङ्गामृत्तुलसीमूलमृत्तिकामलयोद्भवम्। साधोश्चरण संलग्नं रजोमृद्गोष्पदस्य च। याऽश्वत्थमूलमृद्गोपी चन्दनं तीर्थमृत्तिका। कुङ्कुमं तुलसीकाष्ठं वैष्णवाहृतमृत्तिका। गोरोचना च कस्तूरी हरिद्रागुरुचन्दनम्। वल्मीकमृत्तिकागन्धः पद्मकं हरिचन्दनम्। गन्धकाष्ठं महानिम्बो यमुनातीरमृत्तिका। गुरुपादरजो वारिसुसाध्वङ्घ्रिरजो जले। कृत्वा प्रतिदिनं स्नानमेतैर्गन्धमृदादिभिः। चारु यत्तिलकं ग्राह्यं तन्नाम्ना वैष्णवैर्ध्रुवम्। काम्यं नैमित्तिकं नित्यं यत् किञ्चित् कर्म्म नारद!। वर्णाश्रमाणां तन्नास्ति स्नामान्ते तिलकं विना। कर्म्म वर्णाश्रमाणां स्यात् दैवं पैत्रं न तत्फलम्। स्नानं सन्ध्यां पञ्च यज्ञान् पैत्रं होमादिकर्म्म यः। विना तिलकदर्भाभ्यां कुर्य्यात्तन्निष्फलं भवेत्”। इति पद्मोत्तरखण्डम् “वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः। ऊर्द्ध्वपुण्ड्रं महाभागः स याति परमाङ्गतिम्” पाद्मे पातालखण्डे “शिवागमे दीक्षितैस्तु धार्य्यं तिर्य्यक् त्रिपुण्ड्रकम्। विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्वपुण्ड्रं विधारयेत्”। इति नागोजीभट्टधृतसूतसंहिता। पद्मपुराणे उत्तरखण्डे “ललाटे केशवं ध्यायेन्नारायण मथोदरे। वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके। विष्णुञ्च दक्षिणे कुक्षौ वामे च मधुसूदनम्। त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके। श्रीधरं वामवाहौ तु हृषीकेशन्तु कन्धरे। पृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत्। तत्प्रक्षालनतोयन्तु वासुदेवेति मूर्द्धनि”। किञ्च “ऊर्द्ध्वपुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम्। ललाटादिक्रमेणैव धारणन्तु विधीयते” इति “एवं न्यासं समाचार्य्य सम्प्रदायानुसारतः। न्यसेत् किरीटमन्त्रञ्च मूर्द्ध्नि सर्वार्थसिद्धये” अथ किरीटमन्त्रः “ओम् श्रीकिरीटकेयूरहारमकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बरधरश्रीवत्साङ्कितवक्षःस्थलश्रीभूमिसहितस्वात्मज्योतिर्दीप्तिकराय सहस्रादित्यतेजसे नमो नमः” हरिभक्तिविलामे ४ विलासः। ऊर्द्ध्वपुण्ड्रशब्दे अधिकं दृश्यम्। ९ ध्रुवकभेदे यथा “पञ्चविंशतिवर्णाङ्घ्रिस्तिलको ध्रुवको भवेत्। इष्टश्चञ्चत्पुटे ताले रसे वीरे अद्भूतेऽपि वा” सङ्गीतदा०। “मुखे मधुश्रीस्तिलकं प्रकाश्य” कुमा०। तिलक इव उत्तरपदस्यः १० श्रेष्ठे “श्रियं त्रिलोकी तिलकः स एव”। “लोध्रचूर्णतिलकाकृतिः” माघः। स्वार्थे क। ११ तिलवृक्षे राजनि०। “न तिलकस्तिलकः प्रमदामिव” रघुः।
तिलकट = न० तिलस्य रजः कटच्। तिलरजसि।
तिलकल्क = पु० तिलस्य कल्कः। १ पिण्याके (खलि) अमरः “कषायेण प्लोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुतां वर्त्ति प्रणिदध्यात्” “तिलकल्कः समधुको घृताक्तो व्रणरोपणः” सुश्रु०।
तिलका = स्त्री तिलं तिलपुष्पमिव कायति कै–क। हारभेदे जटा० “सगणद्वितयं भवतीह यदा रसवर्ण्णपदा तिलकेति तदा” उक्तलक्षणके द्वादशाक्षरपादके २ छन्दोभेदे च।
तिलकालक = पु० तिल इव कालकः कृष्णः। १ देहस्थे २ तिला- कारे चिह्ने, ३ रोगभेदे च अमरः “कृष्णानि तिलमात्राणि नीरुजानि समानि च। वातपित्तकफोद्रेकात् तान् विद्यात् तिलकालकान्” सुश्रु०।
तिलकाश्रय = पु० ६ त०। ललाटे शब्दार्थक०।
तिलकिट्ट = न० ६ त०। तिलपिण्याके “तिलकिट्टं तु रूक्षं स्यात् ग्लपनं दृष्टिदोषकृत्। विष्टम्भकारणं तद्धि भिषग्भिः परिकीर्त्तितम्” भावप्र०।
तिलकिन् = त्रि० तिलक + अस्त्यर्थे इनि। तिलकधारिणि“शिखी तिलकी कर्म्म कुर्य्यात्” स्मृतिनिबन्धे कल्प्यश्रुतिः।
तिलचित्रपत्रक = पु० तिलस्येव चित्रं पत्रमस्य कप्। तैलकन्दे वृक्षभेदे राजनि०।
तिलचूर्ण्ण = न० ६ त०। चूर्णीकृततिले (तिलकुटा) १ खाद्यभेदे। २ तिलकल्के च राजनि०।
तिलतण्डुलक = पु० तिलस्य तण्डुल इव कायति कै–क। १ आलिङ्गने शब्दमा० आलिङ्गनस्य तिलतण्डुलवत् संश्लेषयुक्तत्वात् तथात्वम्। ६ त०। २ तिलस्य तण्डुले निस्तुषतिले पु० (माजातिल)।
तिलतेजा = स्त्री तिल इव तेजयति चुरा० तिज–अच्। लताभेदे “कफजे तिलतेजाह्वा दन्तीस्वर्जिकचित्रकाः” सुश्रु०
तिलन्तुद = त्रि० तिलं तुदति तुद–खश् मुम्। तैलिके तिलपीडके।
तिलद्वादशी = स्त्री तिलभोजनादिनियमयुक्ता द्वादशी। द्वादशीभेदे व्रतशब्दे दृश्यम्।
तिलधेनु = स्त्री० तिलनिर्म्मिता धेनुः शा० त०। विधानेन दानार्थं तिलकृतायां धेनौ। तद्विधानं यथा। “विधानं तिलधेनोस्त्वं ब्रूहि शीघ्रं द्विजोत्तम!। मुनिः प्राह विधानं यत् तच्छृणुष्व नराधिप!। षोडशाढककैर्धेनुश्चतुर्भिर्वत्सको भवेत्। इक्षुदण्डमयाः पादादन्ताः पुष्पमया शुभाः। नासा गन्धमयी तस्या जिह्वा गुडमयी तथा। स्थितां कृष्णाजिते धेनुं वसोभिर्वासितां शुभाम्। सूत्रेण वासितां कृत्वा पञ्चरत्नसमन्विताम्। सर्वौषधि समायुक्तां मन्त्रपूतान्तु दापयेत्। अन्नं मे जायतां सद्यः पानं सप्त रसास्तथा। कामं सन्धापयास्माकं तिलधेनुमुपार्ज्जिताम्। गृह्णामि त्वां देवि! भक्त्या कुटुम्बार्थे विशेषतः। कुटुम्बकामं कुरुतां तिलोधेनो! नमोऽस्तु ते। एवं विधां नरोदत्त्वा तिलधेनुं नृपोत्तम!। सर्वकामसमाप्तिं च कुरुते नात्र संशयः” प० पु० सृ० ख०।
तिलपर्ण्णष्ट = पु० तिलस्येव पर्ण्णमस्य। १ श्रीवेष्टे वृक्षे राजनि०। २ चन्दने न० राजनि०। ६ त०। तिलवृक्षस्य ३ पत्रे न०।
तिलपर्ण्णी = स्त्री तिलस्येव पर्ण्यान्यस्याः ङीप्। १ रक्तचन्दने। अमरः २ नदीभेदे स्त्री शब्दार्थचि०। तिलपर्णीनदी आकरत्वेनास्त्यस्या अच् गौरा० ङीष्। २ सिह्लके गन्धद्रव्यभेदे स्त्री हेमच०। स्वार्थे क। तिलपर्णिका रक्तचन्दने हेमच०।
तिलपिञ्ज = पु० पु० निष्फलस्तिलः तिल + पिञ्ज। निष्फलतिले “वभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या” अथ० २। ८। ३।
तिलपुष्पक = पु० तिलस्येव पुष्पमस्य कप्। विभीतकवृक्षे पारस्करनै०। त०। ६ त०। २ तिलस्य पुष्पे च तत्सादृश्यात् ३नासिकायाम् तन्त्रसा०। “पद्मं दृष्ट्वा तथा विग्बं खञ्जनं शिखरन्तथा। चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम्। त्रिशूलं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः। “पद्मं मुखं विम्बमधरं खञ्जनञ्चक्षुः शिखरं मस्तकं चामरं केशं रविविम्बं सिन्दूरं तिलपुष्पं नासिकां सरोरुहम् नाभिं त्रिशूलं त्रिवलीम्”। तन्त्रसारः।
तिलपेज = पु० निष्फलस्तिलः तिल + पेज। निस्फले तिले अम०।
तिलभार = पु० देशभेदे “तिलभाराः समीराश्च मधुमत्ताः सुकन्दकाः। भा० भी० ९३ अ०।
तिलमय = त्रि० तिलस्य विकारः तिल + असंज्ञायां मयट्। तिलविकारे संज्ञायां तु अण्। तैलमित्येव।
तिलमयूर = पुंस्त्री० तिलपुष्पचिह्नितः मयूरः शा० त०। (तिलेमयूर) मयूरभेदे त्रिका० स्त्रियां जातित्वात् ङीष्।
तिलरस = पु० ६ त०। तिलतैले।
तिलशस् = अव्य० तिलं तिलं तत्परिमितं करोतीति मानार्थत्वात् वीप्सायां कारकार्थे शस्। तिलं तिलं कृत्वेत्येवमाद्यर्थे। “तिलशस्तद्रथं चक्रे साश्वध्वजपताकिनम्” हरिवं० १८६ अ०।
तिलशैल = पु० दानार्थे कल्पिते दशसु अचलेषु अचलभेदे। तिलाचलादयोऽप्यत्र। तिलाचलश्च द्विविधः तिलमयप्रधानमेरुः, धान्यशैलस्य पश्चात् कल्पितः तिलमयविष्कम्भगिरिश्च। तत्र मेरुरूपतिलशैलदानविधिर्यथा “प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः। गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः। पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः। सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः। राजतो नवमस्तद्वद्दशमः शर्कराचलः। वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः। अयने विषुवे पुण्ये व्यतोपाते दिनक्षये। शुक्लपक्षे तृतीयायामुपरागे शशिक्षये। विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः। शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः। धान्यशैलादयोयेऽपि देयाः शास्त्रं विजानता” इत्युपक्रमे। “अतःपरं प्रवक्ष्यामि तिलशैलं विधानतः। यत्प्रदानान्नरोयाति विष्णुलोकं सनातनम्। उत्तमो दशभिर्द्रोणै र्मध्यमः पञ्चभिः स्मृतः। त्रिभिः कनिष्ठो विप्रेन्द्र! तिलशैलः प्रकीर्त्तितः। पूर्ववच्चापरान् सर्वान् विष्कम्भानमितोगिरीन्। दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुङ्गव!। यस्मान् मधुबधे विष्णोर्देहस्वेदसमुद्भवाः। तिलाः कुशाश्च माषाश्च तस्माच्छन्नो भवत्विह। हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम्। भवादुद्धर शैलेन्द्र! तिलाचल! नमोऽस्तु ते”। इत्यामन्त्र्य च यो दद्यात् तिलाचलमनुत्तमम्। स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्। दीर्घायुष्यं समाप्तोति पुत्रपौत्रैश्च मोदते। पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्” मत्स्यपु० ८६ अ०। विष्कुम्भरूपतिलाचलस्तु यथा। “पश्चात्तिलाचलमनेकसुगन्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्। आकारयेद्रजतपुष्पवनेन तद्वद्वज्रान्वितं दधिसितोदसरस्तथाग्रे” मत्० पु० ८२ अ०।
तिलस्नेह = पु० ६ त०। तैले शब्दार्थक०।
तिलाङ्कितदल = पु० तिलेनाङ्कितं दलमस्य। तैलकन्दे राजनि०।
तिलान्न = न० तिलमिं श्रितमन्नं शा० त०। तिलमिश्रितेऽन्ने कृशरे हेम०।
तिलापत्या = स्त्री तिलस्ये व क्षुद्रः अपत्यं वीजमस्याः। कृष्णजीरके शब्दार्थचि०।
तिलित्स = पु० तेलनं तिलिर्गतिस्तं त्सरति छद्मना गच्छति त्सर–ड। अजगरे सर्पभेदे अमरः स्त्रियां जातित्वात् ङीष्
तिलोत्तमा = स्त्री अप्सरोभेदे “तिलोत्तमा नाम पुरा व्रह्मणो योषिदुत्तमा। तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा” भा० अनु० १४१ अ०। तस्यास्तथानामकरणं यथा “तिलं तिलं समानीय रत्नानां यद्विनिर्मिता। तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः” भा० आ० २११ अ०।
तिलोदक = न० तिलमिश्रितमुदकम् शा० त०। तिलमिश्रिते उदके “तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्” मनुः “बलिं भिक्षां तथाऽर्घ्यञ्च पितृणाञ्च तिलोदकम्” भा० अनु० १२६ अ०। “आवाहयिष्ये तान् सर्वान् दर्भपृष्ठे तिलोदकैः” वायुपु०।
तिलौदन = पुंन० तिलमिश्रितः ओदनः। कृशरे हारा०। “दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा” शत० ब्रा० १४। ९। ४। १६। “तिलमिश्रमोदनं कृशरमित्यर्थः” भा०।
तिल्पिञ्ज = पु० तिल + पिञ्ज–वेदे डिच्च। बन्ध्यतिले “इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्” अथ० १२। २। ५४।
तिल्य = न० तिलानां भवनं क्षेत्रम् यत्। १ तिलभवनयोग्ये क्षेत्रे तिलाय हितं यत्। २ तिलहिते त्रि०।
तिल्ल = गतौ भ्वा० पर० सक० सेट्। तिल्लते अतिल्लीत्। तितिल्ल।
तिल्व = पु० तिल–स्नेहे “उल्वादयश्चेति” उणा० नि०। १ लोध्रे अमरः २ श्वेतलोध्रे सुभूतिः ३ रक्तलोध्रे क्षीरस्वामी स्वार्थे क। तत्रार्थे राजनि०। “न्यग्रोधाश्वत्थतिल्वकहरिद्रुस्फुर्जविभीतकपापनामभ्यश्च” कात्या० श्रौ० २१। ३। २० “तिल्वकः तिणिशः” कर्कः।
तिल्विल = त्रि० तिल–स्नेहे वा० कुतिलुः स्निग्धा इलाभूमिर्यस्मिन्। देवयजने स्थाने “भद्रे क्षेत्रे निर्मिता तिल्विले वा” ऋ०५। ६२। ७ “है व तिष्ठ निर्मिता तिल्विलास्तामिरावतीं मध्ये पौषस्य तिष्ठन्तीम्” आ० गृ० २। ८८। “तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः” ऋ० ७। ७८। ५। “तिल्विलायध्वं तिलुरिला भूमिर्यस्य तत् कुरुत” भा०।
तिष्ठद्गु = अव्य० तिष्ठन्त्यो गावो यस्मिन् काले तिष्ठद्गुप्रभृतित्वात् नि० अव्ययीभावः। दोहनकाले “आ तिष्ठद्गु जपन् सन्ध्यां प्रक्रान्तामायतीगवम्” भट्टिः।
तिष्ठद्गुप्रभृति = न० अव्ययीभावे निपातनाङ्गशब्दसमूहे स च गणः पा० गणसू० उक्तो यथा “तिष्ठद्गु बहद्गु आयतीगवम् खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संह्रियमाणयवम्। संहृतबुसम् संह्रियमाणबुसम् समभूमि समपदाति सुषमम् विषमम्। दुःसमम् निषमम् अपसमम् आयतीसमम् प्रौढम् पापसमम् पुण्यसमम् प्राह्णम् प्ररथम् प्रमृगम् प्रदक्षिणम् अपरदक्षिणम् सम्प्रति असम्प्रति इच्प्रत्ययः समासान्तः”।
तिष्ठद्धोम = स्त्री तिष्ठता होमो यत्र। यजतिरूपे यागभेदे “यजतिजुहोतीनां को विशेषः” कात्या० श्रौ० १। २। ५ “यजतीनां यागानां जुहोतीनां होमानां च परस्परं को विशेषः को भेदं इति प्रश्नः। तत्र यजतीनां विशेषमाह” कर्कः “तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोऽनुवाक्यावन्तो यजतयः” ६। उच्यन्त इति शेषः। “तिष्ठता होमो येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः तथा याज्यावन्तः पुरोऽनुवाक्यावन्तश्च ये ते यजतय उच्यन्ते” कर्कः।
तिष्य = पु० तुष्यन्त्यस्मिन् तुष–क्यप् नि०। १ पुष्यनक्षत्रे। त्विषदीप्तौ यक् अघ्न्यादि० नि०। २ कलियुगे न०। तिष्ये नक्षत्रे जातः अण् तस्य लुक्। ३ पुष्यनक्षत्रजाते त्रि०। तिष्यं नक्षत्रमस्त्यत्र पौर्णमास्याम् अच्। ४ पौषमासे शब्दरत्ना०। स्वार्थे क। पौषमासे शब्दा०। तत्र पुष्यनक्षत्रे। “यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती। एकराशौ समेष्यन्ति प्रवत्स्यति तदा कृतम्”। भा० व० १३ ० ९९ श्लो० कलियुगे “ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते। एकपादस्थितो धर्मो पत्र तिष्ये भविष्यति” भा० शा० ३४२ अ०। “सत्सम्प्रदायप्रथनाय तिष्ये शिष्यैश्चतुर्भिः सह योऽवतीर्णः। उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्कराचार्य्यगुरुं तमीडे। “तपस्तादृक् क्क वा तिष्ये तिष्ये योगः क्व तादृशः। क्व वा व्रतं क्व वा दानं तिष्ये मोक्षस्ततः कुतः” काशीख० ३५ अ०। ५। माङ्गल्ये त्रि०।
तिष्यपुष्पा = स्त्री० तिष्यं माङ्गल्यं पुष्पं यस्याः। आमलक्याम् शब्दर०।
तिष्यफला = स्त्री तिष्यं माङ्गल्यं फलमस्याः। आमलक्याम् अमरः। “नित्यमामलके लक्ष्मीः” स्मृतेस्तत्फलस्य मङ्गलहेतुत्वात् तथात्वम्।
तिष्या = स्त्री तिष्यं मङ्गलं हेतुत्वेनास्त्यस्या अच्। आमलक्यांम् शब्दरत्ना०।
तिसृधन्व = न० तिसृभिरिषुभिर्युतं धन्व धनुः वेदे अच् समासान्तः अविभक्तावपि वेदे तिस्रादेशः। तिसृभिरिषुभिर्युक्ते धनुषि “तिसृधन्वं दक्षिणां ददाति” शत० व्रा० ११। १। ५। १०। “स तिसृधन्वमादायापचक्राम” १४। १। १। ७।
तिहन् = पु० तुह–अर्दने कनिन् नि०। १ व्याधौ २ व्रीहौ ३ धनुषि ४ सद्भावे च संक्षिसारः।
तीक = गतौ भ्वा० पर० सक० सेट्। तीकते अतीकिष्ट तितीके ऋदित् अतितीकत् त। शब्दस्तोमे याचनार्थतोक्तिः प्रामिदिकी पा० गणपाठे तस्य गत्यर्थतयैवोक्तेः।
तीक्ष्ण = न० किज–क्स्न दीर्थश्च। १ खरे स्पर्थे २ विषे ३ लौहभेदे (इस्पात) ४ युद्धे अमरः ५ मरणे ६ शस्त्रे ७ शीघ्रे इति सारसु०। ८ सामुद्रलवणे ९ मुष्कके मेदि० १० चव्यके राजनि०। ११ मरके हेमच०। १२ तीक्ष्णतायुक्ते त्रि० “तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य महीपतिः” मनुः। “तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत्” माघः। “शक्तिं चोभयतस्तीक्ष्णाम्” मनुः। “प्रतिभायां हीरके कटाक्षे दुर्व्वाक्ये नखे लवणे रविकरे” इति कविकल्पलतायां तीक्ष्णत्वमुक्तम्। १३ यवक्षारे पु० मेदि०। १४ श्वेतकुशे १५ कुन्दुरुके राजनि०। नक्षत्रविशेषगणे न० यथा “शक्राहिशिवमूलाश्च मन्दाहस्तीक्ष्णदारुणे” ज्योतिषम्। १६ आत्मत्यागिनि त्रि० मेदि०। १७ निरालस्ये सुबुद्धौ त्रि० धरणी० १८ योगिनि पु० अजयपालः।
तीक्ष्णक = पु० तीक्ष्ण + संज्ञायां कन्। १ गौरसर्षपे, २ मुष्कके च राजनि०।
तीक्ष्णकण्टक = पु० तीक्ष्णः कण्टकोऽस्य। १ धुस्तूरे २ वर्वुरे, ३ इङ्गुदीवृक्षे, ४ वंशे च जटाध०। ५ कन्थारीवृक्षे स्त्री टाप्। राजनि०। ६ तीक्ष्णकण्टकयुक्ते त्रि०। कर्म्म०। ७ तीक्ष्ण कण्टके पुंन०।
तीक्ष्णकन्द = पु० तीक्ष्णः कन्दो मूलमस्य। पलाण्डौ राजनि०
तीक्ष्णकर्म्मन् = त्रि० तीक्ष्णं कर्मास्य। १ तीव्रकार्य्यकरे आयः शूलिके त्रिका०। कर्म्म०। २ तीव्रे कर्म्मणि न०।
तीक्ष्णकल्क = पु० तीक्ष्णः कल्कोऽस्य। तुम्बुरुवृक्षे राजनि०।
तीक्ष्णकान्ता = स्त्री नि० कर्म्म०। तारादेव्याम् उग्रतारायाम्। “पीठे दिक्करिवासिन्या द्विरूपा वसते शिवा। तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता”। “पुरा ललितकान्ताख्या या श्रीमङ्गलचण्डिका। तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप!। कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा। तेन रूपेण तां देवीं सततं परिपूजयेत्” कालि० पु० ८२ अ०।
तीक्ष्णगन्ध = पु० तीक्ष्णः गन्धोऽस्य। १ शोभाञ्जनवृक्षे जटा०। वा कप्। अत्रैवार्थे राजनि०। २ रक्ततुलस्याम् शब्दा० कुन्दरुनामशन्धद्रव्ये अमरः।
तीक्ष्णगन्धा = स्त्री तीक्ष्णः गन्धोऽस्याः। १ वचायां, २ राजिकायाम्, ३ कन्थार्य्यां, राजनि०। ५ जीवन्त्याञ्च शब्दच०। ६ श्वेतवचायां मेदि० ७ सूक्ष्मैलायाम्, रत्नमा०।
तीक्ष्णतण्डुला = स्त्री० तीक्ष्णास्तण्डुला यस्याः। पिप्पल्याम् रत्नमा०।
तीक्ष्णतैल = न० तीक्ष्णस्य स्नेहः तैलच्। १ स्नुहीक्षीरे, २ सर्जरसे, ३ मद्ये च शब्दरत्ना०।
तीक्ष्णदंष्ट्र = पुं स्त्री तीक्ष्णा दंष्ट्रास्य। १ व्याघ्रे राजनि० स्त्रियां ङीष् कर्म्म०। तीक्ष्णायां दंष्ट्रायाम् स्त्री। “सुतीक्ष्णदंष्ट्राः समाश्च शुभाः” वृ० स० ६७ अ०।
तीक्ष्णधार = पु० तीक्ष्णा धारास्य। १ खड्गे “असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः। श्रीगर्भो विजयश्चैव धर्मपालो नमोऽस्तु ते। इत्यष्टौ तव नामानि” खड्गपूजा- मन्त्रः। २ तीक्ष्णधारायुक्तमात्रे त्रि०। “नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निशितस्तीक्ष्णधारः। तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारमिति” भा० आदि० ३ अ०।
तीक्ष्णपत्र = पु० तीक्ष्णानि पत्राण्यस्य। १ तुम्बुरुवृक्षे राजनि०। २ तीव्रपत्रयुक्ते त्रि० कर्म्म०। ३ तीक्षणे पत्रे न०।
तीक्ष्णपुष्प = न० तीक्ष्णं पुष्पमस्य। १ लवङ्गे। २ केतक्यां स्त्री टाप्। राजनि०। ३ तिग्मपुष्पयुक्ते त्रि०। कर्म्म०। ४ तिग्मेपत्रे न०।
तीक्ष्णफल = पु० तीक्ष्णं फलमस्य। १ तुम्बुरुवृक्षे राजनि०। २ तिग्मफलयुक्ते त्रि० कर्म्म०। ३ तिग्मे फले न०।
तीक्ष्णमूल = पु० तीक्ष्णं मूलमस्य। १ शोभाञ्जने २ कुलञ्जने च राजनि०। ३ तिग्ममूलके त्रि०। कर्म्म०। ४ तिग्मे मूले न०।
तीक्ष्णरश्मि = पु० तीक्ष्णा रश्मयोऽस्य। तिग्मांशौ १ सूर्य्ये “शरत्प्रज्वलितं तेजस्तीक्ष् णरश्मिर्विशोधयन्” हरिवं० ७३० अ०। २ तिग्मरश्मियुक्ते त्रि०। कर्म०। ३ तिग्मे रश्मौ पु०
तीक्ष्णरस = पु० तीक्ष्णो रसोऽस्य। १ यवक्षारे रत्नमा०। २ तिग्मरसयुक्ते त्रि०। कर्म्म०। ३ तिग्मे रसे पु०।
तीक्ष्णलौह = न० नि० कर्म्म०। (इस्पात) लौहभेदे।
तीक्ष्णशूक = पु० तीक्ष्णः शूकोऽग्रं यस्य। १ यवे। २ खरशूकयुक्ते त्रि०। कर्म्म०। ३ खरे शूके पु० न०।
तीक्ष्णसारा = स्त्री तीक्ष्णः कठिनः सारोऽस्याः। १ शिंशपायाम् (शिशु) राजनि०। २ तिग्मसारयुक्ते त्रि० कर्म्म०। ३ खरे सारे पुं न०।
तीक्ष्णा = स्त्री तीक्ष्ण + टाप्। १ वचायां २ सर्पकङ्कालिकायाम् रत्नमा० ३ कपिकच्छ्वां ४ महाज्योतिष्मत्याम् ५ अत्यम्लपर्ण्ण्याम् जटा०। ६ तारादेव्याम् च। उग्रतारोपक्रमे “हे भगवत्येकजटे विद्महे पदमन्ततः। विकटदंष्ट्रे धीमहि तन्नस्तारा प्रचोदयात्। एषा तु तीक्ष्णा गायत्री पीठदेव्याः प्रकीर्त्तिता”। “पानेषु मदिरा शस्ता नरो बलिषु पार्थिव!। मोदको नारिकेलञ्च मांसं व्यञ्जनमैक्षवम्। नैवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्त्तिताः १। कालि० पु० ८२ अ०।
तीक्ष्णायस = न० नि० कर्म्म० अच् समा०। लौहभेदे (इस्पात) राजनि०।
तीम = क्लेदने दिवा० पर० अक० सेट्। तीम्यति अतीमीत्। तितीम।
तीर = पारगतौ कर्म्मसमाप्तौ च अद० चुरा० उभ० अक० सेट्। तीरयति ते अतितीरत् त।
तीर = न० तीर–अच्। नद्यादेः १ कूले। २ सोसके पु० अमरः। ४ वाणे पु० त्रिका०। ५ त्रपुणि पु० मेदि०।
“सार्द्धहस्तशतं यावत् गर्भतस्तोरमुच्यते। भाद्रकृष्णचतुर्दश्यां यावदाक्रमते जलम्। तावद्गर्भं विजानीयात् तदन्यत्तीरमुच्यते” प्रा० त० उक्ते ६ गङ्गाकूलभेदे न० “गङ्गातीरतरङ्गसङ्गतजलैः स्नात्वा हरो नार्चितः” सा० द०। “अशून्यतीरां मुनिसन्निवेशैः” रघुः। “अवकाशेषु चोक्षोषु नदीतीरेषु चैव हि” मनुः।
तीरग्रह = पु० देशभेदे “तीरग्रहाः सूरसेनाः ईजकाः कन्यकाः गुहाः” भा० भी० ९ अ० जनपदोक्तौ।
तीरभुक्ति = पु० (त्रिहोत) देशभेदे त्रिका०।
तीरु = पु० तॄ–बा० क्रु। शिवे “नमस्तेऽभीषुहस्ताय तीरुभीरुहराय च” हरिवं० २७८ अ०। शिवस्तुतौ।
तीर्ण = त्रि० तृ–क्त। १ उत्तीर्णे, २ अभिभूते, ३ आप्लुते च। “तीर्णो हि तदा भवति” श्रुतिः “तीर्णाः पूर्णाः कति न सरिती लङ्घिताः के न शैलाः नाक्रान्ता वा कति वनभुवः क्रूरसञ्चारघोराः। पापैरेतैः किमिव दुरितं कारितो नास्मि कष्टं यद्दृष्टास्ते धनमदमसीम्लानवक्त्रा दुरीशाः”।
तीर्णपदी = स्त्री तरतेः कर्तरि क्तः। तीर्णः पादो मूलमस्याः अन्त्यलोपः कुम्भपद्या० ङीषि पद्भावः। तालमूल्याम् शब्दच०
तीर्णा = स्त्री प्रतिष्ठाख्यवृत्तिविशेषे यथा “यस्मिन् वृत्ते कर्णः कर्णः वेदैर्वर्णेः सा स्यात् तीर्णा” अस्याः कन्येत्त्यपि संज्ञा। “ग्भौ चैत् कन्येति” लक्षणात्।
तीर्थ = न० तॄ–थक्। १ शास्त्रे २ यज्ञे ३ क्षेत्रे ४ उपाये ५ नारीरजसि ६ अवतारे ७ ऋषिजुष्टजले ८ पात्रे ९ उपाध्याये १० मन्त्रिणि च मेदि०। ११ योनौ १२ दर्शने १३ घट्टे हेमच०। १४ विप्रे १५ आगमे १६ निदाने १७ वह्नौ च संक्षिप्तसा०। तीर्थं त्रिविधम् जङ्गमं१ मानसं२ स्थावरं३ च। तथा हि “व्राह्मणा जङ्गमं तीर्थं निर्मलं सार्वकामिकम्। येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनाजनाः। अगस्ति रुवाच। शृणु तीर्थाणि गदतो मानसानि ममानघे! ! येषु सम्यक् नरः स्नात्वा प्रयाति परमां गतिम्। सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः। सर्वभूतदयातीर्थं सर्वत्रार्जवमेय च! दानं तीर्थं दमस्तीर्थं सन्तोषस्तीर्थमुच्यते। ब्रह्मचर्य्यं परं तीर्थं तीर्थञ्च प्रियवादिता। ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थमुदाहृतम्। तीर्थानामपि तत्तीर्थं विशुद्धिर्मनसः पुरा। एतत्ते कथितं देवि! मानसं तीर्थलक्षणम्। नौभानामपि तीर्थानां पुण्यत्वे कारणं शृणु। यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः। तथा पृथिव्यामुद्देशाः केचित् पुण्यतमाः स्मृताः। प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसा। परिग्रहान् मुनीनाञ्च तीर्थानां पुण्यता स्मृता। तस्माद्भौमेषु तीर्थेषु भनमेषु च नित्यशः। उभयेष्वपि यः स्नाति स याति परमां गतिम्” तीर्थभेदा ब्रह्मपुराणे उक्ता यथा
मुनय ऊचुः। “पृथिव्यां यानि तीर्थानि वनान्यायतनानि च। वक्तुमर्हसि धर्म्मज्ञ! श्रोतुं नो वर्त्तते मनः। रोमहषर्ण उवाच। यस्य हस्तौ च प्रादौ च मनश्चैव सुसंयतम्। विद्या तपश्च कीर्त्तिश्च स तीर्थफलमश्नुते। मनो विशुद्धं पुरुषस्य तीर्थं वाचांयमस्त्विन्द्रियनिग्रहस्तपः। एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिबोधयन्ति। चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति। शतशोऽथ जलैर्धौतं सुराभाण्डमिवाशुचि। न तीर्थानि न दानानि न व्रतानि न चाश्रमाः। दुष्टाशयं दम्भरुचिं पुनन्ति व्यथितेन्द्रियम्। इन्द्रियाणि वशे कृत्वा यत्र तत्र वसेन्नरः। तत्र तस्य कुरुक्षेत्रं प्रयागं पुष्करं तथा। तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च। संक्षेपेण मुनिश्रेष्ठाः। पृथिव्यां यानि कानि च। विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि। प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च। प्रयागञ्च प्रवक्ष्यामि धर्म्मारण्यं द्विजोत्तमाः !। धेनुका चम्पकारण्यं सैन्धवारण्यमेव च। गया प्रयागं श्रीतीर्थं दिव्यं कनस्वलन्तथा। भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थली। लोहार्गलं सकेदारं मन्दरारण्यमेव च। महाप्रमं कुरुक्षेत्रं सर्वपापहरन्तथा। रूपतोर्थं शूकरञ्च चक्रतीर्थं महाफलम्। योगतीर्थं सोमतीर्थं तीर्थं शाखोटकं तथा। तीर्थं कोकामुकं पुण्यं वदरीशैलमेव च। सोमतीर्थं तुड्गकूटं तीर्थं स्कन्दाश्रमन्तथा। सूर्य्यप्रभं रामतीर्थं सप्तसामुद्रकं तथा। धर्मोद्भवं कोटितीर्थं तीर्थञ्चाध प्रणाशनम्। गङ्गाद्वारं पञ्चकुब्जं मध्यकेशवमेव च। चक्रप्रभं मतङ्गञ्च कुशदण्डञ्च विश्रुतम्। दंष्ट्राकुण्डं विष्णुतीर्थं सर्वकामिकमेव च। तीर्थं सुमलिनञ्चैव वदरीसुप्रभं तथा। ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदन्तथा। चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशर्वारकम्। मानसं स्थूलशृङ्गञ्च स्थूलदण्डं तथोर्वशो। लोकपाली मरुवकं सोमाद्रिशैलमेव च। सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्। महाशोभं कोचवकं पञ्चधारं त्रिधारकम्। सप्तधारैकतीर्थञ्च तीर्थञ्चामरकण्टकम। शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम्। विन्दुप्रभं देवह्रदं तीर्थं विष्णुप्रभन्तथा। शङ्खप्रभं दारुकुण्डं तीर्थं वज्रायुधं तथा। अग्निप्रभं सुपुन्नागं देवप्रभमनुत्तमम्। विद्याधरं सगन्धर्वं श्रीतीर्थं ब्रह्मणा कृतम्। तीर्थञ्च लोकपालाख्यं पुण्यं पिण्डारकं तथा। वस्त्रापदं दारुवनं छायारोहणमेव च। वटावटं भद्रवटं कोषाक्षी च दिवाकरा। द्वीपं सरस्वती चैव विजयं कामजन्तथा। सारवं गोप्रतारञ्च गाचरं वटमूलकम्। स्नानकुण्डं प्रयागञ्च गुह्यं विष्णुपदन्तथा। कन्याश्रमं विष्णुपदं जम्बुमार्नं तथोत्तमम्। गभस्तितीर्थञ्च तथा ययाति पतनं शुचि। कोटितीर्थं भद्रवटं महाकालवनं तथा। नर्मदातीर्थपरमं तीर्थं वर्षं तथार्बुदम्। पिङ्गुतीर्थं सावशिष्टं तीर्थञ्च प्रियसङ्गमम्। तीर्थं दौर्वासिकं नाम तथा पिञ्चरकं शुभम्। ऋषितीर्थं ब्रह्मकुण्डं वसुतीर्थं कुमारिका। शक्रतीर्थं शापनदं रेणुकातीर्थमेव च। पैतामहञ्च विमलं रुद्रपादं तथोत्तरम्। मणिमन्थञ्च कामाख्यं कृष्णतीर्थं कुमारिणम्। यजनं याजनञ्चैव तथैव ब्रह्मवालकम्। पुष्पाभ्यासं पुण्डरीकं मणिपूरं तथोत्तरम्। दीर्घसत्रं हंसपदं तीर्थञ्चानशनन्तथा। गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च। वज्रकोटि शङ्कुमानं तीर्थं शक्रावनामितम्। समन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम्। सततं पृथिवीतीर्थं पञ्चप्लव पृथूदकौ। दशाश्वमेधिकं तीर्थं सर्पिदं विषयान्तिकम्। कोटितीर्थं पञ्चनदं वाराहं पक्षिणीहृदम्। पुण्डरीकं सोमतीर्थं मञ्जुवाटं तथोत्तमम्। वदरीवनमासीमं रत्नमूलकमेव च। लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च। सूर्य्यतीर्थं शङ्खिनी च धराभवनमेव च। तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम्। कामेश्वरं मातृतीर्थं तीर्थं शीतवनं तथा। श्वानहोमायनञ्चैव मांसमशनकं तथा। दशाश्वमेधं केदारं ब्रह्मोडुम्बरमेव च। सप्तर्षिकुण्डञ्च तथा तीर्थं देव्याः सुजम्बुकम्। इडास्पदं कोटिकूटं किन्नरं किंजपं तथा। कारण्डवञ्च बिन्ध्यञ्च त्रिपिष्टपमथापरम्। पाणिक्षारं मिश्रकञ्च मधुवटमनोजवौ। कौशिकी देवतीर्थञ्च तीर्थञ्च ऋणमोचनम्। दिव्यञ्च तृणमूलाख्यं तीर्थं विष्णुपदन्तथा। श्रीकुण्डं शालितीर्थञ्च नैमिषेयञ्च विश्रुतम्। ब्रह्मस्थानं सोमतीर्थं कन्य तीर्थं तथोत्तरम्। ब्रह्मतीर्थं मनस्तीर्थं तीर्थञ्चैलावनन्तथा। सौगन्धिकवनञ्चैव मणितीर्थं सरस्वती। ईशानतीर्थं प्रवरं पाणिनं पाञ्चयज्ञिकम्। त्रिशूलधारा माहेन्द्रं देवस्थानं कृतालयम्। शाकम्भरी देवतीर्थं स्वर्णाख्यं कालियं ह्रदम्। क्षीरेश्वरं विरूपाक्षं भृगुतीर्थं कुशोद्भवम्। ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च। कुब्जाभ्रकं भद्रवटं वशिष्ठपदमेव च। धूमावर्त्तं तथा मेकं वारुणं कपिलञ्च यत्। स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च। रुद्रावर्त्तं सगन्धाश्वं कपिलावनमेव च। भद्रकर्ण ह्रदञ्चैव शङ्कुकं ह्रदकं तथा। सप्तसारस्वतञ्चैव तीर्थमौशनसं तथा। कपालमोचनञ्चैव नरकञ्चैव काम्यकम्। तत्र सामुद्रिकञ्चैव शतिकञ्च सहस्रिकम्। रेणुकं पञ्चवटकं विमोचनमथौजसम्। विश्वेश्वंरं वामनकं कक्षं नारायणाश्रमम्। गङ्गाह्रदं वटञ्चैव वदरी पचनन्तथा। ऐन्द्रमार्गमेकरात्रं क्षीरिकाराममेव च। सोमतीर्थं दारवञ्च श्रुततीर्थञ्च भोद्विजा!। कन्याश्रमं सन्निहितं कोटितीर्थञ्च पुन्नदी। कोटितीर्थस्थलीञ्चैव भद्रकालीह्रदन्तथा। अरुन्घतीवनञ्चैव ब्रह्मावर्त्तन्तथोत्तमम्। अश्ववेदी कुब्जवनं यमुनाप्रभवं तथा। वीरप्रभोक्षं सिन्धूत्थं शमीकुल्या सकृत्तिका। उर्वशीक्रमणञ्चैव मायाविद्योद्भवन्तथा। महाश्रमो वेतसिकारूपं सुन्दरिकाश्रमम्। ब्रह्मतीर्थन्तु वैश्वासं गङ्गोद्भेदं सरस्वती। अरुणोदं तथा चान्द्रं शक्रतीर्थं सवालुकम्। तीर्थञ्चैवाविमुक्ताख्यं नीलकण्ठह्रदन्तथा। स्वर्गद्वारं किम्पुलिका तीर्थकोटिस्तथैव च। पिशाच मोचनञ्चैव सुभद्राह्रदमेव च। कुण्डं विमलदं तस्यां तीर्थं चण्डेश्वरस्य च। अष्टस्थानह्रदञ्चैव हरिकेशवनं तथा। अजामुखवनञ्चैव घण्टाकर्णह्रदन्तथा। पुण्डरीकह्रदञ्चैव वापीकङ्कोटिकन्तथा। कुण्डं घर्घरिकायाश्च श्यामाकं पञ्चपुण्यदम्। श्मशानशुम्भकुण्डञ्च विनायकह्रदन्तथा। कूपं सिद्धभवञ्चैव पुण्यं व्रह्मसरन्तथा। रुद्रावासं तथा तीर्थं नागतीर्थं सुलोमकम्। शृङ्गतीर्थं महातीर्थं श्रेष्ठा चैव महानदी। दिव्यं ब्रह्मसरः पुण्यं गयाशीर्षाक्षयं वटम्। दक्षिणञ्चोत्तरञ्चैव गोमयं रूपशान्तिकम्। कपिह्रदं गृध्रकूटं सावित्रीह्रदमेव च। प्रभासनं शीतवनं योनिद्वारञ्च धेनुकम्। रम्यकं कोकिलाख्यञ्च मतङ्गह्रदमेव च। पितृकूपं रङ्गतीर्थं शक्रतीर्थं सुमालिनम्। ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्नदन्तथा। मुद्गलस्याश्रमञ्चैव मुद्गल्याह्रदमेव च। तीर्थं जनककूपाख्यं वैश्यं विनशनन्तथा। आद्यं विनाशतीर्थञ्च धारा माहेश्वरी तथा। देवपुष्करिणी रम्या पर्य्यङ्ककूपमेव च। जातिस्मरं वामनकं वटेश्वरह्रदन्तथा। कौशाख्यं भरतञ्चैव तीर्थं श्रेष्ठात्मिका तथा। विश्वेश्वरं कल्पशतं कन्यासायुज्यमेव च। वाराहकं कोटितीर्थं कुमारं सर्वतीर्थकम्। वीराश्रमं ब्रह्मसरो वीरवीरा च तापिनी। कुमारधारा श्रीधारा गौरीशिखरमेव च। कुम्भकर्ण पदञ्चैव कौशिकीह्रदमेव च। धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा। दण्डा विमालिनी तीर्थं तीर्थञ्चैव नरेभिका। सन्ध्यातीर्थं कारतोयं कपिला लोहितार्णवम्। सोमोद्भवं वंशगुल्ममृषभं कालतीर्थकम्। पुण्यतीर्थह्रदं तीर्थं तीर्थं वदरिकाश्रमम्। रामतीर्थं सिन्धुवनं विरजातीर्थमेव च। मार्कण्डेयवनञ्चैव कृष्णतीर्थं तथा वटम्। ध्रुवं स्वरूपं प्रवरमिन्द्रद्युम्नसरश्च यत्। सानुगर्त्तं समाहेन्द्रं श्रीतीर्थं श्रीवनन्तथा। इषुतीर्थञ्चर्षभञ्च कावेरीतीर्थमेव च। कन्यातीर्थञ्च गोतीर्थं गोमतीस्थानमेव च। संवर्त्तस्थापिनी स्थानं सप्तगोदावरीह्रदम्। वदरीह्रदमन्यच्च ब्रह्मतृष्णाविकर्त्तनम्। जातिह्रदं वेदह्रदं कुशपवणमेव च। सर्वदेवव्रतञ्चैव कन्याश्रमह्रदन्तथा। तथान्यत् वा लिखिल्वानां सप्तर्षीणां तथा परम्। तथान्यच्च महर्षीणामखण्डितह्रदन्तथा। तीर्थेष्वेतेषु विधिवत् सम्यक् श्रद्धासमन्वितः। स्नानं करोति यो मर्त्यः सर्वपापैः प्रमुच्यते। अभ्यर्च्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम्। पृथक् पृथक् फलंतेषु प्रतितिष्ठं श्च भो द्विजाः!। प्राप्तोति हयमेधस्य फलं प्राप्नोत्यसंशयम्। यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम्। पठेच्च श्रावयेद्वापि सर्वपापैः प्रसुच्यते”। पद्मपुराणे श्राद्धे प्रशस्ततीर्थानि उक्तानि यथा
भीष्म उवाच। “कस्मिन् वासरभागे तु श्राद्धं श्राद्धी समाचरेत्। तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं भवेत्। पुलस्त्य उवाच। तीर्थन्तु पुष्करं नाम पुण्यं श्रेष्ठतमं स्मृतम्। सर्बेषां द्विजमुख्यानां मनोरथस्थितं तथा। यत्र दत्तं हुतं सर्वमनन्तं मुनिरब्रवीत्। पितॄणां वल्लभं नित्यमृषीणां परमं प्रियम्। नन्दथुर्ललिता तद्वत्तीर्थं मायापुरी तथा। शुभं मित्रपदं राजंस्ततः केदारमुत्तमम्। गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम्। तीर्थं ब्रह्मसरस्तद्वत् शतद्रुः सलिलाह्रदः। तीर्थन्तु नैमिषञ्चैव सर्वतीर्थफलप्रदम्। गङ्गोद्भेदस्तु गोमत्यां यवोद्भूतः सनातनः। तथा यज्ञवराहस्तु देवदेवश्च श्लधृक्। यत्र तत् काञ्चनद्वारमष्टादशभुजोहरः। नेमिस्तु धर्म्मचक्रस्य शीर्णो यत्राभवत् पुरा। तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम्। देवदेवस्य तत्रापि वराहस्य च दर्शनम्। यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्। कोकामुखं परं तीर्थं ब्रह्मणोऽव्यक्त जन्मनः। पुष्करारण्यसंस्थोऽसौ यत्र देवः पितामहः। विरिञ्चिदर्शनं श्रेष्ठं त्वपवर्गफलप्रदम्। कृतं तेन महापुण्यं सर्वपापनिसूदनम्। यत्राद्यो नरसिंहस्तु स्वयमेव जनार्द्दनः। तीर्थमिक्षुमती नाम पितॄणां वल्लभा सदा। तुष्यन्ति पितरो नित्यं गङ्गायमुनसङ्गमे। कुरुक्षेत्रं महापुण्यं यत्र मार्गोऽपि लक्ष्यते। अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम्। नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप!। तथा भद्रसरः पुण्यं सरोमानसमेव च। मन्दाकिनी तथाच्छेदो विपाशाथ सरस्वती। पूर्वमिन्द्रपदं तद्वद्वैद्यनाथं महासुखम्। गोदावरी तथा पुण्या तथा कालञ्जरं शुभम्। बंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महालयम्। भद्रेश्वरं विष्णुपदं नर्म्मदाद्वारमेव च। गयापिण्डप्रदानेन समान्याहुर्महर्षयः। एतानि पितृतीर्थानि सर्वपापहराणि च। स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्। ओङ्कारं पितृतीर्थन्तु कावेरी कपिलोदकम्। कुरुक्षेत्राच्छतगुणम् तस्मिन् सुखादिकम्भवेत्। शक्रतीर्थन्तु विख्यातं तीर्थं सोमेश्वरं स्मृतम्। सर्वव्याधिहरं पुण्यं फलं कोटिशताधिकम्। श्राद्धे दाने तथा होमे स्वाध्याये जपसन्निधौ। छायावरोहणं नाम देवदेवस्य शूलिनः। अवतारं रोचयानो ब्राह्मणावसथे शुभे। जातं तत् सुमहापुण्यं तथा चर्म्मण्वती नदी। नदी च वरणा तद्वत्तीर्थं हौताशनं परम्। भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम्। तीर्थं वैनायकं नाम वज्रेश्वरमनुत्तमम्। तथा पापहरं नाम पुण्या वेत्रवती नदी। शूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा। महाबोधी पदेनापि नागतीर्थमवन्तिका। तथा वेण्वा नदी पुण्या महाशा- लस्तथैव च। महारुद्रो महालिङ्गो दशार्णा च महानदी। शतरुद्रागता वापि तथा पितृपदं परम्। युद्धःवाराहिकं तद्वन्नदौ द्वौ शोणघर्घरौ। कालिका च नदी पुण्यं पितरा च नदी तथा। एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः। श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम्। शनीचाटनदीधारा शवक्षीरनदी तथा। द्वारका कृष्णतीर्थञ्च तथाप्युत सरस्वती। नदी मणिमती नाम तथा च गिरिकर्णिका। धुतपापं तथा तीर्थं समुद्रे दक्षिणे तथा। गोकर्णो गणकर्णश्च तथा च पुरुषोत्तमः। श्रीशैलं शाकतीर्थञ्च नारसिंहमतः परम्। महेन्द्रश्च तथा पुण्यः पुण्या चापि महानदी। एतेष्वपि सदा श्राद्धमनन्तफलमश्नुते। दर्शनादपि पुण्यानि सद्यः पापहराणि च। तुङ्गभद्रा नदो पुण्या तथा भीम नदी सरित्। भीमेश्वरं कृष्णवेण्वा कावेरी वङ्क्षुरा नदी। नदी गोदावरी पुण्या त्रिसन्ध्या तीर्थमुत्तमम्। तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम्। यत्रास्ते भगवान् भीमः स्वयमेव त्रिलोचनः। श्राद्धमेतेषु तीर्थेषु दत्तं शतगुणं भवेत्। स्मरणादपि पापानि व्रजन्ति शतधा नृप!। श्रीपर्णी च नदी पुण्या व्यासतीर्थमनुत्तमम्। तथा मत्स्यनदीधारा शिवधारा तथैव च। भवतीर्थञ्च विख्यातं पुण्यतीर्थञ्च शाश्वतम्। पुण्यं रामेश्वरं तद्वदेलापुरमनुत्तमम्। अङ्गारभृत्यं विख्यातमात्मदर्शमनायुधम्। तीर्थं व्रतेश्वरं तद्वत्तथा कोकामुखं परम्। गोवर्द्धनं हरिश्चन्द्रं पृथुचन्द्रं पृथूदकम्। सहस्राक्षं हिरण्याक्षं तथा च कदली नदी। नामाधि पापि च तथा तथा सौमित्रसङ्गतम्। इन्द्रनीलं महानादं तथा च प्रियमेलकम्। एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च। एतेषु सर्वदेवानां सान्निध्यं पठ्यते यतः। दानमेतेषु सर्वेषु भवेत् कोटिशताधिकम्। बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम्। तीर्थं पाशुपतञ्चैव नदी पर्पटिका तथा। श्राद्धमेतेषु सर्वेषु दत्तं कोटिशताधिकम्। तथैव पर्वतीर्थञ्च त्रिपुरं खाण्डवं नदी। धुता लिङ्गसहस्रेण सव्येतरजलावहा। जामदग्न्यस्य सत्तीर्थं वेदायतनमुत्तमम्। प्रतीकस्याभया सिद्धा यदा गोदावरी नदी। तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्। श्राद्धादिदानकार्य्यञ्च तद्वत् कोटि शताधिकम्। तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम्। सेन्द्रफला नदी पुण्या यत्र दुःखाद्गतः पुरम्। निमेश्च प्रसृतिमित्रं तपसा स्वर्गमाप्नुयात्। तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्। पुष्करं नाम वै तीर्थं शालग्रामं तथैव च। शौनपातश्च विख्यातो यत्र वैश्वानरालयः। तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च। मनन्दुरा नदी पुण्या कौशिकी चन्द्रिका तथा। विदर्भा चाप्यवेणाथ पयोष्णी प्राङ्मुखी परा। कावेरी चोत्तरागा च तथा जालन्धरो गिरिः। एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते। लौहदण्डं तथा दण्डं चित्रकूटन्तथैव च। दिव्यं सर्वत्र गङ्गायास्तथा नदीतटं शुभम्। कुब्जाभ्रञ्च तथा तीर्थमुर्वशीपुलिनं तथा। संसारमोचनं तीर्थं तथैव ऋणमोचनम्। एतेषु प्रितृतीर्थेषु श्राद्धमानन्त्यमश्नुते। अट्टहासं तथा तीर्थं गौतमेश्वरमेव च। तथा वशिष्ठतीर्थञ्च भारतञ्च ततः परम्। ब्रह्मावर्त्तं कुशावर्त्तं हंसतीर्थं तथैव च। पिण्डारकञ्च विख्यातं शङ्खोद्बारं तथैव च। खाण्डेश्वरं विश्वकञ्च नीलपर्वतमेव च। तथा च वदरीतीर्थं रामतीर्थन्तथैव च। जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च। एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्। तीर्थं मातृगृहं नाम करवोरपुरं तथा। सप्तगोदावरीतोर्थं सर्वतीर्थेश्वरेश्वरम्। तत्र श्राद्धं प्रदातव्यमनन्तफलमिच्छुभिः। कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्। च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुनाः। यत्र गाथा विचरति ब्रह्मणा परिकीर्त्तिता। एष्टव्याबहवः पुत्रा यद्यप्येको गयां व्रजेत्। यजेतवाश्वमेधेन नींलं वा वृषमुत्सृजेत्। एषा गाथा विचरति तीर्थेष्वायतनेषु च। सर्वे मनुष्या राजेन्द्र! कीर्त्तयन्तः समागताः। किमस्माकं कुले कश्चिद्गयां यास्यति मत्सुतः। प्रीणयिष्यति ताङ्गत्वा सप्त पूर्वांस्तथाऽवरान्। मातामहानामप्येवं श्रुतिरेषा चिरन्तनी। गङ्गायाञ्चास्थिनिचयं गत्वा क्षेप्स्यति मत्सुतः। तिलैः सप्ताष्टभिर्वापि दास्यते च जलाञ्जलिम्। अरण्य त्रितये चापि पिण्डदानं करिष्यति। प्रथमं पुष्करारण्यं नैमिषन्तदनन्तरम्। धर्मारण्यं ततः प्राप्य श्राद्धं भक्त्या प्रदास्यति। गयायां धर्म्म पृष्ठे वा सरसि ब्रह्मणस्तथा। गयाशीर्षवटे चैव पितृणां दत्तमक्षयम्। व्रतं कुर्य्यान्नरो यस्तु अध्वानं परिसर्पति। नरकस्थान् पितॄंस्तद्वत् स्वर्गं नयति सत्वरः। कुले तस्य न राजेन्द्र! प्रेतो भवति कश्चन। प्रेतत्वमोक्षभावञ्च पिण्डदानाच्च गच्छति। गयायां पिण्डदानस्य नान्यज्ञानं विशिष्यते। एकेन पिण्डदानेन तृप्तास्ते मोक्षगामिनः। धाम्यप्रदानं प्रवरं वदन्ति वस्त्रप्रदानञ्च तथा मुनीन्द्राः। तोयञ्च तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं प्रदिष्टम्। सर्वाथहा सुरुचिरा महावला महानदी। ये तु पश्यन्ति तां गत्वा मानसे दक्षिणोत्तरे। प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलम्। यद्यदिच्छति वै मर्त्यस्तत्तत् प्राप्तोत्यसंशयम्। एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया। वागीशोऽपि न शक्रोति विस्तरात् किमु मामुषाः” पुराणसर्वस्वे। श्राद्धे तीर्थभेदस्य प्राशस्त्यं विष्णुसंहितायामुक्तं यथा
“अथ पुष्करेषु श्राद्धम् जप्यहोमतपांसि च। पुष्करे स्नानमात्रतः सर्वपापेभ्यः पूतो भवति। एवमेव गयाशीर्षे अक्षयवटे अमरकण्टकपर्वते वराहपर्वते यत्र क्वचन नर्मदातीरे गङ्गायां विशेषतः, कुशावर्त्ते विल्वके नीलपर्वते कनखले कुब्जाम्रे भृगुतुङ्गे केदारे महालये नडन्तिकायां सुगन्धायां शाकम्भर्य्यां फलगुतीर्थे महागङ्गायां त्रिधालिकाश्रमे कुमारधारायां प्रभासे यत्र क्वच्न सरस्वत्यां विशेषतः। गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे। सततं नैमिंषारण्ये वाराणस्यां विशेषतः। अगस्त्याश्रमे कौशिक्यो सरयूतीरे शोणस्य ज्योतिषायाश्च सङ्गमे। श्रीपर्वते कालोदके उत्तरमानसे वडवायां मतङ्गवाप्यां सप्तर्षे विष्णुपदे स्वर्गमार्गपदे गोदावर्य्यां गोमत्यां वेत्रावत्यां विपाशायां वितस्तायां शतद्रुतीरे चन्द्रभागायाम् इरावत्यां सिन्धोस्तीरे दक्षिणे पञ्चनदे औशनसे। एवमादिष्वथान्येषु तीर्थेष्र सरिद्वरासु सर्वेष्वपि स्वभावेषु पुलिनेषु प्रस्रवणेषु पर्वतेषु निकुञ्जेषु वनेषूपवनेषु गोमयोपलिप्तेषु मनोज्ञेषु”
तीर्थागमने दोषो यथा “अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च। अदत्त्वा काञ्चनं गाञ्च दरिद्रो नाम जायते” प्रा० त०। तीर्थगमने फलं यथा
“अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः। न तत् फलमाप्नोति तीर्थाभिगमनेन यत्। तीर्थान्यनुस्मरन् धीरः श्रद्दधानः सनाहितः। कृतपापो विशुध्येत किं पुनः शुद्धकर्मकृत्। तिर्य्यग्योनिं न वै गच्छेत् कुदेशे न च जायते। न दुःखी स्यात् स्वर्गभाक् च मोक्षोपायञ्च विन्दति” ब्रह्मवै० पु०।
तीर्थसम्यक्फलभागिनो यथा “यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्। विद्या तपश्च कीर्त्तिश्च स तीर्थफलमश्रुते। प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित्। अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते। अदाम्भिको निरारम्भो लघ्वाहारो जितेन्द्रियः। विमुक्तः सर्वसङ्गैर्यः स तीर्थफलमश्नुते। अकोपनोऽमलमतिः सत्यवादी दृढव्रतः। आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते। अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः। हेतुनिष्ठश्च पञ्चै ते न तीर्थफलभागिनः। इति काशीखण्डम्। प्रा० त०। तीर्थप्रतिग्रहे दोषोयथा।
“तीर्थेन प्रतिगृह्णीयात् संक्रान्त्यादिषु च तथा। स्वकार्य्ये पिवृकार्य्येऽपि देवताभ्यर्च्चनेऽपि वा। निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते”। “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे। वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे। पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले। हरिद्वारे च केदारे सोमे वदरपाचने। सरस्वतीनदीतीरे पुण्ये वृन्दावने वने। गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये। एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः। स च तीर्थप्रतिग्राही कुम्मीपाकं प्रमाति च” इति ब्रह्मवै० प्र० स्व०। शङ्खः “तीर्थं प्राप्यानुषङ्गेन स्नानं तोर्थे समाचरन्। स्नानजं फलमाप्नोति तीर्थयात्राफलं न तु”। तथा यस्य पादौ च हस्तौ च मनश्चैव सुसंयुतम्। विद्या तपश्च कीर्त्तिश्च स तीर्थफलमश्नुते। नॄणां पापकृतां तीर्थे भवेत् पापस्य संक्षयः। यथोक्तफलदं तीर्घं भवेच्छुद्धात्मनां नॄणाम्”। हस्तसंयमोऽत्र निन्दितप्रतिग्रहादिनिवृत्तिः। पादसंयमस्तु अगम्यदेशादिगमननिवृत्तिः। मनःसंयमः कामक्रोधादिनिवृत्तिः, विद्या तत्तत्तोर्थफलबोधकसच्छास्त्रवेदाद्यधिगमरूपा। तपः आमिषादिनिवृत्तिः। कीर्त्तिः धर्मार्थतीर्थगमने धार्मिकत्वादिना प्रसिद्धिः। फलं सम्यगिति शेषः। एतच्च हस्तसंयमनादितीर्थयात्राङ्गं महाभारते तीर्थयात्रामुपक्रम्याभिघानात् तीर्थस्नानादिकर्माङ्गञ्च, शङ्खेन यात्राप्रकरणमन्तरेणैव सतीर्थफलमश्नुते इति सामान्याभिधानात्। इति कल्पतरुः। अतएव पैठीनसिः “षोडशांशं स लभते यः परार्थेन गच्छति। अर्द्धं तीर्थ फलं तस्य यः प्रसङ्गेन गच्छति”। परार्थेन वेतनादिना, प्रसङ्गेन उद्देश्यान्तरप्रसङ्गेन। “तथा प्रतिकृतिं कृत्वा तीर्थवारिणि मज्जयेत्। मज्जयेत्तु यमुद्दिश्य अष्टभागं लभेत सः”।
तीर्थयात्राविधानं यथा “यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्। सुसंयतः स च पूर्वं गृहे स्वे। कृतोपवासः शुचिरप्रमत्तः संपूजयेद्भक्तिनम्नो गणेशम्। देवान् पितॄन् ब्राह्मणांश्चैव साधून् धीमान् प्रीणयन् वित्तशक्त्या प्रयत्नात्। प्रत्यागतश्चापि पुनस्तथैव देवान् पितॄन् ब्राह्मणान् पूजयेच्च। एवं कुर्वतस्तस्य तीर्थे यदुक्तं फलं तत् स्यान्नात्र सन्देह एव” इति ब्रह्मपुराणम्। एतदधिकारे प्रा० त०।
“सुसंयतः पूर्वदिने कृतैकभक्तादिनियमः। तदुत्तरदिने कृतोपवासस्तदुत्तरदिने गणेशं ग्रहानिष्टदेवताञ्च संपूज्य वृद्धिश्राद्धं कृत्वा ब्राह्मणान् भोजयेत्। ततः शुभलग्ने यात्रां कुर्य्यात् तीर्थयात्रान्तु गच्छेदित्युपक्रमादुपवासदिने मुण्डनमषि। “प्रयागे तीर्थयात्रायां पितृमातृवियोगतः। कचानां वपनं कार्य्यं न वृथा विकचोभवेत्” इति विष्णुपुराणवचनात्। प्रवेशेऽपि तीर्थयात्रायामिति वक्तव्यम्। “गच्छन् देशान्तरं यत्तु श्राद्धं कुर्य्यात्तु सर्पिषा। यात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः” इति भविष्यपुराणादिति गङ्गावाक्यावली। वस्तुतस्तु तीर्थप्रत्यागमनोत्तरस्वगृहप्रवेशे इत्येव वक्तव्यम्। यात्राप्रत्यागमनोत्तरस्वगृहप्रवेशयोर्भेदात् प्रत्यागमनोत्तरलाभस्तु प्रत्यागतश्चापीति प्रागुक्तत्वात् व्यक्तमाह हलायुधधृतं कूर्मपुराणवचनम् “तीर्थयात्रास मारम्भे तीर्थात् प्रत्यागमेऽपि च। वृद्धिश्राद्धं प्रकुर्वीत बहुसर्पिःसमन्वितम्”। ततश्च प्रवेशे चेति चकारेण श्राद्धमात्रं समुच्चितम्। नतु तस्य यात्रार्थत्वमपीति। एवं देवान् पितॄनित्यभिधानात् तत्पूजनमेव पुनः कार्य्यं नतूपवासादिकमपि अन्यथा देवानित्यादिकं व्यर्थं स्यात्। मत्स्यपुराणम् “तिलोदकाञ्जलिर्देयोजलस्थैस्तीर्थवासिभिः। सदा न हस्तेनैकेन गृहे श्राद्धं समिष्यते”। अत्र जलस्थैरित्यनेन स्थत्यस्थानामपि जलस्थत्वं नियम्यते। तथा हि “अन्तरुदके आचान्तो अन्तरेव शुद्धोभवति। तस्वादन्तरेकं वहिरेकञ्च पादं कृत्वा आचामेत् सर्वत्र शुद्धोभवति” इति पैठीनस्युक्तेन जलैकचरणकृताचमनेन उभयत्र कर्म्मार्हत्वात् तर्पणकाले तीर्थे जलैकचरणत्वं प्रतीयते। अन्यत्र त्वनियमः। तद्रूपाणां जले च तर्पणमविरुद्धमिति। गृह इति स्थलोपलक्षणम्। देवीपुराणे। “अकालेऽप्यथ वा काले तीर्थश्नाद्धं तथा नरैः। प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं पितृतर्पणम्। पिण्डदानं ततः शस्तं पितॄणाञ्चातिदुर्लभम्। विलम्बो नैव कर्त्तव्यो न च विघ्नं समाचरेत्। श्राद्धं तत्र तु कर्त्तव्यमर्ध्यावाहनवर्जितम्। श्वध्वाङ्क्षगृध्रकाकानां नैव दृष्टिहतञ्च यत्”। ध्वाङ्क्षोदण्डकाकः। अत्राकाल इति न रात्र्यादाविति पर्य्युदस्तप्रतिप्रसवः। तथात्वे तद्बाधापत्तेः। किन्तु पर्य्युदस्तेतराप्रशस्तकालपरम्। “तत् सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इत्यनुसारात्। काल इति प्रशस्तापराह्णादिकालपरम्। अत्र शुचेः प्राप्त्युत्तरविहितप्रथमदिन एव श्राद्धं तेन पूर्वदिने राक्षसीवेलादावागमनेऽपि परदिनेश्राद्धमविरुद्धम्। तथा च हलायुधधृतम् “गत्वैव तीर्थं कर्त्तव्यं श्राद्धं तत्प्राप्तिहेतुकम्। पूर्वाह्णेप्यथ वा प्रातर्देशे स्यात् पूर्वदक्षिणे”। पूर्वाह्णे सङ्गवे पूर्वदक्षिणे अग्निकोणे। पिण्डदानमिति श्राद्धासम्भवे केवलपिण्डदानभिति न पौनरुक्त्यम्। तीर्थे पिण्डप्रतिपत्तिमाह मत्स्यपुराणम् “पिण्डांस्तु गोऽजविप्रेभ्योदद्यादग्नौ जलेऽपि वा। तीर्थश्राद्धे सदा पिण्डान् क्षिपेत्तीर्थे विचक्षणः”। वायुपु० “उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कर्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम्। ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्” इत्युक्तं गयामित्युपलक्षणादन्यत्रापि तथा। अन्यत् मत्कृतगयाश्राद्धादिपद्धतौ दृश्यम्। कूर्प्तपुराणम् “ऐश्वर्य्यलोभमाहात्म्यात् गच्छेद्यानेन यो नरः। निष्फलं तस्य तत्तीर्थं तस्माद्यानं विवर्जयेत्” इति मत्स्यपुराणम् “संवत्सरं द्विमासोनं पुनस्तीर्थं व्नजेद्यदि। मुण्डनञ्चोपवासञ्च तदा यत्नेन कारयेत्” इति गङ्गावाक्याव०। तीर्थप्राप्त्यनन्तरविधानं यथा। “न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थीभोज्य एव हि। सक्तुभिः पिण्डदानञ्च चरुणा पायसेन च। कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन च। श्राद्धं तत्र तु कर्त्तव्यमर्घ्यावाहनवर्जितम्। अकालेऽप्यथवा काले तीर्थश्राद्धन्तु तर्पणम्। अविलम्बेन कर्त्तव्यं नैव विघ्नं समाचरेत्। यदह्नि तीर्थप्राप्तिः स्यात्ततोऽह्नः पूर्ववासरे। उपवासश्च कर्त्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत्। तीर्थोपवासः कर्त्तव्यः शिरसो मुण्डनं तथा। शिरोगतानि पापानि यान्ति मुण्डगतो यतः। तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत्। स्नानजं फलमाप्नोति तीर्थ- यात्राश्रितं न तु” इति काशीखण्डम्। “मुण्डनञ्चोपवासश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा गयां गङ्गां विशालां विरजान्तथा” इति स्कान्दम् “स्नापयेत् स्निग्धमित्रादीन् ज्ञातीं स्तीर्थे नरोत्तमः। अन्यथापहरन्त्येते बलात्तीर्थभवं फलम्” इति स्कान्दम् “मातरं पितरं जायां भ्रातरं सुहृदं गुरुम्। यमुद्दिश्य निमज्जेत अष्टभागं लभेत सः” इति प्रा० ३० मार्क० पु०।
कलौ तीर्थानां पृथिव्यां स्थितिकालो यथा “सरस्वती पुण्यक्षेत्रमाजगाम च भारतम्। गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे। पश्चाद्भगीरथानीतामहीं भागीरथी शुभा। समाजगाम कलया वाणी शापेन नारद!। पद्माजगाम कलया सा च पद्मावती नदी। भारतं मारतीशापात् स्वयं तस्थौ हरेः पदे। कलेः पञ्चसहस्रञ्च वर्षान् स्थित्वा च भारते। जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम्। यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना। यास्यन्ति ताभिः सार्द्धञ्च वैकुण्ठमाज्ञया हरेः”।
“यानादिना गमनदोषो यथा “पुण्यार्द्धं हरते याने तदर्द्धं तत्र पादुके। तदर्द्धं तैलमांसाभ्यां सर्वं हरति मैथुने” इति कर्मलोचनम्। तत्र उपाये घट्टे च “कृततीर्थः पयसामिवाशयः” किरा० शास्त्रे तीर्थकरः। पात्रे। “ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः। विद्यया विद्यां यः प्राह तानि तीर्थानि षण्मम” विद्यावाक्यम्। १८ चात्वालोत्करयोरन्तराले देशे “दक्षिणेनाहृत्य तीर्थेन पूर्वेण येदिमपरेण वा” कात्या० श्रौ० ५। ५। ११। “तीर्थेन चात्वालोत्करावन्तरेण प्रवेश्य वेदिचात्वालयोरन्तरालेन पूर्वेणोत्तरवेदिं दक्षिणेनाग्नेः पुरस्तादाहृत्य अथवा तीर्थेन प्रवेशनानन्तरमुत्तरां वेदिमपरेण चानीय वेद्योरन्तरालेन दक्षिणस्याग्नेः पुरस्तदानीय जुहोति” “तेनान्तरेण प्रतिप्रद्यन्ते चात्वालं चैतद्वै देवानां तीर्थम्” षड्विं० व्रा०। कराङ्गुलितलेषु ब्राह्मादितीर्थता यथाह मनुः “ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्। कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन। अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते। काय मङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः” शास्त्रानुज्ञाविषये। “अहिंसन् सर्वाभूतान्यन्यत्र तीर्थेम्यः” छा० उ० तीर्थं शास्त्रानुज्ञाविषयः” भाष्यम्। १९मन्त्र्याद्यष्टादशसु। “कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिर- विज्ञातैर्वेत्सि तोर्थानि चारकैः” भा० स०५ अ०। “तीर्थानि मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य राजा कृतकृत्यो भवति तानि चीकानि नीतिशास्त्रे “मन्त्री १ पुरोहित २ श्चैव युवराजश्च ३ भूपतिः ४ पञ्चमो द्वारपालश्च ५ षष्ठोऽन्तर्वेशिकस्तथा ६। कारागाराधिकारी ७ च द्रव्यसञ्चयकृत्तथा ८। कृत्याकृत्येषु चार्थानां नवमो विनियोजकः९। प्रदेष्टा १० नगराध्यक्षः ११ कार्य्यनिर्माणकृत्तथा १२। धर्माध्यक्षः १३ सभाध्यक्षो १४ दण्डपालस्त्रिपञ्चमः १५। षोडशो दुर्गपालश्च १६ तथा राष्ट्रान्तपालकः १७। अटवीपालकान्तानि १८ तीर्थान्यष्टादशैव तु। चारान् विचारयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि। मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहितमिति” एषां तीर्थशब्दवाच्यत्वे हलायुधः “योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि”। इति परेषामष्टादशसु स्वस्य मन्त्रिपुरोहितयुवराजवजं पञ्चदशसु च तीर्थेषु चारानन्यैः परस्परं चाविज्ञातांस्त्रींस्त्रीन् प्रयुज्य तत्रत्यां वार्त्तां सर्वचारसंवादे तथ्यां जानीयात्” नी० क०।
२ जलाशयादरत्निमात्रदेशे आदित्यपुराणे “अरत्निमात्रं जलं त्यक्त्रा कुर्य्याच्छौचमनुद्धृते। पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्”। तस्मिन् देशे शौचं न कर्त्तव्यं यस्मादरत्निमात्रव्यवहितजलात् तत् स्यलमेव तीर्थं जलसमीपत्वात्” आ० त०। “तीर्थाश्रमवनारण्यगिरिपर्वतसागराः। सरस्वती भारती च पुरीति दश कीर्तिताः” महानि० तन्त्रोक्ते २ सन्यासिनामुपाधि भेदे। तल्लक्षणं तत्रैव “त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे। स्नायात्ततीर्थभावेन तीर्थनामा स उच्यते”। अन्यानि च भौमतोर्थानि भारततीर्थयात्रापर्वादौ पुराणान्तरेषु प्रसिद्धानि। “अन्यानि यानि तीर्थानि काशीप्राप्तिकराणि च। काशीं प्राप्यैव मोक्षन्ते नान्यथा कल्पकोटिभिः” नीलकण्ठधृतवाक्यम्।
तीर्थकर = पु० तीर्थं शास्त्रं करोति कृ–ट। १ जिने हेमच०। २ शास्त्रकरे त्रि०। ३ विष्णौ पु०। “मनोजवस्तीर्थकरः” विष्णु स०। “चतुर्दशविद्यानां वाह्यसमयानां च प्रणेता प्रवक्ता चेति तीर्थकरः हयग्रीवरूपेण मधुकैटभौ हत्वा विरिञ्चये सर्गादौ सर्वाः श्रुतीरन्याश्च विद्या उपादिशत् बाह्यविद्याः सुरवैरिणां वञ्चनाय चोपादिशदिति पौराणिकाः कथयन्ति” भाषम्।
तीर्थकाक = पु० तीर्थे काक इव लोलुपत्वात्। तीर्थे काकसदृशव्यवहारिणि लोलुपे। तीर्थध्वाङ्क्षादयोऽप्यत्र।
तीर्थकृत् = पु० तीर्थं करोति कृ–क्विप् ६ त०। १ जिनदेवे हेमच०। २ शास्त्रकरे त्रि०।
तीर्थङ्कर = पु० तीर्थं शास्त्रं करोति कृ–ख मुम् च। जिनदेवे हेमच०।
तीर्थदेव = पु० तीर्थमिव श्रेष्ठः देवः तोर्थे दीव्यति वा दिवअच् वा। शिवे शिवसहस्रनाम।
तीर्थमहाह्रद = पु० तीर्थरूपो महाह्रदः। स्वनामख्याते तीर्थभेदे “नन्दा च परनन्दा च तथा तीर्थमहाह्रदः” भा० अनु० १६५ अ०। नानातीर्थोक्तौ।
तीर्थयात्रा = स्त्री तीर्थ मुद्दिश्य यात्रा। १ तीर्थोद्देशेन यात्रायाम्। तद्विधिः मत्कृतगयाश्राद्धादिपद्धतौ दृश्यः। भारतान्तर्गते २ वनपर्वाऽवान्तरपर्वभेदे। “तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः” भा० व० १ अ०। तच्च वनपर्वणि ८० अध्यायावधि१५६ अध्यायान्तम्।
तीर्थराज = पु० तीर्थानां राजा षच्समा०। प्रयागे तीर्थे। तीर्थराजिशब्दे उदा०
तीर्थराजि(जी) = स्त्री तीर्थानां राजिरत्र। अविमुक्ते काश्यां त्रिका० वा ङीप्। निन्दनातत्राष्टषष्टितीर्थानामानयनात्तथात्वम्। यथोक्तं काशी० ६९ अ०। “सर्वरत्नमया रम्या साष्टषष्टिरभूदिह। भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि। मुक्तिदान्यपि तानीह मयाऽऽ नीतानि सर्वतः। यतोयच्च समानीतं यत्र यच्च कृतास्पदम्। कथयिष्याम्यहं नाथ! क्षणं तदवधीयताम्। स्थाणुर्नाम महालिङ्गं देवदेवस्य मोक्षदम्। कुरुक्षेत्रादिहोद्भूतं कलाशेषोऽस्ति तत्र वै। तदग्रे सन्निहित्याख्या महापुष्करिणी शुभा। लोलार्कपश्चिमे भागे कुरुक्षेत्रस्थली तु सा। तत्र स्नातं कृतं जप्तं तप्तं दत्तं शुभार्थिभिः। कुरुक्षेत्राद्भवेत् सत्यं कोटिकोटिगुणाधिकम्। नैमिषार्द्धेव देवोऽत्र ब्रह्मावर्त्तेन संयुतः। तत्रांशमात्रं संस्थाप्य काश्यामाविरभूद्विभो!। ढुण्ढिराजोत्तरे भागे सिद्धिदं साधकस्य वै। लिङ्गं वै देवदेवाख्यं तदग्रे कूप उत्तमः। ब्रह्मावर्त्त इति ख्यातः पुनरावृत्तिकृन्नृणाम्। तत्कूपाद्भिः कृतम्रानो देवदेवं समर्च्च्य च। तत्पुण्यान्नैमिषारण्यात् कोटिवोटिगुणं स्मृतम्। गोकर्ण्णायतनादत्र स्वयमाविरभून्महत्। लिङ्गं महाबलं नाम शाम्बादित्यसमीपतः। दर्शनात् स्पर्शनाद्यस्य क्षणादेनो महाबलम्। वाताहतस्तुलराशिरिव विद्राति दूरतः। कपालमोचनपुरो दृष्ट्वा लिङ्गं महाबलम्। महाबल- मवाप्नोति निर्वाणनगरं व्रजेत्। ऋणमोचनतः प्राच्यां प्रभासात् क्षेत्रसम्भवात्। शशिभूषणसंज्ञं तु लिङ्गमत्र प्रतिष्ठितम्। तल्लिङ्गं सेवनान्मर्त्यः शशिभूषणतां व्रजेत्। प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत्। उज्जयिम्या महाकालः स्वयमत्रागतो विभुः। यन्नामस्मंरणादेव न भयं कलिकालतः। प्रणवाख्यान्महालिङ्गात् प्राच्यां कलुषनाशनम्। महाकालाभिधं लिङ्गं दर्शनान्मोक्षदं परम्। योगन्धेश्वर लिङ्गं पुष्करात्तीर्थसम्भवात्। आविरासीदिह महत् पुष्करेण सदैव तु। मत्स्योदर्य्युत्तरे भागे दृष्ट्वाऽयोगन्धमुत्तमम्। स्नात्वाऽयोगन्धकुण्डे तु भवात्तारयते पितृन्। महानादेश्वरं लिङ्गमट्टहासादिहागतम्। त्रिलोचनादुदीच्यान्तु तद्दृष्टिर्मुक्तये सताम्। महोत्कटेश्वरं लिङ्गं मरुत्कोटाटिहागतम्। कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धिदम्। विश्वस्थानादिहायातं लिङ्गं वै विमलेश्वरम्। स्वर्लीतात् पश्चिमे भागे दृष्टं विमलसिद्धिदम्। महाव्रतं महालिङ्गं महेन्द्रादिह मंस्थितम्। स्कन्देश्वरसमीपे तु महाव्रतफलपदम्। वृन्दारकर्षिवृन्दानां स्तुवतां प्रथमे युगे। उत्पन्नं यन्महालिङ्गं भूमिं भित्त्वा सुदुर्भिदाम्। महादेवेति तैरुक्तं यन्मनोरथपूरणात्। वाराणस्यां महादेवस्तदारभ्याभवच्च यत्। मुक्तिक्षेत्रं कृतं येन महालिङ्गेन काशिका। अविमुक्ते महादेवं यो द्रक्ष्यं त्यत्र मानवः। शम्भुलोके गमस्तस्य यत्र तत्र मृतस्य हि। अविमुक्ते प्रयत्नेन तत् संसेव्यं मुमुक्षुभिः। कल्पान्तरेऽपि न त्यक्तं कदाप्यानन्दकाननम्। येन लिङ्गस्वरूपेण महादेवेन सर्वथा। तत्प्रसादोऽयमतुलः सर्वरत्नपयः शुभः। हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्र रक्षिका। वाराणस्यामधिष्ठात्री देवता साभिलाषदा। महादेवेति संज्ञा वै सर्वलिङ्गस्वरूपिणी। वाराणस्यां महादेवो दृष्टो यैर्लिङ्गरूपधृक्। तेन त्रैलोक्यलिङ्गानि दृष्टानीह न संशयः। वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः। आहूतसंप्लवं यावच्छिवलोके वसेन्मुदा। पवित्रपर्वणि सदा श्रावणे मासि यत्नतः। लिङ्गे पवित्रमारोप्य महादेवे न गर्भभाक्। पितामहेश्वरं लिङ्गं गयातोर्थादिहागतम्। फल्गुप्रभृतिभिस्तीर्थैः सार्द्धं कोट्यष्टसम्मितैः। धर्म्मेण यत्र वै तप्तं युगानामयुतं शतम्। साक्षीकृत्य महालिङ्गं श्रीमद्धर्मेश्वराभिधम्। पितामहेश्वरं लिङ्गं तत्राभ्यर्च्य नरोमुदा। त्रिःसप्त- कुलसंयुक्तो मुच्यते नस्त्र संशयः। प्रयागतीर्थराजस्य शूलटङ्को महेश्वरः। तीर्थराजेन सहितः स्थित आगत्य वै स्वयम्। निर्वाणमण्डपाद्रम्यादवाच्यामतिनिर्मलः। प्रासादो मेरुणा यस्य स्पर्द्धते काञ्चनोज्ज्वलः। देवेनैववरो दत्तो तत्र पूर्वयुगान्तरे। पूज्यो महेश्वरः काश्यां प्रथमं कलुषापहः। यः प्रयाग इह स्नातो नमस्यंति महेश्वरम्। समभ्यर्च्य विधानेन महासम्भारविस्तरैः। प्रयागस्नानजात् पुण्यं शूलटङ्कविलोकनात्। स प्राप्तुयान्न सन्देहः पुण्यं कोटिगुणोत्तरम्। शङ्कुकर्ण्णान्महाक्षेत्रान् महातेज इतीरितम्। लिङ्गमाविरभूदत्र महातेजोभिवृद्धिदम्। महातेजोनिधेस्तस्य प्रासादोऽतीव निर्मलः। ज्वालाजटिलिताकाशो माणिक्यैरेव निर्मितः। तल्लिङ्गदर्शनात् स्पर्शात् स्तवनाच्च समर्च्चनात्। प्राप्यते तत् पुरं धाम यत्र गत्वा न शोचते। विनायकेश्वरात् पूर्वे महातेजःसमर्च्चनात्। तेजोमयेन यानेन याति माहेश्वरं पदम्। रुद्रकोटि समाख्यातात्तीर्थात् परमपावनात्। महायोगोश्वरं लिङ्गमाविश्चक्रे स्वयं परम्। पार्वतोश्वरलिङ्गस्य समीपे सर्वसिद्धिकृत्। तल्लिङ्गदर्शनात् पुंसां कोटिलिङ्गफलं लभेत्। तत्प्रासादस्य परितो रुद्राणां कोटिसम्मिता। प्रासादरम्यसंस्थाना निर्मिता रुद्रमूर्त्तिभिः। काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः। रुद्रस्थल्यां मृता यो वै कृमिकीटपतङ्गकाः। पशुपक्षिमृगा मर्त्या म्लेच्छा वाऽप्यथ दीक्षिताः। तेषां तु रुद्रीभूतानां पुनरावृत्तिरत्र न। जन्मान्तरसहस्रेषु यत् पापं समुपार्जितम्। रुद्रस्थलीं प्रविष्टस्य तत् सर्वं व्रजति क्षयम्। अकामो वा सकामो वा तिर्य्यग्योनिगतोऽपि वा। रुद्रस्थल्यां त्यजन् प्राणान् परं निर्वाणमाप्तुयात्। स्वयमेकाम्बरात् क्षेबात् कृत्तिवासा इहागतः। कृत्तिवाससि लिङ्गेऽत्र स्वयमेव व्यवस्थितः। अस्मिन् लिङ्गे स्वसक्तानां साम्बः सर्षिगणो विभः। स्वयञ्चोपदिशेद्ब्रह्म श्रुतौ श्रुतिभिरीरितम्। क्षेत्रेऽत्र सिद्धिदे प्राप्तश्चण्डीशो मरुजाङ्गलात्। प्रचण्डषपसंथातं खण्डयेच्छतधेक्षणात्। पाशपाणिगणाध्यक्षसमीपे यः प्रपश्यति। चण्डीश्वरं महालिङ्गं स याति परमां गतिम्। कालञ्जरान्नीलकण्ठस्तिष्ठेदत्र स्वयं विभु। षेशात् कूटदन्ताख्यात् समीपे भवनाशनः। नीलकण्ठेश्वरं लिङ्गं काश्यां यैः परिपूजितम्। नीलकण्ठास्तएव स्युस्तएव शशिभूषणाः। काश्मीरादिह संप्राप्तं लिङ्गं विजयसंज्ञितम्। सदा विजयदं पुंसां विजयेशः समर्च्चनात्। ऊर्द्ध्वरेतास्त्रिदण्डायाः संप्राप्तोऽत्र स्वगंविभुः। कुष्माण्डकं गणाध्यक्षं पुरस्कृत्वा व्यवस्थितः। ऊर्द्ध्वां गतिमवाप्तोति वीक्षणादूर्द्ध्वरेतसः। ऊर्द्ध्वरेतसि ये भक्ता न हि तेषामधोगतिः। मण्डलेश्वरतः क्षेत्राल्लिङ्गं श्रीकण्ठसंज्ञितम्। विनायकान्मुण्डसंज्ञादुत्तरस्यां दिशि स्थितम्। श्रीकण्ठस्य तु ये भक्ताः श्रीकण्ठा एव ते नराः। नेह श्रिया वियुज्यन्ते न परत्र कदाचन। छागलाण्डान्महातीर्थात् कपर्द्दीश्वरसंज्ञितः। पिशाच मोचने तीर्थे स्वयमाविरभूद्विभुः। कपर्दीशं समभ्यर्च्च्य न नरो निरयं व्रजेत्। न पिशाचत्वमाप्नोति कृत्वाऽत्राप्यवमुत्तमम्। आषाडकेश्वरात् क्षेत्रात् लिङ्गं सूक्ष्मेशसंज्ञितम्। स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसां पदे। विकटद्विजसंज्ञस्य गणेशस्य समीपतः। दृष्ट्वा लिङ्गेश्वरं लिङ्गं गतिं शुभामवाप्नुयात्। संप्राप्तमिह देवेशं जयन्तं मधुकेशवात्। लम्बोदराद्गणपतेः पुरस्तात्तदवस्थितम्। जयन्तेश्वरमालोक्य स्नात्वा गङ्गाजले शुभे। प्राप्नुयाद्वाञ्छितां सिद्धिं सर्वत्र विजयी भवेत्। प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरान्तकः श्रीशैलशिखरं दृष्ट्वा यत् फलं समुदीरितम्। त्रिपुरान्तकमालोक्य तत्फलं हेलयाप्यते। विश्वेशात् पश्चिमे भागे त्रिपुरान्तकमीश्वरम्। संपूज्य परया भक्त्या न नरो गर्भमाविशेत्। सोम्यस्थानादिहायातो भगवान् कुक्कुटेश्वरः। वक्रतुण्डगणाध्यक्षसर्मीपे सोऽवतिष्ठते। तद्दर्शनादर्च्चनाच्च करस्थाः सर्वसिद्धयः। जलेश्वरात्त्रिशूली च स्वयभीशः समागतः। एकदन्तोत्तरे भागे सोऽर्च्चितः सर्वकामदः। त्रिसन्ध्याक्षेत्रतो देवस्त्र्यम्बकोऽस्ति समागतः। त्रिमुखात् पूर्वदिग्भागे पूजितस्त्र्यम्बकत्वकृत्। हरेश्वरो हरिश्चन्द्रात्क्षेत्रादत्र समागतः। हरिश्चन्द्रेश्वरपुरः पूजितो जयदः सदा। इह सर्वः समायातः स्थानात् मध्यमकेश्वरात्। चतुर्वेदेश्वरं लिङ्गं पुरो वायव्यसंस्थितम्। सर्वलिङ्गं समभ्यर्च्च्य काश्यां परमसिद्धिकृत्। न जातु जन्तुपदवीं प्राप्नुयात् क्वापि मानवः। स्थलेश्वरान्महालिङ्गं प्रादुर्भूतं परन्त्विह। यत्र यज्ञेश्वरं लिङ्गं सर्वयज्ञफलप्रदम्। महालिङ्गं समभ्यर्च्च्य महाश्रद्धासमन्वितः। महतीं श्रियमाप्नोति लोकेऽत्र च परत्र च। इह लिङ्गं सहस्राख्यं सुवर्ण्णा- ख्यात् समागतम्। यस्य संदर्शनात् पुंसां ज्ञानचक्षुः प्रजायते। शैलेश्वरादवाच्यान्तु सहस्राक्षेश्वरं विभुम्। दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत्। हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम्। लिङ्गं हर्षप्रदं पुंसां दर्शनात् स्पर्शनादपि। महेन्द्रेश्वरसमीपे तु प्रासादो हर्षितेशितुः। तद्विलोकनतः पुंसां नित्यं हर्षपरम्परा। इह स्वयं समायातो रुद्रो रुद्रमहालयात्। यस्य दर्शनतो यान्ति रुद्रलोके नराः स्फुटम्। यैस्तु रुद्रेश्वरं लिङ्गं काश्यामत्र समर्च्चितम् ते रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः। त्रिपुरंश समीपे तु दृष्टा रुद्रेश्वरं विभुम्। रुद्रास्त एव विज्ञेया जीवन्तोऽपि मृता अपि। आगादिह महादेवो वृषेशो वृषभध्वजात्। वाणेश्वरस्य लिङ्गस्य समीपे वृषदः सदा। इहागतं तु केदारादीशानेश्वरसंज्ञितम्। तत् द्रष्टव्यं प्रतीच्यां च लिङ्गं प्रह्लादकेश्वरात्। ईशानेशं समभ्यर्च्च्य स्नात्वा तु वरणाम्भसि। वसेदीशाननगर ईशानसदृशप्रभः। भैरवाद्भैरवीमूर्त्तिरत्रायाता मनोहरा। संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः। पूजनात् सर्वसिद्धौ स प्राच्यां खर्वविनायकात्। संहारभैरवः काश्यां संहरेदघसन्ततिम्। उग्रः कनखलात्तीर्थादाविरासीत् सुसिद्धिदः। तद्विलोकनतो नॄणामुग्रं पापं विनश्यति। उग्रं लिङ्गं सदा सेव्यं प्राच्यां खर्वविनायकात्। अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्च्चनात्। वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं बिभुः। प्राच्यां दण्डीश्वरः पूज्यः सदेहलिविनायकात्। तस्यार्च्चनेन मर्त्यानां न पुनर्भव ईक्ष्यते। भीमचण्डीसमीपे तु प्रादुराशीदिह प्रभुः। भवेश्वरं समभ्यर्च्च भवे नाविर्भवेन्नरः। प्रभुर्भवति सर्वेषां राज्ञामाज्ञाकृतामिह। देवदारुवनाद्दण्डी दण्डयन् पातकाबलीः। वाराणस्यां समागत्य स्थितो लिङ्गाकृतिर्भवः। प्राच्यां दण्डीश्वरः पूज्यः स देहलिविनायकात्। तस्यार्च्चनेन मर्त्यानां न पुनर्भव ईक्ष्यते। भद्रकर्ण्णह्रदाद्दण्डो भद्रकर्णह्रदान्वितः। शिवः साक्षादिहायातः सर्वेषां शिवदोऽर्च्चितः। उद्दण्डाख्याद्गणपतेः प्राच्यां तत्तीर्थमुत्तमम्! भद्रकर्णह्रदे स्नात्वाऽभ्यर्च्च्यलिङ्गं शिवाह्वयम्। सर्वत्र शिवमाप्नोति भद्रं भवविनाशकम्। शृणुयात् सर्वभूतानां भद्र पश्यति चाक्षिभिः। शङ्करश्च हरिश्चन्द्रात् त्वत्पुरः प्रतिभासते। तत्पूजनाज्जनानां न जननीजठरे जनिः। यमलिङ्गाम्महातीर्थात् काललिङ्ग- मिह स्थितम्। कलशेश इति ख्यातं चन्द्रेशात् पश्चिमेन तु। यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे। काललिङ्गं समालोक्य कलिकालभयं कुतः। तत्र भौम चतुर्दश्यां यस्तु यात्रां करिष्यति। अपि पातकयुक्तश्च यमयात्रां न यास्यति। नेपालाच्च महाक्षेत्रादायात् पशुपतिस्त्विह। यत्र पाशुपतो योग उपदिष्टः पिना किना। महता देवदेवेन ब्रह्मादिभ्यो विमुक्तये। तस्य संदर्शनादेव पशुपाशौर्वयुज्यते। करवीरकतीर्थाच्च कपालीश इहागतः। कपालमोचने तीर्थे द्रष्टव्यः स प्रयत्नतः। तद्विलोकनमात्रेण ब्रह्महत्या विलीयते। उमापतिर्देविकाया इहागत्य व्यवस्थितः। दृष्टः पशुपतेः प्राच्यां हरेत् पापं चिरार्जितम्। लिङ्गं महेश्वरक्षेत्रादिह दीप्तेशसंज्ञितम्। उपोमापति तिष्ठेत्तु दीप्त्यै चेह परत्र च। भुक्तिमुक्तिप्रदं लिङ्गं दीप्तेशं काशिमध्यगम्। छायारोहणतः क्षेत्रादायातो नकुलीश्वरः। शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः। दक्षिणे हि महादेवात् दृष्टो ज्ञानं प्रयच्छति। अज्ञानं नाशयेत् क्षिप्रं गर्भसंसृतिहेतुकम्। गङ्गासागरतश्चागादमरेशैतीरितम्। लिङ्गं यद्दर्शनादेव नामरत्वं हि दुर्लभम्। सप्तगोदावरीतीर्थाद्देवोभीमेश्वरः प्रभुः। प्रकाशते लिङ्गरूपी भुक्त्यै मुक्त्यै नृणामिह। नकुलीशात् पुरोभागे दृष्ट्वा भीमेश्वरं प्रभुम्। महाभीमानि पापानि प्रणश्यन्ति हि तत्क्षणात्। भूतेश्वरात् भस्मगात्रः प्रादुरासीदिह स्वयम्। भीमेशाद्दक्षिणे भागे तदभ्यर्च्च्यं प्रयत्नतः। सम्यक् पाशुपताद्योगादभ्यस्ताच्च समाः शतम्। यत्प्राप्नोति फलं तस्माद्भस्मगात्रविलो कनात्। नकुलीश्वरतो देवः स्वयम्भुरिति विश्रुतः। आत्मना प्रकटीभूतः काश्यां लिङ्गाकृतिर्हरः। स्वयम्भुलिङ्गं संपूज्य स्रात्वा सिद्धिह्रदे नरः। महालक्ष्मीश्वरपुरो न भूयो जन्मभाग्भवेत्। प्रयागतीर्थं निकषा प्रासादो विद्रुमः प्रभुः। वाराहस्य महानेष वरणी नाम एव हि। विन्ध्यपर्व ततः प्राप्तो देवं श्रुत्वा समागतम्। सगणं सर्षिदेवञ्च मन्दराद्रत्नकन्दरात्। काश्यां धरणि वाराहोद्रष्टव्यः स प्रयत्नतः। आपत्समुद्रसंमग्नमुद्धरेच्छरणागतम्। कर्णिकाराद्गणाध्यक्षः कर्णिकार प्रसूनरुक्। समर्च्च्योऽयं गदाहस्त उपसर्गसहस्रहृत्। तस्माद्धरणिवाराहात् प्रतीच्यां दिशि संस्थितम्। पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत्। हेमकूटाद्विरू- पाक्षं लिङ्गमत्राविरास ह। महेश्वरादवाच्यां तु दृष्टं संसारतारकम्। गङ्गाद्वाराद्विमस्थेशं लिङ्गं हिमसमप्रभम्। ब्रह्मनालात् प्रतीच्यां च द्रष्टव्यमिहसिद्धिदम्। गणाधिपश्च कैलासात् गणा अन्ये महावलाः। कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो!। दुर्गाणि तैः कृतानीह सप्त स्वर्गसमानि च। सद्वाराणि सयन्त्राणि सकपाटनिभानि च। कोटिकोटिभटाद्यानि सर्वर्द्धिसहितानि च। सुवर्णरूप्यताम्रैश्च कांस्यरीतिकसीसकैः। अयस्कान्तेन कान्तानि रत्नान्यग्र लिहान्यपि। ततः शैलं महादुर्गं तैः काशी परितः कृतम्। परिखापि कृता निम्ना मोत्स्योदर्य्या जलाविला। मत्स्योदरी द्विधा जाता वहिरन्तश्चरी पुनः। तच्च तीर्थं महाख्यातं मिलितं गाङ्गवारिभिः। यदा संहारमार्गेण गङ्गाम्भः प्रसरेदिह। तदा मत्योदरी तीर्थं लभते पुण्यगौरवात्। सूर्य्याचन्द्रममोः पर्वतदा कोटिगुणं शतम्। सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै। तत्रैव सर्वलिङ्गानि गङ्गा मत्स्योदरी यतः। मत्स्योदर्य्यां हि ये स्नाता यत्र कुत्रापि मानवाः। कृतपिण्डप्रदानास्ते न मातुरुदरेवसाः। अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात्। परितः खर्धुनीवारिसंसारो परि वीक्ष्यते। मत्स्योदर्य्यां कृतस्नाना ये नरास्ते नरोत्तमाः। कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम्। किं स्नात्वा वहुतीर्थेषु किं तप्त्वा दुस्करं तपः। यदि मत्स्योदरोस्नाताः कुतो गर्भभयं ततः। यत्र यत्र हि लिङ्गानि नृदेवर्षिकृतान्यपि। तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम्। सन्ति तीर्थान्यनेकानि भूर्भुवः स्वर्गतान्यपि। न समानि परन्तानि कोट्यंशेनापि निश्चितम्। इत्थं तीर्थं कृतं तेन विभो!। कैलासवासिनः। गणाधिपेन सुमहत्सुमहोदरकर्मणा। भूर्भूवःसंज्ञकं लिङ्गं पर्वताद्गन्धमादनात्। स्वयमाविरभूदत्र तस्मात् प्राच्यां गणाधिपात्। विलोक्य भूर्भुवं लिङ्गं भूर्भुवःस्वर्महः परे। निवसन्ति जनाः पुण्याः सुचिरं दिव्यभोगिनः। हाटकेशं महालिङ्गं भोगवत्या समायुतम्। सप्तपातालतलत इहायातं स्वयं विभो!। शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह। मणिमाणिक्यरत्नोघैर्निरमायि प्रयत्नतः। तल्लिङ्गं हाटकमयं रत्नमालाभिरर्चितम्। ईशानेश्वरतः प्राच्यां पूजनीयं प्रयत्नतः। भक्तितोऽभ्यर्च्य तल्लिङ्गं नरः सर्वः समृद्धिमान्। क्त्वा भोगभुनसंख्या- तानन्ते निर्वाणमृच्छति। आकाशात्तारकं लिङ्गं ज्योतीरूपमिहागतम्। ज्ञानवाप्याः पुरोभागे तल्लिङ्गं तारकेश्वरम्। तारकज्ञानमभ्येति तल्लिङ्गस्य समर्चनात्। ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च। कृतसन्ध्यादिनियमः परितर्प्य पितामहान्। धृतमौनव्रतो धीमान् यावल्लिङ्गविलोकनम्। मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नीति शाश्वतम्। प्रान्ते च तारकं ज्ञानं यस्मात् ज्ञानाद्विमुच्यते। किराताच्च किरातेश इह चाविर्बभूव ह। किरातरूपो भगवान् यत्र देवोऽभवत् पुरा। तत्किरातेश्वरं लिङ्गं भारभूतेश्वरादनु। नमस्कृत्वा नरो जातु न मातुरुदरेशयः। लङ्कापूर्य्याः समागच्छन्मरुकेश्वरसंज्ञकम्। पौलस्त्यलाघवात् पश्चात् पूजितं सर्वदुःखहृत्। पुण्यं जलप्रियं लिङ्गं जललिङ्गस्थलादपि। आयातं तच्च गङ्गाया जलमध्ये व्यवस्थितम्। तत्प्रासादोऽद्भुततरो मध्येगङ्गं निरीक्ष्यते। सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः शुभः। अद्यापि दृश्यते कैश्चित् पुण्यसम्भारगौरवात्। श्रेष्ठं लिङ्गमिहायातं तीर्थात्कोटीश्वरादपि। कोटिलिङ्गेक्षणपुण्यं तल्लिङ्गस्य निरीक्षणात्। श्रेष्ठं श्रेष्ठेश्वरात्पश्चात् श्रेष्ठसिद्धिप्रदायकम्। वडवास्यात् समुद्भुतं लिङ्गमात्रानलेश्वरम्। नलेश्वरपुरोभागे पूजितं सर्वसिद्धिदम्। आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः। लिङ्गे त्वनादिसंसिद्धे ह्यवतस्थे त्रिपिष्टपे। पुण्ये पिलिम्पिले तीर्थे सर्वेषां तारकप्रदे। आविश्चक्रे स्वयं देव ओङ्कारेऽमरकण्टकात्। तदाद्यं तारकक्षेत्रं यदा गङ्गा न चागता। तदैवाविरभूत् काशी त्रैलोक्योद्धरणाय वै। तदोङ्कृति महल्लिङ्गं स्वयमाविरभूत्ततः। महिमानं न तस्यान्यः परिवेत्ति विभोरृते। एतान्या यतनानीश! आनिनाय महान्ति च। शेषयित्वांशमात्रञ्च तस्मिन् क्षेत्रे निजे निजे। इहायातानि पुण्यानि सर्वभावेन नान्यथा। प्रासादाः सर्वतः श्रेष्ठा रम्या अभ्रंलिहा विभो!। बहुधातुमयाश्चित्राः सर्वरत्नमहोज्ज्वलाः। येषां कलसमात्रस्य दर्शनान्मुक्तिराप्यते। श्रुत्वा च नामचैतेषां लिङ्गानां सुरसत्तम! अपि जन्मसहस्रोत्थाः क्षीयन्ते पापराशयः। इदानीं को निदेशोऽत्र मयानुष्ठेय ईशितः!। प्रसादीक्रियतां सोऽपि सिद्धो मन्तव्य एव हि। श्रीस्कन्द उवाच। श्रुत्वेति नन्दिनो वाक्यं देवदेवेश्वरो हरः। मुदा प्रसाद्य शैलादिमिदं प्रोवाच कुम्भज!। श्रीदेवदेव उवाच। साधु कृतं त्वया नन्दिन्! सदानन्दविधायक!। विधेहि मे निदेशं च चण्डीर्व्यापारयाधुना। नव कोट्यस्तु चामुण्डायाश्चात्र निवसन्ति हि। सदैव ताभिः सहिताः भूतवेतालभैरवैः। ताः पुरीरक्षणार्थाय सवाहनबलायुधाः। प्रतिदुर्गं दुर्गरूपाः परितः परिवासय। श्रीस्कन्धौवाच। नन्दिनं स निदेश्यापि मृडान्या सहितो मृडः। ययौ त्रैपिष्टपं क्षेत्रं मुक्तिवीजपुरोहनम्। शिलादतनयोऽप्यैशीं मूर्द्धन्याज्ञां विधाय च। आहूय सर्वास्ता दुर्गाः प्रतिदुर्गं न्यवेशयत्। निशम्याध्यायमेतञ्च पुण्यायतनगर्भितम्। नरः स्वर्गापवर्गौ च प्राप्नुयात् श्रद्धया क्रमात्। श्रुत्वाष्टषष्टिमेतां वै महायतनसंभवाम्। न जातु प्रविशेन्मर्त्यो जनन्या जठरीदरीम्”।
तीर्थवाक = पु० तीर्थस्येव वाको वचनमस्य उत्ताङ्गस्थित्या प्रशंसनीयत्वात्। केशे हेमच०।
तीर्थशौच = न० तीर्थस्य घट्टस्य शौचं परिष्कारः। घट्टादिपरिष्कारे। “सेतुवन्धरता ये च तीर्थशौचरताश्च ये। तडागकूपकर्त्तारो मुच्यन्ते ते तृषाभयात्”। आदित्यपु० तीर्थशौचं घट्टपरिष्कारः” रघु०।
तीर्थसेनि = स्त्री कुमारानुचरमातृभेदे। “माधवी शुभवक्त्रा च तोर्थसेनिश्च भारत!” भा० शल्य० ४७ अ०।
तीर्थसेविन् = पुंस्त्री० तीर्थं जलप्रान्ते सेवते मत्स्याहारार्थं सेव–णिनि। १ वके राजनि० स्त्रियां ङीप्। २ तीर्थसेवके त्रि०।
तीर्थ्य = पु० तीर्थे भवः यत्। रुद्रभेदे। “नमस्तीर्थ्याय च कुल्याय च” यजु० १६। ४२। समानतीर्थे वसति यत्। सतीर्थ्य एकगुरुके अमरः।
***