ति = अव्य० इति + वेदे पृषो०। इतिशब्दार्थे। “सहोवाचास्तीह प्रायश्चित्तिरित्यस्तीति का ति पिता ते वेदेति” शत० ब्रा० ११। ६। १। ३। का प्रायश्चित्तिस्ति इति प्रश्नः।
तिक = गतौ भ्वा० आत्म० सक० सेट्। तेकते अतेकिष्ट ऋदित् णिच् अतितेकत् त। तितेके।
तिक = आस्कन्दे बधे च भ्वा० पर० सक० सेट्। तिक्लोति अतेकीत्। तितेक।
तिक = पु० तिक–क। ऋषिभेदे। तस्य गोत्रापत्यम् तिका० फिञ्। तैकायनि तद्गोत्रापत्ये पुंस्त्री०। तस्य तिककितवादित्वात् द्वन्द्वे गोत्रप्रत्ययस्यं लुक् बहुत्वार्थे। तिककितवाः तिककितवयोर्गोत्रापत्येषु। उत्कर्षा० चतुरर्थ्यां छ। तिकीय तत्सन्निकृष्टदेशादौ त्रि०।
तिककितवादि = पु० “तिककितवादिभ्यो द्वन्द्वे” पा० उक्ते द्वन्द्वे बहुत्वे गोत्रप्रत्ययलुग्निमित्ते शब्दगणे। स च गणः पा० गणसू० उक्तो यथा “तिककितवा वङ्खरभण्डीरथाः। उपकलमकाः। पफकनरकाः वकनणगुदपरिणद्धाः उब्जककुभाः लङ्कशान्तमुखाः उत्तरशलङ्कटा कृष्णाजिनकृष्णसुन्दराः भ्रष्टककपिष्टलाः अग्निवेशदशेरुकाः”।
तिकादि = पु० गोत्रे फिञ् प्रत्ययनिमित्ते शब्दसमूहे स च गणः पा० ग० सू० उक्तो यथा “तिक, कित, संज्ञा, बाला, शिखा, उरस्, शाट्य, सैन्धव, यमुना, रूप्य, ग्राम्य, नील, अमित्र, गौकक्ष्य, कुरु, देवरथ, तैतल, औरस, कौरव्य, भौरिक, भौलिकि, चौपयत, चैटयत, शीक यत, क्षैतयत, पाजवत, चन्द्रमस्, शुभ, गङ्गा, वरेण्य, सुपामन्, आरद्ध, वह्यका, खल्यका, वृष, लोमक, उदज्ञ, यज्ञ”। “तिकादिभ्यः फिञ्” पा० उक्ते “तिक इत्येव मादिभ्योऽपत्येऽर्थे फिङ् स्यात् तैकायनिः कैतवायनिः।
तिक्त = पु० तेजयति तिज–बा० कर्त्तरि क्त। रसभेदे (तेत) अमरः। २ पर्पटकोषधौ न० हेमच०। ३ सुगन्धे मेदि०। ४ कुटजवृक्षे पु० शब्दच०। ५ वरुणवृक्षे शब्दमाला। एतेषां तिक्तरसाधिक्यात्तषात्वम्। ६ तिक्तरसयुक्ते अमरः। “षड्विधस्तु रसस्तत्र” भाषोक्तेर्यद्यपि तिक्तस्य पार्थिवगुणत्वं तथापि वायोरुपष्टम्भवशादेव पार्थिवे तिक्तरसस्य सम्भवः तदेतत् सुश्रुते न्यरूपि यथा “आकाशयवनदहनतोयभूनिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरगन्धाः तस्मादाप्यो रसः परस्यरसंसर्गात्परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्त्युत्कर्षापककर्षात्तु ग्रहणम्। स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते। तद्यषा। मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति। ते च भूयःपरस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते। तत्र भूम्बम्बुगुणबाहुल्यान्मधुरः। भूम्यग्निगुणबाहुल्यादम्लः। तोयाग्निगुणवाहुल्याल्लवणः। वाय्यम्मिगुणवाहुल्यात्कटुकः वाय्वाकाशगुणबाहुल्यात्तिक्तः। पृथिव्यनिलगुणबाहुल्यात्कषाय इति। तत्र मधुराम्ललवणा वातघ्नाः। मधुरतिक्तकषायाः पित्तघ्नाः। कटुतिक्तकषायाः श्लेष्मघ्नाः। तत्र वायुरात्मनैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति त एव रसाः स्वयोनिवर्द्धना अन्ययीनिप्रशमनाश्च। केचिदाहुरग्नोषोमीयत्वाज्जगतो रसा द्विविधाः सौम्या आग्नेयाश्च तत्र मधुरतिक्तकषायाः सौम्याः। कट्वम्ललवणा आग्नेयाः। मधुराम्ललवणाः स्निग्धा गुरवश्च। कटुतिक्तकषाया रूक्षा लघवश्च। सौम्याः शीता आग्नेयाश्चीष्णाः”। “सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति”। तिक्तरसलक्षणं तत्रोक्तं यथा “यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षञ्च स तिक्तः। “तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफान् जयेत्। रुच्यः स्वयमरोचिष्णुः कण्टस्तन्यास्यशोधनः। वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः”। रुच्यः अन्येषु वस्तुषु रुचिमुत्पादयति। स्वयमरोचिष्णुः यथा निम्बः स्वयन्न रोचते। अन्येषु रुचिं करोति (अतियुक्तस्य तिक्तस्य गुणाः) सोऽतियुक्तः शिरः शूलमन्यास्तम्भश्रमार्त्तिकृत्। कम्पमूर्च्छावृषाकारी बलशुक्रक्षयप्रदः” भावप्र० “तिक्तः पित्तकफच्छेदी विषकुष्ठज्वरापहः। दीपनः पाचनो रुक्षः कण्डु कृमिहरो लघुः” आह्निकत०। “पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस!” नैष० सुगन्धे। “नादातुमन्यकरिमुक्तमदाम्बुतिक्तम्” रघुः तिक्तं सुरभि “कटुतिक्तकषायास्तु सौरभेऽपि प्रकोर्तिताः” केशवः मल्लि० “चूताङ्कुरस्वादकषायकण्ठः” मधुरकण्ठ इत्यर्थः। “तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः” मेघ०। “तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च” मल्लि०। “तोयक्रोडानिरतयुवती घ्राणतिक्तैर्मरुद्भिः” मेघ०।
तिक्तक = पु० तिक्त + संज्ञायां कन्। १ पटोले अमरः २ चिरतिक्ते (चिराता) शब्दर०। ३ कृष्णखदिरे शब्दमा०। ४ इङ्गुदीवृक्षे भावप्र०। एतेषां तिक्तरसत्वात्तथात्वम् स्वार्थे क। तिक्तरसे पु० तद्वति त्रि० स्त्रियां कापि अत इत्त्वम् तिक्तिका
तिक्तकन्दिका = स्त्री तिक्तः कन्दोऽस्याः कप् कापि अतैत्त्वम। गन्धपत्रायां राजनि०।
तिक्तका = स्त्री तिक्तेन रसेन कायति कै–क। कटुतुम्ब्यां शब्दार्थचि०।
तिक्तगन्धिका = स्त्री तिक्तो गन्धो लेशोऽपि यस्याः। वराह- क्रान्तायाम् अमरः। तस्याः सर्वत्र तिक्तत्वात् तथात्वम्
तिक्तगुञ्जा = स्त्री गुञ्जेव तिक्ता राजदन्ता०। करञ्जे हारा०
तिक्तघृत = न० सुश्रुतोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा “त्रिफलापटोलपिचुमर्द्दाटरूषककटुरोहिणीदुरालभात्राय माणापर्पटकाश्चैतेषां द्विपलिकान् भागान् जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्द्धपलिकानि त्रायामाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेदेतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वर्गुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पपाण्ड्यशमनं चेति।
“त्र्यहात् त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम्” सुश्रु०। तिक्तसर्पिरादयोऽप्यत्र न०।
तिक्ततण्डुला = स्त्री तिक्तस्तण्डुलोऽन्तःशस्यं यस्याः। पिप्पल्ल्याम् राजनि०।
तिक्ततुण्डी = स्त्री कर्म०। कटुतुम्बीलतायां राजनि०।
तिक्ततुम्बी = स्त्री कर्म्म०। कटुतुम्ब्याम् (तितलाउ) रत्रमा०।
तिक्तदुग्धा = स्त्री तिक्तं दुग्धं निर्यासो यस्याः। १ क्षोरिण्याम्, राजनि०। २ स्यर्णक्षीर्य्याम् जटा०।
तिक्तधातु = पु० कर्म्म०। पित्ते धातौ राजनि०।
तिक्तपत्र = पु० तिक्तं पत्रनस्य। (काकरोल) १ कर्कोटके। २ तिक्तपत्रके वृक्षमात्रे त्रि० कर्म्म०। ३ तिक्ते पत्रे न०।
तिक्तपर्वन् = स्त्री तिक्तं पर्व ग्रन्थिर्यस्याः। १ ग्रन्थिदूर्वायाम् जटा०। २ हिलभीच्यां ३ गुडूच्यां ४ वष्टिमधुलतायाञ्च मेदि०।
तिक्तपुष्पा = स्त्री तिक्तानि पुष्पाण्यस्याः। (आकनादी) १ पाठायाम् राजनि०। २ तिक्तपुष्पके वृक्षमात्रे त्रि०। कर्म्म०। ३ तिक्ते पुष्पे न०।
तिक्तफल = पु० तिक्तानि फलानि अस्य। १ कतकवृक्षे (निर्माल्य) राजनि०। २ यवतिक्तायां शब्दार्थचि० ३ तिक्तफलके वृक्षमात्रे त्रि०। ४ बार्त्ताक्यां ५ षड्भुजायाञ्च स्त्री टाप् राजनि०। कर्म्म०। ६ तिक्ते फले न०।
तिक्तभद्रक = पु० भद्रं करोति णिच्–ण्वुल् तिक्तोऽपि भद्रकः कर्म्म०। पटोले शब्दच०।
तिक्तमरिच = पु० तिक्तः मरिच इव। कतकवृक्षे राजनि०।
तिक्तयवा = स्त्री तिक्तः यव इन्द्रयवरसोऽस्त्यत्र अच्। शङ्खिन्थां षारस्करगृह्यम्।
तिक्तरोहिणी = स्त्री तिक्ता सती रोहति रुह–णिनि कर्म०। कटुकायाम् (कट्की) स्वार्थे क ह्रस्वः। तिक्तरोहिणिका। तत्रार्थे राजनि०।
तिक्तवल्ली = स्त्री कर्म्म०। १ मूर्वालतायाम् रत्नमा०। २ तिक्ते लतामात्रे च।
तिक्तवीजा = स्त्री तिक्तानि वीजानि बस्याः। १ कटुतुम्ब्याम् राजनि०। २ तिक्तवीजके वृक्षमात्रे त्रि०। कर्म्म०। ३ तिक्ते वीजे न०।
तिक्तशाक = पु० तिक्तः शाकोऽस्य। १ वरुणद्रुमे, २ खदिरवृक्षे ३ पत्रसुन्दरवृक्षे च मेदि०। कर्म्म०। ४ तिक्ते शाके न०।
तिक्तसार = पु० तिक्तः सारो निर्यासोऽस्य। १ खदिरे रत्नमा०। २ दीर्घरोहिषतृणे न० रत्नमा०। ३ तिक्तसारके वृक्षभात्रे त्रि०। कर्म्म०। ४ तिक्ते सारे अस्त्री।
तिक्ता = स्त्री तिक्तो रसोऽस्त्यस्य अच्। १ कटुरोहिण्यां मेदि० २ पाठायां रत्नमा० ३ यवतिक्तालतायां ४ षड्भुजायां राजनि० ५ छिक्कन्यां भावप्र०।
तिक्ताख्या = स्त्री तिक्तेति आख्या यस्याः। कटुतुम्ब्यां राजनि० तिक्ताह्वयेत्यत्र।
तिक्ताङ्गा = स्त्री तिक्तनङ्गमस्त्यस्य अच्। पातालगरुडीलतायाम् राजनि०।
तिक्तिका = स्त्री तिक्ता स्वार्थे संज्ञायां वाक ह्रस्वेअत इत्त्वम्। कटुतुम्ब्याम् शब्दार्थचि०।
तिग = हिंसायाम् आस्कन्दे च भ्वा० पर० सक० सेट्। तिन्नोति अतेगीत्। तितेग। “अग्निं र्जम्भैस्तिगितैरत्ति” ऋ० १। १४३। ५। “तिगितैर्निशितैः” भा०।
तिग्म = न० तिज–गक् जस्य गः। १ तीक्ष्णे स्पर्शे २ तद्वति त्रि०। अमरः। ३ वज्रे निघन्ण्टुः। “तिम्मवीर् विषाह्येते दन्दशूका महाबलाः” भा० आ० ३० अ०।
तिग्मकर = पु० तिन्यः करः किरणो राजग्राह्यो वाऽस्य। २ सूर्य्ये त्रिका०। ३ उग्रराजग्राह्यके नृपे च। कर्म्म०। ४ तिन्मे करे पु०।
तिग्मदीधिति = पु० तिग्मा दीधितिरस्य। तिन्मांशौ सूर्य्ये।
तिग्ममन्यु = त्रि० तिग्मो मन्युरस्य। १ उग्रक्रोधके। २ शिवे पु० “अहश्चरो नक्तचरस्तिन्ममन्धुः सुवर्चसः” भा० अनु० १७ अ०।
तिग्मरश्मि = पु० तिग्भारश्मयोऽस्य। १ सूर्य्ये। २ खररश्मिके त्रि०। कर्म्म०। ३ खरे रश्मौ पु०।
तिग्मांशु = पु० तिग्मा अंशवो यस्य। १ सूर्य्ये जटाधरः “तिन्मांशुरस्तंगतः” जयदेव०। “तिन्मांशुरश्मिच्छुरितान्यदूरात्” भट्टिः। २ स्वरकिरणके त्रि०। कर्म्म०। ३ खरे किरणे पु०।
तिघ = घातने भ्वा० पर० सक० सेट्। तिघ्नोति अतेधीत्। तितेघ।
तिज = तीक्ष्णीकरणे, चुरा० उभ० सक० सेट्। तेजयति ते अतीतिजत् त। “कुसुमचापमतेजयदंशुभिर्हिमकरः” रघुः “तेजयित्वा तु तत्सेव्यम्” रामा० अर० ३१ स०। “तेजिता बलदर्पाभ्याम्” हरिवं० ५२०८। “सा मयोक्तेन तेजिता” ९६४४ श्लो०। तेजः।
तिज = क्षान्तौ क्षमायां स्वार्थे सन् निशाने न सन् भ्वा० आत्म० सक० सेट्। तितिक्षते तेजते। अतितिक्षिष्ट अतेजिष्ट। “आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत!” गीता “हिमं घृणिं तितिक्षिष्यते” शत० ब्रा० ३। १। २। १४। “अतिवादांस्तितिक्षेत” मनुः “आपस्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्” भा० शा० ८१७० अ० “तितिक्षन्ते अभिशस्तिं जना नाम” ऋ० ३। ३०। १।
तिजिन = पु० तिज–इनच् किच्च। चन्द्रे उणा०।
तिणिश = पु० तिल्वकवृक्षे लोध्रदुमे। “न्यग्रोधाश्वत्थतिल्वकहरिद्रुमयोः” कात्या० श्रौ० सूत्रे “तिल्वकस्तिणिशः” कर्कः।
तिण्टी = स्त्री त्रिवृति (तेओडो) शब्दच०।
तितौ = पु० तन–डौ सन्वच्च डौ इति निर्देशात् न सन्धिः। १ चालन्याम् अमरः। २ छत्रे न० उज्ज्वलदत्तः। “क्षुद्रच्छिद्रसमोपेतं चालनं तितौ स्मृतमित्युक्तेरस्य क्लीवत्वमपि। “सक्तुमिव तितौना पुनन्तः” ऋ० १०। ७१। २। “इमामृचमधिकृत्य” निरु० ४। ९। “तितौ परिपवनं भवति ततवद्वा तुन्नवद्वातिलमात्रतुन्नमिति वा” अन्यथा निरुक्तिरुक्ता क्लीवत्वञ्चोक्तम्।
तितिक्ष = त्रि० तिज–स्वार्थे सन्–अच्। १ शीतोष्णादिद्वन्द्वसोढरि २ ऋषिभेदे पु० तस्य गोत्रापत्यं गर्गा० यञ्। तैतिक्ष्य तद्गोत्रापत्ये यून्यपत्ये यूञन्तत्वात् फक्। तैतिक्ष्यायण तद्गोत्रजे यून्यपत्ये पुंस्त्री०।
तितिक्षा = स्त्री तिज–स्वार्थे सन् भावे अ। १ क्षमायां शीतोष्णादिद्वन्द्वसहने “सहनं सर्वदुःखानामप्रतीकारपूर्वकम्। चिन्ताविलापरहितं सा तितिक्षा निगद्यते” विवेकचू०। सा संजाताऽस्य तार० इतच्। तितिक्षित, क्षान्ते सोढरि जटाधरः।
तितिक्षु = त्रि० तिज–स्वार्थे सन्–उ। तितिक्षाशीले। “शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वा आत्मन्यात्मानमवलोकयेत्” वेदा० सा० धृता श्रुतिः। “अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः” भा० आ० ८७ अ०।
तितिभ = पु० तितीति भणति भण–ड। इन्द्रगोपकीटे खद्योते हेमच०।
तितिर = पुंस्त्री० तित्तिरि + पृषो०। तित्तिरिखगे राजनि० स्त्रियां जातित्वत् ङीष्।
तितिल = न० तिल–क बा० द्वित्वञ्च। १ नन्दके (नान्दा) मृण्मये पात्रभेदे २ तैतिलकरणे ३ तिलपिच्चटे च अजयपालः
तित्तिर = पुंस्त्री तित्ति इति शब्दं रौति रु–बा० ड। (तितिर) खगभेदे शब्दर०। स्त्रियां जातित्वात् ङीष्। “कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः” “तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव!” भा० उ० ८ अ०।
तित्तिरि = पु० तित्ति इति शब्दं रौति रु–वा० डि। (तितिर) खगभेदे अमरः। स्त्रियाममनुष्यजातित्वात् “इतोऽमनुष्यजातेः” पा० ङीप्। तित्तिरिः कृष्णवर्णः स्यात् स तु गौरः कपिञ्जलः। तित्तिरिर्वर्णदो ग्राही हिक्कादोषत्रयापहः। श्वासकासज्वरहरस्तस्माद्गौरोऽधिवो गुणैः” भाव० प्र०। तित्तिरिरूपग्रहणेन याज्ञवल्क्यवान्तयजुर्ग्राहिणि मुनिभेदे तत्कथा “वैशम्पायनशिष्या वै चरकाध्वर्य्यवोऽभवन्। यच्चेरुर्ब्रह्महत्याऽंहक्षपर्ण स्वगुरोर्व्रतम्। याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन! कियत्। चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम्। इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया। विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति। देवरातसुतः सोऽपि छर्दित्वा यजूषां गणम्। ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान्। यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः। तैत्तिरीया इति यजुःशाखा आसन् सुपेशालाः। भाग० १२। ६५८। तित्तिरिणा प्रोक्तमधीयते छण्। तैत्तिरीय तित्तिरिप्रोक्तच्छन्दोब्राह्मणाध्येतृषु ब० व०। तित्तिरिणा अधीता अण्, ङीप्। तैत्तिरी कृष्णयजुःशाखायां स्त्री।
तित्तिरीक = न० तित्तिरेः पक्षदाहेन जातम् वा० ईक। तित्तिरिपक्षदाहेन जाते अञ्जनभेदे। “अञ्जनं तित्तिरीकञ्च नलदं पत्रमुत्पलम्” सुश्रु०। अत्र तिन्तिडीकमिति पाठान्तरम्। दग्धतिन्तिडीकजातेऽञ्जने इति तदर्थः।
तिथ = पु० तिज–थक् नि० जलोपः। १ वह्नौ २ कामे च सि० कौ० ३ काले त्रिका०। ४ प्रावृट्माले संक्षिप्तसा०।
तिथि(थी) = पुंस्त्री० अत–इथिन् पृषो० वा ङीप्। १ प्रञ्चदशसु चन्द्रकलाक्रियारूपासु प्रतिपदादिषु, अमरः २ पञ्चदशसङ्क्यायाञ्च। अस्य निरुक्त्यादिकं कालमाधवीये उक्तं यथा “अथ तिथयोनिर्णीयन्ते। तत्र तिथिशब्दस्तनोतेर्द्धा- र्न्निष्पन्नः। तनोति विस्तारयति वर्द्धमानां क्षीयमाणां वा चन्द्रकलामेकां यः कालविशेषः सा तिथिः। यद्वा यथोक्तकलया तन्यत इति तिथिः। तदुक्तं सिद्धान्तशिरोमणौ “तन्यते कलया यस्मात्तस्मात्तास्तिथयः स्मृताः” इति। एतदेवाभिप्रेत्य स्कान्दे पठ्यते “अमाषोडशभागेन देवि! प्रोक्ता महाकला। संस्थिता परमा माया देहिनां देहधारिणी। अमादिपौर्णमास्यन्ता या एव शशिनः कलाः। तिथयस्ताः समाख्याताः षोडशैव वरानने!” इति। अयभर्थः। या महामाया आधाररूपा देहिनां देहधारिणी संस्थिता या सा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिण्यमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैव। इतरा अपि पञ्चदश कला दिवसव्यवहारोपयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति तिथयः षोडशैवेत्यविरुद्धं वचनमिति। श्रुतिस्त्वस्मिन्नेवार्थे पक्षनिर्णय एवोदाहृतः। “तस्य रात्रयः पञ्चदश कला ध्रुवैषास्य षोडशी कलेति”। एवं सत्यत्र सामान्यविशेषरूपेण तिथिद्वैविध्यमुक्तं भवति। तत्र येयममेत्युक्ता क्षयोदयवर्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथिमासान्यम्। यास्त्ववशिष्टा वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिर्विशिष्टाः कालविभागास्तिथिविशेषाः। तासां पञ्चदशानामेकैकां कलां वह्न्यादयः प्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति। तत्र वह्निना कला प्रथमं पीयत इति प्रथमेत्युच्यते। तया युक्तः कालविशेषः प्राथम्यवाचिना प्रतिपच्छब्देनाभिधीयते। एवं द्वितीयादीनां पञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि। ता एताः कृष्णपक्षतिथयो भवन्ति। पुनश्च ताः पीताः कला अनेनैव क्रमेण तत्तत् पातृवह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्ति। ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रतिपदाद्यास्तिथयो भवन्ति। वह्न्यादिदेवतानां कलापानं सोमोत्पत्तौ पठ्यते। तथाहि “प्रथमां पिबते वह्निर्द्वितीयां पिवते रविः। विश्वे देवास्तृतीयान्तु चतुर्थीं सलिलाधिपः। पञ्चमीं तु वषट्कारः षष्ठीं पिवति वासवः। सप्तमीमृषयो दिव्या अष्टमीमजएकपात्। नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम्। दशमीं पिबते वायुः पिबत्येकादशीमुमा। द्वादशीं पितरः सर्वे समं प्राश्नन्ति भागशः। त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम्। चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः। निपीतः कलया शेषश्चन्द्रमा न प्रकाशते। कलाषोडशिका या सा त्वपः प्रविशते सदा। अमायान्तु सदा सोम औषधीः प्रतिपद्यते। तमोषधिगतं गावः पिवन्त्यम्बुगतञ्च यत्। तत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजानिभिः। हुतमग्निषु यज्ञेषु पुनराप्यायते शशी। दिने दिने कलावृद्धिः पौर्णमास्यान्तु पूर्यते”। ज्योतिःशास्त्रे तु शिद्धान्तशिरोमणिकारेण तिथिरेवं प्रदर्शिता। “अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी। तच्चन्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिरिति”। अयमर्थः। सूर्य्यमण्डलस्य अधःप्रदेशवर्त्ती शीघ्रगामी चन्द्र ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यस्तथा सति तयोर्गतिविशेषवशात् दर्शे चन्द्रमण्डलमन्यूनमनतिरिक्तं सूर्य्यमण्डलस्याधोभागे व्यवस्थितं भवति तदा सूर्य्यरश्मिभिः साकल्येनाभिभूतत्वाच्चन्द्रमण्डलमीषदपि न दृश्यते। उपरितने शीघ्रगत्या सूर्य्याद्विनिःसृतः शशी प्राचीं याति। त्रिंशदंशोपेतराशौ द्वादशभिरंशैः सूर्य्यमुल्लङ्घ्य गच्छति। तथा चन्द्रस्य पञ्चदशसु भागेषु प्रथमभागो दर्शनयोग्यो भवति। सोऽयं भागः प्रथमकलेत्यभिधीयते। तत्कलानिष्पत्तिपरिमितः कालः प्रतिपत्तिथिर्भवति। एवं द्वितीयादितिथिष्ववगन्तव्यमिति। तदेतद्विष्णुधर्म्मोत्तरे विस्पष्टमभिहितम् “चन्द्रार्क गत्या कालस्य परिच्छेदो यदा भवेत्। तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य निर्णयम्। भगणेन समग्रेण ज्ञेया द्वादश राशयः। त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते। आदित्याद्विपकृष्टस्तु भागद्वादशकं यदा। चन्द्रमाः स्यात्तदा राम! तिथिरित्यभिधीयते” इति। सेयं द्वादशभिर्भागैः सूर्य्यमुल्लङ्घितवती प्रथमा चन्द्रकला शृङ्गद्वयोपेतसूक्ष्मरेखाकारा शौक्ल्यमीषदुपयाति। उत्तरोत्तरदिनेषु सूर्य्यमण्डलविप्रकर्षतारतम्यानुपारेण शोक्ल्यमुपचीयते। अनयैव रोत्या सन्निकर्षतारतम्येन मेचकत्वमुपचीयते। तदेतदुक्तं सिद्धान्तशिरोमणौ “उपचयमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं व्रजतश्च मेचकत्वम्। जलमयमण्डलस्य गोलकत्वात् प्रभवति तीक्ष्णविषाणरूपताऽस्येति”। सूर्य्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षौ तयोरवसानं दर्शपूर्णिमयोः सम्पद्यते। तदाह गोभिलः “यः परो विप्रकर्षः सूर्य्याचन्द्रमसोः सा पौर्णमासी। यः परः सन्निकर्षः साऽमावास्येति” नन्वत्र चन्द्रकलानां सूर्य्यप्रवेशनिर्गमौ प्रतीयेते सोमोत्पत्तौ तु वह्न्यादिदेवतासु। नायं दोषः अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्य प्रवृत्तत्वात्। सोमोत्पत्तौ तु वह्न्यादिदेवतानां तत्तत्कलाप्रयुक्ता तृप्तिर्विवक्षिता। यदि सूर्य्ये प्रवेशनिर्गमौ यदि वा वह्न्यादिदेवतासु, सर्वथापि कलाप्रयुक्ता एव प्रतिपदादितिथयः। ननु सावनदिनेषु सौरदिवसेषु च निर्णयमुपेक्ष्य चान्द्रतिथिष्वेव कुतो निर्णयोद्यम इति चेत्। सन्देहसद्भावादिति व्रूमः। न खलु सौरसावनादिदिवसयोः सन्देहसद्भावोऽस्ति नियतपरिमाणत्वात्। तच्च ब्रह्मसिद्धान्तेऽभिहितम् “सावनं स्यादहोरात्रमुदयादोदयाद्रवेः। रवेस्त्रिंशस्तु राश्यंशस्तिथिसम्भोग ऐन्दवमिति”। एकस्मिन् राशौ यावन्तं कालं रविर्वर्त्तते तावतः कालस्य त्रिंशो योऽयमंशः स सौरो दिवसः तिथिरेका कला तत्सम्भोग इन्दोर्यावता कालेन निष्पद्यते तदैन्दवं दिनम्। न चात्र सौरसावनयोरिव चान्द्रेऽपि दिने सन्देहाभावः शङ्कनीयः ह्रासवृद्धिवशेन सन्देहसद्भावात्। ह्रासवृद्धी च गर्गेण दर्शिते “खर्वो दर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम्। धर्माधर्मवशादेवं तिथिस्त्रेधा विवक्षितेति”। खर्वा समतिथिः। दर्पा वृद्धियुक्ता हिंस्रापक्षययुक्ता। तस्यैतस्य त्रैविध्यस्य विपरिवर्तनविशेषेण तिथिः संपूर्णा खण्डा चेति द्वैविध्यमापद्यते। तत्र संपूर्णा स्कन्दपुराणे दर्शिता “प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः। संपूर्णा इति विख्याता हरिवासरवर्जिताः” इति। हरिवासर एकादशी। या तु नोक्तलक्षणा सा स्वण्डतिथिः। तत्र संपूर्णायां विधिनिषेधयोर्नास्ति सन्देहः। स्वण्डतिथौ तु विधिनिषेधव्यवस्थामाह गार्ग्यः। “निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः। विधिःपूज्यतिथौ तत्र निषेधः कालमात्रके। तिथीनां पूज्यता नाम कर्मानुष्ठानयोग्यता। निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते” इति। एवञ्च सति खण्डतिथौ पूज्यत्वं निर्णेतव्यं भवति। तत्र प्रतिपदमारभ्य पञ्चशश्यन्तास्तिथयः क्रमेण निर्णीयन्ते।”
कालमाधवीयग्रन्थे विस्तरोद्रष्टव्यः। कारिकाभिश्च माधवेन तत्तत्तिथिभेदेषु खण्डविशेषग्राह्यता प्रसङ्गागतमासादिनिरूपणपूर्वकं दर्शिता यथा “व्याख्याय माधवाचाय्यो धर्मान् पाराशरानथ। तदनुष्ठानकालस्य निर्णयं वक्तुमुद्यतः। अर्थोऽनुक्रम्यते श्लोकैरखिलो निर्णनीषितः। तावतैवानुतिष्ठासुर्निःसन्देहं प्रबर्त्तताम्। ततो मीमांसुचित्तस्य समाधानाय तत् पुनः। विवरिष्ये यथान्यायं श्रुतिस्मृति वचोवलात्। पञ्च प्रकरणान्यत्र तेषूपोद्घातवत्सरौ। प्रतिपच्छिष्टतिथयो नक्षत्रादिरिति क्रमः। १ उपोद्वाते कालसत्त्वं तस्य निर्णययोग्यता। ईश्वरो नित्यकालात्मा चिन्तनीयः स कर्म्मसु। जन्यकालेऽव्दमुख्यत्व मुक्तमेतच्चतुष्टयम्। अव्दायनर्त्तुमासाश्च पक्षः प्रकरणान्तरे २। अव्दः पञ्चविघश्चान्द्रो व्रतादौ तिलकादिके। सुजन्मादिव्रते सौरो गोसत्रादिषु सावनः। त्रयोप्याचार्य्यसेवादौ विकल्प्यन्ते निजेच्छया। आयुर्दाये तु नाक्षत्री वार्हस्पत्योऽधिवत्सरः। चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगम्। संपरीदादन्वित्येच्छब्दपूर्वास्तु वत्सराः। तिलो यवो वस्त्रधान्ये रजर्त दीयतेऽत्र तु। उग्रे कर्म्मणि शान्ते च स्तोऽयने दक्षिणोत्तरे। वसन्ताद्यृतवो द्वेधा चान्द्राः सौराश्च चान्द्रकाः। चैत्राद्या अथ मीनाद्या मेषाद्या वा विवस्वतः। तेष्वाधानादयस्तद्वत् षण्मूर्त्तिव्रतपूजनम्। मासास्तु सावनः सौरश्चःन्द्रो नाक्षत्र इत्यमी। दर्शान्तः पूर्णिमान्तो वा चान्द्रोऽसौ विप्रवैश्ययोः। सौरोराज्ञः सावनस्तु यज्ञे ज्यौतिषिके परः। माघादिमासभेदेषु तिलदानादयः स्मृताः। चान्द्रोऽधिमासोऽसंक्रान्तः सोन्तर्भवति चोत्तरे। असंक्रान्तावेकवर्षे द्वौ चेत्संसर्पआदिमः। क्षयमासो द्विसंक्रान्तः स चाहर्पतिसंज्ञकः। एतौ त्याज्यौ विवाहादौ संसर्पाहर्पती उभौ। शुद्धौ श्रौते तथा स्मार्त्ते मलमासो विविच्यते। काम्यारम्भं तत्समाप्तिं मलमासे विवर्जयेत्। आरब्धं मलमासात् प्राक्कृच्छ्रसत्रादिकं च यत्। तत्समाप्यं सावनस्य मासस्यानतिलङ्घनात्। आरम्भस्य समाप्तेश्च मध्ये चेत् स्यात् मलिम्लुचः। प्रवृत्तमखिलं काम्यं तदानुष्ठेयमेव तु। कारीर्यादि तु यत् काम्यं तस्यारम्भसमापने। कार्य्यकालविलम्बस्य प्रतीक्षाया असम्भवात्। अनन्यगतिकं नित्यमग्निहोत्रादि न त्यजेत्। गत्यन्तरयुतं नित्यं सोमयागादि वर्जयेत्। अगति ग्रहणस्नानं जातेष्टि, र्गतिसंयुतम्। द्वयं गैमित्तिकं तस्य व्यवस्था नित्यवन्मता। शुद्धमास मृतानां स्यान्मलिने प्रथमाव्दिकम्। मलमासमृतानान्तु मले स्यादाविद्कान्तरम्। दैवे मुख्यः शुक्लपक्षः कृष्णः पित्र्ये विशिष्यते। तृतीये तु ३ प्रकरणे षर्णिता प्रतिपत्तिथिः। प्रतिपन्नाम विज्ञेया चन्द्रस्य प्रथमा कला। शुक्लपक्षे विशेच्चन्द्रं कृष्णपक्षे विनिःसरेत्। शुद्धा विद्धा तिथिः शुद्धा हीनातिथ्यान्ययाहनि। उदये पूर्वया तिथ्या विध्यते त्रिमुहुर्त्तकैः। सायन्तूत्तरया तद्वन्न्यूनया तु न विध्यते। वेध्यापि त्रिमुहूर्त्तैव न न्यूना वेधमर्हति। शुद्धायां नास्ति सन्देहो दैवे पित्र्ये च कर्म्मणि। उपवासश्चैकभक्तं नक्तं चायाचितं व्रतम्। दानञ्च षड्विधं दैवं क्रमादत्र विविच्यते। एकोद्दिष्टं पार्वणञ्च पित्र्यं द्विविधमीर्यते। शुक्लपक्षे दर्शविद्धा कृष्णे विद्धा द्वितीयया। उपोष्या प्रतिपच्छुक्ले मुख्या स्यादापराह्णिकी। तदभावे तु सायाह्णव्यापिनी परिगृह्यताम्। प्रातःसंगवमध्याह्नापराह्णाः सायमित्यसौ। अत्राह्नां पञ्चधा भागो मुख्यो द्वित्र्यादिभागतः। अभावेऽपि प्रतिपदः संकल्पः प्रातरिष्यते। तिथिस्त्रियामतोऽर्वाक् चेत् तिथ्यन्ते पारणं भवेत्। वह्न्युत्सवं च पूर्वेद्युरुपवासवदाचरेत्। मुख्यतिथ्यन्तराये तु तिथिशेषोऽपि गृह्यताम्। शुद्धाऽधिका तु कृष्णापि पूर्वा संपूर्त्तिसंभवात्। ग्रहीतव्या त्वेकभक्ते मध्याह्नव्यापिनी तिथिः। परेद्युरेव पूर्वेद्युरेव व्याप्तिर्दिमद्वये। नोभयत्रोभयत्रांशे साम्यं वैषम्यमित्यमी। षट् पक्षास्तेषु चैकैकव्याप्तौ सैवात्र गृह्यताम्। द्विनद्वयेऽपि तद्व्याप्तावव्याप्तौ चैकदेशतः। समव्याप्तौ च पूर्वैव वैषम्ये त्वधिकेष्यताम्। अन्याङ्गस्यैकभक्तस्य कालस्त्वङ्ग्यनुसारतः। उपवास प्रतिनिधेस्तिथिः स्यादुपवासवत्। प्रदोषव्यापिनी नक्ते तिथिर्व्याप्तिर्दिनद्वये। अव्याप्तिर्वाथवांशेन व्याप्तिः स्यात् सर्वथोत्तरा। सौरनक्ते तु सायाह्नव्यापिनी न प्रदोषगा। अयाचिते तु तिथयः स्वीकार्य्याः उपवासवत्। सोदयत्रिमुहूर्त्तायां कुर्याद्दानं व्रतानि च। उभयत्र तथात्वे तु पूर्वेद्युस्तदनुष्ठितिः। परत्रैव तथात्वं चेत् पूर्वा ग्राह्या तिथिक्षये। तिथेः साम्ये च वृद्धौ च गृह्यतां तिथिरुत्तरा। अस्पर्शे चैकदेशस्य व्याप्तौ पूर्वैव गृह्यताम्। एकोद्दिष्टे तु मध्याह्नयुक्ता स्यादेकमक्तवत्। एकदेशे समव्याप्तौ क्षये पूर्वाऽन्यथोत्तरा। कुतपाद्य पराह्णस्य व्याप्तिराव्दिक उत्तमा। तदभावेऽपराह्णस्य व्यापिका गृह्यतां तिथिः। क्षये पूर्वोत्तरा वृद्धौ व्याप्तिश्चेदपराह्णयोः। न ग्राह्यतिथिगौ वृद्धिक्षयावूर्द्ध्वतिथेस्तु तौ। साम्ये त्वर्द्धतिथेर्ग्राह्या परविद्धैव वृद्धिवत्। न स्पृशत्यपराह्णौ चेत् पूर्वा स्यात् कुतपो वृथा। वैष- म्येणैकदेशस्य व्याप्तौ ग्राह्या महत्त्वतः। साम्येन चेत् क्षये पूर्वा परा स्याद्वृद्धिसाम्ययोः। वृद्धिसाम्यक्षया ग्राह्य तिथिगा नोर्द्ध्वगा इह। ४ द्वितीयाद्यास्तु पर्वान्तास्तुर्य्यप्रकरणोदिताः। सञ्चारणीयः सामान्यतिथिषु प्रतिपन्नयः। क्वचित् क्वचिद्विशेषोऽस्ति सोऽयमत्राभिधीयते। पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्त्तगा। सा द्वितीया परोपोष्या पूर्वविद्धा ततोऽन्यथा। रम्भातृतीया पूर्वास्यादुत्तरा स्याद् व्रतान्तरे। परेऽह्नि नास्ति चेत् पूर्वविद्धाप्यस्तु व्रतान्तरे। मुहूर्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे। शुद्धाधिकायामप्येवं गणयोगप्रशंसनात्। चतुर्थी तु परोपोष्या गणनाथव्रतस्य तु। मध्याह्नव्यापिनी पूज्या तद्वन्नागचतुर्थ्यपि। परेद्युरेव मध्याह्नव्याप्तौ विघ्नस्य सोत्तरा। अन्यथा पूर्वविद्धैव मातृयोगप्रशस्तितः। पूर्वेद्युरेव तद्व्याप्तौ पूर्वा सर्पप्रिया तिथिः। नो चेत् सर्पस्य पञ्चम्या योगेऽत्यन्तं प्रशस्यते। गौर्याः शुद्धाजयायुक्ता, नागविद्धा निषिद्ध्यते। सर्वत्र पञ्चमी पूर्वा ग्राह्या स्कन्दव्रते परा। नागविद्धा स्कन्दषष्ठी सा निषिद्धा व्रतान्तरे। उत्तरस्या अलाभे तु नागविद्धापि गृह्यताम्। विनाशाद्वा परेऽभावात् नागविद्धा न दोषकृत्। सप्तमी पूर्वविद्धैव व्रतेषु निखिलेष्वपि। अलाभे पूर्वविद्धायाः परविद्धापि गृह्यताम्। व्रतमात्रेऽष्टमी कृष्णा पूर्वा शुक्लाष्टमी परा। दूर्वाष्टमी तु शुक्लापि पूर्वविद्धा विधीयते। पक्षद्वयेऽप्युत्तरैव शिवशक्तिमहोत्सवे। ज्येष्ठर्क्षयोगे पूर्वैव ग्राह्या ज्येष्ठाव्रते तिथिः। मध्याह्नादूर्द्ध्वमृक्षं चेत् परेद्युः सा प्रशस्यते। ज्येष्ठर्क्षभानुवाराभ्यां युक्ताष्टम्पतिदुर्लभा। जयन्त्याख्यं व्रतं भिन्नं कृष्णजन्माष्टमीव्रतात्। शुद्धा च सप्तमी विद्धेत्येवं जन्माष्टमी द्विधा। सप्तमी चेन्निशीथात्प्राग्विद्धा शुद्धान्यथा भवेत्। शुद्धायां नास्ति सन्देहो विद्धा च त्रिविधेष्यते। निशीथयोगः पूर्वेद्युः परेद्युर्वा द्वयोरुत। पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः। अष्टमी रोहिणी शुद्धा जयन्ती सा चतुर्विधा। शुद्धा शुद्धाधिकेत्येवं विद्धाविद्धाधिकेति च। शुद्धायामपि विद्धायां न सम्भाव्योत्तरा तिथिः। शुद्धाधिकायां योगः स्यादेकस्मिन्वा दिनद्वये। नैकयोगेऽस्ति सन्दे हो द्वियोगे प्रथमं दिनम्। सदा निशीथे पश्चाद्वेत्युत्तमो मध्यमोऽधमः। योगस्त्रिधापि पूर्वेद्युः सम्पूर्णत्वादुपोषणम्। विद्धाधिकायामप्येकदिनयोगे स गृह्यताम्। द्वयोर्योगस्त्रिधा भिन्नो निशीथे वृत्तिभेदतः। तद्वृत्ति- र्दिन एकस्मिन्नुभयोर्नौमयोरिति। एकस्मिंश्चेत् तद्दिनं स्यात् पक्षयोरन्त्ययोः परा। बुधे सोमे जयन्ती चेद्वारे सातिफलप्रदा। तिथ्यृक्षयोर्द्वयोरन्ते उत्तमं पारणं भवेत्। एकस्यान्ते मध्यमं स्यादुत्सवान्तेऽधमं स्मृतम्। यस्मिन् वर्षे जयन्त्याख्यो योगो जन्माष्टमी तदा। अन्तर्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः। नवमी पूर्वबिद्धैव पक्षयोरुभयोरपि। मध्याह्ने रामनवमी पुनर्वसुसमन्विता। ग्राह्या नैवाष्टमीयुक्ता सनक्षत्वापि वैष्णवैः। कृष्णा पूर्वोत्तरा शुक्ला दशम्येव व्यवस्थिता। जयन्तीव्रतवन्नित्यं काम्यं चैकादशीब्रतम्। अरुणोदयवेधोऽत्र वेधः सूर्य्योदये तथा। उक्तौ द्वौ दशमीवेधौ वैष्णवस्मार्त्तयोः क्रमात्। कलाकाष्ठादिवेधोऽपि ग्राह्योऽत्र त्रिमुहूर्त्तवत्। वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णवः। विद्धा त्याज्या वैष्णवेन शुद्धाप्याधिक्यसम्भवे। एकादशी द्वादशी वाधिका चेत्त्यज्यतां दिनम्। पूर्वं त्याज्य मुत्तरं स्यादिति वैष्णवनिर्णयः। एकादशी द्वादशी चेत्युभयं वर्द्धते यदा। तदा पूर्बदिनं त्याज्यं स्मार्त्तैर्ग्राह्यं परं दिनम्। एकादशीमात्रवृद्धौ गृहियत्योर्ध्यवस्थितिः। उपोष्या गृहिभिः पूर्वा यतिभिस्तूत्तरा तिथिः। द्वादशीमात्रवृद्धौ तु शुद्धाविद्धे व्यवस्थिते। शुद्धा पूर्वोत्तरा विद्धा स्मार्तनिर्णय ईदृशः। श्रवणेन युता चेत् स्याद्द्वादशी सा हि वैष्णवैः। स्मार्त्तैश्चोपोषणीया स्यात्त्यजेदेकादर्शी तदा। उपवासव्रतादन्यव्रते सार्द्धमुहूर्त्तकैः। सप्तभिर्दशमीविद्धामेतामेकादशीं त्यजेत्। द्वादशी पूर्वविद्धैव निखिलेषु व्रतेष्वपि। शुक्लत्रयोदशी पूर्वा परा कृष्णत्रयोदशी। अलाभे सापि पूर्वैव पराऽनङ्गत्रयोदशी। या शुक्ला गृह्यते पूर्वा गृह्यतां सापराहिणकी। चतुर्दश्युत्तरा शुक्ला पूर्वा कृष्णचतुर्दशी। उदये द्विमुहूर्त्तापि ग्राह्यानन्तव्रते तिथिः। शुक्लापि रात्रियुक्ता स्याच्चैत्रश्रावणमासयोः। शुक्ला सर्वापि पूर्वैव यदि स्यादापराहिणकी। प्रदेषे वा निशीथे वा द्वयोर्वा यास्ति सा भवेत्। शिवरात्रिव्रते तत्र द्वयोः सत्ता प्रशस्यते। तदभावे निशीथेकव्याप्तापि परिगृह्यताम्। तस्याश्चासम्भवे ग्राह्या प्रदोषव्यापिनी तिथिः। तिथ्यन्ते पारणं यामत्रयादर्वाक् समापने। अन्यथा पारणं प्रातरन्यतिथ्युपवासवत्। पूर्वविद्धैव सावित्रीव्रते पञ्चदशी तिथिः। नाड्योऽष्टादश भूतस्य स्युश्च तत्र परेऽहनि। व्रतान्तराणि सर्वाणि परेऽहन्येव सर्वदा। श्राद्धेऽपराह्णकालीनो दर्श आव्दिकवन्मतः। दिनद्वयेऽप्येकदेशवृत्तौ ग्राह्यो महत्त्वतः। तुल्यत्वं चेदेकदेशक्षये पूर्वोऽन्यथोत्तराः। कृत्स्नव्याप्तौ द्वयोरह्नोरुत्तरस्तिथिवृद्धितः। साग्न्यनग्निव्यवस्था स्यान्न चेत् स्यादपराह्णयोः। पूर्वेद्युः साग्निकः कुर्य्यादुत्तरेद्युर्निरग्निकः। पर्वप्रतिपदोः सन्धिर्मध्याह्ने वा ततः पुरा। अन्वाधानं पूर्वदिने यागः सन्धिदिने भवेत्।। ऊर्द्ध्वं मध्याह्नतः सन्धावन्वाधानं तु तद्दिने। इष्टिं परदिने कुर्य्यादन्यो वाजसनेयिनः। यस्तु वाजसनेयी स्यात्तस्य सन्धिदिनात् पुरा। न क्वाप्यन्वाहितिः किन्तु सदा सन्धिदिने हि सा। सन्धिश्चेत् सङ्गवादूर्द्ध्वं प्राक्चेदावर्त्तनाद्रवेः। सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः। वृद्धिः प्रतिपदोयास्ति तदूर्द्ध्वं पर्वणि क्षियेत्। क्षयस्यार्द्धं तथा हित्वा सन्धिर्निश्चीयतां तदा। वौधायनमते दर्शश्राद्धं चेष्टिर्विशिष्यते। द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद् चापराह्णिकी। अन्वाधानं चतुर्दश्यां दर्शस्यान्तेऽपि वर्त्तयेत्। दर्शश्राद्धं तथा कार्य्यमिति वौधायनोदितम्। इष्ट्यादिविकृतिः सर्वा पर्वण्येवेति निर्णयः” ५ प्रकरणे नक्षत्रनिर्णयो विस्तरभयान्न दर्शितः।
दर्शादिश्राद्धेऽन्यत्र चोक्तं यथा “दर्शो यत्रापराह्णं स्पृशति स दिवसः श्राद्धकालोद्वयोश्चेद्यत्रानल्पो यदासौ यदि भवति समः क्षीयमाणे तु पूर्वः। वृद्धौ साम्ये त्वनग्नेर्युवतिवृषलयोश्च श्व एवाहिताग्नेः पूर्वो न क्वापराह्णं स्पृशति कुतपसंस्पर्शतोऽयं विधिः स्यात्। सायन्तन्यपरत्र चेन्मृततिथिः सैवाव्दिके मासिके ग्राह्या सा द्व्यपराह्णयोर्यदि तदा यत्राधिका सा मता। तुल्या चेदुमयापराह्णसमये पूर्वा न चेत् सङ्गये पूर्वैव त्रिमुहूर्त्तगास्तसमये नो चेत् परैवोचिता”। तिथिविशेषकृत्ये खण्डतिथिविशेषग्रहणं तंत्तच्छब्दे उक्तं वक्ष्यते च। तिथितत्त्वादौ दृश्यम्। प्रतिपदातिथिविशेषाणामुभयदिनव्याप्त्यादौ निर्णयः निर्णयसिन्धौ दर्शितो यथा
“शुक्लप्रतिपदपराह्णव्यापित्वे पूर्वा ग्राह्या युग्मवाक्यात् प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकीति” स्कान्दोक्तेः “शुक्ला स्यात् प्रतिपत्तिथिः प्रथमतश्चेत् सापराह्णे भवेदिति” दीपिकोक्तेश्च। अपराह्णश्च पञ्चधा भक्ते दिने चतुर्थो भागः। तदभावे सायाह्नव्या- पिनी ग्राह्या “तदभावे तु सायाह्नव्यापिनी परिगृह्यतामिति” माधवोक्तेः कृष्णा तु परा “कृष्णा तूत्तरतोऽखिलेति” दीपिकोक्तेः कृष्णापि पूर्वैवेत्यनन्तभट्टाः।
द्वितीया तु कृष्णा पूर्वा शुक्लोत्तरा इति हेमाद्रिः, कृष्णा द्वितीयादिमा “पूर्वाह्णे यदि सा सिता तु परतः सर्वा” इति दीपिकोक्तेः माधवानन्तभट्टमते तु सर्वापि द्वितीया परा तथा च माधवः “पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्त्तगा। सा द्वितीया परोपोष्या पूर्वविद्धा ततोऽन्यथा” इति
तृतीया तु सर्वमते रम्भाव्यतिरिक्ता परैव तेन युग्मवाक्यं रम्भाव्रतविषयम् “रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम! अन्येषु सर्वकार्य्येषु गणयुक्ता प्रशस्यत इति ब्रह्मवैवर्तात् गौरीव्रते तु विशेषमाह माधवः “मुहूर्त्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे। शुद्धाधिकायामप्येवं गणयोगप्रशंसनादिति”।
चतुर्थ्यपि सर्वमते गणेशव्रतातिरिक्ता परैव युग्मवाक्यात् “एकादशी तथा षष्ठी अमावास्या चतुर्थिका। उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः” इति माधवीये वृहद्वसिष्ठोक्तेश्च
नागचतुर्थी तु मध्याह्नव्यापिनी पञ्चमीयुता च ग्राह्या इति निर्णयामृते माधवीये चोक्तम् “युगं मध्यंदिने यत्र तत्रोषोष्य फणीश्वरान्। क्षीरेणाप्याय्य पञ्चम्यां पूजयेत् प्रयतो नरः। विषाणि तस्य नश्यन्ति न तान् हिंसन्ति पन्नगाः” इति माधवीये देवलोक्तेः युगं चतुर्थी। पूर्वत्र मध्याह्नव्याप्तौ पूर्वा अन्यपक्षेषु परैव पञ्चम्यां पूजोक्तेः गणेशव्रते तृतीयायुतैव चतुर्थी “चतुर्थी तु तृतीयायां महापुण्यफलप्रदा। कर्तव्या व्रतिभिर्वत्स! गणनाथ सुतोषिणी” इति हेमाद्रौ व्रह्मवैवर्त्तात्। माधवोये तु गणेशव्रते “मध्याह्नव्यापिनी मुख्या” चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते। मध्याह्नव्यापिनी चेत् स्यात् परतश्चेत् परेऽहनि” इति वृहस्पतिवचनात् “प्रातः शुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन्नृप!” इति “तत्कल्पेऽभिधानाच्च तेन परदिने तथान्वे परा अन्यथा पूर्वेत्युक्तम् वस्तुतस्तु यत्र भाद्रशुक्लचतुर्थ्यादौ गणेशव्रतविशेषे मध्याह्नपूजोक्ता तद्विषयाण्येव प्रागुक्तवचनानि न तु सार्वत्रिकाणि। संकष्टचतुर्थ्यादौ बहूनां कर्मकालानां बाधापत्तेः तेन सर्वत्र गणेशव्रते पूर्वैवेति सिद्धम्। संकष्टचतुर्थी तु चन्द्रोदयव्यापिनी ग्राह्या दिनद्वये तथात्वे मातृयोगस्य सत्त्वात् पूर्वेति केचित्। अन्ये तु मुहूर्त्तत्रयादिरूपस्य तृतीयायोगस्याभावात्परदिने माधवोक्तमध्याह्नव्यापिसत्त्वात् संपूर्णत्वाच्च परेत्याचक्षते। दिनद्वये तदभाते तु परैव। गौरीव्रते तु पूर्वैव। “गणेशगौरीबहुलाव्यतिरिक्ताः प्रकीर्त्तिताः। चतुर्थ्यः पञ्चमीविद्धा देवतान्तरयोगतः” इति मदनरत्ने ब्रह्मवैवर्त्तात्
पञ्चमी तु माधवमते सर्वापि पूर्वा “चतुर्थीसंयुता कार्या पञ्चमी परया न तु। दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथा सितेति” हारोतोक्तेः हेमाद्रिमते तु कृष्णा पूर्वा सिता परा “कृष्णा पूर्वयुता सिता परयुता स्यात् पञ्चमी” इति दीपिकोक्तेः वस्तुतस्तु हारीतोक्तिरुपवासविषया “प्रतिपत्पञ्चमी चैव सावित्रीभूतपूर्णिमा। नवमी दशमी चैव नोपोष्याः परसंयुताः” इति व्रह्मवैवर्तात् यत्तु “पञ्चमी तु प्रकर्तव्या षष्ठ्या युक्ता तु नारद!” इत्यापस्तम्बीयम् तत् स्कन्दव्रतपरम् “स्कन्दोपवासे स्वीकार्या पञ्चमी परसंयुता” इति वाक्यशेषादिति माधवः तन्नागपूजाविषयमित्यनन्तभट्टनिर्णयामृतादयः। चमत्कारचिन्तामणौ च “पञ्चमी नागपूजायां कार्या षष्ठीसमन्विता। तस्यान्तु तुषिता नागा इतरा सचतुर्थिका” इति तेन नागपूजादौ परैव। यत्तु मदनरत्नदिवोदासीययोः श्रावणपञ्चम्यतिरिक्ता पूर्वेत्युक्तं “श्रावणे पञ्चमी शुक्ला संप्रोक्ता नागपञ्चमी। तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता हिताः” इति संग्रहोक्तेः, “गणेशस्कन्दयोगाभ्यां क्रमान्नागः शुभाशुभः। मित्रामित्रे तयोः पत्रे नागानामाखुबर्हिणौ” इति षट्त्रिंशन्मताच्च श्रावणपञ्चम्यतिरिक्तायाः नागपञ्चम्याश्चतुर्थीयुतत्वमुक्तं तदुपवासादिविषयम्। पत्रे वाहने।
षष्ठी सर्वमते स्कन्दव्रतातिरिक्ता परैव युग्मवाक्यात् “नागविद्धा न कर्तव्या षष्ठी चैव कदाचन” इति स्कान्दाच्च निर्णयामृते “षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः। योगोऽयं पद्मको नाम सूर्य्यकोटिग्रहैः समः”।
सप्तमी पूर्वैव युग्मवाक्यात् “षष्ठ्या युता सप्तमी च कर्तव्या तात! सर्वदा” इति स्कान्दाच्च।
अष्टमी तु सर्वमते कृष्णा पूर्वा सिता परा “व्रतमात्रेऽष्टमी कृष्णा पूर्वा शुक्लाष्टमी परा” इति माधवोक्तेः “परयुक् शुक्लाष्टमी पूर्वयुक् कृष्णा” इति दोपिकोक्तेश्च शिवशक्त्युत्सवे तु कृष्णाप्युत्तरा “पक्षद्वयेऽप्युत्तरैव शिवशक्तिमहोत्सवः” इति माधवोक्तेः दिवोदासीये भविष्ये “यदा यदा सिताष्टम्या बुधवारो भवेत् क्वचित्। तदा तदा हि सा ग्राह्या एकभक्ताशने नृप!। सन्ध्याकाले तथा चैत्रे पसुप्ते च जनार्दने। बुधाष्टमी न कर्तव्या हन्ति पुण्यं पुरातनम्” अन्त्यं पद्यं हेमाद्रौ न धृतम्।
नवमी तु सर्वमते पूर्वा युम्मवाक्यात् “न कुर्य्यान्नवमीं तात! दशम्या तु कदाचन” इति स्कान्दाच्च।
दशमी पूर्वा परा वेति हेमाद्रिः “कृष्णा पूर्वोत्तरा शुक्ला दशम्येवं व्यवस्थिता” इति माधवः वस्तुतस्तु मुख्या नवमीयुतैव ग्राह्या “दशमी तु प्रकर्तव्या सदुर्गा द्विजसत्तम!” इत्यापस्तम्बोक्तेः यत्तु “संपूर्णा दशमी कार्या पूर्वया परयाऽथ वा” इत्यग्निरसोक्तं तन्नवमीयुक्ताऽलाभे औदयिकी ग्राह्येत्येवं नेयम्”। एकादशीनिर्णयस्तु कालमाधवीयानुसारेण एकादशीशब्दे १४८८ पृ० उक्तः। महाद्वादश्यादिनिर्णयः नि० सि० यथा “अथाष्टौ महाद्वादश्यः तत्र शुद्धाधिकैकादशीयुक्ता द्वादशी उन्मीलिनी १ संज्ञा द्वादश्येव शुद्धाधिका वर्द्धते चेत्सा वञ्जुली २ वासरत्रयस्पर्शिनी त्रिस्पृशा ३ अग्रे पर्वणः संपूर्णाधिकत्वे पक्षवर्द्धिनी ४। पुष्पर्क्षयुता जया ५ श्रवणयुता विजया ६ पुनर्वसुयुता जयन्ती ७ रोहिणीयुता पापनाशिनी ८ एताः पापक्षयमुक्तिकाम उपवसेत्। अत्र मूलं हेमाद्रौ ज्ञेयम्। एकादशीद्वादश्योरेकाहे तन्त्रेणोप्रवासः, पार्थक्ये तु शक्तस्योपवासद्वयम् “एकादशीमुपोष्यैव द्वादशीं समुपोषयेदिति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव “एवमेकादशीं त्यक्ता द्वादशीं समुपोषयेत्। पूर्ववासरजं पुण्यं सर्वं प्राप्नोत्यसंशयमिति” तत्रैवौक्तेः। यदा त्वल्पा द्वादशी तदोक्तं मात्स्ये “यदा भवति स्वल्पापि द्वादशी पारणादिने। ऊषःकाले द्वयं कुर्य्यात्प्रातर्माध्याह्निकं तदा। नारदीयेऽपि “अल्पायामथ विप्रेन्द्र! द्वादश्यामरुणोदये। स्नानार्चनक्रियाः कार्य्या दानहोमादिसंयुताः” इति सङ्कटे तु माधवीये देवलः “सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत्कथम्। अद्भिस्तु पारणात् कुर्य्यात् पुनर्भुक्तं न दोषकृदिति”। सङ्कटे त्रयोदशीश्राद्धप्रदीषादौ। अत्र केचिदाहुः अपकर्षवाक्यान्यनाहिताग्निविषयाणि अग्निहोत्रादीनां श्रौतत्वेनापकर्षायोगादिति। द्वादश्यां च प्रथमपादमतिक्रम्य पारणं कार्य्यम् “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः। तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः” इति निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः। अत्र केचित् सङ्गिरन्ते यदा भूयसी द्वादशी तदापि प्रातर्मु- हूर्त्तत्रये पारणं कार्य्यम् “सर्वेषामुपवासानां प्रातरेव हि पारणमिति” वचनादिति। अस्मद्गुरवस्तु बहूनां कर्म्मकालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्पद्वादश्यामेवापकर्षविघानादपराह्ण एव कार्य्यम्। प्रातः शब्दस्तु “सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति” वदपराह्णवाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुनर्भोजनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः। प्रमादेन एकादश्युपवासातिक्रमे अपरार्के वाराहे “एकादशी विप्लुता चेद्द्वादशीपरतः स्थिता। उपोष्या द्वादशी तत्र यदीच्छेत्परमं पदमिति” कैश्चित्तु वैष्णवं पदमिति पठितम् अत्राविरोधिनो नियमाः सर्वव्रतेषु बोद्धव्याः। अन्ये च नवरात्रे वक्ष्यन्ते इति दिक्।
द्वादशी तु पूर्वैव युग्मवाक्यात् द्वादशी तु प्रकर्त्तव्या एकादश्या युता प्रभो!” इति स्कान्दाच्च।
त्रयोदशी तु सर्वमते शुक्ला पूर्वा, कृष्णोत्तरा “त्रयोदशतिथिः पूर्वः सितोऽथाऽसितः पश्चादिति” दीपिकोक्तेः “शुक्ला त्रयोदशी पूर्वा परा कृष्णा त्रयोदशीति” माधवीयाच्च
चतुर्दशी सर्वमते कृष्णा पूर्वा, शुक्लोत्तरा, उपवासे तु द्वय्यपि परेति मदनरत्ने।
पौर्णमास्यमावास्ये तु सावित्रीव्रतं विना परे ग्राह्ये “भूतविद्धे न कर्त्तव्ये दर्शपूर्णे कदाचन। वर्जयित्वा मुनिश्रेष्ठ! सावित्रीव्रतमुत्तममिति” ब्रह्मवैवर्त्तात् “अमायां योगविशेषमाहाऽपरार्के शातातपः “अमावस्यां भवेद्वारो यदा भूमिसुतस्य वै। जाह्नवीस्नानमात्रेण गोसहस्रफलं लभेत्”। “अमा वै सोमवारेण रविवारेण सप्तमी। चतुर्थी भौमवारेण विषुवत्सदृशं फलम्” तत्रैव व्यासः “सिनीवाली कुहूर्वापि यदि सोमदिने भवेत्। गोसहस्रफलं दद्यात् स्नानं वै मौनिना कृतम्”। हेमाद्रौ वृहन्मनुः “श्रवणाश्वि धनिष्ठार्द्रानागदैवतमस्तके। यद्यमा रविवारेण व्यती पातः स उच्यते”। नागदैवतम् अश्लेषा मस्तको मृगशिरः। प्रथमपाद इत्यन्ये स च सर्वेषाम्”।
सर्वतिथिषु वर्ज्यान्याह मुहूर्त्तदीपिकायाम् “कुष्माण्डं वृहतीफलानि लवणं वर्ज्यं तिलाम्लं तथा तैलं चामलकं दिवं प्रवसता शीर्षं कपालान्त्रकम्। निष्पावांश्च मसूरिकान् फलमथो वृन्ताकसंज्ञं मधु द्यूतं स्त्रीगमनं क्रमात् प्रतिपदादिष्वेवमाषोडशात्” “शीर्षं नारिकेलम्, कपालम् अलाबु, अन्त्रं पटोलकम्” भूपालः “कुष्माण्डं- वृहतीक्षारं मूलकं पनसंफलम्। धात्री शिरः कपालान्त्रं नखचर्म्मतिलानि च। क्षुरकर्माङ्गनासेवां प्रतिपत्प्रभृति त्यजेत्। नखं शिम्बी चर्म मसूरिका प्रतिपदादितिथिषु कुष्माण्डादिभक्षणफलं चोक्तं तिथितत्त्वे स्मृत्या यथा
“कुष्माण्डे चार्थहानिः स्याद्वृहत्यां न स्मरेद्धरिम्। बहुशत्रुः पटोले स्याद् धनहानिस्तु मूलके। कलङ्की जायते विल्वे तिर्य्यग्योनिश्च निम्बके। ताले शरीरनाशः स्यात् नारिकेले च मूर्खता। तुम्बी गोमांसतुल्या स्यात् कलम्बी गोबधात्मिका। शिम्बी पापकरी प्रोक्ता पूतिका ब्रह्मघातिका। वार्त्ताकौ सुतहानिः स्यात् चिररोगी च माषके। महापापकरं मांसं प्रतिपदादिषु वर्जयेत्”। प्रसङ्गात्तिथिसाधनप्रकारः सि० शि० उक्तो दर्श्यते यथा “रवि १२ रसै ६ र्विरवीन्दुलवाहृताः फलमितास्तिथयः करणानि च। कुरहितानि च तानि बवादितः शकुनितोऽसितभूतदलादनु। ग्रहकलाः सरवीन्दुकला हृताः खखगजै ८०० श्च भयोगमितिः क्रमात्। अथ हृता स्वगतैष्यविलिप्तिक्ताः स्वगतिभिश्च गतागतनाडिकाः” मू०। “व्यर्केन्दोर्भागा द्विष्ठाः। एकत्र रवि १२ भिर्भाज्यास्तत्र फलं गतास्तिथयः। अन्यत्र रसै ६ र्भाज्याः। फलं गतकरणानि। तानि त्वेकोनानि बवादितो भवन्ति। कृष्णचतुर्दश्यर्द्धादुपरि यान्यवशिष्यन्ते त्रीणि चतुर्थं प्रतिपत्प्रथमार्धे च। एतानि चत्वारि शकुनितः। शकुनिचतुष्यादनागकिन्तु(किंस्तु)घ्नानीति शेषः। यस्य ग्रहस्य नक्षत्रं ज्ञातुमिष्यते तस्य कलाः कार्य्याः। तथा चन्द्रार्कयोगस्य कलाः कार्य्याः। उभयत्र शताष्टकेन ८०० हृते प्रथमस्थाने गतभानि द्वितीयस्थाने गतयोगाः। अथ यान्यवशिष्टानि तानि गतानि। तानि स्वस्वहरच्युतानि गम्यानि स्युः। तेषां गतानां सम्बन्धिन्यो विकलाः स्वस्वगतिभिर्भाज्याः। यल्लभ्यते ता गतघटिका भवन्ति। यद्येष्याणां विकला भक्तास्तदैष्या घटिका भवन्ति। अत्रोपपत्तिः। यदि व्यर्केन्दोश्चक्रांशै ३६० स्त्रिंशत् तिथयी लभ्यन्ते तदैभिः किमिति। अत्र त्रिंशतापवर्तिते हरे जातो द्वादश हरः। अथ यदि चक्रांशैः ३६० षष्टिः ६० करणानि लभ्यन्ते तदैभिः किमिति। अत्रापि षष्ट्यावर्तिते जातो हरः षण्मितः। अथ यदि चक्रकलाभिः २१६०० सप्तविंशतिर्भानि लभ्यन्ते योगा वा तदेभिः किमिति। अत्रापि सप्तविंशत्यापवर्तने कृते जातोऽष्टशती हर उभयत्र। अथ घटीकरणार्थमनुपातः। यदि गतिकलाभिः षष्टिघटिका लभ्यन्ते तदा गतैष्याभिः कलाभिः किमिति फलं गतैष्या घटिकाः। अथ कलाः षष्ट्या गुणिता विकलाः स्युरित्यतः उक्तम् अथ हृताः स्वगतैष्यविलिप्तिका इति सर्वमुपपन्नम्” प्रमि०। सू० सि० तिथ्याद्यानयनप्रकार उक्तो यथा “मभोगोऽष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः। ग्रहलिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम्” सू० सि०। “अष्टशतमिताः कला नक्षत्रभोगः। प्रसङ्गात् तिथिभोगमाह। खाश्विशैला इति। तिथेर्विशत्यधिकसप्तशतमिताः ७२० कलास्तथा भोग इत्यर्थः। यस्य ग्रहस्य नक्षत्रज्ञानमिष्टं तस्य ग्रहस्य राशयस्त्रिंशद्गुण्या अंशा योज्यास्ते षष्टिगुणिताः कला योज्या इति परिभाषया कला नक्षत्रभोगभक्ताः फलं ग्रहस्य गतनक्षत्राणि शेषं वर्तमाननक्षत्रस्य गतकलास्तस्मात् तस्य गतदिनाद्यानयनमाह भुक्त्येति। ग्रहस्य कलात्मिकया गत्या शेषदिनादिकं गतं भागहरणेन साध्यमेवं शेषोनाद्भोगाद्गतिकला भागेनैष्यदिनादिकं साध्यम्। अत्रोपपत्तिः। भचक्रभोगेण सप्तविंशतिनक्षत्राण्यश्विन्यादीनि ग्रहो भुनक्त्यतः सप्तविंशतिनक्षत्राणां चक्रकलाः षट्शतयुतैकविंशतिसहस्रमिता २१६०० भोगस्तदैकनक्षत्रस्य क इत्यनुपातेनाष्टशतकलाभोगः। एवं तिथेश्चान्द्रमासत्रिंशांशाच्चान्द्रमासस्य सूर्य्यचन्द्रान्तरैकभगणसिद्धत्वाच्च। त्रिंशत्तिथीनां चक्रकलाभोगस्तदैकतिथेः क इत्यनुपातेन विंशत्यधिकसप्तशतकलाभोगः ७२०। अथाष्टशतकलाभिरेकं नक्षत्रं तदा ग्रहकलाभिः किमित्यनुपातेन फलमश्विन्यादीनि ग्रहभुक्तानि शेषकला ग्रहाधिष्ठितनक्षत्रस्य गतं भोगाद्धीनं तस्यैष्यम्। यदि ग्रहगत्यैकं दिनं तदाभीष्टकलाभिः किमित्यनुपातेन तस्य गतैष्यदिवसाद्यं भवति। एवं चन्द्राद्दिननक्षत्रं ज्ञेयम्” रङ्गना०। “रवीन्दुयोगलिप्ताभ्यो योगा भभोरभाजिताः। गता गम्याश्च षष्टिघ्ना भुक्तियोगाप्तनाडिकाः” सू० सि० “सूर्य्यचन्द्रयोगस्य राश्यादिकस्य परिभाषया याः कलास्ताभ्यो योगा विष्कम्भादयो भभोगभाजिता भभोगेन पूर्वोक्तेन विभक्ता भवन्ति। एकैकयोगस्य भभोगमितौ भोगः स प्रत्येकं ताभ्योऽपनीय यन्मिताः शुद्धास्तन्मिता योगा गताः। यस्य भोगो न शुद्ध्यति स वर्त्तमान इत्यर्थः। कला भभोगभक्ता गता योगास्तदग्रिमो वर्त्तमान इति तात्पर्य्यम्। तस्य शेषं गतं भोगात् पतितमेष्यं ताभ्यां घटिकाद्यानयनमाह। गता इति। गता एष्याः। चः समुच्चये। कलाः षष्टिगुणिताः कार्य्यास्ताम्यो भुक्तियोगाप्तनाडिका रविचन्द्रकलात्मकग योर्योगेन भजनाल्लब्धा घटिका गतैष्या भवन्ति। अत्रोपपत्तिः। सूर्य्यचन्द्रयोगमितस्य ग्रहस्य नक्षत्राणि विष्कम्भादिसञ्ज्ञानि योगोत्पन्नत्वाद्योगा अतस्तदानयनं पूर्वोक्तवत्। अतएव सूर्य्यचन्द्रगतियोगतुल्यतद्गत्या षष्टिसावनघटिकास्तदा गतैष्या कलाभिः का इत्यमुपातेन गतैष्यघटिकानयनं युक्तमुक्तम्” रङ्गना०। “अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः। गता गम्याश्च षष्टिघ्ना नाद्ध्यो भुक्त्यन्तरोद्धृताः” सू० सि०। “पूर्वार्धव्याख्यानं पूर्वश्लोकपूर्वार्द्धरीत्या ज्ञेयमुत्तरार्द्धं स्पष्टम्। अत्रोपपत्तिः। “तिथिभीगकलाभिरेका तिथिस्तदा सूर्य्योनचन्द्रकलाभिः का इत्यनुपातेन फलं गततिथयो वर्त्तमानतिथेर्गतैष्ये शेषशेषोनभोगकले ताभ्यां गत्यन्तरकलाभिरनुपातेन गतैष्यटिकाः पूर्ववत्” रङ्गना०। कल्पे तिथिमानमुक्तं सि० शि० यथा “विधिदिने दिनकृद्दिवसाः करेन्द्रियशरेषुभुवोऽर्वुद संगुणाः। नवनवाङ्ककराभ्ररसेन्दवः प्रयुतसंगुणिता विधुवासराः” १६०२९९९०००००००। अत्रोपपत्तिः, रविवर्षाणि दिनीकृतानीति सुगमम्। चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः। ते तु योगा भगणान्तरतुल्याः स्युः। उभयोरपि प्राग्गमनात्। अतो मगणान्तरतुल्याः शशिमासा भवन्ति। ते त्रिंशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम्। युगे तिथिसंख्या सू० सि० उक्ता यथा।
युग इत्युपक्रमे चान्द्रदिनप्रमाणमाह “चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः” सू० सि०। “अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता युगे सूर्य्यसावनदिवनाः। चान्द्रा दिवसा युगतिथय इत्यर्थः। अशीतिशून्यचतुष्कत्रिखनृपा एते त्रिंशद्भक्ताश्चान्द्रमासा उक्तप्रायाः। अनेनैव चान्द्रदिवसानामुपपत्तिः सूर्य्यचन्द्रयोर्भगणयोरन्तरूपचान्द्रमासास्त्रिंशद्गुणिता इति स्पष्टीकृताः” रङ्गना०। तिथिभेदे देवभेदपूजा पीयू० धा० धृतवाक्ये नीक्ता यथा तत्र नारदः “यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः” अग्निपुराणेऽपि “प्रतिपद्यग्निपूजा स्यात् द्वितीयायाञ्च वेधसः। दशम्यामन्तकस्यापि षष्ट्यां पूजा गुहस्य च। चतुर्य्यां गणनाथस्य गौर्य्यास्तत्पूर्ववासरे। सरस्वत्या नवम्याञ्च। सप्तम्यां भास्करस्य च अष्टम्याञ्च चतुर्द्दस्यामेकादश्यां शिवस्य च। द्वादश्याञ्च त्रयोदश्यां हरेश्च मदनस्य च। शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत्। पर्वणीन्दोस्तिथिष्वासु पक्षद्वयगतास्वपीति”। पञ्चदशसंख्यायां सू० सि० उदा०।
स्त्रीत्वे “वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना” कुमा०। पुंस्त्वे “निखिलान् निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः” नैष०।
तिथिकृत्य = न० ७ त०। तिथिविहिते कार्य्ये “तिथिकृत्ये च कृष्णादिर्व्रते शुक्लादिरेव च। विवाहादौ स्मृतः सौरः शेषेषु सावनो मतः” मल० त०। तिथिविशेषे कृत्यानि च तिथितत्त्वे कालमाधवीयनिर्णयसिन्धुग्रन्थप्रभृतिनिवन्धेषु दृश्यानि। तिथिभेदेषु कृत्याकृत्यानि पी० धा० वसिष्ठोक्तानि यथा “नोद्वाहयात्रोपनयप्रतिष्ठासीमन्तचौलाखिलवास्तुकर्म्म। गृहप्रवेशाखिलमङ्गलाद्यं कार्य्यं हि। मासाद्यतिर्थ कदाचित्”। मासाद्यतिथौ शुक्लपक्षपतिपदि अतए कृष्णपक्षप्रतिपद्येतानि कर्म्माणि सुखेन भवन्तीत्यर्थः यद्येषोऽभिप्रायोऽसम्मतः स्यात्तदा पक्षाद्यतिथावितिब्रूयात्। “सप्ताङ्गचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिलमङ्गलानि। यात्राविवाहाखिलभूषणाद्यं कार्य्यं द्वितीयादिवसे सदैव। सङ्गीतविद्याखिलशिल्पकर्म्मसीमन्तचौलान्नगृहप्रवेशम्। कार्य्यं द्वितीयादिवसे यदुक्तं सदा गृतीयादिवसेऽपि कार्य्यम्। रिक्तासु विद्युद्बधबन्धशस्त्रविषाग्निघातादि च याति सिद्धिम्। यन्मङ्गलन्तासु कृतं विमूढैर्विमाशमायाति तदाशु नूनम्”। रिक्तासु चतुर्थीनवमीचतुर्दशीषु ४। ९। १४। “शुभानि कार्य्याणि चरस्थिराणि चोक्तान्यनुक्तान्यपि यानि तानि। सिद्धिं प्रयान्त्याशु ऋणप्रदानं विनाशदं नागतिथौ विधेयम्। अभ्यङ्गयात्रापितूकर्म्मदन्तकाष्ठं विना पौष्टिकमङ्गलानि। षष्ठ्यां विधेयानि रणीपयोग्यशिल्पानि वस्त्वम्बरभूषणानि। द्वितीयायां तृतीयायां पञ्चम्यां कथितान्यपि। तानि सिघ्यन्ति कार्य्याणि सप्तम्यां निखिलान्यपि। संग्रामयोग्याखिलवास्तुशिल्पनृपप्रमोदाखिललेखनानि स्त्रीरत्न- कार्य्याखिलभूषणानि कार्य्याणि कार्य्याणि महेशतिथ्याम्। द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ। उक्तानि यानि सिध्यन्ति दशम्यां तानि सर्वदा। व्रतोपवासाऽखिलधर्मकृत्यं सुणोत्सवाद्याऽखिलवास्तुकर्म्म। संग्रामयोग्याखिलवास्तुकर्म्म विश्वे तिथौ सिध्यति शिल्पकर्म्म। पृथिव्यां यानि कर्म्माणि घर्म्मपुष्टिः शुभानि च। चरस्थिराणि द्वादश्यां यात्रां नवगृहं विना। विधातृगौरीभुजगभान्वन्तकदिनेषु च। उक्तानि तानि सिध्यन्ति त्रयोदश्यां विशेषतः। यज्ञक्रियापौष्टिकमङ्गलानि संग्रामयोग्याखिलवास्तुकर्म्म। उद्वाहशिल्पाऽखिलभूषणाद्यं कार्य्यं प्रतिष्ठा खलु पौर्णमास्याम्। सदैव दर्शे पितृकर्म्ममुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम्। मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिराद्भृशं तत्” पी० धा० वसिष्ठवचनम्।
तिथिक्षय = पु० तिथीनां तिय्युपलक्षितचन्द्रकलानां क्षयः क्षयारम्भो यस्मिन्। दर्शे अमावास्यायाम् शब्दार्थकल्प०। ६ त०। तिथीनां नाशे अवमे अवमशब्दे ४३१ पृ० दृश्यम् दिनक्षयादयोऽप्यत्र। “कौर्मे पाद्मेऽपि “द्वौ तिथ्यन्तावेकवारे यत्र स स्याद्दिनक्षयः” वशिष्ठः “एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्”। साहस्रिकं फलमिति माङ्गल्येतरवैदिककर्मपरम्। “अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते मासि। चक्रिणि सुप्ते कुर्य्यान्नो माङ्गल्यं विवाहञ्च” इति भीमपराक्रमात् दिनपाते दिनक्षये रघु० तिथिक्षयानयनञ्च सू० सि० उक्तं यथा “सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः” सू० सि०। “चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः। तिथिषु चान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम्। यद्वा तिथिशब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्” रङ्गना०। युगे तत्संख्या सू० सि० उक्ता यथा युग इत्युपक्रमे “तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः” १५०८२१५२ एतन्मिता इत्यर्थः।
तिथिपति = पु० तिथिविशेषाणां पतयः। तिथीनामधिपतौ स च मु० चि० उक्तो यथा “तिथीशावह्निकौ गौरी गणेशोऽहिर्गुहोरविः। शिवोदुर्गान्तको विश्वे हरिः कामः शिवः शशी” मु० चि० एतन्मूलं पीयूषधारायां धृतवसिष्ठवचनं यथा
“वह्निर्विघाताद्रिसुता गणेशः सर्पो विशाखोऽदितिजो महेशः। दुर्गा यमो विश्वहरिश्च कामः शर्वो निशेशश्च पुराणदृष्टाः इति स्वामिन इति शेषः”। तिथिपतयश्च वृ० सं० ९९ अ० अन्यथोक्ता यथा “कमलजविधातृहरियमशशाङ्कषड्वक्त्रशक्रवसुभुजगाः। धर्मेशसवितृमन्मथकलयो विश्वे च तिथिपतयः। पितरोऽमावास्यायां संज्ञासदृशाश्च तैः क्रियाः कार्य्याः। नन्दा भद्रा जया रिक्ता पूर्णा च तास्त्रिविधाः। यत्र कार्य्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्य्यम्”। वसिष्ठवराहवचनाभ्यामुक्तदेवानां तत्तथिषु पुजेति न विरोधः।
तिथिप्रणी = पु० तिथिं प्रणयति प्र + नी–क्विप्। चन्द्रे त्रिका०
तिथियुग्म = न० तिथ्योस्तिथिविशेपयोर्युग्मम्। द्वितीयादितिथिसप्तकयोगरूपे युग्मे तानि च सप्त युगमानि निगमे उक्तानि यथा “युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः। रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा! प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम्। एतद्व्यस्तं महादोषं हन्ति पुण्यं पुराकृतमिति”। युग्मं द्वितीया। अग्निस्तृतीया। युगं चतुर्थी। भूतं पञ्चमी। षड् षष्ठी। मुनिः सप्तमी। वसुरष्टमी। रन्ध्रं नवमी। रुद्र एकादशी। अत्र युग्माग्न्यादिषु सप्तसु युग्मेषु पूर्वतिथिरुत्तरविद्धा ग्राह्या उत्तरा तु पूर्वविद्धेत्युक्तं भवति। वेधश्चात्र त्रिमूर्त्तयोरेव तदुक्तं कालमा० “अत्र तिथीनां वेधः पैठीनसिना दर्शितः। “पक्षद्वयेऽपि तिथयस्तिथिं पूर्वां तथोत्तराम्। त्रिमिर्मूहूर्त्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः” इति पूर्वेद्युरुदयानन्तरममावास्या त्रिमुहूर्त्ता चैत् सा प्रतिपदं विध्यति। परेद्युरस्तमयात् प्राक् द्वितीया त्रिमुहूर्त्ता चेत् सापि पूर्वां प्रतिपदं विध्यति त्रिमुहूर्त्तव्याप्तिः स्कन्दपुराणे दर्शिता। “यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीप्रियः। सा तिथिस्तद्दिने प्रोक्ता त्रिमुहूर्त्ता च या भवेदिति”। शिवरहस्यसौरपुराणयोरपि “या प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात् त्रिमुहूर्त्तिका। धर्मकृत्येषु सर्वेषु संपूर्णान्तां विदुर्बुधाः” इति। वृहद्वसिष्ठोऽपि “यस्यां तिथावस्तमियात् सूर्य्यस्तु त्रिमुहूर्त्तकैः। यागदानजपादिभ्यस्तामेवोपक्रमेत्तिथिमिति”। एवं पैठीनस्यादिवाक्ये त्रिमुहूर्त्तत्वेनैव वेधस्थितेः वङ्गानां योगमात्रेणैव वैधोक्तिः साहसमात्रम्। वेधकतिथेस्त्रिमूहूर्त्तत्वेऽपि विद्धतिथेर्मुहूर्त्ता- दिव्यापित्वेऽपि ग्राह्यता कालमाधवीये निर्णीता यथा। “देवलः “यां तिथिं समनुप्राप्य उदयं याति भास्करः। सा तिथिः सकला ज्ञेया स्नानदानजपादिष्विति”। व्यासोऽपि “उदयन्नेव सविता यां तिथिं प्रतिपद्यते। सा तिथिः सकला ज्ञेया दानाध्ययनकर्मस्विति”। भविष्योत्तरपुराणेऽपि “व्रतोपवासनियमे घटिकैका यदा भवेत्। सा तिथिः सकला ज्ञेया पित्र्यर्थे चाऽपराह्णिकीति” पद्मपुराणेऽपि “व्रतोपवासनियमे घटिकैका यदा भवेत्। उदये सा तिथिस्तत्र विपरीता तु पैतृके” इति स्कन्दपुराणेऽपि “व्रतोपवासदानादौ घटिकैका यदा भवेत्। उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके” इति विष्णुधर्म्मोत्तरेऽपि “व्रतोपवासस्नानादौ घटिकैका यदा भवेत्। उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनीति” बौधायनोऽपि “आदित्योदयवेलायां याल्पापि च तिथिर्भवेत्। पूर्णा इत्येव मन्तव्या प्रभूता नोदयं विनेति” नन्वस्त्वेवं कृत्स्नदिवसाभ्यनुज्ञा तथाप्युत्तरविद्धायास्तिथेर्ग्रहणे कियत्परिमाणमुदये अपेक्षणीयमिति विवेचनीयम्। तत्र बौधायनेनाल्पापीत्यभिधानात् निमेषमात्रं प्रतिभाति तथा व्यासवाक्येऽपि प्रतिभाति “उदयन्नेवेत्यभिधानात्। भविष्योत्तरपुराणादिवचनेषु घटिकामात्रं प्रतीयते। वचनान्तरे तु विष्णुधर्मोत्तरबौधायनप्रोक्ते घटिकाचतुष्टयं भासते। तथा च पठ्यते “उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ। द्विमुहूर्त्तं त्रिरह्नश्च सा तिथिर्हव्यकव्ययोरिति”। अस्यार्थः। भानावुदिते सत्य्त्तरकालेऽह्नो मुहूर्त्तद्वयं दैवतम्। तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नो मुहूर्त्तत्रयं पितृ दैवत्यम्। अतस्तावत्कालव्यापिनी या तिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या। अत्रोच्यते। पौर्वाह्णिकी इति वचनेन दैवे पूर्वाह्णव्याप्त्यभिधानात्। पूर्वाह्णस्य पञ्चधा विभक्तस्य मुख्यत्वादुदिते भानौ त्रिमुहूर्त्ता तिथिर्ग्रहीतव्या। यत्तु दक्षेणीक्तम्। त्रिमुहूर्त्ता न कर्त्तव्या या तिथिः क्षयगामिणी “द्विमुहूर्त्तापि कर्त्तव्या या तिथिर्वृद्धिगामिनीति”। तन्न त्रिमुहूर्त्तव्याप्तेर्वाधकं प्रत्युतोपोद्वलकमेव। तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्वाहणिकवाक्यात् त्रिमुहूर्त्तविधायिपठीनसिवाक्याद्वा भवति। तच्च प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ वाधका- भावात्तथैव व्यवतिष्ठते। तिथिक्षये त्वधिकव्याप्तिविधित्सया प्रतिषिध्यते। अतस्तत्र चतुर्थमुहूर्त्तस्पर्शिनी तिथि र्ग्राह्या। तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्त्तत्रयमेव मुख्यम्। मुहूर्त्तद्वयं त्वनुकल्पः। अतएवं सूचयितुं द्विमुहूर्त्तापीत्यपिशब्दः पठ्यते।” अत्राप्येक मुहूर्त्तव्याप्तिर्निकृष्टेत्यर्थसिद्धम् “द्वितीयादिकयुग्मानां पूज्यता नियमादिषु” व्यासः। अत्र प्रतिसवः। “भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता”। “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” ति० त०।
तिथिसन्धि = पु० तिथ्योः सन्धिः। तिथ्योः पूर्वापरयोः सन्धौ तन्मानानयनं सि० शि० यथा “शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय एताभिरेव। पृथगथ गतियुत्या नाडिका सन्धिराप्ता तिथिकरणयोगानां फलं तत्र मिश्रम्”। एवं शशिविम्बकलाभ्यो या घटिका उत्पद्यन्ते ता भतिथिकरणयोगानां सन्धिघटिकाः स्युः। सन्धौ मिश्रफलमित्यर्थः। अत्र सन्धिरुभयतोऽपि विम्बस्य स्थितत्वात्। उपपत्तिरप्यत्र सुगमा”। प्रमिता०
तिथ्यर्द्ध = न० ६ त०। करणे। करणशब्दे १६९० पृ० दृश्यम्।
तिनाशक = पु० तिनिश + पृषो०। तिनिशवृक्षे शब्दरत्ना०।
तिनिश = पु० अतिशयेन नेशति अति + निश–क पृषो० अतेरकारलोपः। (सादन) ख्याते वृक्षे अमरः। “तिनिशः श्लेष्मपित्तास्रमेदःकुष्ठप्रमेहजित्। तुवरः श्वित्रदाहघ्नो व्रणपाण्डुकृमिप्रणुत्” भावप्र०।
तिन्तिड = पु० तिन्तिडी + पृषो०। १ वृक्षाम्ले (ते~तुल) विश्वः २ दैत्यभेदे पु० हेमच०।
तिन्तिडी = स्त्री तिन्तिडीक + पृषो०। (तेंतुल) वृक्षभेदे राजनि० स्वार्थे क। तिन्तिडिका तत्रार्थे शब्दरत्ना०। “अम्लिका चुक्रिकाम्ली च चुक्रा दन्तशठापि च। अम्ला च विचिका चिञ्चा तिन्तिडीका च तिन्तिडी। अम्लिकाऽम्ला गुरुर्वातहरी पित्तकफास्रकृत्। पक्वा तु दीपनी रूक्षा सरोष्णा कफवातनुत्” भावप्र०। “अम्लिकायाः फलं पक्वं मर्दितं वारिणा दृढम्। शर्करा मरिचोन्मिश्रं लवङ्गेन्दुसुवासितम्। अम्लिकाफलसंभूतं पानकं वातनाशनम्। पित्तश्वेष्मकरं किञ्चित् सुरुच्यं वह्निबोधकम्” भावप्र०।
तिन्तिडीक = पु० तिम–ईक अनीका० नि०। (ते~तुल) वृक्षभेदे अमरः।
तिन्तिडीद्यूत = न० तिन्तिद्या तद्वीजेन द्यूतम्। तिन्तिडीवीजेन क्रीडने (का~इवीजेरखेला) त्रिका०।
तिन्तिडि(लि)का = स्त्री तिन्तिडीः + स्वार्थे क ह्रस्वः वा डस्य लः। (त~तुल) तिन्तिद्याम् शब्दमा०। काभावे तिन्तिलीत्यप्यत्र।
तिन्दिश = पु० ढिण्डिशवृक्षे (ढा~डश) राजनि०।
तिन्दु = पु० तिज–कु–मृगय्वादि० नि०। (त~दु) १ ख्याते वृक्षे संज्ञायां कन्। तिन्द क (गाव) इति ख्याते २ वृक्षे पुंस्त्री शब्दरत्ना०। स्त्रीत्वे गौ० ङीष्। ३ कर्षमाणे वैद्यकशरिभाषा पुंन०। “स्यादामं तिन्दुकं ग्राहि वातलं शीतलं लघु। पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु। तत्सारं तु भवेद् हृद्यं कर्षुलं चिररोगजित्। विश्वतिन्दुकमप्येवं विशेषात् ग्राहि शीतलम्” राजनि०।
तिन्दुकि = स्त्री तिन्दुकी + पृषो० ह्रस्वः। तिन्दुके वृक्षे शब्दर०
तिन्दुकिनी = स्त्री तिन्दुकस्तदाकारः फलेऽस्त्यस्या इनि ङीप्। आवर्त्तक्याम् राजनि० ८२८ दृश्यम्।
तिन्दुल = पु० तिन्दुक + पृषो० कस्य लः। तिन्दुकवृक्षे शब्दर०
तिप = रक्षणे भ्वा० आत्म० सक० सेट्। तेपते अतेपिष्ट अतिप्त। तितेपे। ऋदित् अतितेपत्–त।
तिम = आर्द्रीमावे भ्वा० पर० अक० सेट्। तेमति अतेमीत्। तितेम।
तिम = आर्द्रीकरणे दिवा० पर० सक० सेट्। तिम्यति अतेमीत्। तितेम। “वानरान् तिम्यतोऽवलोक्य” हितो० “तिमिताश्चाभवन् सर्वे तत्र ते हरियूथपाः” रामा० सुन्द० १ स०। “नद्यश्च तिमितोदकाः” रामा० अर० ५४ स०। तेमनम्।
तिमि = पु० तिम–इन्–तम–इन्–इच्च वा। १ समुद्रे त्रिका०। तद्भवे २ मत्स्यभेदे पुंस्त्री० स्त्रियां वा ङीप्। “अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः” भरतधृतवाक्यम्। “अस्ति मत्स्यस्तिमिर्नाम तथा चास्ति तिमिङ्गिलः। तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति लक्ष्मणः” शब्दार्थचि० धृतरामा० वाक्यम्। “अम्मे शिरोभिस्तिमयः सरन्ध्रैरूर्द्ध्वं वितन्वन्ति जलप्रवाहान्” रघुः। “अत्र नानाषिधाकारास्तिमयोनैकरूपिणः” भा० उ० ९८ अ०। शब्दकल्पदुमेऽस्य स्त्रीत्वोक्तिः प्रामादिकी अमी तिमय इति नैकरूपिण इति पुंस्येव प्रयोगात् कृदिकारान्तत्वात् वा स्त्रियां ङीप्। २ तज्जातिस्त्रियां स्त्री भेदः।
तिमिकोष = पु० तिमेः कोष इव। समुद्रे त्रिका०।
तिमिङ्गिल = पु० गिरति–गॄ–मूलवि० क रस्य लः “गिलेऽगिलस्य” पा० मुम्। महामत्स्यभेदे। तिमिशब्दे उदा० दृश्यम्। “तिमिङ्गिलाः कच्छंपाश्च तघा तिमितिमिङ्गिलाः” भा० व० १९६ अ०।
तिमिङ्गिलगिल = पु० तिमिङ्गिलं गिलति गॄ–मूल० क रस्य लः अगिलस्वेति पर्य्युदासात् न मुम्। अतिवृहन्मत्स्यभेदे तिमिशब्दे उदा०।
तिमिङ्गिलाशन = पु० तिमिङ्गलो मत्स्यः अश्यते यत्र अशआधारे ल्युट्। दक्षिणस्थे देशभेदे “बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशनाभद्राः” वृ० स० १४ अ० कूर्मविभागे दक्षिणस्थदेशोक्तौ। सोऽभिजनोऽस्य तस्य राजा वा अण्। तस्य वहुषु लुक्। २ तद्देशवासिषु ३ तन्नृपेषु च ब० व०। एकवचने तु तैमिङ्गिलाशन इति भेदः।
तिमिज = न० तिमितो जायते जन–ड ५ त०। मुक्ताभेदे “तिमिजं मत्स्याक्षिनिभं वृहत्पवित्रं बहुगुणञ्च” वृ० स० ८ १ अ०। मुक्ताभेदकथने।
तिमित = त्रि० तिम–कर्त्तरि क्त। १ निश्चले, धरणी। २ क्लिन्ने (भिजे) अमरः। “ह्रद इव तिमिनागसंवृतः स्तिमितजलोमणिशङ्खशर्करः” रामा० अयो० ८१ स०।
तिमिर = पुं न० तिम–किरच् अर्द्धर्चा०। १ अन्धकारे २ नेत्ररोगभेदे च। “तिमिराखयः स वै दोषश्चतुर्थपटलं गतः। रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतःपरम्” माधवः अक्षिपटलशब्दे ४३ पृ० दृश्यम्। “सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः”। “पतिते घनतिमिरमुषिः” माघः।
तिमिरनुद् = पु० तिमिरं नुदति खण्डयति नुद–क्विप् ६ त०। सूर्य्ये “तिमिरनुदो मण्डलं यदि स लेहः” वृ० स० ५ अ०। तिमिरभिदादयोऽप्यत्र। २ अन्धकारनाशके त्रि०।
तिमिररिपु = पु० ६ त०। १ सूर्य्ये हला०। तिमिरारिप्रभृतयोऽप्यत्र “तिमिरारिस्तमोहन्ति प्रातःस्वबधभीरवः। वयं काका वयं काका इति जल्पन्ति वायसाः” उद्भटः। २ अन्धकारनाशके त्रि०।
तिमिरि = पु० तिमीति शब्दं वाचकत्वेन राति रा–बा० डि। तिमिमत्स्ये राजनि०।
तिमिष = पु० तिम–इसक्। १ ग्राम्यकर्कट्याम्, त्रिका० २ नाटाम्ले च शब्दार्थचि०।
***