जातिकोश(ष) = पु० न० जातेः जातीफलस्य कोशमिव। (जायफल) जातीफले भावप्र० “जातीफलं जातिकोशः मालतीफलमित्यपि। जातिफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु। कटुकं दीपनं ग्राहि स्वर्य्यं श्लेष्मानिलापहम। निहन्ति मुखवैरस्यमलदौदुर्गन्ध्यकृष्णताः। कृमिकासवमिश्वासशोषपीनसहृद्रुजः” भावप्र०। हेमचन्द्रे अयं मूर्द्धन्यवान् दीर्घमध्यश्च पठितः।

जाति(ती)कोषी = स्त्री जातिं जातिफलं कुष्णाति कुष–निकर्षे–अण् उप० स० गौरा० ङीष। जातीफले राजनि०।

जातिधर्म्म = पु० ६ त०। ब्राह्मणादीनां धर्मभेदे। स च भा० शा० ६० अ० दर्शितो यथा

“व्राह्मणस्य तु यो धर्मस्तन्ते वक्ष्यामि केवलम्। इममेव महाराज! धर्ममाहुः पुरातनम्। स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते। तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वस्वकर्मणि। अकुर्व्वाणं विकर्म्माणि शान्तं प्रज्ञानतर्पिताम। कुर्व्वीतापत्यसन्तानमथो दद्याद्यजेत च। संविभज्य हि भोक्तव्यं धनं सद्भिरितीर्य्यते। परिनिष्ठितकार्य्यस्तु स्वाध्यावेनैव ब्राह्मणः। कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते। क्षत्त्रियस्यापि यो धर्मस्तन्ते वक्ष्यामि भारत!। दद्याद्राजन्न याचेत यजेत न च याजयेत्। नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्। नित्योद्युक्तो दस्युबधे रणे कुर्य्यात् पराक्रमम्। ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः। य एवाहवजेतारस्त एषां लोकजित्तमाः। अविक्षतेन देहेन समराद्यो निवर्त्तते। क्षत्त्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः। एवं हि क्षत्त्रबन्धूनां मार्गमाहुः प्रधानतः। नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिवर्हणात्। दानमध्ययनं यज्ञो राज्ञां क्षेमं विधीयते। तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता। स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्व्वा महीपतिः। धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् परिनिष्ठित कार्य्यस्तु नृपतिः परिपालनात्। कुर्य्यादन्यन्न वा कुर्य्यादैन्द्रो राजन्य उच्यते। वैश्यस्यापि हि यो धर्मस्तन्ते वक्ष्यामि शाश्वतम्। दानमध्ययनं यज्ञः शौचेन धनसञ्चयः। पितृवत् पालयेद्वैश्यो युक्तः सर्व्वान् पशूनिह। विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत्। रक्षया स हि तेषां वै महत् सुखमवाप्नुयात्। प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्। ब्राह्मणाय च राज्ञे च सर्वाः परिदददे प्रजाः। तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्। षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत्। लब्धाच्च सप्तमं भागं तथाऽशृङ्गे कलाऽखुरे। शस्यानि सर्ववीजानामेषा सांवत्सरी भृतिः। न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति। वैश्यो चेच्छति नान्येन रक्षितव्याः कथञ्चन। शूद्रस्यापि हि यो धर्मस्तन्ते वक्ष्यामि भारत!। प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्। तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधीयते। तेषां शुश्रूषणाच्चैव महत् सुखमवाप्नुयात्। शूद्र एतान् परिचरेत्त्रीन् वर्णाननुपूर्वशः। सञ्चयाश्च न कुर्व्वीत जातु शूद्रः कथञ्चन। पापीयान् हि धनं लब्ध्वा वशे कुर्य्याद्गरीयसः। राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः। तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम। अवश्यभरणीयो हि वर्णानां शूद्र उच्यते। छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च। यातयामानि देयानि शूद्राय परिचारिणे। अधार्याणि विशीर्णानि वसनानि द्विजातिभिः। शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत्। यच्च किञ्चिदुद्विजातीनां शूद्रः शुश्रूषुराव्रजेत्। कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः। देयः पिण्डोऽनपत्याय भत्तेव्यौ वृद्धदुर्बलौ। शूद्रेण तु न हातव्यो भर्त्ता कस्याञ्चिदापदि। अतिरेकेण भर्त्तव्यो भर्त्ता द्रव्यपरिक्षये। न हि स्वमस्ति शूद्रस्य भर्तृहार्य्यधनो हि सः। उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च भारत!। स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते। तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान् स्वयम्। पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम्। शूद्रः पैजवनो नाम सहस्राणां शतं ददौ। ऐन्द्राग्न्येन विधानेन दक्षिणामिति नः श्रुतम्। यथा हि सर्ववर्णानां यज्ञस्तस्यैव भारत!। अग्र्यः सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते। दैवतं हि महच्छ्रद्धा पवित्रं यजताञ्च यत्। दैवतं हि परं विप्राः स्वेन स्वेन परस्परम्। अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहितैः। संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः। देवानामपि ये देवा यद्ब्रुयुस्ते परं हितम्। तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया। ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्धिजः।” सङ्कीर्णजातिधर्म्मस्तु मन्वाद्युक्तो जातिशब्दे दर्शितः “उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः” गीता।

जाति(ती)पत्री = स्त्रो जातेः(त्याः)जातीफलस्य पत्री गौरा० ङीष्। (जायत्री) ख्याते गन्धद्रव्यभेदे “जातीफलस्य त्वक् प्नोक्ता जाति(ती) पत्री भिषग् वरैः। जाति(ती) पत्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत्। कफकासवमिश्वासतृष्णाकृमिविषापहा” भावप्र०।

जाति(ती)फल = न० जातिः (ती) तन्नामकं फलं, ६ त० वा। (जायफल) गन्धद्रव्यभेदे हेमच०।

जातिबाधक = त्रि० ६ त०। जातेर्बाधके प्राचीननैयायिकोक्ते व्यक्तेरभेदादौ स च जातिशब्दे दर्शितः।

जातिब्राह्मण = पु० जात्या जन्मना ब्राह्मणः। तपःस्वाध्यायरहिते ब्राह्मणे। “तपः श्रुतञ्च योनिश्च त्रयं ब्राह्मण्यकारणम्। तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः” शब्दार्थचि० धृतवाक्यम्।

जातिभ्रंश = न० पापभेदे। तत्स्वरूपप्रायश्चित्ते मनुवोक्ते प्रा० वि० व्यवस्थापिते च यथा। “तत्र मनुः “ब्राह्मणस्य रुजः कृत्या घ्रातिरघ्रेयमद्ययोः। जैह्म्यञ्च मैथुनं पुंसि जातिभ्रं शकरं स्मृतम्”।” जातिभ्रंशकरं कर्म्म कृत्वान्यतममिच्छया। चरेत् सान्तपनं कृच्छं प्रजापत्यमनिच्छया”। रुजः कृत्या पीडाकरणम्। अध्रेयं लशुनादि जैह्म्यं मित्रे कृटिलत्वं पुंसि मैतुनं पुरुषे ग्राम्य धर्मकरणम्। अत्र कामतः सान्तपनं तत्र धेनुद्वयम्। अकामतः प्राजापत्यं तत्र धेनुरेका। एतच्चाभ्यासे बोद्धव्यम्। रुजः कृत्ये त्यत्र विशेषमाह मनुः “अवगुर्य चरेत् कृच्छमतिकृच्छ्रं निपातने। कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम्”। तथा याज्ञवल्क्यः “विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने। कृच्छ्रातिकृच्छ्रोऽसृक्पातेकार्य्योऽभ्यन्तरशोणिते”। अत्र दण्डशब्दः शस्त्रमपि लक्षयति। अतिकृच्छ्रे धेनुत्रयं कृच्छ्रातिकृच्छ्रे धेनुपञ्चकम्। यमः “ःकृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथाचरेत्। दश संख्याश्च गा दद्यादङ्गच्छेदो यदा भवेत्”। अत्र द्विजाङ्गच्छेदे व्रतद्वयस्य गोदानानाञ्च समुच्चयः। विशेषमाह वृहस्पतिः “काष्ठादिना ताडयित्वा त्वगभेदे कृच्छमाचरेत्। अस्थिभेदेऽतिकृच्छ्रन्तु पराकं चाङ्गकर्त्तने”।

जातिमात्र = न० जातिरेव जाति + एवार्थे मात्रच्। स्वाध्यायादिहीने जन्ममात्रे “जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्” हितो०। “जातिमात्रोपजीवी वा कामं स्यात् ब्राह्मणब्रुवः”। “अब्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। नैषां प्रतिग्रहो देयो न शिला तारयेच्छिलाम्” मनुः।

जातिमाला = जातिविशेषज्ञापके ग्रन्थभेदे।

जातिवैर = न० जात्या स्वभावेन वैरम्। स्वभाववैरे यथा अहिनकूलयोः उपयमशब्दे योनिकूटप्रकरणे १२५० पृ० दृश्यम्।

जातिशक्तिवाद = पु० जातौ शक्तेर्वादः। शब्दानां जातौ शक्तिसमर्थके कथाभेदे स च वादः शब्दशक्तिप्र० पूर्वपक्ष विधया दर्शितो यथा

“ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानयनादेरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वयबुद्धिं प्रत्ये व हेतुत्वात् सुवर्थकर्मत्वादौ स्वाश्रयवृत्तित्वसम्बन्धेनैव प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मताकत्वेन वोधस्तूत्तरकालनाक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठकर्मतात्वात्, आनयनं गोवृत्तिकर्मताकं गोत्ववृत्तिकर्मताकत्वादित्थाद्यनुमानसाम्राज्यात्। न च वस्तुगत्या यद्गोत्वशक्तत्वं तज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवंग्रहादपि शुद्धगोत्वस्यान्वयबोधापत्तिः गोत्वत्वावच्छिन्नशक्तत्वप्रकारकज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्तताप्रकारकज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यमवेशादितिवाच्यं गोपदं गोत्वशक्तमित्याकारकज्ञानत्वेन हेतुतायां शुद्धस्येव गोत्वस्य विषयतासम्बन्धेन शक्त्यंशे विशेषणत्वेन गोत्वत्वादिप्रवेशगौरवस्यायोगात्। न हि समवायान्यसम्बन्धेन जातेः प्रकारतायां धर्म्मावच्छिन्नत्वनियमो मानाभावात् अयं गौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्याकारे तस्य ज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभिचाराच्च प्रागनुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात्। एतेन जातेर्निरवच्छिन्नप्रकारत्वस्य समवायसंसर्गावच्छिन्नत्वनियमात् केवलस्य गोत्वादेः शक्त्यंशे विषयतया सुवर्थकर्मत्वांशे च परम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम्, उक्तस्थल एव व्यभिचारात्। न चैवं कालोगौः पदं गौरित्यादिप्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन गोत्वादिमति तत्प्रकारकत्वादिति वाच्यं कालिकादिसम्बन्धेन गोत्वादेः प्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकारतागर्भत्वेन तादृशमतेः प्रमात्वायोगात् अन्यथा घटत्वादिजातेः संस्थानसमवेतत्वमते संयोगो घट इत्यादिप्रतीतेः समवायेन प्रमात्वस्य दुर्वारतापत्तेः शाब्दस्येव प्रत्यक्षस्यापि कालोगौरित्यादिवोधस्य नियमतोगवाद्यभेदावगाहित्वेनैवाप्रमात्वसम्भवा च्चेति भट्टमतानुवर्त्तिनः।” जातिशक्तिवादिप्रभाकरमतं च तत्रैवोक्तं यथा

“प्राभाकरास्तु गोत्वशक्तत्वेन ज्ञातं पदं ताद्रूप्येण गोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगोत्वशक्तिग्रहान्न गोत्वेन गवयादेः न वा द्रव्यत्वादिना गोरन्वयधियोऽतिप्रसङ्गः। नचैवं जातेरिव व्यक्तेरपि शक्यत्वमावश्यकं न हि गवादिपदस्य शक्यत्वं जन्यत्वमपि तु जन्यशाब्दधीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टमिति वाच्य गवादिपदधर्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधीजनकतावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात् गोत्वशक्ततापेक्षएया गोशक्तत्वस्य गुरुतवा तज्ज्ञानत्वस्य गोशाब्दं प्रति जनकतानवच्छेदकत्वात्। अतवान्वयबुद्धेरात्मस्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्यत्वम्। अस्तु वा गोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वादिशाब्दत्वावच्छिन्नं प्रत्येव हेतुर्विशेष्यतया तादृशशाब्दं प्रति समवायेन गोत्वस्य नियामकत्वकल्पनाच्च नातिप्रसङ्गः गोत्वादिना गवादेरिव गवादेर्गोत्वादिनान्वयबोधत्वावच्छिन्नं प्रत्यपि विनिगमकाभावेन गोत्वादिशक्तिज्ञानत्वेन हेतुत्वमपेक्ष्य गोत्वशाब्दत्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्तत्वज्ञानस्य च द्वयोः कारणतायामेव लाघवात्, वस्तुतोगोत्वशाब्दं प्रति गोत्वशक्तिज्ञानमेव हेतुर्न तु गोत्वमपि जातिव्यक्त्योस्तुल्य- वित्तिवेद्यत्वनियमादेव गोव्यक्तीनान्तद्विषयत्वसिद्धेः प्रमाणविरहादेव गोत्वादिना गबयादिविषयत्वस्य तत्रासिद्धेश्च। यद्यपि जातेर्विषयत्वं तत्समवायिव्यक्तिविषयतानिरूपितमिति न व्याप्तिर्गोत्वाद्यालोचने कालोगोत्ववानित्यादिबोधे च व्यभिचारात् नापि जातेर्निरवच्छिन्नप्रकारतायास्तथात्वनियमः गौरयमित्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जानामीत्याकारे तथात्वात् तथाप्यन्वयबोधस्य निरवच्छिन्नगोत्वादिप्रकारत्वं गवादिविशेष्यतानिरूपितमेवेति व्याप्तिस्तादृशविशेष्यताकत्वं विना शुद्धस्य गोत्वादेरन्वयबोधेनास्पर्शनात् गुरूणां गोत्वेन गवयादिबोधस्यालीकत्वात्। अतएव गवाद्यंशे गोत्वादिप्रकारकोबोधः समवायेनेव सम्बन्धान्तरेणापि तत्प्रकारकः स्याद्गोत्वशक्तिज्ञानस्य तदीयसम्बन्धभानं प्रत्युदासीनत्वादित्यपि प्रत्युक्तं शाब्दमतेः शुद्धगोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्नत्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्य प्रमाणविरहेणासिद्धेः। एवञ्च गोत्वादिशक्तिज्ञानत्वेन जनकतायां विषयतयावच्छेदकत्वाद्गोत्वादिरेव गवादिपदस्यार्थः गवादौ तद्व्यवहारस्तु तादृशावच्छेदकधर्मवत्त्वप्रयुक्तोगौणः। नचैवं गम्यादिधातोरपि गत्यादौ शक्तिर्न स्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्यादिधातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेः संस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यवच्छिन्नक्रियात्वाद्युपाधिरूपे च तत्र स्वरूपतः शक्तिग्रहायोगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्तक्रिवात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतया तादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचित्यात् गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादिधातूनान्तत्र शक्तत्वेऽपि क्षत्यभावाच्च। पश्वादिपदानामपि लोमवल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्रवृत्तिग्रहोत्तरं तन्मात्रस्यैवानुमवेन तदाश्रयस्यालाभात् लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूलवान् देश इत्याद्यनुभवे व्यभिचारादितिप्राहुः।” नैयायिकास्तु तदेतन्मतं पूर्वपक्षविधया व्यक्त्यादीनां केवलानां शब्दवाचतां निराकृत्य जातिविशिष्टस्यैव शक्यत्वं व्यवस्थापितं यथा गौ० सूत्रे तद्भाष्ये च। “तदर्थे व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः।” सू० “अविनाभाववृत्तिः सन्निधिः अविनाभावेन वर्त्तमानासु व्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते तत्र न ज्ञायते किमन्यतमः पदार्थः उत सर्व इति। शब्दस्य प्रयोगसामर्थ्यात्पदार्थावधारणम् न य्यात्” भाष्यम्।

“याशब्दसमूहत्यागपरिग्रहसंख्यावृद्धुपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः” सू० “व्यक्तिः पदार्थः कस्मात् याशब्दप्रभृतीनां व्यक्तावुपचारादुपचारः प्रयोगः। या गौस्तिष्ठति या गौर्निषर्ण्णति नेदं वाक्यं जातेरभिधायकमभेदात् द्रव्याभिधायकम्, गवां समूह इत्यभेदात् द्रव्याभिधामं न जातेरभेदात्, वैद्याय गां ददातीति द्रव्यस्य त्यागो न जातेरमूर्त्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेश्च। परिग्रहः स्वत्वेनाभिसम्बन्धः, कौण्डिन्यस्य गौ र्ब्राह्मणस्य गौरिति द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेद इति उपपन्नमभिन्ना तु जातिरिति, सङ्ख्या दश गावो विंशतिर्गाव इति भिन्नं द्रव्यं सङ्ख्यायते न जातिरभेदादिति, वृद्धिः कारणवतो द्रव्यस्यावयवोपचयः अवर्द्धत गौरिति निरवयवा तु जातिरिति, एतेनापचयो व्याख्यातः। वर्णः शुक्ला गौः कपिला गौरिति द्रव्यस्य शुक्लादियोगो न सामान्यस्य, समासः गोहितं गोसुखमिति द्रवस्य सुखादियोगो न जातेरिति। अनुबन्धः सरूपप्रजननसन्तानोगौ र्गां जनयतीति तदुत्पत्तिधर्मत्वाद्द्रव्ये युक्तं न जातौ विपर्य्ययादिति। द्रव्यं व्यक्तिरिति हि नार्थान्तरम्, अस्य प्रतिषेधः।” भा० “न तदनवस्थानात्” सू०

“न व्यक्तिः पदार्थः। कस्मादनवस्थानात् याशब्दप्रभृतिभिर्यो विशेष्यते स गोशब्दर्थो या गौस्तिष्ठति या गौर्निषर्ण्णेति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधीयते, किन्तर्हि जातिविशिष्टं, तस्मान्न व्यक्तिः पदार्थः एवं समूहादिषु द्रष्टव्यम्। यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्तावुपचार इति। निमित्तादतद्भावेऽपि तदुपचारो दृश्यते खलु” भा०। “सहचरणस्थानतादर्य्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचारः” सू० “अतद्भावेऽपितदुपचार इत्येतच्छब्दस्य तेन शब्देनाभिधानमिति, सहचरणात् यष्टिका भोजयेति यष्टिकासहचरितो ब्राह्मणोऽभिधीयेत इति, स्यानात् मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते, तादर्थ्यात् कटार्थेषु वीरणेषु व्यूह्यमानेषु कटङ्करोतीति, वृत्तात् यमो राजा कुवेरो राजेति तद्वद्वर्त्तत इति, मानात् आढकेन मिताः सक्तवः आढकसक्तव इति धारणात् तुलया धृतं चन्द्रनं तुलाचन्दनमिति, सामीप्यात् गङ्गायां गावश्चरन्तीति सन्निकष्टोदेशोऽभिधीयते योगात् कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्यभिधीयते, साधनात् अन्नं प्राणा इति। आधिपत्यात् अयं पुरुषः कुलं अयं गोत्रमिति तत्रायं सहचरणाद्योगाद्वा जातिशब्दो व्यक्तौ प्रयुज्यत इति यदि गौरित्यस्य पदस्य न व्यक्तिरर्थोऽस्तु तर्हि।” भा० “आकृतिस्तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः” सू० “आकृतिः पदार्थः कस्मात् तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः। सत्वावयवानां तदवयवानाञ्च नियतोव्यूह आकृतिः तस्यां गृह्यमाणायां सत्वव्यवस्थानं सिध्यति अयं गौरयमश्व इति नागृह्यमाणायाम्, यस्य ग्रहणात् सत्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति सोऽस्थार्थ इति नैतदुपपद्यते तस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते गौरिति। नचावयवव्यू हस्य जात्या योगः, कस्य तर्हि नियतावयवव्यूहस्य द्रव्यस्य, तस्मान्नाकृतिः पदार्थः। अस्तु तर्हि जातिः पदार्थः” भा०

“व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात्प्रोक्षणादीनां मृद्गवके जातिः” सू० “जातिः पदार्थः, कस्मात् व्यक्त्याकृतियुक्तेऽपि मृद्गवके प्रोक्षणादीनामप्रसङ्गादिति। गां प्रोक्षय गामानय गां देहीति नैतानि मृद्गवके प्रयुज्यन्ते कस्मात् जातेरभावात्। अस्ति हि तत्र व्यक्तिरस्त्याकृतिः यदभावात् तत्रासम्प्रत्ययः स पदार्थ इति।” भा० “नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः” सू० “जातेरभिव्यक्तिराकृतिव्यक्ती अपेक्षते नागृह्यमाणायामाकृतौ व्यक्तौ जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिः पदार्थः इति। न वै पदार्थेन न भवितुं शक्यम् कः खल्विदानीं पदार्थ इति” भा० “व्यक्त्याकृतिजातयस्तु पदार्थः” सू० “तुशब्दो विशेषणार्थः। किं विशिष्यं प्रधानाङ्गभावस्यानियमेन पदार्थत्वमिति। यदा हि भेदविवक्षा विशेषगतिश्च तदा व्यक्तिः प्रधानमङ्गन्तु जात्याकृती। यदा तु भेदोऽविवक्षितः सामान्यगतिस्तदा जातिः प्रधानमङ्गन्तु व्यक्त्याकृती स्वीकृते तदेतद्बहुलं प्रयोगेष्वाकृतेस्तु प्रधानभाव उत्प्रेक्षितव्यः। कथं पुनर्ज्ञायन्ते नानाव्यक्त्याकृमिजातय इति लक्षणभेदात् तत्र तावत्” भा० “व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिः” सू० “व्यज्यत इति व्यक्तिरिन्द्रियग्राह्येति न सर्वं द्रव्यं व्यक्तिः। यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रव्यत्वसंस्काराणामव्यापिनः परिमाणस्याश्रयो यथासम्भवं तदुद्रव्यम्, मूर्त्तिः मूर्च्छितावयवत्वादि” भा० “आकृतिर्ज्जातिलिङ्गाख्या” सू० “यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात्। सा च नाना सत्वानां तदवयवानाञ्च नियत व्यूहादिति नियतावयवव्यूहाः खलु सत्वावयवा जाति लिङ्गं शिरसा पादेन न गामनुमित्सन्ति। नियते तु सत्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति। अनाकृतिव्यक्तिकायां जातौ मृत्सुवर्णं रजतमित्येवमादिष्वाकृतिर्निवर्त्तते जहाति पदार्थत्वमिति” भ० “समानप्रसवात्मिका जातिः” सू० “या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु यथा बहूनीतरेतरतो न व्यावर्त्तन्ते योऽर्थोऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम्। यच्च केषाञ्चिद्भेदं कुतश्चिद्भेदं करोति तत् सामान्यविशेषो जातिरिति” भा० शब्दशक्तिप्रकाशिकायामपि तदेतन्मतं समर्थितं यथा “जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्” “यन्नाम जात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्राः सा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोत्रादिजातिमात्रं गोपदं गोत्वे सङ्केतितमित्याकारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवादेरन्वयानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रसङ्गात्” ततःपरं प्राक्दर्शितं भट्टमतं प्रदर्श्य दूषितं यथा “विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्मताकत्वेनानयनादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्धगोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्यनुपस्थित्या च गोत्वं गच्छतीत्याद्यनुभवस्यासम्भवात् स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौ साक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेण दुःशकत्वाच्च। एतेन कर्मत्वादौ गोत्वादेः स्वाश्रयवृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वं गोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामित्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादिव्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां शाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दानुपपत्तिभ्यां सम्भय तथाविधौपादानिकबोधस्य जनना- थोगाच्च। यत्तु गौर्ज्जायते गौर्नश्यति सर्वत्र गोत्वादिजातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा व्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र शक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया वीजत्वात् यदाहुर्मण्डनाचार्य्याः “जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति। नित्यत्वाल्लक्षणीयाया व्यक्तेस्ते हि विशेषणे” इति तदपि तुच्छं व्यक्तिविनाकृतायां गोत्वादिजातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे तद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्धस्यैव लक्षणात्वात्। न च गोरन्यो महिष इत्यादौ पञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेन शुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्यप्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वावच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात् अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्तिद्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधीप्रकारतायाः समवायावच्छिन्नत्वनियमात्तस्यावधित्वादौ स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटः एव द्रव्यं घट इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नानात्वोपगमादिति”। ततः परं प्रागुपदर्शितं प्राभाकरमतमुत्थाप्य दूषितं यथा

“शाब्दमतेर्गवादिव्यक्त्यवगाहित्वमवश्यङ्कारणप्रयोज्यं जन्यधीविषयतायास्तत्प्रयोज्यत्वनियमादन्यथा पक्षधर्मिक साध्यावगाहितादेरपि परामर्शादिप्रयोज्यता न स्यादनुमित्यादि सामान्यं प्रत्येव ज्ञानत्वादिना हेतुत्वस्य लाघवेनौचित्यात् पक्षतादिसहकृतपरामर्शाद्युत्तरज्ञानस्य तत् प्रकाशस्यैव वा पक्षे साध्यावगाहित्वनियमादेवानुमित्यादेः प्रतिनियतपक्षाद्यवगाहित्वसिद्धेः। किञ्च गोत्वशक्यत्वं न गोत्वसमर्थत्वं यस्य धीरन्वयधीहेतुरप्रसिद्धत्वात् नापि तद्गोचरमभिधानामकं पदार्थान्तरं तत्र मानाभावात् न वा गोत्वानुभवजनकत्वं पटादिपदस्यापिं गोत्वशक्यत्वापत्तेस्तस्यापि गवादिपदाकाङ्क्षादिसाचिव्येन गोत्वानुभवजनकत्वात् न च गोत्वानुभवसामान्यं प्रति हेतुत्वन्तथा गवादिपदेऽप्यसत्त्वात् नापि गोत्वानुभवजनकत्वप्रकारकनित्यसङ्केतवत्त्वं तादृशसङ्केतवत्त्वमात्रं वा गोत्वशक्तत्वमिति साम्प्रतं, गोपदं गोत्वेन गवानुभवस्य जनकतया न सङ्केतितमित्यादिग्रहेऽपि तस्य ग्रहाद्गोत्वेन गोरन्वयधीप्रसङ्गात् किन्तु गोत्वेन गवानुभवस्य जनकतया सङ्केतितत्वं तथा, तथा च पदधर्मिकतज्ज्ञानत्वेन गोत्वप्रकारकशाब्दं प्रति हेतुतायां गोत्वस्येव तद्विशिष्टस्य गोरपि विषयविधयावच्छेदकत्वादवश्यं गोत्वादिविशिष्टो गवादिर्गवादिपदस्यार्थः”।

जातिशब्द = पु० जातिवाचकः शब्दः। प्रकारविधया विशेष्यविषया वा जातिवाचके शब्दे हंसमृगादिशब्दादौ। “चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः” हेमच०।

जातिशस्य = न० ६ त०। (जायफल) सुगन्धद्रव्यभेदे शब्दार्थचि०

जातिसङ्कर = पु० जात्योर्विरुद्धयोः सङ्करः। परस्परविरुद्धयोः (परस्पराभावसमानाधिकरणयोः) १ जात्योरेकत्र समावेशे स च जादिशब्दे जातिबाधकतया वैशेषिकसूत्रोपस्करे प्रदर्शितः। २ वर्णसङ्करे विभिन्नजातिकाभ्यां मातापितृभ्यां सङ्कीर्णवर्णे च यथा मूर्द्धावसक्ताम्बष्ठादि।

जातिसार = न० ६ त०। (जायफल) ख्याते पदार्थे राजनि०।

जातिस्फोट = पु० व्याकरणमतसिद्धे स्फोटभेदे बैयाकरणभूषणसारे हि वर्ण्णस्फोटः पदस्फोटः वाक्यस्फोटः अखण्डपदवाक्यस्फोटौ इति व्यक्तिस्फोटाः पञ्च वर्णपदवाक्यभेदेन जातिस्फोटास्त्रय इत्यष्टौ स्फोटा उक्ताः। तत्र जातिस्फोटत्रयं क्रमेण हरिणा दर्शितं यथा

“शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम्। औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत्” अयं भावः। वर्णास्तावदावश्यकाः उक्तरीत्या च सोऽयं गकार इति वद् योऽयं गकारः श्रुतः सोऽयं हंकार इत्यपि स्यात् स्फोटस्यैकत्वात् गकारोऽयं न हकार इत्यनापत्तेश्च। किञ्च स्फोटे गत्वाद्यभुपेयं न वा आद्ये तदेव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात्। तथा चातिरिक्तस्फोटकल्पन एव गौरवम्। अन्त्ये गकारादिप्रतीतिविरोधः। वायुसंयोगवृत्ति ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न प्रतीतेर्विना बाधकं भ्रमत्वासम्भवात् अस्तु वा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन। तस्मात्सन्त्येव वर्ण्णाः। परन्तु न वाचकाः गौरवात्। आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च। इदं हरिपदमित्यनुगतप्रतीत्या हर्य्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया चं जाति विशेषस्यावश्यकल्प्यत्वात्। न च वर्णानुपूर्व्यैब प्रतीत्यवच्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्ट- मृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः। तस्मात्सा जातिरेव वाचिका तादात्म्येनावच्छेदिका चेति। ननु सरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधो न स्यादित्यत आह औपाधिको वेति! वा त्वर्थे उपाधिरानुपूर्व्वी सैव जातिविशेषाभिव्यञ्जिकेति भेदः कारणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः। उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति। ननु जातेः प्रत्येकं वर्णेष्वपि सत्त्वात् प्रत्येकादर्थबोधः स्यादित्यत आह। “अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता। कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः।” अनेकामिर्वर्णव्यक्तिभिरभिव्यङ्ग्यैव जातिः स्फोट इति स्मृता योगार्थतया बोधिकेति यावत्। एतेन स्फोटस्य नित्यत्वात्सर्वार्थबोधापत्तिरित्यपास्तम्। अयं भावः यद्यपि वर्णस्फोटपक्षे कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति। कैश्चिद्व्यक्तयोध्वनय एव ध्वनिवर्णयोर्मेदाभावादित्यभ्युपेयन्ते इति शेषार्थः। उक्तं हि काव्यप्रकाशे “बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकशब्दस्य ध्वनिरिति व्यवहारः कृतः” इति। ननु का सा जातिस्तत्राह। “सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ। सत्यं यत्तत्र सा जातिरसत्या व्यक्तयोमताः।” प्रतिभावम् प्रतिपदार्थम्। सत्यांशो जातिः असत्या व्यक्तयः। तत्तदुव्यक्तिविशिष्टं व्रह्मैव जातिरिति भावः। उक्तञ्च कैयटेन “असत्योपाध्यवच्छिन्नं व्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थ इति”। “ब्रह्मतत्त्वमेव शब्दस्वरूपतया भातीति” च। कथं तर्हि ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवैदं सर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् अविद्या आविद्यिको धर्मविशेषोवेति पक्षान्तरमादायेति द्रष्टव्यम्”।

जातिस्मर = पु० जातिः स्मर्य्यतेऽत्र स्नानादिना स्मृ–आधारे बा० अप्। १ तीर्थभेदे “ततो देवह्रदेऽरण्ये कृष्णवेनाजलोद्भवे। जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः” भा० व० ८५ अ०। जातिं पूर्वजन्मवृत्तान्तं स्मारति स्मृ–अच्। २ पूर्वजन्मवृत्तान्तस्मारके त्रि०। तत् स्मरणहेतुकर्म च मनुनोक्तं यथा “वेदाभ्यासेन सततं शौचेन तपसैव च। अद्रोहेण च भूतानां जातिं स्मरति पौर्बिकीम्”। “शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः। त्रासानुत्पाद्य संविग्नारम्ये कालञ्जरे गिरौ” हरिवं २१ अ०।

जाती = स्त्री जन–क्तिच् वा ङीप्। मालत्यां पुष्पप्रधानवृक्षे अमरः। पुष्पेऽपि स्त्री “पुष्पे जातीप्रभृतयः स्वलिङ्गाः” इत्यमरोक्तेः। “जातिर्जाती च सुमना मालती राजपुत्रिका। चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका। जातीयुगं च तिक्तोष्णं तुवरं लघु दोषजित्। शिरोक्षिमुखदन्तार्त्तिविषकुष्ठानिलास्रजित्” भावप्र०। “तत् कुद्मलं नेत्ररोगव्रणविस्फोटकुष्ठहृत्” राजनि०।

जातीय = त्रि० जातौ भवः छ। जातिभवे। अस्य किञ्चिदुपदादेव प्रयोगः सजातीयः विजातीयः तुल्यजातीयः।

जातु = अव्य० जै–क्षये जन–वा बा० क्तुन्। १ कदाचिदित्यर्थे अमरः। “मनस्तु यं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं सः” नैष०। “न जातु वैनायकमेकमुद्धृतम्” माघः। “न जातु कामः कामानामुपभोगेन शाम्यति” मनुः २ सम्भावनायां ३ गर्हायाञ्च शब्दर०। गर्हार्थकेन जातुशब्देन योगे अन्यलकारबाधेन सर्वत्र लट्। “जातु निन्दसि गोविन्दमपि निन्दसि शङ्करम्” मुग्ध०। “जातु तत्रभवान् वृषलं याजयति”।

जातुक = न० जातु गर्हितं कं जलमस्मात्। हिङ्गुनि शब्दच०

जातुधान = न० जातु गर्हितं धानमभिधानमस्य। यातुधाने राक्षसे अमरटीकायां रमानाथः।

जातुष = त्रि० जतुनो विकारः अण् सुक् च। जतुनिर्मिते। “यदाऽश्रौषं जातुषाद्वेश्मनस्तान्” भाः आ० १३ अ०।

जातू = पु० जन–ड जान् तूर्वति हिनस्ति तूर्व–क्विप् पूर्वपददीर्घः। वज्रे। “स जातूभर्मा श्रद्दधानः” ऋ० १। १०३। २। “जातू इत्यशनिमाचक्षते” भा०। व्युत्पत्तिस्तथैवोक्ता।

जातूकर्ण = पु० ऋषिभेदे। स च अष्टाविंशतितमे द्वापरयुगे जातः यथोक्तं हरिवं० ४२ अ० “नवमे द्वापरे विष्णोरष्टाविंशे पुराऽभवत्। वेदव्यासस्तथा जज्ञे जातूकर्ण पुरःसरः” स च उपस्मृतिकर्त्ता यथोक्तं हेमा० दा० ख० अङ्गिरसा “जाबालिर्नाचिकेतश्च स्कन्दो लौगाक्षि कश्यपी। व्यासः सनत्कुमारश्च शतगर्जनकस्तथा। व्याघ्रः कात्यायनश्चैव जातूकर्ण्णः कपिञ्जलः। वौधायनः कणादश्च विश्रामित्रस्तथैव च। उपस्मृतय इत्येताः प्रवदन्ति मनीषिणः”। ततो गर्गा० अपत्ये यञ्। जातूकर्ण्य तदपत्ये पुंस्त्री। स्त्रियां ङीष् यलोपौ। जातूकर्णी।

जातूष्ठिर = त्रि० जातु कदाचित् स्थिरः वेदे बा० षत्वं पृषो० दीर्घश्च। सर्वदास्थिरे। “जातूष्ठिरस्य प्रवयः सहस्वतः” ऋ० २। १३। ११। “जातूष्ठिरस्य सर्वदास्थिरस्य” भा०।

जातेष्टि = स्त्री जाते पुत्रजनने इष्टिः। पुत्रजन्मोत्तरं श्रुतिविहिते वैश्वानराख्ये इष्टिभेदे।

जातेष्टिन्याय = पु० जैमिनिप्रदर्शिते पितृकृतेष्ट्या पुत्रगतफलसूचके एकस्य काम्यत्वनैमित्तिकत्वसूचके न्यायभेदे स च न्यायो जै० प्रथमस्य चतुर्थे पादे यथा।

काम्येष्टिकाण्डे श्रूयते। “वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवेनं ब्रह्मवर्च्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं, यदेकादशपालस्त्रिष्टुभैवास्मिन्निन्द्रियमादधाति यद्द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति यस्मिन् जाते एतामिष्टिं निर्वपति स एव पूतो बलवान् तेजस्वी अन्नाद इन्द्रियावी पशुमान् भवतीति”। अत्राष्टादिसंख्यासामान्यात् पुरोडाशादीनां गायत्र्यादिरूपताकल्पना कृता द्वादशकपालेषु या संख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात् संख्यां निमित्तीकृत्याग्निहोत्रादिशब्दवत् अष्टाकपालादिशब्दाः कर्म्मनामधेयानीत्येकः पक्षः। अयमनुपपन्नः तथा हि द्वादशकपालादिशब्दा न संख्यापराः किन्तु पुरडाशद्रव्यपराः द्वादशकपालेषु संस्कृत इति व्युत्पत्तेः एवमष्टाकपालादिशब्दादयोऽपि तथा सति नामधेयस्य निमित्तत्वं नास्तीति चेत् पुरोडाशद्रव्यरूपगुणो विधीयतां न च द्वादशकपालं निर्वपेदित्युत्पत्तिविधिशिष्टद्वादशपुरोडाशविरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यं व्रह्मवर्च्चसादिविशेषफलाय तद्विधीनामुपपत्तेरित्यपरः पक्षः।

अयमपि पक्षोऽनुपपन्नः अनेकगुणविधौ वाक्यभेदापत्तेः न च भिन्नान्थेव वाक्यानि, द्वादशकपालं निर्वपेदिति विहितयागस्य यस्मिन् जाते एतानित्युपमंहारेण एकवाक्यत्वावगमात् द्वादशकपाल इतीष्टेर्नामधेयमिष्टिरंशी अष्टाकपालादिभिरंशैः स्तूयत इति सिद्धान्तः पक्षः। अत्र च पुत्रजन्मनिश्चयः, पुत्रस्य पूतत्वादिफलकामना चेति संवलिताधिकारः काम्यनैमित्तिक त्वात् अतः केवलपुत्रजन्मरूपनिमित्तनिश्चयवतः केवलपुत्र पतत्वादिकामनावतो वा नाधिकार इति सुधीभिर्विभाव नीयम्” तत्त्वबो०। अनेन न्यायेन अन्यकृतकर्म्मणा अन्यस्य फलसाधनताऽपि सूचिता यथा पुत्रकृतश्राद्धेन पितुः स्वर्गादि फलं जन्यते एवं पितृकृतेष्ट्या पुत्रगतपूतत्वादिफलसिद्धिः। अतएव हेमाद्रिणा श्राद्धकल्पे अयमेव न्यायः पुत्रकृतश्राद्धेन पितुरुपकारकत्वे दृष्टान्तयोक्तः।

जातोक्ष = पु० जातः प्राप्तदम्यावस्थः उक्षा टच्समा०। युववृषे इह जातत्वं प्राप्तवलीवर्द्दभावत्वं प्राप्तदम्यावस्थत्वमिति यावत्

जात्य = त्रि० जातौ भवः यत्। १ कुलीने, २ श्रेष्ठे, ३ कान्ते च मेदि०। ४ सुन्दरे जटाधरः “किं वा जात्याः खामिनो ह्रेपयन्ति” माघः। “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः” रघुः। “सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु। आनुलोम्येन संभूता जात्या जातास्त एव ते” मनुः।

जात्यन्ध = त्रि० जातौ जन्मन्येवान्धः। जन्मान्धे “अनंशौ क्लीवपतितौ जात्यन्धबधिरौ तथा। उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः” मनुः।

जात्यासन = न० “अथ जात्यासनं वक्ष्ये येन जातिस्मरो भवेत्। हस्ताङ्घ्रियुग्मं भूमौ च गमनागमनं ततः” रुद्रजामलोक्ते आसनभेदे।

जात्युत्तर = न० जात्या व्याप्तिविधुरसाधर्म्यवैधर्म्यादिना उत्तरम्। न्यायोक्ते असदुत्तरे तच्च चतुर्विंशतिविधं जातिशब्दे दर्शितम्।

जान = पु० जन–भावे घञ् वेदे वृद्धिः। १ उत्पत्तौ “को वेद जान मेषाम्” ५। ५३। १। “जानमुत्पत्तिम्” भा०। जनस्येदमण्। २ जनसम्बन्धिनि त्रि०। “महते जानराज्यायेन्द्रस्येन्द्रियाय” यजु० ९। ४०। स्त्रियां ङीप्।

जानक = त्रि० जनकस्य पितुः तन्नामनृपस्येदं वा अण्। १ पितृसम्बन्धिनि २ जनकनृपसम्बन्धिनि च स्त्रियां ङीप्। सा च ३ रामपत्न्यां सीतायाम् “मुमोच जानन्नपि जानकीं न यः” माघः।

जानकि = पु० जनकस्यापत्यम् इञ्। भारतप्रसिद्धे नृपभेदे। “विनाशनस्तु चन्द्रस्य य आख्यातो महामुरः। जानकि र्नाम विख्यातः सोऽभवन्मनुजाधिपः” भा० आ० ६७ अ०। “जानकिश्च सुशर्म्भा च मणिमान् पोतिमत्सकः” भा० उ० ३ अ०।

जानन्ति = पु० ऋग्वेदिभिस्तर्पणीये ऋषिभेदे। “जानन्ति बाहविगार्ग्य गौतमशाकल्यबाभ्रव्यमाण्डव्यमार्कण्डेयाः” इत्युपक्रमे “ते सर्वे तृपन्त्विति” आश्व० गृ० ३। ४। ४।

जानपद = पु० जानेन उत्पत्त्या पद्यते पद–अप्। १ जने लोकमात्रे “कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः” भा० शा० ८३ अ०। जनपद एव स्वार्थे अण्। २ देशे च मेदि०। जनपदादागतः जनपदे भवो वा अण्। जनपदादागते ३ करादौ “स यथा महाराजो जान- पदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्त्तते” शत० ब्रा० १४। ५। १। २०। ४ देशभवे च “देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु” याज्ञ०। ५ वृत्तौ स्त्री ङीष् जानपदी अन्यत्र ङीप्। स्वरे भेदः। नियमपक्षे टाप् इति भेदः। वरणा० बहुत्वे अणी लुक्। जनपदाः।

जानश्रुतेय = पु० जनश्रुतेः ऋषेरपत्यम् “इतश्चानिञः” पा० ढक्। जनश्रुतेरपत्ये औपविनामके राजर्षिभेदे “औपविनैव जानश्रुतेयेन प्रत्यवरोढम्” शत०ब्रा० ५। ५। १। १। ५।

जानायन = पुंस्त्री जनस्य तन्नामकर्षे र्गोत्रापत्यम् अश्वा० फञ्। जननामकर्षेर्गोत्रापत्ये।

जानु = न० जन–ञुण्। ऊरुजङ्घयोर्मध्यभागे (आंटु) स्वार्थे क अत्रैवार्थे अमरः। “निगृह्य पारीमुभयेन जानुनोः” माघः। “ऊरू अरत्नीं जानुनीं विशोमेऽङ्गानि सर्वतः” यजु० २७८ “जानुकपिच्छे चतुरङ्गुले च” वृ० स० ५८ अ०

जानुकारक = पु० रविपार्श्वगभेदे शब्दार्थचि०।

जानुजङ्घ = पु० नृपभेदे। “अनरण्यो नरपतिर्जानुजङ्घस्तथैव च” भा० अनु० १६५ अ०।

जानुप्रहृतिक = न० जानुना प्रहृतं प्रहारस्तेन निर्वृत्तम् अक्षद्यूता० ठक्। जानुप्रहारनिर्वृत्ते मल्लयुद्धभेदे।

जानुविजानु = न० खङ्गयुद्धप्रकारभेदे तत्प्रकाराश्च द्वात्रिंशत् हरिवं० ३१६ दर्शिता यथा तत्र तावसिना युद्धं चक्रतुर्युद्धलालसौ। भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम्। आकरं विकरं भिन्नं निर्म्मर्य्यादममानुषम्। सङ्कुचितं कुलचितं सव्यं जानुविजानु च। आहितं चित्रकं क्षिप्तं कुद्रवं लवणं घृतम्। सर्वबाहुर्विनिर्बाहुः सव्येतरमथोत्तरम्। त्रिबाहूत्तुङ्गबाहु च सव्योन्नतमुदासि च। पृष्ठतः प्रथितञ्चैव यौधिकं प्रथितं तथा। इति प्रकारान् द्वात्र्ंशच्चक्रतुः खङ्गयोधिनौ”।

जानुहित = त्रि० जनैः हितं परिकल्पितम् पृषो०। जनपरिकल्पिते। “एतद्धि वा अस्य जानुहितं प्रज्ञातमवसानं यच्चतुष्पथम्” शत० ब्रा० २। ६। २। ७। “जानुहितं जनैः परिकल्पितम्” भा०।

जान्य = पु० ऋषिभेदे। गार्ग्यः पृथुस्तथैवाग्रे जान्यो वामन एव च” हरिवं २६ अ०।

जाप = पु० जप–घञ्। जपे मन्त्रोच्चारणे कर्म्मण्युपपदे अण्। मन्द्रजापादयः मन्त्रादिजपकर्त्तरि त्रि०।

जापन = न०। चु० जप–भावे ल्युट्। १ निरसने २ निवर्त्तने च धरणिः।

जाबाल = पु० जबालाया अपत्यम् अण्। सत्यकामे ऋषिभेदे जबालशब्दे उदा०। तेन दृष्ट साम अण्। २ सामवेदीये उपनिषद्भेदे च उपनिषच्छब्दे १२२२ पृ० दृश्यम्। एतस्मिन् परे कर्मधारये महच्छब्दस्य प्रकृतिस्वरः महाजाबालः। महच्छब्दश्चान्तोदात्तः। तदीयस्वर एव न समासस्वरः।

जाबालि = पु० जवालस्यापत्यम् इञ्। ऋषिभेदे स च उपस्मृतिकर्त्ता। जातूकर्णशब्दे प्रमाणं दृश्यम्।

जामदग्न्य = पु० जमदग्नेरपत्यम् गर्गा० यञ्। जमदग्ने ऋषेरपत्ये परशुरामादौ। “तेजोभिर्गतवीर्य्यत्वात् जामदग्न्यो जडीकृतः” रामा० बा० ७७। १२। कण्वा० ततोऽण् यलोपः। जामदग्न तच्छात्रे।

जामदग्नेय = पु० जमदग्नेरपत्यं प्रत्ययविधौ तदन्तग्रहणस्य प्रतिषेधेऽपि आर्षत्वात् “अग्निकलिभ्याम्” पा० ढक्। परशुरामे “भार्गवं जामदग्नेयं राजा राजविमर्द्देनम्” रामा० बा० ७४ अ०।

जामल = ग० आगमशास्त्रभेदे। तस्य वर्ग्यादित्वमपि रुद्रजामले दृश्यम्।

जामा = स्त्री जम–अदने बा० अण् स्त्रीत्वम्। दुहितरि। “अन्यत्र जामया सार्द्धं प्रजानां पुत्र ईहते। दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते” भा० अनु० ४५ अ०। “जामया कन्यया स्वार्ङ्गं पुत्रः पित्र्यं धनमीहते” इत्यर्थः नीलक०।

जामातृ = पु० जायां माति मिनोति मिमीते वा निपा०। १ दुहितृपतौ, अमरः। २ सूर्य्यावर्त्ते, स्वामिनि च मेदि० उणादिषु निपातनसिद्धत्वेन तृणन्तत्वामावात् सर्वनामस्थाने परे न वृद्धिः। जामातरौ जामातरः इत्यादिः “ऋत्विक्स्वस्रियजामातृयाज्यश्वशुरमातुलाः” याज्ञ०। “विष्णुं जामातरं मन्ये”।

जामि(मी) = स्त्री जम–इन् नि० वृद्धिः। १ भगिन्यां २ कुलस्त्रियां, अमरः ३ दुहितरि, ४ स्नुषायां, ५ सन्निहितसपिण्डस्त्रियाम्, शब्दार्थचि, “जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः” “शोचन्ति जामयो यत्र विनश्यन्त्याशु तत्कुलम्। शोचन्ति तु न यत्रैता बर्द्धते तद्धि सर्वदेति” मनुः। “ग्रहपतिसंवर्द्धनीयसन्निहितसपिण्डस्त्रियो जामय इति” कुल्लू० वा ङीप्। तत्रार्थे शब्दर०। “मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्य्यया। दुहित्रा दासबर्गेण विवादं न समाचरेत्” भा० शा० २४३ अ०। स्त्री ब० व०। ६ उदके ७ अङ्गुलौ निघण्टुः।

जा(या)मित्र = न० “जा(या)मित्रं सप्तमं स्थानम्” ज्योतिषपरिभाषिते लग्नात् सप्तमे स्थाने। “तिथौ च जा(या) मित्रगुणान्वितायाम्” कुमा०। उपचारात् तिथेस्तत्साहित्यम्

जा(या)मित्रवेध = पापात् सप्तमस्थानस्थचन्द्ररूपे योगभेदे। उपयमशब्दे दृश्यम्। “मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा जा(या)मित्रवेवविहितानपहृत्य दोषान् दोषाकरः शुभमनेकविधं विधत्ते” ज्यो० त०।

जामिवत् = ब० उदके निघण्टुः जामीत्यत्र पाठान्तरम्।

जामेय = त्रि० जाम्या भगिन्या अपत्यम् ढक्। भागिनेये हेम०।

जाम्बव = न० जम्ब्वाः फलं अण् तस्य वा न लुप्। जम्ब्वाः फले जाम्बवेन निर्वृत्तम् अरीहणा० वुञ्। जाम्बवक तन्निर्वृत्ते त्रि०।

जाम्बवत् = पु० रामायणप्रसिद्धे ऋक्षराजभेदे। तस्यापत्यं स्त्री अण् ङीप्। २ तद्दुहितरि श्रीकृष्णपत्नीभेदे “वासुदेवस्तु निर्जित्य जाम्बवन्तं महावलम्। लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्” हरिवं० ३९ अ० “जाम्बवन्नीलसहितं चारुसद्भावमब्रवीत्” भट्टिः। “ऋक्षराजस्य पुत्रोऽत्र महाप्रज्ञः सुदुर्जयः। पितामहसुतश्चापि जाम्बवानिति दुर्जयः” रामा०। जाम्बवं तदाकारोऽस्त्यस्याः मतुप् मस्य वः पृषो० वलोपः ङीप्। ३ नागदमन्यां स्त्री राजनि०।

जाम्बवी = स्त्री जाम्बवं तदाकारोऽस्त्यस्याः अण् ङीप्। नागदमन्याम् राजनि०।

जाम्बवौष्ठ = न० जाम्बवमिव ओष्ठोऽस्य। सुश्रुतोक्ते ब्रणादिदहनोपकरणभेदे “अथेमानि दहनोपकरणानि तद्यथा पिप्पल्यजाशकृदुगोदन्तशरशलकाजाम्बवौष्ठेतरलोहा, क्षौद्रगुडस्रेहाश्च। तत्र पिप्पल्यजाशकृद् गोदन्तशरशलाकास्त्वग्गतानाम्। जाम्बवौष्ठेतरलोहानि मांसगतानाम्। जम्ब्वोष्ठमप्यत्र “जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया” “जम्वोष्ठेनाग्निवर्णेन पश्चाच्छेद्यं दहेदु भिषक्” सुश्रु०।

जाम्बीर(ल) = न० जम्बीरस्य फलं अण् वेदे रस्य वा लः। १ जम्बीरफले तदाकारे २ जानुमध्यभागे च। “जाम्बीलेनारण्यम्” यजु० २५। ३। “जाम्बीरं जम्वीरतरो, फलं रलयोरभेदः। तदाकारेण जानुमध्यभागो जाम्बीलस्तेनारण्यदेवं प्रीणामीति” वेददी०।

जाम्बुवत् = पु० जाम्बवत् + पृषो०। ऋक्षराजे द्विरूपको०।

जाम्बूनद = न० जम्बूनद्यां भवम् अण्। १ स्वर्णे तन्नामनामके २ कनकाह्वये धूस्तुरे च राजनि०। जम्बूनद्यां तदुत्पत्तिकथा जम्बूद्वीपशब्दे ३०४५ पृ० भाग० व दृश्यम्। “दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः। सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना ससाख्यातो जम्बूद्वीपः सनातनः। योजनानां सहस्रञ्च शतञ्च भरतर्षभ!। उत्सेधो वृक्षराजस्तु दिवस्पृक् मनुजेश्वर!। अरत्नीनां सहस्रञ्च शतानि दश पञ्च च। परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्। पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्। मुञ्चन्ति च रसं राजन्! तस्मिन्रजतसन्निभम्। तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप!। मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान् कुरून्। तत्र तेषां मनः शान्तिर्न पिपासा जनाधिप!। तस्मिन् फलरसे पीते न जरा बाधते च तान्। तत्र जाम्बूनदं नाम कनकं देवभूषणम्” भा० भी० ७ अ०। “दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर्विनीदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः” माघः “यदिदं निर्गतं तस्यास्तप्तजाम्बूनदप्रभम्। काञ्चनं धरणीं प्राप्तं हिरण्यमभवत्तदा” रामा० बा० ३८ अ०।

जाम्बूनदेश्वरी = स्त्री १ देवीभेदे २ तदीयस्थाने च शब्दार्थचि०

जायक = न० जयति गन्धान्तरं जि–ण्वुल्। पीतवर्णे सुगन्धिकाष्ठरूपे गन्धद्रव्यभेदे अमरः।

जाया = स्त्री जायतेऽस्यां जनेर्यक् आत्वञ्च। १ पत्न्यां विधिनोढायाम् अमरः। “पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते। जायायास्तद्धि जायात्वं यद्यस्यां जायते पुनः” मनुः “पतिः शुक्ररूपेण भार्य्यां संप्रविश्य गर्भतामापद्य तस्यां भार्य्यायां पुत्ररूपेण जायते। तथा च श्रुतिः “आत्मा वै पुत्रनामासीति। जायायास्तदेव जायात्वं यतोऽस्यां पतिः पुनर्जायते। तथाच बह्वृच ब्राह्मणम्, “पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया भवति यदस्यां जायते पुनः। ततश्चासौ रक्षणीयेत्येतदर्थं नाम निर्वचनम्” कुल्लू०। “अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्” रघु। “कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्” मेघः। २ ज्योतिषोक्ते लग्नावधिकसप्तमस्थाने। तत्र स्थाने जायायाः शुभाशुभचिन्तनीयत्वात् तथात्वम्। बहुब्री० जायाशब्दस्य निङ्। युवती जायास्य युवजानिः “युवजानिर्धनुष्पाणिः” भट्टिः। पतिशब्देन द्वन्द्वे तस्याः जम् दम वा भवति। जम्पती दम्पती वा पक्षे जायापती।

जायाघ्न = पु० जायां हन्ति “लक्षणे जायापत्योष्टक्” पा० लक्षणवनि हन–टक्। जायाहननसूचकलक्षणयुक्ते भर्त्तरि। “अमनुष्यकर्त्तृके च” पा०टक्। २ तिलकालके सि० कौ०। तस्य जायाहननसूचकत्वात् तथात्वम्। एवं ज्यतिषोक्ते ३ योगभेदे च “यावन्तः यापस्वेटामदनसदनगास्तावकोनां विरामः” इत्युक्तयोगस्य जायानाशसूचकत्वात् तथात्वम्।

जायाजीव = पु० जायया तन्नर्त्तनवृत्त्या जीवति–अच्। नटे अमरः।

जायानजीविन् = पु० जायया अनुजीवति अनु + जीव–णिनि। १ नटे २ वकखगे च मेदि०।

जायिन् = त्रि० जै–णिनि। १ जययुक्ते “अफलं जन्म तस्याहं मन्ये दुर्जातजायिनः” भा० व० ३५ अ० “जायीतिनाम्ना ध्रुवको द्वाविंशत्यक्षरान्वितः। सन्निपातेन तालेन शृङ्गारेऽभीष्टदो रसे” सङ्गीतदा० उक्ते २ ध्रुवकभेदे पु०। तत्र जायीति पाठान्तरम्। शीलार्थे तु इनि जयीत्येव।

जायु = पु० जयति रोगान् जि–उण्। औषधे अमरः। २ जयशीले त्रि०। “मखाश्रमितो जायवोरणे” १। ११९। ३। “वनेषु जायुर्मर्त्तेषु” ऋ०–१। ६७। १।

जाये(या)न्य = पु० जि–बा० ए (आ) न्यण्। जयशीले। “यो हरिमा जायान्योऽङ्गभेदो विशल्यकः” अथ० १९। ४४। २। तैत्तिरीये तु जायेन्य इति पाठः।

जार = पु० जीर्य्यत्यनेन जॄ–करणे घञ्। १ उपपतौ अमरः। “शूद्रो यदर्य्यायै जारी न पोषमनुमन्यते” यजु० २३। ३१। “जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम्” याज्ञ०। वा० कर्त्तरि घञ्। २ जारके च। “स्वसारं जारो अभ्येति पश्चात्” ऋ० १०। ३। ३। “जारोजरयिता” भा०।

जारज = पुंस्त्री जारात् उपपतेर्जायते जन–ड। अनियुक्तायां स्त्रियां १ उपपतिजाते (वेजन्मा) पुत्रे २ तथाभूतकन्यायां स्त्री “अमृते जारजः कुण्डः मृते भर्त्तरि गोलकः” अमरः। जन–क्त ५ त०। जारजातादयोऽप्यत्र। “अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात्। उभौ तौ नार्हतो भागं जारजातककामजौ” मनुः।

जारजयोग = पु० जारजस्य सूचको योगः। ज्योतिषोक्ते योगभेदे। “न लग्नमिन्दुञ्च गुरुर्निरोक्षते न वा शशाङ्कं रविणा समायुतम्। सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात्। भग्नपादर्क्षसंयोगात् द्वितीया द्वादशी यदि। सप्तमो चार्कर्मन्दारे जायते जारजो ध्रुवम्”। अन्योऽपि योगः वृहज्जातकोक्तः जातकशब्दे ३०८६ पृ० दृश्यः।

जारण = पु० जारयति जृ–णि–ल्यु। जारके १ द्रव्यभेदे। जार्य्यतेऽनेन जॄ–णिच् करणे ल्युट्। २ जारणसाधने द्रव्यभेदे। कर्त्तरि ल्यु। ३ जीरके स्मी ङीप् राजनि०। भावे–ल्युट्। ४ जीर्णतासम्पादने न०।

जारतिनेय = पु० स्त्री जरत्या अपत्यम् ढक् कल्याण्या० इनङ्। १ जरत्या अपत्ये। जरतिनोऽपत्यं शुभ्रा० ढक्। २ जरतिनोऽपत्ये च।

जारभर = पु० जारं बिभर्त्ति पोवयति भृ–पचा० अच्। जारपीषके।

जारित = त्रि० जॄ–णिच्–क्त। १ शोधिते २ मारिते धात्वादौ।

जारी = स्त्री जृ–णिच्–अच् गौरा० ङीष्। (जाडी) ख्याते औषधभेदे मेदि०।

जारु = पु० जृ–उण्। १ जरायौ। “वीजानीतराणि चेतराश्चि चाण्डजानि च जारुजानि च स्वेदजानि च चोद्मिज्जानि” ऐत० उ०। “जारुजानि जरायुजानि मनुष्यादीनि” भाष्यम्। २ जारके त्रि०।

जारुधि = पु० जारुर्जारको द्रव्यभेदो धीयतेऽस्मुइन् धा–आधारे कि उप० स०। सुमेरोः कर्णिकाकेशरभूते पर्वतभेदे। “कुरङ्ग कुरर कुतुम्भ वैकङ्क त्रिकुट शिखर पतङ्ग रुचक निषधशितिवास कपिल शङ्ख वैदूर्य जारुधि हंसर्षभ नागकालञ्जर नीरदादयो गिरयो मेरोः कर्णिकाया इव केशरभूता मूलदेशे परित उपकॢप्ताः” भाग० ५। १६। २२।

जारूथी = स्त्री जरूथेन अमुरविशेषेण निर्वृत्ता अण् ङीप्। नगरीभेदे “जारूथ्यामाहुतिः क्राथः शिशुपालोजनैः सह” भा० व० २२ अ०। “जारूथ्यां नगर्य्याम्” नीलक० “जारूथ्यामाहुतिः क्राधः शिशुपालश्च गिर्जितः” हरिवं० १६ अ०।

जारूथ्य = त्रि० जरूथं मांसं स्तोत्रं वा तदर्हति ञ्य। १ मांसदानपुष्टे २ स्तोत्रार्हे च “दशाश्वमेधानाजह्रे जारूथ्यान् स निरर्गलान्” भा० व० १९ अ०। “जारूथ्यान्त्रिघुणदक्षिणा नित्यर्जुनमिश्रः” तच्चिन्त्यं जॄवॄभ्यामूथन्नित्यूणादिसूत्रे ऊथनि जरूथं भांसमिति शाब्दिकाः तथा च मांसमयान् मांसादिदानप्रधानान् पुष्टानित्यर्थः। जरूथोऽसुरबिशेषः इति वेदभाष्यम्। अत्र जरतेः स्तुत्यर्थस्य शब्दसारूप्यादर्था विरोधाच्च जरूथं स्तोत्रमुच्यत इति जारूथ्यान् स्तोत्रार्हानित्यर्थः” गीलक०। जारूत्थशब्दकल्पनं प्रामादिकमेव।

जाल = पु० न० जल–घाते ज्वला० णु चु० जल–संवरणे कर्त्तरि अच् बा। १ शणसूत्रनिर्मिते स्वनागख्याते पदार्थे अमरः “अभ्याययुश्च तं देशं निश्चिता जालकर्भणि। जालं ते योजयामासुर्निःशेषेण जनाधिप!” मा० अनु० ५० अ०। २ गवाक्षे ३ समूहे च अस्फुटफलादौ ४ क्षारके (जालि)। ५ दम्मे मेदि० गवाक्षो गवाक्षच्छिद्रं तत्र “गवाक्षजालै रभिनिष्पतन्त्यः” भट्टिः सम्हे “नीहारजालमलिनः पुनरुक्तस न्द्राः” “करजालमस्तसमयोऽपि सताम्” माघः “गवाक्षसौधजालपतितां रविभासः” किरा० ६ इन्द्रजाले हेम०। ७ कदम्बवृक्षे पु० मेदिनिः।

जालक = पु० जालमिव कायति कै–क। १ गवाक्षे हेमच०। स्वार्थे क। २ जालशब्दार्थे। “मक्षिकाः मशकान् केशान् जालकानिव पंश्यति” सुश्रु० ३ क्षारके पु० स्त्री स्त्रियां ङीप् शब्दार्थचि०। ४ जालतुल्ये मेषलोम्नि च।

जालकारक = पु० कृ–ण्वुल् ६ त०। जालस्य मक्षिकादिपातनाय जालाकारस्य कारके–मकेटे (माकडसा) हेमच० शाट्येन कृत्रमस्य २ कर्त्तरि त्रि०। शाठ्येन कृतपदार्थस्य स्वरूपाच्छ दकत्वेन जालतुल्यकरणात्तस्य तथा त्वम्।

जालकि = पु० त्रिगर्तषष्ठान्तर्गते आयुधजीविभेदे। “आहुस्त्रिगर्त्तषष्ठांस्तु कौण्डोपरथदाण्डिकिः। क्रोष्टुकिर्जालमालिश्च ब्रह्मगुप्तोऽथ जालकिः”। सि० कौ० ततः स्वार्थे छ। जालकीय तदर्थ। बहुषु लुक्। जालकय इत्येव।

जालकिनी = जालनिव का यति कै–क जालकं देहलोमतदस्त्यस्याः इनि ङीप्। १ मेष्यां त्रिका० २ मेघे पु०।

जालकीट = पु० जाले पतितः कीटोऽस्य। मर्कटे लूतायां (माकडसा) तदीयजाले मशकादीनां पतनात्तस्य तथात्वम्। जालकीटे भवः पलद्या० अण्। २ तद्भवे त्रि०।

जालक्षीर्य्य = न० जाले जालके क्षीरं तत्र साधु यत्। क्षीरविषे वृक्षनेदे। स्थावरविषोपक्रमे “कुमुदव्नी स्नुही जालक्षीर्य्याणि त्रोणि क्षीरपिष णि” सुश्रुतः।

जालगर्द्दभ = पु० क्षुदरोगभेदे। क्षुद्ररीगशब्दे ३३८० पृ० दृश्यम्।

जालगोणिका = जालमिव गोणी यत्र कप् ह्रस्वः। दधिम। न्थनभाण्डे त्रिका०

जालन्धर = पु० दैत्यभेदे “पुरा जालन्धरं दैत्यं ममापि परिकम्पनम्। पादाङ्गुष्ठस्य रेखातश्चक्रं सृष्ट्वा हरोऽहरत्। तच्च चक्रं मया लब्ध्वं नेत्रपद्मार्चनात् विभोः। सुदर्शनाख्यं वैचक्रं देयचक्रविमर्द्दनम्” काशी० २१ अ० ध्रुवं प्रति विष्णोरुक्तिः। २ त्रिगर्त्तशे पु० तद्देशस्य तेन कृतत्वात् तथात्वम्। सोऽभिजनोऽस्य अण्। पित्रादिपरम्परया ३ तद्देशवासिनि। बहुषु तस्यालुक्। ४ ऋषिभेदे पु० ततः सडा० गात्रापत्ये फक्। जालन्धारायण तद्गोत्रा- पत्ये पुंस्त्री०। जालन्धरायणस्य विषयो देशः राजन्या० युञ्। जालन्धरायणक तस्य परिशीलिते देशे पु०।

जालपाद = पु० जालमिव पादोऽस्य हस्त्यादि० नान्त्यलोपः। १ हंसे। “जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ” (नरनारायणौ) भा० शा० ३१४५ अ०। “प्रतुदान् जालपादांश्च कोयष्टिनखविष्किरान्” मनुः “जालपादान् खञ्जरीटानज्ञातांश्च मृगद्विजान्” याज्ञ० तन्मासभक्षणं निषद्धवान्। स्त्रियां कुम्भपद्या० अन्त्यलोपे ङीप् पादः पच्च। जालपदी हंस्याम् वरणादिगणं जानपदीत्यत्र जालपदीति पाठान्तरे जालपद्या अदूरभवो देशः वरणा० अण्। जालपद तस्या अदूरभवदेशे त्रि०। पृषोअन्त्य लोपः। जालपाद् हंसे त्रिका०।

जालप्राया = स्त्री जालस्य प्रायो बाहुल्यं यस्याम्। लोहमयाङ्गरक्षिष्ठां (साजोया) हेमच०।

जालमालि = पु० आयुवजीविगेदे। ततः स्वार्थे छ। तदर्थे जालकिशच्दे दृश्यम्।

जालवर्वुरक = पु० जालाकारो वर्वुरकः। (का~टावावला) वृक्षभेदे। “जालवर्युरको रूक्षो वातरोगकफापहः। पित्तद हकरश्चोष्णः कषायश्च प्रकीर्त्तितः” राजनि०।

जालसरस = न० नित्यक० अच् समा०। सरोवरभेदे।

जालह्नद = त्रि० जलप्रचुरो ह्रदः तत्र भवः तस्येदं वा शिवा० अण्। १ जल चुह्रदभवे २ तत्सस्वन्धिनि च स्त्रियां ङीप्।

जालाक्ष = पु० जालमिवाक्षिषच् समा०। गवाक्षे “हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना” भाग० ८। १५१९।

जालाप्र = न० भेषजभेदे “जालाषेणाभिषिञ्चत जालाषेणोपसिञ्चत। जालाषमुग्रं भेषजं तेन नो मृड जीवथ” अथ० ६। ५। ७। २।

जालिक = पु० जालेन चरति पर्पा० ष्टन्। जालेन जीवति वेतना० ठञ् वा। १ जालजीविनि जालेन २ चारिणि वा ३ कैवर्त्ते त्रिका० ४ मर्कटे हेमच०। ५ जालजीविनि वागुरिके मृगवन्धनार्थं जालपातिनि मृगयुभेद अमरः। ष्ठनि स्त्रियां ङीष् इति भेदः। जालमस्त्यस० ठत। ६ जालोपजाविनि ग्रामजालिनि च त्रि० हेमच०।

जालिका = स्त्री जाल + अस्त्यर्थे ठन्। १ वस्त्रभेदे स्त्रीणां सुखावरणवस्त्रे २ गिरिसारे ३ जलाकायां ४ विधवायां योधानामश्मरचिताङ्गरक्षण्यां (साजोया) च मेदि०। (जालि) ५ क्षारके शब्दार्थ०।

जालिनी = स्त्री जाल + अस्त्यर्थे इनि। १ चित्रशालायां हेमच० २ कोषातकीपृक्षे राजनि०। षोषातक्यां रत्नमा०। ४ पमेहरोगिणां पिडकभेदे सुश्रु०। “तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषेश्चानुगतधातोः प्रमेहिणो दश पिडका जायने। तद्यथा शराविका सर्षपिका कच्छपिका जालिनी विनता पुत्रिणी मसूरिका अलजी विदारिका विद्रधिका चेति। शरावमात्रा तद्रूपा निम्नमध्या शराविका १। गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षणे०। सदाहा कूर्ससंस्थाना ज्ञेया कच्छपिका ३ बुधैः। जालिनी ४ तीव्रदाहा तु मांसजालसमावृता। महती पीडका नीला पिडका विनता५ स्मृता। महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी ६। मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका ७। रक्ता सिता स्फोटवती दारुणा त्वलजी ८ भवेत्। विदारीकन्दवद्वृत्ता कठिना च विदारिका ९। विद्रधेर्लक्षणैर्युक्ता ज्ञेया बिद्रधिका १० बुधैः” सुश्रुतः।

जाली = स्त्री जालमस्त्यस्याः अच् गोरा० ङीष्। १ ज्योत्स्न्यां (झिङ्गा) अमरः २ पटोले राजनि०। (जालि) ३ क्षारके च।

जाल्म = त्रि० चु० जल–बा० म। १ पामरे २ क्रूरे ३ असमीक्ष्यकारिणि च मेदि० “त्वयि पूजनं जगति जाल्म!” भाघः “क्षणं विश्र म्यतां जाल्म! स्कन्धस्ते यदि बाधति। न तथा वाधते स्कन्धा यथा बाधति बाधते” उड्भटः। “जनान् योऽभिभवत्यन्यान् कर्मणा हि स वै पुप्तान्। नत्वे वजाल्मीं कापालीं वृत्तिमेषितुमर्हसि” भा० शा० १३२ अ० स्वार्थे क। तत्रार्थे “मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः” भा० द्रो० १९६ अ०।

जाल्य = पु० जल–ण्यत्। शिवे “मत्स्यो जलचरो जाल्योऽकलः केलिकलः कलिः” भा० शा० २८६ अ० शिवस्तुतौ।

जावन्य = न० जवनस्य भावः दृढा० वा ष्यञ्। वेगे। पक्षे इमनिच् जवनिमनु पु०, तल् जवनता स्त्री, त्व जवनत्व न० तत्रार्थे।

जावायनि = त्रि० जव + चतुरर्त्थां कर्णा० फिञ्। जवयुक्तदेशादौ।

जाषक = न० जाषक + पृषो०। जाषके कालीयनामगन्धद्रव्ये अमरटीकायां संसारसुन्दरी।

जास्कमद = पुं स्त्री पक्षिभेदे। “अनिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्त्रिण” अथ० ११। ९। १

जास्पति = पु० जायते जन–ड + जायाः दुहितुः पतिः वेदे नि०। जामातरि “सदमिज्जास्पतिं वा” ऋ० १। १८५। ८। “जाः पुत्र्यः तासां पतिं जामातरम्” भा०।

जास्पत्य = न० जाया च पतिश्च जायापती तयोर्भापः कर्म वा ष्यञ् पृषो०। जायापत्योः १ कर्मणि “मंजास्पत्यं सुयममा” ऋ० ५ २८, ३ “जास्पत्यं जायापत्योः कर्भ” भा०। २ तद्भावे च।

जाहक = पु० दह–ण्वुल् पृषो०। (थोङ्घ) इति ख्याते १ खगे, २ मार्ज्जारे, ३ खट्टायां ४ कारुण्डिकायां मेदि०। ५ विलेशये जन्तुभेदे राजनि० “जाहकाहिशशक्रडगोधानां कीर्त्तनं शुभम्” वृहत्सं० ८५ अ०।

जाहुष = पु० राजभदे “परिशिष्टं जाहुषं विश्वतः” ऋ० १। ११६२०। “जाहुषः कश्चित् राजा” भा०।

जाह्नवी = स्त्री जह्न + अण् ङीप्। “जानुद्वारा पुरादातां जह्नुः संपीय कोपतः। तस्य कन्यास्वरूपा च जाह्नवी तेन कीर्त्तिता” इत्युक्तनिर्वचनायां गङ्गायाम्। जह्नुशब्दे ३०८१ पृ० दृश्यम् “ज्यैष्ठे मासि क्षि तसुतदिमे शुक्लपक्षे दशम्यां हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम्” ति० त० शङ्खः तस्यां तिथिविशेषे स्नानफलं यथा “सामान्यदिवसस्नानसङ्कल्पं। शृणु सुन्दरि!। पुण्यं दशगुणञ्चैव मौषलस्नानतः परम्। ततस्त्रिंशद्गुणं पुवयं रविसंक्रमणे दिने। अमायाञ्चापि तत्तुल्यं द्विगुणं दक्षिणायने। ततो दशगुणं पुपयं नराणाञ्चोत्तरायणे। चातुर्मास्यां पौर्णमास्यामनन्तं पुपयमेव च। अक्षयायाञ्च तत्तुल्यमेतद्वेदनिरूपितम्। असंख्य पुण्यफलदमेतेषु स्नानदानकम्। साम न्यदिवमस्नानात् दानात् शतगुणं भवेत्। मन्वन्तरायां देवेषि! युगाद्यायां तथैव च। माघस्य सितसप्तयां भीष्माष्ठम्यां तथैव च। ततोऽपि द्विगुणं पुण्यं नन्दाषां भवदुर्लभे!। दशहरादशम्याञ्च युगाद्यादिसमं फलम्। नन्दासमञ्च वारुण्यां महत्पूर्बे चतुर्गुणम्। ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति!। पुण्यं कोटिगुणञ्चैव सामान्यस्नानतो हि यत्। चन्दोपरागसमवे सूर्य्ये दशगुर्ण ततः। पुण्येऽप्यर्द्धोदये काले ततः शतपुणं फलम्। सर्वेषामेव सङ्कल्पं वैष्णवानां विपर्य्ययः” इति ब्रह्मवै० प्रकृतिख०। “अपूरयत्सा जलबिन्न ज ह्ननी” नाधः।

***