जात = त्रि० जन–कर्त्तरि क्त। १ उत्पन्ने २ व्यक्ते च भावे क्त। ४ जन्मनि ५ समूहे च मेदि० तत्र उत्पन्ने “तस्मात् कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति” शत० ब्रा० १४। ४। ३। ४ “सुवीजं चैव सुक्षेत्रे जातं संपद्यते यथा” मनुः संघे “निःशेषविश्राणितकोशजातम्” रघुः। “चतुर्विधस्थूलशरीरजातम्” वेदान्तः। “सर्वेषां धनजातानामाददीताग्र्यमग्रजः” मनुः।
जातक = त्रि० जात + स्वार्थे क। १ उत्पन्ने “उभौ तौ नार्हतो भागं जारजातककामजौ” मनुः। जातं जन्म तदधिकृत्य कृतो ग्रन्थः अण् संज्ञायां कन्। २ होरातन्त्रे। तच्च नानाज्योतिर्विद्भिर्नानाविधं रचितं तत्र वृहज्जातकस्येव अतिप्रामाणिकत्वात् तच्छास्त्रप्रतिपाद्यविषया ग्रन्यकृता २५ अ० वराहमिहिरेणोक्ताः प्रदर्श्यन्ते। “राशिप्रभेदो ग्रहयोनिभेदो वियोनिजन्माथ निषेककालः। जन्माथ सद्योमरणं तथायुर्दशाविपाकोऽष्टकवर्गसंज्ञः। कर्माजीवो राजयोगाः खयोगाश्चान्द्रा योगाद्विग्रहाद्याश्च योगाः। प्रवृज्याथो राशिशीलानि दृष्टिर्भावस्तस्मादाश्रयोऽथ प्रकीर्णः। नेष्टायोना जातकं कामिनीनां निर्याणां स्यान्नष्टजन्मद्रिकाणः। अत्राध्याया विंशतिः पञ्चयुक्ता जन्मन्येतद्यात्रिकं चाभिधास्ये”।
“राशिप्रभदः प्रथमेऽध्याये। ग्रहयोनिभेदः द्वितीये वियोनिजन्म तृतीये। निषेककालश्चतुर्थे। जन्मविधिः पञ्चमे। सद्योमरणं षष्ठे। आयुर्विभागः सप्तमे। दशाविभागोऽष्टमे। अष्टकवर्गो नवमे। कर्माजीवो दशमे। राजयोगा एकादशे। खयोगाः (नाभसयोगाः) द्वादशे। चान्द्रयोगाः सुनफाद्याश्चन्द्रयोगास्त्रयोदशे द्विग्रहत्रिग्रहयोगाश्चतुर्द्दशे। प्रव्रज्यायोगा पञ्चदशे। राशिशीलम् षोडशे। दृष्टिफलं सप्तदशे। भावफलमष्टादशे। आश्रय एकोनविंशतितमे। प्रकीर्णफलम् विंशतितमे। अनिष्टयोगा एकविंशे। कामिनीनां (स्त्रीणां) जातकं द्वाविंशे। निर्याणं (मरणं) तन्निरूपणं त्रयोविंशे। नष्टजातकं चतुर्विंशे। द्रेष्काणस्वरूपादि पञ्चविंशे। एवं पञ्चयुक्ताध्यायानांविंशतिर्जन्मनि जातके कथिता एतज्जातके उक्ताः। जन्मफलं पञ्चमे उक्तं यथा “पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति। विदेशस्थस्य चरभे मध्याद्भ्रष्टे दिवाकरे। उदयस्थेऽपि वा मन्दे कुजे बास्तं ७ समागते। स्थिते वान्तःक्षपानाथे शशाङ्कसुतशुक्रयोः। शशाङ्के पापलग्ने वा वृश्चिकेऽंशत्रिभागगे। शुभैः खायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा। चतुष्पदगते भानौ शैषैर्वीर्यसमन्वितैः। द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ। छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथवा कुजे। राश्यंशसदृशं गात्रं जायते नालवेष्टितः। न लग्नमिन्दुञ्च पुरुर्निरीक्षते न वा शशाङ्कं रविणा समागतम्। सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात्। क्रूरर्क्षगतावशोभनौ सूर्य्याद्द्यून नवात्मजस्थितौ। वद्धस्तु पिता विदेशगः स्वे वा राशिवशादथो पथि। पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे४। लग्ने जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते। आप्योदयमाप्यगः शशी संपूर्णः समवेक्षतेऽथ वा। मेसूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः। उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षते यमे। अलिकर्कियुते विलग्नगे सारे शीतकरेक्षितेऽवटे। मन्देऽब्जगते विलग्नगे बुधसूर्येन्दुनिरीक्षिते क्रमात्। क्रीडाभवने सुरालये सोषरभूमिषु च प्रसूयते। नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे। रविर्नरेन्द्रामरगोकुलेषु शिल्पालये ज्ञः प्रसवं करोति। राश्यंशसमानगोचरे मार्गे जन्मचरे स्थिरे गृहे। स्वर्क्षांश गते स्वमन्दिरे बलयोगात् फलमंशकर्क्षयोः। आरार्कजयोस्त्रिकोणगे चन्द्रेऽस्ते च विसृज्यतेऽम्बया। दृष्टेऽमरराजमन्त्रिणा दीर्घायुः सुखभाक् च स स्मृतः। पापेक्षिते तुहिनगावुदये कुजेऽस्ते त्यक्तो विनश्यति कुजार्क जयोस्तथाये सौम्येऽपि पश्यति तथाविधनस्तमेति सौम्येतरेषु परहस्तगतोऽप्यनायुः। पितृमातृगृहेषु तद्बलात्तरुशालादिषु नीचगैः शुभैः। यदि नैकगतौ तु वीक्षितौ लग्नेन्दू विजने प्रसूयते। मन्दर्क्षांशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयने नीचसंस्थैश्च भूमौ। यद्वद्राशिं व्रजति हरिजं गर्भमोक्षस्तु तद्वत्पापैश्चन्द्रात् स्मरसुखगतैः क्लेशमाहुर्जनन्याः। स्नेहः शशाङ्कादुदयाच्च वर्तिर्दीपोऽर्कयुक्तर्क्षवशाच्चराद्यः। द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्ज्ञेयं ग्रहैर्वीर्यसमन्वितैर्वा। जीर्णं संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ काष्ठाद्यं न दृढं रवौ शशिसुते तन्नैकशिल्प्युद्भवम्। रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं चक्रस्थैश्च यथोपदेशरचनां सामन्तपूर्वां वदेत्। मेषकुलीरतुलालिघटैः प्रागुत्तरतो गुरुसौम्यगृहेषु। पश्चिमतश्च वृषेण निबासो दक्षिणभागकरौ मृगसिंहौ। प्राच्यादिगृहक्रियादयो द्वौ द्वौ कोणगताद्विमूर्त्तयः। शय्यास्वपि वास्तुवद्वदेद् त्र्याद्यैः षट् त्रिनवान्त्यसंस्थितैः। चन्द्रलग्नान्तरगतैर्ग्रहैः स्युरुपंसूतिकाः। बहिरन्तश्च चक्रार्द्धे दृश्यादृश्येऽन्यथा परे। लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा। चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः। क दृक् श्रोत्रनसा कपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठां सकबाहुपार्श्वहृदयं क्रोडानि नाभिस्ततः। वस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी। जङ्घाङ्घ्रीह्युभयत्र वाममुदितैर्द्रेक्वाणभागैस्त्रिधा। तस्मिन् पापयुते व्रणं शुभयुते दृष्टे च लक्ष्मादिशेत् स्वर्क्षांशे स्थिरसंयुते च सहजः स्यादन्यथाऽऽगन्तुकः। मन्देऽश्मानिलजोऽग्निशस्त्र विषजो भौमे वुधे भूभवः सूर्ये काष्ठचतुष्पदेषु द्विमगौ शृङ्ग्यब्जजोन्यैः शुभम्। समनुपतिता यस्मिन् भागे बयः सबुधा ग्रहा भवति नियमात्तस्यावाप्तिः शुभेष्वशु भेषु वा। व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते तिलकमसकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान्” ९ अ० अष्टवर्गफलमुक्तं तच्चाष्टवर्गशब्दे ५२० पृ० दर्शितम्। नाभसादियोगास्तच्छब्दे वक्ष्यन्ते। तत्रोनविंशोरिष्टाध्यायो यथा
“लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथ याऽऽलोकिते चन्द्राद्वा यदि सम्पदस्ति हितयोर्ज्ञेयोऽन्यथासम्भवः। पाथेनोदयगे रवौ रविसुतो मीनस्थितोदारहा पुत्रस्थानगतश्च पुत्रमरणं पुत्रोऽवनेर्यच्छति। उग्रग्रहैः सितचतुरस्रसंस्थितैर्मध्यस्थिते भृगुतनयेऽथवोग्रयोः। सौम्यग्रहैरसहितसंनिरीक्षिते जायाबधोदहननिपातपाशजः। लग्नाद्व्ययारिगतयोः शशितिन्मरश्म्योः षत्न्या सहैकनयनस्य वदन्ति जन्म। द्यूनस्थयोर्नवमपञ्चमसस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम्। कोणोदये भृगुतनयेऽस्तचक्रसन्धौ बन्ध्यापतिर्यदि न सुतर्क्षमिष्टयुक्तम्। पापग्रहैर्व्ययमदलग्नराशिसंस्थैः क्षीणे शशिन्यसुतकलत्रजन्मधीस्थे। असितकुजयोर्वर्गेऽस्तस्थे सिते तदवेक्षिते परयुवतिगस्तौ चेत् सेन्दूस्त्रिया सह पुंश्चलः। भृगुजशशिनोरस्तेऽभार्य्यो नरोविसुतोऽपि वा परिणतुतनूनृस्त्र्योर्दृष्टौ शुभैः प्रमदापती। वंशच्छेत्ता खमदसुखगैश्चन्द्रदैत्येज्यपापैः शिल्पी त्र्यंशे शशिसुतयुते केन्द्रसंस्थार्किदृष्टे। दास्यां जातोदितिसुतगुरौ रिपफगे सौरभागे नीचेऽर्केन्द्वोर्मदनगतयोर्दृष्टयोः सूर्य्यजेन। पापाऽऽलोकितयोः सितावनिजयोरस्तस्थयोर्वाध्यरुक्वेन्दे कर्कट वृश्चिकांशकगते पापैर्युते गुह्यरुक्। श्वित्री रिप्फधनस्थयोरशुभयोश्चन्द्रोदयेऽस्ते रवौ चन्द्रे खेऽवनिजेऽष्टगे च विकलो यद्यर्कजीवेशिगः। अन्तःशशिन्यशुभयोर्मृगगे पतङ्गे स्वासक्षयप्लिहकविद्रधिगुल्मभाजः। शोफीपरस्परगृहांशगयोरवीन्द्वीः क्षेत्रेऽथवा युगपदेकगयोः कृशो वा। चन्द्रेऽश्विमध्यझषकर्किमृगाजभागे कुष्ठी समन्दरुधिरे तदवेक्षिते वा। यातैस्त्रिकोणमलिकर्किवृषैर्मृगे च कुष्टी च पापसहितैरवलोकितैर्वा। निधनारिधनव्ययस्थिता रविचन्द्रारयभा यथा तथा। बलवद्ग्रहदोषकारणैर्मनुजाना जनयन्त्यनेत्रत्पम्। नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः। नियमाच्छ्रवणोपघातदा रदवैकृत्यकराश्च सप्तमे। उदयत्युडपे सरास्यगे सपिशाचोऽशुभयोस्त्रिको- णयोः। तमसोपप्लवमण्डले रवावुदयस्थे नयनोपवर्जितः। संस्पृष्टः पवनेन मन्दगयुते द्यूने विलग्ने हरौ सोन्मादोऽवनिजे स्थितेऽस्तभवने जीवे विलग्नाश्रिते। तद्वत्सूर्य्यसुतोदयेऽवनिसुते धर्मात्मजद्यूनगे जाते वा ससहस्ररश्मितनये क्षीणे व्यये शीतगौ। राश्यंशपोष्णकरशीतकरामरेज्यैर्मीचाधिपांशकगतैरारभावगैर्वा। एभ्योऽल्पमध्यबहुभिः क्रमशः प्रसूताज्ञेयाःस्युरभ्युपगमक्रयगर्भदासाः। विकृतदशनः पापैर्दृष्टे वृषाजहयोदये खलतिरशुभक्षेत्रे लग्नेहये वृषभेऽपि वा। नवमसुतगे पापैर्दृष्टे रवावदृढे क्षणो दिनकरसुतेऽनेकव्याधिः कुजे विकलः पुमान्। व्ययसुतधनधर्मगैरमौम्यैर्भवनसमाननिबन्धनं विकल्प्यम्। भुजगानगडपाशभृद्दृकाणैर्बलवदसौम्यनिरीक्षितैश्च तद्वत्। परुषवचनोऽपस्मारार्त्तः क्षयी च निशापतौ सरवितनये वक्रालोकं गते परिवेषगे। रवियमकुजैः सौम्यादृष्टैर्नभस्थलमाश्रितैर्भृतकमनुजः पूर्वोद्दिष्टैर्वराधममध्यमाः।” चान्द्रयोगास्तु १३ अ० उक्ता यथा।
“अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणानि। अहनि निशि च चन्द्रे स्वाधिमित्रांशके वा सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च। सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिव क्षितिपालजन्मा सम्पन्नसौख्यविभवा हतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाताः। हित्वार्कं सुनफाऽनफा दुरुधुरा स्वान्त्योभयस्थैर्ग्रहः शीताशोः कायतोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ। केन्द्रं शीतकरेऽथवा ग्रहयुते केमद्रुमो नेष्यते केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न तु। त्रिंशत्सरूपाः सुनफाऽनफाख्याः षाष्टत्रयन्दौरुधुरे प्रभेदाः। इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः। स्वयमधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायान्धीघनख्यातमांश्च। प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिर्विषयसुखसुवेषा निर्वृतश्चानफायाम्। उत्पन्नभोगसुखभुग्धनवाहनाढ्यस्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः। केमद्रुमे मलिनदुःखितनीचिनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः। उत्साहशौर्य्यधनसाहसवान् महीजः सौम्यः पटुः सुवचनो निपुणः कलासु। जीवोऽथधर्मसुखभुग् नृपपूजितश्च कामी भृगुर्बहुधनो विषयोपभोक्ता। परविभवपरिच्छदोपभोक्ता रवितनयो बहुकार्य्यकृद्गणेशः। अशुभकृदुडपोऽह्नि दृश्यमूर्तिगीलततनुश्च शुभोऽन्यथान्यदूह्यम्। लग्नादतीव वसुमान् वसुमांच्छशाङ्कात्सौम्यग्रहैरुपचयोपगतैः समस्तैः। द्वाभ्यां समोऽल्पवसुमांश्च तदूनतायामन्येष्वसत्खपि फलेष्विदमुत्कटेन”। द्विग्रहादियोगास्तु १३ अ० उक्ता यथा
“तिम्पांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं भौमेनाघरतं बुधेन निपुणं धीकीर्त्तिसौख्यान्वितम्। क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्लब्धस्वम् रविजेन धातुकुशलं भाण्डप्रकारेषु वा। कूटस्त्र्यासव कुम्भपण्यमशिवं मातुः सवक्रः शशी संज्ञः प्रस्मृतवाक्यमर्थनिपुणं सौभाग्यकीर्त्यान्धितम्। विक्रान्तं कुलमुख्यमस्थिरमतिं वित्तेश्वरं साङ्गिरा वस्त्राणां ससितः क्रयादिकुशलं सार्किः पुनर्भूसुतम्। मूलादिस्नेहकूटैर्व्यवहरति वणिग्बाहुयोद्धा ससौम्ये पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा। गोपो मल्लोऽथ दक्षः परयुवतिरतोद्यूतकृत् सासुरेज्ये दुःखार्त्तोऽसत्यसन्धः समवितृतनये भूमिजे निन्दितश्च। सौम्ये रङ्गवरो वृहस्पतियुते गीतप्रियो नृत्यविद्वाग्मी भूगणपः सितेन मृदुना मायापदुर्लङ्घकः। सद्विद्यो धनदारवान् बहुगुणः शुक्रेण युक्ते गुरौ। ज्ञेयः श्मश्रुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि वा। असितसितसमागमेऽल्प चक्षुर्युवतिसमाश्रयसंप्रवृद्धवित्तः। भवति च लिपिपुस्तचित्रवेत्ता कथितफलैः परतो विकल्पनीयाः”। अथ नक्षत्रभेदे जन्मफलम् वृहज्जातके १६ अ०।
“प्रियभूषणः सुरूपः सुभगो दक्षीऽश्विनीषु मतिमांश्च। कृतनिश्चयः सत्यवाग् दक्षः सुखितश्च भरणीषु। बहुभुक्परदाररतस्तेजस्वी कृत्तिकासु विख्यातः। रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरमतिः सुरूपश्च। चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी। शठगर्वितः कृतघ्नो हिंस्रः पापश्च रौद्रर्क्षे ६। दान्तः सुखी सुशीलो दुर्मेधो रोगभाक् पिपासुश्च। अलपेन च सन्तुष्टः पुनर्वसौ जायते मनुजः। शान्तात्मा सुभगः पण्डितो धनी धर्मसंसृतः पुष्ये। शठसर्वभक्षः पापः कृतघ्नधूर्त्तश्च भौजङ्गे ९। बहुभृत्यधनोभोगी पितृसुभक्तो महोद्यमः पित्र्ये १०। प्रियवाग् दाता द्युतिमानटनो नृपसेवको भाग्ये ११। सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीयफाल्गुन्याम्। उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते। चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च भवति चित्रायाम्। दान्ती बणिक् कृपालुः प्रियवाग् धर्माश्रितः स्वातौ। ईर्ष्युर्लुब्धो द्युतिमान् वचनपटुः कलहकृद्विशाखासु। आढ्यो विदेशवासी क्षुधालुरटनाऽनुराधासु। ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः। मूले मानी धनवान् सुखी नहिंस्रः स्थिरो भोगी। इष्टानन्दकलत्रो मानी दृढः सौहृदश्च जलदेवे २०। वैश्वे २१ विनीतधार्मिकबहुमित्रः कृतज्ञसुभगश्च। श्रीमान् श्रवणे श्रुतवानुदारो धनान्वितः ख्यातः। दाताऽऽढ्य शूरः गीतप्रियो धनिष्ठासु धनलुब्धः। स्फुटवाग् व्यसमी रिपुहा साहसिकः शतभिषजि दुर्ग्राह्यः। भाद्रपदासूद्विग्नः स्त्रीजितधनी पटुरदाता च। वक्ता सुखी प्रजावान् जितशत्रुर्धार्मिको द्वितीयासु। सम्पूर्णाङ्गः सु भगः शूरः शुचिरथर्वान् पौष्णे” २७। जन्मराशिफलम् तत्रैव १७ अ०।
“वृत्ताताम्रदृगुष्णशाकलघुभुक् क्षिप्रप्रसादोऽटनः कामी दुर्बलजानुरस्थिरवनः शूरोऽङ्गनावल्लभः। सेवाज्ञः कुनखी व्रणाङ्कितशिरोमानी सहोत्वाग्रजः शक्त्या पाणितलेऽङ्कितोऽतिचपलस्तोये च भीरुः क्रिये १। कान्तः खेलगतिः पृथूरुवदनः पृष्ठास्यपार्श्वेऽङ्कितस्त्यागी क्लेशसहः प्रभुः ककुदवान् कन्याप्रजः श्लेष्मजः। पूर्वैर्बन्धुधनात्मजैर्विरहितः सौभाग्ययुक्तः क्षमी दीप्ताग्निः प्रमदाप्रियः स्थिरसुहृन्मध्यान्त्यसौख्ये गवि २। स्त्रीलोलः सुरतोपचारकुशलस्ताम्रेक्षणः शास्त्रविद्दूतः कुञ्चितमूर्द्धजः पटुमतिर्हास्येङ्गितद्यूतवित्। चार्वङ्गः गियवाक् प्रभक्षणरुचिर्गीतिप्रियो नृत्यवित् क्लीवैर्याति रतिं समुन्नतनसश्चन्द्रे तृतीयर्क्षगे ३। आवक्रद्रुतगः समुन्नतकटिः स्त्रीनिर्जितः सत्सुहृद्दैवज्ञः प्रचुरालयः क्षयधनैः संयुज्यते चन्द्रवत्। ह्रस्वः पीनगलः समेति च वशं साम्ना सुहृद्वत् सलस्तोयोद्यानरतः स्ववेश्म४ सहिते जातः शशाङ्के नरः। तीक्ष्णः स्थूलहनिर्विशालवदनः पिङ्गेक्षणोऽल्पात्मजः स्त्रीद्वेषी प्रियमांसकानननगः कुप्यत्यकार्ये चिरम्। क्षुत्तृष्णोदरदन्तमानसरुजासंपीडितस्त्यागवान् विक्रान्त स्थिरधीः सुगर्वितमना मातुर्विधेयोऽर्कभे ५। व्रीडामन्थरबारुवीक्षणगतिः स्रस्तांसबाहुः सुखी श्लक्ष्णः सत्यरतः कलासु निपुणः शास्त्रार्थविद्धार्मिकः। मेधावी सुरतप्रियः परगृहैर्वित्तैश्च संयुज्यते कन्यायां ६ परदेशगः प्रियवचाः कन्याप्रजोऽल्पात्मजः। देवब्राह्मणसाधुपूजनरतः प्राज्ञः शुचिः स्त्रीजितः प्रांशुश्चोन्नतनासिकः कृशचलद्गात्रोऽटनोऽर्थान्धितः। हीनाङः क्रयविक्रयेषु कुशलो देबद्वि- नामा सरुग्बन्धूनामुपकारकृद्विरुषितस्त्यक्तस्तुतैः सप्तमे ७। पृथुननयनवक्षावृत्तजङ्घोरुजानुर्जनकगुरु वयुक्तः शैशवे व्याधितश्च। नरपतिकुलपूज्यः पिङ्गलः क्रूरचेष्टो झषकुलिशखगाङ्कच्छन्नपापोऽलिजातः ८। व्यादीर्घास्यशिरोधरः पितृधनत्यागी कविर्वीयवान् वक्ता स्थूलरदश्रवोऽधरनसः कर्मोद्यतः शिल्पवित्। कुब्जांसः कुनखी समांसल भुजः प्रागल्भ्यवान् धर्मविद्बन्ध्रुद्विट् न बलात् समेति च वशं साम्नैकसाध्योऽऽश्वजः ९। नित्यं लालयति स्वदारतनयान् धर्मध्वजोऽधःकृशः स्वक्षः क्षामकटिर्गृहीतवचनः सौभाग्ययुक्तोऽलसः। शीतालुर्मनुजीव्टनश्च मकरे १० सत्वाधिकः काव्यकृल्लुब्धा गम्यजराङ्गनासु निरतः संत्यक्त लज्जीऽघृणश्च। करभगलसिरालुः खरलोमशदीर्घतनुः पृथुचरणोरुपृष्ठजवनास्यकटीजठरः। परवनितार्थपापनिरतः क्षयवृद्धि तः प्रियकुसुमानुलेपनसुहृत् घटजो ११ऽध्व सहः। परजनधनभोक्ता दारवासोऽनुरक्तः समरुचिर शरीरस्तुङ्गनासो वृहत्कः। अभिभवति सपत्नान् स्त्रीजितश्चारुदृष्टिर्द्युतिनिधिधनभोगी पण्डितश्चान्त्यराशौ १२। बलवति राशौ तदधिपतौ च स्ववलयुतः स्वाद्यदि तु हिनांशुः। वथितफलानामविकलदाता शशिवदतोन्ये त्वनुपरिचिन्त्याः”। सूर्य्यादिप्रहस्थितराशिफनम् तत्रैव १८ अ० उक्तं यथा
“प्रथितश्चतुरोऽटनोऽल्पवित्तः क्रियगे १ त्वायुधभृद्वितुङ्गभागे। गबि २ वस्त्रसुगन्धपण्यजीवी वनिताद्विट् कुशलश्च गेयवाद्ये। विद्याज्योतिषवित्तवान् मिथुनगे३ भानौ कुलीर ४ स्थिते तीक्ष्णोऽस्वः परकार्य्यकृच्छ्रमपरः क्लेशैश्च संयुज्यते। सिंहस्थे ५ वनशैलगोकुलरतिर्वीर्य्यान्वितोऽज्ञः पुमान्, कन्थास्थे ६ लिनिलेख्यकाव्यगणितज्ञानान्वितः स्त्री वपुः। जातस्तोलिनि ७ शौ ण्डकोऽध्वनिरतो हैरण्यको नीचकृत् क्रूरः साहसिको विषार्जितधनः शस्त्रान्तगोऽलि८ स्थिते। सत्पूज्यो धनवान् धनुर्द्धरगते९ तीक्ष्णो भिषक्लारुको नीचोऽज्ञः कुबणिग्गृगे १०ऽल्पधनवाल्लु~ब्धोऽन्यभाग्ये रतः। नीचो घटे११ तनयभाग्यपरिच्युतोऽस्वस्तोयोत्थपण्यविभवो वनितादृतोन्त्ये १२। सू०। नक्षत्रमानवतनुप्रतिमे विभागे लक्ष्मादिशेत्तुहिनरश्मिदिनेशयुक्ते। नरपति सत्कृतोऽटनश्चमूपबणिक्सधनाः क्षततनुश्चोरभूरिविषयांश्च कुजः स्वगृहे १। ८। युवतिजितान् सुहृत्सु विषमान् परदारातान् कुहकसुबेषभीरुपरुषान् सितभे २। ७ जनयेत्। बौधे ३। ६ऽसहस्तनयवान् विसुहृत् कृतज्ञो गान्धर्वयुद्धकुशलः कृपणो–ऽभयोऽर्थी। चान्द्रे४ऽथवान् साललयानसमर्जितः स्वः प्राज्ञश्च भूमितनये विकलः खलश्च। “नस्वःक्लेशसहो वनान्तरचरः सिंहे४ऽल्पदारात्मज जैवे ९। १२ऽनैकरिपुर्नरेन्द्रसचिवः ख्यातोऽमयोलप त्मजः। दुःखार्तो विधनोऽटनोऽनृतरतस्तीक्ष्णश्च कुम्भ ११ स्थिते भौमे भूरिधनात्मजो मृग १० गते भूपोऽथवा तत्समः। म०। द्यूतर्णपानरतनास्तिकचौरनिःखाः कुस्त्रीककूटकृदसत्यरताः कुजर्क्षे १। ८। आचार्य्यभूरिसुतदारधनार्जनेष्टाः शौक्रे २। ७ वदान्यगुरुभक्तिरताश्च सौम्ये। विकत्थनः शास्त्रकलाविदग्धः प्रिधंवदः सौख्यरतस्तृतीये ३ जलाजितखः स्वजनस्य शत्रुः शशाङ्कजे शीतकरर्क्ष ४ युक्ते। स्त्रीद्वेष्यो विधनसुखात्मजोऽटनोऽज्ञः स्त्रीलोलः सुपरिभवोऽर्क५ राशिगेज्ञे। त्यागी ज्ञः प्रचुरगुणः सुखी क्षमावान् युक्तिज्ञो विगतभयश्च षष्ठराशौ ६। परकर्मकृदखः शिल्पबुद्धिरृणवान् विष्टिकरो बुधेऽर्कजर्क्षे १०। ११। नृपसत्कृतपण्डिताप्तवाक्यो नवमे ९। १२ऽन्त्ये जितसेवकोन्त्य शिल्पः” बु०। सेनानीर्बहुवित्तदारतनयो दाता सुभृत्यः क्षमी तेजोदारगुणान्वितः सुरगुरौ ख्यातः पुमान् कौजभे १। ८। कल्याङ्गः समुखोऽर्थमित्रतनयस्त्याभी प्रियः शौक्रभे २। ७। बौधे ३। ६ भूरिपरिच्छदात्मजसुहृत्साचिव्ययुक्तः सुखी। चान्द्रे ४ रत्नसुतस्वदारविभवः प्रज्ञासुखैरन्वितः सिंहे स्याद् बलनायकः सुरगुरौ प्रोक्तञ्च यच्चन्द्रभे। स्वर्क्षे ९। १२। माण्डलिको नरेन्द्रसचिवः सेनापतिर्वा धनी कुम्भे ११ कर्कटवत् फलानि मकरे १० नीचोऽल्पवित्तोऽसुखी। वृ०। परयुवतिरतस्तदर्थवादैर्हृतविभवः कुलपांसनः कुजर्क्षे १। ८। सबलमतिधनो नरेन्द्रपूज्यः स्वजनविभुः प्रथितोऽभयः सिते स्वे २। ७। नृपकृयकरोऽर्थवान् कलाविन्मिथुने ३ षष्ठगते ६ऽतिनीचकर्मा। रविजर्क्ष १०। ११ गतेऽमरारिपूज्ये सुभगः स्त्रीविजितो रतः कुनार्याम्। द्विभार्य्योऽर्थी भीरुः प्रबलमदशोकश्च शशिभे ४ हरौ योषाप्तार्थः प्रवरयुवतिर्मन्दतनयः। गुणैः पूज्यः सस्वस्तुरग९ सहिते दानवगुरौ झवे १२ विद्वानाढ्यो नृपजनितपूजोऽतिसुभगः। शु०। मूर्खोऽटनः कपटवान् विसुहृद्यमेऽजे१ कीटे ८ तु बन्धबधभाक् चपलोऽघृणश्च। निर्ह्रीसुखार्थतनयः स्खलितश्चलेख्ये रक्षापमिर्भवति–मुख्यपतिश्च बौधे ३ ६। वर्ज्यस्त्रीष्टोनबहुविभवो भूरिमार्य्यो वृषस्थे २ ख्यातः स्वोच्चे७ गणपुरवसग्रामपूज्योऽर्थवांश्च। ४ कर्किण्यस्त्रो-ऽविकलदशनी मातृहीनीऽसुतोऽज्ञः सिंहे५ऽनार्य्यो विसुखतमयो विष्टिकृत् सूर्य्यपुत्रे। स्वन्तःप्रत्ययितो नरेन्द्रभवने सत्पुत्रजायाधनो जीवक्षेत्र ९ १२ गतेऽर्कजे पुरबलग्रामाग्रनेताऽथ वा। अन्थस्त्रीधनसंवृतः पुरबलग्रामाग्रणीर्मन्ददृक्स्वक्षेत्रे १० ११। मलिनस्थिराथविभवो भोक्ता च जातः पुमान्। श०। शिशिरकरसमानमीक्षणानां सदृशफलं प्रवदन्ति लग्नजातम्। फलमधिकमिदं यदत्र तत्तद्भवनभनाथगुणैर्विचिन्तनीयम्”। लग्नतदंशयोर्ग्रहदृष्टिफलम् १९ अ० तत्रैवोक्तं यथा “चन्द्रे भूपबुधौ नृपोपमगुणी स्तेनोऽधनश्चा १ जगे निःखः स्तेन नृमान्यभूपधनिनः प्रेष्यः कुजाद्यैर्गवि २। नृस्थे ३ऽयोव्यवहारिपार्थिवबुधाभीस्तन्तुवायो धनी स्वर्क्षे ४ योद्धृकविज्ञभूमिपतयोऽयोजीविर्हृद्रोगिणौ। ज्योतिर्ज्ञास्वनरेन्द्रनापितनृपक्ष्मेशा बुधाद्यैर्हरौ ५ तद्वद्भूपचमूपनैपुणयुताः षष्ठे६ शुभैस्त्र्याश्रयः। जूके७ भूपसुवर्णकारबणिजः शेषेक्षिते नैकृती, कीटे ८ युग्मपिता नतश्च रजकोऽव्यङ्गोऽधनो भूपतिः। ज्ञात्युर्वीशजनाश्रयश्च तुरगे ९ पापैः सदम्भः शठश्चाप्युर्वीशनरेन्द्रपण्डितधनी द्रव्योनभूपो मृगे १०। भूपो भूपसमोऽन्यदारनिरतः शेषैश्च कुम्भस्थिते ११ हास्यज्ञो नृपतिर्बुधश्च ह्यषगे१२ पापश्च पापेक्षिते। होरेशर्क्ष दलाश्रितैः शुभुकरोदृष्टः शशी तद्गतस्त्र्यंशे तत्पतिभिः सुहृद्भवनगैर्वा वीक्षितः शस्यते। यत् प्रोक्तं प्रतिराशिवीक्षणफलं तद्द्वादशांशे स्मृतं सूर्य्याद्यैरवलोकितेऽपि शशिनि ज्ञेयं नवांशेष्वतः। आरक्षिको बधरुचिः कुशलो निशुद्धे भूपोऽर्थवान् कलहकृत् क्षितिजांशसंस्थे। मूर्खोऽन्यदारनिरतः सुकविः सितांशे सत्काव्यकृत् सुखपरोऽन्यकलत्रगश्च। बौधे हि रङ्गचरचौरकवीन्द्रमन्त्री गेयज्ञशिल्पनिपुणः शशिनि स्थितेऽंशे। स्वांशेऽलपगात्रधनलुब्धतपस्विमुख्यः स्त्रीपौष्टिकृत्यनिरतश्च निरीक्ष्यमाणे। सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽति हिंस्रकर्मा। जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञ सचिवविकामवृद्धशीलः। अल्पापत्यो दुःखितः सत्यपिः स्वे मानासक्तः कर्मणि खेऽनुरक्तः। दुष्टस्त्रीष्टः कार्पणश्चार्किभागे चन्द्रे मानौ तद्वदिन्द्वादिदृष्टे। वर्गोत्तमखपरगेषु शुभं यदुक्तं तत्पुष्टमध्यलघुताशुभमुत्क्रमेण। वीर्य्यान्वितोऽंशकपतिर्निरुणद्धि पूर्वं राशीक्षणस्य फलमंशफलं ददाति”। जन्मादिद्वादशभावस्थसूर्य्यादिग्रहफलम् तत्रैव२० अ० उक्तं यथा
“शूरस्तब्धो विकलनयनो निर्घृणोऽर्के तनुस्थे मेषे सस्वस्तिभिरनयनः हिंह ५ संस्थे निशान्धः। नीचे ७ऽन्धोऽस्वः शशिगृह४ गते बुद्बुदाक्षः पतङ्गे भूरिद्रव्यो नृपहृतधनोवक्त्ररोगी द्वितीवे २। मतिविक्रमवान् तृतीय३ गेऽर्के विसुखपीडितमांनसश्चतुर्थे४। असुतो धनवर्जितस्त्रिकोणे५ बलवाञ्छत्रुजितश्च शत्रु६ याते। स्त्रीभिर्गतः परिभवं मदगे ७ पतङ्गे स्वल्पात्मजोनिधनगे ८ विकलेक्षणश्च। धर्मे९ सुखार्थसुखभाक् सुतशौर्यभाक् स्वे १० लाभे ११ प्रभूतधनवान् पतितस्तु रिप्फे १२। सू०। मूकोन्मत्तजडान्धहीनबधिरप्रेष्याः शशाङ्कोदये १ स्वर्क्षाजोच्चगते धनो बहुसुतः सखः कुटुम्बी धने २। हिंस्रो भ्रातृ ३ गते सुखे सतनये ५ तत्प्रोक्तभावान्वितो नैकारिर्मृदुकायवह्निमदनस्तीक्ष्णोऽलसश्चारिगे ६। ईर्ष्युस्तीव्रमदी मदे ७ बहुमतिर्व्याध्यर्दितश्चाष्टमे ८ सौभाग्यात्मजमित्रबन्ध्धनभाक् धर्म ९ स्थिते शीतगौ। निष्पत्तिं समुपैति धर्मधनधीशौर्य्यैर्युतः कर्मगे १० ख्यातो भावगुणान्विते भव ११ गते क्षुद्रोऽङ्गहीनो व्यये १२। च०। “लग्ने१ कुजे क्षततनुर्धनगे २ कदन्नोधर्मे९ऽर्थवान् खरकरप्रतिमोऽन्यसंस्थः। म०। विद्वान् धनी प्रखलपण्डितमन्त्रशत्रुर्धर्म्मज्ञविश्रुतगुणः परतोऽर्कवज्ज्ञे। बु०। विद्वान् सुवाक्यः कृपणः सुखी च धीमानशत्रुः पितृतोऽधिकश्च। नीचस्तपस्वी सधनः सलाभः खलश्च जीवे क्रमशो विलग्नात्। वृ० स्मरनिपुणः सुखितश्च विलग्ने प्रियकलहोऽस्त७ गते सुरतेप्सुः। तनय५ गते सुखितो भृगुपुत्रे गुरुवदतोऽन्यगृहे द्रविणी स्यात्। शु०। अदृष्टार्थो रोगी मदनवशगोऽत्यन्तमलिनः शिशुत्वे पीडार्त्तः सवितृसुतलग्नेऽत्यलसवाक्। गुरु ९। १२स्व १०। ११ र्क्षोच्च७ स्थे नृपतिसदृशो ग्रामपुरपः सुविद्वांश्चार्वङ्गोदिनकरसमोऽन्यत्र कथितः। श०। सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां फलमनु परिचिन्त्यं लग्नदेहादिभावैः। ससुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतं रिप्फषष्ठाष्टमेषु। उच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः शुभं संपूर्णपादोनदलपादाल्पनिःफलम्”। आश्रयफलं तत्रैव २१ अ० उक्तं यथा।
“कुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभोगिनृपाः स्वभैकवृद्ध्या। परविभवसुहृत्स्वबन्धुपोष्या गणपबलेश नृपाश्च मित्रभेषु। जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरधनसमेतं मित्रयोगाच्च सिद्धम्। विधनविसुखमूढव्याधितो बन्धतप्तो बधदुरितसमेतः शत्रुनीचर्क्षगेषु। न कुत्भलग्नं शुभमाह सत्यो न भागभेदाद् यवना वदन्ति। कस्यांशभेदो न तथास्ति राशेरतिप्रसङ्गस्त्विति विष्णुगुप्तः। यातेष्वसत्स्वसमभेषु दिनेशहोरां ख्यातो महोद्यमवलार्थयुतोऽतितेजाः। चान्द्रीं शुभेषु युजि मार्दवक्रान्तिसौख्यसौभाग्यधीमधुरवाक्ययुतः प्रजातः। तास्वेव होरास्वपरर्क्षगेषु ज्ञेया नराः पूर्वगुणेषु मध्याः। व्यत्यस्तहोरा भवनस्थितेषु मर्त्या भवन्त्युक्तगुणैर्विहीनाः। कल्याणरूपगुणमात्मसुहृद्दृकाणे चन्द्रोऽन्थगस्तदधिनाथगुणं करोति। व्यालोद्यतायुधचतुश्चरणाण्डजेषु तीक्ष्णोऽतिहिंस्नगुरुतल्परतीऽटनश्च। स्तेनो भोक्ता पण्डिताढ्यो नरेन्द्रः क्लीवः शूरो विष्टिकृद्दासवृत्तिः। पापो हिंस्नोऽभीश्च वर्गोत्तमांशेष्वेषामीशाराशिवद्द्वादशांशैः। जायान्वितो बलविभूषणसत्वयुक्तस्तेजोऽतिसाहसयुतश्च कुजे स्वभागे। रोगी मृतस्वयुवतिर्विषमोऽन्यदारो दुःखी परिच्छदयुतो मलिनोऽर्कपुत्रे। स्वांशे गुरौ धनयशःसुखबुद्धियुक्तास्तेजस्वि पूज्यनिरुगुद्यमभोगवन्तः। मेधाकलाकपटकाव्यविवादशिल्पशास्त्रार्थसाहसयुताः शशिजेऽतिमान्याः। स्वे त्रिंशांशे बहुसुतसुखारोग्यभाग्यार्थरूपः, शुक्रे तीक्ष्णः सुललितवपुः सुप्रकीर्णेन्द्रियश्च। शूरस्तब्धौ विषमबधकौ सद्गुणाद्यौ सुखिज्ञौ चार्वङ्गेष्टौ रविशशियुतेष्वारपूर्वांशकेषु” प्रकीर्णकफलं तत्रैव २३ अ० उक्तं यथा
“स्वर्क्षतुङ्गमूलत्रिकीणगाः कण्टकेषु यावन्त आश्रिताः। सर्व एव तेऽन्योन्यकारकाः कर्मगस्तु तेषां विशेषतः। कर्कटोदयगते यथोडुपे स्वोच्चगाः कुजयमार्कसूरयः। कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्बराम्बुगः। स्वत्रिकोणोच्चगो हेतुरन्योन्यं यदि कर्मगः। सुहृत्तद्गुणसम्पन्नः कारकश्चापि स स्मृतः। शुभं वर्गोत्तमे जन्म वेशिस्थाने च सद्ग्रहे। अशून्येषु च केन्द्रेषु कारकाख्यग्रहेषु च। मध्ये वयसः सुखप्रदाः केन्द्रस्था गुरुजन्मलग्नपाः। पृष्ठोभयकोदयर्क्षगास्त्वन्तेऽन्तःप्रथमेषु पाकदाः। दिनकररुधिरौ प्रवेशकाले गुरुभृपुजौ भवनस्य मध्ययातौ। रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालम्”। स्त्रीजन्मनि विशेषस्तत्रैवोक्तः २४ अ० यथा “यद्यत्फलं नरभवेऽक्षममङ्गनानान्तत्तद्वदेत् पतिषु वा सकलं विधेयम्। तासां तु भर्तृमरणं निधने वपुस्तु लग्नेन्दुगे सुभगताऽस्तमये पतिश्च। युग्मेषु लग्नशशिनोः प्रकृतिस्थिता स्त्री सच्छीलभूषणयुता शुभदृष्टयोश्च। ओज- स्थयोश्च पुरुषाकृतिशीलयुक्ता पापा च पापयुतवीक्षितयोर्गुणोना। कन्यैव दुष्टा व्रजतीह दास्यं साध्वी समा या कुचरित्रयुक्ता। भूम्यात्मज१। ८ र्क्षे क्रमशोऽंशकेषु वक्रार्किजीवेन्दुजभार्गवाणाम्। दुष्टा पुनर्भूः सगुणा कलाज्ञा ख्याता गुणैश्चासुरपूजितर्क्षे। स्यात् कापटी क्लीवसमा सती च बौधे ३। ६ गुणाद्या प्रविकीर्णकामा। स्वच्छन्दा पतिघातिनी बहुगुणा शिल्पिन्यसाध्वीन्दुभे ४ऽनाचारा कुलटार्कभे५ नृपबधूः पञ्चेष्टिताऽगम्यगा। जैवे (९। १२) नैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सती। दासी नीचरतार्किभे (१०। ११) पतिरता दुष्टप्रजा स्वांशकैः। शशिलग्नसमायुक्तैः फलं त्रिंशाशकैरिदम्। वलाबलविकल्पेन तयोरुक्तं विचिन्तयेत्। दृक्संस्थाबसितसितौ परस्परांशे शौक्रे वा यदि घटराशिसम्भवोऽंशः। स्त्रीभिः स्त्री मदनविषानलं प्रदीप्तं संशान्तिं नयति नराकृतिस्थिताभिः। शून्ये कापुरुषोऽबलेऽस्तभवने सौम्यग्रहावीक्षिते क्लीवोऽस्ते बुधमन्दयोश्चरगृहे नित्यं प्रवासान्वितः। उत्सृष्टा रविणा कुजेन विधवा वाल्येऽस्तराशिस्थिते कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां गच्छति। आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भूर्भवेत् क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्ये स्थिते प्रोज्झिता। अन्योन्यांशगयोः सितावनिजयोरन्यप्रसक्ताङ्गना द्यूने वा यदि शीतरश्मिसहितौ भर्त्तुस्तदानुज्ञया। सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं वन्धकी पापदृष्टे। र्कौजेऽस्तांशे सौरिणा व्याधियोनिश्चारुश्रोणी वल्लभा सद्ग्रहांशे। वृद्धो मूर्खः सूर्यजर्क्षेऽंशके वा स्त्रीलोलः म्यात् क्रोधनश्चावनेये। शौक्रे कान्तोऽतीव सौभाग्ययुक्तो विद्वान् भर्त्ता नैपुणज्ञश्च बौधे। मदनवशगतो मृदुश्च चान्द्रे त्रिदशगुरौ गुणवान् जितेन्द्रियश्च। अतिमृदुरतिकर्मकृच्च सौर्ये भवति गृहेऽस्तमयस्थितेऽंशके वा। ईर्व्यान्विता सुखपरा शशिशुक्रलग्ने ज्ञेन्द्वोः कलासु निपुणा सुखिता गुणाढ्या। शुक्रज्ञयोस्तु रुचिरा सुभगा कलाज्ञा त्रिष्वप्यनेकवसुसौख्यगुणा शुभेषु। क्रूरेऽष्टमे विधवता निधनेश्वरेऽंशे यस्य स्थितो वयसि तस्य समे प्रदिष्टा। सत्स्वर्थगेषु मरणं स्वयमेव तस्याः कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ। सौरे मध्यबले बलेन रहितैः शीतांशुशुक्रेन्दुजैः शेषैर्वीर्यसमन्वितैः पुरुषिणी यद्योजराश्युद्गमः। जीवारास्फुजिदैन्दवेषु वलिषु प्राग्लग्नराशौ समे विख्याबा भुवि नैकशास्त्र- निपुणा स्त्री ब्रह्मवादित्यपि। पापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन। उद्बाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतत्”। जातकपद्धत्यादौ विस्तरो दृश्यः। ५ सुन्दरे त्रि० चतुर्जातकम्।
जातकचक्रम् = ज्यो० उक्ते जातस्य शुभाशुभसूचके चक्रभेदे तच्च चक्रं ज्यो० त० उक्त यथा
“युद्धजयार्णवे यस्मिन्नृक्षे स्थितोभानुस्तदादित्रीणि मस्तके। मुखे त्रीणि तथा द्वे भे स्कन्धयोर्भुजयोरुभे। द्वे हस्तयोः पञ्च हृदि नाभावेकं तथा गुदे। तथा जानुयुगे द्वेद्वे पादयोर्जलधिं४ न्यसेत्। चरणर्क्षेषु यो जातः सोऽल्पायुर्भवति प्रिये!। जानुनोर्भ्रमणाशक्तो गुह्येस्यात् पारदारिकः। नाभौ स्वल्पधनो देवि। हृदये स्यान्महाधनः। पाण्योर्जातो भवेच्चौरो भुजयोर्दुःखभाजनम्। स्कन्धयोर्भोगभोगी च मुखे धर्मरतो धनी। मूर्द्ध्नि राजा भवेद्देवि! वालानां जन्मतोवदेत्”। स्वरोदये। “मुखे शीर्षे शतं वर्षं नवतिः स्कन्धयोर्द्वयोः। पञ्चापीतिहृदि प्रोक्ता हस्तयोः सप्ततिः क्रमात्। बाह्वोः षट्षष्तिवर्षाणि गुह्ये षटषष्टिका क्रमात्। पञ्चाशत् जङ्घयोः पादे निर्द्धनश्चाल्पजीवनः”।
जातकर्म्मन् = न० जाते कर्म। पुत्रजन्मनिमित्ते पितृकर्त्तव्ये पुत्रसस्कारभेदे। तच्च आश्व० गृ० १। १५। १ दर्शितं यथा।
“कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् “प्र ते ददामि मधुनी घृतस्य वेदं सवित्रा प्रसूतं मघोनाम्। आयुष्मान् गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्निति”। सू०। “इदं जातकर्म। कुमारग्रहणं कुमारीनिवृत्त्यर्थम। ननु कुमार्य्या अपि भवत्येव जातकर्म। कुतः। वक्ष्यति “आवृतैव कुमार्याः” इति, उच्यते। प्रवासादागतस्य विहितं कर्मावृता भवति न जातकर्म अनन्तरत्वात्। एवमेके अन्ये पुरनरावृतैव कुमार्या इत्येतदुभयार्थमिति वदन्ति। तेन कुमार्या अपि जातकर्म भवति। मनुनाप्युक्तम् “अमन्त्रिका तु कार्य्येयं स्त्रीणामावृदशेषतः” इति। तहि कुमारग्रहणं किमर्थम्? अधिकारार्थम्। “अष्टमे वर्षे ब्राह्मणमुपनयेदित्युपनयनं कुमारस्येव यथा स्यात् न कुमार्या इति। ननु ब्राह्मणमिति पुंलिङ्गनिर्देशादेव न भविष्यति। न जातिनिर्देशे लिङ्गमविवक्षितम्। यथा ब्राह्मणो न हन्तव्य इति ब्राह्मण्यपि न हन्यते एवमत्रापि स्त्रियाः प्रसज्यते तन्निवृत्त्यर्थं कुमारग्रहणमिति। जातग्रहणमप्यधिकारार्थम्। “गोदानं षोडशे वर्षे” इति जन्मतः प्रभृतिषोडशोयथा स्यात् उपनयनप्रभृति मा भूदिति। पुरा पूर्वमित्यर्थः अन्यग्रहणमनधिकृतालम्भनात् प्राक् कर्म कर्त्तव्यमित्येवमर्थम्। सर्पिर्मधुनी हिरण्येन निकाशयति। ते हिरण्यसंसृष्टे हिरण्येन प्राशयेत् मातुरुपस्थ आसीनं “प्र ते ददामीति” मन्त्रेण नारा० वृ०।
“कर्णयोरुपनिधाय मेधाजननं जपति। “मेधान्ते देवः सविता मेधां देवी सरस्वती। मेधान्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ”। सू० “अस्य कर्णयोः हिरण्यं निधाय मेधाजननं जपति मेधान्त इति। उपग्रहणं तस्य मुखसमीपे आत्मनोमुखं निधाय जपार्थं मेधा जननमित्यस्य मन्त्रस्याख्या सकृन्मन्त्रः। पर्यायेणोपनिधानमित्येके। अन्ये मन्त्रावृत्तिमिच्छन्ति” नारा० “गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिवन्धनैः। प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते” मनुः। “नाभिवर्द्धनात् नाभिसम्बन्धात् नाडीच्छेदनात्। वैजवापिः “जन्मनोऽनन्तरं कार्य्यं जातकर्म यथाविधि। दैवादतीतः कालश्चेत् अतीते सुतके भवेत्”। एवञ्च, “मृदुध्रुवचरक्षिप्रभेष्वेषामुदयेऽपि वा। गुरौ शुक्रेऽथ वा केन्द्रे जातकर्म्म च नाम च” इति ज्योतिःशास्त्रोक्ते र्दैवात् कालोत्कर्षे वेदितव्यम्। अनुत्कर्षेऽपि नक्षत्रादिनियमो न, नैमित्तिकस्य निमित्तान्तरभावित्वेन निरवकाशत्वात् ज्यो० त०।
जातमात्र = त्रि० जात एव। सद्योजाते। “जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत्” पञ्चत०।
जातरूप = न० जातं प्रशस्तं जात + प्राशस्त्ये रूपप्। १ स्वर्णे २ धूस्तूरवृक्षे पु० अमरः। ३ उत्पन्नरूपे त्रि०। “न जातरूपच्छदजातरूपता” नैष०। “कमण्डलुमुपादाय जातरूपमयान् शुभान्” भा० स० ४७ अ०।
जातविद्या = स्त्री जाते निष्पन्ने होमादौ विद्या विद्यतेऽनया विद्या प्रायश्चित्तज्ञापिका वाक्। होमादि निष्पत्त्यनन्तरं प्रायश्चित्तबोधके वाक्यभेदे “ब्रह्मा त्वो वदति जातविद्याम” ऋ० १०। ७१। १२। “जाते जाते कर्त्तव्ये प्रायश्चित्तादौ विद्यां वेदयित्रीं वाचं वदति ब्रह्मा हि सर्वं वेदितुं योग्यो भवति स्वजु” भा०।
जातवेदस् = पु० जातं सद्योजातं विन्दति प्राप्नोति विद- लाभे असुन्। १ वह्नौ अमरः तस्य तथात्वञ्च ऋ० ३। १। २० उक्तं “जन्मन् जन्मन् निहितो जातवेदाः” “जन्मन् जन्मन् सर्वेषु मनुष्येषु निहतो जातवेदाः” भा०। जातमात्रस्य ज ठरानलसम्पर्कात्तस्य तथात्वम्। २ जातानां वेत्तरि च “आदाब जातवेदः” ऋ० १। ४४। १। हे जातवेदः जातानां वेदितः” भा० निरुक्ते ७। १९। तस्य बहुधा व्युत्पत्तिर्दर्शिता यथा “जातवेदाः कस्माज्जातानि वेद जानाति वैनं विदुर्जाते जाते विद्यत इति वा जातवितो वा जातधनो जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति ब्राह्मणम्। तस्मात् सर्वानृतून् पशवोऽग्निमभिसर्पन्तीति च” ३ जातप्रज्ञे ४ जातधेने ५ सूर्य्ये च “उदु त्यं जातवेदसं देवं वहन्ति केतवः” ऋ० १५०। १। “जातवेदसः जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा” भा० “पञ्चमः पञ्चतपसां तपनो जातवेदसाम्” “विदुद्युते बाडवजातवेदसाम्” माघः जातवेदस इदं स देवताऽस्य वा अण्। जातवेदस तत्सम्बन्धिनि त्रि०। “प्र नूनं जातवेदसमश्वम्” निरु० ७। २० धृता ऋक्। तद्देवताके सामभेदे मन्त्रे तृचे च तत्रैव निरुक्ते “तदेकमेव जातवेदसं गायत्रं तृचं दशतयोषु विद्यते यत्तु किञ्चिदाग्नेयं तज्जातवेदसां स्थाने यज्यते” इत्युपक्रमे “उत्तरे ज्योतिषी जातवेदसी उच्येते” भा०।
जातायन = पुंस्त्री जातस्य गोत्रापत्यम् अश्वा० फञ्। जातस्य गोत्रापत्ये स्त्रियास्तु जातायाः अपत्यम् ढक्। जातेय जाताया अपत्ये पुंस्त्री।
जाति = स्त्री जन–क्तिन्। १ जन्मनि, २ अनुगतैकाकारबुद्धिजननसमर्थे, अवयवव्यङ्ग्ये सकृदुपदेशव्यङ्ग्ये च ३ धर्मभेदे, व्याकरणोक्ते पौत्राद्यपत्यात्मके ४ गोत्रे, ५ वदशाखाभेदे च। न्यायोक्ते साधर्म्म्यवैधर्म्म्याभ्यां व्याप्तिनिरपेक्षाभ्यां वादिवाक्येषु ६ दूषणदानरूपे वाक्ये, ७ षड्जादिषु सप्तसु स्वरेषु, ८ अलङ्कारभेदे, ९ चूल्ल्याम्, शब्दार्थचि०। आमलक्यां, १० जातिफले, ११ मालत्यां, (चामेली) पुष्पप्रधानवृक्षे च मेदि० १२ काम्पिल्ले विश्वः। तत्र व्याकरणोक्ते जातिलक्षणं यथा “चाकृतिग्रहणा जातिर्लिङ्गानाञ्च न सर्वभाक्। सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह” भा०। अस्यार्थः। आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानम्। गृह्यतेइति ग्रहणं ज्ञानम्। आकृत्या ग्रहणं यस्याः सा आकृतिग्रहणा। जातिराकृतिग्रहणा संस्थानव्यङ्ग्येत्यर्थः। तेन मनुष्यगोमृगहंसादीनां पृथक् पृथक्संस्थानैर्व्यज्यमानत्वात् मनुष्यत्वगोत्वमृगत्वहंसत्वा दिर्जातिः। एवं ब्राह्मणक्षत्त्रियवैश्यशूद्राणां पृथक् संस्थानाभावात् ब्राह्मणत्वादेर्जातित्वं न स्यादिति लक्षणान्तरमाह लिङ्गानाञ्च न सर्वभागिति। या सर्वाणि लिङ्गानि न भजते सा च जाति रित्यर्थः। स्त्रीपुंसयोरपत्यन्ताद्विचतुःषट्पदोरगाः। जातिभेदाः पुमानाख्या” इत्यररसिंहेन जातिभेदानां स्त्रीपुंसयोरेवेति नियमेन ब्राह्मणादीनां सर्वलिङ्गभागित्वाभावाज्जातित्वम्। किन्तु अज्ञातहंसस्य जनस्य हसं दृष्टवतोऽपि तस्य संस्थानेन हंसत्वं व्यञ्जितुं न शक्यते इति हंसत्वस्यापि जातित्वं न स्यादिति पूर्वलक्षणस्य दोषः। एवं देवदत्तादिसंज्ञाशब्दस्यापि सर्वलिङ्गभागित्वाभावाज्जातित्वापत्तिरिति द्वितीयलक्षणस्य दोषः इति दोषद्वयमपाकर्त्तुं द्वयोर्लक्षणयोर्विशेषणमाह सकृदाख्यात निर्ग्राह्येति। सकृदेकवारमाख्यातेन उपदेशेन निश्चयेन ग्राह्या ग्रहीतुं शक्या इत्यर्थः। तेन ईदृशो हंसैत्युपदेशे हंसं दृष्टवतस्तस्य संस्थानेन हंसत्वं व्यञ्जितु शक्यत एवेति पूर्वलक्षणस्य न दोषः। एवं देवदतादि संज्ञाशब्दस्यैकस्मिन्नुपदेशेऽपि अन्यस्मिन् ज्ञानाभावात् जातित्वं न स्यादिति परलक्षणस्यापि न दोषः। गार्ग्यः पुरुषः गार्गी स्त्री गार्ग्यं कुलमिति सर्वलिङ्गभागित्वात् संस्थानव्यङ्ग्यत्वाभावाच्च गार्ग्यादीनां जातित्वानुपपत्ती तृतीयलक्षणमाह। गोत्रञ्चेति। पुत्रपौत्रप्रभृतिकमपच्यं गोत्रमिति पूर्ब्बात्तार्य्यपरिभाषितं गोत्रमिह गृह्यते गार्गी वात्सीत्यादि। चतुर्थलक्षणमाह चरणैः सहेति चरणञ्च जातिरित्यर्थः। चरणशब्दा वेदैकदेशवाची कठादिरूपः स च अध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात् क्रियावाचक एव न तु जातिबाचकः। तेनास्य जातिसंज्ञार्थं चरणैः सहेत्युक्तम्। मागर्पादीनां यञश्चेति ङीपि सिद्धेऽपि जातिसंज्ञाफलन्तु स्वरार्थम् तथा गार्गी भार्य्या यस्यासु गार्गीभार्य्य इत्यादौ “जातेश्चेति” पुम्वद्भावनिषेधः। गार्गी चासौ भार्य्या चेति गार्ग्यभार्य्या इत्यादौ “पुंवत् कर्मधारयेति” पुनः पुंवद्भावः” “प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद् गुणैः। असर्वलिङ्गां बह्वर्थां तां जातिं कवये विदुः” इति महाभाष्ये लक्षणान्तरमुक्तम् ईदृशान्यतमार्थकशब्दानां जातिशब्दत्वेन व्याकरणे व्यवह्रियते उदा० दृश्यते चोपरिष्टात्।
अनुगतधर्मरूपजातेर्ब्रह्मरूपत्वम्। हरिणोक्तं यथा “सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः। तां प्रादिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते। सा नित्या सा महानात्मा तामाहुस्त्वतलादयः” इति। प्रतिपादिता च तेनैव अनेकव्यक्तीनामनित्यतया जातेरैकरूप्यात् स्फोटात्मशब्दवाच्यता यथा “अनेकव्यक्त्यमिव्यङ्ग्या जातिः स्फोट इति स्मृता। कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः” इति। अत्र च जातिस्फोटयोः सामाना धिकरण्यनिर्द्देशात् वाच्यवाचकयोरभेद इति बोध्यम्। वैशेषिकमतसिद्धेषु षट्सु भावेषु मध्ये अनुगतबुद्धिनियामकधर्मभेदरूपभावपदार्थसामान्यलक्षणभेदादिकं कणा० सू० वृत्तौ दर्शितं यथा
“सामान्यं विशेष इति बुद्ध्यपेक्षम्”। सू०
“पदार्थत्रयोद्देशलक्षणानन्तरमिदानीमुद्दिष्टस्य सामान्यपदार्थस्य लक्षणमाह सामान्यं द्विविधं परमपरञ्च परं सत्ता अपरं सत्ताव्याप्यं द्रव्यत्वादि तत्र सामान्यस्य तद्विशेषस्य च लक्षणं बुद्धिरेव। अनुवृत्तबुद्धिः सामाम्यस्य, व्यावृत्तबुद्धिर्विशेषस्य इतिना द्वयमवच्छिद्य परामृश्यते तेन बुद्ध्यपेक्षमिति नपुंसकनिर्द्देशः। वृत्तिकारस्तु विशेषान्धयमाह परन्तु “नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्” पा० इत्यनेनैकवद्भावी नपुंसकता चेत्याह। बुद्धिरपेक्षा लिङ्गं लक्षणं वा यस्य तद्बुद्ध्य पेक्षं तत्र नित्यमनेकव्यक्तिवृत्ति सामान्यं नित्यत्वे सति स्वाश्रपान्येन्याभावसमानाधिकरणं वा परमपि सामान्यमपरमपि तथा। परन्तु सामान्यं विशेषसंज्ञामपि लभते तथा द्रव्यमिदं द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो नेदं कर्मेति विशेषप्रत्ययः। तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम्। ननु विधिरूपं सामान्यं नास्त्येव अनुगतमतेरतद्व्यावृत्त्यैवोपपत्तेः भवति हि गौरयमिति–प्रतीतेरगोव्यावृत्तोऽयमिति विषयः जातिवादिनाऽपि गोत्वादिविशिष्टप्रत्ययस्य तद्विषयत्वाभ्युपगमात् नहि वैशिष्ठ्यमतद्व्यावृत्तेरन्यत्, गवादिपदप्रवृत्तिनिमित्तमप्यगोव्यावृत्त्यादिरेव। किञ्च गोत्व कुत्र वर्त्तते न तावद्गवि गोत्ववृत्तेः पूर्वं तम्वाभावात् नाप्यगवि, विरोधात् यत्र गोपिण्ड उत्पद्यते तत्र कुत आगत्य गेत्वं वर्त्तते न तावत्तत्रैवासीत् देशस्यापि तस्य गोत्वापत्तेः नापि गोत्वमपि तदानीमेवोत्पन्नं नित्यत्वाभ्युपगमात् नाप्यन्यत आगतं निष्क्रियत्वाभ्युपगमात् नच एकस्यैव नित्यस्य नानाव्यक्तिवृत्तित्वं कार्त्स्त्र्यैकदेशविकल्पानुपपत्तेः। नहि कृत्स्नमेकत्रैव वर्त्तते अन्यत्र तद्विशिष्टप्रत्ययानुदयप्रसङ्गात्। नाप्येकदेशेन जातेरेकदेशस्याभावात्। तदुक्तं “न याति नच तत्रासीन्नचोत्पन्नं नचांशवत्। जहाति पूर्वं नाधारमहोव्यसनसन्ततिः” इति। सामान्यमस्ति तच्च संस्थानमात्रव्यङ्ग्यं गोत्वघटत्वादिवत् न तु गुणकर्मगतमपीति सगोत्रकलहः। अत्रोच्यते सामान्यं नित्यं व्यापकञ्च व्यासकत्वमपि स्वरूपतः सर्वदेशसम्बद्धत्वं न देशानां गोव्यवहारापत्तिः समवायेन तद्व्यवहारस्याभ्युपगमात् काले रूपादिमत्त्वेऽपि कालो रूपवानित्यप्रतीतिव्यवहारवत् न च कालो नास्त्येव पञ्चस्कन्धसज्ञाभेदमात्रमित्यभ्युपगमादिति वाच्यं कालस्य साधयिष्यमाणत्वात्। तथाच यत्र पिण्ड उत्पद्यते तत्रस्थमेव गत्वं तेन सम्बध्यते जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात्। एतेन कीदृश्याश्रये वर्त्तते इत्यत्र यत्र प्रतीयते इत्युत्तरम्, कुत्र प्रतीयते इत्यत्र यत्र वर्त्तते इत्युत्तरम्। गत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम्। एवञ्च “न याति नच तत्रासीत् इत्यादिकं परिदेवनमात्रम्, अतद्व्यावृत्तिरेव गोत्वमित्यम्य गौरयमिति विधिमुखः पत्यय एव बाधकः। नह्यनुभवोऽपि व्याख्यायते तदुक्तं “विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थकः” इति न हि गौरयमिति प्रत्ययेऽगोव्यावृत्तिरपि भासते। कात्र्स्न्यैकदेशविकल्पस्तदाभवेत् यद्येकस्य सामानस्य कातर्स्नां भवेदेकदेशो वा कृत्स्नता ह्यनेकाशेषता। सा चैकस्मिन्नोपपन्ना गौरयमित्यनुभव एवासद्विषयो न वस्तुव्यवस्थापनक्षम इत्यत्रोत्तरं वक्ष्यते। प्राभाकरास्तु संस्थानमात्रव्यङ्ग्यं सामान्यमाचक्षते तद्यद्यनुगतप्रतीतिसाक्षिकं तदा किमपराद्धं गुणकर्मगतैः सामान्यैः, भवति हि रूपरसाद्यनुगतधीः सा च जातिव्यवस्थापिकैव बाधकाभात् रूपत्वादिजातिषु न त वद्व्यक्त्यभेदो बाधकः आकाशत्वादिवत्, रूपरसादिव्यक्तोनामनेकत्वात् नापि बुद्धित्वज्ञानत्वादिवत् घटत्वकलसत्वादिवद्वा तुल्यत्वं बाधकं तच्च न्यूनानतिरिक्तव्यक्तिकत्वं गुणत्वापेक्षया न्यूनव्यक्तिकत्वात् नीलत्पाद्यपेक्षया चाधिकव्यक्तिकत्वात् स्वतएव न सङ्करः भूतत्वमूर्त्त। त्ववत्, परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्तरेण सामानाधिकरण्याभावात् नाप्यनवस्था रूपत्वादिगतसामान्यान्तरानभ्युपगमात् नापि रूपहानिर्विशेषत्ववत् यदि विशेषाः द्रव्याश्रितत्वे सति जातिमन्तः स्युः गुणाः कर्माणि वा स्तुः विभुवृत्तित्वे सति यदि जातिमन्तः स्युर्गुणाः स्युरिति यथा विशेषपदार्थस्वरूपहानिस्तथा प्रकृतेऽभावात् नापि समवायत्ववदसम्बन्धः समवाये समवायाभ्युपगमेऽनवस्थाभयात्तथास्तु, प्रकृते तु समवायस्यैव सम्बन्धस्याभ्युपगमात्। यद्यपि समवायत्वजातिबाधकोव्यक्त्यभेदएव तथापि यन्मते उत्पादविनाशशीलाः बहवः समवायास्तन्मते द्रष्टव्यम्। अभावत्वादिजात्यभ्युपगमे वा बाधकमेतत्, (व्यक्तेरभेदस्तुलत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसंग्रहः)। विवादपदमनुगतबुद्धिः अनुगतनिमित्तसाध्या अबाधितानुगतमतित्वात् दामकुसुमबुद्धिवत् इति जातौ मानमिति वृत्तिकारास्तच्चिन्त्यम्”। उप० वृत्तिः।
“भावोऽनुवृत्तेरव हेतुत्वात् सामान्यमेव”। सू०
“सामान्यं विशेष इति द्वैविध्यं तदुपपादयन्नाह। भावः सत्ता अनुवृत्तेरेव हेतुः न तु व्यावृत्तेरपि हेतुः तथा च विशेषसंज्ञां लभते”। उप० वृत्तिः
“द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेयाश्च”। सू०
“केषां सामान्यानां विशेषसंज्ञेत्यपेक्षायामाह। चकारः पृथिवीत्वादीनि द्रव्यगतजातीः रूपत्वादीनि गुणगतजातीः उत्क्षेपणत्वादीनि कर्मगतजातोः समुच्चिनोति। द्रव्यत्वमित्यादावसमासः परस्परं व्याप्यव्यापकभावाभावसूचनार्थम् सामान्यानि विशेषाश्चेत्यत्रासमासः सामान्यत्वे सत्येव विशेषत्यं यथा ज्ञायेत तदर्थम्, अन्यथा सामान्यविशेषा इति षष्ठीसमासभ्रमः स्यात् तथाच सामान्यत्वे सति विशेषत्वं न प्रतीयते। ननु द्रव्याकारानुगतमतिसाक्षिकं न द्रव्यत्वम्, पृथिव्यादौ कथञ्चित्, तत्सत्त्वेऽपि वाय्वाकाशादौ तदसम्भवात् न च गुणत्वावच्छिन्नकार्य्यसमवायिकारणतावच्छेदकतया तत्सिद्धिः नित्यानित्यवृत्तितया गुणत्वस्य कार्य्यतानवच्छेदकत्वात् गुणत्वार्थमपि पर्य्यनुयोगस्य तादवस्थ्यात्, मैवं संयोगत्वावच्छिन्नकार्य्यसमवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः सा हि न पृथिवीत्वाद्यवच्छेद्या न्यूनवृत्तित्वात् नापि सत्तावच्छेद्याऽधिकवृत्तित्वात् अवश्यं ह्यवच्छेदकेन भवितव्यम्, अन्य- थाकस्मिकतापत्तेः तत्र परमाणुषु द्व्यणुकासमवायिकारणवतया द्व्यणुकेषु त्र्यणुकासमवायिकारणवत्तया विभुचतुष्टयस्य सर्वमूर्त्तसंयोगितयैव सिद्धेः मनसि इन्द्रियमनःसंयोगाधारतया वायौ तृणादिनोदनाश्रयतया प्रत्यक्षद्रव्येषु प्रत्यक्षतयैव संयोगाभ्युपगमस्यावश्यकत्वात् अजस्तु संयोगो नास्त्येव येन संयोगत्वस्यापि कार्य्याकार्य्यवृत्तितया कार्य्यतावच्छेदकता न स्यात् एवं विभागसमवायिकारणतावच्छेदकतयाऽपि द्रव्यत्वसिद्धेः सुप्रतिपदत्वात्। गुणत्वन्तु संयोगविभागसमवायिकारणत्वःसमवायिकारणत्वशून्ये सामान्यवति यत्ककारणत्वं तदवच्छेदकतयैव सिद्धमित्युक्तत्वात् कर्मत्वमपि प्रत्यक्षद्रव्येषु चलतीति–प्रत्ययसाक्षिकम्, अन्यत्र तु संयोगविभागानुमेयं संयोगविभागोभयासमवायिकारणतावच्छेदकतयाऽपि कर्मत्वसिद्धेरावश्यकत्वात्”। उप० वृत्तिः १३ ब्रह्मणादिवर्णे वर्णरूपजातिश्च द्विविधा शुद्धा सङ्कीर्णा च तत्र शुद्धाजातयः ब्राह्मणादयः। सङ्कीर्णजातयश्च मूर्द्धावसिक्तादयः नाना तदेतत् मनुना १० अ० उक्तं यथा
“व्राह्मणः क्षत्त्रियोवैश्यस्त्रयो वर्णा द्विजातयः। चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः। सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु। आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते। स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान्। सदृशानेव तानाहुर्म्मातृदोषविग र्हितान्। अनन्तरासु जातानां विधिरेव सनातनः द्व्येकान्तरासु जातानां धर्म्म्यं विद्यादिमं विधिम् ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते। निषाद शूद्रकन्यायां यः पारशव उच्यते। क्षत्त्रियाच्छ्रूद्रकन्याया क्रूराचारविहारवान्। क्षत्त्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते। विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः। वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः। क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः। वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ। शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः। एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ। क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि। पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम्। ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते। ब्राह्मणादुग्रकन्यायामावृतो नाम जायते। आभीरांऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः। अयोगवश्च क्षत्ता च चाण्डालश्चाधमो नृणाम्। प्राति- लोम्येन जायन्ते शूद्रादपसदास्त्रयः। वैश्यान्मागधवैदेहौ क्षत्त्रियात्सूत एव तु। प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः। जातो निषादाच्छ्रूद्रायां जात्या भवति पुक्वसः। शूद्राज्जातो निषाद्यान्तु स वै कुक्कुटकः स्मृतः। क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते। वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते। द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान्। तान् सावित्रीपरिभ्रष्टान् व्रात्या इति विनिर्दिशेत्। व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टकः। आवन्त्यवाटधानौ च पुष्पधः शैखएव च। झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविडएव च। वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्यएव च। कारुषश्च विजन्मा च मैत्रः सत्वतएव च। व्यभिचारेण वर्णानामवेद्यावेदनेन च। स्वकर्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः। सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः। अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः। सूतोवैदेहकश्चैव चण्डालश्च नराधमः। मागधः क्षतृजातिश्च तथाऽयोगवएव च। एते षट् सदृशान् वर्णान् जनयन्ति स्वयोनिषु। मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु। यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते। आनन्तर्य्यात् स्वयोन्यान्तु तथा बाह्येष्वपि क्रमात्। ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान्। परस्परस्य दारेषु जनयन्ति विगर्हितान्। यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते। तथा बाह्यतरं वाह्यश्चातुर्वर्ण्ये प्रसूयते। प्रतिकूलं वर्त्तमाना बाह्या बाह्यतरान् पुनः। हीना हीनात् प्रसूयन्ते वर्णान् पञ्चदशैव तु। प्रसाधनोपचारज्ञमदास दासजीवनम्। सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे। मैत्रेयकन्तु वैदेहो माधुकं सम्प्रसूयते। नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये। निषादो भार्गवं सूते दाशं नौकर्म्मजीविनम्। कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः। मृतवस्त्रभृन्नारीषु गर्हितान्नाशनासु च। भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः। कारावरोनिषादात्तु चर्म्मकारः प्रसूयते। वैदेहकादन्ध्रमेदो बहिर्ग्रामप्रतिश्रयौ। चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान्। आहिण्डिकोनिषादेन वैदेह्यामेव जायते। चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान्। पुक्कस्यां जायते पापः सदा सज्जनगर्हितः। निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसा- यिनम्। श्मशानगोचरं सूते बाह्यानामपि गर्हितम्। सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः। प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः। सजातिजानन्तरजाः षट् सुता द्विजधर्मिणः। शूद्राणान्तु सधर्म्माणः सर्वेऽपध्वंसजाः स्मृताः। तपोवीजप्रभावैस्तु ते गच्छन्ति युगे युगे। उत्कर्षञ्चापकर्षञ्च मनुष्येष्विह जन्मनः। शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः। वृषलत्वं गता लोके व्राह्मणादर्शनेन च। पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः। पारदाः पह्नवाश्चीनाः किराता दरदाः खसाः। मुखबाहूरुपज्जानां या लोके जातयो बहिः। म्लेच्छवाचश्चार्य्यवाचः सर्वे ते दस्यबः स्मृताः। ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः। ते निन्दितैर्वर्त्तयेयुर्द्विजानामेव कर्मभिः। सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम्। वैदेहकानां स्त्रीकार्य्यं मागधानां वणिक्पथः। मत्स्यघाती निषादानां तष्टिस्त्वायोगवस्य च। मेदान्ध्रचञ्चुमद्गूनामारण्यपशुहिंसनम्। क्षत्त्रुग्रपुक्कसानान्तु बिलौकीबधबन्धनम्। धिग्वणानां चर्म्मकार्य्यं वेणानां भाण्डवादनम्। चैत्यद्रुमश्मशानेषु शैलेसूपवनेषु च। वसेयुरेते विज्ञाता वर्त्तयन्तः स्वकर्मभिः। चण्डालश्वपचानान्तु बहिग्रामात् प्रतिश्रयः। अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्दभम्। वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम्। कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः। न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन्। व्यबहारो मिथस्तेषां विवाहः सदृशैः सह। अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने। रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च। दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः। अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः। बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया। बध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च। वर्णापेतमविज्ञातं नरं कलुषयोनिजम्। आर्य्यरूपमिबानार्य्यं कर्म्मभिः स्वैर्विभावयेत्। अनार्य्यता निष्ठुरता क्रूरता निष्क्रियात्मता। पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्। पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा। न कथञ्चन दुर्य्योनिः प्रकृतिं स्वां नियच्छति। कुले सुख्येऽपि जातस्य यस्य स्यात्योनिसङ्करः। संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु। यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः। राष्ट्रिकैः सह तद्राघ्रं क्षिप्रमेव विनश्यति। ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः। स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम्। अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः। एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः। शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत् प्रजायते। अश्रेयान् श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्। शूद्रोब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्। क्षत्रियाज्जातमेवन्तु विद्याद्वैश्यात्तर्थैव च। अनार्य्यायां समुत्पन्नोव्राह्मणात्तु यदृच्छया। ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्केति चेद्भवेत्। जातोनार्य्यामनार्य्यायासार्य्यादार्य्योभवेद्गुणैः। जातोऽप्यनार्य्यादार्य्यायामनार्य्य इति निश्चयः। तावुभावप्यसंस्कार्य्याविति धर्मोव्यवस्थितः। वैगुण्याज्जन्मनः पूर्वमुत्तरः प्रतिलोमतः। सुवीजञ्चैव सुक्षेत्रे जातं सम्पद्यते यथा। तथार्य्याज्जात आर्य्यायां सर्वं संस्कारमर्हति। वीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः। वीजक्षेत्रे तथैवान्ये तत्रेयन्तु व्यवस्थितिः। अक्षत्रे वीजमुत्सृष्टमन्तरैव विनश्यति। अवीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत्। यस्माद्वीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन्। पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते। अनार्य्यमार्य्यकर्म्माणमार्य्यं चानार्य्यकर्म्मिणम्। सम्प्रधार्य्याव्रवीद्धाता न समौ नासमाविति।” जातिभेदा वृद्धहारीतेनाप्युक्ता यथा
“व्राह्मणाः क्षत्त्रिया वैश्याः शूद्रां वर्णा यथाक्रमम्। आद्यास्त्रयो द्विजाः प्रोक्तास्तेषां वै मन्त्रसत्क्रियाः। सवणभ्यः सवर्णासु जायन्ते हि सजातयः। तेषा सङ्करयोगाश्च प्रतिलोमानुलोमजाः। विप्रान् मर्द्धावसक्तस्तु क्षत्त्रियायामजायत। वैश्यायान्तु तथाम्वष्ठो निपादः शूद्रया तथा। राजन्याद्वैश्याशूद्र्योस्तु माहिष्योग्रौ तु तौ स्मृतौ। शूद्र्यां वैश्यात् तु करणस्त्रिधैव तेऽनुलोमजाः। विप्रायां क्षत्त्रियात् सूतः वैश्याद् वैदेहकस्तथा। चण्डालस्तु तथा शूद्रात्सर्वकर्मसु गर्हितः। मागधः क्षत्त्रियायां वै वैश्यात्, क्षत्ता शूद्रतः। शूद्रादयोगवं वैश्या जनयामास वै सुतम्। रथकारः करण्यान्तु माहिष्येण प्रजायते। असत्सन्त तयो ज्ञेयाः प्रतिलोमानुलोमजाः। प्रतिलोमासु वै जाता गर्हिताः सर्वकर्मसु”। उशन साऽप्युक्ता यथा
“अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम्। अनुलोमविधानञ्च प्रतिलोमविधिं तथा। सान्तरालक- संयुक्तं सर्वं संक्षिप्य चोच्यते। नृपाद् व्राह्मणकन्यायां विवाहेषु समन्वयात्। जातः पुत्रोऽत्र निर्दिष्टः प्रतिलोमबिधिर्द्विजः। वेदानर्हस्तथा चैषां धर्माणामनुबोधकः। सूताद्विप्र प्रसूतायां सूतो वेणुक उच्यते। नृपायामेव तस्यैव जातो यश्चर्मकारकः। ब्राह्मण्यां क्षत्त्रियाच्चौर्य्याद्रथकारः प्रजायते। वृत्तञ्च शूद्रवृत्तस्य द्विजत्वं प्रतिषिध्यते। यानानां ये च वाढारस्तेषाञ्च परिचारकाः। शूद्रवृत्त्या तु जीवन्ति न क्षात्त्रं धर्ममाचरेत्। ब्राह्मण्यां वैश्यसंसर्गाज्जातोमागध उच्यते। वन्दित्वं व्राह्मणानाञ्च क्षत्त्रियाणां विशेषतः। प्रशंसावृतिको जीवेद्वैश्यप्रेष्यकरस्तथा। ब्राह्मण्यां शूद्रसंसर्गाज्जातश्चाण्डाल उच्यते। सीसमाभरणं तस्य कार्ष्णायसमथापि वा। वधीं कण्ठे समाबध्य झल्लरीं कक्षतोऽपि वा। मल्लापकर्षणं ग्रामे पूर्व्वाह्णे पपिशुद्धिकम्। नापराह्णे प्रविष्टोऽपि बहिर्ग्रामाच्च नैरृते। पिण्डीभूता भवन्त्यत्र नो चेद् बध्या विशेषतः। चाण्डालाद्वैश्यकन्यायां जातः श्वपच उच्यते। श्वमांसभक्षणं तेषां श्वान एव च तद्वलम्। नृपायां वैश्यसंसर्गादायोगव इति स्मृतः। तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः। शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते। आयोगवेन विप्रायां जातास्ताम्रोपजीविनः। तस्यैव नृपकन्यायां जातः सूनिक उच्यते। सूनिकस्य नृपायान्तु जाता उद्बन्धकाः स्मृताः। निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः। नृपायां वैश्यतश्चौर्य्यात् पुलिन्दः परिकीर्त्तितः। पशुवृत्तिर्भवेत्तस्य हन्युस्तान् दुष्टसत्वकान्। नृपायां शूद्रसंसर्गाज्जातः पुक्कश उच्यते। सुरावृत्तिं समारुह्य मधुविक्रयकर्मणा। कृतकानां सुराणाञ्च विक्रेता पाचको भवेत्। पुक्कशाद्वैश्यकन्यायां जाती रजक उच्यते। नृपायां शूद्रतश्चौर्य्याज्जातोरञ्जक उच्यते। वैश्यायां रञ्जकाज्जातो नर्त्तको गायको भवेत्। वैश्यायां शूद्रसंसर्गाज्जाती वैदेहकः स्मृतः। अजानां पालनं कुर्य्यान्महिषीणां गवामपि। दधिक्षीराज्यतक्राणां विक्रयाज्जीवनं भवेत्। वैदेहकात्तु विप्रायां जाताश्चर्म्मोपजीविनः। नृपायामेव तस्यैव कुचिकः पाचकः स्मृतः। वैश्यायां शूद्रतश्चौर्य्याज्जातश्चक्री स उच्यते। तैलपिष्टकजीवी तु लवणं भाबयन् पुनः। विधिना ब्राह्मणः प्राप्य नृपायान्तु समन्त्रकम। जातः सुवर्ण इत्युक्तः सानुलोमद्विजः स्मृतः। अथ वर्णक्रियां कुर्व- न्नित्यनैमित्तिकीं क्रियाम। अश्र रथं हस्तिनं वा बाहयेद्वा नृपाज्ञया। सैनापत्यञ्च भैषज्यं कुर्य्याज्जीवेत्तु वृत्तिषु। नृपायां विप्रतश्चौर्य्यात् संजाती यो भिषक् स्मृतः। अभिषिक्तनृपस्याज्ञां परिपाल्ये स वैद्यकम्। आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्म्ममाचरेत्। ज्योतिषं गणितं वापि कायिकीं वृत्तिमाचरेत्। नृपाया विधिना विप्राज्जातो नृप इति स्मृतः। नृपायां नृपसंसर्गात् प्रमादाद गूढजातकः। सोऽपि क्षत्रिय एव स्यादभिषेकं च वर्जितः। अभिषेकं विना प्राप्तो गोज इत्यभिधानकम्। सर्वन्तु राजवत्तस्य शस्यते पदवन्दनम्। पुनर्भूकरणे राज्ञां नृपकालीन एव च। वैश्यायां विधिना विप्राज्जातो ह्यम्बष्ट उच्यते। कृष्याजीवो भवेत्तस्य तथैवाग्नेय वृत्तिकः। ध्वजिनी जीविका वापि अम्बष्ठाः शस्त्रजीविनः। वैश्यायां विप्रतश्चौर्य्यात् कुम्मकारः स उच्यते। कुलालवृत्त्या जीवेत्तु नापिता वा भवन्त्यतः। सूतके प्रेतके वापि दीक्षाकालेऽथ वापनम्। नाभेरूर्द्धन्तु वपनं तस्मान्नापित उच्यते। कायस्य इति जीवेत्तु विचरेच्च इतस्ततः। काकाल्लौल्यं यमात् क्रौर्य्यं स्थपतेरथ कृन्तनम्। आद्याक्षराणि संगृह्य कायस्थ इति कीर्त्तितः। शूद्रायां विधिना विप्राज्जातः पारशवोमतः। भद्रकादीन् समाश्रित्य जीवेयुः पूजकाः स्मृताः। शिवाद्यागमविद्याद्यैस्तथामण्डलवृत्तिभिः। तस्यां वै चौरिका वृत्त्या निषादो जात उच्यते। वने दुष्टमृगान् हत्वा जीवनं मांसविक्रयम्। नृपाज्जातोऽथ वैश्यायां गृह्याय विधिना सुतः। वैश्यवृत्त्या तु जीवेत्तु क्षात्रधर्मं न चाचरेत्। तस्यां तस्यैव चौरेण मणिकारः प्रजायते। मणीनां रचनां कुर्य्यान्मुक्तानां वेधनक्रियाम्। प्रवालानाञ्च सूत्रित्वं शाखानां बलयक्रियाम्। सूद्रायां विप्रसंसर्गाज्जात उग्र इति स्मृतः। नृपस्य दण्डधारः स्याद्दण्डं दण्ड्येषु सञ्चरेत्। तस्येव चौरसंवृत्त्या जातः शुण्डिक उच्यते। जातिदुष्टान् समारोप्य शण्डाकर्मणि योजयेत्। शूद्रायां वैश्य संसर्गाद्बिधिना सूचकः स्मृतः। सूचकाद्विप्रकन्यायां जन्तस्तक्षक उच्यते। शिल्पकर्म्माणि चान्यानि प्रासादलक्षणं तथा। नृपायामेव तस्यैव जातो यो मत्स्यबन्धकः। शूद्रायां वैश्यतश्चौर्य्यात् कटकार इति स्मृतः। यशिष्ठशापात्त्रेतायां केचित् पारशवास्तथा। वैखानसेन केचित्तु केचिद्भागवतेन च। नेदशास्त्राबलम्बास्ते भविष्यन्ति कलौ युगे। कटकारास्ततः पश्चान्नारायणगणाः स्मृताः। शाखा वैखानसेनोक्ता तन्त्रमार्गबिधिक्रियाः। निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्गसूचिकाः। पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मं समाचरेत्। शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः। द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः। सच्छूद्रं नं विजानीयादसच्छूद्रस्ततोऽन्यथा। चौर्य्यात् काकवचो ज्ञेयश्चाश्वानां तृणवाहकः। एतत् संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः। जात्यन्तराणि दृश्यन्ते संकल्पादित एव तु। “पराशरोक्तादासादिजातयस्तत्तच्छब्दे दृश्याः अन्या अपि जातयो ब्रह्मवै० व्र० ख० १० अ० दर्शिता यथा
“बभूवुर्ब्रह्मणो वक्त्रादन्याब्राह्मणजातयः। ब्रह्मणो बाहुदेशाच्च जाताः क्षत्रियजातयः। ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः। तासां सङ्करजातेन बभूबुर्वर्णसङ्कराः। गोपनापितलोलाश्च तथा मोदकमूलबौ। ताम्बूलिपर्णकारौ च तथा बणिजजातयः। इत्येवमाद्या विप्रेन्द्र! सच्छूद्राः परिकीर्त्तिताः। शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः। विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः। ततो बभूवुः पुत्राश्च नवै ते शिल्पकारिणः। मालाकारः कर्मकारः शङ्खकारः कुविन्दकः। कुम्भकारः कंसकारः षडते शिल्पिनां वराः। सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च। पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः। स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम!। वभूव सद्यः पतितो ब्रह्मशापेन कर्मणा। सूत्रधारो द्विजातीनां शापेन पतितो भुवि। शीघ्रञ्च यज्ञकाष्ठञ्च न ददौ तेन हेतुना। व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा। पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः। कश्चिद् बणिक्विशेषश्च संसर्गात् स्वर्णकारिणः। स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः। कुलटायाञ्च शूद्रायां चित्रकारस्य वीर्य्यतः। बभूवाट्टालिकाकारः पतितो जारदोषतः। अट्टालिकाकारवीर्य्यात् कुम्भकारस्य योषिति। बभूव कोटिकः सद्यः पतितो गृहकारकः। कुम्भकारस्य वीर्य्येण सद्यः कोटिकयोषिति। बभूव तैलकारश्च कुटिलः पतितो भुवि। पुद्यः क्षत्रियवीर्य्येण राजपुत्रस्य योषिति। बभूव तीवरश्चैव पतितो जारदोषतः। तीवरस्य तु वीर्य्येण तैलकारस्य योषिति। बभूय पतितो दस्युर्लेटश्च परिकीर्त्तितः। लेटस्तीवरकन्यायां जनयामास षण्नरान्। झल्लं मल्लं माठरञ्च भडं कोलञ्च कन्दरम्। ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः। सद्यो बभूव चाण्डालः सर्वस्मादधमोऽशुचिः। तीवरेणैव चाण्डाल्यां चर्मकारो बभूव ह। चर्मकार्य्याञ्च चाण्डालात् मांसच्छदी बभब ह। मांसच्छेद्यां तीवरेण को~चश्च परिकीर्त्तितः। को~चस्त्रियान्तु कैवर्त्तात् काण्डारः परिकीर्त्तितः। सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक!। बभूवतुस्तु द्वौ पुत्रौ हड्डिकशौण्डिकौ तथा। क्रमेण हड्डिकन्यायां सद्यश्चाण्डालवीर्यतः। बभूवुः पञ्च पुत्राश्च भ्रष्टा वनचराश्च ते। लेटात्तीवरकन्यायां गङ्गातीरे च शौनक!। बभूव सद्योयो वालो गङ्गापुत्रः प्रकीर्त्तितः। गङ्गापुत्रस्य कन्यायां वीर्य्येण वेशधारिणः। वभूव वेशधारी च पुत्रो युङ्गी प्रकीर्त्तितः। वैश्यात्तीवरकन्यायां सद्यः शुण्डी वभूव ह। शुण्डीयोषिति वैश्यात्तु पौण्ड्रकश्च प्रकीर्त्तितः। क्षत्रात् करणकन्यायां राजपुत्रो बभूव ह। राजपुत्र्यान्तु करणादागरीति प्रकीर्त्तितः। क्षत्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्त्तितः। कलौ तीवरसंसर्गाद्धीवरश्च प्रकीर्त्तितः। तीवर्य्यां थीवरात् पुत्रो बभूव रजकः स्मृतः। रजक्यां तीवराच्चापि कोदाली च वभूव ह। नापिताद्गोपकन्यायां सर्वस्वी तस्य योषिति। क्षत्राद्बभूव व्याधश्च बलवान् मृगहिंसकः। तीवरात् शुण्डिकन्यायां बभुवुः सप्तपुत्रकाः। ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा। ब्राह्मण्यामृषिवीर्य्येण ऋतीः प्रथमवासरे। कुत्सितश्चोदर जातः कूदरस्तेन कीर्त्तितः। तदशौचं विप्रतुल्यं पतितोह्यृतुदोषतः। सद्यः कोटिकसंसर्गादधमो जगतीतले। क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे। जातः पुत्रो महादस्युर्बलवांश्च धनुर्धरः। चकार वागतीतञ्च क्षत्रियो वारितस्तया। तेन जात्या स पुत्रश्च वागतीतः प्रकीर्त्तितः। क्षत्रवीर्य्येण शूद्रायामृतुदोषेण पापतः। बलवत्यो दुरन्माश्च बभूवुर्म्लेच्छजातयः। अबिद्धककर्णाः क्रूरा निर्भया रणदुजयाः। शीचाचारविहीनाश्च दुर्द्धर्षा धर्मवर्ज्जिताः। म्लेच्छात् कुविन्दकन्यायां शराकः परिकीर्त्तितः। वर्णसङ्करदोषेण बह्व्यश्च शठजातयः। तासां नामानि संख्याश्च को वा वक्तुं द्विज! क्षमः। वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति। वैद्यवीर्य्येण शूद्रायां बभूवुबैहवो जनाः। ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः। तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि”। षोडशपदार्थमध्ये जातिरूपपदीर्थभेदश्च गौ० सू० उक्तो यथा “साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः” सू०। विवृतञ्चैतत् विश्वनाथेन। “क्रमप्राप्तां जातिं लक्षयति। साधर्म्यबैधर्म्याभ्यामिति सावधारणोनिर्देशस्तेन व्याप्तिनिरपेक्षाभ्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिरित्यर्थः यद्यप्युभाभ्यां प्रत्यवस्थानस्य प्रत्येकप्रत्यवस्थानेऽव्याप्तिरेकप्रत्यवस्थानस्य लक्षणत्वे परप्रत्यवस्थानेऽव्याप्तिर्नवान्यतरप्रत्यवस्थानं नियतं सर्वत्र जातावभावात्तथापि व्याप्तिनिरपेक्षतया दूषणाभिधानमित्येव वाच्यं तेन च सन्दर्भेण दूषणासमर्थत्वं स्वव्याघातकत्वं वा दर्शितं तथा च छलादिभिन्नदूषणासमथमुत्तरं स्वव्याघातकमुत्तरं वा जातिरिति सूचितं साधर्म्यसमादिचतुविंशत्यन्यान्यत्वं तदर्थैत्यपि वदन्ति”। तद्भेदाश्चतुर्विंशतिस्ते च गौतमेन दर्शिता यथा
“साधम्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्यर्थापत्त्यबिशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्य्यसमाः” सू० “तत्र च विशेषलक्षणार्थं जातिं विभजते” सू०। अत्र च साधर्म्यादीनां कार्य्यान्तानां द्वन्द्वे तैः समा इत्यर्थात् साधर्म्यसमादयश्चतुर्विंशतिर्जातय इत्यर्थः अत्र च जातेर्विशेष्यत्वात् समाशब्दं मन्यन्ते भाष्यवार्त्तिकादौ समाशब्दः अग्रिमसूत्रेषु तु समशब्दो निर्विवाद एव तत्र जातिशब्दस्य स्त्रीलिङ्गतया यद्यपि नान्वयस्तथापि प्रतिषेधो विशेष्य इति भाष्यादयः। वयन्तु तद्विकल्पादिति सूत्रस्थविकल्पस्यैव विशेष्यत्वं विविधः कल्पः प्रकारो विकल्पः तथा चैते साधर्म्यसमादयोजातिविकल्पा एवमग्रिमसूत्रेष्वपि। इत्थञ्च जातेर्विशेष्यत्वे साधर्म्यसमेत्यपीति व्रूमः समीकरणार्थं प्रयोगः समैति वार्त्तिकं यद्यपि नैतावता समीकरणं तथापि समीकरणोद्देश्यकत्वमस्त्र्येव अथ वा साधर्म्यमेव ममं यत्र स साधर्म्यसमः एकत्र व्याप्तेराधिक्येऽपि साधर्म्यं सममेवेति भावः” वृत्तिः “साधर्म्य्यवैधर्म्य्याभ्यामुपसंहारे तद्धर्म्मविपर्य्ययोपपत्तेः साधम्य्यवैधर्म्य्यसमौ” १। २ सू०। “साधर्म्यवैधर्म्यसमौ लक्षयति। उपसंहारे साध्यस्योपसंहरणे वादिना कृते तद्धर्म्मस्य साध्यरूपधर्म्मस्य यो विपर्य्ययो व्यतिरेकस्तस्य साधर्म्यवैधर्म्याभ्यां केवलाभ्यां व्याप्त्यनपेक्षाभ्यां यदुपपादनं ततो हेतोः साधर्म्यवैधर्भ्यसमावुच्येते तदयमर्थः वादिना अन्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतु न तदभावापादनं साधर्म्यसमा १ वैधर्न्म्यमात्रप्रवृत्तहेतुना तदभावापादनं वैधर्म्यसमा २। तत्र साधर्म्यसमा यथा शब्दोऽनित्यः कृतकत्वाद्घटवत् व्यतिरेकेण वा व्योमवदित्युपसंहृते नैतदेवं यद्यनित्यघटसाधर्म्यान्नित्याकाशवेधर्म्याद्वाऽनित्यः स्यान्नित्याकाशसाधर्म्यादमूर्त्तत्वान्नित्यः स्याद्विशेषो बा वक्तव्यः वैधर्म्यसमा यथा शब्दोऽनित्यः कृतकत्वाद्घटवत् आकाशवद्वेति स्थापनायाम् अनित्यघटवैधर्म्यादमूर्त्तत्वान्नित्यः स्यादविशेषो वा वक्तव्य इति अत्र साधर्म्यत्वमात्रं वैधर्म्यत्वमात्रं वा गमकतौपयिकमित्यभिमानात् सत्प्रतिपक्षदेशनाभासे चेमे अनैकान्तिकदेशनाभासे इति वार्त्तिके त्वनैकान्तिकपदं योगात्सत्प्रतिपक्षपरं एकान्ततः साध्यसाधकत्वाभावात्” वृत्तिः। “गोत्वाद्गोसिद्धिवत् तत्सिद्धिः” सू०। “अनयोरसदुत्तरत्वे वीजमाह। गोत्वात् गोसिद्धिर्गोव्यवहार इति सम्प्रदायः वयन्तु गोत्वाद्गवेतरासमवेतत्व सति गोसमवेतात्सास्नादितः, एतेन व्याप्तिपक्षधर्म्मत्वे दर्शिते गोर्गोत्वस्य तादात्म्येन गोरेव वा सिद्धिर्यथा तथैव कृतकत्वादपि व्याप्तिपक्षधर्म्मतासहितादनित्यत्वसिद्धिर्नतु व्याप्तिपक्षधर्मतारहितात् साधर्म्यमात्रात् तथा सति अदूषकसाधर्म्यात्प्रमेयत्वादितस्त्वद्वचनमप्यदूषकं स्यादित्ययं विशेषः” वृत्तिः। “साध्यदृष्टान्तयोर्धर्म्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः” ३। ४। ५। ६। ७। ८ सू० “क्रमप्राप्तं जातिषटकं निरूपयति। उत्कर्षेण सम उत्कर्षसम ३ एवमपकर्षसमोऽपि ४ वर्ण्यावर्ण्यसाध्येति भावप्रधानो निर्देशः वर्ण्यत्वादिना समो वर्ण्यसमादिः ५। ६ ७। ८। अविद्यमानधर्म्मारोप उत्कर्षः विद्यमानधर्म्मापचयोऽपकर्षः वर्ण्यत्वं वर्णनीयत्वं तच्च सन्दिग्धसाध्यकत्वादि तदभावोऽवर्ण्यत्वं विकल्पोद्वैविध्यं साध्यत्वं पञ्चावयवसाधनीयत्वं साध्यदृष्टान्तयोधर्मविकल्पादिति पञ्चानामुत्थानवीजम् उभयसाध्यत्वादिति षष्ठस्य। तदयमर्थः साध्यतेऽत्रेति साध्यं पक्षः तथा च साध्यदृष्टान्तयोरित्यस्य पक्षदृष्टान्तयोरन्यतरस्मिन्नित्यर्थः धर्मविकल्पो धर्म्मस्य वैचित्र्यं तच्च क्वचित्सत्त्वं क्वचिदसत्त्वं प्रकृते साध्यसाधनान्यतररूपस्य धर्मस्य विकल्पात्सत्त्वाद्योऽविद्यमानधर्म्मारोपः स उत्कर्षसमः व्याप्तिमपुरस्कृत्य पक्षदृष्टान्तान्यतरस्मिन् साध्यसाधनान्यतरेणाविद्यमानधर्मप्रसञ्जनं उत्कर्षसमः ३ इति फलितार्थः। यथा शब्दो-ऽनित्यः कृतकत्वादिति स्थापनायाम् अनित्यत्वं कृतकत्वं घटे रूपसहचरितमतः शब्दोऽपि रूपवान् स्यात् तथा च विवक्षितबिपरीतसाधनाद्विशेषविरुद्ध्वो हेतुस्तद्देशनामाला चेयम्। एवं श्रावणशब्दसाधर्म्यात् कृतकत्वाद्घटोऽपि श्रावणः स्यादविशेषात्। वस्तुतस्तु घटे श्रावणत्वापादनेऽर्थान्तरमत उक्तलक्षणे दृष्टान्तपदं साध्यपदञ्च न देयम्। अपकर्षसमायान्तु धर्मविकल्पः धर्मस्य सहचरितधर्मस्य विकल्पोऽसत्त्वं ततः अपकर्षः साध्यसाधनान्यतरस्याभावप्रसञ्जनं तथा च पक्षदृष्टान्तान्यतरस्मिन् व्याप्तिमपुरस्कत्य सहचरितधर्म्माभावेन हेतुसाध्यान्यतराभावप्रसञ्जनमपकर्षसमः४ यथा शब्दोऽनित्यः कृतकत्वादित्यत्र यद्यनित्यसहचरितघटधर्म्मात् कृतकत्वादनित्यः शब्दस्तदा कृतकत्वानित्यत्वसहचरितघटधर्मरूपवत्त्वव्यावृत्त्या शब्दे कृतकत्वस्यानित्यत्वस्य च व्यावृत्तिः स्यात्। आद्येऽसिद्धिदेशना द्वितीये बाधदेशना, एवं शब्दे कृतकत्वसहचरितश्रावणत्वस्य संयोगादावनित्यत्वकृतकत्वसहचरितगुणत्वस्य च व्यावृत्त्या घटेऽनित्यत्वं कृतकत्वञ्च व्यावर्त्तेतेति दृष्टान्ते साध्यसाधनवैकल्यदेशनाभासाऽपीयम्। यत्तु वार्त्तिके शब्दोनीरूप इति घटोऽपि नीरुपः स्यादित्यपकर्ष इति० तदसत् घटे नीरूपत्वापादनस्यार्थान्तरत्वात् आचार्य्यस्वरसोऽप्येवं यत्तु वैधर्म्यसमाया अत्रैवान्तर्भावः स्यादिति तन्न उपधेयसङ्करेऽप्युपाधेरसङ्करात् वर्ण्यसमायान्तु साध्यः सिद्ध्यभाववान् सन्दिग्धसाध्यकादिर्व्वा तस्य धर्मः सन्दिग्धसाध्यकादिवृत्तिहेतुस्तस्य विकल्पात्सत्त्वात् दृष्टान्ते वर्ण्यत्वस्य सन्दिग्धसाध्यकत्वस्यापादनं वर्ण्यसमः ५। तदयमर्थः पक्षवृत्तिहेतुर्हि गमकः पक्षश्च सन्दिग्धसाध्यकस्तथा च सन्दिग्धसाध्यकवृत्तिर्हेतुस्त्वया दृष्टान्तेऽपि स्वीकार्य्यः तथा च दृष्टान्तस्यापि सन्दिग्धसाध्यकत्वात् सपक्षवृत्तित्वानिश्चयादसाधारणो हेतुस्तद्देशनाभासा चेयम्। हेतुः सन्दिग्धसाध्यकवृत्तिर्यदि न दृष्टान्ते तदा गमकहेत्वभावात् साधनविकल्पो दृष्टान्तः स्यादिति भावः। अवर्ण्यसमायान्तु दृष्टान्ते सिद्धसाध्यके यो धर्म्मो हेतुस्तस्य सत्त्वात् पक्षे शब्दादावसन्दिग्धसाध्यकत्वापादनमवर्ण्यसमा ६ दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव गमक इत्यभिमामेन एवमापादनं दृष्टान्ते यो हेतुः सिद्धसाध्यकवृत्तिः स चेन्न पक्षे तदा गमकहेत्वभावात् स्वरूपासिद्धिः स्यार्दतस्तादृशो हेतुरवश्यं पक्षत्वाभिमते स्वीकार्य्यः तथा च सन्दिग्धसाध्यकत्वलक्षणपक्षत्वाभावा- दाश्रयासिद्धिः असिद्धिदेशनाभासा चेयम्। विकल्पसमायान्तु पक्षे दृष्टान्ते च योधर्म्मस्तस्य विकल्पोविरुद्धः कल्पो व्यभिचारित्वम उपलक्षणं चैतत् अन्यवृत्तिधर्मस्यापि बोध्यं व्यभिचारोऽपि हेतोर्धर्म्मान्तरं प्रति धर्म्मान्तरस्य साध्यं प्रति धर्म्मान्तरस्य धर्म्मान्तरं प्रति वा तथा च कस्यचिद्धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाबिशेषात् प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनं विकल्पसमा ७ यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचारदर्शनाद्गुरुत्वस्यानित्यत्वव्यभिचारदर्शनादनित्यत्वस्य मूर्त्तत्वव्यभिचारदर्शनाद्धर्मत्वाविशेषात् कृतकत्वमप्यनित्यत्वं व्यभिचरेदित्यनैकान्तिकदेशनाभासा चेयम्। पक्षदृष्टान्तादेः प्रकृतसाध्यतुल्यतापादनं स साध्यसमा ८ तत्रायमाशयः एवत्प्रयोगसाध्यस्यैवानुमितिविषयत्वं तथा च पक्षादेरनुमितिविषयत्वात् साध्यवदेतत्प्रयोगसाध्यत्वम् अतः साध्यसमा। तथा हि पक्षादेः पूर्वं सिद्धत्वे एतत् प्रयोगसाध्यत्वाभावान्नानुमितिविषयत्वं पूर्वमसिद्धत्वे पक्षादेरज्ञानादाश्रयासिद्ध्यादयस्तद्देशनाभासा चेयम्। सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ तद्धर्म्मो हेत्व दिः तत्साध्यत्वं तदधीनानुमितिविषयत्वं साध्यस्येव पक्षादेरपीति तुल्यतापादनमिति लिङ्गोपहितभानमते लिङ्गस्याप्यनुमितिविषयत्वात् साध्यसमत्वं हेतेश्चि साध्यत्वे हेतुमान्दृष्टान्तीऽपि साध्य इत्याशयः” वृत्तिः। “किञ्चित्साधर्म्म्यादुपसंहारसिद्धेर्वैधर्म्म्यादप्रतिषेधः” वृ०।
“एतासामसदुत्तरत्वे वीजमाह किञ्चित्साधर्म्यात् साधर्म्यविशेषात् व्याप्तिसहितात् उपसंहारसिद्धेः साध्यसिद्धेः वैधर्म्यादेतद्विपरीतात् व्याप्तिनिरपेक्षात् साधर्म्यमात्रात् भवता कृतः प्रतिषेधो न सम्भवतीत्यर्थः। अन्यथा प्रमेयत्वरूपासाधकसाधर्म्यात् तद्दूषणमप्यसम्यक् स्यादिति भावः। तथा चायं क्रमः अनित्यत्वव्याप्यात् कृतकत्वात् शब्देऽनित्यत्वमुपसंहरामो नतु कृतकत्वं रूपस्यापि व्याप्यं येन ततो रूपमप्यापादनीयं शब्दे, एवं अनित्यत्वं न रूपव्याप्यं येन रूपाभावादनित्यत्वाभावः शब्दे स्यात् एवं वर्ण्यसमेऽपि किञ्चित्साधर्म्यात् व्याप्यतावच्छेदकावच्छिन्नाद्धेतोः साध्यसिद्धिः तादृशहेतुमत्त्वञ्च दृष्टान्तता प्रयोजकं न तु पक्षे यावद्विशेषणावच्छिन्नो हेतुस्तावदवच्छिन्नहेतुमत्त्वम् अन्यथा त्वयाऽपि दूषणीयो दृष्टान्ती कर्त्तव्यः सोऽपि न स्यात् एवमवर्ण्यसमेऽपि व्याप्यतावच्छेदकावच्छिन्नस्य वृष्टान्तदृष्टस्य पक्षे सत्त्वात्साध्यसिद्धिर्न तु दृष्टान्तवृत्तियाबद्धर्म्मावच्छिन्नस्य पक्षे सत्त्वम्। एवं विकल्पसमेऽपि प्रकृतसाध्यव्याप्यात् प्रकृतहेतोः साध्यसिद्धिस्तद्वैधर्म्यात् यत् किञ्चिद्व्यभिचारात् कृतः प्रतिषेधो न सम्भवति नहि यत्किञ्चिद्व्यभिचारादेव प्रकृतहेतोः प्रकृतसाध्यासाधकत्वमतिप्रसङ्गात्। एवं साध्यसमेऽपि व्याप्याद्धेतोः सिद्ध पक्षे साध्यसिद्धिर्न तु पक्षदृष्टान्तादयोऽप्यनेन साध्यन्ते तथा सति क्वचिदपि साध्यसिद्धिर्न स्यात् त्वदीयदूषणमपि विलीयेत” वृत्तिः। “साध्यातिदेशाच्च दृष्टान्तोपपत्तेः” सू०। “वर्ण्याबर्ण्यसाध्यसमासु समाध्यन्तरमप्याह दृष्टान्तोपपत्तिर्दृष्टान्ततोपपत्तिः साध्यातिदेशात दृष्टान्ते हि साध्यमतिदिश्यते तावतैव दृष्टान्तत्वमुपपद्यते नत्वशेषो धर्मः पक्षदृष्टान्तयोरभेदापत्तेः पक्षादेरपि साध्यसमत्वमतेन प्रत्युक्तं दृष्टोऽन्तो दृष्टान्तः पक्षः तस्माद्वह्निमानित्यतः पक्षोत्कीर्त्तनात्तथा च साध्यस्यातिदेशात् साधनात् पक्ष इत्युच्यते न तु पक्षोऽवि साध्यतेऽतिप्रसङ्गादिति भावः” वृत्तिः। “प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वादप्राप्त्या असाधकत्वाच्च प्राप्त्यप्राप्तिसमौ” ९। १० सू०। “क्रमप्राप्तौ प्राप्त्यप्राप्तिसमौ लक्षयति। हेतोरिति साधकत्वमिति शेषः प्राप्तिपक्षे दषमाह प्राप्त्याअविशिष्टत्वादिति द्वयोरपि प्राप्तत्वाविशेष त् किङ्कस्य साधकं अप्राप्तिपक्षे दोषमाह अप्राप्त्या इति अप्राप्तस्य साधकत्वेऽतिप्रसुङ्गात् साधकत्वञ्चात्र कारकज्ञापकसाधारणम् एवञ्च कारकज्ञापकलक्षणं साधनं कार्य्यज्ञाप्यलक्षणेन साध्येन सम्बद्धं सत्साधकं चेत्तदा सत्त्वाविशेषान्न कार्य्यकारणभावः सत्सम्बन्धस्य प्रागेव ज्ञातत्वान्न ज्ञाप्यज्ञापकभावः प्राप्तयोर्न जन्यजनकभावः प्राप्तत्वेन लवणोदकयोरिवाभेदादित्याशय इत्यन्ये। तथा च प्राप्त्याअविशषादनिष्टापादनेन प्रत्यवस्थानं प्राप्तिसमा ९। यदि चाप्राप्तं लिङ्गं साध्यबुद्धिं जनयति साध्याभावबुद्धिमेव किन्तेन न जनयेत् अप्राप्तत्वाविशेषात् तथा चाप्राप्त्या साधकत्वादनिष्टापादनमप्राप्तिसमा १० प्रातकूलतकैदेशनाभासे चेमे” वृत्तिः। “घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः” सू०। “अनयोरसदुत्तरत्वे वीजमाह। दण्डादितो घटादिनिष्पत्तेर्दर्शनात् सर्वलोकप्रत्यक्षसिद्धत्वादाभचारात् श्येनादितः शत्रुपीडने च व्यभिचारान्न त्वदुक्तः प्रतिषेधः सम्भवति न हि कारणं दण्डादि प्रागव घटादिना सम्बद्धमपि तु मृदादिना, श्येनादिरप्पुद्देश्यतया पोडां जनयति अन्यथा लोफयेदसिद्धकार्य्यकारणभावोच्छेदे त्वदुक्तो हेतुरप्यसाधकः स्यादिति” वृत्तिः। “दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ” ११। १२ सू०। “क्रमप्राप्ते प्रसङ्गप्रतिदृष्टान्तसमे जाती लक्षयति। दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभिधानं चानतिपयोजनकं तथा च दृष्टान्तस्य साध्यकत्त्वे प्रमाणाभावात् प्रत्यवस्थानमर्थः यद्यपोद सदुत्तरमेव तथापि दृष्टान्तं प्रभाणं वाच्यं तत्रापि प्रमाणान्तरमित्यनवस्थायाः प्रत्यवस्थाने तात्पर्य्यं तदुक्तमाचार्य्यैः “नवस्थाभासप्रसङ्गः प्रसङ्गसमः” इति एतन्मते हेतोर्हेत्वन्तरमित्यनवस्थाऽपि प्रसङ्गसमा एव। पूर्वमते तु हेत्वनवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतमिति विशेषः। अनवस्थादेशनाभासा चेयम्। प्रतिदृष्टान्तसमः प्रत्ये तव्यः प्रतिदृष्टान्तेन प्रत्यवस्थानात् प्रतिदृष्टान्तसमः १२ “एतच्च सावधारणं तेन प्रतिदृष्टान्तमात्रबलेनं प्रत्यघम्थानमर्थःतेन साधर्म्यसमाव्यदासः यदि घटदृष्टान्तबसनानित्यः शब्दः तदाकाशदृष्टान्तबलेन निय एव स्यात् नित्यः किं न स्यादिति बाधः पतिरोधापादनीयः हेतुरनङ्गं दृष्टान्तमात्रबलादव साध्यसिद्धिरित्यभिमानः बाधप्रतिरोधान्यतरदेशनाभासा चेयम्” वृत्तिः। “प्रदीपादानप्रसङ्गनवृत्तिवत्तद्विनिवृत्तिः” सू०। “प्रसङ्गसमे प्रश्रुत्तरमाह। दृष्टान्तो हि निदर्शनस्थानत्वेन साध्यनिश्चयार्थमपेक्ष्यते न तु दृष्टान्मदृष्टान्ताद्यनवस्थितपरम्परा लोकसिद्धा युक्तिसिद्धा वा। अन्यथा घटादिप्रत्यक्षाय प्रदीप इव प्रादीपप्रत्ययार्थमनवस्थितप्रदीपपरम्परा प्रसज्यत त्वदीयसाधनमपि व्याहन्येत” वृत्तिः। “प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः” सू०। “प्रतिदृष्टान्तसमे प्रत्युत्तरमाह। अत्रायमुत्तरक्रमः प्रतिदृष्टान्तस्त्वया किमर्थमुपादीयते मदीयहेतोर्बाधार्थं सतप्रतिपक्षितत्वार्थं वा नाद्यः यतः प्रतिदृष्टान्तस्य हेतुत्वे स्वार्थसाधकत्व मदीयो दृष्टान्तो नाहेतुः नासाधकस्तथा चातुल्यवलत्वान्न बाधः न या द्वितीयोऽपि यतः प्रतिदृष्टान्तस्य स्वार्थसाधकत्वे उच्यमाने नाहेतुर्दृष्टान्तः मदीयो दृष्टान्तस्तु सहेतुकत्वादधिकमलः वस्तुतो हेतुं विना ष्ठष्टान्तमात्रेण न सस्धतिपक्षसम्भावना तदभाव- व्याप्यबत्ताज्ञानामावात् हेतूपादाने तु सदुत्तरत्वमेवेति भावः इति” वृत्तिः। “प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः” १३ सू०। “क्रमप्राप्तमनुत्पत्तिसमं लक्षयति। प्रागुत्पत्तेरिति साधमाङ्गस्येति शेषः कारणाभावात् हेत्वभावात् तथा च साधनाङ्गपक्षहेतुदृष्टान्तानामुत्पत्तेः प्राक हेत्वभाव इत्यनुत्पत्त्या पत्यवस्थानमनुत्पत्तिसमः १३ यथा थटोरूपवान् नन्यात् पटवदित्युक्ते वटोत्पत्तर्गन्धीत्पत्तेश्च पूर्वं हेत्वभावादसिद्धिः पटे च गन्धोत्पत्तेः पूर्वं हत्वभावेन दृष्टान्तासिद्धिः एवं आद्यक्षणे रूपाभावाद्वाधश्च अनु त्पत्त्या प्रत्यवस्थानस्य तत्रापि सत्त्वात् उत्पत्तेः पूर्वं हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षणत्वात् जातित्वे सतोति च विशेषणीयं तेनोत्पत्तिकालावच्छिन्नी थटो गन्धवानित्यत्र बाधेन प्रत्यवस्थाने नातिव्याप्तिः असिड्यादिदेशनाभासा चेयम्” वृत्तिः। “तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः” सू० “अत्रोत्तरमाह। उत्पन्नस्य तथाभावात् थटाद्यात्मकत्वात् तत्र कारणस्य हेतोरुपपत्तेः सत्त्वात् कथं कारणप्रतिषेधः। अयमाशयः पक्षे हेत्वभावाऽसिद्धिः नत्वनुत्पन्ने हेत्वभावः सम्भवति अधिकरणाभावात् न हि हेत्वभावमात्रासिद्धिः त्वदीयहेतोरपि क्वचिदभावसत्त्वात् एतेन दृष्टान्तासिद्धिर्व्याख्याता यदा कदाचिद्धेतुसत्त्वेनैव दृष्टान्तत्वोपपत्तेः एवं हेत्वादीनां यदा कदाचित्पक्षे सत्त्वादेव हेत्वादिभावो न तु सार्वत्रिकी तदपेक्षति” वृत्तिः। “सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्म्यात् संशयसमः” १४ सू०। “क्रमप्राप्तं सशयसमं लक्षयति। नित्यानित्यसाधर्म्यादिति संशयकारणोपलक्षणं तेन समानत्तर्मदर्शनादियत्किञ्चित्संशयकारणबलात् संशयेन प्रत्यवस्यानं संशयसमः १४ अधिकन्तू दाहरणपरं तथा हि शब्दोऽनित्यः कार्य्यत्वाद्घटवदित्युक्ते सामान्ये गोत्वादौ दृष्टान्ते वटे ऐन्द्रियकत्वं तुल्यं यथा काय्य त्वान्निर्णायकादनित्यत्वं निर्णौयते तथा ऐन्द्रियकत्वात् संशयकारणादनित्यत्वं सन्दिह्यताम् एवं शब्दत्वाद्यसाधर्म्यदर्शनादपि संशयो बोध्यः तथा च हेतुज्ञानेऽप्रामाण्यशङ्काधानद्वारा साध्यसंशयात् सत्प्रतिपक्षदेशनाभासेयम्” वृत्तिः। “साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयोऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या- प्रतिषेधः” गौतमसूत्रस्य पञ्चमाध्याये आह्निकस्थसूत्रम्। “अत्रोत्तरम्। साधर्म्यात्साधर्म्यदर्शनात् संशय आपाद्यमानेऽपि न संशयो वैधर्म्याद्वैधर्म्यदर्शनात् यदि च कार्य्यत्वरूप्रविशेषदर्शनेऽपि संशयस्तदाऽत्यन्तसंशयप्रसङ्गः संशयानुच्छेदप्रसङ्गः न च तथाऽभ्युपनन्तुं शक्यमित्याह नित्यत्वेति समान्यस्य सामानधर्मदर्शनस्य नित्यत्वानभ्युपगमात् नित्यसंशयजनकत्वानभ्युपगमात्तथा सति त्वदीयहेतुरपि न परपक्षप्रतिषेधकः स्यादिति भावः। सामान्यस्य गोत्वादेर्नित्यत्वानभ्युपगमात् निम्यत्वानभ्युपगमप्रसङ्गात् तत्रापि साधारणधर्मप्रमेयत्वादिना संशय एव स्यादिति केचित्” वृत्तिः। “उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः १५” सू०।
“क्रमप्राप्तं प्रकरणसमं लक्षयति। उभयसाधर्म्यात् प्रकर्षेण क्रिया अन्वयसहचाराद्व्यतिरेकसहचाराद्वा प्रक्रिया तत्साधनं विपरोतसाधनमिति फलितार्थः तत्सिद्धेस्तस्य पूर्वमेव सिद्धेः तथाचाधिकवलत्वेनारोपितप्रमाणान्तरेण बाधेन प्रत्यवस्थानं प्रकरणसमः १५ यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते नैतदेवं श्रावणत्वेन नित्यत्वसाधकेन वाधात् बाधदेशनाभासा चेयम्” वृत्तिः। “प्रतिपक्षात् प्रकरणसिद्धेः प्रतिमेधानुपपत्तिः प्रतिपक्षोपपत्तेः” सू०।
“अत्रोत्तरमाह। प्रतिपक्षाद्विपरीतसाध्यसाधकखेनाभिमताच्छ्रावणत्वादितः प्रकरणसिद्धिद्वारा मदीयसाध्यस्य यः प्रतिषेधः त्वया क्रियते तस्यानुपपत्तिः कुतः प्रतिपक्षोपपत्तेः त्वत्पक्षापेक्षया प्रतिपक्षस्य मदीय पक्षस्योपपत्तेः साधनात्। अयमाशयः श्रावणत्वेन पूर्वं नित्यत्वस्य साधनाद्यो याध उच्यते स नोपपद्यते पूर्वं साधितस्य बलबत्त्वाभावात् कदाचित्कृतकत्वेनानित्यस्वस्यापि पूर्वं साधनादिति त्वत्पक्षप्रतिषेधोऽपि स्यात्” वृत्तिः। “त्रैकाल्यासिद्धेर्हेतोरहेतुसमः १६” सू०।
“क्रमपाप्तमहेतुसमं लक्षयति। त्रैकाल्यं कार्य्यकासतत्पूर्वापरकालाः तेन हेतोरसिद्धेः हेतुत्वासिद्धेः। अयमर्थः दण्डादिकं घटादेर्न पूर्बवर्त्तितया कारणं तदानीं षटादेरभावात् कस्य कारणं स्यात् अतएव न धटाद्युत्तरकालवर्त्तितयाऽपि नवा समानकालवर्त्तितया तुल्यकालबर्त्तिनोः सव्येतरविषाणयोबिवाविनि गममापत्तेः तथा च कालसम्बन्धखण्डनेनाहेतुतया प्रत्यवस्थानमहेतुसमः १६ कारणमात्रखण्डनेन ज्ञप्तिहेतोरपि खण्डनान्न तदसंग्रहं प्रतिकूलतर्कदेशनामासा चेयम्” वृत्तिः। “न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः” सू०।
“अत्रोतरमाह। त्रैकाल्यासिद्धिस्त्रैकाल्येन याऽ सिद्धिरुक्ता सा न, कुतः हेतुनः साध्यसिद्धेः त्वयाऽप्य म्युपगमात्” वृत्तिः। “प्रतिषेधानुपपत्तेःप्रतिषेद्धव्याप्रतिषेधः” सू०।
“पूर्ववर्त्तितामात्रेणैव हेतुतासम्भवात् अन्यथा त्वदीयहेतोरपि साध्यं न सिध्येदित्याह हेतुफलभाव खण्डने प्रतिषेधस्याप्यनुपपत्तेः प्रतिषेद्धव्यस्य परकीयहेतोर्नप्रतिषेध इत्यर्थः” वृत्तिः। “अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः १७” सू०।
“क्रमप्राप्तमर्थापत्तिसमं लक्षयति। अर्थापत्तिरर्यापत्त्याभासः तथा चार्थापत्त्यामासेन प्रतिपक्षसाधनाय प्रत्यवस्थानमर्थापत्तिसमः १७। अयमाशयः अर्थापत्तिर्हि उक्तेगानुक्तमाक्षिपति यथा शब्दोऽनित्य इत्युक्तेऽर्थादापाद्यतेऽन्यत् नित्यं तथा च दृष्टान्तासिद्धिः विरोधश्च कृतकत्वादनित्य इत्युक्तेऽर्थादापन्नम् अन्यस्माद्धेतोर्बाधः सत्प्रतिपक्षो बा अनुमानादनित्य इत्युक्ते प्रत्यक्षान्नित्य इति च वाधः विशेषविधेः शेषनिषेधफलकत्वमित्यभिमानः सर्वदेशनाभासा चेयम्” वृत्तिः। “कनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्ति“कत्वाच्चार्थापत्तेः” सू०।
“अत्रोत्तरम्। किमुक्तेन अनुक्तं यत्किञ्चिदेवार्थादापाद्यते उक्तोपपादकं वा आद्ये त्वत्पक्षहानिरप्यापाद्यतां त्वयानुक्तत्वात् अन्त्ये अस्या अर्थापत्तेरनैकान्तिकत्वम् ऐकान्तिकत्वम् एकपक्षसाधकत्वं बलं तन्नास्ति न हि अनित्य इत्यस्योपपादकं नित्यत्वमिति न हि विशेषविधिमात्रं शेषनिषेधफलकम्, अपि तु सति तात्पर्य्ये कचित् न हि नीलोघट इत्युक्ते सर्वमन्यदनीलमिति कचित्प्रतिपद्यते” वृत्तिः। “एकधर्म्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सदुभावोपपत्तेरविशेषसमः” १८ सू०।
“अविशेषसमं लक्षयति। एकस्य धर्मस्य कृतकत्वादेः शब्दे घटे चोपपत्तेः सत्त्वात् यदि शब्दथटयोरनित्यत्वेनाविशेषः उच्यते तदा सर्वेषामविशेषप्रसङ्गः, कुतः सङ्गावोपपत्तेः सतः सन्मात्रस्य ये भावाधर्माः सत्त्वप्रमे- यत्वादयस्तेषामुपपत्तेः सत्त्वात् तथा च सर्वेषामभेदे पक्षाद्यविभागः सर्वेषामेकजातोयत्वेऽबान्तरजात्युच्छेदः सर्वेषामनित्यत्वेजात्यादिविलयैत्यादि तथा च सन्मात्रवृत्तिधर्मेणाविशेषापादनमविशेषसमेति १८ फलितम् अत्र चाविशेषसम इति लक्ष्यनिर्देशः सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गादिति लक्षणं शेषं व्युत्पादकम्। प्रति कूलतर्कदेशनाभासा चेयम्” वृत्तिः। “क्वचिद्धर्म्म्यनुपपत्तेः क्वचिञ्चोपपत्तेः प्रतिषेधाभावः” सू०
“अत्रोत्तरमाह। तद्धर्मस्तस्य हेतोर्धर्भोव्याप्त्यादिस्तस्य क्वचित् कृतकत्वादौ उपपत्तेः सत्त्वात् क्वचित्सत्त्वादौ अनुपपत्तेः अभावात् त्वदुक्तस्य प्रतिषेधस्याभावोऽसम्भव इत्यर्थः” वृत्तिः। “उभयकारणोपपत्तेरुपपत्तिसमः” १९ सू०।
“उपपत्तिसमं लक्षयति। उभयं पक्षप्रतिपक्षौ तयोः कारनस्य प्रमाणस्य उपपत्तेः सत्त्वात् तथा च व्याप्तिमपुरस्कृत्य यत्किञ्चिद्धर्मेण परपक्षदृष्टान्तेन स्वपक्षसाधनेन प्रत्यवस्थानम् उपपत्तिसमः १९ यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते यथा त्वत्पक्षेऽनित्यत्वे प्रमाणमस्ति तथा मत्पक्षोऽपि सप्रमाणकः त्वत्पक्षमत्पक्षान्यतरत्वात् तथाच बाधः प्रतिरोधो वा। तद्देशनाभासा चेयम्” वृ०। “उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः” सू०।
अत्रोत्तरमाह। अयं त्वदुक्तप्रतिषेधो न सम्भवतिकुतः मत्पक्षे उपपत्तिकारणस्य मत्पक्षसाधकप्रमाणस्य त्वयाऽभ्यनुज्ञानात् त्वया हि मत्पक्षस्य दृष्टान्तीकरणेन सप्रमाणकत्वमनुज्ञातमतः कथं तत्प्रतिषेधः शक्यते कर्त्तुम् अनुज्ञातस्यापि प्रतिषेधे स्वपक्ष एव किं न प्रतिषिध्यते” वृत्तिः। “निर्द्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः” २० सू०।
“उपलब्धिसमं लक्षयति। वादिना निर्दिष्टस्य कारणस्य साधनस्याभावेऽपि साध्यस्योपलम्भात् प्रत्यवस्थानमनुपलब्धिसमः २० इत्यर्थः। तथा हि पर्वतो वह्निमान् धूमादित्यादिकं वह्न्यवधारणार्थमुच्यते न च तत्सम्भवति धूमं विना आलोकादितोऽपि वह्निसिद्धेः तथा च न तस्य साधकत्वमिति प्रतिकूलतर्कः न वा धूमाद्वह्निमानेवेत्यवधारणं द्रव्यत्वादेरपि धूमेन साधनात् न वा पर्वत एव वह्निमानेवेत्यादिकम् अवधारयितुं शक्यते महानसादेरपि वह्निमत्त्वादन्यथा दृष्टान्तासिद्धिः स्यात् एवं वह्निशून्यपर्वतस्यापि सत्त्वाद्वाध इत्यादि तद्दोशना भासा चेयम्” अस्य विश्वनाथविरचिता वृत्तिः। “कारणान्तरादपि तद्धर्म्मोपप्रत्तेरप्रतिषेधः” सू०।
“अत्रोत्तरमाह। कारणान्तरात् साधनान्तरादालोकादितोऽपि तस्य धर्मस्य साध्यस्योपलब्धेस्त्वदुक्तः प्रतिषेधो न सम्भवति। अयमाशयः न हि वयमवधारणार्थं वह्निप्रान् थूमादित्यादिकं प्रयुञ्ज्महे अपि तु सन्दिग्धस्य वह्नेः सिद्ध्यर्थम् अन्यथा त्वदुक्तमसाधकतासाधनमपि न स्यादसाधकतासाधकान्तरस्यापि सत्त्वात्” वृत्तिः। “तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः २१” सू०।
“अनुपलब्धिसमं लक्षयति। यद्यपि चेयं द्वितीयाध्याये दर्शिता दूषिता च तथाप्यनुपलब्धिसमा २१ जातिरेवमिति तत्रानुक्तेरत्र क्रमप्रप्तोऽभिधीयते तत्रायं क्रमः नैयायिकैस्तावच्छब्दा नित्यत्वमेव साध्यते यदि शब्दो नित्यः स्यादुच्चारणात् प्राक्कुतोनोपलभ्यते न हि घटाद्यावरणकुड्यादिवच्छब्दस्यावरणमस्ति तदनुपलब्धेरिति तत्रैवं जातिवादी प्रत्यवतिष्ठते यद्यावर्णानुपलब्धे रावणाभावः सिध्यति तदा आवरणानुपलब्धेरप्यनुपलम्भादावरणानुपलब्धेरप्यभावः सिध्येत् तथाचावरणानुपलब्धिप्रमाणक आवरणाभावो न स्यादपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तं नन्वनुपलब्धेरनुपलब्ध्यन्तरानपेक्षणात् कथमेवमिति चेत् इत्यम् अनुपपलब्धेरनुपलब्ध्यवन्तरानपेक्षणे स्वयमेव स्वस्मिन्ननुपलब्धिरूपेति वाच्यं तथा च तयैवानुपलब्ध्यानुपलब्धत्वसम्भवात्तदभावासिद्ध्वेः स्वात्मन्यनुपलब्धिरूपत्याभावेऽनुपलब्धित्वमेव न स्यात् अनुपलब्धेरनुपलब्ध्यन्तरापेक्षणेऽनवस्था स्पष्टैव इत्थञ्चैवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः २१ इत्यर्थः प्रतिकूलतर्कदेशनाभासा चेयम्” वृत्तिः। “अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः” सू०।
“अत्रोत्तरमाह। अनुपलब्धिः आत्मन्यनुपलब्धिरिति कोऽर्थः स्वयमनुपलब्धिरूपेति चेद्भवत्येव स्वविषयिण्यनुपलब्धिरिति चेन्नेदं प्रसक्तं अनुपलब्धेरनुपलम्भात्मकत्वात् उपलम्भाभावात्मकत्वात् अभावस्य च निर्विषयकत्वात् स्वात्मन्यनुपलब्धित्वाभावेऽनुपलब्धित्वमेव कथमस्या इति चेत् कुतो विरोधः नहि घटः स्वविषयो न भ्वतीति नायं घटः स्वविषयो न भवतीति। नायं घटः आवरणाभावः कथमनुपलब्धिविषय इति चेत् क एव- माह किन्त्वनुपलब्धिसहकृतेन्द्रिपग्राह्यत्वादनुपलब्धिग्राह्य इत्युपचर्य्यते अतस्तदनुपलब्धेरन्पलम्भादित्यादिकमहेतुः अन्यथा, त्वत्साधनमपि दोषानुपलब्धेरनुपलम्भात् सदोषमेव स्यादिति” वृत्तिः। “ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम्” सू०।
“नन्वुपलब्धेः स्वस्मिन्ननुपलब्धित्वाभावेऽनुपलब्धिरपि केन सिध्येदतआह अध्यात्मम् आत्मन्यपि ज्ञानविकल्पानां ज्ञानविशेषाणां भावाभावयोर्मनसा संवेदनात् घटं साक्षात्करोमि वह्निमनुमिनोमि नानुमिनोमीत्येवं ज्ञानविशेषतदभावानां मनसैव सुग्रहत्वादिति भावः” वृत्तिः। “साधर्म्यात्तुल्यधर्म्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः २२” सू०
“अनित्यसमं लक्षयति। यदि दृष्टान्तधटसाधर्म्यात् कृतकत्वात्तेन सह तुल्यधर्मतोपपद्यते शब्देऽनित्यत्वं साध्यते तदा सर्वस्यैवानित्यत्वं स्यात् सत्त्वादिरूपसाधर्म्यसम्भवात् नचेदमर्थान्तरग्रस्तमिति वाच्यं सर्वस्यानित्यत्वे व्यतिरेकाग्रहादनुमानदूषणे तात्पर्य्यात् परस्यान्वयव्यतिरेकिणएवानुमानत्वादित्याशयः तथा च व्याप्ति मपुरस्कृत्य यत्किञ्चिदॄष्टान्तसाधर्म्येण सर्वस्य साध्यवत्त्वापादनमनित्यसमा २२ साध्यभेदादविशेषसमातोव्यवच्छेदस्तत्र सर्वाविशेष एवापाद्यते नतु सर्वस्य साध्यवत्त्वम्। यत्तु अनित्यत्वेन समाऽनित्यसमेति भावप्रधानो निर्देशस्तथाच अन्वर्थलब्धमेव लक्षणमिति तन्न वह्निमान् धूमादित्यादौ महानससाधर्म्यस्य सत्त्वात्सर्वस्य वह्निमत्त्वं स्यादित्यस्य जात्यन्तरत्वापत्तेः। आचार्य्यास्तु साधर्म्यं वैधर्म्याप्युपलक्षकं यथाकाशवैधर्म्यात् कृतकत्वाच्छब्दोऽनित्यस्तथाकाशवैधर्म्यादाकाशभिन्नत्वादितः सर्वमेवानित्यं स्यादित्थञ्च लक्षणे यत्किद्धर्मेणेत्येव वाच्यमित्याहुः। अत्र च वैधर्म्य स्य विपक्षावृत्तित्वान्न सर्वस्य माध्यवत्त्वापादनं किन्त्वात्मादीनामप्यनित्यत्वं स्यादिति तत्र चार्थान्तरमित्यवधेयं प्रतिकूलतर्कदेशनाभासा चेयम्” वृत्तिः। “साधर्म्यादसिद्धे प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च” सू०
“अत्रोत्तरमाह। यदि यत्किञ्चित्साघर्म्यात्सर्वस्य साध्यवत्तामापादयतस्तव साधर्म्यस्यासाधकत्वमभिमतं तदा त्वत्कृतप्रतिषेधस्याप्यसिद्धिः तस्यापि प्रतिषेध्यसाधर्म्येण प्रवृत्तत्वात्त्वया ह्येवं साध्यते कृतकत्वं न साधकं दृष्टान्तसाधर्म्यरूपत्वात्सत्त्वादिवत् अत्र च त्वदीयहतुस्त्वत्प्रतिषेध्येन मदीयहेतुना कृतकत्वेन सत्त्वेन च सह साधर्म्यरूपस्तथा चायमपि न साधकः स्यात्” वृत्तिः। “दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्वस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः” सू०
“यदि च साधर्म्यमात्रं न साधकमपि तु व्याप्तिसहितमित्यभिमतं तदा कृतकत्वे तदस्ति नतु सत्त्वैति विशेष इत्याह। साध्यसाधनभावेन व्याप्यव्यापकभावेन दृष्टान्ते प्रज्ञातस्य प्रमितस्य तस्य हेतुत्वात्साधकत्वात् तत्र हेतुत्वस्य उभयथा अन्वयेन व्यतिरेकेण च भावात् मदीयहेतौ सत्त्वात्साधने सत्त्वादिति नाऽविशेष इति यदुक्तं तन्न भवति” वृत्तिः। “नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः २३” सू०
“नित्यसमं लक्षयति। अनित्यस्य भावः अनित्यत्वं तस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं स्यादित्यापादनं नित्यसमा २३। अयमाशयः अनित्यत्वस्य नित्यमस्वीकारेऽनित्यत्वाभावदशायां तस्यानित्यत्वं न, तस्यापि नित्यत्वापत्तिः नहि दण्डाभावदशायां दण्डीत्युच्यते अतोऽनित्यत्वस्य नित्यमेव स्वीकार इत्थभ्यु पगन्तव्यं तथा च शब्दस्यापि नित्यत्वापत्तिः तेन वाधः मत्प्रतिपक्षो वा तद्देशनाभासा चेयम्। एवमनित्यत्वं यदि नित्यं कथं शब्दस्यानित्यतां कुर्यात् नहि रक्तं महारजनं परस्य नीलतां सम्पादयति अथाऽनित्यं तदा तदभावदशायां अनित्यत्वं न स्यादित्यादिकमूह्यम्। एतदनुसारेण लक्षणमपि कार्य्यमित्याचार्य्याः। वयन्तु अनित्यस्य भावो धर्मस्तस्य नित्यमभ्यु पगमेऽनित्यत्वेनाभ्युपगतस्य नित्यत्वं स्यात् यथा क्षितिः सकर्तृकेत्यत्र अनित्यक्षितेर्धर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमुपेयते न वा न चेत् तदा साध्याभावादंशतोबाधः अथ क्षितौ नित्यमेव सकर्तृकत्वं विरुद्धं तद्देशनाभासा चेयमिति व्रूमः” वृत्ति “प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः” सू
“अत्रोत्तरमाह। प्रातषेध्ये मत्पक्षे शब्दे सर्वदा अनित्यभावात् अनित्यत्वात् अनित्ये शब्दे अनित्यत्वमुपपद्यते न हि सम्भवति अनित्यत्वं नित्यमस्ति अथ च तन्नित्यमिति व्याधातात् नच नित्यमिति सर्बकालमित्यर्थः तथा च शब्दस्यानेत्यत्वे कथं सर्वकालमनित्यत्वसम्बन्ध इति वाच्यं सर्वकालमित्यस्य यावत्सत्त्वमित्यर्थात् अतः त्वत्कृतः प्रतिषेधो न सम्भवति मतान्तरे तु अनित्येऽनित्यत्वोपपन्ने हेतोस्त्वपायः प्रतिषेधः कृतः स च सम्भवतीत्यर्थः” वृत्तिः। “प्रयत्नकार्य्यानेकत्वात् कार्य्यसमः २४” सू०।
“कार्य्यसमं लक्षयति। प्रयत्नकार्य्यस्य प्रयत्नसम्पादनीयस्यानेकत्वात् अनेकविषयत्वात्। अयमर्थः शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वं प्रयत्नकार्ये घटादो प्रयत्नानन्तरोपलभ्यमाने कीलकादावपि दृष्टन्तत्र द्वितीयं न तज्जन्यत्वसाधकं आद्ये तु असिद्धं तथा च सामान्यत उक्ते हेतोरनभिमतविशिष्टनिराकरणेन प्रत्यवस्थानं कार्यसमा ३४ असिद्धदेशनाभासा चेयम्। अथ वा प्रयत्नकार्य्याणां प्रयत्नकर्त्तव्यानां कर्त्तव्यप्रयत्नानामिति यावत् तादृशानां अनेकविधत्वात्युक्तान्यस्य व्याघातकमुत्तरं कार्य्यसमा तथा चास्या आकृतिगणत्वात् सूत्रानुपदर्शितानामपि परिग्रहः यथा त्वत्पक्षे किञ्चिद्द षणं भविष्यतीति शङ्काऽपि शङ्का समा कार्य्यकारणभावस्योपकारनियतत्वेऽनवस्थेत्यनुपकारसमा इत्यादिः” वृत्तिः। “कार्य्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः” सू०।
“अत्रोत्तरम्। शब्दस्य कार्य्यान्यत्वेऽकार्य्यत्वे प्रयत्नस्य वक्तृप्रयत्नस्य अहेतुत्वम् अकारणत्वम् इदञ्च तदा स्यात् यद्यनुपलब्धिकारणमावरणादिकमुपपद्यते न च तच्छब्देऽस्तीत्यर्थः। आकृतिगणपक्षे तु कार्य्याणां जातीनामन्यत्वे नानाविधत्वे इदमुत्तरं प्रयत्नस्य त्वदीयदूषणप्रयत्नस्य अहेतुत्व असाधकत्वाभावः उपलब्धेः कारणस्य प्रमाणस्य निर्दोषवाक्यस्य या उपपत्तिः निर्दोषवाक्याधीनोपपादनं तदभावात् तद्वाक्यस्य स्वव्याघातकत्वादित्यर्थः” वृत्तिः। १४ स्वभावे जातिवैरम् जातिसुन्दरम्। जातिश्च प्रकारविशेष्यतया वा शब्दशक्तिज्ञानविषयः। तत्र प्राभाकरमते आकृतिव्यङ्ग्याया एव जातित्वं न गुणत्वादीनां नैयायिकमते तु अनुगतैकबुद्धिनियामकत्वात् नित्यत्वे सति अनेकसमवेतत्वरूपलक्षणयोगाच्च गुणत्वादीनामपि जातित्वमस्त्येव। “समानप्रसवात्मिका जाति गो० सूत्रभाष्ययोस्तथैवोक्तेश्च। जातिशक्तियाढशब्दे च तद्भाष्य दृश्यम्। अतएव “द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते। परभिन्ना तु या जातिः सेवापरतयोच्यते। द्रव्यत्वा- दिकजातिस्तु परापरतयोच्यते” भाषायामुक्तम्। छन्दोभेदश्च। “पद्यं चतुष्पदी ज्ञेयं वृत्तं जातिरिति द्विधा। वृत्तमचरसंख्यातं जातिर्मात्राकृता भवेत्” छन्दोमञ्जर्य्युक्तेः मात्राकृतं छन्दः। “इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनी” छन्दो म०। दृष्टजातिशेषजातिविश्लेषजातिप्रभृतयश्च पाचीनानामिष्टकर्मसंज्ञाभेदा लीलावत्यादौ इष्टकर्म्मप्रकरणे दृश्याः। “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” काव्यप्र०। “असम्पादयतः कञ्चिदर्थं जातिक्रियागुणैः” माघः। व्राह्मणादिजातौ “जात्या काममवध्योऽसि चरण त्विदमुद्धृतम्” वेणीसं० “ब्राह्मणस्य ब्राह्मणयोर्ब्राह्मणानाञ्च संबधे। प्रायश्चित्तस्य चैकतवं जातिश्चाश्रित्य लक्ष्यते” प्रा० त०। जन्मनि “आचार्य्यस्तस्य यां जातिं विधिवद् वेदपारगः। उत्पादयति सावित्र्या सा नित्या साऽजराऽमराः” मनुः। आकारव्यङ्ग्ये “मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवाससाम्। अजातौ जातिकरणे विक्रेयाष्टगुणोदमः” याज्ञ०। १५ जातिवाचकशब्दे च “पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तै जातिः” “कृत्यतुल्याख्या अजात्या” “जात्याख्यायामकस्मिन् बहुवचनमन्यतरस्यात्” (ब्राह्मणाः पूज्याः व्राह्मणः पूज्यः) “जातेरस्त्रीविषयादयोपधात्” इति च पा०।
***