ज्वरकालकेतुरस = पु० ज्वरस्य कालकेतुरिब कर्म्म०।
“रसं विषं गन्धकताम्रकञ्च मनः शिलारुष्करतालकञ्च। विमर्द्द्य वज्रीपयसा समांशं गजाह्वयं तत्र पुटं विदध्यात्। द्विगुञ्जमस्यैव मधुप्रयुक्तं ज्वरं निहन्त्यष्टविधं महोग्रम्। पुरा भवान्यै कथितो भवेन नृणां हिताय ज्वरकालकेतुः” भैषज्यर० उक्ते औषधभेदे।
ज्वरकुञ्जरपारीन्द्ररस = पु० ज्वर एव कुञ्जरस्तस्य पारीन्द्रः सिंह इव हिंसकत्वात् तादृशो रसः। भैषज्यर० उक्ते ज्वरनाशके औषधभेदे। तल्लक्षणं तत्रोक्तं यथा “मूर्च्छितं रसकर्षैकं तदर्द्धं जारिताभ्रकम्। तारं ताप्यञ्च रसजं रसकं ताम्रकं तथा। मौक्तिकं विद्रुमंलौहं गिरिज गैरिकं शिला। गन्धकं हेमसारञ्च पलार्द्धञ्च पृथक् पृथक्। क्षीरावी सुरवल्ली च शोथघ्नी गणिकारिका। झाटामला ज्योत्स्निका च सतिक्ता तु सदर्शना। अग्निजिह्वा पूतितैला शूर्पपर्णी प्रसारिणी। प्रत्येकस्वरसं दत्त्वा मर्दयेत् त्रिदिनावधि। भक्षयेत् पर्णखण्डेन चतुर्गुञ्जाप्रमाणतः। महाग्निकारको रोग सङ्करघ्नः प्रयोगराट्। सततं सन्ततान्येद्युस्तृतीयकचतुर्थकान्। ज्वरान् सर्वान् निहन्त्याशु भास्करस्तिमिरं तथा। कासं श्वासं प्रसेहञ्च सशोथं पाण्डुकामलाम्। ग्रहणों क्षयरोगञ्च सर्वोपद्रवसंयुतम्। ज्वरकुञ्जरपारीन्द्रः प्रथितः पृथिवीतले”
ज्वरकेशरिन् = पु० ज्वरस्य तद्रूपगजस्य केशरीव हन्तृत्वात्। “शुद्धसूतं विषं व्योषं गन्धं त्रिफलमेव च। जयपालसमं कृत्वा भृङ्गतोयेन मर्द्दयेत्। गुञ्जामात्रा वटी कार्य्या बालानां सर्षपाकृतिः। सितया च समं पीता पित्तज्वरविनाशिनी। मरिचेन प्रयुक्ता सा सन्निपातज्वरापहा। पिप्पलीजीरकाभ्याञ्च दाहज्वरविनाशिनी। ज्वरकेशरिनामायं रसो ज्वरविनाशनः” भैषज्यर० उक्ते औषधभेदे।
ज्वरघ्न = पु० ज्वरं हन्ति हन–अमनुष्यकर्त्तरिटक्। १ गुडूच्याम्, २ वास्तूके ३ ज्वरनाशके त्रि० शब्दार्थ०। ४ मञ्जिष्ठायां स्त्री ङीप्। राजनि०।
ज्वरधूमकेतुरस = पु० ज्वरस्य घूमकेतुरग्निरिव दाहकत्वात् कर्म०। “भवेत् समं सूतसमुद्रफेनं हिङ्गूलगन्धं परिमर्द्य यत्नात्। नवज्वरे वल्लमितं त्रिघस्रमार्द्राम्बुनाऽयं ज्वरघूमकेतुः” भैषज्यर० उक्ते औषधभेदे।
ज्वरनागमयूरचूर्ण = न० ज्वर एव नागः सर्पस्तस्य मयूर इव हिम्सकत्वात् कर्म०।
“लौहाभ्रटङ्गनं ताम्रं तालकं वङ्गमेव च। शुद्धसूतं गन्धकञ्च शिग्रुवीजं फलत्रिकम्। चन्दनातिविषा पाठा वचा च रजनीद्वयम्। उशीरं चित्रकं देवकाष्ठञ्च सपटोलकम्। जीवकर्षभकाजाज्यस्तालीशं वंशलोचना। कण्टकारीफलं मूलं शटीपत्रं कटुत्रयम्। गुडूची सत्वधन्याकं कटुका क्षेत्रपर्पटी। मुस्तकं बालकं विल्वं यष्ठीमधुसमं समम्। भागाच्चतुर्गुणं देयं कृष्णजीरस्य चूर्णकम्। तत्समं तालपुष्पञ्च चूर्णं दण्डोत्पलाभवम्। कैरातं तत्समं देयं तत्समं चपलाभवम्। एतच्चूर्णं समाख्यातं ज्वरनागमयूरकम्। प्रतिकर्षमितंखाद्यं युक्त्या वा रुचिवर्द्धनम्। सन्ततादिज्वरं हन्तिसाध्यासाध्यं न संशयः। क्षयोद्मवञ्च धातुस्थं कामशीकोद्भवं ज्वरम्। भूतावेशज्वरञ्चैवमभिचारसमुद्भवम्। दाहशीतज्वरं घोरं चातुर्थ्यादिविपर्य्ययम्। जीर्णञ्च विषमं सर्वं प्लोहानमुदरं तथा। कामलां पाण्डुरोगञ्च शोथं हन्ति न संशयः। भ्रमं तृष्णाञ्च कासञ्च शूलानाहौ क्षयं तथा। यकृतं गुल्मशूलञ्च आमवातं निहन्ति च। त्रिकपृष्ठकटीजानुपार्श्वानां शूलनाशनम्। अनुपानं शीतजलं न देयमुष्णवारिणा” भैषज्यर० उक्ते औषधभेदे
ज्वरबलि = पु० ज्वरशान्त्यै देयो बलिः शाक०। भैषज्यर० उक्ते ज्वरनाशके वलिमेदे तत्प्रकारो यथा
“ज्वरामयगृहोतस्य मुष्टिभिर्नवभिः कृतम्। तण्डुलै रोदनं तेन कुर्य्यात् पुत्तलकं शुभम्। तं हरिद्रावलिप्ताङ्गं चतुःपितध्वजान्वितम्। हरिद्रारसपूर्णाभिः पुटिकाभिश्चतसृभिः। मण्डितं गन्धपुष्पाद्यैरवकीर्य्य विसर्जयेत्। एवं दिनत्रयं कुर्य्यात् ज्वररोगोपशान्तये” (ओदनेन पुत्तलं निर्म्माय वीरणचाचिकायां संस्थाप्य हरिद्राभिरवलिप्य चतुःपितपताकाभिरलङ्कृत्य नन्धपुष्पाद्यैरवकीर्य्य हरिद्रारसपूर्णाश्चतस्रः पुटिकाश्चतुःकोणे संस्थाप्याः)। पुटिका अश्वत्थपत्ररचितठोङ्गा। अन्योऽपि प्रकारो विधानपारिजातादौ दृश्यः।
ज्वरभैरवचूर्ण = न० ज्वरस्य भैरव इवनाशकत्वात् कर्म०।
“नागरं त्रायमाणा च पिचुमर्द्दो दुरालभा। पथ्या मुस्तं वचा दारु व्याघ्री शृङ्गीशतावरी। पर्पटंपिप्पलीमूलं विशाला पुष्करं शटी। मूर्वा कृष्णा हरिद्रेद्वे लोघ्रचन्दनमुष्ककम्। कुटजस्य फलं वल्कं यष्टीमधुकचित्रकम्। शोभाञ्जनं बला चातिविषा च कटुरोहिणी। मूषली पद्मकाष्ठञ्च यमानी शालपर्णिका। मरिचं चामृता विल्वं बालं पङ्कस्य पर्पटी। तेजपत्रं त्वचं धात्री पृश्निएर्णी पटोलकम्। गन्धकं पारदं लौहमभ्रकञ्च मनःशिला। एतेषां समभागेन चूर्णमेव विनिर्दिशेत्। तदर्द्धं प्रक्षिपेत्तत्र चूर्णं भुनिम्बसम्भवम्। मात्रामस्य प्रयुञ्जीत दृष्ट्वा दोषवलाबलम्। चूर्णं भैरवसंज्ञन्तु ज्वरान् हन्ति न संशयः। पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान्। द्वन्द्वजान् सन्निपातोत्थान् मानसानपि नाशयेत्। प्राकृतं वैकृतञ्चैव सौम्यं तीक्ष्णमथापि वा। अन्तर्गतं बहिःस्थञ्च निरामं साममेव च। ज्वरमष्टविधं हन्ति साध्यासाध्यं न संशयः। नानादेशोद्भवञ्चैव वारिदोषभवं तथा। विरुद्धभेषजभवं ज्वरमाशु व्यपोहति। अग्निमान्द्र्यं यकृत् प्लीहा पाण्डुरोगमरोचकम्। उदरान्यन्त्रवृद्धिञ्च रक्तपित्तं त्वगामयम्। श्वयथुञ्च शिरःगूलं वातामयरुजां जयेत्। ज्वरभैरवसंज्ञन्तु भैरवेण कृतं शुभम्” भैषज्यर० उक्ते औषधभेदे।
ज्वरभैरवरस = पु० ज्वरे भैरव इव नाशकत्वात् कर्म्म०। “त्रिकटु त्रिफला टङ्कविषगन्धकपारदम्। जैपालञ्च समं मर्द्यं द्रोणपुष्पोरसैर्दिनम्। ताम्बूलेन समं खादेदर्द्धगुञ्जामितां वटीम्। मुद्गयूषं शिखरिणी पथ्यं देयं प्रयत्नतः। नवज्वरं त्रिदोषोत्थं जीर्णञ्च विषमज्वरम्। दिनैकेन निहन्त्याशु रसोऽयं ज्वरभैरवः” भैषज्यर० उक्ते औषधभेदे।
ज्वरमातङ्गकेशरिरस = पु० ज्वर एव मातङ्गो गजस्तत्रकेशरीव कर्म्म०।
“पारदं गन्धकं चैव हरितालं समाक्षिकम्। कटुत्रयं तथा पथ्या क्षारौ द्वौ सैन्धवं तथा। निम्बस्य विषमुष्टेश्च वीजं चित्रकगेव च। एषां माषमितं भागं ग्राह्यं प्रति सुसंस्कृतम्। द्विमाषं कानकफलं विषञ्चापि द्विमाषिकम्। निर्गुण्डीस्वरसेनैव शोषयेत्तत् प्रयत्नतः। सार्द्ध रत्तिप्रमाणेन वटी कार्य्या सुशोभना। सर्वज्वरहरी चैषा भेदिनी दोषनाशिनी। आमाजीर्णप्रशमनी कामला षाण्डुरोगहा। वह्निदीप्तिकरो चैषा जठरामयनाशिनी। उष्णोदकानुपानेन दातव्या हितकारिणी। भाषितो लोकनाथेन ज्वरमातङ्गकेशरी” भैषज्यर० उक्ते औषधभेदे।
ज्वरमुरारिरस = पु० ज्वरो मुर इवासुरभेदस्तस्यारिः कर्म्म०।
“शुद्धसूतं शुद्धगन्धं विषञ्च दरदं पृथक्। कर्षप्रमाणं कर्षार्द्धं लवङ्गं मरिचं पलम्। शुद्धं कनकवीजञ्च पलद्वयमितं तथा। त्रिवृत कर्षमेकञ्च भावयेद्दन्तिकाद्रवैः। सप्तधा च ततः कार्य्या गुडीगुञ्जामृता शुभा। ज्वरमुरारिनामायं रसोज्वरकुलान्तकः। अत्यन्ताजिर्णपूर्णे च ज्वरे विष्टम्भसंयुते। सर्वाग्रहणीगुल्मे चामवातेऽम्लपित्तके। कासश्वासे यक्ष्मरोगेऽप्युदरे सर्वसम्भवे। गृध्रस्यां सन्धिमज्जस्थे वाते शोथे च दुस्तरे। यकृति प्लीहरोगे च वातरोगे चिरोत्थिते। अष्टादश कुष्ठरोगे सिद्धो गुहविनिर्म्मितः” भैषज्यर० उक्ते औषधभेदे।
ज्वरशूलहररस = पु० ज्वरस्य शूलंवेदनां हरति हृ–अच्कर्म०
“रसगन्धकयोः कृत्वा कज्जलीं भाण्डमध्यगाम्। तत्राधोवदनां ताम्रपात्रीं संरुध्य शोधयेत्। पादाङ्गुष्ठप्रमाणेन चूल्ल्यां ज्वालेन तां दहेत्। यामद्वयं ततस्तत्स्थं रसपात्रं समाहरेत्। चूर्णयेद्रत्तियुगलं तृतीयं वा विचक्षणः। ताम्बूलीदलयोगेन दद्यात् सर्वज्वरेष्वमुम्। जीरसैन्धवसंलिप्तवक्त्राय ज्वरिणे हितम्। स्वेदोद्गमो भवत्येव देवि! सर्वेषु पाप्मसु। चातुर्थकादीन् विषमान् नवमागामिनं ज्वरम्। साधारणं सन्निपातं जयत्येष न संशयः। ज्वरशूलहरो नाम रसोऽयं समुदाहृतः” भैषज्यर० उक्ते औषधभेदे।
ज्वरसिंहरस = पु० ज्वरस्य तद्रूपगजस्य सिंह इव हन्तृत्वात् कर्म०। भैषज्यरत्नावल्युक्ते औषधभेदे। तल्लक्षणं यथा “पारदं गन्धकं तालं भल्लातकमथैव च। वज्रीर्क्षार समायुक्तमेकत्र च विमएदयेत्। मृत्तिकाभाजने स्थाप्य मुद्रितव्यं विचक्षणैः। अग्निं प्रज्वालयेत्तत्र प्रहरद्वय संख्या। शीतलं खलयेत्तत्र भावना च प्रदीयते। भृङ्गराजरसैरत्र गण्डदूर्वाभवै रसैः। चित्रकस्य रसेनापि भावना दीयते पुनः। पश्चात्तच्चूर्णयेद् यत्नात् कूपिकायाञ्च धारयेत्। ज्वर उत्पद्यते यस्य चतुर्थे चापरे पुनः। माषैकञ्च रसं देयं तत्क्षणान्नाशयेज्ज्वरम्। ज्वरशान्तेः परं पथ्यं देयं मुद्गौदनः पयः। ज्वरसिंहरसो नाम सर्वज्वरविनाशनः”।
ज्वरहन्तृ = त्रि० ज्वरं हन्ति हन्–तृच्। ज्वरनाशके स्त्रियां ङीप्। सा च २ मञ्जिष्ठायां राजनि०।
ज्वराग्नि = पु० ज्वरः अग्निरिव सन्तापकत्वात्। आधिमन्यौ हारा०।
ज्वराङ्कुशरस = पु० ज्वरस्य गजरूपस्य अङ्कुश इव प्रतिरोधकत्वात् कर्म्म०। भैषज्यर० उक्ते औषधभेदे स च नानाविधो यथा
“शुद्धं सूतं विषं गन्धं धूर्त्तवीजं त्रिभिः समम्। चतुर्णां द्विगुणं ब्योषं चूर्णं गुञ्जाद्वयं हितम्। जम्बीरस्य च मज्जाभिरार्द्रकस्य रसैर्युतम्। ज्वराङ्कुशो रसी नाम्ना ज्वरान् सर्वान् निहन्ति वै। (व्योषं मिलित्वा द्विगुणम्।) (अयं भेदि ज्वराङ्कु शो नाम्ना ख्यातः।) अन्योऽपि तत्रैव उक्तो यथा “रसस्य द्विगुणं गन्धं गन्धतुल्यञ्च टङ्कनम्। रसतुल्यं विषं योज्यं मरिचं पञ्चधा विषात्। कट्फलं दन्तिवीजञ्च प्रत्येकं मरिचोन्मितम्। ज्वराङ्कुशो रसोह्येष चूर्णयेदतिचिक्कणम्। माषैकेन निहन्त्याशु ज्वरं जीर्णं त्रिदोषजम्”। अत्रानुरूपमात्रां शर्करादीनां निपीय गिलित्वा किञ्चिज्जलं पिवेत्। अन्यविधोऽपि तत्रैवोक्तो यथा “ताम्रकाद् द्विगुणं तालं मर्दयेत् सुषवीद्रवैः। प्रपुटेद् भूधरे शीते वज्रीक्षीरेण मर्दयेत्। प्रपुटेत् भूधरे पश्चात् प्रञ्चगुञ्जामितं भवेत्। आर्द्रकस्य रसेनैव सर्वज्वरनिकृन्तनः। ऐकाहिकम् द्व्याहिकञ्च त्र्याहिकं चातुराहिकम्। विषमञ्चापि शीताद्यं ज्वरं हन्ति ज्वराङ्कुशः” अन्यविधोऽपि तत्रैव “शुद्धसूतं तथा गन्धं कर्षमानं नयेद् बुघः। महौषधं टङ्कनञ्च हरितालं तथा विषम्। रसार्द्धं मर्दयेत् खल्ले भृङ्गराजरसेन तु। त्रिदिनं भावनां दत्त्वा चतुर्थे वटिकां ततः। कुर्य्याच्चणकमात्राञ्च पिप्पलीमधुसम्युताम्। एष ज्वराङ्कुशो नाम विषम- ज्वरनाशनः” महौषधादीनाम् चतुर्णां प्रत्येकं रसार्द्धम्। अन्यविधोऽपि “मरिचं टङ्कनं शङ्घचूर्णं पारदगन्धकम्। शोधितं ब्रह्मपुत्रञ्च भागमेकं विनिःक्षिपेत्। गुञ्जामात्रा प्रदातव्या नागवल्लीदलैः सह। ज्वराङ्कुशो रसोह्येष ज्वरमष्टविधं जयेत्” अन्यविधोऽपि “त्रिभागतालेन हतञ्च ताम्रं रसञ्च गन्धञ्च समोनमायुः। विषं समं तदुद्विगुणञ्च ताम्रं त्रिसप्तवारञ्च दिवाकरातपे। संमर्द्य निम्बुस्वरसेन चूर्णं गुञ्जाप्रमाणं सितया समेतम्। ज्वराङ्कुशोऽयं विबिधप्रभावो ज्वरं निहन्त्यष्टविधं समग्रम्” मीनमायुः मत्स्यपित्तम्।
ज्वराङ्गा = स्त्री ज्वरस्तदुबाधनमङ्गमस्याः ङीष्। भद्रदन्तिकायां राजनि०।
ज्वरातिसार = पु०। ज्वरयुक्तोऽतिसारः। ज्वरयुक्ते अतिसाररोगे तत्स्वरूपादि भैषज्यर० उक्तो यथा। “पित्तज्वरे पित्तमवोऽतिसारस्तथातिसारे यदि वा ज्वरः स्यात्। दोषस्य दुष्यस्य समानभावाज्ज्वरातिसारः कथितो भिषग्भिः”। “ज्वरातिसारयोरुक्तमन्योन्यं भोषजं पृथक्। न तन्मिलितथोः कुर्य्यादन्योन्यं वर्द्धयेद् यतः। प्रायोज्वर हरं भेदि, स्तम्भनन्त्वतिसारनुत्। अतोऽन्योन्यविरुद्धत्वाद् वर्द्धनं तत्परस्परम्। ज्वरातिसारिणामादौ कुर्य्यात् लङ्घनपाचने। प्रायस्तावामसम्बन्धं विना न भवतो यतः। ज्वरातिसारे पेयादिक्रमः स्याल्लङ्धिते हितः। ज्वरातिसारी पेयां वा पिवेत् साम्लां शृतां नरः”।
ज्वरान्तक = पु० ज्वरस्यान्तक इव ज्वरमन्तयति वा अन्तिण्वुल् वा ६ त० कर्म्म०। आरम्बधेनेपालनिम्बे (सोंदाल) राजनि०। ज्वरान्तकरसः।
ज्वरान्तकरस = पु० ज्वरस्यान्तकः कर्म०।
“भास्करोगन्धकः सर्जो देवी विहङ्गतीक्ष्णकम्। शीणितं गगनञ्चैव पुष्करञ्च महेश्वरम्। भूनिम्बादिगणैर्भाव्यं मधुना गुडिका दृढा। चातुर्थकं तृतीयञ्च ज्वरं सन्ततकं तथा। आमज्वरं भूतकृतं सर्वज्वरमपोहति” भैषज्यर० उक्ते औषधधेदे। अत्र सर्जोरसः, देवी सौराष्ट्रमृत्तिका, विहङ्गं स्वणेमाक्षिकं, मुष्करं रसाञ्जनं, महेश्वरं सुवर्णम् अन्यत् सुगमम्। ताम्रादीनां समभागचूर्णं भूनिम्बादिक्वार्थन भावयेत्। भूनिम्बाद्यष्टादशद्रव्याणि सर्वद्रव्यतुल्यानि अष्टावशिष्टं क्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्य मधुना विमर्द्य अनुरूपं लिहेत्”
ज्वरापहा = स्त्री० ज्वरमपहन्ति अप + हन–ड ६ त०। (वेलशु~ठ) १ विल्वशुण्ठ्याम्, २ विल्वपत्र्याञ्च। ३ ज्वरनाशके त्रि०। शब्दच०।
ज्वरार्य्यभ्र = पु० ज्वरस्वारिः कर्म्म०।
“अभ्रं ताम्रं रसं गन्धं विषञ्चेति समंसमम्। द्विगुणं धूर्त्तवीजञ्च व्योषं पञ्चगुणं मतम्। जलेन वटिकां कुर्य्याद् यथा दोषानुसारतः। अभ्रं ज्वरारिनामेदं सर्वज्वरविनाशनम्। वातिकान् पैत्तिकांश्चैव श्लैष्मिकान् सान्निपातिकान्। विषमाख्यान् द्वन्द्वजांश्च धातुस्थान् विषमज्वरान्। नाशयेन्नात्र सन्देहो वृक्षमिन्द्राशनिर्यथा। प्लीहानं यकृतं गुल्ममग्निमान्द्यं सशोथकम्। कासं श्नासं तृषां कम्पं दाहं शीतं वमिं भ्रमिम्” भैषज्यर० उक्ते औषधभेदे।
ज्वरारिरस = न० ज्वरस्यारिः कर्म्म०।
“दरदबलिरसानां शुल्वनागाभ्रकाणाम् शुभविटकशिलानां सर्वमेकत्र योज्यम्। विपिननृपदलोत्थैर्भावितं शोषयेत्तम् दिवसदशसमाप्तौ रत्तिकैकाञ्च कुर्य्यात्। एकैकां भक्षेयदस्य चार्द्रकस्य रमैर्युताम्। दत्तमात्रं ज्वरं हन्ति ज्वरारिः स निगद्यते। सर्वशूलविनाशी च कफपित्तविनाशनः”। भैषज्यर० उक्ते औषधभेदे। सर्वं (सो~दाली) पत्ररसेन दशदिनं भावयित्वा गुञ्जाप्रमाणमार्द्रकरसेन देयम्”।
ज्वराशनिरस = पु० ज्वरस्थाशनिरिवनाशकत्वात् कर्म०।
“रसं गन्धं सैन्धवञ्च विषं ताम्रं समं भजेत्। सर्वचूर्णसमं लौहं तत्समं चूर्णमभ्रकम्। लौहे च लौहदण्डे च निर्गुण्ड्याः स्वरसेन च। मर्दयेत् यत्नतः पश्चान्मरिचं सूततुल्यकम्। पर्णेन सह दातव्यो रसो रत्तिकसन्मितः। कासं श्वासं महाधोरं विभ्रमाख्यं ज्वरं वमिम्। धातुस्थं प्रवलं दाहं ज्वरदोषं चिरोद्भवम्। यकृद्गुल्मोदरप्लीहश्वयथुञ्च विनाशयेत्” भैषज्यर० उक्ते औषधभेदे।
ज्वरित = त्रि० ज्वरः संजातोऽस्थ तारका० इतच्। १ क्ज्वरयुक्ते ज्वरशब्दे उदा०।
ज्वरिन् = त्रि० ज्वरोऽस्त्यस्य इनि। ज्वरयुक्ते स्त्रियां ङीप्।
ज्वल = दीप्तौ चलने च भ्वा० पर० अक० सेट्। ज्वलति अज्वालीत्। घटा० ज्वलयति। ज्वला० ज्वलः ज्वालः। “जज्वाल लोकस्थितये स राजा” भट्टिः। “जागर्त्ति लोको ज्वलति प्रदीपः सखीगणः पश्यति कौतुकेन। मुहूर्त्तमात्रं कुस् नाथ! धर्य्यं बुभुक्षितः कि द्विकरेण भुङ्क्ते” उद्भटः। उदादिपूर्वकस्य तत्तदुपसर्गद्योत्यार्थ्युक्तदीप्तौ। उज्ज्वलः।
ज्वल = त्रि० ज्वल–दीप्तौ वा अच्। दीप्तिविशिष्टे।
ज्वलका = स्त्री ज्वलतीति ज्वल–बा० वुन्। अग्निशिखायां हेम०।
ज्वलति = पु० ज्वल–भावे श्तिप्। ज्वलनक्रियायाम्। “भ्राजते” इत्याद्युपक्रम्य एकादश ज्वलतिकर्माणः निघ० २। ६। उक्तम्।
ज्वलन = त्रि० ज्वल–ताच्छील्यादौ युच्। १ दीप्तिशीले, २ वह्नौ ३ चित्रकवृक्षे च पु० अमरः।
ज्वलनाश्मन् = पु० नित्यकर्म०। सूर्य्यकान्तमणौ राजनि०।
ज्वलित = त्रि० ज्वल–क्त। १ दग्धे २ दीप्ते च।
ज्वलिनो = स्त्री ज्वल–बा० इनि ङीप्। मूर्वालतायां राजनि०
ज्वाल = पुंस्त्री ज्वल–ण। १ अग्निशिखायाम् अमरः। २ दीप्तियुक्ते त्रि०। ३ दग्धान्ने स्त्री शब्दच०। भावे घञ्। ४ दीप्तौ पु०।
ज्वालखरगद = पु० ज्वालगर्धभाख्ये रोगे राजनि०। जालगर्दभशब्दे दृश्यम् ज्वालागर्दभामयोऽप्यत्र राजनि०।
ज्वालाजिह्व = पु० ज्वाला शिखैव जिह्वा यस्यदाह्यवस्तुलेहनसाधनत्वात्। १ वह्नौ हेम० तन्नामनामके चित्रके च।
ज्वालामालिनी = स्त्री ज्वालानां शिखानां मालाऽस्त्यस्य इनि ङीप्। देवीभेदे। तन्मन्त्रादिकं तन्त्रसारे उक्तं यथा “ओं नमो भगवति! ज्वालामालिनि! गृध्रगणपरिवृते! हुं फट् स्वाहा”। तत्राङ्गन्यासः। “ओं नमो हृदयं प्रोक्तं भगवतीति शिरः स्मृतम्। ज्वालामालिनीति च शिखा गृध्नगणपरिवृते ततः। वर्म स्वाहास्त्रमित्युक्तं जातियुक्तं न्यासेत्तनौ। प्रयोगस्तु ओं नमो हृदयाय नम इत्यादि “अभुक्तो नियतञ्चैव जपेन्मन्त्रं जपाज्जयी। जपेदष्टसहस्रन्तु त्रयोविंशतिवासरान्। प्रत्यहं साधने सिद्धिमाददाति न संशयः। स्मृतिमात्रेण वै मन्त्री रिपून् सर्वान् विनाशयेत्”।
ज्वालामुखी = स्त्री पीठस्थानभेदे। “ज्वालामुख्यां महाजिह्वा देव! उन्मत्तभैरवः। अम्बिका सिद्धिदानाम्री स्तनौ जालन्धरे ममेति” तन्त्रम्। २ विद्याभेदे “ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभे। नित्यारुणा मदनान्तरा मदमोहापकृष्यसिः। कमला श्रीभारती च आकर्षणी महेन्द्र्यपि। ब्रह्माणी चैव माहेशी कौमारी वैष्णवीतथा। वाराही चैव माहेन्द्री चामुण्डेति च पूजयेत्। विजया चाजिता चैव मोहिनी चापराजिता। स्तम्भनी जयनी पूज्या कालिका पद्मबाह्यतः। ज्वाला- मुखी च संपूज्या विषादिहरणं भवेत्”। गारुड० पु। २०४ अ०
ज्वालावक्त्र = पु० ज्वालेन वक्त्रमस्य। शिवे ब्रह्मपु०।
ज्वालिन् = पु० ज्वल–णिनि। १ शिवे “शिखी मुण्डी जटी ज्वाली मूर्त्तिजोमूर्द्धगो बली” भा० अनु० १७ अ०। २ शिखायुक्तमात्रे ३ दीप्तियुक्ते च त्रि० स्त्रियां ङीप्।
ज्वालेश्वर = पु० मत्स्यपु० उक्ते तीर्थभेदे।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यनिर्म्मिते वाचस्पत्ये जकारादिशब्दार्थसङ्कलनम्।
—झ—
झ = झकारो व्यञ्जनवर्णभेदोऽर्द्धमात्राकालोचार्य्यस्तस्योच्चारणस्थानं तालु आभ्यन्तरप्रयत्नः जिह्वामध्येन तालुनः स्पर्शः। बाह्यप्रयत्नाः संवारनादथोषामहाप्राणश्च। मातृकान्यासेऽस्य वामकराङ्गलीमूले न्यस्यता। अस्य ध्येयरूपं कामधेनुतन्त्रे उक्तं यथा “झकारं परमेशानि! कुण्डलीं मोक्षरूपिणीम्। रक्तविद्युल्लताकारं सदा त्रिगुणसंयुतम्। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं तथा” वर्णोद्धारतन्त्रे तदधिष्ठातृदेवतारूपं यथा “ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने!। सन्तप्तहेमवर्णाभां रक्ताम्बरविभूषिताम्। रक्तचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम्। चतुर्द्दशभुजां देवीं रत्नहारोज्ज्वलां पराम्। ध्यात्वा ब्रह्मस्वरूपां तां तन्मन्त्रं दशधा जपेत्”। तस्य वाचकशब्दाः वर्णाभिधानतन्त्रे उक्ता यथा “झोझङ्कारी गुहो मार्गीझर्झरो वायुः सस्वनः। अजेशो द्राविणी नादः पाशी जिह्वा जलं स्थितिः। विराजेन्द्रो धनुर्हस्तः कर्कशः नादजः कुहूः (कुजः)। दीर्थबाहूरसोरूपं ह्याकम्पितसुचञ्चलम्। दुर्मुखो नष्ट आत्मवान् विकटा कुचमण्ड(ङ्ग)लः। कलहंसप्रिया वामा वामाङुलसुपर्वकः। दक्षहासोऽट्टहासश्च पाण्यात्मा व्यञ्जनस्वरः” मात्रावृत्ते तस्य प्रथमविन्यासे फलमुक्तं वृ० र० टो० “प्रीतिं जो मित्रलाभं भयमरणकरौ झ्ञौ ठठौ खेददुःखे”।
झ = पु० झट–संहतौ ड। १ झञ्झावाते २ नष्टे ३ जलवर्षणे शब्दर० ४ झिण्टीशे ५ देवगुरौ ६ दैत्यराजे ७ ध्वनिभेदे ८ उच्चवाते च मेदि०।
झकार = पु० झ + स्वार्थे कारप्रत्ययः। झस्वरूपे वर्णे “झकारं परमेशानि!” कामधेनुत०।
झगझगायमान = त्रि० झगझग + अभूततद्भावे भृशा० क्यङ् शानच्। देवीप्यमाने। “मयूरवरगामिनीं सुरदशुद्धवर्णोत्कटां रणत्क्वणितघण्टिकां निशितशक्तिहस्तोद्यताम्। प्रभानिकररश्मिभिर्झगखगायमानांशुकां नमामि गुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम्” देवी० पु०।
झगति = अव्य० झटिति + पृषो०। शीघ्रार्थे शब्दार्थचि०।
झङ्कार = पु० झमित्यव्यक्तशब्दस्य कारः कृ–थञ्। १ भ्रमरादिशब्दे। “मन्दं मुद्रितपांशुलः परिपतन् झङ्कार- झञ्जामरुत्” अमरुश०। ततः तार० इतच्। झङ्कारित तच्छब्दयुक्ते त्रि०। २ जलकणवर्षणे च शब्दर०।
झङ्कारिणी = स्त्री ६ त०। गङ्गायां झिण्टीशशब्दे उदा०।
झङ्कृता = स्त्री तारादेवतायां “झङ्कृता झिल्ली झरी झर्झरिका तथा” तारासहस्रनाम।
झङ्कृति = स्त्री झम् इत्यव्यक्तशब्दस्य कृतिः कृ–क्तिन्। कांस्यादेर्ध्वनौ शब्दार्थचि०।
झञ्झा = स्त्री झमिति कृत्वा झटति झट–ड। १ ध्वनिभेदे, तथाध्वनियुक्ते २ प्रचण्डानिले च शब्दर०!
झञ्झानिल = पु० झञ्झायुक्तोऽनिलः। प्रावृषिजातवाते त्रिका० झञ्झामरुदादयोऽप्यत्र झङ्कारशब्दे उदा०।
झट = संहतौ भ्वा० पर० अक० सेट्। झटति अझाटीत्–अझटीत्। जझाट।
झटा = स्त्री झट–अच्। १ शूघ्रे। २ भूभ्याम्जलक्यां शब्दार्थचि०
झटि = पु० झट–इन्। क्षुद्रतृणभेदे। (झा~टि) शब्दार्थर०।
झटिति = अव्य० झट क्विप् झट् इण–क्तिन् ६ त० स्वरादि। १ शीघ्रे अमरः। “त्यक्त्वा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम” पदाङ्कदूतम्।
“झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते” “मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्” सा० द०।
झढक = पुंस्त्री अन्त्यजवर्णभेदे “प्रपास्वरण्ये झढकस्य कूपे द्रोण्यां जलं कोशविनिर्गतञ्च” अत्रिसं०।
झणझणा = अव्य० झणत् डाच् द्विश्च पूर्वपदटिलोपः। १ अव्यक्तशब्दभेदे २ तच्छब्दयुक्ते “सर्वं झणझणामूतमासीत्तालवनेष्विव” भा० भी० १९ अ०। ३ झणत्कारशब्दभेदे च।
झण(न)त्कर = पु० झन(ण)दित्यव्यक्तशब्दस्य कारः कृ–घञ्। कङ्कणादिध्वनौ। “उद्वेल्लदुभुजवल्लिकङ्कणझण(न)त्कारः क्षणं वार्य्यताम्” कालिदासः। “उद्वेजयति दरिद्रं परमुद्रागणनझणत्कारः” उद्भटः।
झम = भक्षे भ्वा० पर० सक० सेट्। झमति अझमीत्। जझाम। उदित् झमित्वा–झान्त्वा। झान्तः।
झम्प = पु० लम्फ + पृषो०। (झा~पदिया पडा) लम्फे स्वेच्छाधीने संपातपतने जटाधरः। भावे अ। तत्रार्थे स्त्री “पुच्छास्फोटदलत्समुद्रविवरैः पातालझस्फाश्च ताः” महावीर०
झम्पाक = पुंस्त्री झम्पेन आकायति आ + कै + क। १ वानरे शब्दच०। स्त्रियां जातित्वात् ङीष्।
झम्पाशिन् = पु० झम्पेन जले स्वेच्छया पतनेनाश्नाति अशणिनि। मत्स्यरङ्गपक्षिणि जटाधरः स्त्रियां ङीप्।
झम्पिन् = पु० झम्प + अस्त्यर्थे इनि। वानरे शब्दर०।
झर = पु० झृ–अच। निर्झरे उत्सान्निर्गते जलप्रवाहे। “स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्” नैष०। तस्य स्त्रीत्वम् भरत आह ततः टाप् गौरा० ङीष् वा। “विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्झरामसृणितशिलाः शैलाः सान्द्रद्रुमा वनराजयः” प्रबोधच०। २ तारिण्यां स्त्री ङीष् झङ्कृताशब्दे उदा०।
झर्च = उक्तौ भर्त्सने च तुदा० पर० सक० सेट्। झर्चति अझर्चीत्। जझर्च।
झर्च्छ = उक्तौ भर्त्सनेच तुदा० प्रर० सक० सेट्। झर्छति अझर्छीत्। जझर्छ।
झर्झ = उक्तौ भर्त्सने च तुदा० पर० सक० सेट्। झर्झति अझर्झोत्। जझर्झ।
झर्झर = पु० झर्झ–करच्। (झा~ज) इति ख्याते १ वाद्यभेदे २ पटहे, ३ कलियुगे, ४ नदभेदे च। ३ वाद्यभेदे स्त्री ङीप् मेदि०। ६ वेत्रनिर्मितदण्डभेदे पु० “काञ्चनोष्णीषिणस्तत्र वेत्रझर्झरपाणयः” भा० भी० ९८ अ०। ७ वेश्यायां स्त्री त्रिका० टाप्। ८ तारादेव्यां स्त्री झङ्कृताशब्दे उदा०। ९ वाद्यभेदे स्त्रीशब्दर० गौरा० ङीष्। १० पाकसाधने लौहमये (झाझरा) इति ख्याते पदार्थे पु० रत्नमा०। झर्झरः तद्वाद्यं शिल्पमस्य वा ठक्। झार्झारिकत्द्वादनशीले त्रि० पक्षे अण्। झर्झर तत्रार्थे त्रि० स्वार्थे क। झर्झरिका तारिण्यां झङ्कृताशब्दे उदा०।
झर्झरक = पु० झर्झर + संज्ञायां कन्। कलियुगे त्रिका०।
झर्झरावती = स्त्री झर्झरः शब्दभेदोऽस्त्यस्य मतुप् मस्य वः संज्ञायां पूर्वपददीर्घः। गङ्गायां झिण्टीशशब्दे उदा०।
झर्झरिन् = पु० झर्झरोऽस्त्यस्य इनि। शिवे “त्वं गदी त्वं शरी चापी खद्वाङ्गी झर्झरी तथा” भा० शा० ३८६ अ०।
झर्झरीक = पु० झर्झ–ईकन् फर्फरीका० नि०। शरीरे उज्ज्वलद०।
झलञ्झला = स्त्री ज्वलन्तं ज्वलति अच् पृषो०। हस्तिकर्णास्फालने शब्दार्थचि०
झला = स्त्री झरा–पृषो०। १ कन्यायाम् २ आतपोर्म्मौ च मेदि०
झल्ल = पुंस्त्री झर्छ क्विप् तं लाति ला–क रस्थ लः। “झल्लोमल्लश्च राजन्यादु व्रात्यान्निच्छिविरेव च” मनूक्ते सवर्णायां ब्रात्यक्षत्रियाज्जाते जातिभेदे। “झल्लामल्लानटाश्चैव पुरुषा शस्त्रवृत्तयः। द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः”। मनुना तस्य शस्त्रवृत्तित्व (नेटाली) मुक्तम् “तत्र झल्ला यष्टिप्रहरणाः” कुल्लूक०। “तत्र मल्लानटा झल्लाः सूता यैतालिकास्तथा” भा० स० ४ अ०।
झल्लक = न० झर्छ–क्विष् तं लाति ला–क संज्ञायां रस्य लः। वाद्यभेदे कांस्यनिर्मितकरताले “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम्। दुर्गागारे वंशिवाद्यं मधुरीं च न वादयेत्” ति० त०। तत्रार्थे स्त्री शब्दार्थचि०। गौरा० ङीष्।
झल्लकण्ठ = पु० स्त्री झल्लस्तत्स्वरः इव कण्ठः कण्ठस्वरोऽस्य। पारावते हारा० स्त्रियां जातित्वात् ङीष्।
झल्लरा = स्त्री झर्झति झर्ज–अरन् पृषो०। १ झर्झरवाद्ये वाद्यभेदे २ हुड्डुक्के ३ बालककेशे मेदि० ४ शुद्धे, ५ क्लेदे च अजयपालः। गौरा० ङीष्। झल्लरीत्यप्यत्रार्थे।
झल्लिका = स्त्री झर्झ–ण्वुल् पृषो० १ उद्वर्त्तनमले २ द्योते ३ दीप्तौ च शब्दार्थचि०।
झल्लीषक = न० हल्लीषक + पृषो०। नृत्यभेदे “झल्लीषकन्तु स्वयमेव कृष्णः सुवंशधोषं नरदेव! पार्थ!” हरिवं० १४८ अ०।
झल्लोल = पु० झर्छ–क्विप् तथा सन् लोलः पृषो०। तर्कुलासके (टेकुयार वा~टुल) हारा०।
झष = बधे भ्वा० पर० सक० सेट्। झषति अझाषीत् अझषीत्। जझाष झषः।
झष = ग्रहणे पिधाने च भ्वा० उभ० सक० सेट्। झषतिते अझाषीत् अझषीत् अझषिष्ट। जझाष जझषे।
झष = पु० स्त्री झष–कमणि ध। मत्स्ये, अमरः स्त्रियां जातित्वात् ङीष् “वंशीकलेन वडिशेन झषीरिवास्मान्” आनन्दवृन्दावनचम्पूः २ मकरे जलजन्तुभेदे “झषानां मकरश्चास्मि” गीता ३ मीनराशौ च “कार्मुकतौलिककन्या युग्मलवे झषगे वा” मु० चि०। ४ मकरराशौ “कार्मुकं तु परित्यज्य झषं संक्रमते रविः” मल० त०। भावे क्त। ५ तापे। कर्त्तरि अच्। ६ खिले, ७ वने च न०। ८ नागवलायां स्त्री शब्दर्थचि०।
झषकेतु = पु० झषो मीनो मकरो वा केतुर्यस्य। मदने शब्दार्थचि० झषकेतनादयोऽप्यत्र।
झषाङ्क = पु० झषोऽङ्कोऽस्य। १ कन्दर्पे उपचारात् २ तत्पुत्रे अनिरुद्धे च हेम०।
झषाशन = पुंस्त्री० झषमश्नाति अश–ल्यु। शिशुमारे त्रिका० स्त्रियां जातित्वात् ङीष्।
झषोदरी = स्त्री झषस्योदरं जन्मस्थानतयास्त्यस्था अच् गौरा० ङीष्। मत्स्यगन्धायां व्यासमातरि सत्यवत्याम् त्रिकाण्डशेषः। सा च उपरिचरनृपस्य शुक्रेण ब्रह्मणः शापेन मत्स्ययोनिमाप्तायामद्रिकायाष्सरोभेदस्य गर्भाज्जाता तत्कथा भा० आ० ६३ अ०। “मत्प्रियार्थमिदं सौम्य! शुक्रं मष गृहं नय। गिरिकायाः प्रयच्छाशु तस्या ह्यार्त्तवमद्य वै”। “गृहीत्वा तु तदा श्येनस्तूर्णमुत्पत्य वेगवान्। जवं परममास्थायं प्रदद्राव विहङ्कमः। तमपश्यदथायान्तं श्येनं श्येनस्तथापरः। अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया। तुण्डथुद्धमथाकाशे तावुभौ संप्रचक्रतुः। युध्यतोरपतद्रेतस्त च्चापि यमुनाम्भसि। तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः। मीनभावमनुप्राप्ता बभूब यमुनाचरी। श्येनपादपरिभ्वष्टं तद्वीर्य्यमथ वासवम्। जग्राह तरसोत्पत्य साद्रिका मत्स्यरूपिणी। कदाचिदथ मत्सीं तां बबन्धुर्म्मत्स्यजीविनः। मासे च दशमे प्राप्ते तदा भरतसत्तम!। उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसञ्च मानुषौ। आश्चर्य्यभूतं तज्ज्ञात्वा राज्ञेऽथ प्रत्यवेदयन्। काये मत्स्या इमौ राजन्! संभूतौ मानुषाविति। तयोः पुमांसं जग्राह राजोपरिचरस्तदा। स मत्स्यो नाम राजासीद्धार्म्मिकः सत्यसङ्गरः। साष्सरा मुक्तशापा च क्षणेन समपद्यत। पुरोक्ता सा भगवता तिर्यग्योनिगता शुभे!। मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि। ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना। सन्त्यज्य मत्स्यरूपं तत् दिव्यरूपमवाप्य च। सिद्धर्षिचारणपथं जगामाथ वराप्सराः। या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी। राज्ञा दत्ता च दाशाय कन्येयन्ते भवत्विति। रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः। सा तु सत्यवतो नाम मत्स्यधात्यभिसंश्रयात्। आसीत् सा मत्स्यगन्धिव किञ्चित्कालं शुचिस्मिता”।
झाङ्कृत = पु० झामित्यव्यक्तशब्दः कृतो येन। क्षारभेदे धरणिः। तत्रार्थे झाङ्कित इति पाठः प्रामादिकः।
झाट = पु० झट–णिच्–अच्। १ निकुञ्जे, २ कान्तारे, ३ व्रणादीनां मार्जने च मेदि० ३ भूम्यामलक्याम् स्त्री अमरः ४ यूथिकायाञ्च शब्दच०।
झाटल = पु० झट–णिच् अलच्। घण्टापारुलौ अमरः।
झाटामला = स्त्री झट–अच् न मला अमला कर्म०। भूम्यामलक्याम् “झ(झा)टामला झटा ताली” इत्यत्र झाटामलेत्येकपदमिति केचित् अतएव “झाटामला ज्योत्स्निका च सतिक्ता तु सुदर्शना” भैषज्यर० उक्तम्।
झाटिका = स्त्री झाटा स्वार्थे क। भूम्यामलक्याम् शब्दच०।
झामक = न० झम–कर्मणि ण्वुल्। (झामा) अतिशयपक्वेष्टकायाम् शब्दार्थचि।
झामर = पु० झम–भावे घञ् तं राति रा–क। तर्कुशाणे। शब्दर०।
झालि = पु० “आम्रमामल्फलं पिष्टं राजिकालवणान्वितम्। भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते। झालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी। मन्दं मन्दं निपीता सा रोचनी वह्निरोधिनी” भावप्र० उक्ते पदार्थे
झावु = पु० झा–इति वाति गच्छति बा–डु। (झाउ) वृक्षभेदे अमरः स्वार्थे क। तत्रार्थे शब्दर०।
झिङ्गाक = न० लिगि–आकन् पृषो०। (झिज्ङ्गा) फलभेदे। शब्दार्थचि०
झिङ्गिनी = स्त्री लिगि–णीनि पृषो०। १ जिङ्गिनीवृक्षे भावप्र० २ उल्कायाञ्च शब्दर०।
झिङ्गी = स्त्री लिगि–अच् गौरा० ङीष्। जिङ्गिनीवृक्षे (झिङ्गा) भावप्र०
झिञ्झी = स्त्री० झिञ्झा अस्त्यस्याः अच् गौरा० ङीष्। झिल्ल्याम् (झि~जिपो~का) शब्दार्थचि०।
झिण्टी = स्त्री झिमिति रटति अच् पृषो० गौ० ङीष्। (झा~टि) पुष्पप्रधानवृक्षे अमरः।
झिण्टीश = पु० शिवे “झिण्टीशवन्द्या झङ्कारकारिणी झर्झरावती” काशीपु० गङ्गास्तवः।
झिरि = स्त्री झिरित्यव्यक्तशब्दोऽस्त्यस्याः बा० इन्। चिल्ल्यां वा ङीप्। तत्रार्थे शब्दर०।
झिरिका = स्त्री० झिरीति कायति शब्दायते कै–क। झिल्ल्याम् शब्दर०।
झिल्लि = पु० झिरितिशब्दं लिशति वा० डि। वाद्यभेदे “घण्टाशब्दस्तथा भेरी मृदङ्गो झिल्लिरेव च। पञ्चानां पूज्यते वाद्यं देवताराधनेषुं च” शब्दार्थचि० धृतवाक्यम्।
झिल्ली = स्त्री० चिल्लति चिल–अच् पृषो० गौरा० ङीष्। (झि~झिपो~का) कीटभेदे। संज्ञायां क। आतपरुचौ ३ वर्त्त्याञ्च मेदि०। ४ तारिण्यां च झङ्कृताशब्दे उदा०।
झिल्लीकण्ठ = पु० स्त्री झिल्ली तद्रव इव कण्ठः कण्ठस्वरोऽस्य। गृहकपोते त्रिका० स्त्रियां जातित्वात् ङीष्।
झीरुका = स्त्री झिरित्यव्यक्तं रौति बा० रु–कक्। झिल्ल्याम् शब्दरत्ना०।
झुण्ट = पु० लुण्ट–अच्–पृषो०। अकाण्डे १ द्रुमे, २ स्तम्बे, ३ गुल्मे च शब्दक०।
झुमरि = स्त्री रागिणीभेदे प्रायः शृङ्गारबहुला माध्वीक मधुरा मृदुः। एकैव झुमरिर्लोके वर्णादिनियमोज्झिता। अतो लक्षणमेतस्या नोदाहारि विशेषतः। इदं हि शालिगं सूत्रं प्रसिद्धं नृपरञ्जनम्” सङ्गीत० दा०
झूलि = पु० १ क्रमुकभेदे २ दुष्टदैवश्रुतौ च मेदि०।
झृ = वयोहानौ दिवा० पर० अक० सेट्। झीर्य्यति अझारीत् जझार झरः।
झोड = पु० गुवाकभेदे भूरिप्र०।
झ्यु = गतौ भ्वा० आत्म० सक० अनिट्। झ्यवते अझ्योष्ट। जुझ्युवे। इति वाचस्पत्ये झकारादिशब्दार्थसङ्कलनम्।
—ञ—
“ञकारोव्यञ्जनवर्ण्णभेदः अर्द्धमात्राकालेनोच्चार्य्यः तस्योत्पत्तिस्थानं नासिकानुगततालुस्थानम् तस्योच्चारणे जिह्वामध्येन तालुमध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः। संवारनादघोषा अल्पप्राणश्च बाह्यप्रयत्नाः। मातृकान्यासेऽस्य वामहस्ताङ्गुल्यग्रे न्यास्यता। वर्णाभिधानेऽस्य वाचकशब्दा उक्ता यथा “ञकारो बोधनी विश्वाकुण्डली मखदोवियत्। कौमारी नागविज्ञानी सव्याङ्गलनखो वकः। सर्वेशश्चूर्णितोबुद्धिः स्वर्गात्मा घर्षरध्वनिः। धर्मैकपादः सुमुखो विरजा चन्दनेश्वरी। गायनः पुष्पधन्वा च वागात्मा च विरक्षिणी”। एतदधिष्ठातृदेवीध्येयरूपं यथा “चतुर्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम्। नानालङ्कारसंयुक्तां जटामुकुटराजिताम्। ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्। अस्यस्वरूपं यथा “सदा ईश्वर संयुक्तं ञकारं शृणु सुन्दरि! रक्तविद्युल्लताकारं या स्वयं परकुण्डली। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा” कामधेनुतन्त्रम्। तस्य मात्रावृत्ते प्रथमोपन्यासे मरणं फलम् झशब्दे प्रमाणं दृश्यम्।
ञ = पु० १ गायने २ धर्धरध्वनौ एकाक्षरको०। ३ वृषे ४ शुक्रे ५ वाममतौ च मेदि०।
ञकार = पु० ञ + स्वरूपे कारप्रत्ययः। ञस्वरूपे वर्णे “ञकारो बोधनी विश्वा” वर्णाभिधानम्। इति वाचस्पत्ये ञकारादिशब्दार्थसङ्कलनम्।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते वाचस्पत्ये चवर्गादिशब्दार्थसङ्कलनं समाप्तम्।
—ट—
ट = टकारोव्यञ्जनवर्णभेदः अर्द्धमात्राकालेनोच्चार्य्यः अस्योच्चारणस्थानं मूर्द्धा। अस्योच्चारणे मूर्द्धस्थानेन जिह्वा मध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः। विवारश्वासधोषा बाह्यप्रयत्नाः। मातृकान्यासेऽस्य दक्षिणस्फिचि न्यास्यता वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा “टकारश्च कपाली च सोमेशः खेचरी ध्वनिः। मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नरः। दक्षस्फिगर्द्धचन्द्रश्च जवा भूतिः पुनर्भवः। वृहस्पतिर्धनुर्हस्तः प्रमोदा विमला कटिः। राजगिरिर्महाधनुर्ध्राणात्मा सुमुखी मरुत्”। अस्य स्वरूपं यथा “टकारं चञ्चलापाङ्गि! स्वयं प रमकुण्डली। कोटिवि द्युल्लताकारं पञ्चदेवमयं सदा। पञ्चप्राणयुतं वर्णं गुणत्रय समन्वितम्। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं वरं सदा” कामधेनुतन्त्रम्। एतदधिष्ठातृदेवतारूपं यथा “ध्यानमस्य प्रवक्ष्यामि शृणुष्व वरवर्णिनि!। मालतीपुष्पवर्णाभां पूर्णचन्द्रनिभेक्षणाम्। दशबाहुसमायुक्तां सर्वालङ्कारसंयुताम्। परमोक्षप्रदां नित्यं सदा स्मेरमुखीं पराम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्। मात्रावृत्तेऽस्य प्रथमोपन्यासे खेदःफलम्। झशब्दे प्रमाणं दृश्यम्।
ट = पु० टल–ड। १ वामने २ पादे ३ निःस्वने च मेदि०।
टक = बन्धे चु० उभ० सक० सेट् इदित्। टङ्कयति–ते अटटङ्कत्–त। “टङ्कितेनोऽतिपाटने” काशी० गङ्गास्तवः। “नाकृष्टं न च टङ्कितम् न नमितम् नोत्थापितम् स्थानतः” महाना०। उदु + उल्लेखे। उट्टङ्कितम्।
टकार = पु० ट + स्वरूपे कारप्रत्ययः। टस्वरूपे वर्णे टकारश्च कपाली च” वर्णाभिधानम्।
टक्क = पु० टकि–बा० कक् पृषो० उपधालोपश। देशभेदे।
टक्कदेशीय = पु० टक्कदेशे भवः छ। १ वास्तूकशाके त्रिका०। २ तद्दे शभवमात्रे त्रि०।
टगण = पु० मात्रावृत्ते षाण्मात्रिकप्रस्तावे त्रयोदशभेदात्मके गणभेदे तेषामाकाराधिदेवाश्च छन्दोग्रन्थोक्ता यथा “(ऽऽऽ) १ शिवः।।ऽऽ शशी २ (।ऽ।ऽ दिनपतिः) ३ (ऽ।।ऽ सुरपतिः) ४ (।।।।ऽ शेषः) ५ (।ऽऽ। अहिः) ६ (ऽ।ऽ। सरोजम्) ७ (।।।ऽ। धाता) ८ (ऽऽ।।कलिः) ९ (।।ऽ।। चन्द्रः) १० (।ऽ।।। ध्रुवः) ११ (ऽ।।।। धर्मः) १२ (।।।।।। शालिकरः) १३।
टगर = पु० टः टङ्कनो गर इव। टङ्कनक्षारे (सोहागा) २ हेलाविलासविषये ३ केकराक्षे च त्रि० मेदि०।
टङ्क = पु० टकि–थञ्–अच् वा। १ कोक्पे, २ कोषे, ३ खड्गे ४ पाषाणभेदनेऽस्त्रे च। ५ जङ्घायां मेदि०। ६ चतुर्माषकरूपे परिमाणे वैद्य० ७ नीलकपित्थे, ८ खनित्रे, ९ दर्पे च पु० न० देमच० १० परशौ ११ राजाम्रे च शब्दार्थचि० “दार्य्यतां चैव टङ्कौथैः खनित्रैश्च पुरी द्रुतम्” हरिवं० ९० अ०। “टङ्कैर्मनःशिलगुहेव विदार्य्यमाणा” मृच्छ०। “हिमाद्रिटङ्कादिव भान्ति यस्याम्” भट्टिः। “रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः” रघुः।
टङ्कक = पु० टङ्क्यते घञ् सज्ञायां क। (तङ्का) रजतमुद्रायाम् सारमुन्दरी।
टङ्ककपति = पु० ६ त०। रूपकाध्यक्षे (टा~कशालेर अध्यक्ष) सारसुन्दरी।
टङ्ककशाला = स्त्री ६ त०। (टा~कशाल) ख्याते रूप्यकनिर्माण गृहे सारसुन्दरी।
टङ्कटीक = पु० टङ्क इव टीकते टीक–क। शिवे त्रिका०।
टङ्कण(न) = न० टकि–ल्यु पृषो वा णत्वम्। (सोहोगा) ख्याते स्वर्णद्रावके १ उपरसभेदे। उपरसभेदाश्च भाव० प्र० उक्ता यथा “गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं टङ्क(न)णम्। राजावर्त्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम्। कासीसं रसकं कपर्दसिकतावोलाश्च कङ्कुष्ठकम् सौराष्ट्री च मता अमी उपरसाः सूतस्य किञ्चिद्गुणैः”। “तद्यथा लवणेन सुवर्णम्” छा० उ० भाष्ये “लवणेन क्षारेण टङ्कनादिना, स्वरेषु मृदुत्वकरं हि तत्” भा०। “टङ्कणं वह्निकृद्रक्षं कफवातिकपित्तहृत्” भावप्र०। भावेल्युट्। (टा~कादेअओया पानिदिया झाला) २ धातूनां योजनभेदे। दन्त्यान्तः ३ अश्वभेदे पु० स्त्री “तङ्कनखरनखरखण्डितहरितालपांशुलेन” काद० मूर्द्धन्यान्तः ४ देशभेदे स च देशः वृ० स० १४ अ०। कूर्मविभागे दक्षिणस्यामुक्तः। “अथ दक्षिणेन लङ्का” इत्युपक्रमे “कङ्कटटङ्कनंवनवासिशिविकफणिकारकोङ्कणाभीराः” इत्युक्तेः।
टङ्कवत् = पु० टङ्क + अस्त्यर्थे मतुप् मस्य वः। १ पर्वतभेदे “तङ्कवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्” रामा० ३। ५५ अ०
टङ्का = स्त्री टकि–अच्। १ जङ्घायां मेदि०१। २ तारादेव्यां टङ्कारकारिणीशब्दे दृश्यम्।
टङ्कानक = पु० टङ्कं कोपमानयति उद्दीपयति अन–णिच् ण्वुल्। १ ब्रह्मदारुवृक्षे (वामनगाछा) शब्दच०।
टङ्कार = पु० टमित्यव्यक्तशब्दस्य कारः कृ–घञ्। १ ध्वनिभेदे धनुर्ज्याकर्षणजे शब्दे २ विस्मयहेतुके शब्दे च। ३ शिञ्जिनीध्वनौ प्रसिद्धे च मेदि०। कृ–णिनि। टङ्कारिन् १ टङ्कारयुक्ते त्रि० स्त्रियां ङीप् सा च २ तारादेव्यम् टङ्कारकारिणीशब्द दृश्यम्।
टङ्कारकारिणी = स्त्री० कृ–णिनि ङीप् ६ त०। तारादेव्याम् “टङ्कारकारिणी टीका टङ्का टङ्कारिणी तथा तारासहस्रनाम्।
टङ्कारी = दु० स्त्री टङ्कमृच्छति ऋ–अण् गौरा०। (टेकारी) वृक्षभेदे “टङ्कारी वातश्लेष्मध्नी शोफोदररुजापहा। तिक्ता च दीपनी लघ्वी भिषग्भिः परिकीर्त्तिता” राजनि०।
टङ्ग = पु० न० टङ्क + पृषा०। १ खानत्र (टा~गि) परशुभेदे च ३ जङ्घायां मेदि०। (सोहागा) ४टङ्गने शब्दच०। ५ चतुर्माषकमाने वैद्य०।
टङ्गण = पु० न० टङ्कण + पृषो० (सोहागा) टङ्कणे।
टङ्गिनी = स्त्री टकि–णिनि पृषो०। (आकनादी) पाठायाम्। शब्दच०।
टट्टनी = स्त्री टट्टेति शब्दं नयति नी–ड गौरा० ङीष्। ज्येष्ठ्याम् त्रिका०।
टट्टरी = स्त्री टटेति शब्दं राति रा–क गौरा० ङीष् ० पटहवाद्ये २ लम्पावाद्ये ३ मृषावाद च मेदि०।
टट्टुर = पु० भेरीशब्दे हेमच०।
टल = विप्लवे (टला) भ्वा०–पर० अक० सेट्। टलति अटालीत टटाल टेलतुः। ज्वला० टलः टालः।
टवर्ग = पु० ट + प्तातिशाख्योक्तः वर्गप्रत्ययः। ट ठ ड ढ ण रूपनु वणषु। तता भावथि छ। टवगोय ष्ठादौ वर्णे।
टा = स्त्री टल–ड। पृथिव्याम् एकाक्षरकोषः।
टाङ्क = न० टङ्केन तद्रसेन निर्वृत्तम्। टङ्करूपनीलकपित्थरसेन निर्वृत्ते मद्यभेदे। “पानसं द्राक्षमाधूकं खार्जुरं तालमैक्षवम्। माध्वीकं टाङं मार्द्वीकमैरेयं नारिकेलजम्। सामान्यानि द्विजानीना मद्यान्य कादशैव च। द्वादशन्तु सुरा मद्यं सर्वेषामधमं षृतम्”। पुलस्त्वेन तत्पानं निषिडम्। असूयत इति आसवो मद्यानामवस्थाविशषः सदाःकृतसन्धानेन सञ्जातमद्यभावः यमधिकृत्य इदं पुलस्त्योक्त प्रायश्चित्तम्। द्राक्षेक्षुटङ्कखर्जूरपनसादेश्च यो रसः। सद्योजातन्तु पीत्वा तं त्र्यहाच्छुध्येद् द्विजोत्तमः”
टाङ्कर = प० टाङ्कं तत्तल्यरसं राति रा–कटाङ्क + कुञ्जा० र वा। नागवीटे वृक्षभेदे त्रिका०।
टार = पुंस्त्री० टां पृथवीमृच्छति ऋ–अण् उप० स०। घोटके स्त्रियां जातित्वात् ङीष्। २ रङ्गे ३ लङ्गे च हेमच०।
टिक = गतौ भ्वा० आ० सक० सेट्। टेकते अटेकिष्ट टिटिके। ऋदित् अटिटेकत् त।
टिटिभ = पुंस्त्री० टिटीति अव्यक्तशब्दं भणति भण–ड। को यष्टिके (टिटिरि) स्त्रियां ङीष् स्वार्थे क तत्रार्थे अमरः।
टिट्टिभ = पुंस्त्री० टिट्टीत्यव्यक्तं शब्दं भणति भण–ड। (टिटिरि) कोयष्टिके खगे अमरः स्त्रियां ङीष्। “अनिर्द्दिष्टांश्चैकशफांष्टिट्टिभांश्च विवर्जयेत्” मनुना तन्मांसभक्षणं निषिद्धम्। “टिट्टिभं तदुपे ते राज्यध्यानमिवातुरः” भा० शा० १११ अ०। कोयष्टिकशब्दे २२६६ पृ० तन्मांसगुणा उक्ताः। टिट्टिभक स्वार्थे क। तत्रार्थे पुंस्त्री०।
टिण्टिनिका = स्त्री अम्बुशिरीषिकायां (जो~क) भावप्र०।
टिण्डिश = पु० रोमशफले (ढा~डश) ख्याते वृक्षभेदे राजनि०। “टिण्डिशो रुचिकृत् भेदी पित्तश्लेष्माश्मरीप्रणुत्। सुशीता वातला रूक्षा मूत्रला च प्रकीर्त्तिता” भावप्र०।
टिप = नोदने चुरा० उभ० सक० सेट्। टेपयति–ते अटीटिपत्–त।
टिप्पनी = स्त्री टिप–क्विप् टिपा पन्यते स्तूयते पन–धञर्थे क गौरा० ङीष्। टीकायाम्। सा च टीकाव्याख्यारूपतयैव व्यवह्रियते यथा चिन्तामणिटीकाया दीधितिव्याख्यायाः टीका जगदीशकृता गदाधरकृता च। यथा शारीरिकसूत्रभाव्यव्याख्या पञ्चपादिका भामती च। महाभाष्यव्याख्या कैयटकृता इत्यादि। प्रथमव्याख्यायामपि क्वचित् प्रयुज्यते यथा “श्रीमतङ्गाननं नत्वालीलावत्याः सुटिप्पनी। भवेशेन सुबोधार्थं क्रियते यद्गुरोः श्रुतम्” “टिप्पनी दायझागस्य श्रीनाथेन विधीयते”।
टीक = गतौ भ्वा० आत्म० सक० सेट्। टीकते अटीकिष्ट। ऋदित्। अटिटीकत् त।
टीका = स्त्री टीक्यते गम्यते ग्रन्थार्थोऽनया। टीक–करणे घञ् घञर्थे क वा। विषमपदव्याख्यारूपे ग्रन्थभेदे। “अपटीको जडो माघे भृशं जाद्येन ताड्यते। स च किञ्चित्तरत्येव कण्ठसंलग्नबल्लभः” उद्भटः। “नत्वा भगवतीं दुर्गा टीकां दुर्गार्थबुद्धये। कुरुते दायभागस्य भट्टाचार्य्यमहेश्वरः” “करोति टीकामिह दायभागग्रन्थावबोधाय सदेकरम्याम्” श्रीकृष्णतर्का०।
टुण्टुक = पु० स्त्री टुण्टु इत्यव्यक्तं कायति कै–क। (टुण्टुनि) १ पक्षिभेदे शब्दर०। स्त्रियां जातित्वात् ङीष्। २ शोणाकवृक्षे अमरः। ३ कृष्णस्तदिरे शब्दच०। तयोः तत्खगप्रियत्वात् तथात्वम्। ४ अल्पे त्रि० मेदि०। ५ क्रूरे त्रि० विश्वः। ६टङ्किनीवृक्षे स्त्री शब्दच०।
टुनाका = स्त्री तालमूलीवृक्षे शब्दच०।
टेरक = त्रि० केकर + पृषो०। (टेरा) केकरनेत्रे। शब्दार्थचि०।
टोट = त्रि० त्रोट + पृषो०। १ अल्पे २ हीने च। स्त्रियां गौरादिपाठात् ङीष्।
टोडलतन्त्र = न० तन्त्रभेदे।
ट्वल = विप्लवे भ्वा० पर० अक० सेट्। ट्वलति अट्वालीत् ज्वला० ट्वलः ट्वालः। इति वाचस्पत्ये टकारादिशब्दार्थसङ्कलनम्।
—ठ—
ठ = ठकारो व्यञ्जनवर्णभेदः। टवर्गीयः मूर्द्धन्यः अर्द्धमात्राकालोच्चार्य्यः। तस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्य स्पर्शः आभ्यन्तरप्रयत्नः। विवारश्वासाधोषा महाप्राणश्च बाह्यप्रयत्नाः। मातृन्यासेऽस्य दक्षजानुनि न्यस्यता वर्णाभिधानेऽस्य वाचकशब्दा उक्ता यथा “ठः शून्यो मञ्जरी जीवः पाशिनी लाङ्गलं क्षमा। वनजो नन्दनो जिह्वा सुनन्दाथूर्णकः सदा। वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः। दक्षजानूरूभावश्च देवभक्षो वृहद्ध्वनिः। एकपादो विभूतिश्च ललाटं सर्वमित्रकः। वृषघ्नो नलिनी विष्णुर्महेशो ग्रामणीः शशी”। एतदधिष्ठातृदेवतारूपं यथा “ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने!। पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम्। सुन्दरीं षोडशभुजां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्। अस्य ध्येयरूपं यथा “ठकारं चञ्चलापाङ्गि, कुण्डली मोक्षरूपीणी। पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम्। पञ्च्देवात्मकं वर्णं पञ्चप्राणमयं सदा। त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं सदा” इति कामधेनुतन्त्रम्। मात्रावृत्तेऽस्य प्रथमोपन्यासे दुःखं फलम् झशब्दे प्रमाणं दृश्यम्।
ठ = पु० ट + पृषो०। शिवे २ महाध्वनौ ३ चन्द्रमण्डले एकाक्षरकोषः। ४ मण्डले ५ शून्ये ६ लोकगोचरे च मेदि०। शून्यञ्चात्र विन्दुरूपवर्णभेदः। “स्मितमुखि! तदधष्ठद्वयम् योजयित्वा” कर्पूरस्तवः (ठद्वयं स्वाहा)। “द्विठमेव चेत्यस्य व्याख्यायां द्विठं विसर्गस्तस्य विन्दुद्वयात्मक्त्वात् विसर्गशब्देन च लक्षितलक्षणया स्वाहाकारी लक्ष्यते स्वाहाशब्देनैव वह्नौ त्यागात् त्यागस्य च विसर्गपर्य्यायत्वात्” इत्येवं रघुनन्दनादिसम्प्रदायविदः।
ठकार = पु० ठ + कार। ठस्वरूपे वर्णे “ठकारं चञ्चलापाङ्गि!” कामधेनुत०।
ठक्कुर = पु० १ देवपतिमायां, २ द्विजोपाधिभेदे च। यथा गोविन्दठक्कुरः काव्यप्रदीपकर्त्ता। ३ देवतायाञ्च। “सुदामा नाम गोपालः श्रीमान् सुन्दरठक्वुरः” अनन्तसंहिता। इति वाचस्पत्ये ठकारादिशब्दार्थसङ्कलनम्।
—ड—
ड = डकारो व्यञ्जनवर्णभेदः मूर्द्धन्यः अर्द्धमात्राकालोच्चार्य्यः टवगीर्यः। तस्योच्चारणे जिह्वामध्येन मुर्द्धस्थानस्य स्पर्शआभ्यन्तरयत्नः। संवारनादघीषा अल्पप्राणश्च बाह्यप्रयत्नाः। मातृकान्यासेऽस्य दक्षपादगुल्फे न्यस्यता। अस्य वाचकशब्दा यथा “डः स्मृतिर्दारुका नन्दिरूपिणी योगितीप्रियः। कौमारी शङ्करस्त्रासस्त्रिवक्त्रो व्यापकोध्वनिः। दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती। कोल्लगिरिः क्षमा शान्तिर्नाभिः स्वाती च लोचनम्” वर्णाभधानम्। तदधिष्ठातृदेवतारूपं यथा “व्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता मम। जवासिन्दूरसङ्काशां वराभयकरापराम्। त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” इति वर्णोद्धारतन्त्रम्। अस्य ध्येयरूपं यथा। “डकारं चञ्चलापाङ्गि! सदा त्रिगुणसंयुतम्। पञ्चदेवमयं वर्णं पञ्चप्राण- मयं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा। चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुतम्। पीतविद्युल्लताकारं डकारं प्रणमाम्यहम्” इति कामधेनुतन्त्रम्। तस्य मात्रावृत्ते प्रथमोपन्यासे शोभा फलम् “डः शोभां ढो विशोभां भ्रमणमथ च णस्तस्तु खं थस्तु युद्धम्” वृ० र० टी० धृतवाक्योक्तेः।
ड = पु० डी–ड। १ शिवे २ शब्दे ३ त्रासे च एका० को०। ४ वाडवाग्नौ ५डाकिन्यां स्त्री मेदि०।
डकार = पु० ड + कारप्रत्ययः। डस्वरूपे वर्णे।
डगण = पु० छन्दोग्रन्थोक्ते चतुर्मात्रकप्रस्तावे पञ्चभेदभिन्ने गणभेदे तत्स्वरूपादिकं यथा (ऽऽ गजः १) (।।ऽ रथः २) (।ऽ। तुरङ्गमः ३) (ऽ।। पदातिः ४) (।।।। पत्तिः ५) इति।
डङ्गरी = स्त्री डं त्रासं गिरति गॄ–अच् पृषो० गौरा० ङीष्। दीर्घकर्कथाम् (का~कडी) राजनि० अण्। डङ्गारीत्यप्यत्रार्थे।
डप = संघाते (राशीकरणे) चु० आत्म०अक० सक० सेट्। डापयते अडीडपत। चुरादित्वेऽपि डित्करणादफलवत्कर्त्तर्य्यपि आत्म०। तेनास्य ञित्करणसामर्थ्यात् पाक्षिकचुरादित्वम् पक्षे भ्वादित्वम्। डपते अडपिष्ट।
डप = संहतौ उक्तौ डपवत् इदित्। डम्पयते अडिडम्पत। पक्षे भ्वा० डम्पते अडम्पिष्ट।
डब = लोकने चुरा० उभ० सक० सेट्। डम्बयति अडडम्बवत् शब्दस्तोमे अस्य वा चुरादित्वोक्तिः प्रामादिकी।
डभ = संधे चुरा० इदित् उभ० सेट्। डम्भयति ते अडडम्भत् त।
डम = पु० डं त्रासं माति मा–क। चाण्डाल्यां नेटाज्जाते सङ्कीर्णजातिभेदे (डोम) ब्रह्मपु०। स्त्रियां–जातित्वात् ङीष्।
डमर = पु० डमेति शब्दं राति रा–घञर्थे क। भीत्या पलायने हारा०।
डमरु = पु० डमिति शब्दमृच्छति ऋ–मृगया० कु० नि०। १ वाद्यभेदे क्षीणमध्ये प्रान्ते दीर्घे, पुटिकाद्वयलम्बिते कापालिकयोगिवाद्ये अमरः। तत्रार्थे हारा० न०। “दत्त्वा डमड्डमरुडाङ्कृतिहूतभूतवर्गान्तु भर्गगृहिणीं रुधिरैर्धिनोमि” प्रबोधच०। (डमत् डमेति शब्दं कुर्वत्)।
डमरुका = स्त्री “मुष्टिञ्च शिथिलां बद्ध्वा ईषदुज्झतमध्यमम्। दक्षिणां तूर्द्धमुन्नस्य कर्णदेशे प्रधारयेत्। एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी” तन्त्र० उक्ते मुद्राभेदे।
डम्बर = पु० डपि–संहतौ बा० अरन्। १ समूहे आडम्बरे २ आयोजने “अजायुद्धे ऋषिश्राद्धे प्रभाते मेघडम्बरः” चाणक्यः। ३ धातृदत्ते कुमारानुचरभेदे। “डम्बराडम्बरी चैव ददौ धाता महात्मने” भा० श० ४७ अ०।
डयन = न० डी–भावे ल्युट्। खगानां नभोगतौ (ओडा) करणे ल्युट्। २ कर्णीरथे हेमच०।
डल्लक = न० वंशनिर्भितपात्रभेदे (डाला) “त्रिशतञ्च षष्ट्यधिकं डल्लकं वस्त्रसयुतम्। सभाज्य सौपवीतञ्च सोपहारं मनोहरम्” ब्रह्मवै०
डवित्थ = पु० “डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः”। सुपद्मोक्ते काष्ठमये १ मृगे २ द्रव्यवाचिसंज्ञाशब्दभेदे च “द्रव्यशब्दाः एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः” सा० द०। शब्दकल्पद्रुमेऽयं वर्ग्यमध्यतया निटेशितस्तन्मूलं चिन्त्यम्।
डहु(हू) = पु० दह उ वा ऊङ् मृगय्वादि० नि०। नकुचे (मान्दार) “डहुर्गुरुश्च विष्टम्भी त्रिदोषबुक्रदोषहृत्” भावप्र० तद्गुणोक्तिः शब्दरत्नाबल्यामयं दीर्थान्ततया तदर्थे पठितः।
डाकिनी = स्त्री डस्य त्रासार्थम् अकति अक–वक्रगतौ णिनि ङीप्। देव्या अनुचरीभेदे। “सार्द्धञ्च डाकिनीनां च विकटानां त्रिकोटिभिः” ब्रह्मपु०।(डान) इति ख्याते दर्शनमात्रेण २ उपद्रवकारिस्त्रीजनभेदे। “डाकिनी शाकिनी भूतप्रेतवेतालराक्षसाः काशीख० ३० अ०।
डाङ्गरी = स्त्री डङ्गरी पृषो०। दीर्घकर्कट्याम् (का~कडी) राजनि०
डामर = पु० शिवप्रोक्ते तन्त्रशास्त्रविशेषे तच्च ष्यड्विधं तेषां मानादिकं वाराहितन्त्रे उक्तं यथा “डामरः षड्विधो ज्ञेयः प्रथमो योगडामरः १। श्लोकास्तत्र त्रयस्त्रिंशत् तथा पञ्च शतानि ञ्च त्रिविशतिःसहस्राणि श्लोकाश्चैव हि संख्यया। एकादशसहस्राणि सङ्घ्याताः शिवडामरे २। श्लोकाः सप्तैव निश्चित्य ईश्वरेणैव भाषिताः। तावच्छ्लोकसहस्राणि पञ्च श्लोकशतानि च। गुणोत्तराणि दुर्गाया डामरे ३ कथितानि च। नव श्लोकसहस्राणि नव श्लोकशतानि च। सारस्वते ४ तथा श्लोकाः पञ्चैव परिकीर्त्तिताः शरसंख्यसहस्राणि श्लोकानां ब्रह्मडामर ५। पञ्चोत्तरशतान्यत्र संख्यानि शिवेन तु षष्टिः। श्लोकसहस्राणि गान्धेर्वे ६ डामरोत्तमे। श्लोकाश्च षष्टिसंख्याता ब्रह्मणाऽव्यक्तयोनिनेति”।
डालिम = पु० दाडिम्ब + पृषो०। स्वनाप्रख्याते फलप्रधाने वृक्षे भरतः।
डाहन = पु० त्रिपुरदेशे त्रिका०।
डाहूक = पुंस्त्री० डेति हूयते ह्वे–बा० डूक पृषो०। दात्यूहखगे जटा० स्त्रियां जातित्वात् ङीष्।
डिङ्गर = पु० डङ्गर + पृषो०। १ डङ्गरशब्दार्थे २ क्षेपे ३ वने ४ धूर्त्ते ५ सेवके च शब्दर०।
डिडिका = स्त्री यौवनकालजाते पलिततासूचके रोगभेदे। “यौवने डिडिकास्वेव विशेषाच्छर्दनम् हितम्” सुश्रु०।
डिडिमा = पु० स्त्री सुश्रुतोक्ते प्रतुदे खगर्भेदे स्त्रियां जातित्वात् ङीष्। प्रतुदशब्दे तद्मेदा दृश्याः।
डिण्डिम = पु० डिण्डेतिशब्दं माति। १ वाद्यभेदे (ढे~डरा) अमरः। “आर्य्यबालचरितप्रस्तावनाडिण्डिमः” वीरच० “भेरीश्चाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः” भा० द्रो० १९६ अ०। २ कृष्णपाकफले पानीयामलके शब्दच०।
डिण्डिमेश्वर = पु० शिवपु० उक्ते तीर्थभेदे।
डिण्डिर = पु० हिडि–बा० किरच आदेर्हस्य डः। समुद्रफेने हेमच०।
डिण्डिरमोदक = न० डिण्डिर इव मोदकः मोदयति मोदि–ण्वुल्। गृञ्जने (गा~जा) ख्याते मादक द्रव्यभेदे राजनि०।
डिण्डिश = पु० डिण्डिक + पृषो०। (ढा~डश) इति ख्याते रोमशफले वृक्षभेदे। “डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः। सुशीतो वातलोरूक्षो मूत्रलश्चाश्मरीहरः। निःशेषवीजं स्वतिवृत्तखण्डं सहिङ्गुकम् प्रोज्झितचण्डशब्दम्। स्नेहप्रतप्तं चलदार्वदण्डं रुचिप्रदं डिण्डिशकं सपिण्डम्” वैद्यक०।
डिण्डीर = पु० हिडि–ईरच् आदेर्हस्य डः। समुद्रफेने हेमच०।
डित्थ = पु० डवित्थशब्दोक्ते काष्ठमये १ हस्तिनि एकव्यक्तिमात्रबोधके २ संज्ञाशब्दभेदे तत्प्रतिपाद्ये ३ अर्थभेदे च।
डिप = संहतौ बा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट्। डेपयति–ते डेपते ऋदित् आडिडेपत् त।
डिप = प्रेरणे वा चु० उभ० पक्षे तुदा० पर० सक० सेट्। डेपयति–ते अडीडिपत्–त कुटा० डिपति अडिपीत्। दिवादित्वमपीच्छन्ति डिप्यतिं इरित् अडिपत् अडेपीत्।
डिप = संहतौ वा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् इदित्। डिम्पयति–ते डिम्पते। अडिडिम्पत्–त अडिम्पष्ट।
डिब = संघे प्रेरणे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। डिम्बयति–ते अडिडिम्बत् डिम्बति अडिम्बीत्।
डिभ = हिंसे संहतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। इदित्। डिम्भयति–ते अडिडिम्भत्–त डिम्भति अडिम्भीत्।
डिम = हिंसने सौ० पर० सक० सेट्। डेसति अडेमीत्।
डिम = पु० डिम–क। दृश्यकाव्यरूपनाटकभेदे। “मायेन्द्रजालसंग्रामक्रोधेदुभ्रान्तादिचेष्टितैः। उपरागैश्च भूयिष्ठो डिमः ख्यातोऽतिवृत्तकः” सा० द० तल्लक्षणमुक्तम्।
डिम्ब = पु० डिबि–घज् अच् वा। १ भये २ कलले, ३ फुप्फुसे च हारा० ४डमरे, अमरः ५ भयध्वनौ ६ अण्डे, ७ प्लीहनि, ८ विप्लवे च मेदि०।
डिम्बाहव = न० डिम्बं भयध्वनियुक्तमाहवम् युद्धम्। युद्धभेदे तस्य नृपतिशून्यतया भययुक्तध्वनिमत्त्वात् तथात्वम्। “डिम्बाहवहतानां च विहितं पार्थिवेन च” मनुना तद्युद्धमृतस्य सद्यःशौचमुक्तम्। जटाधरे पुंस्त्वपाठः प्रामादिकः आहवशब्दान्तत्वात् द्वन्द्वतत्पुरुषयोः परवल्लिङताविधानात् क्लीवत्वौचित्यात्। “डिम्बाहवार्दितानाञ्च असुराणां परायणम्” भा० आ० २१ अ०।
डिम्बिका = स्त्री डिबि–ण्वुल्। १ कामुक्यां २ जलबिम्बे ३ शोणाकवृक्षे च शब्दरत्ना०। अच् गौरा० ङीष्। डिम्बीत्यप्यत्र।
डिम्भ = त्रि० डिभि–अच्। १ शिशौ अमरः २ मूर्खे मेदि०।
डिम्भक = पु० डिम्भ + स्वार्थे क। १ बालके शब्दर० २ शाल्वदेशपति ब्रह्मदत्तसुतभेदे। तत्कथा हरिवं० २९५ अध्यायादौ दृश्या “हंसो ज्येष्ठो नृपसुतो डिम्भकोऽनन्तरोऽभवत्” “हंसश्च डिम्भकश्चैव तपश्चर्तुं महामते!”।
डिम्भचक्र = न० स्वरोदयोक्ते शुभाशुभसूचके चक्रभेदे चक्रशब्दे २८३० पृ० दृश्यम्।
डी = नभोगतौ (ओडा) भ्वा० आ० अक० सेट्। डयते अडयिष्ट डिड्ये डीनः। प्राद्युपसर्गभेदे खगगतिभेदाः खगगतिशब्दे २४१४ पृ० दृश्याः। गतौ दिवा० आ० सक० निधण्टुः। डीयते।
डीतर = त्रि० डी–क्विप् तत्स्तरप्। नभोगतियुक्ततरे “तस्मादिमा अजा अरा डीतरा आक्रममाणा इव यन्ति” शत० ब्रा० ४। ५। ५। ५।
डीन = न० डी–भावे क्त। पक्षिगतिभेदे जटा०। खगगतिशब्दे २४१४ पृ० दृश्यम्। २ आगमशास्त्रविशेषे च यथा “डामरं डमरं डीनं श्रुतं कालीविलासकम्। सप्तकोटिमिता ग्रन्था मम वक्त्रात् विनिर्गताः” मुण्ड० त०।
डीनडीनक = न० पक्षिगतिभेदे खगगतिशब्दे २४१४ पृ० दृश्यम्।
डीनावडीनक = न० खगगतिभेदे खगगतिशब्दे २४१४ पृ० दृश्यम्।
डुण्डुभ = पुंस्त्री० डण्डुइत्यनुकरणशब्दं भणति तेन भाति वा भण–भा–वा ड। (ढा~डा) इति ख्याते सर्पभेदे अमरः) स्त्रियां जातित्वात् ङीष्। “शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम्” भा० आ० ९ अ०। पृषो० अन्त्यलोपे डुण्डुरपि तत्रार्थे पुंस्त्री० त्रिका०।
डुण्डुल = पुंस्त्री डुण्डु इति शब्दं लाति ला–क। क्षुद्रपेचके राजनि० स्त्रियां जातित्वात् ङीष्।
डुल = पु० डु इति शब्दं लाति ला–क। पेचकभेदे ततः वरणा० चतुरर्थ्यां य। डुल्य तत्सन्निकृष्टदेशादौ त्रि०।
डुलि = स्त्री दुलि + पृषो०। कमथाम् दुलौ रायमुकुटः।
डुलिका = स्त्री डुलिरिव कायति कै–क। खञ्जनाकारे खगभेदे जटाधरः।
डोडिका = स्त्री (करेरूआ) इति प्रसिद्धे फलशाकविशेषे। “डीडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः। हन्ति पित्तकफार्शासि कृमिगुल्मविषामयान्”। “बल्यं डोडीफलमविकलं स्विन्नमीषच्च तोये स्तेहे हिङ्गुप्रणयिनि ततो वेसवारेण सिद्धम्। गव्यं तक्रं क्वथितनिहितं साधितं रामठेन खादन् खादन् निभृतममृतं निन्दितं भोक्तृभिस्तत्। सन्धूय शुष्कं तरणेः प्रतापात् प्रतप्तमाज्येन च डोडिशाकम्। ससैन्धवं रामठदत्तवासं खादन्नरो निन्दति व्यञ्जनानि। डोडिका वांतला रूक्षा शीता गुर्वी विषापहा। सुस्विन्ना रोचना हृद्या अखिन्ना कण्ठकर्त्तरी” शब्दार्थचि० धृतवाक्यम्।
डोडी = स्त्री डोडिकायां क्षुपभेदे राजनि०। डोडिकाशब्दे दृश्यम्।
डोम = पु० स्त्री स्वतामख्याते सङ्कीर्णजातिभेदे स्त्रीयां ङीष्। तस्यास्पृश्यत्वमुक्तं मुत्स्यसूक्ततन्त्रे ३९ पटले “चण्डालश्चैव डोमश्च खानकश्च तथा यतिः। दण्डीरश्चैव भण्डीरो भूषुण्डश्च वृथाश्रमी। वृथा मुण्डी लिङ्गधारी समा एते यशस्विनि!। स्पृष्ट्वा प्रमादतः स्नात्वा गायत्र्यष्टशतं जपेदिति”।
डोर = न० दोष् + रा–ड पृषो०। हस्तबाह्वादौ बन्धनसूत्रे “कोऽनन्त इत्युदीर्य्याथ धृत्वा तत्करपल्लवम्। हस्तादाकृष्य तड्डोरं क्षिप्तवान् पावकोपरि” भविष्य० पु० स्वार्थे क तत्रार्थे न०। तत्रैव “चतुर्दशग्रन्थियुक्तं कुङ्कमाक्तं सुडोरकम्। स्त्रियश्च पुरुषश्चैव बन्धीयात् वामदक्षिणे”।
डोरडी = स्त्री डोरमिव डयते डी–ड गौरा० ङीष्। वृहत्याम् राजनि०।
ड्वल = मिश्नीकरणे चु० उभ० सक० सेट्। ड्वालयति ते अडि- ड्वलत् त। कात्या० श्रौ० १६। ३२० सूत्रभाष्ये “मिश्रयति आड्वालयतीत्यर्थः” कर्कः। “मेक्षयतिराड्वालनार्थः” कात्या० श्रौ० १०। ४। ७। कर्कः “पार्श्वेनाज्यं बसां च
मिश्रयत्याड्वालयति” ५। ८। १८। कर्कः। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते वाचस्पत्ये डकारादिशब्दार्थसङ्कलनम्।
—ढ—
ढ = ढकारो व्यञ्जनवर्णभेदोऽर्द्ध मात्राकालोचार्य्यः मूर्द्द्यन्यः टवर्गीयः। तस्योच्चारणे जिह्वामध्यभागेन मूर्द्ध्नः स्पर्शः आभ्यन्तरप्रयत्नः। सवारनादघोषा महाप्राणश्च बाह्यप्रयत्नाः। मातृकान्यासेऽस्य दक्षपादाङ्गुलिमूले न्यस्यता। वर्णाभिधने अस्य वाचकशब्दा उक्ता यथा “ढो ढक्का निर्णयः शूरो यक्षेशो धनदेश्वरः। अर्द्धनारीश्वर्स्तोयमोश्वरस्त्रिशिखोनरः। दक्षपादाङ्गुलीमूलं सिद्धिदण्डो विनायकः। प्रहासस्त्रिपुरा सन्धिर्निर्गुणो निधनो धनी। विघ्नेशः पाशिनी तङ्कधारीणी क्रोडपुच्छकः। एलापुरं च दुर्गात्मा विशाखा भ्रामणोरतिः”। एतदधिष्ठातृदेवतारूपं वर्णोद्धारतन्त्रे उक्तं यथा। “रक्तोत्पलनिभां रम्यां रक्तपङ्कजलोचनाम्। अष्टादशभुजां भीमां महामोक्षप्रदायिनीम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”। अस्य स्वरूपं कामधेनुतन्त्रे उक्तं यथा
“ढकारः परमाराध्यो या स्वयं कुण्डली परा। पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा। सदा त्रिगुणसंयुक्तं आत्मादितत्त्वसंयुतम्। तक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम्”। मात्रावृत्तेऽस्य प्रथमोपन्यासे विशोभा फलम् डशब्दे प्रमाणं दृश्यम्।
ढ = पु० १ ढक्कायां २ शुनि ३ श्वलाङ्गूले च मेदि०। तस्य तदाकृतित्वात् तथात्वम्। ४ निर्गुणे ५ ध्वनौ च एकाक्षरको०
ढकार = पु० ढ + स्वरूपे कारप्रत्ययः। ढस्वरूपे वर्णे “ढकारं प्रणमाम्यहम्” कामधेनुत० “ढकारस्य ढकारे परे लोपः” सि० कौ०।
ढक्का = स्त्री ढगिति कायति कै–क। यशःपटहे (ढाक) ख्याते वाद्यभेदे अमरः। “न ते हुडुक्केनन सोऽपि ढक्कया न मर्द्दलैः सापि न तेऽपि ढक्कया” नैषधम्।
ढक्कानादचलज्जला = स्त्री ढक्काया नाद इव चलज्जलं तद्रवो यस्याः। गङ्गायाम्। “ढक्कानादचलज्जलं” काशी० गङ्गास्तवः।
ढक्कारवा = स्त्री ढक्काया एव इव रवो यस्याः। तारिणोदेव्याम् “ढक्कारवा च ढक्कारी” तारसहस्रनाम।
ढक्कारी = स्त्री ढगिति शब्दं करोति कृ–अण् उपप० स० गौरा० ङीष्। तारिणीदेव्याम् “ढक्कारवा च ढक्कारी ढक्कारवरवाढ्यका” तारासहस्रनाम।
ढगण = पु० मात्रावृत्ते त्रिमात्रिकप्रस्तावभेदे तद्भेदाश्च त्रयः “तत्स्वरूपादिकं यथा (ऽ।) १ ध्वजः। (।ऽ) २ तालः। (।।।) ३ ताण्डवम्।
ढण्टी = स्त्री वाक्यभेदे “ढण्टीवाक्यस्वरूपा च ढकाराक्षररूपिणी” रुद्रया० अन्नपूर्णासहस्रनाम।
ढामरा = स्त्री हंस्याम् शब्दार्थचि०।
ढाल = न० स्वनामख्याते चर्म्ममयादौ फलके तद्विद्यतेऽस्य इनि ढालिन् तद्युक्ते त्रि०। “ढालिपक्षजयकरी ढकारवर्णरूपिणी” अन्नपूर्णास्तवः। स्त्रियां ङीप्।
ढुण्ढ = अन्वेषणे भ्वा० सक० पर० सेट्। ढुण्टति अढुण्ढीत्। डुढुण्ढ। ढुण्ढिः।
ढुण्ढि = पु० ढुण्ढ–इन्। काशीस्थे गणेशभेदे तग्रामनिरुक्त्यादिकं काशीख० ५७ अ० उक्तं यथा “अन्वेषणे दुण्ढिरयं प्रथितोऽस्ति धातुः सर्वार्थढुण्ढिततया भव ढुण्ढिनामा। काशीप्रवेशमपि को लभतेऽत्र देही तोषं विना तव विनायक! ढुण्ढिराज!” तन्माहात्म्यं तत्रैव यथा “ढुण्ढे प्रणम्य पुरतस्तव पादपद्मं यो मां नमस्यति पुमानिह काशिवासी। तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किञ्चिदत्र न पुनर्भवतास्ति येन। यः प्रयहं नमति ढुण्ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः। नो तस्य जातु जगतीतलवर्त्तिनस्तु दुष्प्रापमत्र च परत्र च किञ्चनापि। प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतोमनाक्। आढुण्ढ्य सर्वभक्तेभ्यः सर्वार्थान् संप्रयच्छसि”। तस्य यात्राविधानमुक्तं तत्रैव यथा “माघशुक्लचतुर्थ्यान्तु नक्तव्रतपरायणाः। ये त्वां ढुण्ढेऽर्चयिष्यन्ति तेऽर्च्च्याः स्युरसुरद्विषाम्। विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम्। शुक्लां शुक्लतिलैर्बद्धान् प्राश्नीयाल्लडडुकान् व्रती। कार्य्या यात्रा प्रयत्नेनं क्षेत्रसिद्धिमभीप्सुभिः। तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे! सर्वोपसर्गहृत्। तां यात्नां नात्र यः कुर्य्यानिवेद्य तिल्लड्डुकान्। उपवास सहस्रन्तु स हन्तास्मिन् ममाज्ञया। होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः। तस्यां चतुर्थ्यां मन्त्रज्ञस्तथ मन्त्रः प्रसेत्स्यति”।
ढोल = पु० गले दोलायमानतया वादनीये स्वनामख्याते वाद्यभेदे। “ढक्काढोलप्रिया नित्या ढोलवाद्यप्रमोदिनी। ढोलरूपा ढोलधरा ढोलशब्दस्वरूपिणी” इति रुद्रजामले अन्नपूर्णासहस्रनामस्तोत्रम्।
ढक्काढोलप्रिया = स्त्री ढक्काढोलौ तच्छब्दः प्रियोऽस्याः। अन्नपूर्णायाम् ढोलशब्दे दृश्यम् ढोलरूपादयोऽप्यत्र।
ढौक = प्रेरणे गत्याञ्च भ्वा० आत्म० सक० सेट्। ढौकते अढौकिष्ट डुढोके। “तं विप्रदर्शं कृतधातयत्ना यान्तं वने रात्रिचरी डुढौके” भट्टिः। “शकुन्तला वक्त्रं ढौकते” शकु०। णिनि ढौकयति ते “राक्षसोऽतर्जयत् सूतं पुनश्चाढौकयद्रथम्” भट्टिः। ऋदित् अडुढौकत् त। इति वाचस्पत्ये ढकारादिशब्दार्थसङ्कलनम्।
—ण—
णकारो व्यञ्जनवर्णभेदोऽर्द्ध मात्राकालोचार्य्यः मूर्द्धन्यः टवर्गीयः। अस्योच्चारणे जिह्वामध्येन मूर्द्ध्नः स्पर्शः नासिकायत्नप्रमेदश्च आभ्यन्तरप्रयत्नः। संवारनादघोषाः अल्पप्राणश्च वाह्यप्रयत्नाः। सातृकान्यासेऽस्य दक्षपादाङ्गुल्यग्रेस्यस्यता। अस्य वाचकशब्दावर्णाभिधाने उक्ता यथा “णो निर्मुणं रतिर्ज्ञानं जम्भलः पक्षिबाहनः। जया जम्भो नरकजित् निष्कलो योगिनीप्रियः। द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मत। त्रिनेत्रो मानुषी व्योम दक्षपादाङ्गुलीमुखम्। माधवः शङ्घिनी वीरो नाराय- णश्च निर्णयः”। एतदधिष्ठातृदेवतारूपं वर्णोद्धारतन्त्रोक्तं यथा “ध्यानमस्य णकारस्य प्रवक्ष्यामि च तत् शृणु। द्विभुजां वरदां रम्यां भक्ताभीष्टप्रदायिनीम्। राजीवलोचनां नित्यां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”। एतत्स्वरूपं कामधेनुतन्त्रोक्तं यथा “णकारः परमेशानि! या स्वयं परकुण्डली। पीतविद्युल्लताकारः पञ्चदेवमयः सदा। पञ्च प्राणमयं देवि! सदा त्रिगुणसंयुतम्। आत्मादितत्त्वसंयुक्तं। महामोहप्रदायकम्”। मात्राघृत्तेऽस्य प्रथमोपन्यासे मरणं फलम् मूलं डशब्दे दृश्यम्।
ण = पु० णख–गतौ ड पृषो० णत्वम्। १ विन्दुदेवे, २ भूषणे, ३ गुणवर्ज्जिते, ४ पानीयनिलंये मेदि०। ५ निर्णये, ६ ज्ञाने च न० एकाक्षरको०।
णख = गतौ भ्वा० पर० सक० सेट्। णोपदेशत्वात् सति निमित्ते णत्वम्। नखति प्रणखति। अनखीत्–अनाखीत्। ननाख नेखतुः। एवं णादिधातूनां गणपाठे णादित्वं प्रयोगे नादित्वं सति निमित्ते णत्व्मिति बोध्यम्।
णट = नृत्ये साभिनये नटकार्य्ये हिंसायामयं न णोपदेशी भ्वा० षर० अक० सेट्। नटति प्रणटति अनाटीत् अनटीत्। ननाट नेटतुः। हिंसायात् प्रनटति। नटः नाट्यम्।
णट = नटकृत्ये भ्वा० पर० अक० सेट्। नटति प्रणटति अनाटीतनटीत् ननाट नेटतुः घटा०। नटयति अनीनटत्।
“नट नृत्ये। इत्थमेव पूर्वमपि पठितम्। तत्रायं विवेकः। पूर्वपठितस्य नाट्यमर्थो यत्कारिषु नटव्यपदेशो वाक्यार्थाभिनयो नाट्यम्। घटादौ तु नृत्तं नृत्यं चार्थो यत्कारिषु नर्त्तकव्यपदेशः पदार्थाभिनयो नृत्यम् गात्रविक्षेपमात्रं नृत्तम्। केचित्तु घटादौ णटनताविति पठन्ति। मतावित्यन्ते। णोपदेशपर्य्युदासवाक्ये भाष्यकृता नाटीति दीर्थपाठात् घटादिर्णोपदेश एव” सि० कौ०
णद = अव्यक्तशब्दे भ्वा० पर० अक० सेट्। नदति प्रणदति अनादीत् अनदीत्। ननाद नेदतुः नेदतुः। नादः नदन् नदितुम्। सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्य णत्वम्। प्रणिनदति परिणिनदति। “वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं० १८३ अ०। “नदति मही गम्भीरम्” वृ० स० ५४ अ०। “शब्दं घोरं नदन्ति” भा० व० २६७ अ० “शिवाश्चैवाशिवान्नादान्नदन्ते” हरिवं० १९३ अ०। आर्षस्तङ्। णिचि नादयति “नदय- न्नेति पृथिवीमुत द्याम्” ऋ०९। ९७। १३। “आ सानुशुष्मैर्नदयन् पृथिव्याः” ऋ० ७। ७। २। छान्दसो ह्रस्वः। लोके तु न ह्रस्वः। “नादयन्रथघोषेण सर्वाः सविदिशो दिशः” भा० व० २५३३ श्लो०। अन्तर्भूतण्यर्थे तु अस्य सकर्मकता “नृत्याबसाने नटरजराजो ननाद ढक्कां नव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम्।
अनु + नादेनानुकरणे सक०। “तथा च तेषां रुदतां महात्मनां दिशं च खञ्चानुननाद निस्वनः” रामा० २। १११ अ०।
अभि + आभिमुख्येन शब्दकरणे। “पुत्रेति तन्मयतया तरवोऽभिनेदुः” भाग० १। २। २।
उद् + उच्चैःशब्दकरणे। “कालमेघैवोन्नदन्” भा० द्रो० ६८१४
प्रति + प्रतिशब्देन अनुकरणे सक०। “वयं प्रति नदन्तस्तान्” भा० भी० ४५१८।
णद = भाषे चु० उभ० सक्० सेट्। नादयति ते प्रणादयति अनीनदत्–त। ननाद नेदतुः।
णभ = हिंसे भ्वा० आत्म० सक० सेट्। नभते प्रणभते ल्तृदित् अनभत् अनभिष्ट। नेभे। “नभन्तामन्यकेषां ज्याका अधिधन्वसु” ऋ० १०। १६३। १। “नभन्तां हिंसयन्ताम्” भा० आर्षस्तङ् “नाभाकस्य प्रशस्तिभिः” निरुक्तधृता ऋक्। वेदेऽस्य क्वचित् नुम्। “उन्नम्भय पृथिवीं भिन्धीदं दिव्यं नभः” तैत्ति० स० २। ४। ८। २।
णभ = हिंसे दिवा० क्य्रा० च पर० सक० सेट्। नभ्यति प्रणभ्यति नभ्राति। अनाभीत्–अनभीत्। ननाभ नेभतुः।
णम = शब्दे अक० नतौ सक० भ्वा० पर० अनिट्। नमति प्रणमति अनं सीत्। ननाम नेमतुः नेमिथ नमन्थ। नतः नतिः नामः नत्वा नन्ता नम्यः आनाम्यः। अस्य अमन्तत्वेन घटादित्वे प्राप्तेऽपि अनुपसर्गाद्वेति नियमात् वा तथात्वम्। नमयति नामयति उपसर्गात्तु उन्नमयतीत्येव। नतिश्च स्वाकर्षबोधकव्यापारभेदः स च करशिरः संयोगादिः स्वापकर्षबोधशालिनः कर्मता। नमति गुरुम् ढुण्ढिशब्दे उदा०। ण्यग्भावे (नोया) अकर्म्म०। ततः कर्मकर्त्तरि न यक्चिणौ नमते अनंस्त। “सुम्नेभिरस्मे वसवो नमध्वम्” ऋ० ७। ५६। १७। “एवे द्यूने युवतयोऽनमन्त” १०। ३०। ६। न्यग्भावे “अनंसीद्भूर्भरेणास्य” भट्टिः। “उन्नमति नमति वर्षति गर्ज्जति मेघः करोति तिमिरौघप्त्। प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि” मृच्छ० “नतभ्रुवो नव्यजनापनेयः” उद्भटः “पुष्पभारनता लता” रामा० २। ९६ अ०। “तवाभिधानाद् व्यथते नताननः” किरा०। यङि नंनम्यते। “नंनम्यमाना फलदित्सयेव” भट्टिः।
अभि + आभिमुख्येन नमने। “देवान् वै यज्ञो नाभ्यनमत्”
अव + न्यग्भावे अधोभवने (नीचे नोअओया) अक०। “त्वय्यादातुं जलमवनते” मेघ०। णिच् अवनमयति “अवनामितमेढ्रस्य मेढ्रे” सुश्रु०। “शिरः सुकृष्णो जग्राह स्वहस्तेनावनाम्य च” हरिवं० ६९ अ०। केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे” भ० आ० १३४ अ०। आर्षो न ह्रस्वः आम्बभावश्चार्षः।
उद् + ऊर्द्धगतौ उच्चभवने उत्थाने च अक०। “उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः। हृदयेषु विलियन्ते विधवास्त्रीस्तनाविव” पञ्चत०। “स्थितः सर्वोन्नतेनोर्वीम्” रघुः
अभि + उद् + आभिमुख्ये नोन्नतौ अक०। “अभ्युन्नताङ्गुष्ठनखप्रभाभिः” कुमा०। “अभ्युन्नता परस्तादवगाढा जघनगौरवात् पश्चात्” शुकु०।
उप + प्राप्तौ सक० स्वयमुपस्थितौ अक०। “यं सत्रिया दीक्षोपनमेत”। अभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुपच नमेयुः” छा० उ०। “यदा तु परबाधयान्ध आत्मने नोपनमति” भाग० ५। १४। १४ श्लो०। “मत्संयोगः कथमुपनमेत् स्वप्नजोऽपि प्रियायाः” मेघ०। “परलोकोपनतं जलाञ्जलिम्” कुमा०।
परि + तुल्यरूपसत्तया वस्तुनोऽन्यथाभवने अक० आत्म०। यथा दुग्धपरिणामः दधि मृत्परिणामः घटादिः। “तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशम् गत्वा घटादिविषयाकारेण परिणमते” “समसत्ताककार्य्यो त्पादः परिणामः इति” वेदा० प०। कर्मकर्त्तरि आत्मनेपदमित्यन्ये “परिणामस्वभावा हि गुणा नापरिणम्य क्षणमवतिष्ठन्ते” सा० त० कौ०। गजानां तिर्य्यग्धन्तप्रहारे सक०। “विष्के नागः पर्य्यणंसीत् स्व एव” माघः। पर्य्यणंसीत् तिर्य्यक् प्रजहारेत्यर्थः। “तिर्य्यग्दन्तप्रहारैस्तु गजः परिणतो मतः” वैजयन्ती। शेषताप्राप्तौ अक०। “दिवसा परिणामरमणीयाः” शकु०। “ता एवौषधयः कालपरिणामात् परिणतवीर्य्या भवन्ति” सुश्रु०। परिपाके च “आहारस्य सम्यक्परिणतस्य” सुश्रु० सम्यक्नमने सक०। “यस्तं परिणमेच्च तत्” भा० उ० ११०७।
प्र + प्रकर्षेण नतौ। “प्रणमेद्दण्डवड्मूमौ” भाग० ६। १९। ९। “प्रणेमुर्भुवि मूर्द्धभिः” भाग० ३। ३। २८। “उरसा शिरसा दृष्ट्या वचसा मनसा तथा। पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग इष्यते” नृसिह पु० उक्ते नतिभेदे च।
प्रति + प्रतीपनतौ।
वि + विशेषेण नतौ।
वि + परि + भावस्य विकारभेदे अक० आत्म० “घट्भावविकारा भवन्तीति वार्द्धायणिः। जायतेऽस्ति विपरिणमत वर्द्धते अपक्षीयते नश्यतीति, जायत इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे नो प्रतिषेधति। अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्द्धत इति स्वाङ्गाभ्युच्चगं, सांयौगिकानां वाङ्गानां, वर्द्धते विजयेनेति वा, वर्द्धते शरीरेणेति वा। अपक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति” निरु० १। २। अन्यविभक्त्यन्ततया श्रुतस्य शब्दस्य अन्यविभक्त्यन्ततया परिकल्पने “कर्त्तरि शबित्यतः कर्तृग्रहणमनुवर्तते। तच्च प्रथमया विपरिणम्यते” पा० सू० व्याख्या। “अर्थवशात् विभक्तेर्विपरिणामः” परिभाषा।
सम् + सम्यग्नतौ। “धीरः संनमेत बलीयसे” भा० उ० ११३०। “संनताः फलभारेण पुष्पभारेण च द्रुमाः” रामा० आ० ३। १६ अ०।
णय = गतौ रक्षणे च भ्वा० पर० सक० सेट्। नयति प्रणयति अनयीत्। ननाय नेयतुः।
णर्द्द = शब्दे भ्वा० पर० अक० सेट्। नर्द्दति अनर्द्दीत। ननर्द्द प्रणर्द्दति। नर्द्दनम् नर्द्दतः। “दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः। आनर्द्दं नर्टतः सम्यक् तदा सूत्यं भविष्यति” भा० उ० १४० अ०। “उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा” १४२ अ०। “नर्दमानो महानादं प्रावृषीव वलाहकः” भा० भी० १०१ अ०। “मत्ता नर्दन्तु कुञ्जराः” रामा० २। १०५ अ०।
णल = बन्धे भ्वा० पर० सक० सेट्। नलति प्रणलति। अनालीत्। ज्वला० नलः नालः।
णश = अदर्शने ध्वंसे च दिवा० पर० अक० सेट्। नश्यति प्रणश्यति अनेशत् पा० अन्यमते नशत् अशान्तत्वे न णत्वम् प्रनष्टः। “फलभोग्यो न नश्यति” “प्रनष्टखामिकं द्रव्यम्” याज्ञ०। “चेष्टा वय्नेशन्निखिलास्तदास्याः स्मरेषुपातैरिवता विधूताः” नैषध० “एतेन लुङुत्तमपुरुष एव नेशादेशोक्तिश्चिन्त्या “ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च” हितो० “आ पाप! स्वयं नष्टः परानपि नाशयितुमिच्छसि” प्रबो० च०।
णस = कौटिल्ये भ्वा० आत्म० अक० सेट्। नसते प्रणमते। अनसिष्ट। नेसे
णह = बन्धने दिवा० उभ० सक० अनिट्। नह्यति–ते प्रणह्यति–ते। अनात्सीत् अनद्ध ननाह नेहे। नद्ध्वा नद्धः नद्ध्री। “यथा युगं वरत्रया नह्यन्ति” ऋ० १०। ६०। ८ “खर्जूरीस्कन्धनद्धानाम्” रघुः। “अमृतोत्पादने नद्धो भुजगेनेव मन्दरः” रामा० सुन्द० २४ अ०।
अपि + धारणे वा आदेरल्लोपः। पिनह्यति अपिनह्यति। “वितत्या शार्ङ्गं कवचं पिनह्य” भट्टिः। “आमुच्य कम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले” भा० वि० ११ अ०। विशेषेण बन्धने निबन्धने च। “पिनद्धां धूमजालेन प्रभामिव विभावसोः” भा० व० ६८ अ० “बहुध तु पिनद्धार्ङ्गैर्हिमवच्छिखरैरिव” भा० आ० १८५ अ०।
अव + समन्ताद्बन्धने। “चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः” मनुः।
आ + सम्यग्बन्धने “वरत्रायां दार्व्यानह्य मानः” ऋ० १०। १०२। ८ “आनद्धावरणैः कामैः” भा० भी० ११९ अ०। “आनह्यते यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां” सुश्रु०
परि + आ + परितो बन्धे सक०। “सोमपर्य्याणहनेन पर्य्याणह्यति” शत० व्रा० ३। ३। ४। ६
उद् + उत्तोल्य बन्धने। “अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यति” “सास्रावमुन्नह्यति मांसपिण्डम्” सुश्रु० अतिवन्धने च। “ते नेह शक्याः सहसा विजेतुं वीर्य्योन्नद्धाः कृतवैरास्त्वया ते” भा० भी० ८१ अ०।
सम् + उद् + समुग्बन्धने। “बल्मीकवत् सभन्नद्धमन्तः कुर्बन्ति विद्रधिम्” सुश्रु०। पण्डित्याभिमाने गर्वे च “अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ” अमरः। तत्र पाण्डित्यमाने “अश्रुतश्च समुन्नद्धौ डरिद्रश्च महामनाः” भा० उ० ३२ अ०। गर्वे “अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव वा। विचरत्यसमुन्न्द्धो यः स पण्डित उच्यते” भा० उ० ३२ अ०। समुद्नवे च “परोक्षेण समुन्नद्धप्रणयोतकण्ठ्य कातरः” भाग० १। १५। ४
उप + उपरिबन्धने। “विस्रावयेत् स्विन्नमतन्त्रितश्च शुद्धं व्रणं चाप्युपनाहयेत्तु” सुश्रु०। उपानद् क्विपि पूर्वस्वरदीर्घः।
नि + निवन्धने। “इषधिः पृष्ठे निनद्धः” ऋ० ६। ७५। ५
परि + परितो बन्धने। “न तां बध्री परिणहेच्छतचर्मा भहातनुम्” भा० आ० २९ अ०। विस्तारे “परिणाहो विशाकता” अमरः। “कपाटवक्षाः परिनद्धकन्धरः” रघुः। क्विपि घञि परे वा दीर्थः परी(रि) णाहः।
सम् + सम्यग्बन्धने कवचादिधाऋअणे च। “श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेण वलगुना” भाग० ८। १२। १६। “कवचेन महार्हेण समनह्यद्वृहन्नलाम्” भा० वि० ३७ अ०।
णास = ध्वनौ भ्वा० आत्म० अक० सेट्। नासते प्रणासते अनासिष्ट ननासे। ऋदित् अननासत्–त।
णिक्ष = चुम्बने भ्वा० पर० सक० सेट्। निक्षति प्रणिक्षति। कृत्सु वा णत्वमिति पाणिनिः। सर्वत्र वा णत्वम् मुग्ध० “निक्ष दर्भ सपत्नान् मे” अथ० १९। २९। १ आर्षगनपदयोर्वात्यागः। “याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पुष्टीः” अथ० ९। ८। १५ “प्रणिक्षिष्यति नो भूयः प्रनिन्द्यास्मान् मधून्ययम्” भट्टिः। “किमीदिनं प्रत्यञ्चमर्चिषा जातवेदो विनिक्ष्य” अथ० ९। ३। २५
वि + नाशने “शिशीते शृङ्गे रक्षमे विनिक्षे” ऋ० ५। २। ९ “विनिक्षे नाशाय” भा० आर्षस्तङ्।
णिज = शोधने अदा० आत्म० सक० सेट् इदित्। निङ्क्ते प्रणिज्क्ते अनिञ्जिष्ट निनिञ्जे। शुद्धौ अक०। “अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः” अथ०। ३। ५। २। (निजः शुद्धः) “यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः” भा० स० ५४ अ०। “बुद्धिः सततमन्वेति च्छायेव पुरुषं निजा” भा० व० ३० अ०। “सुजन्मनस्तस्य निजेन तेक्षसा” रघुः। निजेन शुद्धेन।
णिज = शोधने सक० शुद्धौ अक० जु० उभ० अनिट्। नेनेक्ति प्रणेनेक्ति। नेनिजानि नेनिक्ते अनेन्क् अनेनिजम् अनेनिक्त इरित् अनिजत् अनैक्षीत् अनिक्त। “शाल्मली फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः” मनुः “सूरो निनिक्त रश्मिभिः ऋ० १०। १३२। ६
अव + समन्तात् जलप्रोक्षणेन शोधने। “यद्द्यस्य क्रूरमभूत् तद्ध्यस्या एतदहार्षीत्तस्मात् पाणी अवनेनिक्ति”। शत० ब्रा० १। २। ५। २३। “अथोदपन्धषमादाबापनेजयति! असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसावयनेनिक्ष्येति पितामहमसाववनेनिक्ष्वेति प्रपितापहं तद्यवा शिष्यतेऽभिषिञ्चेदेवं तत्” शत० ब्रा० २। ४। २। १६। “अवनेविक्ष्य दास्तमानं पिण्डं भोक्तुमात्मीगौ षाष्णी षोभयेति” भा०। पिण्डदानार्थमसृतकुशे जलप्रोक्षणे तत् प्रकारः श्रा० ष० उक्तो यथा “प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत्। अपः क्षिपेन् मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः द्वितीयञ्च तृतीयञ्च मधयदेशाग्रदेशयोः” इत्याभ्युदयिकप्रकरणीयछन्दोगपरिशिष्टवचनेन आभ्युदयिके निस्तिलत्वाभिधानेनान्यत्र सतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च। “सपुष्पं जलमादाय तेषां पृष्ठे पृथक् पृथक्। अप्रदक्षिणं नेनिज्याद्गोत्रनामानुमन्त्रितम्” इति ब्रह्मपुराणवचनात् “अपसलवि पितृतीर्थेन प्रदेशिन्यङ्गष्ठयोरन्तरा अपसलवि “अपसव्यं वा तेन पितृभ्यो निदधातीति” भट्टभाप्यधृतगृह्यान्तरात् अपसव्यशब्देन पितृतीर्थमुच्यते अस्मादेव वचनात् तथा च मनुः प्राचीनावीतिना सम्यगपसव्यमतन्त्रिणा” इत्यादि तत्र तु मण्डलोपरि असाविति सम्बोधनविभक्त्या सर्वत्र नामनिर्देश इति भट्टभाष्यम् अतएव प्रागुक्तछन्दोगपरिशिष्टे आद्यमामन्त्र्य पूर्ववदित्युक्तं आद्यं पितरं पूर्ववत् “गोत्रनामभिरामन्त्र्य पितॄनर्घ्यं प्रदापयेत्” इतिवत्। पितुरवनेजनं मूलदेशे पितामहप्रपितामहयोस्तु अवनेजनमध्यदेशाग्रदेशयोः द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः” इति छन्दोगप्ररिशिष्ठात् मातामहादीनामप्येवम्। “मातामहप्रभृतीस्तु एतेषामेव वामतः” इति छन्दोगपरिष्ठात्। एतेषां पितॄणां वामत इत्याभ्यु दयिकपरम्। अन्यत्र तु दक्षिणतः कर्त्तुर्वामोपचारत्वट्। अतएव पार्वणे प्रागुक्तब्रह्मपुराणे “अप्रदक्षिणं नेनिज्यादित्युक्तम्। तेन सतिलपुष्पोदकपात्रं वामहस्ताद्दक्षिणहस्तेन वामान्वारन्धेन मृहीत्वा अमुकगौत्र! पितरमुकदेषशर्मन्नपनेनिक्ष्य ये चात्र त्वाक्मनुयांश्च त्वमनु तस्मै ते स्वधा” इति पितृतीर्थेनावनेजयेत्। “अप उपस्पृश्य जलं स्पृष्ट्वा एवं पूर्बोक्तरीत्या पितामहाय प्रतितामहाय पिण्डदानसूत्रं जलस्पर्शन सूत्रञ्च पूर्ववत् व्याख्येयम्”। पिण्डपितॄयज्ञे तत्प्रकारः कात्या० श्रौ० ४। १। १०। उक्तो यथा “उदपात्रेणावनेजयत्यपसव्यं सव्येन बोद्धरणसानर्थ्या दसाववनेनिक्ष्येति यजमानस्य पितृप्रभृति त्रीन्” सू०। “उदकस्य पात्रसुदपात्रं पूर्णपात्रादि तेनाध्यर्य्युः यजमानस्य पितृप्रभृति पितुरारभ्य त्रीन् पुरुषान् पितृषितामहप्रपितामहान् अपसव्यं यथा स्याद्दस्तस्य स्तव्यप्रदेशाद्दक्षिनैकदेशेनोदकनिनयनं यथा स्यात् तषाङ्गष्ठप्रदेशिन्योरन्तरालेन अवनेजयति अवनिक्षान् शुचीन् करोति पिण्डदानाय। असाविति सम्बुद्द्यान्तगोत्रनामादेशपूर्वकम् अमुकगोत्र! यजमानस्य पितरसुकशर्मन्नवनेनिक्ष्वेति रेखायामूलमध्याग्रप्रदेशेषु दक्षिणसंस्थमवनेजनं कार्य्यम्। अग्रेण देवानां होमः कनिष्ठिकाप्रदेशेन मनुष्याणाम्, उद्धरणं परिवेषणापरपर्य्यायम् अङ्गुष्ठप्रदेशिन्योरन्तरालमेव पितॄणां परिशिष्यते अत इदमाह अपसव्यमिति” कर्कः। “अवनेज्य पूर्ववन्नीविं विस्रंस्य नमो व इत्यञ्जलिं करोति” कात्या० श्रौ० १५। निजेः शुद्ध्यर्थकस्य णिचि अवनेजयतीति। अवनेज्येति प्रयोग इति बोध्यम्। शोधनम्परत्वे नेनिज्यादिति अवनेजने चन तन्त्रता यथाह छन्दोगप० “अर्ष्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने। तन्त्रस्य विनिवृत्तिः स्यात् स्वधावाचन एव च” अवनेजनशब्दे ४२९ पृ० कृत्य प्रदीपोक्तं मातृपक्षीयावनेजनविधानं छन्दोगेतरविषयम् अन्यवेदिनामाभ्युदयिकादिविषयञेति बोध्यम्।
निर् + निःशेषेण क्षालनेन शोधने “पात्राणि निर्णेनिजानि” शत० ब्रा० १। ३। १। २ “पात्राणि निर्णेनिक्ते” तैत्ति० स०। “अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते” मनुः “तोयनिर्णिक्तपाणिः” रघुः “तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम्” भा० शा० २७१ अ०।
णिद = सन्निधाने अक० निन्दने सक० भ्वा० उभ० सेट्। नेदति–ते प्रणेदति–तै। अनेदीत् अनेदिष्ट निनेदनिनिदे।
णिद = कुत्सने भ्वा० पर० सक० सेट् इदित्। निन्दति प्रणिन्दति अनिन्दीत्। कृत्सु वा णत्पमिति पाणिनिः। सर्वत्र वा णत्वम् मुग्ध० “निनिन्द रूपं हृदयेन पार्वती” कुमा०। “निन्दन्तस्तव सामर्य्यम्” गीता। “अनिन्द्यं निन्दते यो हि” भा० व० २५२ अ०। आर्षस्तङ्। “न निन्दा निन्द्यं निन्दति किन्तु विधेयं स्तौति” भीमांसा।
णिल = दुर्बोधे तुदा० पर० सक० सेट्। निलति प्रणिलति। अनेलीत् निनेल।
णिव = सेके भ्वा० पर० सक० सेट्। इदित्। निन्वति। अनिन्वीत्। निनिन्च।
णिश = समाधौ भ्वा० पर० सक० सेट्। नेशति प्रणेशति अनेशित् निनेश।
णिष = सेके भ्वा० पर० सक० सेट्। नेषति प्रणेषति अणेषीत्। निनेष।
णिस = चुम्बने अदा० आत्म० सक० सेट् इदित्। {??} प्रणिंस्ते अनिंसिष्ट निनिंसे। कृत्सु वा णत्वमिति पापिर्यनः। सर्वत्य वा णत्वम सग्ध०। निंस्ते दन्तच्चब्दं न व” भट्टिः। “अभि स्रु चः क्रमते दक्षिणावृत्ये या अस्य धाम प्रथमं ह निंसते” ऋ० १। १४४। १ “अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते” ९। ८५। ३
णी = प्रापणे भ्वा० उभ० द्विक० अनिट्। नयति प्रणयति अनैषीत्”। प्रधाने कर्म्मणि लादयः। अजा ग्रामं नीयते। अनेष्ट निनाय निनयिथ निनेथ निन्ये नेता न्येष्यति ते नेतव्यः। नेयः नीतः नीतिः नीत्वा विनीय। “सर्वान्नेष्यामि वः सदा। वृजिनात्तारयिष्यामि” भा० आ० ६०५२ श्लो० “गमनाय मतिं चक्रे ताश्चैनं नित्युरङ्गनाः” रामा० बा० ९ अ०। “नयिष्यामि च वाहिनीम्” रामा० ५। ९१। अ०। आर्ष इट्। “दैवेन किलयस्यार्थः स नीतोऽपि विपद्यते” भा० वि० २० अ०। यापने च “निनाय सात्यर्थहिमोत्किरानिलाः। सहस्य रात्रीरुदवासतत्पराः” कुमा०। सम्मानने आत्म० “शास्त्रे नयते शास्त्रस्थं सिद्धान्तं शिष्येभ्यः न्प्रापयतीत्यर्थः तेन च सम्माननं फलितम्” सि० कौ० ज्ञाने निश्चये आत्म०। “तत्त्वं नयते निश्चिनोति” सि० कौ०
अति + अतिक्रम्य नयने। “न स्वर्गं लोकमतिनयेत्” छा० उ०
बि + अति अपवाहने सक०। “व्यतिनीय कालमुपसदां चतुर्थम्” आश्वा० श्रौ० १२। ८। ३५। “व्यतिनीय अपोह्य” नारा०
अनु + स्वाभीष्टप्रवेशनाय सान्त्ववाक्यादिप्रयोगे सक०। “भवतोऽनुनयाम्येवं पुरूराज्येऽभिषिच्यताम्” भा० आ० ८४ अ०। “प्रणिपातेन सान्त्वेन दानेन च महायशाः। ऋत्बिजोऽनुनयामास” भा० आ० २२३ अ०। आर्ष आमुः। “अनुनीता त्वमस्माभिश्चिरं सान्त्बेन मैथिलि!” रामा० सु० २५ अ०।
अप + अपहरणे अन्यत्रनयने “यत्र संसप्तकाः पाथैमपनिन्थूरणाजिरात्” भा० आ० ५३० श्लो०।
अभि + २९२ पृ० अभिनयशब्दोक्तार्थे सक०। “गीतानि रम्याणि जगुः प्रहृष्टा कान्ताभिनीतानि मनोहराणि” हरि० ८४४८ अ०। “तदुक्तेमभिक्नीयाभियुक्तैः” वेदा० सा० आभिमुख्येन नयने च। “दृष्ट्वा शरं ज्यामभिनीयमानम्” भा० व० ७६९ श्लो०। प्रधाने कर्म्मणि शानच्।
अव + अधोनयने। “मन्थे सम्पातमवनयेत्” छा० उ०। “ऋवोषो अत्रिमवनीतसुन्निन्थथुः” ऋ० १। ११६। ८।
आ + दूरस्थस्यान्तिकप्रापणे। “दूरादिन्द्रमनयन्ना सुतेन” ऋ० ७। ३३। २ “रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्” भा० द्रो० १४७ अ०। “पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान् क्रतुषु क्रियावान्” (पुरीमृष्यशृङ्गः) संयोजने च “तप्ते पयसि दध्यानयति सा वैशदेव्यामिक्षा भवति” श्रुतिः
अभि + आ + आभिमुख्येन नयने “दधिमधुसर्पिरातपवर्ष्या आपोऽभ्यानीय” ऐत० ब्रा०
परि + आ + परित आनयने। “पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्द्धनि। पर्य्यनयत भद्रं वः सा स्यात् परमदक्षिणा” भा० आ० १३८ अ०।
प्रति + आ + प्रतिकूलतया आनयने गतस्य पुनराननयने “प्रत्यानेष्यति शुत्रुभ्यो वन्दीमिव जयश्रियम्” कुमा०
उद् + ऊर्द्धं नयने “किं स्विदादित्यमुन्नयति” भा० व० १७३ अ०। “रेतोधाः पुत्र उन्नयति नरदेव! यमक्षयात्” भा० आ० ७४ अ०। उद्भावने लिङ्गदर्शनेनानुमाने च “नीचासन्तमुदनयः परावृजम्” ऋ० २। १३। १२। उत्सञ्जने उत्क्षेपे आत्म०। “दण्डमुन्नयते उत्क्षिपतीत्यर्थः” सि० कौ०।
उप + उपस्थापने “उपनिन्थुर्महाभागं दुहितृत्वेन जाह्नवीम्” हरिवं० १४२१। “महत्या सेनया राजा दमयन्तोमुपानयत्” भा० व० ३०६३ श्लो०। दिव्जानामसाधारणे संस्कारभेदे आत्म०। आचार्य्यः शिष्यमुपनयते। “गर्भाष्टमेऽष्टमे वाऽव्दे ब्राह्मनस्थोपनायनम्” “उपनीय ददद् वेदानाचार्य्यः स उदाहृतः” मनुः। “आचार्य्य उपनयमानो ब्रह्मचारिणम्” अथ० ११। ५। ३ “तथेति तं होपनित्ये” शत० ब्रा० ११। ५। ३। १३। “समिधमाहर उप त्वा नेष्ये” छा० उ०। स च संस्कारः वेदार्हता प्रयोजकः। तस्य परगामिफलकत्वात् परस्मैपदे प्राप्ते सम्मानोत्सञ्जनाचार्य्यकरणेत्यादिना पा० तङ् विहितः। “न हि उपनयनमात्रेणाचार्य्यत्वं किन्तु तत्पुर्वकाध्यापनेन “उपनीय दददु वेदान् आचार्य्यः स उदाहृतः इति स्मृतेः” इत्याशयेन उपनयनपूर्वकेनाध्यापनेन हि उप नेतरि आचार्य्यतं क्रियते इति” सि० कौ० उक्तम्। “यस्य प्रपितामहादेर्नानुस्मर्य्यते उपनयनम्” आपस्तम्बः भृतिदानेन समीपप्रापणे आत्म०। “कर्म्मकरानुपनयते भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः” सि० कौ०
नि + उत्सर्जने। “उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः” मनुः। “निनयेत् उत्सृजेत्” कुल्लू०। “ओषधिभ्यो वृष्टिं निनयति” तैचि० २। ४। ९२३। नितरा नयने च “पूर्णपात्रमन्तर्वेदि निनयति” तैत्ति० १। ७। ५। ३ “दासी कुम्भं वहिर्ग्रामान्निनयेयुः स्वबान्धवाः। पतितस्य बहिः कुर्य्युः सर्वकार्य्येषु चैव तम्” “चरितव्रत आयाते निनयेरन्नवं घटम्” याज्ञ०।
निर् + निश्चये अवधारणे तदभावाप्रकारकत्वे सति तत् प्रकारके ज्ञानभेदे। “देवःपतिर्विदुषि! नैषधराजगत्या निर्णीक्यते न किम्, न व्रियते भवत्या” नैष० “पुरावृत्तकथोद्गारैः कथं निर्णीयते परः” हितो०।
परा + पुनरानयने गतस्य पुनः स्वस्थानप्रापणे “पुनः कृत्यां कृत्याकृते हस्तगृह्य पराणय” अथ० ५। १४। ४।
परि + परितो नयने “तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः” मनुः। प्रदक्षिणीकरणे “तौ दम्पतीः त्रिः परिणीयं वह्निम्” कुमा०। “अगृह्णां यच्च ते पाणिमग्निं पर्य्यणयं च यत्” रामा० अयो० ४२ अ०। विवाहरूप संस्कारभेदे च “वरयित्वा यथान्यायं मन्त्रवत् परिणिय च” भा० आ० ६१३४ श्लो०। “सर्वाः परिणयेत् विप्रः” स्मृतिः “परिणेष्यति पार्वतीं यदा” कुमा०।
वि + क्षेपे उपसम्पत्तौ प्रवेशने विधाने च “प्रणीतः संस्कृताग्नौ ना यज्ञपात्रन्तरे स्त्रियाम्। त्रिषु क्षिप्तोपसम्पन्नविहितेषु प्रवेशिते” मेदि०। तत्र क्षेपे “तेन सम्यक् प्रणीतानि शरक्जालानि भागशः” भा० भी० ८७ अ०। विधाने “प्रणोय दारिद्र्यदरिद्रतां नृपः” नैष०। “मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते” सुग्ध० “स एव “धर्मो मनुना प्रणीतः” रघुः “यदि न प्रणय्द्दण्डं राजा दण्डेष्वतन्त्रितः” मनुः। अग्निसंस्कारभेदे। “अग्निपणयनं कृत्वा” स्मृतिः। अग्न्याधेय शब्देदृश्यम् “महाध्वरे वह्निरभिप्रणीतः” भट्टिः। उपसम्पत्तिः स्नेहभेदः। प्रणयः। प्रणयिजनः। “प्रणयस्व यथाश्रद्दं राजन्! किं कारवाणि ते” भा० व० २१६० श्लो०। “सञ्चये च विनाशान्ते मरणान्ते च जीविते। “संयोगे च वियोगान्ते को नु विप्रणयेन् मनः” भा० शा० ३८९१ श्लो० “भक्तिप्रोतिप्रणयसहितं मानदम्भाद्युपेतम्” उद्ध० दू०
प्रति + पुनः प्रापणे यतो गतिस्तत्रैव पुनर्नयने। “प्रतिनेतुमयोध्याम्” रामा० २। ९० अ०। “तेभ्यः एनान् प्रतिनयामि बद्ध्वा” अ० ८। ८। १० “भद्रं न सर्वमेतद्वित्तं गृहं प्रतिनेतुं युज्यते” पञ्चत०।
वि + अपसरणे “अहं हि ते विनेष्यामि युद्धश्रद्धामितःपरम्” भा० उ० ३४७५ श्लो०। भारमेनं विनेष्यामि पाण्डवानां महात्मनाम्” भा० भी० ५० अ०। शिक्षाविशेषे “विनितैस्तु व्रजेन्नित्यमाशुगैः” “नाविनितैर्ब्रजेद्धुर्यैः” मनुः। “तपस्विसंसर्गविनीतसत्त्वे” (तपोवने) “वन्यान् विनेष्यन्निव दुष्टसत्वान्” रघुः। “स्वधर्माच्चलितान् राजा विनीय स्थापयेत् पथि” याज्ञ० आनुकूल्यार्थमनुनये विनयः। ऋणादेर्निर्यातने आत्म०। करं विनयते राज्ञे देयं भागं परिशोधयतीत्यर्थः” सि० कौ०। व्यये विनियोगे आत्म०। शतं विनयते धर्म्मार्थं विनियुङ्क्ते इत्यर्थः सि० कौ०। अपनयने कर्तृशरीरभिन्ने कर्मणि कर्त्तृस्थे क्रियाफले आत्म०। क्रोधं विनयते अपगमयति क्रोधापसारणफलस्य चित्तप्रसादस्य कर्तृस्थत्वात् “स्वरितञितः” इत्येव सिद्धे नियमार्थमिदं तेनेह न गण्डं विनयति, गण्डस्य शरीरावयवत्वात् कर्तृस्थत्वेऽपि न तङ्। कर्त्तृस्थे इत्युक्तेः गुरोः क्रोधं विनयतित्येव।
सम् + संयोजने। “ब्रह्मण्यात्मानं संनयन्” भाग० ६। १०। १ “ओषधिभ्योऽध्यात्मन् समनयन्” तैत्ति० व्रा० २। ५। ३। ३ स्थापने च “कंसे पृषदाज्यं संनीय” वृह० उ० ६। ४। २४ मिश्रणे “दधिमधुहविषा धृतं संनीय” वृह० उ० वैदिकहविः। संस्कारभेदे सांनाय्यं हविः “नासोमया संनयेत्” तैत्ति० स० २। ५। ५। १।
णील = नीलताकरणे भ्वा० पर० सक० सेट्। नीलति प्रणीलति अनीलीत्। निनील
णीव = स्थौल्ये भ्वा० पर० सक० सेट्। नीवति प्रणीवति अनीवीत् निनीव।
णु = स्तुतौ अदा० पर० सक० वेट्। नौति प्रणौति अनावीतनौषीत् नुनाव नुनुविथ नुनुविव। नोता नविता नविष्यति नोष्यति नोतव्यं नवितव्यं नुतः। नुतिः नुत्वा प्रणुत्य। “येन नुवन्तमहिंसं पिणक्” ऋ० ६। १७। १०। “द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव” कुमा०। “सादरं नैमि तं भक्त्या श्रीगोपीजनवल्लभम्” स्क० पु०। “सैन्यं नीलं नुनाव च” भट्टिः। णिच् नावयति णिच् सन्। नुनावयिषति सन् नुण्णूषते यङ् नोनूयते।
आ + सम्यग्स्तवने आत्म०। “पतत्त्रिणः शुभामन्दमानुबानास्त्वजिह्लदन्” भट्टिः।
प्र + प्रकर्षेण स्तवभे “एददेवं विद्वानक्षरं प्रणौति” छा० उ०।
णु = गतौ भ्वा० आत्म० सक० अमोट् निघण्टुः। गवते नवते इत्यादि गतिकर्मसु मिरुक्तोक्तेः नवते। “अभीनवन्ते अदूहः प्रियमिन्द्रस्य काम्यम्” ऋ० ९। १०। १। “अभीनवन्ते अभिगच्छन्ति” भा०। “हरिं नवन्ते अवता उदन्यवः” ऋ० ९। ८६७२७ “नवन्ते गच्छन्ति” भा०। “गावो न धेनवोऽनवन्त” १०। ९५। ६
णुद = प्रेरणे तुदा० उभ० सक० अनिट्। नुदति–ते प्रणुदति अनौस्मीत् अनुत्त। नुनोद नुनुदे नोत्ता नोत्स्यति ते नोदनम् नोत्तुम्। नुन्नः नुत्तः। “मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्” मेघ०। खण्डने अपसारणे च नुनुदे तनुकण्डु पण्डितः” नैष०। अदस्त्वया नुन्नमनुचमं तमः” माघः। “प्रणुद्यान्मे वृजिनं देवदेवः” हरिवं १३१ अ०। “विधिना संप्रणुदितः” भा० व० १ अ०। अनुदात्तेत्त्वेऽपि इट् आर्षः। नोदं करोतीति णिच्। नोदयति नोदितः नोद्यमानः। “ते नोद्यमाना विधिवत् बाहुकेन हयोत्तमा” भा० व० ७१ अ०। “अङ्कुशाङ्गुष्ठनोदिताः” भो० १९ अ०। धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि पुनस्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मैपदार्थः” सि० कौ०।
अप + अपसारने “जरां रोगमपनुद्य शरिरात्” साङ्ख्या० गृ० “आच्छाद्य च महाबाहुर्वलात्तृष्णानपानुदत्” भा० आश्व० ६२ अ०। “अलक्ष्मीं व्यपनोत्स्यथ” भा० व० ११५ अ०। “अभिद्रवार्जुन! क्षिप्रं कुरून् द्रोणदापानुद” भा० द्रो० १९० अ०।
परा + अपसारणे “तन्न पराणुद विभो! कश्मलं मानसं महत्” भाग० ३। ७। ७ श्लो०।
प्र + प्रकर्षेण नोदने चालने च। “स शत्रुसेनां तरसा प्रणुद्य” भा० वि० ६४ अ०। अपसारणे “ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः” भा० व० ३३ अ०।
वि + विशेषणे नोदने। “चोदयामास तानश्वात् विनुन्नाद्भीष्मसायकैः” भा० भी० ४८४६ श्लो०। णिजन्तस्य दुःखाद्यपसारणे “लक्ष्मीविर्नोदयति येन दिगन्तलम्बी” रघः मल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह। “पुष्पं फलं चार्त्तवमाहरस्व। विनोदयिष्यन्ति नवाभिषङ्गादु” रघुः। “कथं वा देवी सरुजत्वात् विनोद्यते” मालविकाग्नि०। “लोलं विनोदय मनः सुमनोलतासु”। सा० द०।
णू = स्तुतौ तु० कु० सक० प० सेट्। नुवति प्रणुवति अनुवीत् नुनाव “समिन्द्रगर्दभं मृण नुवन्तं पापयामुया” ऋ० १। २९। ५ “महामनूषत श्रुतम्” ऋ० १। ६। ६ “अबुषत स्तुतबन्तः आर्षः इडभावः। अयं ह्रस्वान्त इति षिररुचिः। नुव- मानाश्च मर्त्ताः” ऋ० १। १९०१ नवमानास्तुवानाः” भा० वेदे आत्म० गणव्यात्यासश्च।
णेद = सन्निधाने उभ सक० सेट्। नेदति–ते प्रनेदति–ते। अनेदीत् अनेदिष्ट निनेद निनेदे।
णेष = गतौ भ्वा० आत्म० सेट्। नेषते प्रणेषते। अनेषिष्ट ऋदित् अनिनेषत्–त। एते घातवः नादिका अपि सति हेतौ णत्वार्थं गणे णोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एव पुनः प्रादियोगे णत्वमुपयान्ति। नन्दनाथनाधनक्क नृनाटिधात यस्तु णोपदेशत्वाभावात् निमित्तेऽपि न णत्वमुपयान्तीति भेदः
ण्य = पु० ब्रह्मलोकस्थे सरोवरभेदे “अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्य्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरमदीयम्” छा० उ०। “तत्तत्र हि ब्रह्मलोके अरश्च ह वै प्रसिद्धो ण्यश्चार्णवौ समुद्रौ। समुद्रावपामेव सरसी तृतीयस्याम् भुवमन्तरिक्षञ्चापेक्ष्य तृतीया द्यौस्तस्यां तृतीयस्यामितोऽस्माल्लोकादारभ्य गण्यमानायां दिवि। तत्तत्रैव चैरं इराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः” शाङ्करभा०। इति वाचस्पत्ये णकारादिशब्दार्थसंकलनम्।
***