जर = पु० जॄ–भावे अप्। १ जरायां वयोहानौ “द्वादशारं नहि तज्जराय बर्वर्त्ति चक्रम्” ऋ० १। १६४। ११। २ विनाशने च। “त्रितं जराय जुरतामदाभ्याः” ऋ० २। ३४। १०। “जराय विनाशनाय” भा०।
जरठ = त्रि० जॄ–बा० अठ। १ कर्कशे कठिने २ पाण्डुनृपे पु० मेदि०। ३ जीर्णे त्रि० हेम० ४ जरायां विश्वः। “नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः” सा० द०। “अयमति जरठाः प्रकामगुर्व्वीः” माघः। ५ परिणते च। “जरठकमलकन्दच्छेदगौरैर्मयूखैः” माघः।
जरडी = स्त्री जृ–बा अड गौरा० ङीष्। गर्म्मोटिकायां तृणभेदे राजनि०। “जरडी मधुरा शीता सारिका रुचिकारिणी। दाहरक्तदोषहृत् सा पशूनां दुग्धदायिनी” राजनि०।
जरण = त्रि० जॄ–ल्यु। १ जीर्णे २ जीरके ३ कृष्णजीरके ४ सौवर्चलवणे च पु० शब्दर०। ५ हिङ्गुनि ६ कुष्ठौषधौ न०। ७ कासमर्दे पु० राजनि०। ८ कृष्णजीरके स्त्री राजनि०। “भद्रं जीवन्तो जरणामशीमहि” ऋ० १०। ३७। ६। ९ जरायां स्त्री “विप्रस्य जरणामुपेयुषः” १०। ३९। ८ “प्रात र्जरेथे जरणेव कापया” १०। ४०। ३। स्तुत्यर्थक–जरतेयुच्। १० स्तुतौ “वक्वा जरणा अनाकृतः” ऋ० १। १४१। ७। “जरणा स्तुतिः” भा०।
जरणद्रुम = पु० नित्यक०। अश्वकर्णवृक्षे।
जरणि = त्रि० जॄ–अनि। स्तोतरि। “सन्ति स्मृधो जरणिप्रा अधृष्याः” ऋ० १०। १०। १२। “जरणिप्राः स्तोतॄणां पूरयित्र्यः”
जरण्या = स्त्री जरणमर्हति “अन्त्यावस्था च्छन्दसि च” पा० यत्। जरायाम्। “युवं वन्दनं निरृतं जरण्यया” ऋ० १। ११९ ७। “जरण्यया जरया” भा० तत्र उक्तैव व्युत्पत्तिर्दर्शिता। जरण्ययेति शब्दकल्पनं प्रामादिकमेव।
जरण्यु = त्रि० जरणं स्तुतिमिच्छति क्यच्–उन्। आत्मनः स्तवनेच्छौ “सरत्सरण्युः कारवे जरण्युः” ऋ० १०। ६१ २३ जरण्युः स्तुतिमिच्छन्” भा०।
जरत् = त्रि० जॄ–अतृ। १ जीर्णे २ वृद्धे जरन्नैयायिकः जरन्मीमांसकः जरद्गवः। स्त्रियां ङीप् जरती अर्द्धजरती।
जरत्कर्ण = पु० ऋषिभेदे “अग्निहत्यं जरतः कर्णमावाग्निः” ऋ० १०। ८०। ३। “जरतः कर्णं जरत्कर्णनामानमृषिम्” भा०।
जरत्कारु = पु० १ मुनिभेदे तत्पत्न्यां २ मनसादेव्यामास्तीकमातरि च। तत्कथा “सौतिरुवाच। एतत्श्रुत्वा जरत्कारुर्भृशं शोकपरायणः। उवाच तान् पितॄन् दुःखाद्बाष्पसन्दिग्धया गिरा। जरत्कारुरुवाच। मम पूर्वे भवन्तो वै पितरः सपितामहाः। तद्ब्रूत यन्मया कार्य्यं भवतां प्रियकाम्यया। अयमेव जरत्कारुः किल्विषी भवतां सुतः। ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः। पितर ऊचुः। पुत्र! दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया। किमर्थञ्च त्वया ब्रह्मन्! न कृतो दारसंग्रहः। जरत्कारुरुवाच। ममायं पितरो! नित्यं हृद्यर्थः परिवर्त्तते। ऊर्द्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै। न दारान् वै करिष्येऽहमिति मे भावितं मनः। एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः। मया निवर्त्तिता बुद्धिर्व्रह्मचर्य्यात् पितामहाः!। करिष्ये वः प्रियं कामं निर्वेक्ष्येहमसंशयम्। सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन। भविष्यति च या काचित् भक्षवत् स्वयमुद्यता। प्रतीग्रहीता तामस्मि न भरेयञ्च यामहम्। एवंविधमहं कुर्य्यां निर्वेशं प्राप्नुयां यदि। अन्यथा न करिष्येऽहं सत्यमेतत् पितामहाः!। तत्र चोत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वताश्चाव्य- याश्चैव तिष्ठन्तु पितरो मम। सूत उवाच। एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः। न च स्म लभते भार्य्यां वृद्धोऽयमिति शौनक!। यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा। तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः। स त्वरण्यगतः प्राज्ञः पितॄणां हितकाम्यया। उवाच कन्यां याचामि तिस्रोवाचः शनैरिमाः। यानि भूतानि सन्तीह स्थावराणि चराणि च। अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः। उग्रे तपसि वर्त्तन्तं पितरश्चोदयन्ति माम्। निर्विशस्वेति दुःखार्त्ताः सन्तानस्य चिकीर्षया। निर्वेशायाखिलां भूभिं कन्याभैक्षं चरामि भोः। दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः। यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्त्तिताः। ते मे कन्यां प्रयच्छन्तु चरतः सर्वतो दिशम्। मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत्। भरेयञ्चैव यां नाहं तां मे कन्यां प्रयच्छत। ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। तामादाय प्रवृत्तिन्ते वासुकेः प्रत्यवेदयन्। तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम्। प्रगृह्यारण्यमगमत् समीपं तत्र पन्नगः”। भा० आ० ४६ अ० इतः परमास्तीकशब्दे ८९२ पृ० दृश्यम्। “यो जरत्कारुणा जातो जरत्कारौ महायशाः” तत्रैव।
जरत्कारुप्रिया = स्त्री ६ त०। मनसादेव्यामास्तीकमातरि शब्दर०।
जरतिन् = जॄ–अतच् जरतः ततः अस्त्यर्थे इनि। जरायुक्ते ततःशुभ्रा० अपत्ये ढक्। जारतिनेय तदपत्ये पु स्त्री०।
जरद्गव = पु० कर्म्म० टच् समा०। १ वृद्धवृषे अमरः जरन् गौरिव टच्समा०। २ गृध्रविशेषे “अज्ञातकुलशीलस्य वासो देयो न कस्यचित्। मार्ज्जारस्य हि दोषेण हतो वृद्धो जरद्गवः” हितो०। जरन् क्षीयमाणो गौर्धर्मवृषः। शास्त्रप्रतिपादिते क्षीयमाणे ३ धर्मरूपवृषे। “नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः। अलसः क्षुत्परो मूर्खस्तेन पीवान् शुना सह” भा० अनु० १३ अ०। “शास्त्रं तत्प्रतिपादितः जरन् क्षीयमाणो धर्म्मः” नीलक०। आकाशस्थे ४ बीथिभेदे स्त्री ङीप्। “नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्या” इत्युपक्रमे “जरद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभञ्च मैत्राद्यम्” वृ० स० ९ अ०।
जरद्विष् = त्रि० जरतो वृक्षान् वेवेष्टि विप–क ६ त०। जरत् विषं जलं यस्माद्वा। १ जीर्णगुष्कवृक्षव्यापके २ जीर्णोदकके वह्नौ। “त्वामग्ने अतिथं पूर्वम् सुशर्म्माणं स्वरसं जरद्विषम्” ऋ० ५। ८। २ “जरद्विषं जरतां वृक्षाणां विषं व्यापकं जीर्ण्णोदकं वा” भा०।
जरन्त = पुंस्त्री जॄ–झच् १ महिषे स्त्रियां ङीष्। २ वृद्धे त्रि० त्रिका०।
जरमान = पु० ऋषिभेदे ततो गर्गा० गोत्रे यञ्। जारमान्य तद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् यलोपः। जारमानी।
जरसान = पु० जृ–असानच्। पुरुषे उज्ज्वलदत्तः।
जरा = स्त्री जॄ–अङ् गुणः। १ वयःकृतश्लथमांसाद्यवस्था विशेषे “कृष्णवर्त्मनि गुणान् गणयन्ती जीवनेषु लघयन्त्यनुरागम्। आगता वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः “मदेकपुत्रा जननी जरातुरा” नैष० २ जराहेतौ “या हृष्टमनसा नित्यं स्थानमानविचक्षणा। भर्त्तुःप्रीतिकरी नित्यं सा भार्य्या हीतरा जरा” ३ जराधिष्ठातृदेवताभेदे। सा तु कालकन्या। यथा “कालकन्या जरा साक्षात् लीकस्तां नाभिनन्दति। स्वसारं जगृहे भृत्युः क्षयाय जगतामिह” भागवतम्। जरातिक्रमोपायाश्च दर्शिता यथा “मृत्यू रोगाः सुताश्चैव जरा तस्य च कन्यका। जरा च भ्रातृभिः सार्द्धं शश्वद्भ्रमति भूतलम्। एते चीपायवेत्तारं न गच्छन्ति च साम्प्रतम्। पलायन्तेच तं दृष्ट्वा वैनतेयमिवोरगाः। चक्षुर्जलञ्च व्यायामः पादाधस्तैलसेवनम्। कर्णे तैलं मूर्द्ध्नितैलं जराव्याधिविनाशनम्। वसन्ते भ्रमणं वह्निसेवाऽस्वप्नंकरोति यः। बालाञ्च सेवते काले जरा तं नोपगच्छति। स्वातशीतोदकस्नायी सेवते चन्दनद्रवम्। नोपयाति जरा तञ्च निदाघेऽनिलसेविनम्। प्रावृडुष्णोदकस्नायी घनतोयं न सेवते। समये च समाहारी जरा तं नोपगच्छति। शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत्। खातस्नायी समाहारी जरा तं नोपतिष्ठते। खातस्नायी च हेमन्ते काले वह्निं निषेयते। भुङ्क्ते नवान्नमुष्णञ्च जरा तं नोपगच्छति। शिशिरेऽंशुकवह्निं च नवोष्णान्नञ्च सेवते। य एवेष्णोदकस्नायी जरा तं नोपगच्छति। सद्योमांसं नवान्नञ्च वालस्त्रीं क्षीरभोजनम्। घृतञ्च सेबते योहि जरा तं नोपगच्छति। भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम्। नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपगच्छति। दधि हैयङ्गवीनञ्च नवनीतं तथाशुभम्। नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति। शुष्कमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। तं सेवन्तं जरा याति पहृष्टा भ्रातृभिः सह। रात्रौ ये दधिसेवन्ते पुंश्चलीञ्च रजस्वलाम्। तमुपैति जरा हृष्टा भ्रावृभिः सह सुन्दरि! इतिब्रह्मबैपु० व्रह्मख०। ४ राक्षसीभेदे जरासन्धशब्दे दृश्यम्। ५ क्षीरिणीवृक्षे शब्दच०। ६ स्तुतौ निरु०। “जराबोध! तद्विविडिढ” ऋ० १। २७। १० इत्यस्यामृचि निरुक्ते ४। ९। ३। “जरा स्तुतिर्जरतेः स्तुतिकर्मणः” इत्युक्तम्।
अजादौ प्रत्यये परे मुख्ये गौणे च वा जराया जरस्। जरसी जरे जरया जरसा। “न ह्यस्या अपरं चन जरसा मरते पतिः” निरु० ११। ३८ “धृता ऋक् “वृद्धत्वं जरसा विना” “मृगैरजर्य्यं जरसोपदिष्टम्” रघुः गौणे “वीतजन्म जरसं परं शुचिः” किरा० निर्जरसम् निर्जरम्। “अजरांसि च वस्त्राणि धारयन्ति गतक्लमाः” भा० अनु० १२३ अ०। अव्ययीभावसमासे नित्यम् अच् जरस् च मा० जरायाः अभावः अजरसम्। सह जरया सजरसम्। ७निषादभेदे। “जरानामनिषादानां प्रभुः सर्वधनुष्मताम्” हरिवं० १६२ अ०। जरेति नाम येषां तेषां निषादानाम् इत्यर्थः। तत्र स्तुतौ “तासां जरां प्रमुञ्चन्नेति”। ऋ० ः। १४०। ८ “अच्छावदा तना गिरा जरायै ब्रह्मणस्पतिम्”। १। ३८। १३।
जरातुर = त्रि० ३ त०। १ जीर्णे २ जराग्रस्ते शब्दर० “जननी जरातुरा” नैष०।
जरापुष्ट = पु० ३ त०। जरासन्धे नृपे शब्दर०।
जराबोध = पु० जरया स्तुत्या बुध्यति बुध–अच्। स्तुत्यावोधमानाग्नौ “जराबोध तद्विड्ढिविशे विश यज्ञियाय” ऋ० १। २७। ५। “जरया स्तुत्या बोधमानाग्नेः” भा० तत्र जराबोधेत्यस्यामृचि भवः छ। जराबोधीय जराबोधेत्यस्यामृचि गीयमाने सामभेदे “अग्नेः युङ्क्ष्या हियेत चेति जराबोधीयमग्निष्टोमसाम कार्य्यम्” ताण्ड्य० ४। २। १५।
जराभीरु = पु० जरातो भीरुः ५ त०। १ कामदेवे हेमच०। तस्य जीर्णवयसि हीयमानत्वात् तथात्वम्। २ जराती भयशीले त्रि०।
जरायणि = पु० जराया राक्षस्या अपत्यं तया पाल्यत्वात् बा० फि। जरासन्धे मागधे नृपे शब्दर०।
जरायु = पु० जरामेति इ–ञुण्। १ गर्भावरणचर्मणि २ गर्भा शये, “जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते। वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति” सुश्रु०। “या तु चर्म्माकृतिः सूक्ष्मा जरायुः सा निगद्यते” देवीभाग०। ३ जटायौ पक्षिणि च मेदि०। ४ अग्निजारवृक्षे राजनि०। ५ कुमारानुचरमातृभेदे। “पक्षालिका मत्कुणिका जरायुर्ज्जर्ज्जरानना” भा० श० ४७ अ०।
जरायुज = त्रि० जरायौ जायते जन–ड ७ त०। जरायुमध्यजाते मनुष्यादौ अमरः। जरायुजभेदाश्च मनुन दर्शिता यथा “पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः। रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः” “पशवः गवाद्याः मृगा हरिणाद्या व्यालाः सिंहाद्याः” कुल्लू० “त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते। स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्। अण्डजो द्भिज्जसंस्वेदजरायुजमथापि वा। चतुर्द्धा जन्म इत्येतद्भूतग्रामस्य लक्षणम्” इत्युपक्रमे “द्विपादबहुपादानि तिर्य्यग्गतियुतानि च। जरायुजानि भूतानि” भा० आनु० ४२ अ०। संक्षेपेणोक्ताः। “या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते। शुक्रशोणितयोर्योगस्तस्मिन् संजायते यतः। तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरापुजः” इति देवीभाग०।
जरासन्ध = पु० जरया राक्षस्या सन्धा देहयोजनमस्य। वृहद्रथभूपसुते मागधे नृपे तस्योत्पत्तिकथा यथा। “राजा वृहद्रथो नाम मगधाधिपतिर्बली” इत्युपक्रमे।
“नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्द्धनम्। अथ काक्षावतः पुत्रं गौतमस्य महात्मनः। शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् यदृच्छयागतं तन्तु वृक्षमूलमुपाश्रितम्। पत्नीभ्यां सहितो राजा स च रत्रैरतोषयत्। तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः। परितुष्टाऽस्मि राजेन्द्र! वरं वरय सुव्रत!। ततः सभार्यः प्रणतस्तमुवाच वृहद्रथः। पुत्रदर्शननैराश्याद्बाष्पसंदिग्धया गिरा। राजोवाच। भगवन्राज्यमुत्सृज्य प्रस्थितोऽहं तपोवनम्। किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे। कृष्णौवाच। एतत् श्रुत्वा मुनिर्ध्यानमगमत् क्षुभितेन्द्रियः। तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत्। तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह। अवानमशुकादष्टमेकमाम्रफलं किल। तत् प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च। राज्ञं ददावप्रतिमं पुत्रसंप्राप्तिकारणम्। उवाच च महाप्राज्ञस्तं राजानं महामुनिः। गच्छ राजन्! कृतार्थोऽसि निवर्त्तस्व नराधिप!। एतत् श्रुत्वा मुनेर्वाक्यं शिरसा प्रणिपत्य च। मुनेः पादौ महाप्राज्ञः स नृपः स्वगृहं गतः। यथा समयमाज्ञाय तदा स नृपसत्तमः। द्वाभ्यामेकं फलं प्रादात् पत्नीम्यां भरतर्षभ!। ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे। भावित्वादपि चार्थस्य सत्यवाक्यतया मुनेः। तयोः समभवद्गर्भः फलप्राशनसम्भवः। ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह। अथ काले महाप्राज्ञ! यथा समयमागते। प्राजायेतामुभे राजन्! शरीरशकले तदा एकाक्षिवाहुचरणे अर्द्धोदरमुखस्फिचे। दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम्। उद्विग्ने सहसंमन्त्र्य ते भगिन्यौ तदाऽवले। सजीवे प्राणिशकले तत्यजाते सुदुःखिते। तयोर्धात्र्यौ सुसंवीते ते कृत्वा गर्मसंप्लवे। निर्गम्यान्तःपुरद्वारात् समुत्सृज्याभिजग्मतुः। ते चतुष्पथनिःक्षिप्ते जरा नामाथ राक्षसी। जग्राह मनुजव्याघ्र! मांसशोणितभोजना। कर्त्तुकामा सुखवहे शकले सा तु राक्षसी। संयोजयामास तदा विधानवलनोदिता। ते समानीतमात्रे तु शकले पुरुषर्षभ!। एकमूर्त्तिधरो वीरः कुमारः समपद्यत। ततः सा राक्षसी राजन्! विस्मयोत्फुल्ललोचना। न शशाक समुद्वोढुं वज्रसारमयं शिशुम्। वालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः। प्राक्रोशदतिसंरब्धः सतोय इव तोयदः। तेन शब्देन सुम्भ्रान्तः सहसान्तःपुरे जनः। निर्जगाम नरव्याघ्र! राज्ञा सह परन्तप!। ते चाबले परिम्लाने पयःपूर्णपयोधरे। निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम्। ते तु दृष्ट्वा तथामूते राजानञ्चेष्टसन्ततिम्। तञ्च बालं प्रवलिनं चिन्तयामास राक्षसी। नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः। बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः। सा तं बालमुपादाय मेघलेखेन भास्करम्। कृत्वा च मानुषं रूपमुवाच वसुधाधिपम्। राक्षस्युवाच। वृहद्रथ! सुतस्तेऽयं मया दत्तः प्रगृह्यताम्। तव पत्नीद्वये जातो द्विजातिवरशासनात्। धात्रीजन परित्यक्तो मयायं परिरक्षितः। कृष्ण उवाच। ततस्ते भरतश्रेष्ठ! काशिराजमुते शुभे। तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्चताम्। ततः स राजा संहृष्टः सर्वं तदुपलभ्य च। अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम्। राजोवाच। कात्वं कमलगर्भाभे! मम पुत्रप्रदायिनी। काम्यया व्रूहि कल्याणि! देवता प्रतिभासि मे।”
राक्षस्युवाच। जरा नामास्मि भद्रन्ते राक्षसी कामरूपिणी। तव वेश्मनि राजेन्द्र! पूजिता न्यवसं सुखम्। गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी। गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयम्भुवा। दानवानां विनाशाय स्थापिता दिव्यरूपिणी। यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम्। गृहे तत्र भवेद्वृद्धिरन्यथा क्षयमाप्नुयात्। त्वद्गृहे तिष्ठमाना तु पूजिताहं सदा विभो!। लिखिता चैव कुड्येषु पुत्रैर्वहुभिरावृता। गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता। साहं प्रत्युपकारार्थं चिन्तया म्यनिशं तव। तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक!। संश्लेषिते मया दैवात् कुमारः समपद्यत। तव भाग्यान्महाराज! हेतुमात्रमहं त्विह। मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम्। गृहे सम्पूजनात् तुष्ठ्या मया प्रत्यर्पितस्तव। कृष्ण उवाच। एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। स संगृह्य कुमारं तं प्रविवेश गृहं नृपः। तस्य बालस्य यत् कृत्यं तच्चकार नृपस्तदा। आज्ञापयच्च राक्षस्या मगधेषु महोत्सवः। तस्य नामाकरोच्चैव पितामहसमः पिता। जरया सन्धितो यस्माज्जरासन्धो भवत्वयम्। सोऽवर्द्धत महातेजा मगधाधिपतेः सुतः। प्रमाणबलसम्पन्नो हुताहुतिरिवानलः। मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी” भा० स० १७। १८ अ०।
जरासन्धवध = पु० जरासन्धस्य बधमधिकृत्य कृतो ग्रन्थः अण् आख्यायिकायां तस्य लुपि व्यक्तिवचनत्वात् पुंस्त्वम्। भारतसभापर्वान्तगते अवान्तरपर्वभेदे तच्च पर्व सभापर्वणि १९ अध्यायावधि २७ अध्यायपर्य्यन्तम्। “जरासन्धबधः पर्व तथा दिग्विजयस्ततः” भा० आ० १ अ०
जरासन्धजित् = पु० जरासन्धं जितवान् जि–क्विप् ६ त०। भीमे पाण्डवे तज्जयकथा भा० स० २३ अ०
“कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि। अनाहारं दिवारात्रमविश्रान्तमवर्त्तत। तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः। चतुर्द्दश्यां निशायान्तु निवृत्तो मागधः क्लमात्। तं राजानं तथा क्लान्तं दृष्ट्वा राजन्! जनार्दनः। उवाच भीमकर्माणं भीमं सम्बोधयन्निव। क्लान्तः शत्रुर्न कौन्तेय! लभ्यः पीडयितुं रणे। पीड्यमानो हि कात्र्स्न्येन जह्याज्जीवितमात्मनः। तस्मात्तेनैव कौन्तेव! पीडनीयोजनाधिपः। सममेतेन युध्यस्य बाहुभ्यां भरतर्षभ!। एवमुक्तः स कृष्ण न पाण्डवः परवीरहा। जरासन्धस्य तद्रूपं ज्ञात्वा चक्रे मतिं बधे। ततस्तमजितं जेतुं जरासन्धं वृकोदरः। संरम्भं बलिनां श्रेष्ठो जग्राह कुरुनन्दनः। भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्। बुद्धिमास्थाय विपुलां जरासन्धबधेप्सया। नायं पापो मया कृष्ण! युक्तः स्यादनुरोधितुम्। प्राणेन यदुशार्दूल! बद्धकक्षेण वामसा। एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्। त्वरयन् पुरुषव्याघ्र! जरासन्ध बधेप्सया। यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः। बलं भीम! जरासन्धे दर्शयाशु तदद्य वै। एवमुक्तस्तदा भीमो जरासन्धमरिन्दमः। उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः। भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ!। बभञ्ज पृष्ठं संक्षिप्य निष्पिष्य विननाद च। करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः। तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः। अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः। वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः। भीमसेनस्य नादेन जरासन्धस्य चैव ह। किं नु स्याद्धिमवान् भिन्नः किं नु स्विद्दीर्यते मही। इति वै मागधा जज्ञुर्भीमसेनस्य निःस्वनात्। ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्। रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः। जरासन्धरथं कृष्णो योजयित्वा पताकिनम्। आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्।”
जरित = त्रि० जरा जाताऽस्य तारका० इतच्। १ जातजरे वृद्धे मन्दपालर्षिकलत्रे २ पक्षिणीभेदे तत्कथा
“तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम्। क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्। स चिन्तयन्नध्यगच्छत् सुबहुप्रसवान् खगान्। शार्ङ्गिकां शार्ङ्गिको भूत्वा जरितां समुपेयिवान्। तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः। तानपास्य स तत्रैव जगाम लपितां प्रति। बालान् सुतानण्डगतान् सह मात्रा मुनिर्वने। तस्मिन् गते महाभागे लपितां प्रति भारत!। अपत्यस्नेहसंयुक्ता जरिता वह्वचिन्तयत्” “तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने। न जहौ पुत्रशोकार्त्ता जरिता खाण्डवे सुतान्” भा० आ० १२९ अ०।
जरितृ = त्रि० जॄ–तृच्। “स्तोतरि निघण्टुः “इमा ब्रह्माणि जरिता वो अर्च्चत्” ऋ० १। १६५। १४ “अभीषु णः सखीनामविता जरितॄणाम्” ४। ३१। २ जीर्णे च स्त्रियां ङीप्।
जरितारि = पु० १ जरितायां जाते मन्दपालर्षेः ज्येष्ठपुत्रे “जरितारौ कुलं ह्येतत् ज्येष्ठत्वेन प्रतिष्ठितम्” भा० आ० २६।
जरिन् = त्रि० जराऽस्त्यस्य इनि। १ वृद्धे जरायुक्ते हेमच० स्त्रियां ङीप्।
जरिमन् = पु० जॄ–भावे इमनिच्। जरायाम्। “नभो न रूपं जरिमा मिनाति” ऋ० १। ७१। १०। “अस्तमिवेत् जरिमाणं जगम्याम्” १। ११६। २५।
जरूथ = पु० जॄ–ऊथन्। १ मांसे त्रिका०। २ जरणीये च। गॄ बा० ऊथन् पृषो०। ३ परुषभाषिणि। “जरूथं हन्यक्षिराये पुरन्ध्रिम्” ऋ० ७। ९। ६। “जरूथं परुषभाषिणं जरणीयं वा रक्षोगणम्” भा०। इगामृचमधिकृत्य निरु० ६। १७। उक्तं “जरूथं गरूथं गृणातेः”। “विश्वा अग्ने!ऽपदहारातीर्येभिस्तपोभिरदहो जरूथम्” ऋ० ७। १। ७ “येभिर्यैस्तपोभिर्जरूथं परुषशब्दकारिणं राक्षसम्” भा०
जर्च(र्छ) = उक्तौ तु० प० सक० सेट्। जर्च (र्छ)ति अजर्ची(र्छी)त्! जजर्च्च(र्च्छ)।
जर्ज = उक्तौ भर्त्सने च तु० प० सक० सेट्। जर्जति अजर्जीत् जजर्ज जर्जरः।
जर्जर = पु० जर्ज–बा० अर। १ शैलजे २ शक्रध्वजे ३ जीर्णे त्रि० मेदि०। “जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः” भा० शा० ५६ अ०। “लघु जर्जरं दधिनिभं वृहद्विषं स्थानमपि हैमम्” वृ० ८ अ०। ३ खण्डिते च “कृत्वा पुंवत् पातमुच्चैर्भृगुभ्यो मूर्द्ध्नि ग्राव्णां जर्जरा निर्झरौघाः” माघः।
जर्जरानना = स्त्री कुमारानुचरमातृभेदे। “पृथुवक्त्रा मधुलिका मधुकुम्भा तथैव च। पक्षालिका मत्कुणिका जरायुर्जर्जरानना” भा० श० ४७ अ०।
जर्जरित = त्रि० जर्जरं करोति जर्ज + णिच्–कर्मणि क्त। १ जीर्णीकृते २ शकलीकृते। “कृष्णो जर्जरिताङ्गस्य कुञ्जरस्यार्त्तचेतसः” हरि० ८६ अ०। “जराजर्जरितं पतिम्” भा० व० १२३ अ०।
जर्जरीक = त्रि० जर्ज–ईक फर्फरीका० नि०। १ बहुच्छिद्रद्रव्ये २ जरातुरे च मेदि०।
जर्झ = उक्तौ भर्त्सने च तु० पर० सक० सेट्। जर्झति अजर्झीत् जजर्झ।
जर्ण = पु० जॄ–नन्। १ चन्द्रे २ वृक्षे च मेदि०। ३ जीर्णे त्रि० हेमच०
जर्त्तिक = जॄ–बा० तिक। १ वाहीकदेशे। सोऽभिजनोऽस्य अण् वहषु जनपदे लुप्। २ तद्देशवासिषु ब० ब०। “जर्त्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दितम्” भा० क० ४४ अ०।
जर्त्तिल = पु० जॄ–विच् नित्यक०। १ आरण्यतिले “जर्त्तिलः कय्यते सद्भिररण्यप्रभवस्तिलः” शब्दार्थचि०। “जर्त्तिलैर्जुहोति” शत० ब्रा० ९। १। १। ३। “जर्त्तिला अरण्यतिलाः” भा० “जर्त्तिलमिश्रान् गवेधुकासक्तून् अजा- क्षीरमेके” कात्या० श्रौ० १८। १। १। कर्केण तदर्थकतया व्याख्यातम्।
जर्त्तु = पु० जन–“जनेस्तु रश्च” उणा० ५। ४६ सू० तु रश्चान्तादेशः। १ योनौ तस्यां देहस्य जायमानत्वात् तथात्वम्। २ हस्तिनि च उणादिकोषः अत्र शब्दकल्पद्रुमे जर्त्तेति अकारान्तशब्दकल्पनं प्रामादिकमेव। संक्षिप्तसारे च लिपिकरप्रमादकृतमेवाकारान्तत्वम्।
जर्त्स = भर्त्सने उक्तौ रक्षणे च भ्वा० पर० सक० सेट्। जर्त्सति अजर्त्सीत्। जजर्त्स।
जर्भरि = त्रि० जृभ–गात्रविनाये अरि, भृ–यङ्लुक् इः पृषो० वस्य जः। १ गात्रविनामकर्त्तरि २ भर्त्तरि च। स्त्रियां वा ङीप्। “सृण्वेव जर्भरी तुर्फरी तु” ऋ० १०। १०६। ६। भाष्ये तथैव व्युत्पादितम् निरु० परि० १। ५ “इमामृचमधिकृत्य “द्विविधा सृणिः जर्भरि भर्त्ता च हन्ता च तयाश्विनौ चापि भर्त्तारौ जर्भरी भर्त्तारौ” १। इमा मृचमधिकृत्य चार्वाकैरुपहसितम् “त्रयोवेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः जर्भरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम्” सर्वद० चार्व्वाकदर्शने। स्त्रियां वा ङीप्।
जर्हिल = पु० जर्त्तिल + पृषो०। जर्त्तिले आरण्यतिले राजनि०।
जल = आच्छादादने चुरा० उभ० सक० सेट्। जालयति ते अजीजलत् त।
जल = तीक्ष्णीभवने जीवनोपयोगिक्रियायां च अक० भ्वा० पर० सेट्। जलति अजालीत् जजाल जेलतुः। ज्वलादि जलः जालः।
जल = त्रि० जल–अच् डस्य लोवा। १ जडे। २ उदके, ३ ह्रीवेरे गन्धद्रव्ये, ज्योतिषोक्ते लग्नावधिके ४ चतुर्थस्थाने, ५ पूर्वाषाडानक्षत्रे च न० शब्दार्थचि०। जलञ्च पञ्चभूतान्तर्गतभूतभेदः तद्भेदगुणादिकं सुश्रुतोक्तं अम्बुशब्दे ३२९३० पृष्ठे दर्शितम् घनशब्दे २७८६ पृष्ठे च तस्य विवृतिः। “अपां शैत्यं तथा क्लेदो द्रवत्वं स्नेहसौम्यता। जिह्वाभिष्यन्दनञ्चापि भौमानां श्रपणं तथा। चतुर्थमापो विज्ञेयं जिह्वाध्यात्मं प्रचक्षते। अधिभूतं रसास्तत्र सोमस्तत्राधिदैवतम्” भा० आश्व० अ०। “तदङ्गनिष्यन्दजलेन लोचने” “जलाभिलाषी जलमाददानाम्” रघुः। “न तज्जलं यन्न सुचारुपङ्कजम्” भट्टिः “तृषिताय रोनिणेऽपि जलं देयं तथा च “पानीयं प्राणिनां प्राणास्तदायत्तं हि जीवनम्। तस्मात् सर्वास्ववस्थासु न क्वचित् वारि वार्यते। अन्नेनापि विना जन्तुः प्राणान् धारयते चिरम्। तोयाभावे पिपासार्त्तः क्षणात् प्राणैर्विमुच्यते। तृषितो मोहमायाति मोह्यत् प्राणान् विमुञ्चति। तस्माज्जलमवश्यं हि दातव्यं भेषजैः सममिति” राजवल्लभः। “पादेन घटमुत्थाप्य भाजने पूरयेज्जलम्। तज्जलं मदिरातुल्यं भाण्डस्थं सुरया समम्” इति कर्मलोचनः तस्य दानमाहात्म्यं यथा। “अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत। प्राणदानाद्धि परमं न दानमिह विद्यते। अन्नं चापि प्रभवति पानीयात् कुरुसत्तम!। नीरजातेन हि विना न किञ्चित् संप्रवर्त्तते। अन्नौषध्यो महाराज! वीरुधश्च जलेद्भवाः। यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते!। तस्मात् पानीयदानाद्वै न परं विद्यते क्वचित्। तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः। धन्यं यशस्यमायुष्यं जलदानमिहोच्यते। शत्रूंश्चाप्यवि कौत्तेय! सदा तिष्ठति तोयदः। सर्वकामानवाप्नोति कीर्त्तिञ्चैवेह शाश्वतीम्। प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते। तोयदो मनुजव्याघ्र! स्वर्गं गत्वा महाद्युते!। अक्षयान् समवाप्नोति लोकानित्यब्रवीन् मनुः” भा० शा० दा० अ० हेमाद्रौ दा० खण्डे विशेषो दृश्यः “पानीयं प्राणिनः प्राणाः पार्नायं पावन महत्। पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती” जलदानमन्त्रः जलवर्षणज्ञानाय वर्षाद्यधिपराजाद्यानयनं तत्फलञ्च कृशिसंग्रहे दर्शितं यथा
“वृष्टिमूला कृषिः सर्व्वा वृष्टिमूलञ्च जीवनम्। तस्मादादौ प्रयत्नेन वृष्टिज्ञानं समाचरेत्। ततो वर्षस्य राजानं मन्त्रिणं मेघमेव च। आढकं सलिलञ्चापि वृष्टिज्ञानाय शोधयेत्। शाकं त्रिगुणितं कृत्वा द्वियुतं मुनिना (७) हरेत्। भागशिष्टो नृपोज्ञेयो नृपान्मली चतुर्थकः।” अथ नृपादिफलम्। “चित्तलाऽर्के नापे वृष्टिर्वृष्टिरुग्रा निशापतौ। वृष्टिर्मन्दा सदा भौमे चन्द्रजे वृष्टिरुत्तमा। गुरौ च शोभना वृष्टिर्भार्गवे वृष्टिरुत्तमा। पृथिवी धूलिसम्पूर्णा वृष्टिहीना शनौ नृपे। यस्मित् संवत्सरे चैव अर्को राजा भविष्यति। शस्यहानिर्भवेत्तत्र नित्यं रोगश्च जायते। यस्मिन्नव्दे विधूराजा शस्यपूणा च मेदिनी। नैरुज्यञ्च सुवृष्टिश्च सुभिक्षं क्षितिमण्डण्डले। यस्मिन्नव्दे कुजो राजा सस्यशून्या च मेदिनी। नैरुज्य विनिवृत्तिश्च दुर्भिक्षं क्षतिमण्डले। यत्राव्दे चन्द्रजो राजा सर्वशस्या च भूर्भवेत्। धर्म्मे स्थितिर्मनःस्थैर्प्यं वृष्टिकारणमुत्तमम्। यत्राव्दे च गुरूराजा सर्व्वा रमवती मही। नृपाणां वर्द्धनं नित्यं धनधान्यादिकं फलम्। राजा दैत्यगुरुः कुर्य्यात् सर्वशस्यं धरातलम्। संग्रामो वातवृष्टिश्च रोगोपद्रव एव च। मन्दा वृष्टिः सदा वातो राजा संवत्सरे शनिः। शाकस्य कालं त्रिगुणीकृतञ्च द्विवाणवस्वब्धिसमन्वितञ्च। राजा च मन्त्री च जलाधिपश्च शस्याधिपः स्यान्मुनिभाजितेन। (शाकस्य कालं त्रिगुणीकृतञ्च पक्षण युक्तं मुनिना हरेच्च। सूर्य्यादि वर्षाधिपतिश्च शेषो मन्त्री चतुर्थो भवति प्रसिद्धः।) पाठान्तरम्। यथा वृष्टिफलं प्रोक्तं वत्सरे ग्रहभूपतौ। तथा वृष्टिफलं ज्ञेयं विज्ञैर्वत्सरमन्त्रिणि।” अथ मेघानयनम्। “शाकं वह्निसमायुक्तं वेदेन भागमाहरेत्। शेषं मेघं विजानीयादावर्त्तादि यथाक्रमम्। आवर्त्तश्चैव संवर्त्तः पुष्करो द्रोण एव च। चत्वारो जलदाः प्रोक्ता आवर्त्ताद्या मनीषिभिः। एकदेशेन चावर्त्ते संवर्त्ते सर्वतो जलम्। पुष्करे दुष्करं बारि द्रोणे बहुजला मही।” अथ जलाढकनिर्णयः। “शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रितम्। आढकस्य भवेन्मानं मुनिभिः परिकीर्त्तितम्। युग्माऽजगोमीनगते शशाङ्के रविर्यदा कर्कटकं प्रयाति। शताढकं कं हरिकार्म्मुकेऽर्द्धं वदन्ति कन्यामृगयोरशीतिम्। कुलीरकुम्भालितुलाभिधाने जलाढकं षण्णवतिं वदन्ति। अनेन मानेन तु वत्सरस्य निरूप्य नीरं कृषिकर्म्म कार्य्यम्”। एतत्सर्वं विंशत्या हरणीयम्। समुद्रे दश भागांश्च षड्भागानपि पर्बते। पृथिव्यां चतुरोभागान् सदा वर्षति वासवः।” अथ पौषादिमासीयवृष्टिलक्षणम्। “सार्द्धं दिनद्वयं मानं कृत्वा पौषादिना बुधः। गणयेन्मासिकीं वृष्टिमवृष्टिं वानिलक्रमात्। सौम्यवारुणयोर्वृष्टिरवृष्टिः पूर्व्वयाम्ययोः। निर्व्वाते वृष्टिहानिः स्यात् सङ्कुले सङ्कुलं जलम्। एकैकं पञ्चदण्डेन मासस्य दिवसो मतः। पूर्वार्द्धे वासरी वृष्टिरुत्तरार्द्धे च नैशिकी। दत्त्वा दण्डे पताकान्तु वातस्यानुक्रमेण च। विज्ञेया मासिकी वृष्टिर्दृष्ट्वा वातं दिवानिशम्। धूलीभिरेव शवलीकृतमन्तरीक्षं विद्युच्छटाच्छुरितवारुणदिग्विभागम्। पौषे यदा भवति मासि सिते च पक्षे तोयेन तत्र सकला प्लवते धरित्री। पौषे मासि यदा वृष्टिः कुज्झटिर्व्वा यदा भवेत्। तदादौ सप्तमे मासि तां तिथिं प्लाव्यते मही। अथ माघादिफलम्।
माघस्य सितसप्तम्यां वृष्टिर्व्वा मेघदर्शनम्। तदा संवत्सरो धन्यः सर्वशस्यफलप्रदः। सप्तम्यां स्वातियोगे यदि पतति जलं माथ क्षऽन्धकारे वायुर्व्वा चण्डवेगः सजलजलधरौ गर्ज्जितो वासरे वा। विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं तावद्वर्षन्ति मेघाः प्लतधरणितले यावदाकार्त्तिकान्तम्। माघे बहुलसपम्यां तथैव फाल्गुनस्य च। चैत्र शुक्लवृतीयायां वैशाखे प्रथमेऽहनि। एतासु चण्डवातो वा तडिद्वृष्टिरथापि वा। तदा स्यात् शोभना प्रावृट् भवेत् शस्यवती क्षितिः। धनुर्मकरकुम्भेषु यदा वर्षति वासवः। तदादि सप्तमे मासि वारिपूर्णा भवेन्मही।”
अथ चैत्रलक्षणम्। प्रतिपदि मधुमासे भानुवारः सितायां यदि भवति तदा स्याच्चित्तला वृष्टरवदे। अविरलपृथुधारासान्द्रवृष्टिप्रवाहैर्धरणितलमशेषं प्लाव्यते सोमवारे। अवनितनयवारे नास्ति वृष्टिर्न शस्यं कविगुरुभृगुजानां वासरे शस्यपूर्त्तिः। जलनिधिरपि शोषं याति वारेण शौरेर्भवति खलु धरित्री धूलिजालैरदृश्या। चैत्राद्यभागे चित्रायां भवेच्चेच्चित्तला क्षितिः। शेषेऽपि चैव चात्यर्थं क्ष्मा मध्ये बहुवर्षिणी
अथ वैशाखलक्षणम्। प्रवाहयुक्तनद्यान्तु दण्डं न्यस्य जले निशि। वैशाखशुक्लप्रतिपथिथौ वृष्टिं निरूपयत्। ओं सिद्धिरिति मन्त्रेण मन्त्रयित्वा शतद्वयम्। अङ्कयित्वा तु तं दण्डमङ्कतुल्ये जले क्षिपेत्। प्रातरुत्थाय सहसा तदङ्कन्तु निरूपयेत्। समं चैवाधिक न्यूनं भविष्यज्जलकाङक्षया। गतवत्सरवद्वारि वन्या चैव समे भवेत्। हीने हीनं भवेद्वारि भवेद्वन्या च तादृशी अङ्काधिक्ये च द्विगुणा वृष्टिर्वन्या च जायते। इदं पराशरेणोक्तं भविष्यद्वृष्टिलक्षणम्। सूर्य्योदये विषुवतो जगतां विपत्तिर्मध्यं गते दिनकरे बहुशस्यहानिः। अस्तं गते दिनकरे तु तदर्द्धशस्यमैश्वर्य्यभोगमतुलं खल चार्द्धरात्रौ। तदा संवत्सरो धन्यो बहुशस्यफलप्रदः।
अथ ज्यैष्ठलक्षणम्। ज्येष्ठादौ च सिते पक्षे आर्द्रादौ दशऋक्षके। सजला निर्जला यान्ति निर्जलाः सजला इव। रेखात्रयं समुल्लिख्य ताभिस्ताश्च विवर्द्धयेत्। त्रिशृङ्गं सर्वकोणेषु पर्वतं तत्र दापयेत्। ईशानाति दक्षिणाङ्कान् संलिखेदनलादितः। येन येनाजसंक्रान्ति स्तेन प्रावृट्फलं भवेत्। अतिवृष्टिः समुद्रे स्यादनावृष्टिस्तु पर्वते। कक्षयोश्चित्तला वृष्टिः सुवृष्टिः शैलसन्धिषु। (मतान्तरे। रेखातूर्य्यकमुल्लिख्य ताडितम् वेद सम्भवैः ईशानदक्षिणे शृङ्गं लिखेदनलभादितः। येन येनाजसंक्रान्तिस्तेन प्रावृट्फलं वदेत्। अश्विन्यादौ समुद्रेषु नक्षत्रञ्च द्वयं द्वयम्। कक्षपर्वततीरेषु एकैकं परिकीर्त्तितम्।”) “चित्रास्वातिविशाखासु ज्यैष्ठे मासि निरभ्रता। तास्वेव श्रावणे मा स यदि वर्षति, वर्षति।” अथ आषाढलक्षणम्। “आषाणां पौर्णमास्यां सुरपतिककुभं वाति वातः, सुवृष्टिः, शस्यध्वंसं प्रकुर्य्याद्दहनदिशि गते, मन्दवृष्टिर्यमेन। नैरृत्यां शस्यहानि, र्बरुणदिशि जलं, वायुना वायुकोपः, कौवेर्य्यां शस्यपूर्णां प्रथयति नियतं मेदिनीं, शस्यमीशे। आषाढस्य सिते पक्षे नवम्यां यदि वर्षति। वर्षत्येव तदा देवस्तत्रावृष्टौ कुतो जलम्। शुक्लाषाढीनवम्यामुदयगिरितटीनिर्मलत्वं प्रयाते स्वीयं कालं विधत्ते खरतरकिरणो मण्डला कारमुख्यम्। जीमूतैर्वेष्टितोऽसौ यदि भवति रविर्गम्यमानेऽस्तशैले तावत् पर्य्यन्तमेव प्रणदति जलदो यावदस्तं तुलायाः।”
अथ श्रावणलक्षणम्। “रोहिण्यां श्रावणे मासि यदि वर्षति वासवः। तदा वृष्टिर्भवेत्तावद्यावन्नोत्तिष्ठते हरिः। कर्कटे रोहिणीऋक्षे यदि वृष्टिर्न जायते। तदा पराशरः प्राह हाहा लोकस्य का गतिः। श्रावणे मासि रोहिण्यां न भवेद्वर्षणं यदि। विफलारम्भसंक्लेशास्तदा स्युः कृषिवृत्तयः।”
अथ भाद्रलक्षणम्। सिंहे च भौमवारे च पर्वफल्गुनि ऋक्षके। व्यतीपाते च नन्दायां तुलायां वर्षयेद्रविः।” अथ सद्यावृष्टिज्ञानम्। जलहस्ती जलस्थो वा विकटेऽथ जलस्य वा। दृष्ट्वा पृच्छति वृष्ट्यर्थं वृष्टिः संजायतेऽचिरात्। अकस्मादन्नमादाय उचिष्ठति पिपालिका। भेकः शब्दायतेऽकस्मात्तदा वृष्टिर्भवेद्ध्रुवम्। विडाला नकुलाः सर्पा ये चान्ये वा विलेशयाः। धावन्ति शरभा मताः सद्यो वृष्टिर्भवेद्ध्रुवम्। कुर्वन्ति बालका मार्गे धूलीभिः सेतुबन्धनम्। मयूराश्चैव नृत्यन्ति सद्यो वृष्टिः प्रजायते। अवातवातदुष्टानां नृणामङ्गव्यथा यदि। वृक्षाद्यारोहणञ्चाहेः सद्यो वर्षणलक्षणम्। पक्षयोः शोषणं रौद्रे खगानामम्बुचारिणाम्। झिल्लीरवस्तथाकाशे सद्यो वृष्टिः प्रजायते।”
अथ ग्रहसञ्चारे वृष्टिलक्षणम्। “चलत्यङ्गारके वृष्टिर्ध्रुवा वृष्टिः शनैश्चरे। वारिपूर्णां महीं कृत्वा पश्चात् सञ्चरते गुरुः। ग्रहाणामुदये चास्ते तथा वक्रातिचारयोः। प्रायो वर्षन्ति जलदा नृपाणामुद्यमेऽपि च। चित्रामध्यगते जीवे भिन्नभाण्डमिव खवेत्। ततः स्वातीं समासाद्य महामेघ न विमुक्तति। प्रायेणोपचितान्मेघान् स्वातिरेकाऽप्यपोहति। श्रवणे जनितं वर्षं रेवत्याञ्च विमुञ्चति।” अथ अनावृष्टिलक्षणम्। “ध्रुवे च वैष्णवे हस्ते मूले शक्रे चरन् कुजः। सद्यः करोत्यनावृष्टिं कृत्तिकासु मघासु च। कजपृष्ठगतो भानुर्भानुपृष्ठगतः कुजः। सूर्य्येण च युतो भौमः समुद्रमंप शोषयेत्। सद्यो निकृन्तयेद्वृष्टिं चित्रामध्यगतो भृगुः। अङ्गारको यदा सिंहे तद ङ्गारमयी मही। स एव रविणा युक्तः समुद्रमपि शोषयेत्।” ज्यो० त० कश्चिद्विशेष उक्तो यथा
“भुजबलभीमे “व्रजति यदि कजः पतङ्गमार्गे घट इव भिन्नतलो जलं ददाति। अथ भवति दिवाकराग्रतश्चेत् प्रलयघनानपि शोषयत्यवश्यम्। यावन्मात्तण्डसूनुश्चरति धनुरथो मन्मथं मीनकन्ये तावद्दुर्भिक्षपीडा भवति च मरणं क्षुत्पिपासादिघोरम्। उर्व्वी निस्तूर्य्यशब्दा शवशिरपटलैर्नर्त्तयन्ते पिशाचाः ग्रामाः शून्या भवेयर्नरपतिरहिता ह्यस्ति कङ्कालमाला। वक्रं करोति रविजो धरणीसुतो वा मूलर्क्षहस्तमधरेवतिमैत्रभषु। छत्रोपभङ्गपतनादि च सैनिकानां सर्वत्र लोकमरणं जलधौतदेशः। यदा च सौरिः सुरराजमन्त्रिणा समेत्य तिष्ठेत् कचिदृक्षमण्डले। तदाङ्गवङ्गान्धककोशलेषु त्रिभागशेषां कुरुते वसुन्धराम्। तिष्ठेतां यावदेकर्क्षे वाक्पत्यवनिजौ। पदे तावत् क्षुद्रोगसंग्रामात् प्रजानां क्षयमादिशेत्”। “आरभ्य शुक्लपतिपत्तिथिं मार्गात्तु चैत्रकं गर्भनीहारैजलदैरिति प्रावृट्परीक्षणम्। यन्नक्षत्रं गतवति विधौ जायते तत्र गर्भः पश्चादस्मान्नवतिशतके १९ चाह्नि तस्य प्रसूतिः”। गर्भशब्दे च २५५१ अम्बुगर्भोवृहत्संहितोक्तो दर्शितः। वर्षणसूचकनिमित्तानि वृ० सं० २४ अ० उक्तानि यथा “ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन। शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः। हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः। पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम्। येन धरित्रीमुद्रा जनिता वा विन्दवस्तृणाग्रेषु। वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम्। केचिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये। गर्गवशिष्ठपराशरमतमेतद्द्वादशान्न परम्। येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः। यदि नाप्या(२०)दिषु वृष्टं सर्वेषु तदा त्वनातुष्टिः। हस्ताप्य२० सौम्य५ चित्रापौष्ण० ७ धनिष्ठासु षोडश द्रोणाः। शतभिषगैन्द्र१८ स्वातिषु चत्वारः कृत्तिकासु दश। श्रवणे प्रधानुराधाभरणीमूलेषु दश चतुर्युक्ताः। फल्गुन्यां पञ्च कतिः २५ पुनर्वसौ विंशतिर्द्रोणाः। ऐन्द्राग्नाख्य १६ वैश्वे २१ च विंशतिः सार्प९ भे दश त्र्यधिकाः। २५ अहिर्बुध्नार्यम्ण१४ प्राजापत्येषु पञ्चकृति २५। पञ्चदशाजे ४ पुष्ये च कीर्त्तिता वाजि १ भ दश द्वौ च। रौद्रं ६ऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेषु रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुताहते च। भवति हि न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवं शिवं च।
“वर्षाप्रश्ने जलवर्षणनिर्णयः तत्रैव २८ अ० यथा “वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे। सौम्यैर्दृष्टः प्रचुरमुदकं पापदृष्टोऽल्पमम्भः प्रावृट्काले सृजति न चिराच्चन्द्रवद्भार्गवोऽपि। आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्सञज्ञकं वा तोयासन्नो भवति यदिबा तोयकार्य्योन्मुखो वा। प्रष्टा, वाच्यं सलिलमचिरादस्ति निःसंशयेन पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः”।
अथ सद्यवृष्टिनिमित्तम् “उदयशिखरिसंस्थो दुर्निरीक्ष्योऽतिदीप्त्या द्रुतकनकनिकाशः स्निग्धवैदूर्यव न्तिः। तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान् प्रतपति यदि वोच्चैः खं गतोऽतीव तीक्ष्णम्। विरससुदकं गोनेत्राभं वियद्विभला दिशो लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः। पवननिगमः पोप्लूयन्ते झषाः स्थलगामिनो रसनमसकृन्मण्डूकानां जलागमहेतवः। मार्जारा भृशमवनिं नखैर्लिखन्तो लोहानां मलनिचयः सविस्रगन्धः। रथ्यायां शिशुनिचिताश्च सेतुबन्धा। सम्प्राप्तं जलमचिरान्निवेदयन्ति। गिरयोऽञ्जनपुञ्जसन्निभा यदि वा बाष्प निरुद्धकन्दराः। कृकवाकु वलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः। विनोपघातेन पिपीलिकानामण्डोपसंक्रान्तिरहिव्यवाथः। द्रुमाधिरोहश्च भुजङ्गमानां वृष्टेर्निमित्तानि गवां प्लुतं च। तरुशिखरोपगताः कृकलासा गगनतल स्थतवृष्टिनिपाताः। यदि च गवां रविवीक्षणमूर्द्ध्वं निपतति वारि तदा नचिरेण। येच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि। पहवः पशवच्चकुकुरा यटि चाम्भः पततीति निर्दिशेत्। यदा स्थिता गृहपटलेषु कुर्कुरा भवन्ति वा यदि विततं दिवोन्मुखाः। दिवा तडिद्यदि च पिनाकिदिगभवा तदा क्षमा भवति समातिवारिणा। शुककपोतविलोचनसन्निभो मधु नभश्च यदा हिमदीधितिः। प्रतिशशी च यदा दिवि राजते पतति वारि तदा नचिराद्दिवः। स्त नतं निशि विद्युतो दिवा, रुधिरनिभा यदि दण्डवत् स्थिताः। पवनः परतश्च शीतलो यदि सलिलस्य तदागमो भवेत्। वल्लीनां गगनतलोन्मुखाः प्रबालाः स्नायन्ते यदि जलपांशुभिर्विहङ्गः। सेवन्ते यदि च सरीसृपास्तृणाग्राण्यासन्नो भवति तदा जलस्य पातः। मयूरशुकचामचातकसमानवर्णा यदा, जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याथनाः। जलोर्मिनगनक्रकच्छपवराहमीनोपभाः प्रभूतपुटसञ्चया न तु चिरेण यच्छन्त्यपः। पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्जनालित्विषः स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः। माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राक् चाम्बुपाशीद्भवा ये ते वारिमुचस्त्यजन्ति नचिरादम्भः प्रभूतं भुवि। शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषाः। उद्गभास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाशु। यदि तित्तिरिपत्रनिभं गगनं मुदिताः प्रवदन्ति च पक्षिगणाः। उदयास्तमये सवितुर्द्युनिशं विसृजन्ति धना नचिरेण जलम्। यद्यमोथकिरणाः सहस्रगोरस्तभूधरकरा इवोच्छ्रताः। भूसमं च रसते यदाम्बुदस्तन्महद्भवति वृष्टिलक्षणम्। प्रावृषि शीतकरो भृगुपुत्रात् मप्तमराशिगतः शुभदृष्टः। सूयसूतान्नवपञ्चमगो वा सप्तमगश्च जलागमनाय। प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च। पक्षक्षये तीक्ष्णकरायनान्ते वृष्तिर्गतेऽर्के नियमेन चार्द्राम्। समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे यमारयोः पवनहुताशजं भयं न दृष्टयोरसहितयोश्च सद्ग्रहैः। अग्रतः पृष्ठतो वापि ग्रहाः सूर्य्यावलम्बिनः यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव”
कृषौ केदाराज्जलमोचनकाल उक्तो यथा “नैरुज्यार्थ हि धान्यानां जलं भाद्रे विमोचयेत्। मूलम त्रन्तु संस्थाप्य कारयेज्जलमोक्षणम्। भाद्रे च जलसम्पूर्णं धान्यं विविधबाधकैः। प्रपीडितं कृषाणानां न धत्ते फलमुत्तमम्”। कृषिपराशरः।
जलकण्टक = पु० जले कण्टक इव। १ शृङ्गाटके २ कुम्भीरे च हारा०।
जलकपि = पु० जले कपिरिव। शिशुमारे जलजन्तुभेदे (सोसक) हारा०।
जलकपीत = पु० जलजातः कपोतः। जलपारावते राजनि०।
जलकरङ्क = पु० जलस्य करङ्क इवाधारः। १ नारिकेले, २ मेघे च। जलस्य करङ्क इव। ३ पद्मे च मेदि०।
जलकल्क = पु० जलेन कल्क इव। जम्बाले हारा०।
जलकाक = पुंस्त्री जले काक इव कृष्णत्वात्। (पानकौडी) पक्षिभेदे। राजनि०। स्त्रियां जातित्वात् ङीष्।
जलकाङ्क्ष = पुंस्त्री जलं काङ्क्षति काङ्क्ष–अण् उप० स०। १ हस्तिनि त्रिका० स्त्रियां जातित्वात् ङीष्। २ जलाभिलापिणि त्रि०। पा० स्त्रियां टाप् मुग्धबो० षण् ईप्।
जलकाङ्क्षिन् = पु० जलं काङ्क्षति काङ्क्ष–णिनि। १ हस्तिनि हारा०। २ जलाभिलाषिणि त्रि०। स्त्रियां ङीप्।
जलकान्तार = पु० जलमेव कान्तारो दुर्गमवर्त्म यस्य। वरुणे हेम च०।
जलकामुक = पु० ६ त०। १ कुटुम्बिनिवृत्ते राजनि०। १ जलाभिलाषुके त्रि०।
जलकिराट = पुंस्त्री जले किराट इव। ग्राहे (हाङ्गोर)। हारा०। स्त्रियां जातित्वात् ङीष्।
जलकुक्कुट = पुंस्त्री जले कुक्कुट इव। (गाङ्गचिल) पक्षिभेदे हारा०। “भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः” भा० व० १०८ अ० “क दम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः। १५८ अ० स्त्रियां जातित्वात् ङीष्।
जलकुक्कुभ = पुंस्त्री जले कुक्कुभ इव। कोयष्टिखगे (कोडा पाखि) हेम० स्त्रियां जातित्वात् ङीष्।
जलकुन्तल = पु० जलस्य कुन्तलः केश इव। जलकेशे शंवाले। शब्दार्थचि०।
जलकुब्जक = पु० जले कुब्ज इव कायति कै–क। पङ्कारे शब्दार्थचि०।
जलकूपी = स्त्री जलेन कूपीव। १ कूपगर्त्ते २ पुष्करिण्यां च मेदि०।
जलकूर्म्म = पुंस्त्री जले कूर्म्म इव। शिशुमारे त्रिका०। स्त्रियां जातित्वात् ङीष्।
जलकेश = पु० जलस्य केश इव। शैवाले हारा०।
जलकेतु = पु० “जलकेतुरपि पश्चात् स्निग्धं शिखया परेण चोन्नतया” वृ० स० ११ अ० उक्ते केतुभेदे।
जलक्रिया = स्त्री जलसाध्या क्रिया। पित्रादीनां तर्पणे “कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः” भाग० ६। १६। १४ “कृत्वा वर्ज्या जलाक्रया” आ० त०।
जलक्रीडा = स्त्री ३ त०। नद्यादौ सखिभिः परस्परं जलसेचनरूपक्रीडायाम्। सहिताः भ्रातरः सर्वे जलक्रीडामवाप्नुमः”। “ततस्ते सहिताः सर्वे जलक्रीडामकुर्वृत” भा० आ० १२८ अ०।
जलखग = पुंस्त्री० ६ त०। जलचरबिहगे स्त्रियां जातित्वात् ङीष्। “ह्रदिनी विलासिनीनां जलखगनखविक्षतेषु रम्येषु” वृ० स० ४८ अ०।
जलगर्भ = पु० जलसूचको गर्भः। वृ० सं० उक्ते मेथनिःस्रसजलसूचके निमित्तभेदे गर्भशब्दे २५५१ पृ० विवृतिः।
जलगुल्म = पु० जलस्य गुल्म इव। १ जलावर्त्ते (घुरणो) २ कमठे ३ जलचत्वरे च (चातर जल) मेदि०।
जलङ्ग = पु० जलं गच्छति गम–ड नि० मुम्। महाकाले ओषधिभेदे राजनि०।
जलङ्गम = पु० जलं गमयति स्पर्शात् गामि–बा० ख। चण्डाले भरतः।
जलचत्वर = न० जलेन चत्वरस्। (चातरजल) स्वल्पसलिलयुक्ते देशे मेदि०।
जलचर = त्रि० जले चरति चर–टक् ७ त०। ग्राहादिषू जलजन्तुषु। “अशीतास्तरवो माघे–चैत्रे जलचराः सर्वे” चाणक्य०। “याम्येन वीजजलचरकाननहा वह्निभय दश्च” वृ० स० ४ अ० “गोवृषजलचरकर्षकशिलोच्चयैश्वर्य्य सम्पन्नाः” १५ अ०।
जलचारिन् = पु० जले चरति चर–णिनि ७ त०। १ मत्स्ये २ जलचरमात्रे त्रि० स्त्रियां ङीप्। “सरांसि च मनोज्ञानि समन्तात्” जलचारिभिः” भा० व० १६८ अ०।
जलज = न० जले जायते जल–ड। १ पद्मे २ शङ्खे च भाद ३ क्षारमेदे राजनि०। ४ मत्स्ये पु० स्त्री० शब्दच० ५ हिज्जलवृक्षे पु० (जलवेत) ६ वानीरवेते ७ शैव च पु० राजनि०। ८ कुपीलौ भावप्र० ९ जलजौ कर्क मीनौ मकरान्त्यार्द्धञ्च शिवमते कुम्भः” ज्यो० उक्तं १० कर्कटादिराशिषु। ११ जलजातमात्रे कुम्भीरादौ त्रि० “जलजानां पद्मानां स्थलानाञ्चैव सर्वशः” भा० ३ अ०। “जलजैः प्राणिभिः कीर्णाम्” “जलजैर्भूषि गुणैः”। “जलजैः कुसुमैश्चित्राम् “जलजैर्हरितोदकाः हरिवं० ६८ अ० तत्र पद्मे “वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम्” कुमा०। शङ्खे “निवेश्य दध्मौ जलजं कुमारः” “जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्त्तिभिः रघुः। मत्स्यादौ “न तथा बलवन्तः स्युर्जलजा वा स्वला हृताः। स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः सुश्रु०। “निषेव्यमाणो जलजैश्च सत्त्वैः” हरिवं० २४३ अ० ११ अब्जे चन्द्रे च तस्य सलिलमयत्वात समुद्रजातत्वाद्ग तथात्वम्।
जलजन्तु = पु० जलजातो जन्तुः। यादसि जलजाते प्राणिनि अमरः
जलजन्तुका = स्त्री जलजन्तु + संज्ञायां कन्। जलौकायां भरतः।
जलजन्मन् = न० जले जन्म यस्य। पद्मे हेमच०। “निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्मतया” माघः।
जलजम्बूका = स्त्री जलजाता जम्बूका। क्षुद्रजाम्ब्वाम् शब्दचि०
जलजाजीव = पु० जलं जलजमत्स्यबधविक्रयादिकमाजीवति आ + जीव–अण्। जलचरघातके (जेले) शब्दार्थचि०।
जलजिह्व = पु० जला जडा स्वादे असमर्था जिह्वाऽस्य। नक्रे हारा०।
जलजीविन् = पु० जलेन तज्जातमत्स्यादिना जीवति जीवणिनि। (जेले) मत्स्योपजीविनि। “सूत्रजालैर्यथा मत्स्यान् बध्नन्ति जलजीविनः” भा० शा० २०३ अ०।
जलडिम्ब = पु० जले डिम्ब इव। शम्बूके। (शामूक) हारा०
जलतण्डुलीय = पु० जलजातस्तण्डुलीयः। कञ्चटे शाकभेदे शब्दार्थचि०।
जलतापिन् = पु० जलतां स्वेदरूपस्नेहजलमयतामाप्नोति पाककाले आप + णिनि। (इलिश) मत्स्यभेदे शब्दर०। स्वार्थे क। जलतापिक तत्रार्थे। संज्ञायां कन्। काकमाचीवृक्षे च शब्दर०।
जलताल = पु० जलतायै अलति पर्य्याप्नोति अल–अच्। (इलिश) मत्स्यभेदे शब्दर०।
जलतिक्तिका = स्त्री स्वल्पं तिक्ता कन् तिक्तिका जलप्रघाना तिक्तिका। शल्लकीवृक्षे राजनि०।
जलत्रा = स्त्री जलात् त्रायते त्रै–क। १ छत्त्रे २ जङ्गमकुट्याञ्च हारा०।
जलत्रास = पु० जलात् तद्दर्शनात् त्रासः, सोऽस्य वा। दंष्ट्रिणा दंशनोत्तरं जलं दृष्ट्वा १ त्रामे २ तद्युक्ते त्रि०। “येन चापि भवेद्दष्टस्तस्य चेष्टारुतं नरः। बहुशः प्रति कुर्वाणः क्रियाहीनो विनश्यति। दंष्ट्रिणा येन दष्टश्च तद्रूपं यदि पश्यति। अप्सु वा यदि वाऽऽदर्शे रिष्टं तस्य विनिर्द्दिशेत्। त्रस्यत्यकस्माद्योऽभीक्ष्णं श्रुत्वा दृष्ट्वापि वा जलम्। जलत्रासस्तु विद्यात्तं रिष्टं तदपि कीर्त्तितम्। अदष्टो वा जलत्रासी न कथञ्चन सिध्यति। प्रसुप्तोऽथोत्थितो वापि स्वस्थोऽस्वस्थो न सिध्यति” सुश्रु०
जलद = पु० जलं ददाति दा–क। १ मेघे, २ कर्पूरे च ३ जलदातरि त्रि० मेदि०। “अनतिचिरोज्झितस्य जलदेन चिरस्थितबहुवुद्वुदस्य पयसोऽनुकृतिम्”। “प्रौढध्वान्तं दिनमिह जलदाः” माघः “सन्देशं मे तदनुजलद! श्रोष्यसि श्रोत्रपेयम्” मेघ०।
जलदकाल = पु० ६ त०। वर्षाकाले “जलदकालमबोधकृतं दिशाम्” माघः।
जलदक्षय = पु० जलदानां क्षयोऽत्र। १ शरत्काले “सर्वाणि तनुतां यान्ति जलानि जलदक्षये” हरिवं० ७३ अ०।
जलदर्द्दुर = पु० जलं दर्द्दुर इव। जलरूपे दर्द्दुरवाद्यभेदे (तालिदिया जलवाजान) “अवादयंस्ता जलदर्द्दुरांश्च वाद्यानुरूपं जगुरेव हृष्टाः” हरिवं० १४८ अ०।
जलदागम = पु० जलदानां मेघानामागमो यत्र। वर्षाकाले।
जलदाशन = पु० जलदैरश्यते अश–भोजने कर्म्मणि ल्युट्। शालवृक्षे शब्दच०। तत्पत्राणां मेघैर्भोजनस्य लोकप्रसिद्धेस्तस्य तथात्वम्।
जलदुर्ग = न० जलवेष्टितं दुर्गम्। दुर्गभेदे। दुर्गशब्दे विवृतिः।
जलदेव = पु० जलं देवः अधिष्ठात्रीदेवता अस्य। १ पूर्वाषाढानक्षत्रे तस्य जलदैवतत्वम् अश्लेषाशब्दे ४९७ पृ० दृश्यम्। “मूलेऽन्ध्रमद्रकपतिर्जलदेवे काशिपोमरणमेति” वृ० ११ अ० केतुग्रहाक्रान्तनक्षत्रभेदे फलोक्तौ। “इष्टानन्दकलत्रो वीरो दृढंसौर्हृदश्च जलदेवे” वृ० स० १०१ अ० वैवाहिकनक्षत्रफलोक्तौ। ७ त०। २ जलस्थिते देवे च। जलदेवताप्यत्र “अन्वीयमानो जलदेवताभिर्निषेव्यमाणो जलजैश्च सत्वैः” हरिवं० २४३ अ०।
जलद्राक्षा = स्त्री जले द्राक्षेव। शालिञ्जीशाके शब्दार्थचि०।
जलद्रोणी = स्त्री जलस्य जलसेचनार्थं दीणीव। नौकाया जलसेचनपात्रे शब्दार्थचि०।
जलद्वीप = पु० जलप्रधानो द्वीपः। द्वीपभेदे। “गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च। यत्नवन्तो जलद्वीपं सप्तराज्योपशोभितम्। सुवर्णरूप्यकद्वीपं सुवर्णकरमण्डितम्। जलद्वीपमतिक्रम्य शिशिरो नाम पर्वतः। दिवं स्पृशति शृङ्गेण देवदानवसेवितः। एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च। मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम्” रामा० कि० ४० अ०। क्वचित् पुस्तके यवद्वीप इति पाठः।
जलधर = पु० जलं धरति धृ–अच्। १ मेघे २ मुस्तके च अमरः ३ समुद्रे हेमच०। ४ तिनिशवृक्षे राजनि०। तस्य रसरूपजलाधिक्यात्तथात्वम् ४ जलधारकमात्रे त्रि०। “नभो जलधरैर्हीनं साङ्गारक इवांशुमान्” भा० अ० १३४ अ० “अप्यन्यस्मिन् जलधर! महाकालमासाद्य काले” मेघ०।
जलधरमाला = न० ६ त०। १ मेघपङक्तौ द्वादशाक्षरपादके २ छन्दोभेदे च। “अध्व्यष्टाभिर्जलधरमाला म्भौ स्मौ” व० र० “या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलधरमाला नव्या। भव्याकारा दिनकरपुत्रीकूले केलिलोला हरितनुरव्यात् सा वः” छन्दोम०।
जलधार = पु० जलं धारयति धारि–अण् उप० स०। १ शाकद्वीपस्थे गिरिभेदे। शाकद्वीपोपक्रमे “तथैव पर्वता राजन्! सप्तात्र मणिभूषिताः। रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु। अतीव गुणवत् सर्वं तत्र पुण्यं जनाधिप!। देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतो महाराज! मलयो नाम पर्वतः। यतो मेघाः प्रवर्त्तन्ते प्रभवन्ति च सर्वशः। ततः पूर्वेण कौरव्य! जलधारो महागिरिः। यत्र नित्यमुपादत्ते वासवः परमं जलम्” भा० भी० ११ अ०। २ जलधारके त्रि०। ६ त०। २ जलसन्ततौ स्त्री।
जलधि = पु० जलं धीयतेऽत्र धा–आधारे कि उप० स०। अब्धौ समुद्रे “छायेव या स्वर्जलधेर्जलेषु” आत्मानमेव जलधेः प्रतिबिम्बिताङ्गः” माघः। “एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्वुदमब्जं खर्वनिखर्वमहाशङ्खशङ्कवस्तस्मात्। जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संख्या” लीलावत्युक्ते २ संख्याभेदे। ४ चतुःसंख्यायां च।
जलधिगा = स्त्री जलधिं गच्छति गम–ड। १ नदीमात्रे हेमच० सर्वासां नदीनां साक्षात् परम्परया समुद्रगामित्वात्तथात्वम् अतएवोक्तं “सर्वा नद्यः समुद्रगाः” इति साक्षात् समुद्रगामिन्यां २ गङ्गादिनद्याञ्च। समुद्रगादयोऽप्यत्र।
जलधिज = पु० जलधौ जायते जन–ड। १ चन्द्रे। २ लक्ष्म्यां स्त्री त्रिका०। ३ समुद्रजातमात्रे त्रि०।
जलधेनु = स्त्री दानार्थकल्पितायां जलादिनिर्मितायां धेन्वां सा च नानाविधा तद्विधिः हेमा० दा० उक्तो यथा
“जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया। देवदेवो हृषीकेशः सर्वगः सर्वभावनः। जलकुम्भं नरव्याघ्र! सुवर्णरजतान्वितम्। रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम्। सितवस्त्रयुगच्छन्नं दूर्व्वापल्लवशोभितम्। कुष्ठमांसीमुरीशीरबालकामलकैर्युतम्। प्रियङ्गुपत्रसहितं सितवस्त्रोपवीतिनम्। सच्छत्रं सोपानत्क च दर्भविष्टरसंस्थितम्। चतुर्भिः संवृतं भूप! तिलपात्रैश्चतुर्दिशम्। स्थापितं दधिपात्रेण घृतक्षौद्रवता मुखे। उपोषितः समभ्यर्च्य वासुदेवं जलेश्वरम्। पुष्पधूपोपहारैस्तु यथाविभवमादृतः। सङ्कल्प्य जलधेनुञ्च कुम्भं तमभिपूज्य जापूजयेहत्सकन्तहत् कुम्भं जलमयं बधः। एवं संपूज्य गोविन्दं जलधेनुं सवत्सिकाम्। सितबस्त्रधरः शान्तो वीतरागोविमत्सरः। दद्यात् द्विजाय राजेन्द्र! प्रीत्यर्थं जलशायिनः। जलशायी जगद्योनिः प्रीयतां मम केशवः। इति चोच्चार्य्य भूनाथ! विप्राय प्रतिपाद्य ताम्। अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम्”। जलकुम्भमित्यादि, कुम्भोऽत्र कलसः। सुवर्णरजतयोरनियतपरिमाणतया यथाशक्ति विधानं पञ्चरत्नानि धान्यानि च परिभाषायामुक्तानि अत्र यद्यपि सामान्येनोपदेशः तथापि तत्सामान्यादितरेषु तथात्वमितिन्यायादितरधेनुवदविरुद्धधर्म्मानुष्ठानं वेदितव्यं ततश्च सुवर्णस्य शृङ्गाकृतित्वं रजतस्य खुराकृतित्वं तिलपात्राणां ताम्रपात्रमयत्वं, दधिपात्रस्य कांस्यपात्रमयत्वं, चानुसन्धेयं तथा धान्यानि पार्श्वद्वये, कुष्ठादीनि घ्राणदेशे, पियङ्गुपत्रं श्रवणे, यज्ञोपवीतं शिरःस्थाने स्थापयेत्। वत्मोऽपि चतुर्थांशेन धेनुवत् कार्य्यः। क्वचित्तु “पूजयेद्वत्सकं तद्वत् कृतं घृतमयं बुधः” इति पाठात् घृतजलयोर्विकल्पोऽवगम्यते, दानवाक्यन्तु पूर्ववत् दक्षिणा चात्र यथाशक्ति सुवर्णमिति। “अनेन विधिना दत्त्वा जलधेनुं नराधिप!। सर्ब्बान् कामानवाप्नोति ये दिव्या ये च मानुषाः। शरीरारीग्यमाबाधोपशमः सार्वकामिकः। नृणां भवति दत्तायां जलधेन्वां न संशयः”। इति विष्णुधर्म्मोक्तो जलधेनुदानविधिः। “भानुरुवाच। जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया। देवदेशो मयूखेशः सर्वगः सर्वभावनः”। जलकुम्भं समानीयेत्यादि विष्णुधर्मतुल्यार्थं, विशेषस्तु “ततः संपूज्य चादित्यं जलधेनुं सवत्सिकाम्। दद्याद्विप्राय देवाग्रे प्रीत्यर्थं मिहिरस्य तु। आदित्यः स जगद्योनिः प्रीयतां मिहिरः सदा। इति चोच्चार्य्य तां गान्तु विप्राय प्रतिपादयेत्। अनेन विधिना यस्तु जलधेनुं महामुने!। सर्व्वाह्लादानवोप्नोति यांश्च ध्यायति मानवः। सर्वपाप विनिर्म्मुक्तः पितरं सपितामहम्। प्रपितामहं यथापूर्वपुरुषाणां चतुष्टयम्। आत्मानं ससुतं पौत्रं तदधस्ताच्चतुष्टयम्। तारयेत् स मुनीन्द्रेह जलधेनुप्रदोनरः। यश्च गृह्णाति विधिवत् तस्याप्येवंविधाः कुले। चतुर्द्दश तथा चैव ददतश्चानुमोदतः। दीयमानां प्रपश्यन्ति जलधेनुं च ये नराः। तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम्”। इति आदित्यपुराणोक्तो जलधेनदानविधिः। तोयधेनुरप्यत्र।
“अगस्त्य उवाच। तोयधेनुं शृणु वत्स! यथा देवी प्रसीदति। कुम्भं तोयसुसंपूर्ण्णं रम्यवस्त्रयुगान्वितम्। समस्तबीजसंयुक्तं दूर्वापल्लवशोभितम्”। समस्तबीजानि, सर्वधान्यानि। “दूर्वाक्षतदधिशङ्खकुष्ठामलकचन्दनैः। माल्यच्छत्रसमायुक्तं तिलपात्रैश्च संयुतम्। दधिक्षीरघृतं पात्रं विधानेनोपकल्पयेत्। वत्सकं कल्पयेत्तस्यास्तत्तुरीयमयं बुधः। देवीमम्यर्च्च्य विधिवत् सोपवासोऽथ नक्तवान्। देवीभक्ते प्रदद्याद्यः सर्वान् कामानवाप्नुयात्। जये!ऽरिसूदनि! देवि! देवानां भयनाशिनि! वेदमातर्वरे! दुर्गे! सर्वगे! सुभगे! नमः। अनेन वत्स! मन्त्रेण नन्दानाम्नाभिमन्त्रयेत्। देवी मे प्रीयतां नित्यं यथोदितफला शिवा” इति देवीपुराणोक्तो तीयधेनुदानविधिः।
जलनकुल = पु० जले नकुल इव। उद्रे (धाडिया) (उद्विडाल) ख्याते जलजन्तुभेदे त्रिका०।
जलनिधि = पु० निधीयतेऽस्मिन् नि + धा + आधारे कि उप० स०। समुद्रे अमरः। “तत्रासौ भगवान् देवः स्वपन् जलनिधौ तदा” भा० व० २७१ अ०। २ चतुःसंख्यायाम् “वारे १ शीतकरं तिथौ जलनिधिं४ भेऽग्निञ्च ३ योगे द्वयम्” सत्कृत्यमुक्ताबली “जलनिधिरशनायाः स्वामितां याति भूमेः” वृ० सं० १२ अ०।
जलनिर्गम = पु० जलानां निर्गमः। १ नद्यादेर्जलभ्रमणे, अधःस्थितस्य २ जलस्योर्द्ध्वगतौ, जलनिःसरणे च अमरभरतौ।
जलनीली = स्त्री जलं नीलयति नील + कत्करोति णिच्–अण् उप० स० गौरा ङीष्। शैवाले अमरः स्वार्थे क। जलनीलिकाप्यत्र।
जलन्धम = पु० जलं धमति ध्मा–खश्। दानवभेदे “अष्टदंष्ट्रश्चतुर्दंष्ट्रो मेधनादी जलन्धमः” हरिवं० २४० अ०। सत्यभामायां कृष्णाज्जाते २ कन्याभेदे स्त्री “जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः। रोहितो दीप्तिमांश्चैव ताम्नजाक्षो जलान्तकः। भानुर्भीमरिका चैव ताम्रपक्षा जलन्धमा। चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात्” हरिवं१६२ अ०
जलन्धर = पु० जलं धरति बा० ख मुम्। १ ऋषिभेदे तस्य गोत्राषत्यं नडा० फक्। जालन्धरायण तद्गोत्राप्रत्ये पुंस्त्री। २ असुरभेदे तस्योत्पत्तिकथा पाद्मोत्तरखण्डे दृश्या। २ योगाङ्गे बन्धभेदे तल्लक्षणादिकं काशीख० ४१ अ० उक्तं यथा “बध्नाति च सिराजालमधोगामि न भोजनम्। एष जलन्धरो बन्धः कण्ठे दुःखौघनाशनः। जलन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे। न पीयूषं पतत्यग्नौ न च वायुः प्रधावति” “महामुद्रां नभोमुद्रामुड्डीयानं जलन्धरम्। मूलबन्धञ्च च यो वेत्ति स योगी योगमिद्धिभाक्” तत्रैवाध्याये।
जलपक्षिन् = पु० जलस्थितः पक्षी। जलचरखग।
जलपति = पु० ६ त०। १ वरुणे। हेमच०। तस्य जलपतित्वकथा काशीख० १२ अ० यथा
“ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च। जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम्। तत्र तप्त्वा तपो घोरं लिङ्गं संस्थाप्य शाम्भवम्। पञ्च वर्षसहस्राणि स्थितः पाषाणनिश्चलः। आविरासीन्महादेवस्तुष्टस्तु तपसा ततः। उवाच कार्द्दमे! व्रूहि कं ददामि वरोत्तमम्। कार्द्दमिरुवाच। यदि नाथ! प्रसन्नोऽसि भक्तानामनुकम्पन!। सर्वासामाधिपत्यं मे देह्यपां यादसामपि। इति श्रुत्वा महेशानः सर्वचिन्तितदः प्रभुः। अभ्यषिञ्चत् ततस्तञ्च वारुणे परमे पदे। रत्नानामब्धिजातानामब्दानां सरितामपि। सरसां पल्वलानाञ्च वाप्यन्धुस्रोतसां पुनः। जलाशयानां सर्वेषां प्रतीच्याश्चैव वै दिशः। अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः” ३ समुद्रे जलं पतिरस्य। ३ पूर्वाषाढानक्षत्रे च जलनाथादयोऽप्यत्र।
जलपथ = पु० जलमेव पन्थाः अच् समा०। १ जलमार्गे “यादोनाथाः शिवजलपथा कर्म्मणे नौचराणाम्” रधुः। ६ त०। २ प्रणाल्यां जलनिर्गममार्गे च।
जलपारावत = पुंस्त्री जले पारावत इव। जलकपोते (पानकौडि) पक्षिभेदे राजनि०। स्त्रियां ङीष्।
जलपित्त = न० जलस्य पित्तमिव। १ अप्पित्ते अग्नौ शब्दर० तस्य जलहेतुत्वात् तथात्वम्।
जलपिप्पली = स्त्री जलजाता पिप्पली। (जलपिपुली) पिप्पलीभेदे। “जलपिप्पल्यभिहिता शारदी शकुलादनी। मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता। जलपिप्पलिका हृद्या चक्षुष्या शुक्रला लघुः। संग्राहिणी हिमा रूक्षा रक्तदाहव्रणापहा। कदुताका रसा रुच्या कषाया वह्निवर्द्धिनी” भावप्र०।
जलपुष्प = न० जलजातं पुष्पम्। कमलादौ।
जलपूर = पु० ६ त०। जलसमूहे। “सन्दावनविपिने परिसरपरिगतयमुनाजलपुरे विहरति” गीत०।
जलपृष्ठजा = स्त्री जलस्य पृष्ठे उपरि जायते जन–ड ७ त०। शैवाले शब्दच०।
जलप्रदान = न० प्रेतादिभ्यः जलस्य प्रदानम्। प्रेताद्युद्देशेन जलदाने तर्पणे।
जलप्रदानिक = न० जलप्रदानं युद्धहतानां प्रेतानासुद्देशेन जलप्रदानं प्रतिपाद्यतयाऽस्त्यस्य ठन्। भारतस्त्रीपर्व्वान्तर्गते अबान्तरपर्वणि तच्च स्त्रीपर्वणि प्रथमाबधि १५ अध्यायपर्य्यन्तं “जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्” भा० आ० २ अ०।
जलप्रपा = स्त्री जलस्य जलदानार्थं प्रपा। जलदानार्थं शालायाम् (जलसत्र)। “यात्रोद्वाहजलप्रपाशिशुसंस्कारव्रतञ्चाष्टका” मु० चि० टी० धृतवाक्यम्।
जलप्रान्त = पु० ६ त०। जलसमीपस्थाने।
जलप्राय = न० जलं प्रायं यत्र। जलबहुले देशे अनूपदेशे अमरः।
जलप्रिय = पुंस्त्री ६ त०। १ चातकखगे शब्दर०। २ मत्स्ये शब्दच० स्त्रियां जातित्वेऽपि योपधत्वात् टाप्। ३ जलप्रियमात्रे त्रि०।
जलप्लव = पुंस्त्री जले प्लवते प्लु–अच्। (उद्विडाल) जलजन्तुभेदे। स्त्रियां जातित्वात् ङीष्।
जलफल = न० जलजातं फलम्। शृङ्गाटके भावप्र०। “शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि। शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम्। ग्राहिशुक्रानिलश्लेष्मप्रदं पित्तप्रदाहनुत्”।
जलबन्ध = पु० जलं बध्नाति बन्ध–ण्वुल्। जलस्रोतोनिरोधके दारुशिलामये १ सेतौ शब्दर०। भावे घञ् ६ त०। २ जलस्य बन्धे च।
जलबन्धु = पु० जलं बन्धुर्यस्य। मत्स्ये शब्दर० जलं विना तस्य जीवनाभावेन तथात्वम्।
जलबालक = पु० जलं बाल इव यस्य कप्। विन्ध्यपर्वते हेम०। जलस्य बालिकेव। १ विद्युति स्त्री हेम०।
जलबिम्ब = पुंन० ६ त०। जलस्य वुद्बुदे मध्यावकाशयुक्ते शिथिलसंयोगेन छत्त्राकारे तोयांशभेदे मेदि०। “जम्बूवज्जलविम्बवज्जलजवज्जम्बालवज्जालवत्” उद्भटः।
जलबि(वि)ल्व = पु० जलप्रधानो बिल्वैव। १ कर्कटे। विलभेदने क्व। २ जनचत्वरे (चातरजल) ३ स्वल्पजलदेशे हारा०।
जलबुद्बुद = न० ६ त०। जलविम्बे। “मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम्। यः करोति स वै मूढो जलबुद्बुदसन्निभे” शब्दार्थचि० धृतवाक्यम्।
जलब्राह्मी = स्त्री जले व्राह्मीव। हिलमोच्यां त्रिका०।
जलभू = पु० भवत्यस्मात् भू–अपादाने क्विप् ६ त०। १ मेघे ३ तन्नामनामके कर्पूरे च जलं भूरुत्पत्तिस्थानमस्य। ३ कञ्जटे शब्दच०। ६ त०। ४ जलाधारभूमौ स्त्री।
जलभृत् = पु० जलं बिभर्त्ति भृ–क्विप् ६ त०। १ मेघे २ तन्नामनामके कर्पूरे च ३ तोयधारकमात्रे घटादौ त्रि०।
जलमक्षिका = स्त्री जलजाता मक्षिका। तोयजकृमौ त्रिका०
जलमण्डुक = न० जलं मण्डुकमिव। मण्डूकवाद्यतुल्ये करताडनेन तद्वद्ध्यनिकारके जलदर्दुरे “जग्मुर्जलानि जलमण्डुकवाद्यवल्गु” माघः। “जलमेव पाणिनो त्यापितग्रपरेण ताडितं मण्डुकवत् ध्वनतीति लोकप्रसिद्धम्” मल्लि०।
जलमद्गु = पु० जले मद्गुरिव निरन्तरमज्जनोन्मज्जनकारित्वात्। मत्स्यरङ्कविहगे हारा०।
जलमधूक = पु० जलसन्निकृष्टजातो मधूकः। जलान्तिकजाते मधूकभेदे मधूलके भावप्र०। “मधुको गुडपुष्पः स्यात् मधुवृक्षो मधुस्रवः। वानप्रस्थो मधुष्ठीलो जलजोऽत्र मधूलकः। “मधूकपुष्पं मधुरं शीतलं गुरु वृंहणम्। फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत्। अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षतक्षयान्”।
जलमय = त्रि० जलात्मकः जल + मयट्। १ जलात्मके चन्द्रादौ “सलिलमये शशिनि रवेदीधितयः” वृ० स० तस्य तथात्वमुक्तम्। २ तल्लोकस्थे कर्म्मिणामम्मये देहे च। स्त्रियां ङीप्। “उभे एव क्षमे वोढुमुभयोर्वीजमाहितम्। सा वा शम्भोस्तदीया वा मूर्त्तिर्जलमयी मम” कुमा० शम्भोः क्षित्याद्यष्टमूर्त्तिकन्वेन तन्मूर्त्तेर्जलमयत्वम्। जलस्य ब्रह्मवीजाधारत्वं च मनुनोक्तं यथा “अप एव ससर्जादौ तासु वीजमवासृजत्”।
जलमसि = पु० जलं स्वस्थितं तोयं मस्यति छिनत्ति सूक्ष्मांशतया भिनत्ति मस–इन् ६ त०। १ मेघे हारा०। २ तन्नामनामके कर्पूरे च।
जलमार्ग = पु० जलस्य तद्वाहस्य मार्गः। १ प्रणाल्याम् (पयनाला) हेम०। जलमेव मार्गः। २ जलस्थे मार्गे च (जलपथ)।
जलमार्ज्जार = पुंस्त्री जलनकुले त्रिका० स्त्रियां जातित्वात् ङीष्
जलमातृका = स्त्री जलस्थिता मातृका। जलस्थिते मातृकाभेदे तद्भेदाः सप्त विधानपा० उक्ता यथा “मत्सी कूर्मी वराही च दर्द्दुरी मकरी तथा। जलूका जन्तुका चैव सप्तैता जलमातृकाः”।
जलमुच् = पु० जलानि मुञ्चति मुच–क्विप्। १ मेघे अमरः तन्नामनामके २ कर्पूरे च। “शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालैः” मेघ०। ३ जलमोचनकर्त्तरि त्रि० “नात्यम्बुदा जलमुचोऽचलमन्निकाशाः वृ० १९।
जलमूर्त्ति = पु० जलं मूर्त्तिरस्य। शिवे। अष्टमूर्त्तिशब्दे ५२० पृ० दृश्यम्।
जलमूर्त्तिका = पु० जलस्य मूर्त्तिः थनीभावो यत्र कप्। करकायाम् उष्णवातसंयोगजाते थनीभूते जले शब्दच०। तस्य च तथात्वम् करकशब्दे १६८७ पृ० दृश्यम्।
जलमोद = न० जलेन जलयोगेन मोदयति सेविनं मुद–णिच् अण् उप० स०। उशीरे (वेणारमूल) राजनि०।
जलयन्त्र = न० जलानामुत्क्षेपणार्थं यन्त्रम्। (फोहारा) ख्याते १ धारायन्त्रे २ कूपादितस्तोयोत्थापकयन्त्रभेदे “विलिप्तगात्रा जलयन्त्रहस्ताः” हरिवं० १४८ अ०। जलेन तदाकर्षणेन यन्त्रं घटीयन्त्रम्। ३ कालज्ञापके षटीयन्त्रभेदे घटीयन्त्रशब्दे ३७८१ दृश्यम्। स्वार्थे क। तत्रार्थे “हस्तप्रमुक्तैर्जलयन्त्रकैश्च प्रहृष्टरूपाः सिषिचुस्तदानीम्” हरिवं० १४८ अ०।
जलयन्त्रगृह = न० जलयन्त्रं तन्मध्य इव स्थितम् गृहम्। चतुःपार्श्वे जलयुक्ते जलमध्ये निर्म्मितगृहे (जलटुङि) जलयन्त्रमन्दिरादयोऽप्यत्र हारा०। ६ त०। (फोहाराघर) २ जलयन्त्रयुक्ते गृहे।
जलयात्रा = स्त्री जलस्य तदाहरणार्थं यात्रा। शुभकर्मसम्पादनाय जलाहरणाय यात्रायाम्। तद्विधानादिकमाह वि० पा० वशिष्ठः “शान्तिकं पौष्टिकं वापि जलयात्रां विना बुधः। कुरुते यदि वा मोहात् कर्म तस्य च निष्फलम्। तडागादिप्रतिष्ठासु देवतायतनादिषु। लक्षहोमेकोटिहोमेऽयुतहोमे तथैव च। व्रतोत्सर्गमहादाने यज्ञे वा वितते शुभे”। व्रतोत्सर्गे व्रतोद्यापने इत्यर्थः। “जलयात्रां पुरा कृत्वा श्रेष्ठं कर्म समाचरेत्। अथातः। संप्रबक्षामि जलयात्राविधिं शुभम्। यज्ञशालामतिक्रम्य ऋत्विग्मिर्व्राह्मणैः सह। यजमानः सपत्नीकः सुहृद्वन्धुजनैर्युतः। अश्वारूढो गजारूढो वस्त्रालङ्कारभूषितः। गृहीत्वोपस्करं सर्वं गन्धपुष्पाक्षतादिकम्। जलाशयन्ततो गच्छेद्गितवादित्रनिस्वनैः। अगाधं च ह्रदं गच्छेन्नदी वाथ समुद्रगाम्। सुवासिन्योऽग्रतः कार्य्याः सर्वालङ्कारभूषिताः। हैमराजतताम्रान् वा मृण्मयान् कलशाञ्छुभान्। गृहीत्वा गन्धपुष्पाद्यैरर्च्चितान् सुदृढान् नवान्। जलाशय समासाद्य तीरे गोमयलेपिते। चतुरस्रीकृते क्षेत्रे तत्र स्वस्तिकमालिखेत्। यवैर्वा तण्डुलैर्वापि पद्ममष्टदलं लिखेदित्यादि”। विस्तरस्तत्र दृश्यः।
जलयान = न० जले यायते गम्यतेऽनेन या–करणे ल्युट् ७ त०। जलेगमनसाधने नौकादौ। “व्यसनार्णवमभ्येति जलयानैर्यथार्णवम्” भाग० ३। १४। १६।
***