वाचस्पत्यम्
ज्यो to ज्वर
links:
Menu अ–ह
Prev ज्ञ–ज्यै
Next ज्वरक–ण
ज्यो
ज्योतिष्ट
ज्वर
UpasanaYoga
.org

ज्यो = नियते उपनये व्रतोपदेशे ब्र भ्वा० आत्म० सक० अनिट्। ज्यवते अज्यास्त। जुज्ये।

ज्योक् = अव्य० ज्यो–बा० उकुन्। १ कालभूयस्थे २ प्रश्ने ३ शीघ्रार्थे ४ सम्प्रत्यर्थे शब्दार्थचि० ५ उज्ज्वलत्वे च “सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति” छा० उ० “ज्योगुज्ज्वलं जोवति” भा०।

ज्योतिरात्मन् = पु० ज्योतिरात्माऽस्य। सूर्य्यादौ “यथाह्ययं ज्योतिरात्मा विवस्वान्” श्रुतिः।

ज्योतिरादित्य = पु० ज्योतिषि सावित्रे मण्डले आदित्यः। परमेश्वरे “आदित्यो ज्योतिरादित्यः” विष्णुस०

ज्योतिरिङ्ग = पु० ज्योतिरिव इङ्गति इगि–गतौ अच्। खद्योते शब्दरत्ना० युच्। ज्योतिरिङ्गणोऽप्यत्र अमरः।

ज्योतिर्गणेश्वर = पु० ज्योतिर्गणानामीश्वरुः। १ परमेश्वरे “खक्षः साङ्गः शतानन्दो नन्दिर्ज्योतिर्गुणेश्वरः” विष्णु सं०। “तमेव भान्तमनुभाति सर्वम् तस्य भासा सर्वमिदं विभाति” इति श्रुत्या तस्यैव सर्वज्योतिर्गणानामवभासनस्य प्रतिपादनात्तथात्वम्।

ज्योतिर्ग्रन्थ = पु० ज्योतिषां ग्रहनक्षत्रादीनां गत्यादिसाधनं ग्रन्थः। ज्योतिःशास्त्रे।

ज्योतिर्मय = त्रि० ज्योतिरात्मकः प्राचुर्य्ये वा मयट्। १ ज्योतिरात्मके ज्योतिःस्वरूपे २ ज्योतिःप्रचुरे च। “ऋषीन् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः” कुमा० “न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयाण्यपि” रघुः।

ज्योतिर्विद् = पु० ज्योतिषां सूर्य्यादीनां गत्यादिकं वेत्ति विद्किप्। ज्योतिःशास्त्राभिज्ञे। “दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गां काञ्चनं महीम्” याज्ञ०। ज्योतिर्विदाभरणम्।

ज्योतिर्विद्या = स्त्री ज्योतिषां सूर्य्यादीनां गत्थादिज्ञानसाधनं विद्या। ज्योतिःशास्त्रे।

ज्योतिर्वीज = न० ज्योतिषो गगने प्रकाशस्य वीजमिव। १ स्वद्योते त्रिका०।

ज्योतिर्लोक = पु० ज्योतिषां लोकः आश्रयः। कालचक्रप्रवर्त्तकध्रुवलोके २ तदधिपे परमेश्वरे च तल्लोकस्थितिवर्णनं भाग० ५। २३ अ०। “अथ तस्मात् परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति। यत्र महाभागवतो ध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सहवहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महानुभाव उपवर्णितः। सहिं सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते। यथा मेधीस्तम्भ आक्रमणपशवः संयोजितास्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्तिः एवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवालम्ब्य वायुंनोदीर्य्यमाणा आकल्पान्तं परितः क्रामन्ति। नभसि यथा मेघाः श्येनादयो वायुवशाः कर्म्मसारथयः परिवर्त्तन्ते। एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भिवि न पतन्तिं। केचिदेतत् ज्योतिरनीकं शिशुमारसम्स्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति। यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः तस्य लाङ्गुले प्रजापतिरिग्निरिन्द्रो धर्मैति। पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्त कुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे नक्षत्राणि उपकल्पयन्ति। दक्षिणानि तु सव्ये यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्यां भवन्ति। पृष्टे त्वजवीथी आकाशगङ्गा चोदरतः। पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामपार्श्ववध्रिषु युञ्जीत। तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत। शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत्। उत्तराहनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकः शनैश्चर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्रिनौ बुधः प्राणापानयोरार्हुगले, केतवंः सर्वाङ्गेषु, रोमसु सर्वे तारागणाः। एतदुहैव भगवतो विष्णोः सर्वदेवता- मयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्ष्यमाण उपतिष्ठेत्। नमो ज्योतिर्लोकाय कालायनाय अनिमिषां मतयो महापुरुषाभिधीमहीति”।

ज्योतिर्हस्ता = स्त्री “हस्तं शरीरमित्याहुर्हस्तञ्च गगनं तथा। ज्योतिश्च ग्रहनक्षत्रं ज्योतिर्हस्ता ततः स्मृता” देवीपु० ४५ अ० उक्तनिरुक्तियुक्तायां दुर्गायाम्।

ज्योतिश्चक्र = न० ज्योतिभिर्नक्षत्रैर्थटितं चक्रम्। १ भचक्रे “सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितिवायुगम्। तदर्कांशो भवेद्राशिर्नवर्क्षचरणाङ्कितः” ति० त० उक्ते अश्विन्यादिभिर्नक्षत्रैर्थटिते मण्डलाकारे राशिचक्रे। स्तिमितवायुगमित्यनेन तस्य नाधःपतनमात्रं विवक्षितं न गत्यभावः प्रवहवायुना तस्या प्रतिदिनं प्रत्यग्गतेः सूर्य्य सिद्धान्तादावुक्तत्वात् खगोलशब्दे २४१६ पृष्टादौ दृश्यम्।

ज्योतिः(श्शा)शास्त्र = न० ज्योतिषां सूर्य्याद्येनां गत्यादि ज्ञापकं शास्त्रम् वा शत्वम्। सूर्य्यदिग्रहगत्यादिबोधके कालज्ञाने वेदाङ्गे शास्त्रभेदे। “वेदास्तावद्यज्ञकर्मप्रवृत्तायज्ञाः प्रोक्तास्ते तु कालांश्रयेण। शास्त्रादस्मात् कालवोधो यतः स्यादु वेदाङत्वं ज्योतिषस्योक्तमस्मात्। शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रभुक्तं निरुक्तं च कल्पः करौ। या तु शिक्षास्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आर्य्यैबुधैः। वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते। संयुतोऽपोतरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चित्करः। तस्माद्द्विजैरध्यनीयमेतत् पुण्यं रहस्यं परमं च तत्त्वम्। यो ज्योतिषं वेत्ति नरः म सम्यग् धर्मार्थकामान् लभते यशश्च”। “ज्योतिःशास्त्रमनेकभेदविपयम्” पृ० स० १ अ०। अस्य भेदादि अङ्गशब्दे ७३ पृ० दृश्यम्।

ज्योतिष = न० ज्योतिः सूर्य्यादिगत्यादिकं प्रतिपाद्यतयाऽस्त्यस्य अच्। १ ज्योतिःशास्त्रे ज्योतिषं नयनं विदुः” शिक्षा। ज्योतिःशास्त्रशब्दे उदा०। “ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्” वृ० स० ७ अ०। २ तारायां स्त्री गौरा० ङीष्। ज्योतिषं ज्ञेयत्वेनास्त्यस्य इनि। ज्योतिषिन्। ज्योतिःशास्त्राभिज्ञे त्रि० स्त्रियां ङीप्।

ज्योतिषिक = त्रि० ज्योतिरधीरे उक्थादि० ठक् संज्ञापूर्वकविधेरनित्वात् न वृद्धिः। ज्योतिःशास्त्रभ्ध्येतरि।

ज्योतिष्क = पु० ज्योतिरिव कायति कै–क। १ चित्रकवृक्षे “एतान्योवावाप्य क्षारकल्पेन निस्रुतेपालाशे क्षारे ततो विपाच्य फाणितमिव सञ्जातमवतार्य्यलेपयेत्। ज्यो- तिष्क फललाक्षामरिचपिप्पलीसुमनःपत्रैर्वा” सश्रु०। २ मेथिकावीजे च राजनि०। ३ गणकारिकावृक्षे रत्नमा०। ४ ग्रहतारानक्षत्रादौ ब० व० “तदीशभागे तस्याद्रेः शृङ्ग मादित्यसन्निभम्। यत्तत् ज्योतिष्कमित्याहुः सदा पशुपतेः प्रियम्” इत्युक्ते ५ मेरोः शृङ्गभेदे न०!

ज्योतिष्टोम = पु० ज्योतीषि त्रिवृदादयः स्तोमायस्य षत्वम्। १ स्वनामख्याते अग्निष्टोमस्वं स्थारूपे यज्ञभेदे तद्विधानादि ताण्ड्य० ब्रा० ४। १। ६। “यज्ज्योतिष्टोमो भवति यज्ञमुखन्तटाध्नुवन्ति यदुक्थो यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्तै” मू० “अथ षोडशिकोऽयमतिरात्र इत्युक्तं, कॢप्तो ज्योतिष्टोमोऽतिरात्रः स षोडशिक इति। अथ तद्व्यतिरिक्ताभिस्तिसृभिः संस्थाभिरवयुज्य स्तूयते। षद्यपि सर्वेषामपि ज्योतिष्ठोमत्वमस्ति तथापि उक्थातिरात्रसंस्थयोः पृथग्वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्देनोच्यते। ज्योतीषि त्रिवृदादयः स्तोमा यस्य स ज्योतिष्टोमः। तथा च तैत्तिरीयकं त्रिवृत्पञ्चदश सप्तदश एकविंश एतानि ज्योतींषि यत एतस्य स्तोमा इति। यज्जोतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्मको भवति ज्योतिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या, “एष वाच प्रथमो यज्ञानामिति” श्रुतेः। तत्तेन यज्ञमुखं यज्ञानां मुखभूतमग्निष्टोमं प्राप्य आध्नुर्वन्ति सत्रिणः समृद्धा भवन्ति तथा तस्मिन्नतिरात्रे उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतरन्तर्भवतीति यत् तत् यज्ञक्रतोः संपूर्णस्य यज्ञस्य अनन्तरयाय अपरित्यागाय भवति उक्थसंस्थायां हि क्रतुः संपूर्णो भवति यथा पूर्वयोः सवनयोः पञ्चदश पञ्चदश स्तात्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात्। अग्निष्टोमस्त्वसंपूर्णः क्रतुः उक्तहेतोरभावात्” भा०। तस्य च अग्निष्टोमसंस्थत्वेन ज्योतिष्टोमनामताहेतुरुक्तो यथा “यदेतानि सर्वाणि सह दुरुपापानि कैतेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमेनैवाग्निष्टोमेन यजेत। तम्य वा एतस्य ज्योतिष्टोमस्याग्निष्टोमस्य त्रिवृद्बहिष्पवमानं तदुव्रतस्य शिरः, पञ्च दशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ, पञ्चदशं होतुराज्यं सप्तदशं पृष्टमेकविंशं यज्ञायज्ञियं तत् पुच्छम्” शत० ब्रा० १०। १। २। ७। “अधुनां प्रथमसंस्थारूपज्योतिष्टोमाग्निष्टोमं महाव्रतयज्ञात्मना स्तोतुं तत्रैवाग्निचयनादित्रयस्योपादानाद् ब्रह्मवादिप्रश्नोत्तराभ्यां दर्शयति। सह युगपत् दुरुपापानि आप्तुमशक्यानि सर्वेषां महाव्रतयज्ञानुष्ठाने प्रयोगबाहुल्येनऋत्विक्सम्पादनादेः दुष्करत्वेन चानधिकारात् तत्राम्बिष्टोम इति पदेनाग्निस्तवनोक्तेरग्निचयनमुक्तमिति मन्तव्यम्। पक्ष्याकारस्य महाव्रतसाम्नो हि शिरःपक्षमध्यपुच्छात्मकाः पञ्चावयवाः शिरो नायत्रं, रथन्तरं दक्षिणः पक्षः वृहदुत्तरः पक्षः भद्रमस्य पुच्छं राजनसाम ह्यात्मेति तत्सर्वमग्निष्टोमे सम्पादयति तस्य वा इति ऋकत्रयात्मकमेक सूक्तं तादृशानि त्रीणि सूक्तानि त्रिवृतोऽवयवायस्य स्तोमस्य तदिदं त्रिवृदु बहिष्पवमानम् प्रातःसवनिकं तृचं सूक्तत्रयात्मकं वहिष्पवमानं महाव्रतस्य शिरो भवति बहिष्पवमान मपि गायत्रीच्छन्दस्कैस्तृचैर्गातव्यम् माध्यन्दिनः पञ्चदश स्तोत्रियात्मकः पवमानः, तृतीयंसवने सप्तदशस्तोत्रियात्मकः आर्भवः षवमानः पक्षस्थानीयौ होत्रानुशंसनीयं प्रथममाज्यस्तोत्र” सप्तदशस्तोत्रियात्मकं पृष्ठनामकं होतुः प्रथमं स्तोत्रम् तदुभयं मध्यात्मरूपम्। एकविंशत्यावृत्तिरूपं “यज्ञायज्ञा वो अग्नयः” इत्यत्रोत्पन्नं साम पुच्छस्थनीयम्” भा० २ सोमयागे च “ज्योतिष्टोम धर्मा एकाहद्वादशाहयोस्तदुगुणदर्शनात्” कात्या० श्रौ० १२। १। १ “ज्योतिष्टोमशब्देन उपांश्वादिहारियोस्रनप र्य्यन्तो ग्रहयज्ञाभ्यासोऽभिधीयते ज्योतींषि यम्य स्तोमाः स ज्योतिष्टोमः स्तोमैर्ह्यसौ द्योत्यत इति ते च सोमयागस्य स्तोमाः तस्मात् ज्योतिष्ठोमशब्देन सोमयागोऽभिधीयते” कर्कः।

ज्योतिष्मत् = त्रि० ज्योतिरस्त्यत्र मतुप्। १ ज्योतिर्युक्ते २ प्रकाशयुक्ते ३ लताभेदे स्त्री। सा च (मालकाङ्गनी) इति ख्याता लता। “ज्योतिष्मतो कटुस्तिक्ता सरा कफममीरजित्। अत्युष्णा वामनी तोक्ष्णा वह्निबुद्धिस्मृतिप्रदा” राजनि० ४ रात्रौ राजनि०। ५ योगशास्त्रोक्ते सत्त्वप्रधाने चित्तवृत्तिभेदे च। “विशोका वा ज्योतिष्मती” पात० सू०। प्रिवृत्तिरुत्पन्ना चित्तस्य स्थिति–निवन्धिनीति वाक्यशेषः। ज्योतिःशब्देन सात्त्विकः परिश्चाम उच्यते स प्रशस्तो भूयानतिशयश्च विद्यते यस्याम्” भोजवृत्तिः “प्रसी टतु ते विशोका ज्योतिष्मती नाम चित्तवृत्तिः” महावी० “ज्योतिष्मतः पथो रक्ष धिया कृतान्” ऋ० १०। ५३। ६ “ज्योतिष्मतो दीप्तिमतः” भा० ६ अग्निपुर्य्याम् अर्चिष्मत्यां तत्कथा अग्निभोकशब्दे ५९ पृ० दृश्यम्। योऽयमस्य यथाऽनेन प्रापि ज्योतिष्मती पुरी” काशी०। ७ सूर्य्ये प्लक्षद्वीपस्थे ८ पर्वतभेदे च शब्दार्थचिन्तामणिः।

ज्योतिस् = पु० द्योतते द्युत्यतेऽनेन वा द्युत–इसुन् आदेर्दस्यजः ज्युतं–दीप्तौ बा इसुन्। १ सूर्य्ये २ अग्नौ, मेदि० ३ मेथिकावृक्षे राजनि० च। नेत्रकनीनिकामध्यस्थे ४ दर्शनसाधने, पदार्थे, शब्दार्थचि० ५ नक्षत्रे, ६ प्रकाशे, शब्दच० ७ स्वयंप्रकाशे, सर्वावभासके चैतन्थे च न०। ८ अग्निष्टोमयागस्य संस्थाभेदे यथोक्तं ताण्ड्य० ब्रा० ४। १। ७

“स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै लोका एते स्तोमा अंयमेव ज्योतिरयं मध्यमो गौरसावुत्तम आयुः” मू०। “स पुर्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोमशब्देन त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते। तानि ज्योतिर्गौ रायुरिति एतन्नामकान्थपश्यत्। तत्र ज्योतिरग्निष्टोमसंस्थः गौरायुषी उक्थसंस्थे ज्योतिष इयं स्तोमकॢप्तिः। त्रिवृद्बहिष्पवमांनं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्नीष्टोमसामेति। अथ गोष्टोमस्थ पञ्चदशो बहिष्पवमानः त्रिवृदाज्यानि सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनम्। अथायुष्ठोमस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनसिति। एते उक्ताः स्तोमा इमे लोका वै भूरादिकाः खलु कः कतमो लोक इति बुभुत्सायामाह अयमेव लोको ज्योतिः। अयम्मध्यमः अन्तरीक्षलोको गौः असावुत्तमस्तृतीयः स्वर्लोक आयुः। स्तोमत्रयस्य लोकत्रयेण सह संख्यासाम्यात् तच्छब्दता एतैः त्रिभिः स्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदिति शेषः” भा०। ९ विष्णौ “विहायसगत्तिर्ज्योतिः सर्वविद् हुतभुग् विभुः” विष्णुस० स्वयंद्योतनात् तस्य तथात्वम। “अथ यदतः परो दिवो ज्योतिर्दीप्यते। विश्वतः पृष्ठेषु सवेतः पृष्ठेष्वनुत्तयेषूत्तयेषु लोकेषु। इदं वाव तद्यदिदमन्तःपुरुषे ज्योतिः” छा० उ०। एतासधिकृत्य “ज्योतिःशब्दस्य परब्रह्मपरत्वं शा० सू० भा० व्यवस्थापितं यथा “ज्योति श्चरणाभिधानात्” १। ११। २४ सूत्रभाष्यादौ दृश्यम्। “चक्षुर्वृत्तेर्तिरोधकं शार्वरादिकं तमः। तस्या एवानुग्राहकमादित्यादिकं ज्योतिरिति” शा० भा०। १० तेजोद्रव्यमात्रे तस्य प्रकाशवत्वात्तथात्वं तदपितत्रैव भाष्ये दृश्यम्। “ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते”। “ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम्। योऽन्तःसुखो-ऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति” गीता। “हिमक्लिष्टप्रकाशानि ज्योतिंषीव मुखानि वः” “स हि देवः परं ज्योतिस्तमःपारे प्रतिष्ठितम्” कुमा०। ज्योतिःसारः ज्योति स्त्वत्त्वम् ज्योतिःसिद्धान्तः।

ज्योतोरथ = पु ज्योतिषां सूर्य्यादीनां रथ इवाधारत्वात्। ध्रुवनक्षत्रे त्रिका० तदाधारतयैव ज्योतिश्चक्रस्थ समवस्थानात् तस्य तद्रथत्वम्।

ज्योत्स्ना = स्त्री ज्योतिरस्त्यस्याम् न उपधालोपश्च। १ कौमुद्याम् चन्द्रकिरणे अमरः २ रेणुकानामगन्धद्रव्ये रत्नमा०। ३ दुर्गायां “प्रभा प्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्कमालिनी” देवी० पु० ४५ अ०। “रौद्रायै नमो नित्थायै गौर्य्यै धात्रौ नमो नमः। ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः” देवीमा०। ततः मत्वर्थे अण् ज्यौत्स्त तद्युक्ते त्रि० स्त्रियां ङीप् ज्यौत्स्नी।

ज्योत्स्नाकाली = स्त्री सोमस्य कन्यायां वरुणात्मजपुष्करपत्न्याम् “एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः। रूपवान् दर्शनीयश्च सोमपुत्र्या वृतः पतिः। ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्” भा० उ० ९७ अ०

ज्योत्स्नादि = पु० मत्वर्थे अण्प्रत्ययप्रकृतिभूते पा० ग० सू० पठिते शब्दगणे स च गणः “ज्योत्स्ना तमिस्वा कुण्डल कुतुप विसर्प विपादिका”।

ज्योत्स्नाप्रिय = पुंस्त्री ज्योत्स्ता प्रियास्य। चकोरे स्त्रियां जातित्वेऽपि योपधत्वात् टाप्।

ज्योत्स्नावृक्ष = पु० ज्योत्स्ताया दीपप्रकाशस्याधारः वृक्षः। दीपाधारे (पिलसुच) त्रिका०।

ज्योत्स्नी = स्त्री ज्योत्स्नाऽस्त्यस्य अण् संज्ञापूर्वकवृद्धेरनित्यत्वात् न वृद्धिः ङीप्। १ ज्योत्स्तायुक्तरात्रौ (झिङ्गा) २ पटोलिकायाञ्च अमरः। ३ रेणुकानामगन्धद्रव्ये शब्दच०। स्वार्थे क। ज्योत्स्तिका तत्रार्थे।

ज्यौतिषिक = त्रि० ज्योतिषमधीते वेद वा उक्थादि० ठक्। १ ज्योतिषशास्त्राभिज्ञे २ तदध्येतरि च अमरः।

ज्यौत्स्न = त्रि० ज्योत्स्ता अस्त्यस्य अण्। १ ज्योत्स्नायुक्ते स्त्रियां ङीप् सा च २ चन्द्रिकायुक्तरात्रौ रायमुकुटः।

ज्रि = अभिभवे भ्वा० पर० सक० अनिट्। ज्रयति अज्रौषीत्। जिज्राय जिज्रियतु “आ भानुना पार्थिवानि जृयांसि महस्तोदस्य धृषता ततन्थ” ऋ० ६। ६६। “जिगादुपज्रयति सोरपीच्यं पदं यदस्य मतुथा अजीजनन्” ६। ७१। ५।

ज्री = वयोहानौ वा चुरा० उभ० पक्षे क्य्रा० प्वा० प० अक० अनिट्। ज्राययति ते ज्रिणाति अजिज्रयत् त अज्रैषीत्

ज्वर = रोगे भ्वा० पर० अक० सेट्। ज्वरति अज्वारीत्। मित्। ज्वरयति ते।

ज्वर = पु० ज्वर + भावे थ। स्वनामख्याते रोगभेदे। ज्वरस्योद्भव निदानादि भावप्र० उक्तं यथा। “दक्षायमानसंक्रुद्धरुद्रनिःश्वाससम्भवः। ज्वरोऽष्टधा पृथग्द्वश्वसङ्घातागन्तुजः स्मृतः। अस्थायमर्थः। दक्षकर्तृको योऽपमानस्तेन संक्रुद्धो यो रुद्रस्तस्य यो निःश्वासस्तस्मात्सम्भव ऊत्पत्तिर्यस्य स ज्वरः। क्रुद्धरुद्रनिःश्वाससम्भूतत्वेन ज्वरः स्वभावात्पैत्तिक इति बोध्यते। यत उक्तं चरकेण, क्रोधात्पित्तमित्यादि तेन सर्वज्वरेषु पित्तोपशमकारिणो चिकित्सा कर्तव्या अतएव वाग्भटः “उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना। तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम्” रुद्रसम्भूतत्वेन ज्वरस्य देवतात्मकत्वात् पूजार्हत्वं चोपदर्शितम् अतएव वैदेहः “ज्वरः संपूनैवार्पि सहसैवोपशाम्यतीति”। मूर्त्तिरप्यस्योक्ता सुश्रुतेन “रुद्रकोपाग्निसंमूतः सर्वभूतप्रतापनः। त्रिपाद्भस्मप्रहरणस्त्रिशिराः सुमहोदरः। वैयाघ्रचर्मवसनः कपिलो माल्यविग्रहः। पिङ्गेक्षणो ह्रस्वजङ्घो बीभत्स्यो बलवान्महान्। पुरुषो लोकनाशर्थमसौ ज्वर इति स्थितः। तैस्तैर्नामभिरन्येषां सत्वानां परिकीर्त्त्यते। जन्मादौ निधने चैव प्रायोविशति देहिनम्। ऋते देवमनुष्याभ्यां नान्यो विषहते हि तम्” तस्य ज्वरस्य संख्यारूपां संपाप्तिमाह ज्वरोऽष्टधेति। अष्टत्वं विवृणोति पृथगिति वातिकः पैत्तिकः श्लैष्मिकशैति त्र्यः। द्वन्यजाश्च त्रयः वातपैत्तिकः वातश्लैष्मिकः पित्तश्लैष्मिकश्चेति। सङ्घातजः सन्निपातिक एकः। “द्व्युस्यणैकोस्त्वणैः षट् स्थुहीऽनमध्याधिकैश्च षट्। समश्चैको विकारास्ते सन्निपातास्त्रयोदश” इति चरके त्रयोदश सन्निपाता उक्तास्ते यथा। वातोल्वणः पित्तोल्वणः। कफोल्वणः। वातपित्तोल्वणः। वातश्लेष्मोल्वणः पित्तश्लेष्मोल्वणः। एवं षट्। अधिकवातो मध्यपित्तो हीनकफः। अधिकवातो मध्यकफो हीनपित्तः। अधिककफो मध्यपित्तो हीनवातश्चेति षट्। त्र्युलवण एकः एवं त्रयोदश। अत्र तु त्रिदोषजत्वेन साम्यात्सान्निपातिक एक एव गणितः। आगन्तुज इति। अत्रागन्तुशब्देनाभिधातादयो हेतव उच्यन्ते। कुत्रचिद्व्याधयः कार्थकारणयोरभेदोपचारात् आगन्तुजा अभिधाताद्यनेककारणयोगादनेक भवन्ति। तथाप्यागन्तुजत्वेन साम्यादागन्तुजोऽप्यत्रैक एव गणितः। नन्वागन्तुजेऽपि ज्वरे वातादिलक्षणदर्शनादागन्तुजः कथं दोषजाद्भिन्नः उच्यते, उत्तरकालं दोषोत्पत्तेः। तथा च चरके “आगन्तुजो हि व्यथापूर्वं जायते पश्चाद्भिन्नैर्दोषैरनुबध्यते” इति। अथ ज्वरस्य विप्रकृष्टकारणकथनपूर्बिका अम्प्राप्तिमाह “मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः। वहिर्न्निरस्य कोष्टाग्निं ज्वरदाः स्थूरसानुगाः”। मिथ्याहारविहाराभ्यां अनुचिताहारचेष्टाभ्यां हेतुभूताभ्यां दोषाः वातपित्तकफाः आमाशयाश्रयाः आमाशयं गता रसानुगाः रसदूषकाः बहिर्निरस्य कोष्टाग्निं कोष्टगताग्नेरूष्माणम् न तु समस्तवग्निं तदा दोषपाकासम्भवः स्यात्। बहिः प्रक्षिप्य ज्वरदाः स्युर्ज्वरकांरिणो भवेयुरित्यर्थः। अथ ज्वरस्य सामान्यं विशिष्टञ्च पूर्वरूपमाह “श्रमोऽरतिर्विवरणत्वं वैरस्यं नयनप्लवः। इच्छाद्वेषो मुहुश्चापि शीतवातातपादिषु। जृम्भाऽङ्गमर्द्दो गुरुता रोमहर्षोऽरुचिस्तमः। अप्रहर्षश्च शीतञ्च भवन्त्युत्पत्स्यति ज्वरे। सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात्। पित्तान्नयनयोर्द्दाहः कफान्नान्नाभिनन्दनम्!” श्रमो व्यापार’ विनैव, अरतिरस्वस्थचित्तत्वम् विवर्णत्वं म्लानगात्रता। वैरस्यं मुख्यस्याऽप्रकृतरसता। नयनप्लवः नयनयोरश्रुपूर्णत्वम्। शीतवातातपादिषु मुहुरिच्छाद्वेषौ। आदिशब्दाज्ज्वलने जले च। यत उक्तं चरकेण “ज्वलनातपवातेषु भक्तिद्वेषावनिश्चिताविति”। शयनादिष्वित्यन्ये। अङ्गमर्द्दोऽङ्गमोटनम्। गुरुता गात्रस्य। तोमहर्षः रोमाञ्चता। अरुचिर्भोज्ये, तमः तमोमग्नस्येव ज्ञानम्। अप्रहर्षः हर्षाभावः। शीतं लगति चकाराद्वलहानिः उपदेशद्वेषादयोऽपि भवन्ति। तृतीयश्लोकस्थम् सामान्यत इति पूर्वश्लोकाभ्यां सम्बन्धनीयम्। तेन सामान्यतो ज्वर उत्पत्स्थति भविष्यति श्रमादयः पूर्वमेव भवन्तीत्यर्थः। उत्पत्स्थतीत्यात्मनेपदिनोऽपि तङभाव आर्षत्वात्। विशेषात् उच्यते। समीरणात् ज्वरे उत्पत्स्यति अतिशयेन जृम्भा भवति। पित्तज्वरे उत्पत्स्यति अत्यर्थनयोर्दाहो भवति। कफज्वरे उत्पत्स्यति अत्थर्थेन नान्नाभिनन्दनम् अन्नाकाङ्क्षा न भवति। जृम्भादयो भवन्ति यतः सामान्यधर्माक्रान्तो विशिंष्टोधर्मोभवति। द्वन्द्वजपूर्वरूपमाह, “रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्दजं विदुः। अन्यतराभ्यां जृम्भानेत्रदाहाभ्याम्। जृम्भान्नारुचिभ्यां नेत्रदाहान्नारुचिभ्यां वा संसृष्टैरूपैः श्रमादिभिः द्वन्द्वजं द्विदोषजं पूर्वरूपं विदुः। त्रिदोषजपूर्वरूपमाह, “सर्वलिङ्गसमावायः सर्वदीषप्रकोपजे। सर्वरूपजे सर्वरूपे सर्वलिङ्गसमवायः। अतिशयितजृम्भानेत्रदाहान्नारुचिसहितानां श्रमादीनां समवायो भवति। अथ ज्वरस्य सामान्यलक्षणमाह, “स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा। युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते। ताप इति वक्तव्ये सन्तापाभिधानं देहेन्द्रियमनसां सन्तापबोधनार्थम्। यत उक्तं चरकेण ज्वरविशेषणम्। “देहेन्द्रियमनस्तापीति”। तत्र देहसन्तापो देहेन्द्रियोष्णता। इन्द्रियसन्ताप इन्द्रियवैकृत्यम्। यत उक्तम् “इन्द्रियाणां तु वैकृत्यं यत्र सन्तापलक्षणम्। वैचित्त्यमरतिर्ग्लानिर्म्मनःसन्तापलक्षणम् इति”। सर्वाङ्गग्रहणम् सर्वेषामङ्गानां वेदनया ग्रहणं सर्वाण्यङ्गानि स्तम्भनगृहीतानीव वा भवन्ति। युगपदिति। मिलितमेतल्लक्षणम्। प्रत्येकस्य व्यभिचारात्। यथा स्वेदावरोधः कुष्ठपुर्वरूपे। तथा सन्तापो दाहव्याधौ। तथा सर्वाङ्गग्रहणं सर्वाङ्गरोगाख्यवातव्याधौ। प्रस्वेदानिर्गमनपक्षे कारणमाह। “रुणद्धि चाप्यपां धातुं यस्मात्तस्माज्जरातुरः। भवत्यत्युष्णगात्रश्च स्विद्यते न च सर्वशः। तस्माज्ज्वरोऽत्र भवति सर्वशः स्विद्यते न च”। सुश्रुते उत्तरतन्त्रे च तत्र विशेष उक्तो यथा “ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्। कर्मणा लभते यस्माद्देवत्वं मानुषादपि। पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्त्तते। तस्मात्ते देवभागेन सहन्ते मानुषा ज्वरम्। शेषाः सर्वे विपद्यन्ते तैर्य्यग्योना ज्वरार्दिताः। स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा। विकारा युगपद्यस्मिन् ज्वरह् स परिकीर्तितः। दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च। अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः। दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपनैः। व्याप्य देहमशेषेण ज्वरमापादयन्ति हि। दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा। सहिता रसमागत्य रसस्वेदप्रवाहिणाम्। स्रोतसां मार्यमावृत्त्य मन्दीकृत्य हुताशनम्। गिरस्य वहिरूष्माणम् पक्तिस्थानाच्च केवलम्। शरीरं समाभव्याप्य स्वकालेषु ज्वरागमम्। जनयन्त्यथ वृद्धिश्च स्ववर्णञ्च त्वगादिषु। मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम्। विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः। श्रमात् क्षयादजीर्णाच्च विषात् सात्म्यर्त्तुपर्य्ययात्। अओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडनात्। अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया। स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः। स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्त्तते। तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गकैः। विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः। रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरातुरः। भवत्यत्युष्णगात्रश्च न च स्विद्यति सर्वशः। श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः। इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु। जृम्भाङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः। अप्रहर्षश्च शीतञ्च भवत्युत्पत्स्यति ज्वरे। सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात्। पित्तान्नयनयोर्दाहः कफान्नाभिनन्दनम्। सर्वलिङ्गसमावायः सर्वदोषप्रकोपजे। द्वयोर्द्धयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः। वेपथुर्विषमो वेगः कण्ठोष्ठमुखशोषणम्। निद्रानाशः क्षवः स्तम्भो गात्राणां रौक्ष्यमेव च। शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता। जृम्भाध्मानं तथा शूलं भवत्यनिलजे ज्वरे। वेगस्तीक्ष्णोऽतिसारश्च निन्द्राल्पत्वं तथा वमिः। कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते। प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा। पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च। गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता। स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता। नात्युष्णगात्रता च्छर्दिरङ्गसादोऽविपाकता। प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता। निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः। तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदिव्यथा। पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता। रसना परुषा कृष्णा सन्धिमूर्द्धास्थिजा रुजः। निर्भुग्नकलुषे नेत्रे कर्णौ शब्दरुगन्वितौ। प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः। स्वेदमूत्रपुरोषाणामल्पशः सुचिरात् सृतिः। सर्वजे सर्वलिङ्गानि विशेषञ्चात्र मे शृणु। नात्यु ष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः। खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः। सास्रनिर्भुग्नहृदयो भक्तद्वेषी हतप्रभः। श्वसन् निपतितः शेते प्रलापोपद्रवैर्युतः। तमभिन्यासमित्याहुर्हतौजसमथापरे। सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः। निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम्। संन्यस्त- गात्रं संन्यासं विद्यात्सर्बात्मके ज्वरे। ओजोविस्रंसते यस्य पित्तानिलसमुच्छ्रयात्। स गात्रस्तम्भशीताभ्यां शयने स्यादचेतनः। अपि जाग्रत् स्वपतु जन्तुस्तन्द्रालुश्च प्रलापवान्। संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः। ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक्। सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा। पुनर्धोरतरो भूत्वा प्रशमं याति हन्ति वा। द्विदोषोच्छ्रायलिङ्गास्तु द्वन्वजास्त्रिविधाः स्मृताः। जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः। तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके। शूलकासकफोत्क्लेशशीतवेपथुपीनसाः। गौरबारुचिविष्टम्भा वातश्लेष्मसहृद्भवे। शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः। कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके। क्षामाणां ज्वरमुक्तानां मिथ्याहारविहारिरिणाम्। दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः। सन्ततान्येद्युषत्र्याख्यचातुर्थान् सप्रलेपकान्। कफस्थानविभागेन यथासङ्घ्यं करोति हि। अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते। ततश्चामाशयं प्राप्य घोरं कुर्य्याज्ज्वरं नृणाम्। तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः। दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत्। कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा। विपर्य्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान्। परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः। आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे। वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकञ्चापि चतुर्थकञ्च। औपात्यके मद्यसमुद्भवे च हेतु ज्वरे पित्तकृतं वदन्ति। प्रलेपकं वातबलासकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञाः। मूर्च्छानुबन्धाविषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु। त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे। तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च। करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च। तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः। द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ। दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमः स्मृतः। प्रसक्तश्चाभिधातोत्थश्चेतनाप्रभवस्तु यः। रात्र्यह्नोः षट्सु कालेषु कीर्त्तितेषु यथा पुरा। प्रसह्य विषमोऽभ्येति मानवं बहुध ज्वरः। स चापि विषमो देहं न कदादिद्विमुञ्चति। ग्लानिगौरवकाश्र्येभ्यः स यस्मान्न प्रमुच्यते। वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते। धात्वन्तरस्थो लीनत्वान्न सोक्ष्म्यादुपलभ्यते। अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः। दोषोऽल्पोऽनिलसंभूतो ज्वरोत्सृष्टस्य वा पुनः। धातुमन्यतमं प्राप्य करोति विषमज्वरम्। सन्तरं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः। मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः। कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम्। केचिद् भूताभिषङ्गोत्थं ब्रुवतेविषमज्वरम्। सप्ताहं वा दशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते। अहोरात्रे सन्ततको द्वौ कालाषनुवर्तते। अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते। तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः। वातेनोद्धूयमानस्तु यथा पूर्येत सागरः। वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान्। यथा वेगागमे वेलां छादयित्वा महोदधेः। वेगहानौ तदेवाम्भस्तत्रैवान्तर्निधीयते। दोषवेगोदयं तद्वदुदीर्येत ज्वरोऽस्यवै। तेमहानौ प्रशाम्येत यथाम्भः सागरे तथा। विविधेनाभिधातेन ज्वरो यःसंप्रवर्तते। यथा दोषप्रकोपन्तु तथा मन्ये त तं ज्वरम्। श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः। अभक्तरुक्पिपासा च तोदो मूर्च्छा बलक्षयः। अओषधौगन्धजे मूर्च्छा शिरोरुक्क्षवथुस्तथा। कामजे चित्तविभ्रंशस्तन्द्रालस्यमभक्तरुक। हृदये वेदना चाशु गात्रञ्च परिशुष्यति। भयात् प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः। अभिचाराभिशापाभ्यां मोहस्तृष्णाभिजायते। भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम्। श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः। पूरयित्वाखिलं देहं ज्वरमापादयेद्भृशम्। रोगाणां तु समुत्थानाद्विदाहागन्तुतुस्तथा। ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः। दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते। गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया। आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च। हतप्रभेन्द्रियं क्षमं दुरात्मानमुपद्रुतम्। गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्। हीनमध्याधिकैर्दोषैस्त्रिसप्तद्धादशाहिकः। ज्वरवेगो भवेत्तीव्रो यथापूर्बं सुखक्रियः। इति ज्वराः समाख्याता कर्मेदानीं प्रवक्ष्यते”। ज्वरभेदे क्रियाभेदः सुश्रु० उ० त० उक्तो यथा “ज्वरस्य पूर्वरूपेप्रुवर्त्तमानेषु बुद्धिमान्। पाययेत घृतं ज्वच्छं ततः स लभते सुखम्। विधिर्मारुतजेष्वेष पत्तिकेष विरेचनम। मृदु प्रच्छर्दनं तद्वत्कफजेषु विधीयते। सर्बं द्विदोषजेषूक्तं यथादोषं विकल्पयेत्। अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना। रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्। प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम्। आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम्। आनद्धः स्तिमितैर्द्दोषैर्य्यावन्तं कालमातुरः। कुर्य्यादनशनं तावत्ततः संसर्गमाचरेत्। न लङ्घयेन्मारुतजे क्षयजे मानसे तथा। अलङ्घ्याश्चापि ये पूर्बं द्विव्रणीये प्रकोर्त्तिताः। अनवस्थितदोषाग्नेर्ल्लङ्घनं दोषपाचनम्। ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्। सूष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम्। प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम्। बलक्षयस्तृषाशोषस्तन्द्रानिद्राभ्रमक्लमाः। उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात्। दीपनं कफविच्छेदि पित्तवातानुलोमनम्। कफवातज्वरार्त्तेभ्यो हितमुष्णाम्बु तृट्च्छिदम्। तद्धि मादवकृद्दोषस्रोतसां शीतमन्यथा। सेव्यमानेन तोयेन ज्वरः शीतेन वर्द्धते। पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम्। गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः। दीपनी साचनी लध्वी ज्वरार्त्तानां ज्वरापहा। अन्नकाले हिता पेया यथास्वम्पाचनैः कृता। बहुदोषस्य मन्दाग्नेः सप्तरात्रात्परं ज्वरे। लङ्घनान्ते यवागूभिर्यदा दोषो न पच्यते। तदा तं मुखवैरस्यतृष्णारोचकनाशनैः। कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्। पञ्चमूलीकषायन्तु पाचनं पवनज्वरे। सक्षौद्रं प्रैत्तिके मुस्तकटुकेन्द्रयवैः कृतम्। पिप्पल्यादिकषायन्तु कफजे परिपाचनम्। द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत्। पीताम्बुर्लङ्घितोभुक्तो जीर्णी क्षीणः पिपासितः। मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च। पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्। दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्। हृदयोद्वेष्टनं तन्द्रालालास्रुतिररोचकम्। दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता। गुरूदरत्वसस्वेदो न पक्तिः शकृतोऽरतिः। स्वापः स्तम्भो गुरुत्वस्य गात्राणां वह्निमार्दवम्। मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवान् ज्वरः। लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः। सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम्। दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः। पौत्तिके वा ज्वरे देयमल्पकालसमुत्थिते। अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः। भोषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्। शोधनं शमनीयन्तु करोति विषमज्वरम्। च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा। अतिप्रवर्त्तमानञ्च माधयेदतिसारवत्। यदा कोष्ठानुगाः प्रक्वाविबद्धाः स्रोतसां मलाः। अचिरज्वरितस्यापि तदा दद्याद्विरेचनम्। पक्वोह्यनिर्हृतोदोषो देहे तिष्ठन् महात्ययम्। विषमं वा ज्वरं कुर्य्याद्बलव्यापदमेब च। तस्मान्निर्हरणं कार्य्यं दोषाणां वमनादिभिः। प्राक्कर्म्म वमनं चास्य कार्य्यमास्थापनं तथा। विरेचनं तथा कुर्य्याच्छिरसश्च विरेचनम्। क्रमेण बलिने देयं वमनं श्लैष्मिके ज्वरे। पित्तप्राये विरेकस्तु कार्य्यः प्रशिथिलाशये। सरुजेऽनिलजे कार्य्यं सोदावर्त्ते निरूहणम्। कटीपृष्ठग्रहार्त्तस्य दीप्ताग्नेरनुवासनम्। शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम्। कफाभिपन्ने शिरसि कार्य्यं मूर्द्धविरेचनम्। दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत्। दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः। अम्लपिष्टैः सुखोष्णैश्च पवने तूर्द्ध्वमागते। रुद्धमूत्रपुरीषाय गुदे वर्त्तिं निधापयेत्। पिप्पलीपिप्पलीमूलयवानीचष्यसाधिताम्। पाययेत यवागूं वा मारुताद्यनुलोमनीम्। शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति। सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत्। कृशञ्चैवाल्पदोषञ्च शमनीयैरुपाचरेत्। उपवासैर्बलस्थन्तु ज्वरे सन्तर्पणोत्थिते। क्लिन्नां यवागूं मन्दाग्निं तृषार्त्तं पाययेन्नरम्। तृट्च्छर्दिदाहघर्मार्त्तं मद्यपं लाजतर्पणम्। सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम्। उपपासश्रमकृते क्षीणे वाताधिके ज्वरे। दीप्ताग्निं मोजयेत्प्राज्ञो नरं मांसरसौदनम्। मुद्गयूषौदनञ्चापि हितं कफसमुत्थिते। स एव सितया युक्तः शीतः पित्तज्वरे हितः। दाडिमामलमुद्गानां युषश्चानिलपैत्तिके। ह्रस्वमूलकयूषेण भोजयेत्कफवातिके। पटोलनिम्बयूषस्तु पथ्यः पित्तकप्रात्मके। दाहच्छर्दियुतं क्षामं निरन्नं नृष्णयार्दितम्। सिताक्षौद्रयुतं लाजतर्पणं पाययेत च। कफपित्तपरीतस्य ग्रोष्मेऽसृक्पित्तनस्तथा। मद्यनित्यस्य न हिता यवाहूस्तमुपाचरेत्। यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः। मद्यं पुराणं मन्दाग्वेर्य्यवान्नोपहितं हितम्। सव्योषं वितरेत्तक्रं कफारोचकपीडिते। कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः। विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी। पिपासार्त्तः सदाहो वा षयसा स सुखी भवेत्। तदेव तु पयः पीतं तरुणे हन्ति मातवम्। सर्वज्वरेषु सप्ताहं मात्रावद्भोजनं हितम्। वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम्। ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्। अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथ वा। गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात्कथञ्चन। न तु तस्याहितं भुक्तमायुषे वा सुखाय वा। सततं विषमं वापि क्षीणस्य सुचिरोत्थितम्। ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत्। मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्ठकान्। आहारकाले यूषार्थं ज्वरिताय प्रदापयेत्। लाबान् कपिञ्जलानेणान् पृषतान् शरभान् शशान्। कालपुच्छान् कुरङ्गांश्च तथैव मृगमात्रकाम्। मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत्। सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरीस्तथा। गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः। ज्वरितानां प्रकोपन्तु यदा याति समीरणः। तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः। परिषेकावगाहांश्च स्नेहान् संशोधनानि च। स्तानाभ्यङ्गदिवास्नप्नशीतव्यायामयोषितः। न भजेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत्। त्यक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः। प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः। तस्मात्कार्य्यः परीहारो ज्वरमुक्तेन जन्तुना। यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा। ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः। निषण्णं भोजयेत् तस्मान्मूत्रोच्चारौ च कारयेत्। अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु। शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः। न जातु तर्पयेत् प्राज्ञः सहसा ज्वरकर्शितम्। तेन सन्दूषितो ह्यस्य पुनरेव भवेज्ज्वरः। चिकिस्तेच्च ज्वरान् सर्वान्निमित्तानां विपर्य्ययैः। श्रमक्षयाभिघातोत्थे मूलव्याधिमुपात्तरेत्। स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः। तत्र संशमनं कुर्य्याद्यथादोषं विधानवित्”।

अत्र विशेषो गरुड पुरा० १५२ अ० उक्तो यथा। “ज्वरोरोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः। क्रोधाद्दक्षाध्वरध्वंसो रुद्रोर्द्धनयनोद्भवः। तत्सन्तापो ग्रोहमयः सन्तापात्माऽपचारजः। विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते। पाकलो गजेष्वभितापो वाजिष्वलर्कः कुक्कुरेषु। ईन्द्रमदो जलदेऽप्सु नीलिका ज्योतिरौषधिषु भूस्यामूषरो नाम। हृल्लासश्छर्दनं कासः स्तम्भः शैत्यं त्वगादिषु। अङ्गेषु शीतपिडकामात्रो दर्दः कफोद्भवे। काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा। निदानोक्तानुपशयो विपरीतोपशायिता। अरुचिश्चाविपाकश्च स्तम्भमालस्यमेव च। हृद्दाहश्च विपा- कश्च तन्द्राङ्कालस्य मेव च। वस्तिर्विसर्गविलया दोषाणामप्रवर्तनम्। लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम्। यच्च सुष्ठुगुरुत्वञ्च गात्राणां बहुमूत्रता। न विजीर्णा न वा ग्लानिर्ज्वरस्यामस्य लक्षणम्। क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्दवम्। दोषप्रवृत्तिरष्टाहो निरापज्वरलक्षणम्। यथास्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि बा। शिरोऽर्तिमूर्छावमिदेहदाहकण्ठास्य शोषारुचिपर्वभेदाः। उन्निद्रता संभ्रमरोमहर्षा जृम्भाति वाक्त्वं पवनात् स पित्तात्। तापहान्थरुचिपर्वशिरोरुक् पीनसश्वसनकासविबन्धाः। शीतजाड्यतिमिरभ्रमितन्द्राः श्लेष्मवातजनितज्वरलिङ्गम्। शीतस्तम्भ स्वेददाहव्यवस्था तृष्णाकासः श्लेष्मपित्तप्रवृत्तिः। मोहस्तन्द्रालिप्नतिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य। सर्वजो लक्षणैः सर्वैर्द्दाहोऽत्र च मुहुर्मुहुः। तद्वच्छीतं महानिद्रा दिवा जागरणं निशि। सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा। गीतनर्तनहास्यादिप्रकृतेहाप्रवर्तनम्। साश्रुणी कलुषे रक्ते मग्ने लुसितपश्गणी। अक्षिणी पिण्डिका पार्श्वमूर्द्धपर्व्वास्थिरुग्म्भ्रमः। सस्वनौ सरुजौ कर्णौ महास्वेदोऽति नैव वा। परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्निभा। रक्तपित्तकफे जिह्वा लोचने शिरसोऽतितृट्। कीटानां श्यावरक्तानां मुण्डलानाञ्च दर्शनम्। हृद्व्यथा मलसंसर्गः प्रवृत्तिरल्पशोऽति वा। स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता। दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्। सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्। वायुना कफरुद्धेन पित्तमन्तः सुपीडितम्। व्यवायित्वाच्च सौख्याच्च बहिर्मार्गं प्रपद्यते। तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे। दोषे पिवृद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः। असाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्पदोऽपि वा। अन्यश्च सन्निपातोत्थो यत्र पित्तं पृथक् स्थितम्। त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा। तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः। शीतादौ तत्र पित्तेन कफे स्थन्दितशोषिते। शीते शान्तेऽष्टके मूर्च्छा मदस्तृष्णा च जायते। दाहादौ पुनरन्ते स्थुस्तन्त्रास्वेदवमिक्रमाः। आगन्तुरभिघाताभिषङ्गशापाभिचारतः। चतुर्द्धा तु कृतच्छेदोदाहाद्यैरभिघातजः। श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूपयन्। सव्यथाशोकवैवर्ण्यं सरुजं कुरुते ज्वरम्। ग्रहावेशौषधिविषक्रोधभीशोककामजः। अभिषङ्गाद् ग्रहेणास्मिन्नकस्मात्त्रासरोदने। औषधी गन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः। विषात् मूर्च्छातिसारास्यश्यावता दाहतृड्भ्रमः। क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे। कामाद्भ्रमोऽरुचिर्द्दाहो ह्रीनिद्राधीधृतिक्षयः। ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः। कोपः कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ। सन्निपातज्वरौ धोरौ तावसह्यतमौ मतौ। तत्राभिचारिकैर्मन्त्रैर्हूषमानस्य तप्यते। पूर्वञ्चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः। सदाहमूर्च्छैर्ग्रस्तस्थ प्रत्यहं वर्द्धते ज्वरः। इति ज्वरोऽष्टधा दृष्टः समासाद्विविधस्तु सः। शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्वहिराश्रयः। प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः। पूर्वं शरीरे शारीरे तापो मनसि मानसे। पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्। दाहः पित्तयुते मिश्रं मिश्रेऽन्तःसंश्रये पुनः। ज्वरोऽधिकं विकाराः स्थुरन्तःक्षोभो मलग्रहः। वहिरेव वहिर्वेगे तापोऽपि च सुसाधितः। वर्षा शरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्। वैकृतोऽन्यः मृदुः साध्यः प्रायश्च प्राकृतोऽनिलात्। वर्सासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्। कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः। तत् प्रकृत्या निसर्गाच्च तत्र नानशनाद्भयम्। कफो वसन्ते तमपि वातपित्तं भवेदनु। बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः। सर्वथाविकृति ज्ञाने प्रागसाध्य उदाहृतः। ज्वरोक्पद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता। न प्रवृत्ति र्न विजीर्णा न क्षुत् सामज्वराकृतिः। ज्वरवेगेऽधिका तृष्णा प्रलापः श्वसनं भ्रमः। मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्। जीर्णतामविपर्य्यासात् सप्तरात्रञ्च लङ्घनात्। ज्वरः पञ्चविधः प्रोक्तोमलकालबलाबलात्। प्रायशः सन्निपातेन भूयसाऽप्युपदृश्यते। सन्ततः सततोऽन्योद्युस्तृतीयकचतुर्थकौ। धातुमूत्रशकृद्वाहिस्रोतसाव्यापिनो मलाः। तापयन्तस्तनूं सर्वां तुल्यदृष्थादिबर्द्धिताः। बलिनो गुरवस्तद्वद्विशेषेण रसान्विताः। सततं निष्प्रतिद्वन्द्वा ज्वरं कुर्य्युःसुदुःसहम्। मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत्ततः। सर्वाकाररसादीनां शुद्ध्याऽशुद्ध्यापि वा क्रमात्। वातपित्तकफैः सप्तदशद्वादशवासरान्। प्रायोऽनुयाति मर्य्यादां मोक्षय च बधाय च। इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः। द्विमुण। सप्तमी (चतुर्दशी) या च नवम्येकादशी तथा। एषा त्रिदोषमर्य्यादा मोक्षाय च बधाय च। शुद्ध्यशुद्द्यै ज्वरः कालं दीर्घमप्यत्र वर्तते। कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम्। अल्पोऽपि दोषो दुष्ट्यादेर्लब्धान्यतमतो बलम्। स प्रत्यनीको विषमं यस्माद्वृद्धिक्षयान्वितः। सोऽरिपक्षो ज्वरं कुर्य्याद्विषमक्षयवृद्धिभाग्। दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली। निवर्तते पुनश्चैव प्रत्यनीकबलाबलः। क्षीणदोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते। लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः। आसन्न विवृतास्यत्वात् स्रोतसां रसवाहिनाम्। आशु सवैस्य वपुषो व्याप्तिर्द्दोषेण जायते। सन्ततः सततस्तेन विपरीतो विपर्य्ययात्। विषमो विषमारम्भः क्षपाकालेन सङ्गवान्। दोषो रक्ताशयः प्रायः करोति सन्ततं ज्वरम्। अहोरत्रस्य सन्धिः स्यात् सकृदन्येद्युराश्रितः। तस्मिन्मासवहा नाडी मेदोनाडी तृतीयके। ग्राहीपित्तानिलान् मूर्द्ध्नस्त्रिकस्य कफपित्ततः। स पृष्ठस्यानिलकफात् स चैकाहान्तरः स्मृतः। चतुर्थको मलैर्मेदोमज्जास्थ्यन्यतरस्थिते। मज्जामूत्ररैत्यपरः प्रभावमनुदर्शयेत्। द्विविधं कफेन जङ्वाभ्यां सपूर्वं शिरसोऽनिलात्। अस्थिमज्जोरूपगते चातुर्थकविपर्य्ययः। तिधा त्र्यहं ज्वरयति दिनमेकञ्च मुञ्चति। बलाबलेन दोषाणामनुचेष्टादिजन्मनाम्। पक्वानामविपर्य्यासात् सप्तरात्रन्तु लङ्घयेत्। ज्वरः स्यात् मनसस्तद्वत् कर्मणश्च तदा तदा। गम्भीरधातुचारित्वात् सन्निपातेन सम्भवात्। तुल्यो भूयिष्ठदोषाणां दुश्चिकित्स्य श्चतुर्थकः। सूक्ष्मात् सूक्ष्मतरास्येषु दूराद्दूरतरेषु च। दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्। याति देहञ्च नाशेषं सन्तापादीन् करोत्यतः। क्रमो थत्नेन विच्छिन्नः सन्तापो लक्ष्यते ज्वरः। विषमो विषमारम्भः क्षपाकालानुसारवान्। यथोत्तरं मन्दमतिर्मन्दशक्तिर्यथायथम्। कालेनांप्नोति सदृशान् स रसादींस्तथा तथा। दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च। भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते। अङ्कुराय यथा वीजं दोषवीजं भवेत्तथा। वेगं कृत्वा विषं यद्वदाशये नीयते बलम्। कुप्यत्याप्तबलं भूयः काले दोषविषं तथा। एवं ज्वराः प्रवर्त्तन्ते विषमाः सन्ततादयः। उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम्। अरोचको वमिः श्वासः सर्व- स्मिन्रसगे जवरे। रक्तनिषोदलं तृष्णा अक्ष्णोस्तु पिडलोद्गमः। दाहरागभ्रममदप्रलावो रक्तसंश्रिते। तृङ्ग्लानिस्पष्टवर्च्चस्कमन्तर्द्दाहो भ्रमस्तथा। दौर्बल्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते। स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं चासहिष्णुता। प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेडनम्। दोषप्रवृत्तिरूर्द्धाधःश्वासाङ्गक्षेपकूजनम्। अन्तर्द्दाहो बहिःशैत्यं श्वासो हिक्का च मज्जगे। तमसो दर्शनं मर्म्मच्छेदनं स्तब्धमेढ्रता। शुक्रप्रवृत्तिर्मृत्यु व जायते शुक्रसंश्रये। उत्तरोत्तरदुःसाध्याः पञ्चान्ये ते विपर्य्यये। प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च। मन्दज्वरः प्रलापस्तु स शीतः स्यात् प्रलेपकः। नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण गच्छति। स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः। हरिद्राभेदवर्णाभस्तद्वल्लेपः प्रमेहति। स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः। कफवातौ समौ यत्र हीनपित्तस्य देहिनः। तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो ज्वरः। दिवकरापितवले व्यायापामाच्च विशोषिते। शरीरे नियतस्थाता ज्वरः स्यात् पौर्वरात्रिकः। आमाश्ये यदा दुष्टे श्लेष्मपित्ते ह्यधःस्तिते। तदार्द्धं शीतलं देहे त्वर्द्धं चोष्णं प्रजायते। काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः। उष्णत्वं तेन देहस्य शीतत्वं करपादयोः। रसरक्ताश्रयः साध्यो मांसमेदोगतश्च यः। अस्थिमज्जागतः कृच्छ्रस्तैस्तैः साङ्गैर्हतप्रभः। विसंज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्ष्यते। सदोष्णशब्दञ्च शकृदुद्रवं मुञ्चति वेगवत्। देहो लघुर्व्यपगतक्लभमीहतापः पाको मुखे करणसौष्ठबमव्यथत्वम्। स्वेदः क्षपः प्रकृतिगामिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि”।

माधवकरनिदाने वातिकादीनां लक्षणभेद उक्तस्तत्र वातिकस्य लक्षणं यथा “वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्। निद्रानाशः क्षवःस्तम्भो गात्राणां रौक्ष्यमेब च। शिरोह्वद्गात्ररुग्वक्लवैरस्यं गाढविट्कता। शूलाध्माने जृम्भणञ्च भवत्यनिलजे ज्वरे। पैत्तिकस्य लक्षणं यथा “वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः। कण्ठौष्ठ सुखनासाना पाकः स्वेदस जायते। प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा। पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च”। कफनिमित्तजस्य माधवकरनिदानोक्तं लक्षणं यथा “स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता। शुक्लमूत्रपुरीषत्वं स्तम्भस्तप्तिरथापि च। गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता। प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता”। वातपैत्तिकस्य लक्षणं यथा “तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा। कण्ठास्यशोषो वमथूरोमहर्षोऽरुचिस्तमः। पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः। वातश्लैष्मिकस्य लक्षणं यथा “स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च। शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम्। सन्तापो मध्यवेगश्च वातश्ले ष्मज्वराकृतिः”। पित्तश्लैष्मिकस्य लक्षणंयथा “लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा। मुहुर्दाहो मुहुःशीतं पित्तश्लेष्मज्वराकृतिः”। सान्निपातिकस्य लक्षणं यथा “क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा। सास्रावे कलुषे रक्ते निमग्ने चापि लोचने। स्वखनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः। तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः। परिदग्धा खरस्पर्शा जिह्वा त्रस्ताङ्गता परम्। ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च। शिरसो लोटनं तृष्णा निद्रानाशो हृदि व्यथा। खेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः। कृशत्वं नातिगात्राणां सततं कण्ठकूजनम्। कीटानां श्यावरक्तानां मण्डलानाञ्च दर्शनम्। मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च। चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः”। असाध्यस्य सान्निपातिकस्य तस्य लक्षणं यथा “दोषे विरुद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः। सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा। सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा। पुनर्घोरतरोभूत्वा प्रशमं याति हन्ति वा। सप्तमी द्विगुणा (चतुर्द्दशी) चैव नवम्येकादशी तथा। एषा त्र्दोषमर्य्यादा मोक्षाय च बधाय च। सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः।

शोथः संजायते तेन कश्चिदेव प्रमुच्यते”। जीर्णस्य लक्षणं यथा “त्रिसप्ताहव्यतीतस्तु ज्वरोयस्तनुतां गतः। प्लीहाग्निसादं कुरुते स जीर्ण इति उच्यते”। आमन्तोर्लक्षणं यथा “अभिघाताभिचाराभ्यामभिषङ्गा भशापतः। आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत्”। विषभक्षणजागन्तुकस्य तस्य लक्षणं यथा “श्यवास्यता विषकृते तथातीसार एव च। भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया”। ओषधीगन्धजस्य कामजस्य च तस्य लक्षणं यथा। “औषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा। कामजे चित्त विभ्रं शस्तन्द्रालस्यमभोजनम्”। भवादिजस्य लक्षणं यथा “भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः। अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते। भूताभिषङ्गादुद्वेगो हास्यरोदन कम्पनम्। कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयोमलाः। भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः”। विषमज्वरस्य संप्राप्तिर्यथा “दोषोऽल्पिऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः। धातुमन्यतमं प्राप्य करोति विषमज्वरम्”। सन्ततादिज्वराणां प्रतिनियतं धातवोदूष्यास्तथा हि “सन्तती रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः। मेदोगत स्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः। कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम्। सप्ताहं वा दशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते। अहोरात्रे सन्ततको द्वौ कालावनुवर्त्तते। अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्त्तते। तृतीयक स्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः। केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम्। कफपित्तात् एकग्राही पृष्ठाद्वात कफात्मकः। वातपित्ताच्छिरोग्राही त्रिविधः स्यात् तृतीयकः। चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः। जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः। विषमज्वर एवान्यश्चातुर्थकविपर्य्ययः। मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति”। वातबलासकलक्षणं “नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति। स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी”। प्रलेपकलक्षणं यथा “प्रलिम्पन्निव गात्राणि धर्मेण गौरवेण वा। मन्दज्वरो विलेपी च सशीतः स्यात् प्रलेपकः”। विषमज्वरविशेषाः। “विदग्धेऽन्नरसे देहे श्लेद्मपित्ते व्यवस्थिते। तेनार्द्धं शीतलं देहे चार्द्धञ्चोष्णं प्रजायते। काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः। तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः” अत्र मतान्तरम्। “काये श्लेष्मा यदा दुष्टः पित्तञ्चान्ते व्यवस्थितम्। शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः”। शीतपूर्वोज्वरो यथा। “त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे। तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च”। दाहपूर्वो ज्वरो यथा। “करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च। तस्मिन् प्रशान्ते हीतरौ कुरुतः शीतमन्ततः। द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ। दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः”। वातादिज्वराणां धातुविशेषदुष्यतया रसादिगतदोषज ज्वराणां लक्षणानि “गुरुता हृदयोत्क्लेशः सदनं छर्द्यऽरोचकौ। रसस्थे न्यज्ज्वरे लिङ्गं दैन्यञ्चास्योपजायते” १। रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ। प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् २। पिण्डकोद्वेष्टनं तृष्णा दुष्टमूत्रपुरीषता। ऊष्मान्तर्दाहविक्षेपौ ग्लानिःस्यान्मांसगे ज्वरे ३। भृशं स्वेद स्तृषा मूर्च्छा प्रलापश्छर्दिरेव च। दौर्गन्ध्यारोच कौ ग्लानिर्मेदःस्थे चासहिष्णुता ४। भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्दिरेव च। विक्षेपणञ्च गात्राणा मेतदस्थिगते ज्वरे ५। तमः प्रवेशनं हिक्का कासः शैत्यं वमिस्तथा। अन्तर्द्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ६। मरणं प्राप्नुयात् तत्र शुक्रस्थानगते ज्वरे ७। शेफसः स्तब्धतामोक्षा शुक्रस्थे तु विशेषतः”। ऋतुभेदे प्राकृतादिज्वरविशेषो यथा

“वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्। वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः। वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्। कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः। तत् प्रकृत्या विदध्याच्च तत्र नानशनाद्भयम्। कफो वसन्ते तमपि वातपित्तं भवेदनु। काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा। अन्तर्वेगज्वरलक्षणम्। “अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। सन्ध्यस्थिशूलमस्वेदो दोषवृद्धौ विनिग्रहः। अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्”। बहिर्वेगज्वरलक्षणम् “सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनाञ्च मार्दवम्। बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च”। आमज्वरलक्षणम् “लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः। तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता। क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः। आमज्वरस्य लिङ्गानि न दद्यात् तत्र भेषजम्। भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्। पच्यमानज्वरस्य लक्षणं यथा “ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्”। पक्वज्वरस्य लक्षणम्

“क्षुत्क्षामता लघुत्वञ्चगात्राणां ज्वरमार्दवम्। दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्”। साध्यज्वरस्य लक्षणं यथा “बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः”। असाध्यज्वरलक्षणं यथा। “हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः। ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः। ज्वरक्षीणस्य शूनस्य गम्भीरो दैर्ध्यरात्रिकः। असाध्यो वलवान् यश्च केशसीमन्तकृज्ज्वरः”। गम्भीरस्य लक्षणं यथा “गम्भीरस्तु ज्वरो ज्ञेयोह्यन्तर्दाहो न तृष्णया। आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेव च। आरम्भाद्विषमो यस्तु यश्च वा दैर्घ्यरात्रिकः। क्षीणस्य चातिरूक्षस्य गम्भीरोयस्य हन्ति तम्। विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा। शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः। यो हृष्टरोमा रक्ताक्षो हृदिसंधातशूलवान्। वक्त्रेण चैवोच्छसिति तं ज्वरो हन्ति मानवम्। हिक्काश्वासतृषायुक्तं मूढविम्रान्तलोचनम्। सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः। हतप्रभेन्द्रियक्षाममरोचकनिपीडितम्। गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत्”। ज्वरस्योपद्रवा रक्षितोक्ताः यथा “श्वासोमूर्च्छाऽरुचिश्छर्दिस्तृष्णातीसारविड्ग्रहाः। हिक्काकासोऽङ्गमेदश्च ज्वरस्योपद्रवा दश”। ज्वरमुक्तिपूर्वरूपम्। “दाहः स्वेदो भ्रमस्तष्णा कम्पविडभिसंज्ञिता। कूजनञ्चास्यवैगन्ध्यमाकृतिर्ज्वरमोक्षणे”। “ज्वरमुक्तलक्षणं “स्वेदो लघुत्वं शिरसः कण्डूपाकोमुखस्य च। क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम्”। सुश्रुतगारुडाद्युक्ताद् विशेषज्ञापनाय पृथगुपन्यासः। ज्वरितस्य वर्ज्याबर्ज्यानि भावप्र० उक्तानि यथा “सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत्। निर्वातमायुषो वृद्धिमारोग्यं कुरुते यतः। व्यजनस्यानिल स्तृष्णास्वेदमूर्च्छाश्रमापहः। तालवेत्रभबो वातस्त्रिदोषशमनो मतः। वंशव्यजनजः सोष्णो रक्तपित्त प्रकोपनः। चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा। एते दोषजिता वाताः स्तिग्धा हृद्याः सुपूजिताः। नषज्वरी भवेद्यत्नाद्गुरूष्णवसनावृतः। यथर्तुपक्वपानीयं पिवेत् किञ्चिन्निवारयन्। विनापि भेषजैर्व्याधिः पथ्यादेव निवर्तते। न तु पथ्यविहीनस्य भेषजानां शतैरपि। ततो ज्वरे वर्जनीयान्याह सुश्रुतः “परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च। दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम्। क्रोधप्रवातभोज्यांश्च वर्जयेत्तरुणज्वरी”। परिषेकः स्तानादिः, प्रदेहोऽनुलेपनाभ्यङ्गादिः। परिषेकादिसेवने दोषमाह तत्रैव

“शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम्। प्राप्तोत्युपद्रवानेतान् परिषेकादिसेवनात्”। आदिशब्देन प्रदेहादयो गृह्यन्ते। हारीतेन प्रत्येकं सेवने कलसुक्तञ्च “व्यायामज्ज्वरसंवृद्धिर्त्यवायात स्तम्भमूर्च्छनम्। मृतिश्च स्नेहपानाद्यैर्मूर्च्छा छर्दिर्मदोऽरुचिः। गुर्वन्नभोजनात् स्वप्नाद्विष्टम्भो दोषकोपनम्। अग्निसादः खरत्वञ्च स्रोतसां च प्रवर्तनम्”। मृतिरिति व्यवायादित्यत्र संवध्यते। स्वप्नात् दिवास्वापात्, ज्वरमुक्तावपि वर्ज्यमाह। “सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च। असात्म्यान्नानि पानानि विरुद्धाध्यशनानि च। व्यायाममतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत्। तेन ज्वरः शमं याति शान्तश्च न पुनर्भवेत्”। ज्वरी लङ्घनं कुर्य्यादित्याह चरको वाग्भटश्च “आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधापयन्। विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्”। तथा “ज्वराद्रौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्। ज्वरान्ते भोषजं दद्याज्ज्वरमुक्ते विरेचनम्। त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्। दोषेऽपि लङ्घनं पथ्य मध्ये लङ्घनपाचनम्। प्रभूते शोभनं तच्च मूलादुन्मूलयेन्मलान्”। चक्रदत्तश्च “तरुणं तु ज्वर पूर्वं लङ्घनेन क्षयं नयेत्। आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि,। अन्यच्च “वातः पचति सप्तहात् पित्तं तु दशमिर्दिनैः। श्लेष्माद्वादशभिर्धस्रैः पच्यते वदतां वर!। “लङ्घनं लङ्घनीयस्तु कुर्य्याद्दोषानुरूपतः। त्रिरात्रमेकरात्रं वाऽहोरात्रमथ वा ज्वरे। निर्वातसेवनात् स्वेदाल्लङ्घनादुष्णवारिणः। पानादामज्वरे क्षीणे पश्चादौषधमाचरेत्”। आत्रेयेणोक्तम् “ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्। ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम्। दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च। लङ्घितश्चाप्यदोषश्चेत् यवागूपानमाचरेत्। शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत्। पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने। अत्यर्थं लङ्घितं दृष्ट्वा तस्य सन्तर्पणे हितम्। द्राक्षादाडिम खर्जूरपियालैः सपरूषकैः। तर्पणार्हस्य कर्तव्यन्तर्पणं ज्वरशान्तये”। अत्र लङ्घनशब्देनानशनमुच्यते। यत आह सुश्रुतः “अनद्धःस्तिमितैर्दोषैर्यावन्तं कालमातुरः। तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत्”। आनद्धःस्तिमितैर्दोषैः सम्बन्द्धः। संसर्गं औषधान्नादिप्रसङ्गम्। यत्र आह चरकः “चतुःप्रकारा संशुद्धिः पिपासारोधप्तारुतो। पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्। चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्। निरूहणं च वस्तिश्च शिरोविरेचनं तथा। तत्वनुवासनं कार्य्यं तस्य वृंहणत्वात्। अत्र लङ्घनं कर्शनमित्यर्थः। तथा च सुश्रुतः “शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः। तं लङ्घनमिति ज्ञेयं वृंहणं तु पृथग्विधम्”। लङ्घनात्कर्शनादन्यत् शरीरपोषकमित्यर्थः। ननु “आनद्धः स्तिमितैर्दोषैरित्यादि पूर्वोक्तमुश्रुतवचनात्सामान्यतो ज्वरिणा यथाऽनशगरूपं लङ्घनं क्रियते। तथा चतुःप्रकारा संशुद्धिः इत्यादि चरकवचनाद्वमनादिरूपं लङ्घनं सर्वैर्ज्वरिभिः कथं न क्रियते। तत्रोच्यते वमनादिकमंवस्थाविशषषु क्रियते नतु सर्वज्वरेषु तथा च सुश्रुतः “सोत्क्लेशे बलेने देयं वमनं श्लैष्मिकज्वरे। पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये। सरुजे नीरुजे कार्य्यं सोदावर्त्ते निरूहणम्कफाभिपन्ने शिरसि कार्य्यं मूर्द्धविरेचनम्”। अपिच सर्वज्वरिभिः पिपासानिग्रहो न कार्य्यः। यत आह हारीतः। “तृष्णा गरीयसी धोरा सद्यः प्राणविनाशिनी। तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम्”। अतोऽवस्थाविशेष एव पिपासासहनं ज्वरिभिर्मारुतसेवनं न कार्य्यम् सुश्रुतेन प्रवातसेवनस्य सर्वथा निषिद्धत्वात्। अतो मारुतसेवनमप्यवस्थाविशेष एव युक्तम्। लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते। तदा तु मुखवैरस्यतृष्णारोचकनाशनैः। ज्वरघ्नैः पाचनैर्हृद्यैः कषायैः समुपाचरेत्” इत्यत्र लङ्घनपाचनयोः स्फुट एव भेदः। व्यायामोऽपि न कार्य्यस्तस्यातिनिषिद्धत्वात् अवस्थाविशेषे पुनः पार्श्वपरिवर्तनादिरूपः सोऽपि कर्त्तव्यः तस्माच्चतुःप्रकारा संशुद्धिरित्यादिश्लोके लङ्घनपदं कर्शनपर्य्यायमिति निर्णीतम्। अनशनरूपस्य लङ्घनस्य फलमाह “लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले। विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते”। लङ्घनेन अनशनेन प्रवृद्धे दोषे क्षयन्नीते। यत आह “आहारं पचति शिखी दोषानाहारवर्जितः”। पचतीति सन्धुक्षितेऽनले आच्छादकदोषे क्षीणेऽग्नौ प्रदीप्ते यथोक्तसंप्राप्तिसामग्रीविघटनात् विज्वरत्वं शरीरस्य गौरवाभावेन लघुत्वम्। क्षुत् बुभुक्षा च जायते इत्यर्थः। अन्यच्चाह सुश्रुतः “अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्। ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारणम्”। अनवस्थितदोषाग्नेः स्वस्थानादितो गतोदोषोऽग्निश्च यस्य तस्य ज्वरिणः काङ्क्षा अन्नाभिलाषः, रुचिः लङ्घनेनामपाकान्मु खशोषादिनाशे मुखस्य यत्प्रकृतत्वं सैव रुचिः शोभा। “रुचिः स्त्री दीप्तिशोभायामभीष्टार्थाभिलाषयोरिति” मेदिनीकारः” सम्यक्वृतस्य लङ्घनस्य लक्षणमाह “वातमूत्रपूरीषाणां विसर्गे गात्रलाघवे। हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते। स्वेदे जातेऽ रुचौ चापि क्षुत्पिपासासहोदये। कृतं लङ्घनमाद्देश्यं निर्व्यथे चान्तरात्मनि”। हृदयस्य शुद्धिरनवरोधः उद्गारशुद्धिः सधूमाम्लोद्गाराभावः। कण्ठस्य शुद्धिः कफानवलिप्तत्वम्। आस्यशुद्धिः मुखस्य प्रकृतरसत्वम्। तन्द्राक्लमे तन्द्रा च क्लमश्च तस्मिं स्तन्द्रा निद्रा क्लमोऽत्र ग्लानिः। क्षुत्पिपासासहोदये क्षुत्पिपासयोः सह युगपदुदये, अन्तरात्मनि मनसि। एतानि लक्षनानि मिलितन्येव सम्यक्कृतं लङ्घनं बोधयन्ति नतु प्रत्येकम्। हीनस्य लङ्घनस्य लक्षणमाह “कफोत्क्लेशः सहृल्लासष्ठीवनं च मुहुर्मुहुः। कण्ठस्य हृदयाशुद्धिस्तन्द्रा स्याद्धीन लङ्घने”। उपस्थितवमनत्वमिव कफोत्क्लेशः कफस्य वमनायोपस्थितिः। हृल्लासष्टीवनं हृदयात्कफनिर्गमः। अतिशयितस्य लङ्घनस्य लक्षणमाह “पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च। क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः। मनसः संभ्रमोऽभीक्ष्णमूर्द्धवातस्तमो हृदि। देहाग्निर्बलहानिश्च लङ्घनेऽतिकृते भवेत्। अरतिर्बलहानिश्च लङ्घनेऽतिकृते भवेत्”। कर्णनेत्रयोः दौर्बल्यं स्वविषयग्रहणासामर्थ्यम्। मनसः संभ्रमः भ्रान्तिः। ऊर्द्धवातः उद्गारबाहुल्यम्। हृदि तमः अन्धकारप्रविष्टस्येवाज्ञानम्। वलरक्षणेन लङ्घनं कारयेदित्याह “वलाविरोधिना चैनं लङ्घनेनोपादयेत्। बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः” अयमर्थः। एनं रोगिणं वलाविरोधिना अनतिबलक्षयकारिणा लङ्घनेन उपपादयेत् कुत इति चेत्तत्राह। यदर्थमस्मै आरोग्याय अयं क्रियाक्रमः चिकित्सोपक्रमः। तत आरोग्यं बलाधिष्ठानं बलाश्रयमित्यर्थः। केषाञ्चिदनशनस्य निषेधमाह सुश्रुतः” “तद्धि मारुततृष्णाक्षुत्सुखशोषभ्रमान्वितैः। न कार्य्यं गुर्विणीबालवृद्ध दुर्बलभीरुभिः। न क्षयाध्वश्रमक्रोधकामशोषचिरज्वरी”। तत् अनशनम् उल्वणमारुतयुक्तेन ज्वरिणा न कार्य्यं सारुतोऽत्र निरामोबोद्धव्यः। सामे मारुते लङ्घनं कार्य्य मेव यत आह तन्त्रान्तरे “अवश्यमेब कुर्वीत ज्वरी सामे समीरणे। लङ्घनं ह्यामपाकार्थं न तदूर्द्ध्वं यथा कफे”। तदूर्द्ध्वं आमपाकादूर्द्ध्वम्। अतएवोक्तम् “कफपित्ते द्रवौ धातू सहेते लङ्घनं बहु। आमक्षयादूर्द्ध्वमपि वायुर्न सहते क्षणम्”। आमस्य लक्षणमाह “आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात्। आमसंज्ञाज्ञ लभते बहुव्याधिसमाश्रयः”। तन्त्रान्तरे तु “आममन्नरसं केचित् केचित्तु मलसञ्चयम्। प्रथमं दोषदुष्टिं वा केचिदामं प्रचक्षते। अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम्। सादनं सर्वगात्राणामाममत्यामशब्दितः। तेनामेन समायुक्ताः दोषा दुष्याश्च तादृशाः। तदुद्भवा आमयाश्च साम इति बुधैः स्मृताः”। तत्र सामस्य वातस्य लक्षणमाह, “वायुः सामो विबद्धान्तिः सादतन्द्रान्त्रकूजनैः। वेदनाशोथ निस्तोदैः क्रमशोऽङ्गानि पीडयेत्। विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम्। स्नेहाद्यैर्वृद्धिमायाति मेघः सूर्य्योदये निशि”। विचरेदु युगपत् वायुरामश्चैककालं विचरेत् कुपितः सामो वायुः भृशमतिशयेन गृह्णात्यङ्गानीत्यर्थः। वातस्य तस्यैव निरामस्य लक्षणमाह “निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः। विपरीतगुणैः शान्तिः स्तिग्धैर्जातिविशेषतः”।

अथ प्रसङ्गात्सामस्य पित्तस्य लक्षणमाह “पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु। अम्लिकाकण्ठहृद्दाहकरं श्यावं तथा स्थिरम्”। अम्लिका अम्बिलता (चुकीति) लोक। पित्तस्य तस्य निरामस्य लक्षणमाह। “निरामं पित्तमाताम्रमत्युष्णं कटुकं सरम्। दुर्गन्धि रुचिकृद्वह्निबजवर्द्धनमीरितम्”।

अथ सामकफस्य लक्षणमाह “आलस्यतन्द्राहृदयाविशुद्धिर्दोषाप्रवृत्त्या विड्मूत्रतामिः। गुरूदरत्वास्नचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति। आमञ्जयेल्लङ्घनकोष्णपेयालध्वन्नसूपौदनतिक्तयूषैः। विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्द्ध्वमधस्तथैव। तद्धि मारुनतृष्णायां लङ्घनं कार्य्यमेव च”। तथा मुखशोषभ्रमावपिनिरामयोरेव विवक्षितौ सामयोस्तु तयोर्ल्लङ्घनं कार्य्यमेव, गुर्विणीबालवृद्धादिभिरपि निरामैरेव नैव लङ्घनं कार्य सामैः पुनस्तैरपि लङ्घनं कार्य्यमेव। “क्षये धातुक्षये राजयक्ष्मणि च वातजे ज्वरे लङ्घनं न कार्य्यम्। ज्वरी लङ्घनेऽपि जलं पिबेदित्याह सुश्रुतः। “तृषितो मोहमायाति मोहात् प्राणान्विमुञ्चति। अतः सर्वास्ववस्थासु न क्वचिद्वारि वर्जयेत्”। हारीतेनोक्तम् “तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी। तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम्”। अवश्यं पेयमपि जलं ज्वरी किञ्चिद्वारयन् पिवेत्। यत आह सुश्रुत एव। “जीविनां जीवनं जीवो जगत्सर्वं तु तन्मयम्। अतोऽत्यन्तनिषेधेन न क्वचिद्वारि वारयेत्”। जीवनं जलं क्वचिन्न वारयेदेव तथा च, “ज्वरे नेत्रामये कुष्ठे मन्देऽग्नावुदरे तथा। अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये। व्रणे च मधुमेहे च षानीयं मन्दमाचरेत्”। मुखप्रसेके अल्पं पिवेत् मन्दमाचरेत् पिबेत्। यत आह “अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम्। प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः”। तच्च जलं नवज्वरी शीतलं न पिबेदित्याह सुश्रुतः “नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे। सद्यःशुद्धौ तथाऽऽध्माने व्याधौ वातकफोद्भवे। अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ। हिक्कायां स्नेहपाने च शीतं वारि विवर्जयेत्”। अन्यच्च वर्ज्यमाह स एव “सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते”। अत्र शीतं जलं अक्वथितं निषिद्ध्वम्। तथा सति क्वथितमायातम्। तत्र क्वथितस्य विधिर्गुणश्च “क्वाय्यमानं तु निर्वेगं निष्फेनं निर्मलं च यत्। तत्तोयं क्वथितं ज्ञेयं दोषघ्नं पाचनं लघु”। शनैः क्वथितस्य विधानमाह सुश्रुतः “वातश्लेष्मज्वरार्त्ताय हितमुष्णाम्बु तृष्यते। दीपनं स्यात्तु कफजे वातपि- त्तानुलोमनम्। तद्धि मार्दवकृद्दोषस्रोतसां शीतमन्यथा”। वाग्भटश्च “तृष्णायां प्राप्तमुष्नाम्बु पिबेद्वातकफज्वरे। तत्कफं विलयं नीत्वा तृष्णामाशु निवर्त्तयेत्। उदीर्य्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्। वातपित्तकफस्वेदशकृण्मूत्राणि सारयेत्। अथोष्णोदकस्य लक्षणं गुणाश्च “क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्मलं तथा। अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते। ज्वरकासकफश्वासपित्तवाताममेदसाम्। नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा”। अथर्त्तुभेदे जलस्य पाकभेदः। “त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते”। “अन्ये तु निदाधे त्वर्द्ध्वपादोनं पादहीनन्तु शारदम्। हिमेऽर्द्धशेषं शिशिरी तथा वर्षावसन्तयोः। शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम्। अष्टमांशावशेषन्तु वारि वर्षासु शस्यते।” ज्वरविषये कश्चिदस्यावर्ज्यादिगेदः चक्रदत्त उक्तो यथा

“ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लधु। श्लेष्मक्षये विवृद्धोष्मा बलवाननलस्तदा। गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन। न हि तस्याहितं भुक्तसायुषे वा सुखाय वा। लङ्घनं स्वेअनं काये यवाग्वस्तिक्तको रसः। पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे। आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः। मध्यं द्वादशरात्रन्तु पुराणमत उत्तरम्। पाचनीयं शमनीयं कषायं पाययेत् तु तम्। ज्वरितं षडहेऽतीते लध्वन्नं प्रतिभोजयेत्। सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं ज्वरे। निरामे शमनं लब्धे सामे नौषधमाचरेत्। लालाप्रसेको हल्लासहृदयाशुद्ध्यरोचकाः। तन्त्रालस्याविपाकास्यवैरस्यं गुरुगात्रता। क्षुन्नाशो बहुमूत्रं च स्तब्धता बलवान् ज्वरः। आमज्वरस्य लिङ्गानि न दद्यात् तत्र भेपजम्। भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्। मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च। पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्”। तेन ज्वरो नानाविधः ऐकाहिकादिः नवज्वरः जीर्णज्वरः विषमज्वरादिश्च उक्तवाक्येभ्योज्ञेयः। नक्षत्रभेदे ज्वरोत्पत्तौ मृत्युतद्भोगकालभेदाः महुर्त्तचि० पी० धा० उक्ता यथा

“स्वातीन्द्रपूर्वाशिवसर्पभे मृतिर्ज्वरेऽक्न्त्यमैत्रे स्थिरता मवेद्रुजः। याम्यश्रवोवारुणतक्षभे शिवाघस्रा हि पक्षो द्व्यधिपार्कवासवे। मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्या- र्यमेज्यादितिधातृभे नगाः” मासोऽब्जवैश्वेऽथ यमाहि मूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः। मु० चि०

“स्वातीति। इन्द्रो ज्येष्ठा पूर्वास्तिस्रः शिव आर्द्रा सार्पभम् अश्लेषा। एषु भेषु ज्वरे पुंसः स्त्रियो वा ज्वरोत्पत्तौ मृतिरेव स्यात् उक्तञ्च वसिष्ठेन” “पूर्वात्रयस्वातिभुजङ्गरौद्रसुरेश्वरर्क्षेषु च यस्य रोगः। स्याद्रक्षितुं देवचिकित्सकोऽपि क्षिताबशक्तः स्वलु रोगिणं तम्” देवचिकित्सको देववैद्यो धन्वन्तरिः। अथान्त्यमैत्रे रेवत्यनुराधयोर्ज्वरोत्पत्तौ रुजो रोगस्य स्थिरता भवेत् बहुकालेन रोगनिवृत्तिः स्यादित्यर्थः। तथा भरण्यादिनक्षत्रचतुष्के शेवा एकादश घस्रादिवसाः रोगस्थैर्यं स्यात्तदनन्तरं रोगमुक्तिरिति सर्वत्र व्याख्येवम्। द्व्यधिपं विशाखा अर्को हस्तः वासबं धनिष्ठा एषु त्रिषु भेषु पक्षः पञ्चदश दिवसा रोगस्थैर्यस्य। मूलाग्निदास्रे मूलकृत्तिकाश्विनीषु त्रिषु नव दिवसाः पित्र्यभे मघायां नखा विंशतिर्दिवसाः नामैकदेशै नामग्रहणमिति न्यायेन बुध्न्योऽहिर्बुध्न्य उत्तराभाद्रपदा अर्यमोत्तराफाल्गुनी। ईज्यादितिधातृमानि प्रसिद्धानि एषु पञ्चसु भेषु नगाः सप्त दिवसाः। अब्जवैश्वे मृगोत्तराषाढयोर्द्वयोर्मासस्त्रिंशद्दिनानि रोगस्थैर्यं ततो रोगनिवृत्तिः यदाह “कृच्छ्रात् स्फुटं प्राणिति मित्रपौष्णे धिष्ण्ये चमासाच्छशिविश्वधिष्ण्ये। रोगस्य मुक्तिः पितृदेवधिष्ण्ये वारैर्भवेद्विं शतिभिश्च नूनम्” प्राणिति जीवतीत्यर्थः। “पक्षाद्वसुद्वीशकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात्। तोयेश चित्रान्तकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च। पुष्ये त्वहिर्बुध्न्य पुनर्वसौ च ब्रध्न्यार्यपक्षेषु च सप्तरात्रात्।

अत्र शीघ्रं रोगविमिक्तये संक्षिप्ता शान्तिरप्यभिहिता वसिष्ठे न “ऋक्षिशरूपं कनकेन कृत्वा तल्लिङ्गमन्ध्वैश्च सुगन्धिपुष्पैः। वस्त्राक्षतैर्गुग्गुलुधुपदीपनैवेद्यताम्बूलफलैश्च सम्यक्। पूजां च कृत्वामयनाशनाय द्विजाय दद्यादतुलं शिवाय” आमयो रोगः। अतुलममरिमितद्रव्यम् प्रत्येकनक्षत्रशान्तिर्विशदा नक्षत्रशान्त्यध्याये वसिष्ठेनोक्ता सा तत एव सम्यबधार्य्या”। भैषज्यर० अन्यथा तद्भोगकाल उक्तो यथा “कृत्तिकायां यदा व्याधिरुत्पन्नो भवति स्वयम्। नवरात्रं भवेत् पीडा त्रिरात्रं रोहिणीषु च। मृगशीर्षे पञ्चरात्रमार्द्रायां मुच्यतेऽसुभिः। पुनर्वसौ तथा पुष्यै सप्तरात्रेण मोचनम्। नवरात्रं तथाऽश्लेषे श्मशानान्तं मघासु च। द्वौ मासौ पूर्वफल्गुन्यामुत्तरासु त्रिपञ्चकम्। हस्ते च सप्तमे मोक्षश्चित्रायामर्द्धमासकम्। मासद्वयं तथा स्वात्यां विशाखे दिनविशतिः। मित्रे चैव दशाहानि ज्येष्ठायामर्द्धमासकम्। मूलेन जायते मोक्षः पूर्वाषाढे त्रिपञ्चकम्। उत्तरे दिनविंशत्या द्वौ मासौ श्रवणे तथा। धनिष्ठायामर्द्धमासो वारुणे च दशाहकम्। पूर्वभाद्रपदे देवि! ऊनविंशतिवासरान्। त्रिपक्षञ्चाहिव्रध्न्ये च रेवत्यां दशरात्रकम्। अहोरात्रं तथाश्विन्यां भरण्यान्तु गतायुषः। एवं क्रमेण जानीयान्नक्षत्रेषु यथोचितम्”। रोगिणस्ताराशुद्ध्यिशुद्धिभ्यां भोगकालभेदव्यवस्था।

तिथिनक्षत्रवारयोगभेदे ज्वरोत्पत्तौ मु० चि० मृत्युरुक्तो यथा।

“रौद्राहिशाक्राम्बुपयाम्यपूर्वाद्विदैववस्वग्निषु पापवारे। रिक्ताहरिस्कन्ददिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः” मु० चि०।

“रौद्रादीनि भानि प्रसिद्धानि पापवाराः सूर्यभौमशनयः रिक्ताः प्रसिद्धाः हरिर्द्वादशी सकन्ददिनं षष्ठी एतास्तिथयः एवंविधे विशिष्टयोगे यस्य रोगोत्पत्तिर्भवेत्तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत्। उक्तं च दैबज्ञ मनोहरे “उरगवरुणरुद्रावासवेन्द्रत्रिपूर्वायमदहनविशाखाः पापवारेण युक्ताः। तिथिषु नवमिषष्ठीद्वादशी वा चतुर्थी सहजमरणयोगो रोगिणां कालहेतुः” इति चतुर्थीग्रहणं चतुर्दश्युपलक्षकं मत्वा मूले रिक्ताग्रहणं कृतम् अतएवाह वसिष्ठः “अश्लेषार्द्रात्रिपूर्वायमवरुणमरुच्छक्रतारानलाः स्थुर्द्वादश्यां स्कन्दरिक्तातिथिषु च रविजार्कारवारेषु येषाम्। रोगः संजायते ते यमुपुरमचिरात् प्राप्नुवन्त्येव चन्द्रे जन्मन्यष्टाख्यबन्धुव्ययभवनगते मृत्युलग्ने च राशाविति” पी० धा०! अस्य प्रतिप्रसवः “यद्यत्र चन्द्रस्तस्यैव गोचरे चाशुभप्रदः। तदा नूनं भवेन्मृत्युः सुधासंसिक्तदेहिन”। इति दीपिकाटीकाधृतवाक्यम् २ ज्वराधिष्ठातृदेवभेदे च रौद्रज्वरदेवस्य वैष्णवज्वरदेवेन युद्धादिकथा हरिवं० १८१ अ० “भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात्। ज्वरस्त्रिपादस्तिशिराः षड्भुजो नवलोचनः। भस्मप्रहरणो रौद्रः कालान्तकयमोपमः। नदन्मेघसहस्रस्य तुल्यो निर्वातनिस्वनः। निश्वसन् जृम्भमाणश्च निद्रान्विततनुर्भृ- शम्। नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन् भ्रमन्मुहुः। संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन्। हलायुधमभिक्रुद्धः साक्षेपमिदमब्रवीत्”। तेन बलरामस्याभिभवे ततस्तस्य कृष्णेन सह युद्धे पराजयकथा १८२ अ०

“मृत इत्यभिविज्ञाय ज्वरं शत्रुनिसूदनः। कृष्णो भुजबलात्तन्तुचिक्षेपाथ महीतले। मुक्तमात्रस्तु बाहुभ्यां कृष्णदेहं विवेश सः। अमुक्त्व विग्रहन्तस्य कृष्णस्याप्रतिमौजसः। स ह्याविष्टस्तदा तेन ज्वरेणाप्रतिमौजसा। कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्त्तत। जृम्भते श्वसते चैव स्खलते च पुनः पुनः। रोमाञ्चोत्थितगात्रस्तु निद्रया चाभिभूयते। ततः स्थैर्य्यं समालम्ब्य कृष्णः परपुरञ्जयः। विकुर्वाणो महायोगी जृम्भमाणः पुनः पुनः। ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः। सोऽसृजज्ज्वरमयं तु पूर्वज्वरविनाशनम्। धोरं वैष्णवमत्युग्रं सर्वप्राणिभयङ्करम्। स सृष्टमात्रस्ते जस्वी बलवान् भीमविक्रमः। कृष्णज्वरो ज्वरं पूर्वं गृहीत्वा स्वेन तेजसा। कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः। ततस्तं परमक्रुद्धो वासुदेवो महाबलः। स्वगात्रात् स्वज्वरेणैव निरक्रामयत् वीर्य्यवान्। आविध्य भूतले चैनं शतधा कर्त्तुमुद्यतः। व्याधोषयज्ज्वरस्तत्र भोः परित्रातुमर्हसि। आविध्यमाने तस्मिंस्तु कृष्णेणामिततेजसा। अशरीरा ततो वाणी तमुवचान्तरीक्षगा। कृष्ण! कृष्ण! महाबाहो! यदूनां नन्दिवर्द्धन!। मा बधीर्ज्वरमेतं तुरक्षणीयस्त्वयाऽनथ!। इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम्। भूतभव्यभविष्यस्य जगतः परमो गुरुः। कृष्णस्य पादयोर्मूर्ध्ना शरणं स गतो ज्वरः। प्रणम्य च हृषीकेशं ज्वरो वाक्यमथाब्रवीत्। शृणुष्व मम गोविन्द! विज्ञाप्यं यदुनन्दन!। यो मे मनोरथो देव! तं त्वं कुरु महाभुज!। अहमेको ज्वरस्तात! नान्यो लोके ज्वरो भवेत्। त्वत्प्रसादाद्धि देवेश! वरमेतं वृणोम्यहम्। देव उवाच। एवम्भवतु भद्रं ते यथा त्वं ज्वर! काङ्क्षसे। वरार्थिनां वरो देयो भवांश्च शरणागतः। एक एव ज्वरो लोकेभवानस्तु यथा पुरा। योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम्। वैशम्पायन उवाच। एवमुक्ते तु वचने ज्वरं प्रति महायशाः। कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह। कृष्ण उवाच। शृणुष्व ज्वर! सन्देशं यथा लोके चरिष्यसि। सर्वजातिषुविन्यस्तस्तथा स्थावरजङ्गमे। त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे। चतुष्प- दान् भजैकेन द्वितीयेन च स्थावरान्। तृतीयो यश्च ते भागी मानुषेषुपपत्स्यते। त्रिधाभूतं वपुः कृत्वा पक्षिषुत्वं भवज्वर!। चतुर्थो यस्तृतीयस्य भविष्यति च तेध्रुवम्। एकान्ततश्चतुर्भागः खोरकश्च चतुर्थकः। मानुषेष्वेकपादेन वस त्वं प्रविभज्य वै। जातिष्वथावशेषेषु निवस त्वं शृणुष्व मे। वृक्षेषु कीटरूपेण तथा सग्कोचपत्रकः। पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च। पद्मिनीषु हिमं भूत्वा पृथिव्यामपि चोषरः। अपान्तु नीलिकां भूयाः शिखोद्भेदश्च वर्हिणाम्। गैरिकः पर्वतेष्वेव मत्प्रसादाद्भविष्यसि। गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि। एवं विविधरूपेण भविष्यसि महीतले। दर्शनात् स्पर्शनाच्चैव प्राणिनां बधमेष्यसि। ऋते देवमनुष्यांश्च नान्यस्त्वां विषहिष्यते”। ज्वराश्च नानादेवसृष्टा यथोक्तं हरिवं० १६८ अ० “पितामहमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः। कुमारस्कन्दजाश्चैव ज्वरावै वैष्णवादयः” “स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति” माघः।

***