—त—
त = तकारो व्यञ्जनवर्णभेदः। दन्त्यः अर्द्धमात्राकालेनोच्चार्य्यः अस्योच्चारणे दन्त्मूलेन जिह्वाग्रस्य स्पर्श आभ्यन्तरप्रयत्नः। बिवारश्वासाधोषा बाह्यप्रयत्नाः। मातृकान्यासेऽस्य वामस्फिचि न्यस्यता। अस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा “तः पूतना हरिः शुद्धिशक्तिः शुक्तिर्जटी ध्वजी। वामस्फिग्वामकट्यौ च कामिनी मघ्यकर्णकः। आषाटी तण्डतुभ्रश्च कामिकापृष्ठपुच्छकः। रत्नकश्च श्याममुखो वाराही मकरोऽरुणा। सुगतोर्द्धसुखाचूर्द्धलानुश्च क्रोष्टुपुच्छकः। गन्धो विश्वा मरुच्छत्र- श्चानुराधा न सौरकः। जयन्ती पुनुको भ्रान्तिरनङ्गमदनातुरा”। तदधिष्ठातृदेवताध्यानं वर्ष्णोद्धारतन्त्रोक्तं यथा “ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने!। चतुर्भुजां महाशान्तां महामोक्षप्रदायिनीम्। सदा षोडशवर्षीयां रक्ताम्बरधरां पराम्। नानालङ्कारभूषाद्यां सर्वसिद्धि प्रदायिनीम्। एवं ध्यात्वा तकारन्तु तन्मन्त्रं दशधा जपेत्”। कामधेनुतन्त्रे अस्य स्वरूपमुक्तं यथा “तकारं चञ्चलापाङ्गि! स्वयं परमकुण्डली। पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा। त्रिशक्तिसहितं वर्णम् आत्मादितत्त्वसंयुतम्। त्रिविन्दुसहितं वर्णं पीतविद्युत् समप्रभम्” “तोव्योमान्तलघुर्धनापहरणम्” इति वृ० र० टी० तस्य व्योमदेवत्वं मात्रावृत्ते प्रथमोपन्यासे धनापहारः फलञ्चोक्तम्।
त = पु० तक–हसने सहने वा ड। १ चौरे २ अमृते ३ पुच्छे ४ क्रीडे ५ म्लेच्छे च मेदि०। ६ गर्भे ७ शठे शब्दच० ८ रत्ने ९ सुगते देवे १० गौरविवर्ज्जिते ११ क्रोष्टोष्टुपुच्छे च एका० को०। २१ तरुणे १४ पुण्ये क्ली० स्त्री० मेदि०। त्रिवर्णप्रस्तावे आद्यगुरुद्वयके अन्त्यलघुके (ऽऽ।) १२ गणभेदे “सोऽन्तगुरुः लथितोऽन्त्यलघुस्तः” छन्दोम०।
तंसु = पु० तसि–उन्। पौरवे गतिनारसुते नृपभेदे “मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः। तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः। तेषां तम्सुर्सहावीर्य्यः पौरवं वंशमुद्दहन्। आजहार यशो दीप्तं जिगाय च वसुन्धराम्”। भा० आ० ८४ अ०। स च सरस्वतीपुत्रः यथा तत्रै वोक्तम् ८४ अ०। “तंसु सरस्वती पुत्रं मतिनारादजायत। ईलिनं जनयामास कालिङ्ग्यां तंसुरात्मजम्”।
तक = हासे अक० सहने सक० भ्वा० पर० सेट्। तकति अताकीत्–अतकीत्। तताक तेकेतुः। निरुक्ते अयं गतिकर्मसु पठितः। कर्मणि भावे च। यत् न ण्यत्। तक्यं सहनीयम्।
तक = दौस्थ्ये कृच्छ्रजीवने पा० इदित् प० भ्वा० सेट्। तङ्कति अतङ्गीत् ततङ्क तङ्का आतङ्का।
तक = त्रि० तं गौरववर्ज्जितं यथा तथा कायति कै–क। १ निन्दिते। “इयत्तकः कुम्भकस्तकं भिनद्म्यशातनी” ऋ० १। १ ९१। १५। “तकं कुत्सितम्” भा०। तक–अच्। २ सहनशीले च। “तका वयं प्लवामहे इदं मधु” कात्या० श्रौ० १३। ३। २१ सू०। ३ स्खलिते च। “श्रुतं गायत्रं तकनानस्य” ऋ० १। १३०। ३। “तकवानस्य स्खलितगतेः” कर्कः।
तकत् = अव्य० तक–बा० अति। अत्यल्पे। २ तत्सुते मनायति तकत्सुते मनायति” ऋ० १। १३३। ४। “तकदिति मनायति अत्यल्पमिदमिति सुष्ठुमन्यते” भा०। तद्–टेर कच्। २ तच्छब्दार्थे त्रि० सकः तकौ तके इत्यादि रूपम्
तकरी = स्त्री तं कुत्सितं करोति कृ–ट ङीप्। कुत्सितकारिण्यां स्त्रियां “ते भिनद्मि तकरीम्” तैत्ति० स० ३। ३। १०। १
तकार = पु० त + कार। तस्वरूपे वर्णे “एवं ध्यात्वा तकारन्तु” कामधेनुत०।
तकिल = पु० तकि–कृच्छ्रजीवने उणादि० इलच् नलोपश्च १ धूर्त्ते २ औषधे च ३ ओषधौ स्त्री उज्ज्व०।
तकु = त्रि० तक–गतौ निरु० उन्। गामुके “पुरुमेधश्चित् तकवे नवं ददत्” ऋ० ९। ५७। ५ “तकवे तकतिर्गतिकर्मा औणादिक उन्प्रत्ययः सोममभिगच्छते” भा०।
तक्कन् = न० तक–कनिन् न कित्। अपत्ये निघण्ठुः।
तक्र = न० तन्च–रक् न्यङ्क्वा० कुत्वम्। चतुर्थांशजलयोगेन दधिमन्थनजाते दधिविकारभेदे (घोल) अमरः। तद्भेदादिकं भावप्रका० उक्तं यथा
“घोलन्तु मथितं तक्रमुदश्विच्छच्छिकापि च। ससरं निर्जलं घोलं मथितन्त्वसरोदकम्। तक्रं पादजलं प्रोक्तमुदश्विदर्द्ध्ववारिकम्। छच्छिका सारहीना स्यात् स्वच्छा प्रचुरवारिका। घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसालवत्”। मथितं (महुया) इति लोके। छच्छिका (छाच्छ) इति लोके। “वातपित्तहरं ह्लादि मथितं कफपित्तनुत्। तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु। वीर्य्योणं दीपनं वृष्यं प्रीणनं वातनाशनम्। ग्रहण्यादिमतां पथ्यं भवेत्सङ्ग्राहि लाघवात्। किञ्च स्वादुविपाकित्वान्नच पित्तप्रकोपणम्। कषायं दीपनं वृष्यं प्रीणनं वातनाशनम्। कषायोष्णविपाकित्वाद्रौक्ष्याच्चापि कफापहम्। न तक्रसेवी व्यथते कदाचित् न तक्रदग्धाः प्रभवन्ति रोगाः। यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः। उदश्चित्कफकृद्बल्यमामघ्नं परमं मतम्। छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी। बातनुत् कफकृत्त्सा तु दीपनी लवणान्विता।
अथोद्धृतघृतस्तोकोद्धृतानुद्धृतघृतानां तक्राणां गुणाः “समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः। स्तोकोद्धृतघृतं तस्माद्गुरु वृष्यं कफापहम्। अनुद्धृतघृतं सान्द्रं गुरु पुष्टिकफप्रदम्”
य दोषविशेषे व्याधिविशेषे तक्रविशेषाः। वातेऽम्ले शस्यते तक्रं शुण्ठीसैन्धवसंयुतम्। पित्ते स्वादुसितायुक्तं सव्योषमधिके कफे। हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम्। भवेदतीव वातघ्नमर्शोऽतीसारहृत्परम्। रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम्। मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्”। अथामपक्कतक्रगुणाः “तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च। पीनस श्वासकासादौ पक्वमेव प्रशस्यते”। अथ तक्रसेवननिमित्तानि। “शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च। अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम्। तत्तु हन्ति गरच्छर्दिप्रसेकविषमज्वरान्। पाण्डुमेदोग्रहण्यर्शो मूत्रग्रहभगन्दरान्। मेहं गुल्ममतीसारं शूलप्लीहोदरारुचीः। श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन्”।
तक्रस्याविषयाः “नैव तक्रं क्षते दद्यात् नोष्णकाले न दुर्बले। न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे”।
अथ गव्यादीनां विशिष्टाः गुणाः “यान्युक्तानि दधन्यष्टौ तद्गुणं तक्रमादिशेत्”। भावप्र०। अधिकं कृतान्नशब्दे २१८५ पृ० दृश्यम्। “मन्यनादिपृथग्भूतस्नेहमर्धोदकं तु यत्। नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे” सुश्रु०। “सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च। दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च” मनुः। “तक्रनिस्रावबहुलं दधिमण्डार्द्रमृत्तिकम्” हरिवं० ६१ अ०।
तक्रकूर्चिका = स्त्री २१६७ पृ० कूर्चिकाशब्दोक्ते तक्रजाते पदार्थे।
तक्रपिण्ड = पु० “दध्ना तक्रेण वा दुष्टं दुग्धं बद्धं सुवाससा। द्रवभागेन हीनं यत् तक्रपिण्डः स उच्यते” इत्युक्ते (छाना) ख्याते पदार्थे।
तक्रमांस = न० कृतान्नशब्दे २१८३ पृ० उक्ते तक्रेण पाकविशेषयुक्ते मांसभेदे।
तक्रवामन = पु० तक्रं वामयति अत्यम्लत्वात् वाम + णिच्–ल्यु ६ त०। नागरङ्गे शब्दार्थचिन्ता०।
तक्राट = पु० तक्रार्थं तक्रोत्पादनार्थमटति अट–अच्। मन्थानदण्डे हारा०।
तक्रारिष्ट = पु० “यमान्यामलकं पथ्या मरिचं त्रिपलांशकम्। लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्। तत्र कंसासुतं जातं तक्रारिष्टं पिवेन्नरः। दीपनं शोथगुल्मार्शः क्रिमिमेहोदरापहम्” चक्र० उक्ते औषधभेदे।
तक्व = त्रि० तक–गतौ बा० व। गमनशीले। “तक्वो नोता तदिद्वपुः” ऋ० ८। ६९। १३ “तको गमनशीलः” मा०।
तक्वन् = त्रि० तक–गतौ वनिप्। १ गतिशीले “तक्वा न भूर्णिर्वना सिषक्ति” ऋ० १। ६६। १ तक–सहने वनिप्। २ चौरे च। “निम्रुच उषसस्तक्ववीरिव” ऋ० १। १५१। ५ “तक्कवीः तक्वा स्तेनस्तस्य वीः गतिः” मा०।
तक्ववी = त्रि० तक्कानां चौराणाम् वीः। चोराणां गतौ। “भगमीट्टे तक्ववीये” ऋ० १। १३४। ५। “तक्ववीये तस्कराणां यज्ञविघातिनामन्यत्र गमनाय” भा० छान्दस इयङ् दीर्घश्च।
तक्ष = कार्श्ये तनूकरणे (चा~चा छोला) व्यापारे वा भ्वा० पक्षे स्वा० प० सक० वेट्। तक्षति तक्ष्णोति तक्षन्ति तक्ष्णुवन्ति अतक्षीत् अताक्षीत् ततक्ष। तक्षिष्यति तक्ष्यति। तष्टा तक्षणम् तष्टः तक्ष्य तष्ट्वा प्रकाष्ठतट्। “दारवाणाञ्च तक्षणम्” मनुः “चषालं ये अश्वयूपाय तक्षति” ऋ०। १। १६२। ६ “बाह्याशकलमपतक्ष्णुवन्ति” शत० ब्रा० ३। ७। १। ८।
तक्ष = त्वचो ग्रहणे संवरणे भ्वा० प० सक० सेट्। तक्षति कायं वर्म्मणा योधा। अतक्षीत् ततक्ष।
तक्ष = पु० रामानुजस्य भरतस्य १ पुत्रभेदे। “तक्षः पुष्कर इत्यास्तां भरतस्य महीपते!” भाग० ९। ११। ७। “स (भरतः) तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः। अभिषेच्याभिषेकार्हौ रामान्तिकमगात् पुनः” रघुः। २ तन्नामके राजधानीभेदे च। तक्ष भावे घञ्। ३ तनूकरणे कवचादिं संवरणे। “उभौ कठ्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ” भा० स० २२ अ०
तक्षक = पु० तक्ष–ण्वुल्। १ विश्वकर्मणि शब्दर०। २ द्रुमभेदे हेमच०। “सूचकात् विप्रकन्यायां जातस्तक्षक उच्यते। उशनसोक्ते सङ्कीर्णजातिभेदे (छुतार) ३ सूत्रधारे कद्रुगर्भे कश्यपात् जाते अष्टनागान्तर्गते ४ नागभेदे “अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः। कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः” ति० त०। “काद्रवेयाश्च बलिनः सहस्रममितौजसः। सुपर्णवशगा नागा जज्ञिरेऽनेकमस्तकाः। तेषां प्रधानाः सततं शेषवासुकितक्षकाः” हरिवं० ३ अ०। “योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह। स्कन्धे मृतं समास्राक्षीत् पन्नगं राजकिल्विषी। त पापमातसक्रुद्धस्तक्षकः पन्नगेश्वरः। आशीविषन्तिग्मतेजा मद्वाक्यबलचीदितः। सप्तरात्रादितो नेता गमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम्” भा० आ० ४१। तेन च परीक्षितोदंशनकथा भा० आ० ४३ अ० दृश्या यथा “अथ शुश्राव गच्छन् स तक्षको जगतीपतिम्। मन्त्रैर्गदैर्विषहरैरक्ष्यमाणं प्रयत्नतः। सूत उवाच। स चिन्तयामास तदा मायायोगेन पार्थिव!। मया वञ्चयितव्योऽसौ क उपायो भवेदिति। ततस्तापसरूपेण प्राहिणोत् स भुजङ्गमान्। फलदर्भोदकं गृह्य राज्ञे नागोऽथ तक्षकः। तक्षक उवाच। गच्छध्वं यूयमव्यग्रा राजानं कार्य्यवत्तया। फलपुष्पोदकं नाम प्रतिग्राह यितुं नृपम्। सौतिरुवाच। ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः। उपनिन्युस्तथा राज्ञे दर्भानपः फलानि च। तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्य्यवान्। कृत्वा तेषाञ्च कार्य्याणि गम्यतामित्युवाच तान्। गतेषु तेषु नागेषु तापसच्छद्मरूपिषु। अमात्यान् सुहृदश्चैव प्रोवाच स नराधिपः। भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः। तापसैरुपनीतानि फलानि सहिता मया। ततो राजा ससचिवः फलान्यादातुमेच्छत। विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु। यस्मिन्नेव फले नागस्तमेवाभक्षयत् स्वयम्। ततो भक्षयतस्तस्य फलात् कृमिरभूदणुः। ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक!। स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्। अस्तमभ्येति सविता विषादद्य न मे भयम्। सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्। तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्। ते चैनमन्ववर्त्तन्त मन्त्रिणः कालचोदिताः। एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह। कृमिकं प्राहसत् तूर्णं मुमूर्षुर्नष्टचेतनः। प्रहसन्नेव भोगेन तक्षकेणान्ववेष्ट्यत। तस्मात् फलाद्विनिष्क्रम्य यद्राज्ञे विनिवेदितम्। वेष्टयित्वा च वेगेन विनद्य च महास्वनम्। अदशत् पृथिवीपालं तक्षकः पन्नगेश्वरः” अधिकं कश्यपशब्दे उक्तम् “मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ। अतिरोषान्वितस्तस्य तक्षकः किं करिष्यति” ति० त०। तक्षकनागश्चैन्द्रस्य सखा खाण्डववनवासी अर्ज्जुनेन खाण्डववनस्य दाहकाले न न्तम्य दाहः तत्कथा “निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी। शतक्रतु समाभाष्य महागम्भीरनिस्वना। न ते सखा स निहतस्तक्षको भुजगोत्तमः। दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ” भा० आ० २२८ अ०। ५ काष्ठादितक्षणकर्त्तृमात्रे त्रि०।
तक्षकीय = त्रि० तक्षा अस्त्यत्र नडा० छ–कुक् च। तक्षविशिष्टे तस्मिन् भवः अण् विल्वका० छमात्रस्य लुक् न कुको लुक्। ताक्षक तत्र भवे त्रि०।
तक्षण = न० तक्ष भावे–ल्युट्। (चा~चा) (छोला) व्यापारे “तक्षणं दारुशृङ्गास्थ्नां गोबालफलसम्भुवाम्” या० “दारवाणाञ्च तक्षणम्” मनुः।
तक्षणी = स्त्री तक्ष्यतेऽनया तक्ष–करणे ल्युट् ङीप्। वाश्याम् (वाइस) काष्ठतक्षणसाधने अस्त्रभेदे शब्दर०।
तक्षन् = पु० तक्ष–कनिन्। १ तष्टरि, वर्द्धकौ, “आप्तेन तक्ष्णा भिषजेव तक्षणम्” माघः। “तक्षोभयथा” शा० सू०। २ विश्वकर्मणि, च अमरः। ३ चित्रानक्षत्रे तस्य त्वष्टृदेवताकत्वात् तथात्वम् ४ तक्षणकर्त्तृमात्रे त्रि० स्त्रियां ङीप् उपधालोपे तक्ष्णी। ततः शिवा० अपत्ये अण् बलन्तत्वादुपधालोपः। ताक्ष्ण तक्ष्णोऽपत्ये पुंस्त्री०।
तक्षशिला = स्त्री भरतपुत्रतक्षनृपस्य राजधान्यां तक्षशिलानगरी अभिजनोऽस्य तक्षशि० अञ्। ताक्षशिल पित्रादिक्रमेण तन्नगरवासिनि त्रि० तक्षशिलाया अदूरभवादिः वरणा० चतुरर्थ्या० अञो लुक्। तक्षशिला तन्नगर्य्या अदूरभवादौ ब० व०। अनद्यान्तु चतुरर्थ्या० मध्वा० मतुप् मस्य वः। तक्षशिलावत् तत्पुरस्यादूरभवादौ नदीभिन्ने देशादौ त्रि० स्त्रियां ङीप्।
तक्षशिलादि = पु० सोऽस्याभिजन इत्यर्थे विहिताञ् प्रत्ययनिमित्ते पा० ग० सू० उक्ते शब्दगणे स च गणः “तक्षशिला वत्सोद्धरण कैर्मेदुरक ग्रामणी छगल क्रौष्टुकर्ण सिंहकर्ण संकुचित किन्नर काण्डधार पर्वत अवसान वर्वर कंस”।
तग = स्खलने कम्पे च अक० गतौ सक० भ्वा० सक० सेट् इदित्। तङ्गति अतङ्गीत् ततङ्ग तङ्गनम् तङ्गा तङ्गितः।
तगण = पु० छन्दोग्रन्थप्रसिद्धे अन्तलघुके आदिगुरुद्वयके त्रिवर्णात्मके गणभेदे। “सोऽन्तगुरुः कथितोऽन्तलघुस्तः” छन्दोम०।
तगर = पु० तस्य क्रोडस्य गरः गॄ–अच्। (टगर) इति १ वृक्षे शब्दर०। २ मदनवृक्षे राजनि०। कोङ्गणप्रसिद्धे (पिण्डतगर) ख्याते, ३ वृक्षे न० रत्नमा०। ४ तगरमूलजाते गन्धद्रव्ये न०। “कालानुसार्य्यं तगरं कठिनं लघु तन्मतम्। अपरं पिण्डतगरं दण्डहस्ति च वर्हणम्। तगरद्वयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम्। विषापस्मारमूर्द्धाक्षिरो गदोषत्रयापहम्” भावप्र० “प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च” भा० अनु० १०४ अ०। “तुल्यैः पत्र- तुरस्कबालतगरेगन्धः स्मरोद्दीपनः” वृ० स० ७७ अ०। तगरं पण्यमस्य कृसरा० ठन्। तगरिक तद्गन्धद्रव्यविक्रेतरि त्रि०। ४ आहुल्यकवृक्षे राजनि०।
तगरपादिक = न० तगरस्य पादो मूलमस्त्यत्र गन्धद्रव्ये ठन्। नन्द्यावर्त्ते गन्धद्रव्यभेदे शब्दार्थचि०।
तगरपादी = स्त्री तगरं गन्धद्रव्यभेदः पादेऽमूलेऽस्याः जातित्वात् ङीष्। तगरवृक्षे शब्दार्थचि०।
तङ्क = पु० तकि–भावे अच्। १ कृच्छ्रेण जीवने २ प्रियचिह्ने ३ तापे ४ भये भरतः!। कर्मणि–घञ्। ५ परिधानवसने रमानाथः।
तङ्कन = न० तकि–भावे ल्युट्। कृच्छ्रेण जीवने।
तच्छील = त्रि० तत् शीलं यस्य। स्वभावतः फलनिरपेक्षतया प्रवर्त्तमाने तत्स्वभावे जने। तदर्थे विहितः ठञ्। ताच्छीलिक तच्छीलार्थे पा० विहितप्रत्यये। “आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु” पा०।
तज्ज = त्रि० ततो जायते जन–ड। तस्मात् जाते।
तज्जलान् = त्रि० ततो जायते जन–ड तस्मिन् लीयते ली–ड तेनानिति अन–विच् द्वन्द्वात् पूर्वं श्रुतस्य तच्छव्दस्य प्रत्येकसम्बन्धेन यथायथं विभक्त्यन्ततयान्वयः। तस्माज्जाते तस्मिन् लीने तेन स्थिते पदार्थे च। “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” छा० उ०। तज्जलान्, तज्जत्वात् तल्लत्वात् तदनत्वाच्चेति” शाङ्करभा०।
तज्वी = स्त्री तं निन्दितं जवते जु–क्विप् गौरा० ङीष्। हिङ्गुपत्र्यां राजनि०।
तट = उच्छ्राये भ्वा० पर० सक० सेट्। तटति अताटीत्–अतटीत्। तताट तेटतुः। तटम्।
तट = आहतौ चु० उभ० सक० सेट्। ताटयति–ते अतीतटत् त।
तट = त्रि० तट–अच्। १ कूले नद्यादेस्तीरे अमरः। तीरभूमेश्च नद्याःप्रवाहात् उच्छ्रितत्वात् तथात्वम्। “सिन्धोस्तटावोघ इव प्रवृद्धः” कुमा०। स्त्रियां ङीप्। “मालञ्चञ्च श्मशानञ्च नद्यादीनां तटी तथा” सा० द०। २ उच्चक्षेत्रे न० मेदि०। “निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरः” सा० द०। स्तमः तटमिव उप० स०। ३ शिवे पु० तस्य सर्वोच्छितत्वात् तथात्वम् “नमस्तटाय तट्याय तटानां पतये नमः” भा० शा० २८५ अ०। ४ उच्छ्रिते त्रि०।
तटग = पु० तडाग + पृषो० तडागे द्विरूपको०।
तटस्थ = त्रि० तटे समीपे तिष्ठति स्था–क। १ समीपस्थे २ वादिप्रतिवादिभावानापन्ने उदासीने च “तटस्थः शङ्कते” जागदीश्यादौ भूरिप्रयोगः। ३ लक्षणविशेषे यावल्लक्ष्य- कालमनवस्थितत्वे सति इतरव्यावर्त्तके विशेषणे यथा पृथिव्या गन्धवत्त्वं तटस्थलक्षणम् उत्पत्तिकाले प्रलये च लक्ष्यस्थितावपि तत्काले गन्धस्यानवस्थानात् तथात्वम्। यथा वां व्रह्मणो जगत्कर्वृत्वादिकम् तस्य प्रलयादौ लक्ष्यकाले अनवस्थानात् तथात्वम्। “स्वरूपं तटस्थं द्विधा लक्षणाभ्याम्। स्वरूपेऽप्रविष्टात् स्वरूपे प्रंविष्टात्। यथा काकवन्तो गृहाः खं विलञ्च” वेदान्तका०। वेदा० प० अस्य विवृतिर्यथा
“तत्र लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणञ्चेति। तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् यथा सत्यं ज्ञानमनन्तं ब्रह्मणः स्वरूपलक्षणम्। ननु स्वस्य स्ववृत्तित्वाभावेन कथं लक्षणत्वमिति चेन्न स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात्। तदुक्तं विवरणे “आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते इति”। तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्त्तकं तदेव यथा गन्धवत्त्वं पृथिवीलक्षणम्। महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात्। प्रकृते च जगज्जन्मादिकारणत्वम्। अत्र जगत्पदेन कार्य्यजातं विवक्षितम्। कारणत्वञ्च कर्त्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः। कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम्। ईश्वरस्य ताबदुपादानगोचरापरोक्षज्ञानसद्भावे च “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते” इत्यादिश्रुतिर्मानम्। तादृशचिकीर्षासद्भावे च “सोऽकामयत बहुस्यां प्रजायेयेति” श्रुतिर्मानम्। तादृशकृतौ च “तन्मनोऽकुरुतेत्यादि” वाक्यम्। ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणत्वापत्तेः। अतएव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षर्ण प्रवेशः। एवञ्च लक्षणानि नव सम्पद्यन्ते। ब्रह्मणो जगज्जन्मादिकारणत्वे च “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्तीत्यादि” श्रुतिर्मानम्। यद्वा निखिलजगदुपादानत्वं व्रह्मणो लक्षणम्। उपादानत्वञ्च जगदध्यासाधिष्ठानत्वं जगदाकारेण परिणममानमायाधिष्ठानत्वं वा। एतादृशमेवोपादानत्वमभिप्रेत्य “इदं सर्वं यदयमात्मा सच्चासच्चाभवत् बहु स्यां प्रजायेयेत्यादि श्रुतिषु व्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः” तटस्थिते त्रि०।
तटाक = पु० तट–बा० आकन्। तडागे पद्मादियुक्तसरसि शब्दर०।
तटाघात = पु० तटे आघातः। वृषादिभिः शृङ्गादिभिर्भूभागोत्खननरूपवप्रक्रीडायाम् शब्दार्णवः। “अभ्यस्यन्ति तटाघातं निर्जितैरावताः गजाः” कुमा०। “कैलासतटाघातधातुधूलिपटलमिव हरवृषभम्” काद०।
तटिनी = स्त्री तटमस्त्यस्या इनि ङीप्। नद्याम् अमरः।
तट्य = पु० तटमुच्छ्रायमर्हति यत्। शिवे “नमस्तटाय तट्याय” भा० शा० २८६ अ० शिवसहस्रनाम।
तड = दीप्तौ अक० आहतौ सक० चु० उभ० सेट्। ताडयति ते अतितडत् त। “लालयेत् पञ्च वर्षाणि दश वर्पाणि ताडयेत्” चाणक्यः “शिष्ट्यर्थं ताडयेत्ततः” मनुः ताडना। ताडनम् ताडितः। “श्रोतुर्वितन्त्रीरिव ताड्यमाना” कुमा०। “दुन्दुभिस्ताडितोऽसौ” वेणीसं०।
तड = आहतौ भ्वा० आत्म० सक० सेट् इदित्। तण्डते अतण्डिष्ट। ततण्डे।
तडाक = पु० तड–आहतौ पिनाकादयश्च” उणा० आक। १ तडागे। तड–दीप्तौ आक। २ दीप्तौ स्त्री उज्ज्वलद०।
तडाग = पु० जलैराहन्यते तड–आघाते “तडागादयश्च” उणा० नि० आग १ यन्त्रकूटके शब्दार्थचि० २ जलाधारभेदे पद्माकरे अमरः। अर्द्धर्चा० “प्रशस्तभूमिभागस्तो बहुसंवत्सरोषितः। जलाशयस्तडागः स्यादित्याहुः शास्त्रकोविदाः” शब्दार्थचि०। ३ पञ्चशतधनुःपरिमिते जलाशये च यथा “चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरभ्। शतधन्वन्तरञ्चैव तावत् पुष्करिणी शुभा। एतत् पञ्चगुणः प्रोक्तस्तडाग इति निर्णयः” नव्यवर्द्धमानधृतो वशिष्ठः। तदुत्सर्गविधिः मत्स्यपु० ५८ अ० उक्तो यथा “प्राप्य पक्षं शुभं शुक्लमतीते (प्राप्ते) चोत्तरायणे। पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्। प्रागुदक्प्रवणे देशे तडागस्य समीपतः। चतुर्हस्तां शुभां वेदिं चतुरस्रां चतुर्मुखाम्। तथा षाडशहस्तः स्यान्मण्डपश्च चतुर्मुखः। वेद्याश्च परितो गर्तारत्निमात्रास्तु मेखलाः। नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज!। वितांस्तमात्रा योनिः स्यात् षट्सप्ताङ्गुलिविस्तृता। गर्ताश्चतस्रः शस्ताः स्युस्त्रिपर्वोच्छ्रितमेखलाः। सर्वतस्तु सवर्णाः (लोकपालवर्णाः) स्युः पताका ध्वजसंयुताः। अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु। मण्डपस्य प्रातदिशं द्वाराण्येतानि कारवेत्। शुभास्तत्राष्ट होतारो द्वारपाला स्तथाष्ट वै। अष्टौ तु जापकाः कार्य्याः ब्राह्मणा वेदपारगाः। सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः। कुलशील- समायुक्तः पुरोधाः स्याद्द्विजोत्तमः। प्रतिगर्त्तेषु कलशा यज्ञोपकरणानि च। व्यजनञ्चामरे शुभ्रे ताम्रपात्रे सुविस्तृते। ततस्त्वनेकवर्णाः स्युश्चरवः प्रतिदैवतम्। आचार्य्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः। त्र्यरत्निमात्रो यूपः स्यात् क्षीरवृक्षविनिर्मितः। यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता। हेमालङ्कारिणः कार्य्याः पञ्चविंशती ऋत्विजः। कुण्डलानि च हैमानि केयूरकटकानि च। अङ्गुलीयं पवित्राणि वासांसि विविधानि च। पूजयेत्तु संमं सर्वान् आचार्यं द्विगुणैः पुनः। दद्याच्छयनसंयुक्तमात्मनश्चापि यत् प्रियम्। सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ। ताम्रौ कुलीरमण्डूका वायसः शिशुमारकः। एवमासाद्य तत्सर्वमादावेव विशाम्पते!। शुक्लमाल्याम्बरधरः सर्वौषध्युदकैस्ततः। संपूर्णैः कलसैस्तत्र स्नपितो वेदपारगैः। यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः। पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम्। ततो मङ्गलशब्देन भेरीणां निस्वनेन च। अञ्जसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित्। षोडशारन्ततश्चक्रं पद्मगर्भं चतुर्मुखम्। चतुरस्रञ्च परितो वृत्तं मध्यें सुशोभनम्। वेद्याश्चोपरि तत् कृत्वा ग्रहान् लोकपतींस्ततः। संन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः। कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः। ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद् बुधः। विनायकञ्च विन्यस्य कमलामम्बिकां तथा। शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः। पुष्पभक्ष्यफलैर्युक्तमेयं कृत्वाधिवासनम्। कुम्भान् सजलगर्भांस्तान् वासोभिः परिवेष्टयेत्। पुष्पगन्धैरलङ्कृत्य द्वारपालान् समन्ततः। पठध्वमिति तान् ब्रूयादाचार्यस्त्वभिपूजयेत्। वह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ। सामगौ पश्चिमे तद्वदुत्तरेण त्वथर्वणौ। उदङ्मुखो दक्षिणतो यजमान उपाविशेत्। यजध्वमिति तात् ब्रूयाद् हौत्रिकान् पुनरेव तु। उत्कृष्टान् मन्त्रजापेन तिष्ठध्वमिति जापकान्। एवमादिश्य तान् सर्वान् पर्युक्ष्याग्निं स मन्त्रंवित्। जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा। ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः। ग्रहेभ्यो विधिवद् हुत्वा तथेन्द्रायेश्वराय च। मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे। रात्रिसूक्तञ्च रौद्रञ्च पावमानं सुमङ्गलम्। जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचाः पृथक्। शाक्रं रौद्रञ्च सौम्यं च कूष्माण्डं जातवेदसम्। सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः। वैराज्यं पौरुषं सूक्तं सौपर्णं रुद्रसंहिताम्। शैशवं पञ्च निधनं गायत्रं ज्येष्ठसाम च। वामदेव्यं वृहत्साम रौरवं सरथन्तरम्। गवां व्रतं च काण्वञ्च रक्षोघ्नं वयसस्तथा। गायेयुः सामगा राजन्! पश्चिमं द्वारमाश्रिताः। अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा। जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम्। पूर्वेद्युरभितो रात्रावेवं कृत्वाधिवासनम्। गजाश्वरथ्यावल्भीकात् सङ्गमाद्ध्रदगोकुलात्। मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा। रोचनाञ्च ससिद्धार्थां गन्धं गुग्गुलुमेव च। स्नपनं तस्य कर्त्तव्यं पञ्चभङ्ग(पल्लव) समन्वितम्। प्रत्येकन्तु महामन्त्रैरेवं कृत्वा विधानतः। एवं क्षपामतिवाह्य विधियुक्तेन कर्मणा। ततः प्रभाते विमले सञ्जातेऽथ शतं गवाम्। ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च वा पुनः। पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ। ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने। वेदशब्दैश्च गान्धर्वैर्वाद्यैश्च विविधैः पुनः। कनकालङ्कृतां कृत्वा जले गामवतारयेत्। सामगाय च सा देया ब्राह्मणाय विशाम्पते!। पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम्। ततो निःक्षिप्य मकरमत्स्यादींश्चैव सर्वशः। धृतां चतुर्विधैर्विप्रैर्वेदवेदाङ्गपारगैः। महानदीजलोपेतां दध्यक्षतसमन्विताम्। उत्तराभिमुखीं धेनुं जलमध्ये तु तारयेत्। आथर्वणेन स्नातां पुनर्गामेत्वथेतिं च। आपोहिष्ठेति मन्त्रेण क्षित्वागत्य च मण्डपम्। पूजयित्वा सरस्तत्र बलिं दद्यात् समन्ततः। पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः!। चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः। दक्षिणा राजशार्दूल! वरुणक्षमापणं ततः। कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च। ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत् पुनः। हेमपात्रीञ्च शय्याञ्च स्थापकाय निवेदयेत्। ततः सहस्रं विप्राणामथ वाष्टशतं तथा। भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः। एवमेष पुराणेषु तडागविधिरुच्यते। कूपवापीषु सर्वासु तथा पुष्करिणीषु च। एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव। मन्त्रतस्तु विशेषः स्यात् प्रसादीद्यानभूमिषु। अयन्त्वशक्ताबर्द्धेन विधिर्दृष्टः स्वयम्भुवा। अल्पेष्वेकाग्निवत् कृत्वा वित्तशाठ्यादृते नृणाम्। पावृट्काले स्थिते तोये ह्यग्निष्टीमफलं स्मृतम्। शरत्काले स्थितं यत् स्यात् तदुक्तफलदाय- कम्। वाजपेयातिरात्राभ्यां हमन्ते शिशिरे स्थितम्। अश्वमेधसमं प्राह वसन्तसमये स्थितम्। ग्रीष्मेऽपि तत् स्थितं तोयं राजसूयाद्विशिष्यते। एतान् महाराज! विशेषधर्मान् करोति योऽप्यागमशुद्धबुद्धिः। स याति रुद्रालयामाशु पूतः कल्पाननेकान् दिवि मोदते च। अनेकलोकान् समहस्तपादीन् भुक्त्वा परार्द्धद्वयमङ्गनाभिः। सहैव विष्णोः परमम्पदं यत् प्राप्तोति तद्यागफलेन भूयः”। जलाशयखननारम्भनक्षत्रादि मु० चि० पी० उक्तं यथा “मित्रार्कध्रुववासवाम्बुपमघातोयान्त्यपुष्येन्दुभिः पापैर्हीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ। आप्ये सर्वजलाशयस्य खननम्” मु० चि०। “मित्रोऽनुराधा अर्को हस्तः ध्रुवं रोहिण्युत्तरात्रयं वासवं धनिष्ठा अम्बुपः शततारका तोयं पूर्वाषाढा अन्त्यं रेवती पुष्यः इन्दुर्मृगः एतैर्नक्षत्रैस्त्रयोदशभिः सर्वेषां जलाशयानां वापीकूपतडागनाम्नां तोयाधाराणां खननं शुभमुक्तम् उक्तञ्च व्यवहारतत्त्वे “आप्याम्बुपान्त्य पितृमित्रवसूत्तरार्ककेन्द्वीज्यभेषु खननं सलिलाश्रयाणामिति”। कः ब्रह्मा तद्देवताकत्वेनाभेदात् रोहिणी। अथ जलाशयखनने लग्नविचारः पापैः पापखगैर्बलरहितैः सद्भिः, तनौ लग्ने सुरगुरौ वृहस्पतौ ज्ञे बुधे स्थिते सतीत्यर्थः लग्नात् खे दशमस्थाने भृगौ शुक्रे, आप्ये जलचरराशौ विधौ सति जलाशयखेननं हितं उक्तञ्च रत्नमालायाम् “लग्ने जीवे ज्ञेऽथ वा दुर्बलैश्च क्रूरैः शुक्रे चापि मेषुरणस्थे। आप्ये चन्द्रे सर्वतीयाश्रयाणामारम्भाः स्युः सिद्धये निर्विकल्पम्”। कश्यपेनाप्युक्तम् “गुरौ ज्ञे वा लग्नगते शुक्रे कर्मगते, विधौ। आप्यभे जलकार्य्याणामारम्भः सिद्धिदः स्मृतः” इति। दीपिकायान्तु विशेषः “पुष्ये मित्रकरोत्तरस्ववरुणब्रह्माम्बुपित्र्येन्दुभिःशस्तेऽर्के शुभवारयोगतिथिषु क्रूरेष्ववीर्य्येषु च। पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदये प्रारम्भः सलिलाशयस्य शुभदोजीवेन्दुपुत्रोदये। स्वं धनिष्ठा। अन्ये तु वापीकूपतडागानामाकृतिभेदात्प्रत्येकं भिन्नानि नक्षत्राण्युक्तानि। तत्र वापीखननमाह ऋक्षोच्चयः “स्वात्यश्विपुष्यहस्तेषु सर्वदा च पुनर्वसौ। रेवत्यां वारुणे चैव वापीकर्म प्रशस्यते”। कूपारम्भमाह श्रीपतिः “हस्तः पुष्यो वासवं वारुणञ्च मैत्रं पित्र्यं त्रीणि चैवोत्तराणि। प्राजापत्यञ्चापि नक्षत्रमाहुः कूपा- रम्भे श्रेष्ठमाद्या मुनीन्द्राः”। तडागारम्भमाह वसिष्ठः “मैत्रेन्दुपौष्णोत्तररोहिणीषु देवेज्यवारीश्वरवारिभेषु। प्रारम्भणं सर्वजलाशयानां कार्यं सितेन्द्वंशकवारलग्ने”। अत्र वापीकूपनक्षत्राणां पार्थक्येनाभिधानात् तडागारम्भार्थमिदं वचनमवसीयते बहुवचनमाश्रयाभिप्रायेण सर्वशब्दोपादानं छन्दःपरिपूरणार्थं तत्र कूपतडागनक्षत्रेषु सदृशनक्षत्रत्यागावशिष्टानां मेलने त्रयोदश नक्षत्राणि भवन्ति तत्र संक्षेप्तुकामेन व्यवहारतत्वकर्त्रा सर्वजलाशयानामारम्भे सामान्यतो जलाशयत्वसाधर्म्यादेतानि त्रयोदश भान्युक्तानि तान्येव च ग्रन्थकर्त्रोक्तानि। तत्र वापीकूपतडागानां भेदो लोकप्रसिद्ध एव यत्तु पुनर्वसिष्ठेनोक्तं “शशाङ्कतोयेशकरार्यमित्रध्रुवाम्बुपित्र्ये वसु रेवतीषु। उद्यानवाप्यादितडागकूपकार्याणि सिद्ध्यन्ति जलं ध्रुवं स्यात्”। तज्जीर्णोद्धारविषयं प्रागुक्तवाक्ये प्रारम्भणपदोपादानान्न नूतनखननविषयमिति पुनरुक्ति परिहारः।” पी० धा०। अधिकं जलाशयोत्सर्गशब्दे ३०७५ पृष्ठादावुक्तम्। अत्र राहुसाम्मुख्यनिषेधः मु० चि० पी० उक्तो यथा “देवालये गेहविधौ जलाशये राहोर्मुखं शम्भुदिशो विलोमतः। मीनार्कसिंहार्कमृगार्कतस्त्रिभे खाते मुखात् पृष्ठविदिक् शुभा भवेत्”। मु० चि०।
“देवालये इति। अत्र यथासङ्ख्यं सम्बन्धः। देवालयप्रारम्भे राहोर्मुखं मीनार्कतस्त्रिराश्यवस्थिते सूर्य्ये ऐशानीतो विलोमतो विपरीतं विदिक्षु वायव्यादिषु राहोर्मुखं स्यात् यथा मीनमेषवृषराश्यवस्थिते सूर्य्ये राहोर्मुखम् ऐशान्याम्। मिथुनकर्कटसिंहराश्यवस्थिते सूर्य्ये वायव्यां राहुमुखम्। कन्यातुलावृश्चिकस्थे सूर्य्ये नैरृत्यां राहुमुखम्। धनुर्मकरकुम्भराश्यवस्थे सूर्य्ये आग्नेय्यां राहोर्मुखम् इत्यर्थः। एवं गृहारम्भेऽपि सिंहार्कतस्त्रिराश्यवस्थितेऽर्के विलोमतः ऐशान्यां राहुमुखम्। वृश्चिकादित्रये वायव्यां कुम्भादित्रये नैरृत्याम्। वृषादित्रये आग्नेय्यां राहुमुखं स्यात्। जलाशयारम्भेऽपि मकरार्कतस्त्रिराश्यवस्थेऽर्के विलोमतः ऐशान्यां राहुमुखं स्यात्। मेषादितः त्रिभिर्वायव्याम्। कर्कादितस्त्रिभिर्नैऋत्याम्। तुलादितस्त्रिभिः आग्नेय्यां राहुमुखं स्यादित्यर्थः। फलमाह खात इति। देवालयादिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखाक्रान्तदिशः सकाशात् पृष्ठवर्तिनी दिक् शुभा भवेत् यथा देवालयविषये मीनादित्रिराशिस्थितसूर्य्यत्वेन ऐशान्यां राहुमुखम्। तत्पृष्ठविदिक् आग्नेयी तस्यां प्रथमखातप्रारम्भः शुभद इत्यर्थः। मिथुनादिराशित्रयस्थे सूर्य्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यां खातारम्भः शुभः। एवं सर्वत्र। तथैव गृहविधौ अपि राहुमुखं कस्यां दिश्यस्ति इत्यवधार्य तत्पृष्ठविदिशि खातः शुभफल इत्यर्थः। यतः। सर्पेण विदिक् व्याप्ता। यथा। ऐशान्यां मुखम्। वायव्यामुदरम्। नैरृत्यां पुच्छम् आग्नेस्यां पृष्ठम्। अतः खाते आग्नेयी सम्यक्। एवमन्यत्राप्यूहनीयम् यदाह विश्वकर्मा “ईशानतः सर्पति कालसर्पो विहाय सृष्टिं गणयेद्विदिक्षु। शेषस्य वास्तोर्मुखमध्यपुच्छं त्रयं परित्यज्य खनेच्चतुर्थम्” इति। ज्योतिश्चिन्तामणौ “वृषार्कादित्रिकं वेद्यां सिंहादि गणयेद्गृहे। देवालये च मीनादि तडागे मकरादिषु”। तदारम्भतदुत्सर्गौ च समयाशुद्धौ न कार्य्यौ कालाशुद्धिशब्दे तत्प्रमाणं दृश्यम् “एतेनाखानि शाखानवनिवह हरित्पर्णपूर्णद्रुमाली व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः” नैष०।
तडाघात = पु० “उच्चैः करिकराक्षेपे तडाघातं विदुर्बुधाः” इत्युक्ते तटाघाते वप्रक्रीडायाम् शब्दकल्पद्रुमः। तच्चिन्त्यं तत्र वाक्ये तटाघातमित्येव पाठः तडेति पाठः लिपिकरप्रमादकृतः।
तडि = पु० तड–आघाते भावादौ इन्। १ आघाते २ तत्कर्त्तरि त्रि०।
तडित् = स्त्री ताडयत्यभ्रम् चुरा० तड–इति नि० ह्रस्वः। १ विद्युति अमरः। “जलदास्तडित्तुलितकान्तकार्त्तस्वराः” “घनं घनान्ते तडितां गुणैरिव” माघः। “योगस्तडित्तोयदयोरिवास्तु” रघुः। तडित्सम्भवादिस्तु “सुजलजलधिमध्ये वाडवोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्नादुत्थिता धूममालाः। वियति पवननीताः सर्वतस्ता द्रवन्ति द्युमणिकिरणदीप्ताविद्युतस्तत्स्फुलिङ्गाः”। “अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम्। वात्यावद्भ्रमदाघाते प्रतिकूलानुकूलयोः। वाय्वोस्तत् पतति प्रायो ह्यकालप्राज्यवर्षणे। यतः प्रावृषि नैवेते पांसवः प्रसरन्ति हि। तत् त्रेधा पार्थिवं चाप्यं तैजसं तडिदुत्थितम्। ततो निर्झरदाहैश्च मूमिस्थैरनुभूयते” सि० शि० टीका। २ अन्तिके निघण्टुः ३ हिंसायां निघण्टुः “तडित् आखण्डनेत्युषक्रमे “त्रयस्त्रिशत्बधकर्माणः” इति तदुक्तेः
तडित्प्रभा = स्त्री तडितः प्रभेव प्रभा यस्याः। कुमारानुचमातृभेदे। “केशयन्त्री त्रुटिनामा क्रोशनाऽथ तडित्प्रभा” भा० शल्य० ४७ अ० कुमारानुचरमातृगणोक्तौ। २ तडित्तुल्यदीप्तियुते त्रि०।
तडित्वत् = पु० तडित् विद्यतेऽस्य मतुप् मस्य वः तान्तत्वेन अपदान्तत्वात् न तस्य दः। १ मेधे “चलिताचलवर्षमाणा गम्भीरविराविणस्तडित्वन्तः” वृ० स० ३२ अ० २ मुस्तके च अमरः। ३ तडिद्विशिष्टे त्रि० स्त्रियां ङीप् “समुदितन्निचयेन तडित्वतीम्। लघयता शरदम्बुदसंहतिम्” किरा०।
तडिद्गर्भ = पु० तडितो गर्भेऽस्य। मेघे “तडिद्गर्भ ऋतवः समुद्राः” श्वेताश्व० उप० ४ अ०।
तडिन्मय = त्रि तडिदात्मकः तडित् + मयट्। तडित्स्वरूपे “तडिन्मयैरुन्मिषितैर्विलोचनैः” कुमा०।
तण्ड = पु० तडि–अच्। १ ऋषिभेदे तस्य गोत्रापत्यम् गर्गा० यङ्। ताण्ड्य तद्गोत्रापत्ये पुंस्त्री०। यूनि फक्। ताण्ड्यायन तदीये यून्यपत्ये पुंस्त्री०। तण्डशब्दस्य वतण्डशब्देन समं द्वन्द्वे कीर्त्तकौजपा० पूर्वपदप्रकृतिस्वरः। भावे अ। २ आहतौ स्त्री।
तण्डक = पुंस्त्री० तडि–ण्वुल्। १ खञ्जने, स्त्रियां ङीष्। २ फेने, ३ समासप्राये वाक्ये, ४ गृहदारुणि, ५ तरुस्कन्धे च न० मेदि० ६ मायाबहुले, उपघातके त्रि० परिष्कारे पुंन० शब्दार्थचि०।
तण्डि = पु० कृतयुगोत्पन्ने ऋषिभेदे तत्कथा भा० आनु० १५ अ०। “ऋषिरासीत् कृते तात! तण्डिरित्येव विश्रुतः दश वर्षसहस्राणि तेन देवः समाधिना। आराधितोभूद्भक्तेन तस्योदर्कं निशामय” इत्यादिका। महादेववराच्च तत्सुतस्य यजुर्वेदीयताण्डिनशाखाभेदे कल्पसूत्रकर्तृतेति तत्रैव १६ अ० उक्तं यथा “अक्षयश्चाव्ययश्चैव भविता दम्भवर्ज्जितः। यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः। ऋषीर्णामभिगम्यश्च सूत्रकर्त्ता सुतस्तव। मत्प्रसादाद्द्विजश्रेष्ठ! भविष्यति न संशयः” “सूत्रकर्त्ता ताण्डिन इति यजुर्वेदे शाखाविशेषस्तत्र कल्पसूत्रकर्त्तेति” नीलकण्टः।
तण्डु = पु० शिवद्वारपालभेदे नन्दिकेश्वरे “नन्दी भृङ्गरिटस्तण्डु नन्दिनौ नन्दिकेश्वरः” मल्लिनाथधृतकोषः।
तण्डुरीण = पु० तण्डा + अस्त्यर्थे उरच् तत्र भवः ख। १ कीटमात्रे २ वर्वरे त्रि० तण्डुले भवः ख रस्य लः। ३ तण्डुलोदके न० मेदि०।
तण्डुल = पुंन० तडि–उलच्। निस्तुषधान्ये। “शस्यंक्षेत्रगतं प्रोक्तं सतुषं घान्यमुच्यते। निस्तुषस्तण्डुलः प्रोक्तः स्विन्नमन्नमुदाहृतम्” आ० त०। “शालितण्डुलप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम्। सूर्य्याय चरुकं दत्त्वा सप्तम्याञ्च विशेषतः। यावन्तस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया। तावद्वर्षसहस्राणि सूर्य्यलोके महीयते” ति० त०। “तण्डुलो मेह जन्तुघ्नः स नवस्त्वतिदुर्जरः”। वैद्य० “भ्रष्टस्तु तण्डुलो रूज्ञो सुगन्धिः कफनाशनः। पित्तकारी स विज्ञेयः” राजव०। तस्य किण्वशब्देन समा० राजद० पूर्वनि०। हीरकस्य २ मानभेदे “सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैस्तु विंशत्या” वृ० स० ८० अ०।
तण्डुलपरीक्षा = स्त्री तण्डुलेन परीक्षा। दिव्यभेदे तद्विधानं वीरमि० उक्तं यथा पितामहः “तण्डुलानां प्रवक्ष्यामि विधिम्भक्षणचोदितम्। चोर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः” इति। चौर्य्यग्रहणमर्थविवादप्रदर्शनार्थम् “तदर्थार्थस्य तण्डुलाः” इति घनविवादे कात्यायनेनोक्तत्वात्। पूर्वेद्युर्यत्कर्त्तव्यं तत् सएवाह “तण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित्। मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः। स्नानोदकेन सम्मिश्रान् रात्रौ तत्रैव वासयेत्। आवाहनादिपूर्वन्तु कृत्वा रात्रौ विधानतः” इति। शुचिः प्राड्विपाकः सूर्य्यस्थाने धर्माबाहनादिहोमान्तं सर्वदिव्यसाधारणविधिं कृत्वा आदित्यस्नानोदकेन शुक्लान् शालितण्डुलानाप्लाव्य रात्रावेवं कृत्वा तथैव प्रातःकालपर्य्यन्तं स्थापयेदित्यर्थः। स्नानोदकं देवताया इत्याह कात्यायनः “देवतास्नानपानीयं दिग्धतण्डुलभक्षणे” इति। प्रातः कर्त्तव्यमपि स एवाह “प्रभाते कारिणे देया आदित्याभिमुखाय त्विति”। कारिणे शोध्याय। देयाः तण्डुला इत्यनुषङ्गः। भक्षणञ्च सोपवासेन सूर्य्यालयमध्य एव कर्त्तव्यमित्याह वृहस्पतिः “सोपवासः सूय्यगेहे तण्डुलान् भक्षयेच्छुचिरिति”। शोध्यानुष्ठेयमनुवादव्याजेन दर्शयति पितामहः “प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम्। तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः” इति। भक्षयित्वा भक्षणं कारयित्वा हेतुमतोणिजन्तस्य भक्षेरयं प्रयोगः। पत्रे विशेषं स एवाह “भुर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य त्विति”। शुद्ध्यशुद्यवधारणोपायं स एवाह “शोणितं दृश्यते यस्य हनुस्तालु च शीर्यते। गात्रञ्च कम्पते यस्य तमशुद्धं विनिर्दिशेत्” इति। वृहस्पतिरपि “शुद्धः स्याच्छुक्लनिष्ठीवी रक्तमिश्रे तु दोषभागिति”। कात्यायनोऽपि “शुक्लनिष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथेति”। “अपोग्निरुदकञ्चैव विषङ्कोषस्तथैव च। तण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः।” इति पितामहस्मृतिः। “तण्डुलाश्चैव कोषश्च शङ्कास्वेव न संशयः” इति मिताक्षराधृतस्मृतिः।
तण्डुला = स्त्री ताडि–उलच् नि० नुट् हस्वश्च। २ महासमङ्गायाम् २ विडङ्गे च राजनि०। ३ तण्डुलीयशाके यवतिक्तायां स्त्री ४ शशाण्डुल्याम् स्त्री राजनि० गौरा० ङीष्।
तण्डुलाम्बु = न० तण्डुलक्षालितमम्बु–शा० त०। तण्डुलक्षालनोदके (चेलुनि) तण्डुलोदकादयोऽप्यत्र। “जलमष्टगुणं दत्त्वा दत्त्वा पलं कण्डितण्डुलात्। भावयित्वा ततो देयं तण्डुलोदककर्मणि” वैद्यकपरिभाषा।
तण्डुलिकाश्रम = पु० न० तीर्थभेदे जम्बूमार्गादपावृत्य गच्छेत्तण्डुलिकाश्रमम्। न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति” भा० व० ८२ अ०। नण्डूलिकाश्रममिति दीर्घपाठः क्वाचित् कः, स च लिप्तिकरप्रमादकृत इत्यन्ये।
तण्डुलीक = पु० तण्डुलीयक + पृषो० यलीपः। तण्डुलीयक शाके शब्दरत्ना०।
तण्डुलीय = पु० तण्डुलाय तद्भक्षणाय हितं छ। (क्षुद्रनटे) (चा~पानटे) १ शाकभेदे २ विडङ्गे च। स्वार्थे क। तण्डुलीयक उक्तशाके अमरः। “तण्डुलीयो मेघनादः केन्दरन्तण्डुलेरकः। भाण्डीरस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः। तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित्। सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः”। तद्भेदः जलतण्डुलीयं शास्त्रे कञ्चटमिति प्रसिद्धम्। पानीयतण्डुलीयो यस्तत्कञ्चटमुदाहृतम्। कञ्चटं तिक्तकं रक्तपित्ता निलहरं लघु” भावप्र० स्वार्थे के कापि अत इत्त्वम्। तण्डुलीयिका विडङ्गे स्त्री राजनि०। तण्डुलीवीजोऽप्युक्तशाके पु० भावप्र०।
तण्डुलु = पु० तण्डुल + पृषो०। विडङ्गे शब्दर०।
तण्डुलेर = पु० तण्डुल + स्वार्थे बा० ढ्र। तण्डुलीयकशाके हेमच०।
तण्डुलोत्य = तण्डुलात् तत्क्षालनादुत्तिष्ठति उद् + स्था–क। (चेलुनि) तण्डुलाम्बुनि राजनि०। तण्डुलाम्बुशब्दे दृश्यम्।
तण्डुलौघ = पु० तण्डुलानामोघ इव। (वेडबा~स) १ वेष्टवंशे शब्दच० ६ त०। २ तण्डुलसमुदाये च।
तत् = त्रि० तन + क्विप् अन्त्यलोपे तुक्। विस्तारवे अमरः। परीतत् मुग्ध०।
तत = न० तन–क्त। १ वीणादिवादो अमरः २ विस्तारिते ३ व्याप्ते च त्रि०। ४ वायौ पु० मेदि०। भावे क्त। ५ विस्तारे ६ सन्ताने च न०। तन्यते अन्वयोऽस्मात् तननाम्नि अपादाने कर्मणि वा क्त तक् वा। ८ पितरि ९ पुत्रे च पु०। “कारुरहं ततो भिषक्” ऋ० ९। ११२। ३ तत इति सन्ताननाम तन्यतेऽस्मात् ततः पिता तन्यतेऽसौ ततः पुत्रो वा” भा० इमामृचमधिकृत्य। तत इति सन्तानस्य नाम पितुर्वा पुत्रस्य वा” निरु०। “सततमृषभहीनं मिन्नकीकृत्य षड्जम्” माघः। “सततं वीणादिवाद्य सहितम्” मल्लि०। “सहोबाच पितरं तत! कस्मै मां दास्यसीति” कटो०। “हे तत! हे तात!” भा० “यस्य निश्वसितं वेदा येन सर्वमिदं ततम्” माघवः। ततं विस्तारितं व्याप्तं वेत्यर्थः।
ततनुष्टि = पु० ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान् वा नुद–डु वश–क्तिच् कर्म० शक०। १ धर्मसन्ततिनोदकधर्मसन्ततिकामुके। “अपाप शक्रस्तुतनुष्टिमूहति” ऋ० ५३४। ३ ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान् ततनुष्टिः” भा० निरुक्ते अन्यथा निरुक्तं यथा “शक्रस्तितनिषुं धर्मसन्तानादपेतमलङ्करिष्णुम् ६। १९। तेन २ तदर्थे च।
ततपत्री = स्त्री ततं पत्रं यस्याः जातित्वात् ङीष्। कदल्याम् शब्दच०।
ततम = त्रि० तेषां मध्ये एकस्य निर्द्धारणे तद् + डमच्। तेषां मध्ये निर्द्ध्हारिते एकस्मिन् “एतमेव पुरुषं ततममपश्यत्” ऐत० उ०।
ततर = त्रि० तयोर्मध्ये एकस्य निर्द्धारणे तद् + डतरच्। तयोर्मध्ये निर्द्धारिते एकस्मिन्।
ततस् = अव्य० तद् + सार्वविभक्तिस्तसिल्। तस्मादित्याद्यर्थे “ततस्ततस्त्या विनियन्तुमक्षमाः” माघः। प्रथमार्थे ततो भवान्। द्वितीयार्थे तत्रभवन्तम्। सप्तम्यर्थे ततस्त्या तृतीयार्थे “यतोयतः षट्चरणोऽभिवर्त्तते ततस्ततः प्रेरितवामलोचना” शकु०। हेतुभूतयो र्द्वयोर्मध्ये एकस्यातिशये आमु तरप् च। ततस्तराम् विग्रहोक्तार्थे हेतुभूतानां बहूनां मध्ये एकस्यातिशये आमु तमप्च” ततस्तमाम् विग्रहोक्तार्थे अव्य०।
ततस्त्य = त्रि० ततस्तत्र भवः त्यप्। तत्र भवे “ततस्ततस्त्या विनियन्तुमक्षमाः” माघः।
ततामह = पु० ततस्य पितुः पिता “पितरि डामहः” इत्यत्र पितृशब्दस्यार्थपरत्वं न स्वरूपपरत्वम्। पितामहे “अस्माकं तावकानमवनतानां ततामह। तव चरणयुगलध्यानबद्ध हृदयनिगडानाम्” भाग० ६। ९। ३९ क्वचित् पुस्तके ततामहेत्यत्र तततत इत्येव पाठः। सोऽपि तदर्थे एव।
तति = स्त्री तन–क्तिन्। १ श्रेणौ हेमच०। २ समूहे च। “विश्रब्धं क्रियतां वराहततिभिः मुस्ताक्षतिः पल्लले” शकु०। “विभर्त्ति जनयन्नयमुदमपामपायधवला वलाहकततीः” माघः। “तत्र हेतिततिहतिश्रान्ता अमात्याः” दशकुमा० तत् परिमाणं येषां डति। २ तत्परिमाणे त्रि० ब० व० अयञ्च षट्संज्ञकत्वात् त्रिषु समः। “ष्णान्ताः षट्” “डति च” पा० तस्य षट्संज्ञा विहिता “षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययाः” अमरः। “बहुगणवतु डति च संख्या” पा० अस्य संख्याकार्य्यातिदेशः। ततः जसः शसश्च लुक् तति पुरुषाः सन्ति तति पुरुषान् पश्य। ततः प्रकारे धाच्। ततिधा ततिप्रकारे अव्य० “तावत्तेजस्ततिधा वाजिनानि” अथ० १२। २। ३। २।
ततिथी = स्त्री तावतीनां पूरणी तावत् + डट् तिथुडागमः ङीप् वेदे अवशब्दलोपः। तावतीनां पूरणीभूतस्त्रियाम् “स यतिथीं तत्समां परिदिदेश ततिथीं समां नावमुपकल्प्योपासाञ्चक्रे” शत० व्रा० १। ८। १। ५। यावतिथीं तावतिथीमिति प्राप्ते छान्दसोऽवशब्दलोपः” भा०।
ततुरि = त्रि० तुर्व–हिंसायाम् कि द्वित्वं पृषो०। १ हिंसके “सद्यो द्युम्ना तिरते ततुरिः” ऋ० ६। ६८। ७। “ततुरि र्हिंसकः। तॄ–कि द्वित्वं पृषो०। २ तारके च “ददथुर्मित्रा वरुणा ततुरिम्” ४। ३९। २। “ततुरिं तारकम्” भा०
तत्कर = त्रि० तत् करोति तद् + अहेत्वादावपि कृञः ढः। तत्पदार्थकारके।
तत्काल = पु० कमघा०। वर्त्तमानकाले १ तदात्वे अमरः। २ तस्मिन् काले च। स कालो यस्य। ३ तत्कालवृत्तौ त्रि०। “शुचिस्तत्कालजीवी कर्म कुर्य्यात्” स्मृतिनिवन्धेषु कल्प्या श्रुतिः। “प्रतिनिधौ तत्कालात्” कात्या० श्रौ० १। ४। १५। स कालो यस्यासौ तत्कालः भावप्रधानो निर्देशः प्रतिनिधेस्तत्कालत्वादित्यर्थः। यतः प्रतिनिधेः स एव कालो यो मुख्यद्रव्यस्याभावः” कर्कः। “प्रायश्चित्तं तत्कालम्” कात्या० श्रौ० १। १। २२।
तत्कालधी = त्रि० तस्मिन् उचिते काले धीर्बुद्धिर्यस्य। अनिष्टादि निवारणाय झटिति प्रत्युत्पन्नबुद्धौ जने हेमच०।
तत्क्रिय = त्रि० वेतनं विना स्वभावतः सा क्रिया कर्म यस्य। कर्मकरणशीले, वेतनं विना स्वभावतः कर्मकरे अमरः।
तत्क्षण = पु० स चासौ क्षणः कालः। सद्योऽर्थे हेमच०। “विवक्षितामर्थविदन्तत्क्षणप्रतिसंहृताम्” “आप्तेन तक्ष्णा भिषजेव तत्क्षणम्” माघः “सेकान्ते मुनिकन्याभित्तत्क्षणो ज्झितवृक्षकम्” रघुः।
तत्त्व(त्व) = न० तस्य भावः, तन–क्विप् तुक् ततो भावो वा त्व वा तलोपः। १ याथार्थ्ये, २ स्वरूपे, ३ ब्रह्मणि च अमरः ४ अनारोपितस्वरूपे, परमात्मनि, “तदिति सर्वनाम सर्वं च ब्रह्म तस्य नाम सर्वनाम तस्य भावः। सर्वस्मिन् दृश्ये बाध्यमानेऽपि तद्बाधाधिष्ठानत्वेन स्वयमबाध्यमानमनारोपितं स्वरूपं तत्त्वमिति विवरणकाराः। ५ विलम्बिते नृत्यवाद्यादौ, ६ चेतसि, ७ वस्तुनि, ८ साङ्ख्योक्तेषु प्रकृत्यादिषु पञ्चविंशतौ पदार्थेषु त्रिका०। “वेदान्ता बहुतर्ककर्कशमतिग्रस्ताः परं मायया भाट्टाः कर्मफलाकुला हतधियो ह्येते हि वैशेषिकाः। अन्ये भेदरता विवादकलहास्ते तत्त्वतो वञ्चितास्तस्मात् सिद्धमतं स्वभावकसृतं धीरः परं संश्रयेत्”। ९ सत्त्वरजस्तमःसु। तत्र याथार्थ्ये इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः” रघु०। श्रीतत्त्वचिन्तामणिः तत्त्वविवेकः। तत्त्वचूडामणिः तत्त्वदीपिका। प्रमाणप्रमेयेत्याद्युपक्रमे “तत्त्वज्ञानान्निःश्रेयसाधिगमः” गौ० सू० “कार्य्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ च तत्त्वतः” मनुः। “सतश्च सद्भावोऽसतश्चासद्भावः। सत् ‘सत्’ इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति। असच्च ‘असत्’ इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति”। वात्स्या० प्रस्तावना। प्रकृत्यादिपदार्थे। “एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्” सां० कौ०। “तत्प्रतिषेधार्थं तत्त्वाभ्यासात्” पात० सू०। १० स्वभावे निस्तत्त्वाः निःस्वभावा इत्यर्थः प्रकृत्यादी पुंन० केचित्। “यस्यापि देवस्य गुणान् समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके” हरिवं० २७६ अ०। ब्रह्मणि “वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते” भाग० १। ३। ११ अनारोपितं तत्त्वमिति वेदान्तिनो वदन्ति। पदार्थे।
“शून्यं तत्त्वं भावो विनश्यति वस्तुधर्मत्वाद्विनाशस्य” सा० सू०। मतभेदे पदार्थभेदा यथा “सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः। पृथिव्यादीनि चत्वारि भूतानि तत्त्वानीति चार्वाका आहुः। जीवा जीवाख्ये द्वे तत्त्वे इत्यार्हताः। जीवाकाशधर्माधर्म पुद्गलास्तिकायाः पञ्चतत्त्वानीत्यार्हतैकदेशिनः। जीवा जीवास्रवबन्धसंवरनिर्जरमोक्षाः सप्त तत्त्वानीत्यपरे आर्हतैकदेशिनः। स्वतन्त्रास्वतन्त्रभेदेन द्विविधं तत्त्वमिति द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्य्याः। चिदचिदीश्वरभेदेन त्रिविधं तत्त्वमिति रामानुजीयाः पतिपशु पाशभेदेन त्रिबिधं तत्त्वमिति पाशुपतशास्त्रकोविदाः नकुलीशाचार्य्याः शैवाश्च। महदादीनि पञ्चविंशतिस्तत्त्वानीति सांख्याः। ईश्वराधिकानि तानि चेति, षड्विंशतिस्तत्वानीति पातञ्जलाः। ब्रह्मैकमेव परमार्थतत्त्वं तद्भिन्नाः मायाकल्पिता इति मायावादिनो वेदान्तिनः।
तत्त्वज्ञान = न० ६ त०। १ याथार्थ्यज्ञाने, २ ब्रह्मज्ञाने च। “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णय वादर्जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः” इति गौ० सू०। ३ अनारोपितवस्तुप्रत्यये। इदं सर्वं द्वेतजातमद्वितीये चिदानन्दात्मनि मायया कल्पितत्वात् मृषैव आत्मैर्वैकः परमार्थसत्यः सचिदानन्दाद्वयोऽहमस्मीति ४ परिज्ञाने। ५ यथार्थ्यज्ञाने। यथा सति घटादिवस्तुनि सदिति ज्ञानम् असति च शशशृङ्गादावसदिति ज्ञानम्। “निखिललोकविमोक्षमुख्योपायं मननोपायमात्मनस्तत्त्वज्ञानमामनन्ति”। यथा आत्मा शरीरादिभ्यो भिन्न इत्याकारं ज्ञानमिति। नैयायिकाः। इतरनिवृत्तिपूर्बको व्रह्मात्मावगम इति मायावादिनो वदन्ति। भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिवेदान्तिन आहुः
तत्त्वज्ञानार्थदर्शनम् = न०। तत्त्वज्ञानस्याहंब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वा दसर्वसाधनपरिपाकफलस्य अर्थः प्रयोजनमविद्यातत्कार्य्यात्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दावाप्तिरूपश्च मोक्षः तस्य दर्शनम् आलोचनम्। तत्त्वज्ञानार्थे आलोचने तत्त्वज्ञानफलालोचने हि तत् साधने प्रवृत्तिः स्यात् इति तदालोचनं मोक्षार्थतत्त्वज्ञानसाधनम्।
तत्त्वन्यास = पु० तन्त्रोक्ते विष्णुपूजाङ्गे न्यासभेदे तत्प्रकारस्तन्त्रसारे यथा “मादिकान्तानथार्य्यांश्च जीवाद्येकैकशो वदेत्। नमः परायेत्युच्चार्य्य ततस्तत्वात्मने नमः” इति गौतमीय वचनात् सर्वत्र तत्त्वपदपयोगः। यथा मं नमः पराय जीवतत्त्वात्मने नमः। भं नमः पराय प्राणतत्वात्मने नमः। एतदुभयं सर्वगात्रे। तथा च गौतमीये “जीवं प्राणं द्वयञ्चोक्त्वा सर्वाङ्गेषु प्रविन्यसेत्। ततो हृदयमध्ये च तत्वत्रयञ्च विन्यसेत्”। वं नमः पराय मतितत्वात्मने नमः। फं नमः परायाहङ्कारतत्वात्मने नमः। पं नमः पराय मनस्तत्वात्मने नमः। इति त्रयं हृदि। नं नमः पराय शब्दतत्वात्मने नमः मस्तके। धं नमः पराय स्पर्शतत्वात्मने, नमः मुखे। दं नमः पराय रूपतत्वात्मने नमः हृदि। थं नमः पराय रसतत्वात्मने नमः गुह्ये, तं नमः पराय गन्धतत्वात्मने नमः पादयोः। णं नमः पराय श्रोत्रतत्वात्मने नमः कर्णयोः। ढं नमः पराय त्वक्तत्वात्मने नमः त्वचि। डं नमः पराय नेत्रतत्वात्मने नमः नेत्रयोः। ठं नमः पराय जिह्वातत्वात्मने नमः जिह्वायाम्। टं नमः पराय घ्राणतत्वात्मने नमः घ्राणयोः। जं नमः पराय वाक्तत्वात्मने नमः वाचि। झं नमः पराय पाणितत्वात्मने नमः पाण्योः। जं नमः पराय पादतत्वात्मने नमः पादयोः। छं नमः पराय पायुतत्वात्मने नमः गुह्ये। चं नमः पराय उपस्थतत्वात्मने नमः लिङ्गे। ङं नमः पराय आकाशतत्वात्मने नमः मूर्ध्नि। घं नमः पराय वायुतत्वा त्मने नमः मुखे। गं नमः पराय तेजस्तत्वात्मने नमः हृदि। खं नमः पराय जलतत्वात्मने नमः लिङ्गे। कं नमः पराय पृथिवीतत्वात्मने नमः पादयोः। तथा न्थासोऽभिहितः क्रमदीपिकायाम्। “इत्युच्युतीकृततनुर्विदघीत तत्वन्यासं मपूर्वकपराक्षरनत्युपेतम्। भूयः पराय च तदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्वमनून् क्रमेण। सकलवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कार तत्त्वं मनश्च। कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वगुणगणमथ कर्णादिस्थितम् श्रीत्रपूर्वम्। वागादीन्द्रियवर्गमात्मनि नमेदाकाशपूर्वं गणं मूर्द्धास्ये हृदये शिवे (लिङ्गे) चरणयोः हृत्पुण्डरीके हृदि। शं नमः पराय हृत्पुण्डरीकतत्वात्मने नमः हृदि। हं नमः पराय द्वादशकलाव्याप्तसूर्य्यमण्डलतत्वात्मने नमः हृदि। सं नमः पराय षोडशकलाव्याप्तसोममण्डलतत्वात्मने नमः हृदि। रं नमः पराय दशकलाव्याप्तवह्निमण्डलतत्वात्मने नमः हृदि। षं नमः पराय परमेष्ठितत्वात्मने वासुदेवाय नमो मस्तके। यं नमः पराय पुरुषतत्वात्मने सङ्कर्षणाय नमो मुखे। लं नमः पराय विश्वतत्वात्मने प्रद्यु- म्नाय नमो हृदि। वं नमः पराय निवृत्तितत्वात्मनेऽनिरुद्धाय नमो लिङ्गे। लं नमः पराय सर्वतत्वात्मने नारायणाय नमः पादयोः। क्षं नमः पराय कोपतत्वात्मने नृसिंहाय नमः सर्वगात्रे। हृत्पुण्डरीकतत्वादीनां न्यास प्रमाणमाह तथा विम्बानि द्विषडष्टकयुग्युग्दशकलाव्याप्तानीति,। गौतमीये “शं वीजं हृत्पुण्डरीके च तत्वं हृदि प्रविन्यसेत्। हं वीजं सूर्य्यमण्डलतत्वं हृदि प्रविन्यसेत्। सं वीजं चन्द्रमण्डलतत्वं तत्र प्रविन्यमेत्। रं वीजं वह्निमण्डलतत्वं तत्र प्रविन्यसेत्। षं वीजं परमेष्ठितत्वं वासुदेवञ्च मूर्द्धनि। यं वीजमथ पुंस्तत्वं सङ्कर्षणमथोमुखे। लं वीजं विश्वतत्वञ्च प्रद्युम्नञ्च हृदि न्यसेत्। वं वीज निवृत्तितत्वञ्च अनिरुद्धमुपन्यसेत्। लं वीजं सर्वतत्वञ्च पादे नारायणं न्यसेत्। क्षं वीजं कोपतत्वञ्च नृसिंहं सर्वगात्रके। एवं तत्वानि विन्यस्य प्राणायामं समाचरेत्” अन्येऽपि तत्त्वन्यासाः श्रीविद्याताराकालीनामपि पूजाङ्गं तन्त्रसारोक्ता दृश्या
तत्त्वरश्मि = पु० तन्त्रोक्ते (स्त्री~) वधूवीजे “नादविन्दुसमाक्रान्तस्तत्त्वरश्मिसमन्वितः” इत्यस्य व्याख्यायां “तत्त्वरश्मिर्वधूवीजमिति” तन्त्रसा०
तत्त्वविद् = त्रि० तत्त्वं वेत्ति विद्–क्विप्। पदार्थानां याथार्थ्य ज्ञातरि “तत्त्ववित्तु महाबाहो! गुणकर्मविभागशः” गोता। २ परमेश्वरे पु० “तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः” विष्णुस०। “तत्त्वं स्वरूपं यथावद्वेत्तीति तत्त्वविद्” भा०।
तत्पत्री = स्त्री तन–क्विप् तत् पत्रमस्याः ङीष्। हिङ्गुपत्र्यां शब्दार्थचि०।
तत्पद = न० तदिति पदम्। तच्छब्दे “तत्त्वमसि श्वेतकेतो इत्यादिवाक्यस्थं तत्सत्यं स आत्मेतित्यादि” श्रुतिस्थञ्च तत्पदं ग्राह्यम्।
तत्पदलक्ष्यार्थः = पु० तत्पदस्य लक्ष्योऽर्थः अज्ञानादिसमष्ट्युपाध्युपहिताधारभूतेऽनुपहितचैतन्ये चिदेकरस रूपिणि।
तत्पदवाच्यः = त्रि० ६ त०। तत्त्वमस्यादिवाक्यस्थतत्पदार्थे तत् पदाभिधेये।
तत्पदवाच्यार्थ = पु० ६ त०। तत्त्वमस्यादि वाक्यस्थ तत्पदस्य वाच्यार्थे अज्ञानादिसमष्टिः एतदुपहितसर्वज्ञत्वादिविशिष्टचैतन्यम् एतदनुपहितचैतन्यञ्चैतत् त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवतीति व्युत्पादितेऽर्थे।
तत्पदार्थः = पु० तत्त्वमस्यादिवाक्यस्थस्य तत्पदस्यार्थः। जगत् कारणे परमात्मनि। “यत् जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते”। एवं तत्पदार्थो निरूपितः इदानीं त्वंपदार्थो निरूप्यते” वेदान्तसा०। तत्पदत्वंपदवाच्ययोर्विरोधेनाभेदाभावेऽपि लक्ष्यार्थयोर्यथाऽभेदस्तथा विवेकचू० न्यरूपि यथा “तत्त्वम्पदाभ्यामभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदी त्थम्। श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रतिपाद्यते मुहुः। ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निगद्यतेऽन्योऽन्यविरुद्धधर्मिणोः। खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्व्वोः। तयोर्विरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः। ईशस्य माया महदादिकारणं जीवस्य कार्य्यं शृणु पञ्चकोषम्। एतावुपाधी परजीवयोस्तयोः सम्यग्निरासे न परो न जीवः। राज्यं नरेन्द्रस्य भटस्य खेटकस्तयोरपोहे न भटी न राजा। अथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितद्वयम्। श्रुतिप्रमाणानुगृहीतबोधात्तयोर्निरासः करणीय एवम्। नेदं नेदं कल्पितत्वान्न सत्यं रज्जुर्दृष्टा व्यालवत् स्वप्नवच्च। इत्थं दृश्यं साधु युक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः। ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये। नालं जहत्या, न तथाऽजहत्या, किन्तूभयार्थात्मिकयैव भाव्यम्। स देवदत्तोऽयमितीह चैकता विरुद्धधर्भांशमपास्य कथ्यते। यथा, तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा। संलक्ष्यचिन्मात्रतया सदात्मनोरखण्डभावः परिचीयते बुधैः”।
तत्पदाभिधः = त्रि० तत्त्वमस्यादिवाक्यस्थतत्पदस्याभिवा यत्र। तत्पदवाच्ये। “मायोपाधिर्जगद्योनिः सर्वज्ञत्वादि लक्षणः। परोक्षशवलः सत्याद्यात्मकस्तत्पदाभिधः”। वेदान्तकारिका।
तत्पर = त्रि० तत्परमुत्तमं यस्य। १ तद्गते, २ तदासक्ते च अमरः। ५ त०। तस्मात् परे ३ वस्तुनि च। परता च कालिकी दैशिकी च। तत्र कालिकी “परश्वस्तत्परेऽहनि” अमरः दैशिकी। “गण्डौ कपोलौ तत्परे हनू” अमरः। “परः पूर्वेण सङ्गुण्यस्ततत्परस्तेन तेन च” लीला०। “अक्ष्णोर्निमेषस्य स्वराम(३०)भागः स तत्परस्तच्छतभाग उक्तः” सि० शि० निमेषस्य त्रिंशद्भागात्मके ४ सूक्ष्मकालभेदे पु०।
तत्परायण = त्रि० तदेव परमयनं यस्य णत्वम्। तदासक्ते।
तत्पुरुष = “तत्पुरुषः” इत्यधिकृत्य पा० विहिते १ समासमेदे “उत्तरपदार्थप्रधानस्तत्पुरुष इति तस्य लक्षणं प्रायिकम् अर्द्धपिप्पल्यादि तत्पुरुषे उत्तरपदार्थप्राधान्याभावात् अव्याप्तिः पूर्वपदप्राधान्याच्चाव्ययीभावत्वापत्तेरतिव्याप्तिश्च यथोक्तं वाक्यपदीये “समासस्तु चतुर्द्धेति प्रायोवादस्तथाऽपरः। योऽयं पूर्वपदार्थादि प्राधान्यविषयःस च” “अयमर्थः समासः अव्ययीभावतत्पुरुषद्वन्द्वबहुघ्रीहि भेदात् चतुर्द्धा। तत्र पूर्वपदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुब्रीहिः इत्यादि लक्षणमपि प्रायिकम्। उन्मत्तगङ्गं सूपप्रति अर्द्धपिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभिचारात्। तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याद्बहुब्रीहिल क्षणातिव्याप्तिश्च “अन्यपदार्थे च संज्ञायामिति” (अव्य०) समासात्। सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च। “सूपः प्रतिना मात्रार्थे” इति (अव्य०) समासात्। अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च “अर्द्ध्वं नपुंसकमिति” (तत्पु०) समासात्। एवं पूर्वकाय इत्यादावपि द्रष्टव्यम् द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्यात् द्वन्द्वातिव्याप्तिबहुव्रीह्यव्याप्तिश्च। कुशपलाशमित्यादिद्वन्द्वे समाहारान्थपदार्थप्राधान्याद्बहुब्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति मावः। सिद्धान्ते त्वव्ययीभावाधिकारपठितत्वमव्ययीभावत्वमित्यादि लक्षणं द्रष्टव्यम्” वै० भू० सा०। शब्दशक्तिप्रकाशिकायान्तु अन्यथा तल्लक्षणमुक्त्वा तत्र पदार्थयोरन्वयबोधप्रकारो दर्शितो यथा “यदीयेन सुवर्थेन युतयद्बोधनक्षमः। यः समासस्तस्य तत्र स तत्पुरुषः उच्यते”। यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोम्यः स तदर्थस्य तदर्थे तत्पुरुषः। न तु यन्नामोत्तरं यन्नाम यदर्थगतसुवर्थावच्छिन्नस्य यत्स्वार्थस्य बोधकं तदुत्तरं तन्नामैव तदर्थयोस्तत्पुरुषः पूर्बकायोऽर्द्धपिप्पलीत्यादावव्याप्तेः। स्तोकपक्तेत्यादौ क्रियाविशेषणैः कर्मधारय एव महाकविर्महाविज्ञ इत्यादौ कवित्वादाविव प्रकृतेऽप्येकनामार्थैकदेशे पचनादावपरनामार्थस्याभेदान्वयबोधकतया तथात्वसम्भवात्। स्तोकं पक्तेत्यादौ अमस्तादात्म्य- वाचित्वे तु तत्पुरुषः सम्भवत्येव क्रियाविशेषणैः समास एवाव्युत्पन्न इति तु न देश्यं “स्तोकनम्रा स्तनाभ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्वात् द्विगौ कर्मधारये च शाब्दिकानां तत्पुरुषत्वव्यपदेशः पदसंस्कारार्थो गौणः। विभजते। “द्वितीयादिसुवर्थस्य भेदादेष च षड्विधः। क्रियान्वथी द्वितीयादेरर्थः प्रायोऽत्र योजितः” “ग्रामगतः चैत्रनीतः ब्राह्मणदत्तः वृक्षपतितः चैत्रधनं मैत्रगतिः गृहस्थित इत्यादौ द्वितीयादिसुबर्थस्य कर्मत्व कर्तृत्वादेर्बोधभेदादेतस्य द्वितीयातृतीयादितत्पुरुषत्वेन षड्भेदाः स्वघटकैकपदार्थनिष्ठद्वितीयार्थावच्छिन्नापरपदार्थबोधकसमासत्वादेर्धर्मषट्कस्य सुवचत्वात्। इयांस्तु विशेषो यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायो घटकः पीठं परितः पुण्येन सुखं शमाय विद्या दण्डाद्वटः गवां कृष्णा सम्पन्नक्षीरा तिलेषु तैलमित्यादिविग्रहे तत्पुरुषस्यासाधुत्वात् वर्षसुखी गिरिकाणः कुण्डलहिरण्यं घटान्यः कुवेरवलिः कर्मकुशल इत्यादौ तु तत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः। ननु ग्रामगत इत्यत्र गतौ ग्रामकर्मकत्वस्य राजपुरुष इत्यत्र च पुरुषे राजसम्बन्धस्यावगमो न ग्रामादिपदेभ्यो लुप्तसुपः स्मरणात्, तल्लोपमजानतोऽप्यन्वयवोधात् समृद्धं ग्रामगत इत्यादितः समृद्धग्रामयोरभेदान्वयधीप्रसङ्गाच्च सम्पन्नं दधि पश्येत्याद्राविव तत्रापि नामार्थयोरभेदान्वयबोधोपयुक्तस्य नाम्नोः समानविभक्तिप्रतिसन्धानस्याविशिष्टत्वात्। नापि ग्रामादिपदस्य ग्रामकर्मकत्वादिलक्षकत्वात् अभेदान्यसम्बन्धेन नामार्थस्यान्वयवोधं प्रत्यनुकूलस्य नामोत्तरविभक्त्युपस्थाप्यत्वस्य तादृशप्रत्ययोपस्थाप्यत्वस्य वा गत्यादावसत्त्वात्। नच ग्रामादिपदलक्षितस्य ग्रामकर्मकादेरेव तत्र गत्यादौ तादात्म्येनान्वय इति साम्प्रदायिकानाम्मतमेव साम्प्रतं तत्पुरुषस्यापि समस्यमानपदार्थयोरभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः ग्रामं गतः राज्ञः पुरुष इत्यादिविग्रहस्य समासतुल्यार्थकत्वहान्यापत्तेश्चेति चेन्न प्रत्ययान्ततत्तन्नामार्थस्यैव भेदेनान्वयवोधं प्रति तत्तन्नामोत्तरप्रत्ययोपस्थाप्यतायास्तन्त्रत्वेन ग्रामगत इत्यादौ ग्रामादिपदलक्षितग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वये बाधकाभावात्। नचैवं गतो ग्रामेत्यत्रापि ग्रामदपलक्षितस्य ग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वयबोधप्रसङ्गः प्रत्ययान्तान्यतत्तन्नामोपस्थाप्यार्थस्यान्वयबोधसामान्यं प्रत्येवोत्सर्गतस्तादृशतत्तन्नामोत्तरनामोपस्थाप्यत्वस्य हेतुत्वेन तदसम्भवात्। अतएवार्द्धपिप्पलीच्छेद इत्यादौ पूर्वपदप्रधानत्वेनामुशिष्टस्य तत्पुरुषादेरन्त्यपदार्थानां पिप्पलीप्रभृतीनाम् अर्द्धाद्यर्थे घटपटमठानामित्यादौ च सर्वपदप्रधानत्वेन द्बन्द्वस्यानन्त्यपदार्थानां घटादीनां सुबर्थे अन्वयः तथा बहुगुडो द्राक्षेत्यादौ गुडादीनामपि बहुजर्थे प्रकृत्यर्थस्येषदसमाप्तौ नाम्नः प्राग्बहुचि विधानादिति। ननु यदि नामार्थयोरपि भेदेनान्वयो व्युत्पन्नस्तर्हि ग्रामगत इत्यादौ कर्मत्वादिसंसर्गेण ग्रामादेरेव गत्यादावन्वयोऽस्तु कृतं ग्रामादिशब्द्स्य ग्रामकर्मकत्वादिलक्षणयेति चेत् सत्यं विग्रहवाक्यानां समाससमानार्थकत्वरक्षणाय तत्र लक्षणास्वीकारात्। माऽस्तु वा ग्रामादिपदस्य तत्कर्मकत्वादौ लक्षणा कर्मत्वादिसंसर्गेणैव ग्रामादेर्गत्यादावन्वयसम्भवात्तथापि न क्षतिः ग्रामं गत इत्यादिविग्रहस्यापि कर्मत्वार्थकद्वितीयाद्युपसन्धानवशादेव कर्मत्वादिसंसर्गेण गत्यादौ ग्रामाद्यन्वयबोधकतया समाससमानार्थकत्वसम्भवात् ग्राममित्यादौ कर्मत्वादिधर्मिकान्वयबोधानुरोधेन द्वितीयादेः कर्मत्वाद्यर्थकत्वात्। अतएवाघटः पट इत्यादावन्यस्य असुरो दैत्य इत्यादौ विरोधिनः, अनिक्षुः शर इत्यादौ सदृशस्य, अव्राह्मणी वार्द्धुषिक इत्यादावपकृष्टस्य, अनुदरमुदरन्तरुण्या इत्यादौ स्वल्पस्य, बाचकेन नञ्निपातेन स्वार्थे प्रतियोगित्वादिसम्बन्धेनैव घटादेरनुभावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः। पटस्याभाव इत्यर्थे प्रसज्यनञा अव्ययीभाव एव समासः प्रमाणन्ते नापटं वर्त्तते इत्याद्येव तत्र प्रयोगस्तत्पुरुषस्योत्तरपदलिङ्गकत्वनियमात् इति वृद्धाः। प्रसज्यनञाप्यपट इत्यादिस्तत्पुरुष एव साधुर्नाव्ययीभावः नञ्तत्पुरुषविधेस्तदपवादकत्वात् अतएव वादिनामविवाद इत्यादिकः किरणावल्यादौ पुंसि प्रयोग इति तु पक्षध्ररमिश्राः। युज्यते चोत्तरः कल्पो नचेदेवं “दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः। चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुतेऽधुना” इत्यादौ राजसम्बन्धादे राजादिपदलक्ष्यत्वे तदेकदेशस्य राजादेस्तदा परामर्शो न स्यात् विशेष्यविधया वृत्त्या पूर्वोपस्थापितस्यैवार्थस्य परामर्शकत्वात् तदादिशब्दानाम् “नहि प्रजावतीयं मे त्वं तस्मै देहि कम्बलम्। नीलो मणिर्गुणः सोऽत्र भ्रात्रादिर्वोध्यते तदा”। नन्वेवम् “अनयैव ऋचा निषादस्थपतिं याजयेदिति” श्रुतौ निषादानां स्थपतिरिति व्युत्पत्त्या न तत्पुरुषः परन्तु निषादः स्थपतिरित्यर्थे कर्मधारय एवेति सिद्धान्तो व्याहन्येत तत्पुरुषे भक्तिभिया हि तत्र कर्मधारयस्वीकारस्तन्मूलके निषादस्याधानेऽपूर्वविद्याप्रयुक्तिश्च कल्प्यते कल्प्यते च निषादीयतत्तदध्ययने निषेधविधिबाधात् “स्त्रीशूद्रौ नाधीयेतामिति” श्रुतौ तत्तदध्ययनेतराव्ययनपरत्वं धातोः, शूद्रपदस्य त्रैवर्णिकान्योपलक्षकत्वात्। यदि च कर्मधारय इव तत्पुरुषेऽपि न लक्षणा तदा तत्पुरुष एव तत्रोचितस्त्रैवर्णिकस्यैव निषादीय स्थपतित्वेन प्राप्तावपूर्वविद्याप्रयुक्तेस्तन्मूलकनिषेधविधिसङ्कोचस्य चाकल्प्यत्वादिति चेत् तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एव तत्राभ्युपेयते न तु तत्पुरुषः निषादानां स्थपतिरिति व्युत्पत्त्या निषादस्थेपतिपदान्निषादसम्बन्धवत्त्वेन स्थपत्यनुभवसहस्रस्य सर्वसिद्धत्वेन नदनुरोधाल्लक्षणायाः कॢप्तत्वेन तत्कल्पनाभयस्यासम्भवात् न हि निषादस्थपत्यादिपदं निषादादिसम्बन्धवत्तया स्थपत्यादिबोधने निराकाङ्क्षं तथा सति निराकाङ्क्षत्वादेव तत्पुरुषत्वासम्भवेन लक्षणापत्तेस्तद्वाधकतयोपन्यासानौचित्यात्। अथ बाधकं विना मुख्यार्थ एव श्रुतीनां प्रामाण्यं नतु प्रमाणान्तरविषयेऽपि लक्ष्यार्थे मुख्ये शब्दस्वरस इत्यादिमीमांसया तथैव सम्प्रतिपत्तेरिति चेत्तर्हि बाधकासत्त्वे कर्मधारयविधयैव वेद्रानां प्रामाण्यं न तु प्रमाणान्तरविषयेऽपि तत्पुरुषविधया कर्मधारयात् समासान्तरस्य दौर्बल्यमित्यादिमीमांसया तथैव प्रतिपत्तेरित्यपि किन्न रोचयेः। तत्पुरुषाद्बहुब्रीहेर्जघन्यत्वमित्यत्राप्युक्तैव रीतिरनुसर्त्तव्या न हि बहुव्रीहौ समस्तपदानां लाक्षणिकत्वादेव ततो दुर्बलत्वम्। एकपदमात्रलक्षणयापि बहुब्रीहेर्व्यवस्थाप्यत्वादित्यास्तां विस्तरः”। स च तत्पुरुषस्त्रिविधः व्यधिकरणपदघटित समानाधिकरणपदघटित संज्ञानवबोधकसंख्यावाचकपदघटितभेदात्। तत्र संज्ञानबोधकसंख्यापूर्वकसमानाधिकरणपदघटितस्तत्पुरुषो द्विगुः “दिक्संख्ये संज्ञायामिति सूत्रेण विहितपञ्चाम्रादिकर्मधारयादिष्वतिप्रसङ्गवारणाय संज्ञानबोधकेति “संख्यापूर्बोद्विगुरिति सूत्राच्च संख्यापूर्वकेति। द्विमूर्द्धाद्यन्यपदार्थे तथात्ववारणाय तत्पुरुषेति। द्विगुविषयपरिहारेण समानाधिकरणपदघटिततत्पुरुषः कर्मधारयः “तत्पुरुषः समानाधिकरणः कर्मधारयः” इति सूत्रात्। इति तद्भिन्नोव्यधिकरणपदघटितस्तत्पुरुषः यथा राजपुरुष इतित्यादि। “द्वन्द्वो द्विगु- रपि चाहं सततं मद्गृहे व्ययीभावः। तत्पुरुष कर्मधारय येन स्यां मदा बहुब्रीहिः” उद्भटः स प्रसिद्धः पुरुषः। २ रुद्रभेदे धरणिः तस्य पुरुषः। ३ तदधिष्ठातृदेवे च। “तत्पुरुषाय विद्महे” इति गायत्री
तत्फल = पु० तनोति क्विप् तत् विस्तीर्णं फलति विकाशते अच्। पुष्पमात्रविकाशिनि १ कुवलये, २ कृष्णौषधौ ३ चोरणामौषधौ च शब्दार्थ०।
***