जन्तु = पु० जन–तुन्। १ जननशीले प्राणिनि अमरः अविद्यादोषात् देहात्माभिमानिनि २ जीवे। “एतेषामेव जन्तूनां भार्य्यात्वमुपयान्ति ताः” मनुः। “ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे” देवीमा० “स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्” भा० आश्व० ११३६ श्लो०। सोमकस्य नृपस्य भार्य्याशते जायमाने पुत्रभेदे “युधिष्ठिरासीन् नृपतिः सोमको नाम धार्म्मिकः” इत्युपक्रमे “कदाचित्तस्य वृद्धस्य घटमानस्य यत्नतः! जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायन” इत्युक्त्वा “तस्य राज्ञ एकपुत्रत्वदुःखनिवारणाय लोमशेन वह्नौ जन्तुवपाया हवने कृते जन्तुपूर्वकं पुत्रशतं स्त्रीशते तस्याजायत इत्युक्तम् भा० व० १२७। २२८ अ०। जन्तूपाख्याने दृश्यम्। ४ मनुष्ये ब० व०” निघण्टुः।
जन्तुक = पु० जन्तु + स्वार्थे क। जन्तुशब्दार्थे जन्तुनृपस्य गोत्रापत्यम् इञ्। जान्तुकि तद्गोत्रापत्ये उपका० बहुत्वे तस्य इञो लुक्द्वन्द्वे अद्वन्द्वे च। जन्तुक २ तद्गोत्रापत्येषु ब० व०।
जन्तुकम्बु = पु० जन्तुरूपः कम्बु। कृमिशङ्खे राजनि०।
जन्तुका = स्त्री जन्तुभिः कायति प्रकाशते कै–क। १ लाक्षायां, तस्याहि कीटैः प्रकाशः। २ नाभीहिङ्गुनि च राजनि०।
जन्तुघ्न = पु० जन्तून् कृमीन् हन्ति हन–क। १ वीजपूरे। राजनि० २ प्राणिघातके त्रि०। ३ विडङ्गे, ४ हिङ्गुनि च न०। शब्दमा० ५ विडङ्गे स्त्री ङीप् राजनि०।
जन्तुनाशन = न० जन्तून् नाशयति नश–णिच्–ल्यु। हिङ्गुनि राजनि०।
जन्तुपादप = पु० जन्तुप्रधानः पादपः। कोषाम्रवृक्षे राजनि०।
जन्तुफल = पु० जन्तवः फलेऽस्य। उदुम्बरे अमरः।
जन्तुमती = स्त्री जन्तवः सन्त्यस्यां वाहुल्येन मतुप् ङीप्। क्षितौ।
जन्तुमारी = स्त्री जन्तून् कृमीन् मारयति मृ–णिच्–अण् उप० गौ० ङीष्। निम्बूके (निमकी)। राजनि०।
जन्तुला = स्त्री जन्तून् कीटान् लाति ला–क। काशतृणे त्रिका०।
जन्तुहन्त्री = स्त्री जन्तून् हन्ति हन–तृच् ङीप्। १ विडङ्गे राजनि० २ जन्तुनाशके त्रि०।
जन्त्व = त्रि० जन–कृत्यार्थे त्वन्। जनितव्ये “यज्जातं यच्च जन्त्वम्” ऋ० ८। ८९। ६। “जन्त्वम् जनितव्यम्” भा०
जन्म = न० जन–बा० मन्। जन्मनि भरतः।
जन्मकील = न० जन्मनः कील इव रौधकत्वात्। विष्णौ त्रिका०
जन्मतिथि = पु० स्त्री जन्मनस्तिथिः। जन्मकालिकतिथिसजा- तीयतिथौ स्त्रीत्वे वा ङीप् तत्र कृत्यानां गौणचान्द्रेणैव कर्त्तव्यता। तद्विधानादि ति० त० दर्शितं यथा
“तच्च मलमासे न कर्त्तव्यं चान्द्रमासीयत्वेन सावकाशत्वात्। नच तस्य सौरमासीयत्वं तथात्वे तन्मासे तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नचेष्टापत्तिः प्रतिसंवत्सरन्तद्विधानात् यथा ब्रह्मपुराणं गर्गश्च “सर्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः। गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः। स्वनक्षत्रञ्च पितरौ तथा देवः प्रजापतिः। प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः”। स्नातैस्तिलस्नातैः तथाच तत्तिथिमधिकृत्य ‘तिलोद्वर्त्तीतिलस्नायी तिलहोमी तिलप्रदः। तिलभुक् तिलवापी च षट्तिली नावसीदति।’ प्रजापतिर्ब्रह्मा। मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतया गोरोचनादिकमपि मङ्गलं तेन गुग्गुल्यादिपाणिभिरित्यर्थः। तथाच कृत्यचिन्तामणौ ‘गुडदुग्धतिलानद्याज्जन्मग्रन्थेश्च बन्धनम्। गुग्गुलुं निम्बसिद्धार्थं दूर्वागोरोचनायुतम्। संपूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम्। चिरजीवी यथा त्वं भोभविष्यामि तथा मुने!। रूपवान् वित्तवांश्चैव श्रियायुक्तश्च सर्वदा। मार्कण्डेय! महाभाग! सप्तकल्पान्तजीवन!। आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदोभव”। स्वनक्षत्रमिति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्मकालीननक्षत्रं नामकरणे तथादर्शनात् वक्ष्यमाणब्रह्मपुराणोक्तप्रणवादिनमोऽन्तेन नाम्नैव पूजाविधानाच्च तदज्ञाने स्वनक्षत्राय नम इत्युल्लेख्यम्। पूजायामर्घ्यानन्तरं पाद्यमाह मत्स्यपुराणम् “अर्घ्यपाद्यादिकन्तत्र मधुपर्कं प्रयोजयेत्।’ पाद्यानन्तरमर्घ्यमाह नरसिंहपुराणम्। ‘पाद्यं चैव तृतीयया चतुर्थ्यार्घ्यं प्रदापयेत्।’ तृतीयया पुरुषसूक्तीयतृतीयया ऋचा उभयक्रमदर्शनादिच्छाविकल्पः इति श्रीदत्तः। श्रीपतिव्यवहारनिर्णये ‘नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम्।’ तथा ‘द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम्। मार्कण्डेयं नरो फक्त्या पूजयेत् प्रयतस्तथा। ततो दीर्घा युषं व्यासं रामं द्रौणिं कृपं वलिम्। प्रह्रादञ्च हनूमन्त विभीषणमथार्च्चयेत्।’ रामोऽत्र परशुरामः चिरजीवि साहचर्य्यात् द्रौणिरश्वत्थामा। तथा ‘स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन्नरः। षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुन पुनः’। ‘एकैकां देवतां राम! समुद्दिश्य यथाविधि। चतु र्थ्यन्तेन घर्मज्ञ! नाम्ना च प्रणवादिना। होमद्रव्यमथैकैव शतसंख्यन्तु होमयेत्” इति विष्णुधर्मोतरदर्शनात्। एवं होमे स्वाहान्तता च मन्त्रस्य “स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेवताम्” इति स्मृतेः। अशक्तौ तु देवीपुराणम् “होमग्रहादिपूजायां शतमष्टोत्तरं भवेत्। अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते”। स्कान्दे “खण्डनं नखकेशानां मैथुनाध्वानमेव च। आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत्”। अध्वानम् अघ्वगमनं कलहमित्यत्र सङ्गरमिति क्वचित् पाठः सङ्गरं युद्धम्। वर्षवृद्धौ जन्मदिने। वृद्धमनुः “मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा। अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा”। जन्मनि पुत्रजन्मनि। ज्योतिषे “स्नात्वा जन्मदिने स्त्रियं परिहरन् प्राप्नोत्यर्भाष्टां श्रियम् मत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते। सक्तून् खादति यस्तु तस्य रिपवोनाशं प्रयान्ति ध्रुवं भुङ्क्ते यस्तु निरामिषं स हि भवेत् जन्मान्तरे पण्डितः”। दीपिकायाम् “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्मवेच्च। भवन्ति तद्वत्सरमेव यावन्नैरुज्यसम्मानसुखानि तस्य। कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत्। अमृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे”। कृतान्तकुजयोः शनिमङ्गलयोः। “तस्य सर्वौषधिस्नानं ग्रहविप्रसुरार्च्चनम्। ग्रहानुद्दिश्य होमोवा ग्रहाणां प्रीतिमिच्छता। सौरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम्। मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम्। शठीचम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः”।। सौरारयोः शनिभौमयोः। रजनीद्वयं हरिद्रादारुहरिद्रे। एषां पत्रादीनामपि ग्रहणम्। कषायावयवग्रहणमाह मत्स्यपुराणम् ‘एषां पत्राणि साराणि मूलानि कुसुमानि च। एवमादीनि चान्यानि कषायाख्योगणः स्मृतः”। तत्र क्रमः। तिलोद्वर्त्तनं तिलयुक्तजलेन स्नानं नववस्त्रपरिधानं गुग्गुलुनिम्बश्वेतसर्षपदूर्वागोरोचनात्मकजन्मग्रन्थिं दक्षिणपाणौ बध्नीयात्। गुरुदेवाग्निविप्राः पूजनीयाः स्वनक्षत्रमपि पूजनीयम्। अत्र च “हस्तास्वाती श्रवणा अक्लीवे मृगशिरीनपुंसि स्यात्। पुंसि पुनर्वसुपुष्यौ मूलं पुंस्त्री स्त्रियः शेषाः” इत्यनेन लिङ्गनिर्णयः। जन्मनक्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे “गोपयेज्जन्मनक्षत्र धनसारं गृहे मलम्। प्रभोरप्यपमानञ्च तस्य दुश्चरितञ्च यत”। धनसारं धनश्रेष्ठं मलं छिद्रम्। पितरौ प्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयच्च पूज- नीयः। ‘सतिलं गुडसंयुक्तमञ्जल्यर्द्धमितं पयः। मार्कण्डेयवरं लब्धा पिबाम्यायुष्यहेतवे” इति गुडतिलदुग्धपानमन्त्रः। ततः प्रार्थनामन्त्रौ। ‘चिरजीवी यथा त्वं भो भविष्यामि तथा मुने!। रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्वदा। मार्कण्डेय! महामाग! सप्तकल्पान्त जीवन!। आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदोभव”। ततीव्यासपरशुरामाश्वत्थामकृपवलिप्रह्लादहनूमद्विभीषणाः पूजनीयाः। षष्ठ्यपि। “त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च। व्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे”। इति मत्स्यपुराणीयं पठेत्। पितृमातृपादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः यथा “कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः। देवक्याश्च महाबाहुर्बलदेवसहायवान्”। एवञ्च “सहस्रन्तु पितुर्माता गौरवेणा वरिच्यते” इति मनुवचने सहस्रं पितॄनपेक्ष्य यद्गौरवमुक्तं तत्पोषणरक्षार्थम्। अतएव मनुः “मृते भर्त्तरि पुत्रस्तु वाच्यो मातुररक्षिता”। वाच्योगर्हणीयः। अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः “वेदमन्त्रवर्जम् शूद्रस्य” इति छन्दोगाह्निकाचारचिन्तामणिधृतस्मृतौ वेदेति विशेषणात्। एवञ्च पुराणमधिकृत्य “अध्ये तव्यं न चान्येन ब्राह्मणं क्षत्रियं विना। श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन” इति भविष्यपुराणवचनं पुराणमन्त्रेतरपरम्। पञ्चयज्ञस्नानश्राद्धेषु पौराणिकमन्त्रोऽपि निषिद्धः। शूद्रमधिकृत्य “नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत्” इति याज्ञवल्क्येन “ब्रह्मक्षत्रविशामेव मन्त्रवत् स्नानमिष्यते। तुष्णीमेव हि शूद्रस्य स नमस्कारकं मतम्” इति योगियाज्ञवल्क्येन श्राद्धमधिकृत्य “अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेणं गृह्यते” इति वराहपुराणेन च नमस्कारेणेति तुष्णीमिति मन्त्रवर्जित इति चाभिधानादेतत्परं वैदिकपरञ्च शूद्राधिकारे गौतमवचन “अनुमतोऽस्य नमस्कारो मन्त्रः” इति। अनुपनीतस्यापि शूद्रसमत्वेन श्राद्धातिरिक्तवेदपाठनिषेधमाह मनुः “नाभिव्याहारयेद्व्रह्म स्वधानिनयनादृते। शूद्रेण हि समस्तावत् यावद्वेदे न जायते”। स्त्रीणामपि वैदिकमन्त्रनिषेधमाह नृसिंहतापनीयम् “सावित्री प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रोयदि जानीयात्स मृतोऽधोगच्छति” इति मेच्छन्तीतिपर्य्यन्तं पराशरभाष्येऽपि लिंखतम्। जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमास्यन्तमासादरः। गृह्यपरिशिष्टम् “उपाकर्म्म तथोत्सर्गः प्रसवाहोऽष्टकादयः। मानवृद्धौ पराः कार्य्या वर्जयित्वा तु पैतृकम्”। अत्राष्टकासाहचर्य्याज्जन्माष्टम्यां तथा दर्शनाच्च प्रसवाहो जन्मदिनम्। “द्बादश मासाः संवत्सरः क्वचित्त्रयोदश मासाः संवत्सरः” इति श्रुत्या वर्षे मासवृद्धिरूपा मानवृद्धिरुक्ता सैबात्र ग्राह्या न तु सौरे मासि तिथिद्वयलाभान्मानवृद्धिर्जीमूतवाहनोक्ता ग्राह्या तिथिद्वयलाभस्य मानवृद्धित्वे प्रमाणाभावात्। मानवृद्धावित्यत्र मासवृद्धाविति हेमाद्रिणा धृतम्। पैतृकं मपिण्डीकरणं मलमासमृतस्य प्रत्याव्दिकञ्च तयोर्मलमासेऽपि विधानात्। ज्योतिः पराशरोऽपि “उपाकर्म्म तथोत्सर्गः प्रसवाहोऽष्टकादयः। मासवृद्धौ पराः कार्य्यावर्जयित्वा तु पैतृकम्”। जन्मतिथेरुभयदिनलाभे तु देवीपुराणम् “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता। घस्रद्वये जन्मतिथिर्यदि स्यात् पूज्या तदा जन्मभसंयुतैव। असङ्गता भेन दिनद्वयेऽपि पूज्या परा या भवतीह यत्रात्”। भं नक्षत्रं परवचनं वृहद्राजमार्त्तण्डेऽपि। पूर्व्वाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते “नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः। नक्षत्र कर्म्माण्यत्रैव तिथिकर्म तथैव च” इति वृहस्पविवचनात्। खण्डिते खण्डद्वययुक्ते येन नक्षत्रखण्डेन विहितकालः प्राप्तः। नक्षत्रद्वैघे तु बौधायनमार्कण्डेयौ “तन्नक्षत्रमहोरात्रं यस्मिन्नस्तं गतोरविः। यस्मिन्नुदेति सविता तन्नक्षत्रं दिनं स्मृतम्”। पूर्व्वार्द्धमहोरात्रसाध्योपवासन क्तैकभक्तेषु “तत्रैवोपवसेदृक्षे यन्निशीथादधोभवेत्। उपवासे यद्वक्षं स्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्दपुराणात् निशीथादधैत्यनेन अर्द्धरात्रपूर्व्वकालत्वेन सूर्य्यास्तमयकालस्यापि लाभात्। “उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः। यत्र वा युज्यते राम! निशीथे शशिना सह” इति विष्णुधर्म्मोत्तराच्च। उपवासवन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभोजनद्वथस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात्। यस्मिन्नुदेतीति तु दिवसकर्त्तव्यस्नानदानादाविति बोध्यम्। पितृकार्य्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः “सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितोरविः। वर्द्धमानस्य पक्षस्य हीने त्वस्तमयं प्रति”। हीने चन्द्रस्य हीनत्वात् कृष्णपक्षे, वर्द्धमानस्य चन्द्रस्य वर्द्धमानत्वेन शुक्लपक्षस्य। कालमाधवीयोऽप्येवम्। भोजराजः “योजन्ममासे क्षुरकर्मयात्रां कर्णस्य वेधं कुरुते च मोहात्। मूनं स रोगं धनपुत्रनाशं प्राप्नोति मूढोबधबन्धनानि। जातं दिनं दूषयते वशिष्ठश्चाष्टौ च गर्गोयवनोदशाहम्। जन्माख्यमासं किल भागुरिश्च चूडे विवाहे क्षुरकर्णवेधे”। एतद्विषयभेदस्तु राजमार्त्तण्डे “उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि च। सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदैः”। सापेक्षनिरपेक्षाणि समर्थासमर्थविषयकाणि। क्षुरेति क्षुरिकर्म्म। राजमार्त्तण्डे “देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये क्षुरिकर्म्म न कुर्व्वीत जन्ममासेऽथ जन्मभे”। एवञ्च चूड इति चूडाकरणे अधिकदोषाय। नार्य्यास्तु जन्ममासे विवाहमाह श्रीपतिव्यवहारसमुच्चये “स्नानं दानं तपोविद्या सर्वमङ्गल्यवर्द्धनम्। उद्वाहश्च कुमारीणां जन्ममासे प्रशस्यते”। एवं “जन्मोदये जन्मसु तारकासु मासेऽथ वा जन्मनि जन्मभे वा। व्रतेन विप्रो नबहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम्” इति व्यासवचनेन जन्ममासे उपनयनविधानात्तदङ्गसशिखवषनेऽपि न दोषः। उदये लग्ने भे राशौ नवहुश्रुतोऽपि स्वल्पविद्योऽपि। अत्र जन्ममासकृत्याकृत्ये सौरादरो यात्रादिसाहचर्य्यात् व्यवहारोऽपि तथा। प्रतिमासे जन्मनक्षत्रकृत्यमाह विष्णुधर्म्मोत्तरम् “जन्मनक्षत्रगे सोमे शिरःस्नानेन यत्नतः। पूजा सोमस्य कर्त्तव्या नक्षत्रस्य तथात्मनः। श्राद्धं कुर्य्यात् प्रयत्नेन वह्निब्राह्मण पूजने। वाहनायुधरत्नाद्यं पूजर्नायं प्रयत्नतः। सुराणामर्च्चनं कार्य्यं केशवस्य विशेषतः”।
जन्मद = पु० जन्म ददाति दा–क। पितरि शब्दच०।
जन्मदिन = न० जन्मनोदिनम्। जन्मदिवसे तच्च तिथिरूपं जन्मतिथिशब्दे उदा०।
जन्मन् = न० जन–भावे मनिन्। १ उत्पथौ २ आद्यक्षणसम्बन्धे, ३ गर्भवासतोयोनिद्वारानिःसरणे ४ न्यायाद्युक्ते अपूर्वदेहग्रहणे, अपूर्वदेहादिभिरात्मनः सम्यन्धे ज्योतिषोक्ते ५ जन्मनक्षत्रे, तदवधिके ६ दशमे ७ जनविंशे च नक्षत्रे। तत्र मनुष्याणां जन्मप्रकारस्तु गर्मशब्दे २५४८ पृ० उक्तप्रायोऽपि अत्र विशेषः कश्चित् प्रदर्श्यते। “ऋतौ विकाशा भवति योनिः कमलवत् सदा। गर्भाशय स्ततः शुक्रं धत्ते रक्तसमन्वितम्। अन्यत्र काले मुकुला योनिर्भवति योषिताम्। सृष्टं शुक्रमतो योनौ नैति गर्भाशयं शनैः। ऋतावपि तु योनिश्चेद्वातपित्तकफावृता। भवेत्तदा विकाशत्वं नैव तस्यां प्रजायते। ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्। तदा ततायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत्। निषेकं मानवं स्त्रीणां वीजं प्राप्तं रजस्यथ। युक्तमात्रोऽपि नरकात् स्वर्गाद्वापि प्रपद्यते। विसर्गकाले शुक्रस्य जीवः कारणसंवृतः। धृत्या प्रविशते योनिं कर्म्मभिः स्वैर्नियोजितः। तच्छुक्ररक्तमेकस्थमेकाहात् पललं भवेत्। पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत्। बुद्बुदः सप्तरात्रेण मांसपेषी भवेत्ततः। द्विसप्ताहाद्भवेत् पेषी रक्तमांसाचिता दृढा। वीजस्यैवाङ्कुराः पेष्यः पञ्चविंशतिरात्रतः। भवन्ति मासमात्रेण पञ्चधा जायते पुनः। ग्रीवा शिरश्च कण्ठश्च पृष्ठवंश स्तथोदरम्! पाणिपादं तथा पार्श्वं कटिमात्रं तथैव च। मासद्वयेन सर्व्वाणि क्रमशः सम्भवन्ति हि। त्रिभिर्मासैः प्रजायन्ते सर्वाङ्गाङ्कुरसन्मयः। मासैश्चतुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम्। स्थैर्यं चतुर्थे चाङ्गानां पञ्चमे शोणितोद्भवः। षष्ठे बलस्य वर्णस्य नखलोम्नाञ्चसम्भवः। दन्तपङ्क्तिस्तथा गुह्यं जायन्ते च नखाः पुनः। कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरेण च। पायुर्मेढ्रमुपस्थञ्च नाभिश्चैवोपजायते। सन्धयो ये च गात्रेषु जायन्ते मासि सप्तमे। मनस्तु चेतनायुक्त्वं नाभीस्नायुसिरास्ततः। सप्तमे चाष्टमे चैव त्वङ्मांस स्मृतिमानपि। अङ्गप्रत्यङ्गसम्पूर्णः शिरःकेशसमन्वितः। विभक्तावयवः स्पष्टः पुनमांसाष्टमेन च। नवमे दशमे मासि प्रबलैः सूतिमारुतैः। निःसार्य्यते वाणैव जन्तुश्छिद्रेण सज्वरः। मनसश्चञ्चलत्वेन यदा गर्भस्थिति र्भवेत्। तदा विकृतिरूपेण पापात्मा हि प्रजायते। पुटद्वयं समासाद्य यदा वहनि मारुतः। तदा प्रसूते पापिष्ठान् षण्डान् कर्म्मबहिष्कृतान्। मातृरक्तोत्तरा नारी पितुः शुक्रोत्तरो नरः। उभयोर्वीजसामान्ये जायते वै नपुंसकम्। विषमायां तिथौ क्षिप्तं कुर्य्याद् वीजन्तु कन्यकाम्। समायां पुरुषं नूनं केचिदाहुर्मनीषिणः। वामाङ्गेन भवेन्नारी दक्षिणेन पुमान् भवेत्। रक्ताधिक्ये मातृरूपं शुक्राधक्ये तु पैतृकम्। शुक्रशोणितसंघाते वायुना च द्विधा कृते। यमौ स्यातां त्रिधा चेति चतुर्धा बहुधापि वा। ततो हीनाधिकव्यङ्गकुब्जवामनकादयः। जायन्ते सर्पकुण्डाण्डा विकृतान्याश्च योनयः”। “गर्भात् कोटिगुणं दुःखं योनियन्त्रनिपीडने। संमूर्च्छा तस्य जठराज्जायमानस्य देहिनः। जायमानः पुरीषासृङ्मूत्र शुक्राविलाननः। प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः। अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः। क्लेशात् निष्क्रान्तिमायाति जठरान्मातुरातुरः। ततस्तं वैष्णवी माया समास्कन्दति मोहिनी। तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुयात्। सृष्टमात्रस्य घोरश्च ज्वरः समुपजायते। तेन ज्वरेण महता महामोहः प्रजायते। कण्टकैरिव च्छिन्नाङ्गः क्रकचैरिव दारितः। पूतिव्रणान्निपतितो धरण्यां क्रिमिकी यथा। तृड्बुभुक्षापरीताङ्गः क्वचित्तिष्ठति वा रटन्। विण्मूत्रभक्षणाद्यञ्च गतज्ञानः समाचरेत्। कण्डूयनेऽपि चाशक्तः परिवर्त्तेऽप्यनीश्वरः। स्नानपानादिकाहारमवाप्नोति परेच्छया। अशुचौ संस्तरे सूक्ष्मकीटदंशादिभिस्तथा। भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे। केन बन्धेन बद्धोऽहं कारणं किमकारणम्। किं कार्य्यं किमकार्य्यं वा किं वाच्यं किञ्च नोच्यते। कोऽधर्म्मः कश्च वै धर्म्मं कस्मित् वा वर्त्तते कथम्। किं कर्त्तव्यमकर्त्तव्यं किं वा किं गुणदोषवत्। संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः। मतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि। रक्तो मूढश्च लोकोयमकार्य्ये सम्प्रवर्त्तते। देही देह” परित्यज्य नेन्द्रस्थानमपीच्छति। तस्मात् कीटोऽपि जन्तूनां सुमूढो जायते भृशम्। न चात्मानं विजानाति न परं न च दैवतम्। न शृणोति परं श्रेयः सति चक्षुषि नेक्षते। बुद्धौ सत्यां न जानाति बोध्यमानो बुधैरपि। संसारे क्लिश्यते तेन रागलोभवशानुगः” सुखबोधः। जन्म च “जायतेऽस्ति वर्द्धते विपरिणमते अपक्षीयतें नश्यति” यास्कोक्तेषु षटषु भावविकारेषु आद्यो भावविकारः। “जातस्य हि घ्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च” गीता। “जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधको बधः। मित्रं परममित्रञ्च त्रिरावृत्त्या पुनः पुनः” ज्यो० त०। “शाकं दद्यात् त्रिजन्मनि”। “जन्मर्क्षे गिधनेऽपि च” ज्यो० त०। कर्त्तरि मनिन् ८ जने निरु०। आधारे मनिन्। ९ जन्मलग्ने १० जनमराशौ च “जन्मनीत्थं विचिन्त्यवान्” “जन्मनीचितयुक् शुभैः” नी० क० ता०।
जन्मप = पु० जन्म जन्मलग्नं पाति पा–क। १ जन्मलग्नपतौ २ जन्मराशिपतौ च जन्मपत्यादयोऽप्यत्र। “जन्मपः क्रूरितोऽशुभैः” नी० ता०।
जन्मभ = न० ६ त०। १ जन्मनक्षत्रे २ जन्मलग्ने ३ जन्मराशौ च ४ जन्मनक्षत्रादिसजातीये नक्षत्रादौ जन्मर्क्षादयोऽप्यत्र। “जन्मर्क्षे निधनेऽपि च” ज्यो० त०।
जन्मभूमि = स्त्री ६ त०। जन्मस्थाने। “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” उद्भटः। “वर्द्धनीया वयं नूनं त्वया यादवनन्दन!। अथ वा प्राणिनस्तात! रमन्ते जन्मभूमिषु” हरिवं० १०३ अ०।
जन्ममास = पु० ६ त०। १ जन्माधारमासे २ तत्सजातीये मासे च “न जन्ममासे न च चैत्रपौषे क्षौरं विवाहो न च कर्णवेधः” ज्यो० त० “जन्मर्क्षे जन्ममासे वा तारायामथ जन्मनि। जन्मलग्ने भवेदूढा धनाढ्या जन्मभोदये” चण्डेश्वरः। जन्ममासश्च यस्मिन् चान्द्रे मासे जन्म स मासः इत्येके जन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममास इति पक्षान्तरं यथाह मु० चि० व्याख्यायां पी० धा० “जन्मर्क्षमासतिथयो व्यतिपातभद्रावैधृत्यमापितृदिनानि तिथिक्षयर्द्धी। न्यूनाधिमासकुलिकप्रहरार्धपातविष्कम्भवज्रघटिकात्रयमेव वर्ज्यम्” मु० चि०। जन्मर्क्षमास तिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वर्ज्या इति द्वितीय श्लोकेनान्वयः तान् पदार्थानाह जन्मर्क्षेति यस्मिन्नक्षत्रे जन्म भवेत् तज्जन्मर्क्षं यस्मिन् मासे जन्म भवेत् स जन्ममासः यस्यां तिथौ जन्म भवेत् स। जन्मतिथिः एते वर्ज्याः यदाह वसिष्ठः “स्वजन्ममासर्क्षतिथिक्षणेषु वैनाशकाद्यृक्षगणेषु भेषु। नोद्वाहयात्राभ्युदयाभिलाषी नैवाद्यगर्भद्वितयं कदाचित्”। अयं च जन्मनक्षत्रमासतिथिनिषेधः आद्यगर्भस्यैव यदाह नारदः “जन्ममासे न जन्मर्क्षे न जन्मदिवसेऽपि वा। आद्यगर्भसुतस्यापि दुहितुर्वा करग्रहः” इति अनेनाद्यगर्भव्यतिरिक्तकन्यायास्तादृशवरस्य जन्र्क्षमासतिथिषु शुभफलत्वमुक्तं भवति अतएवाह च्यवनः “जन्मर्क्षे जन्ममासे वा तारायामथ जन्मनि। जन्मलग्ने भवेदूढा पुत्राढ्या पतिवछभा”। अथ जन्ममासलक्षणं जगन्मोहने वृद्धगर्गः “आरभ्य जनमदिवसं यावत्त्रिंशद्दिनं भवेत्। स जन्ममासो विज्ञेयो गर्हितः सर्वकर्मसु” इति अस्यापि विशेषस्तत्रैव “जातं दिनं दूषयते वसिष्ठः पञ्चैव गर्गस्त्रिदिनं तथात्रिः। तज्जन्मपक्षं किल भागु- रिश्च व्रते विवाहे गमने क्षुरे चेति”। घस्तुतस्तु यस्मिं श्चान्द्रमासे चैत्रादौ जन्माभूत् स चान्द्रमासो उत्ममासतया त्याज्य इति युक्तमुत्पश्यामः “इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्त्तितः। अग्नीषौमौ स्थितौ मध्ये समाप्तौ पितृसोमकाविति” हारीतवचनात् “उपवासव्रतोद्वाहा यात्रा क्षौरोपनायनम्। तिथिवर्षादिनिखिलं चान्द्रमानेन गृह्यते” इति कश्यपोक्तेश्च। अत्र चान्द्रमासस्यैव चूडादौ निषेध इति स्थितम्। जन्ममासस्य जन्मतिथिकृत्ये चान्द्रपरता क्षौरादि निषेधे सौरपरतेति म० त० रघु०। “विवाहादौ स्मृतः सौरः” इति तद्धृतवचनात्। आचारभेदात् देशभेदाच्च व्यवस्था। उपयमशब्दे १२४४ पृ० अधिकं दृश्यम्।
जन्मराशि = पु० ६ त०। जन्मकालिकराशिसजातीये राशौ।
जन्मवर्त्मन् = न० ६ त०। योनौ त्रिका०। “योनेः शरीरम्” शा० सू० तस्याः शरीरोत्पत्तिस्थानत्वकीर्त्तनात् तथात्वम्।
जन्मशय्या = स्त्री जन्मनिमित्तं शय्या। प्रसवार्थशय्यायाम्। “स ददर्शमहात्मानं शरतल्यगतं प्रभो!। जन्मशय्यागतं वीरं कार्त्तिकेयमिव प्रभुम्” भा० भी० १२५ अ०।
जन्मान्तर = न० अन्यत् अन्म मयू० स०। भवान्तरे परलोके। ततः गहा० भवार्थे छ। जन्मान्तरीय परजनमभवे त्रि०। “जन्मान्तरीयतत्पापवतः सहमरणेनोद्धारः” शु० त० रघु०
जन्माष्टमी = स्त्री कृष्णस्य जन्माधारोऽष्टमो। कृष्णजन्पाष्टम्याम् कृष्णाष्टमी शब्दे २२२० पृ० विवृतिः। हरिभक्तिविलासमते तु तत्रत्यव्रतकालव्यवस्था यथा “जन्माष्टमी पूर्वविद्धा न कर्त्तव्या कदाचन। पलवेधे तु विप्रेन्द्र! सप्तम्या चाष्टमीं त्यजेत्। सुराया विन्दुना स्पृष्टं गङ्गाम्भःकलसं यथा। विना ऋक्षेण कर्त्तव्या नवमी संयुताष्टमी। सऋक्षापि न कर्त्तव्या सप्तमी संयुताष्टमी। तस्मात् सर्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः। वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा। यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम्। अवैष्णवपरं तच्च कृतं वा देवमायया”।
जन्मिन् = त्रि० जन्मास्त्यस्य व्रीह्यादि० इनि। प्राणिनि जीवे अमरः।
जन्मेजय = पु० जनमेजय + पृषो०। जन्मेजयनृपे हारा०।
जन्य = त्रि० जन- “भव्यंगयेत्यादि” पा० कर्त्तरि यत्। १ जायमाने। जन–णिच्–कर्म्मणि यत्। २ उत्पाद्ये “जन्यानां जनकालः” भाषा०। कर्त्तरि यत्। ३ जनके च मेदि०। जनीं वधूं वहति नयति वा यत्। ४ नवोढाज्ञातिमित्रभृत्य- स्निग्धेषु त्रि० मेदि०। ५ हट्टे, ६ परीवादे, ७ युद्धे च न० मेदि० “तत्र जन्यं रधोर्घोरं पार्वतीयजनैरभूत्” रघुः ८ देहे पु० शब्दचि०। भावं यत्। ९ जनने भ०। १० भातृवयस्यायां स्त्री मेदि०। जनाय हि तं यत्। ११ जनहिते त्रि०। “तुष्टाव जम्यं विसृजत् जनार्द्दनम्” भाग० १। ९। ३ जन्यशब्दात् उत्करा० चतुरर्थ्यां छ। जन्थीय तन्निर्वृत्ते त्रि०। “याहीति जन्यामवदत् कुमारी” रघुः। १२ प्रीतौ स्त्री हेम०। जनस्य जल्पः जन + जल्पेऽर्थे यत्। १३ जनस्य जल्पे पु०।
जन्यु = पु० जन–युच् बा०–न अनादेशः। १ धातरि २ वह्नौ ३ प्राणिनि च मेदि०। भावे युच्। जनने पु० “अमृतायाद्वितीयोऽयं जन्युर्हि मम सर्वथा” हरितं० १२५ अ०।
जप = उच्चारणे वाचि च भ्वा० पर० सक० सेट्। जपति अजापीत्–अजपीत्। जजाप जेपतुः। जप्त्वा। “एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम्” मनुः। “ततः सप्रणवां सव्याहृतिकां गायत्रीं जपेत्” गोमि० “जपेत् सप्तशतीं मध्ये” चण्डीशब्दे दृश्यम्।
अभि + आभिमुख्येन जपे “चकार रक्षां कौशल्या मन्त्रैरभिजजाप च” रामा० अयो० २५। ३०। सम्यक्कथने च
उप + भेदने। (काणफुसलनि देओया) “क्षत्तारं कुरुराजस्तु शनैः कर्णमुपाजपत्” भा० वि० २२१६ “उपजप्यानुजपेत्” मनुः “उपजापः कृतस्तेन” माघः।
जप = त्रि० जप–कर्त्तरि अच्। १ जपकारके। “कर्णे जपै राहितराज्यलोभा” मट्टिः। ततस्तु “त्रिशते काले लमते जपतामपि” भा० आनु० २८ अ०। काण्डपृष्ठशब्दे १८६० पृ० दृश्यम्। भावे अप्। २ मन्त्रादेरावृत्तौ चण्डीशब्दे दर्शित सप्तशत्याः ३ पाठे च। तत्प्रकारो यथा तन्त्रसा० “मनः संहृतृ विषयाम्मन्त्रार्थगतमानसः। न द्रुतं न विलम्बञ्च जपेन्मौक्तिकपङ्क्तिवत्। जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः। धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम्। उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः। जिह्वोष्ठौ चालयेत् किञ्चिद्देवता गतमाममः। किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स ज पः स्मृतः। मन्त्रमुच्चारपेवाचा वाचिकः स जपः स्मृतः। उच्चैर्जपाहिशष्टः स्यादुपांशु र्दशभिर्गुणैः। जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः। जिह्वाजपः स विज्ञेयः केवलम् जिह्वया वुधैः”। तत्र वर्ज्यानि “विण्मूत्रोत्सर्गशङ्कादियुक्तः कर्म करोति च। जपार्च्चनादिकं सर्वमपवित्र भवेत् प्रिये!। मलिनाम्बरकेशादिमुखदौर्गन्ध्य संयुतः। यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता। आलस्यं जृम्भणं निद्रां क्षुबं निष्ठीबनं मयम्। नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत्”। देवताभेदे करमालाविशेषनियमो यथा
“तर्जनीमध्यमानामा कनिष्ठा चेति ताः क्रमात्। तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विवा। पर्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत्। अनामामध्यमारभ्य कनिष्ठादित एव च। तर्ज्जनीमूलपर्य्यन्तं दश पर्वसु संजपेत्। अनामामूलमारभ्य कनिष्ठादित एव च। तर्जनीमध्यपर्य्यन्तमष्टपर्वसु संजपेत्”। एतद्वचनन्तु अष्टोत्तरशतादिबिषयम्। शक्तिविषये पुनः। “अनामिकात्रयं पर्व कनिष्ठादित्रिपर्विका। मध्यमायाश्च त्रितयं तर्जनीमूलपर्वणि! तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत्। अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च। मध्यादिमूलपर्य्यन्तमष्टपर्वसु संजपेत्”। श्रीविद्याविषये तु। “अनामामध्यमयोश्च मूलाग्रञ्च द्वयं द्वयम्। कनिष्ठायाञ्च तर्ज्जन्यास्त्रयं पर्व सुरेश्वरि!। अनामामध्यमयोश्च मेरुः स्यात द्वितय शुभम्। प्रदक्षिणक्रमाद्देवि! जपेत् त्रिपुरसुन्दरीम्। कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च। तर्जनीमूलपर्य्यन्तमष्टपर्वसु संजपेत्। इदमपि अष्टोत्तरशतादिविषयम्। “अङ्गुलीर्न वियुञ्जीत किञ्चिदाङ्गुञ्चिते तले। अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः। अङ्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घवे। पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फ भवेत्। गणनाविधिमुल्लङ्घ्य योजपेत्तज्जपं यत्नः गृह्णन्ति राक्षसास्तेन गणयेत् सर्वथा बुधः। हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः। आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत्”। जपसंख्यासाघने द्रव्यभेदनिषेधो यथा। “नाक्षतैर्हस्तपर्वैर्वा न घान्यैर्न च पुष्पकैः। न चन्दनैर्मृत्तिकया जपसंख्याञ्च कारयेत्”। तत्र विहितद्रव्याणि “लाक्षा कुषीदसिन्दूरं गोमयञ्च करीषकम्। एभिर्नि र्माय वटिकां जपसंख्यान्तु कारयेत्। वर्णमाला जपनियमो यथा। “सविन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेह्व धः। अक्वारादिलकारान्त विन्दु युक्तं विभाव्य च। वर्णमाला समाख्याता अनुलोमविलोमतः। पञ्चाशल्लिपिभिर्म्माला विहिता सर्वकर्मसु। अका- रादिलकारान्ता वर्णमाला प्रकीर्त्तिता। क्षार्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम!। अनया सर्वमन्त्राणां जपः सर्वसमृद्धिदः”। जपफलञ्च “जपनिष्ठो द्विज श्रेष्ठोऽखिलयज्ञफलं लभेत्। सर्वेषामेव यज्ञानां जायतेऽसौ महाफलः जपेन देवता नित्यं स्तूयमाना प्रसीदति। प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिञ्च शाश्वतीम्। यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः। जपन्तं नोपसर्पन्ति भयभीताः समन्ततः। यावन्तः कर्मयज्ञाः स्युः प्रदिष्टानि तपांसि च। सर्वे ते जपयज्ञस्य फलां नार्हन्ति षोडशीम्। माहात्म्यं वाचिकस्यैतत् जपयज्ञस्य कीर्त्तितम्। तस्माच्छत गुणोपांशुः साहस्रो मानसः स्मृतः” तन्त्रसा०। “नोच्चैर्जपञ्च संकुर्यात् रहः कुर्य्यादतन्त्रितः। समाहितमना स्तूष्णीं मनसा वापि चिन्तयेत्। विधियज्ञात् जपयज्ञो विशिष्टो दशभिर्गुणैः। उपांशुः स्याच्छतशुणः साहस्रो मानसः स्मृतः। विना दर्भैस्तु यत्स्नानं यच्च दानं विनोदकम्। असंख्यातन्तु यज्जप्तं सर्वं तदफलं स्मृतम्। मुक्ताफलैर्विद्रुभेण रुद्राक्षैः स्फटिकेन वा। गणना सर्वथा कार्य्या सम्यगङ्गुलिपर्वभिः। हिरण्यरत्नमणिभिर्जप्त्वा शतगुणं भवेत्। सहस्रगुणमिन्द्राक्षैः पद्माक्षैरयुतं भवेत्। नियुतं वापि रुद्राक्षैर्भद्राक्षैस्तु न संशयः। पुत्रजीवकजप्यस्य परिसंख्या न विद्यते। दशभिर्जन्मजनितं शतेन च पुराकृतम्। नियुतं तु सहस्रेण गायत्र्या हन्ति दुष्कृतम्। प्राङ्मुखो वर्त्तयेत् मालां सहस्रं शतमेव वा” अग्निपु०। जपाङ्गमन्त्रचैतन्यादिकज्ञानमावश्यकं तत्र मन्त्रचैतन्यं यथा कुब्जिकातन्त्रे पञ्चकपटले। “श्रीपार्वत्युवाच। भगवन्! सर्वदेवेश! लोकानां हितकारक। चतुर्वर्गप्रदं देव! चैतन्यं मे प्रकाशय। शङ्कर उवाच। शृणु देवि! प्रवक्ष्यामि चैतन्यं परमाद्भुतम्। रहस्यं परमं पुण्यं गोपनीयं त्वया पुनः। चिच्छक्त्याध्वनितं देवि! परिणामक्रमेण तु। वर्णभावं समासज्य निर्मलं विमलात्मकम्। षट्चक्रञ्च तथा भित्त्वा शब्दरूपं सनातनम्। नादविन्दुसमायुक्तं चैतन्यं परिकीर्त्तितम्। अथ वान्यप्रकारेण श्रूयतां पद्मलोचने!। विना येन न सिध्येत्तु जपपूजादिकिञ्चन। अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम्। सुषुम्णावर्त्मना देवि! कण्ठदेशाद्विनिर्गतम्। चैतन्यञ्च महेशानि! योगिनां योगरूपकम्। सहस्रारे वर्णरूपं परिणाम क्रमेण तु। कर्णिकामध्यसंस्थे तु नादविन्दुसमन्वितम्। एवं संचिन्तयेद्देवीं चैतन्यञ्च पुनः पुनः। मन्त्राक्षराणि चिच्छक्तौ ग्रथितानि महेश्वरि!। तानि सञ्चिन्तयेद्देवि! सहस्रारदले तथा। चैतन्यमन्त्ररूपा च चैतन्यानन्ददायिनी। चैतन्यनादशक्तिश्च चैतन्यवर्णरूपकम्। मणिपूरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम्। अथवान्यप्रकारेण श्रूयतां वरवर्णिनि!। कामवीजं (क्लीं) रमावीजं (श्रीं) शक्तिवीजं (ह्रीं) सुरेश्वरि!। एतानि पूर्वमुच्चार्य्य मातृकां तदनन्तरम्। पुटितं मूलमन्त्रञ्च शतमष्टोत्तरं जपेत्। कोटिकोटिगुणञ्चैव लभते नात्र संशयः। अथवान्य प्रकारेण चैतन्यं शृणु पार्वति!। येन विज्ञातमात्रेण परमं पश्यति ध्रुवम्। सूर्य्यमण्डलमध्यस्थं चिन्तयेन्मूलमन्त्रकम्। अष्टोत्तरशतं जप्यं मूलविद्यास्वरूपकम्। गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम्। शक्तिञ्च चिन्तयेत्तत्र ब्रह्मरूपां सनातनीम्। एवं सञ्चिन्तयेद्यस्तु जपेद्वा सुरसुन्दरि!। नासाध्यं तस्य लोकेऽस्मिन्मुक्तिर्देवि! करे स्थिता”। तथा प्रथमपटले “मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः। न सिद्ध्यति वरारोहे! कल्पकोटिशतैरपि। शतकोटिजपेनापि तस्य विद्या न सिद्ध्यतीति”। सरस्वतीतन्त्रे “कथयामि महामन्त्रं मन्त्रार्थञ्च महेश्वरि!। येन विज्ञातमात्रेण सर्वसिद्धीश्वरो भवेत्। केवलं भाववुद्ध्या च मन्त्रार्थं प्राणवल्लभे!। केवलं ज्ञानयोगेन जीवन्मुक्तो भवेद्ध्रुवम्। काली तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती प्रिये!। वगला चैव मातङ्गी कमला च प्रकीर्त्तिता। ब्रह्मविष्णुमहे शाद्यैश्चतुर्वेदैर्नमस्कृता। भोगटा मोक्षदा देवी कोटि ब्रह्माण्डगोपिता। अस्याग्रहणमात्रेण जीवन्मुक्तस्तु साधकः”। वरदातन्त्रे षष्ठपटले “शिव उवाच। मन्त्रार्थं कथयाम्यद्य शृणुष्व परमेश्वरि!। विना येन न सिध्येत्तु साधनैः कोटिभिः शिवे!। आदौ प्रसादवीजस्य मन्त्रार्थं शृणु पार्वति!। शिववाची हकारस्तु औकारः स्यात् सदाशिवः। शून्यं दुःखहरन्तु स्यात् तस्मात्तेन शिवं यजेत्। हौ~। दं दुर्गावाचकं देवि! ऊकारश्चापि रक्षणे। विश्वमाता नादरूपा। सर्वार्थो विन्दुरूपकः। तस्मात्तेनैव वीजेन दुर्गामाराधयेत् शिवे!। दू~। “क काली व्रह्म र प्रोक्तं महामायार्थकश्च ई। विश्वमातार्थकोनादो विन्दुर्दुःखहरार्थमः। तेनैव कालिका देवीं पूजयेद्दुःखशान्तये। क्रीम्। हकारः शिववाचीस्यात् रेफः प्रकृतिरुच्यते। महामायार्थ ईशब्दो नादोविश्वप्रसूः स्मृतः। दुःखहरार्थकोविन्दु र्भुवनां तेन पूजयेत्” ह्रीम्। महालक्ष्म्यर्थकः शः स्याद्धनार्थो रेफ उच्यते। ई तुष्ट्यर्थोऽपरो नादो विन्दुर्दुःखहरार्थकः। लक्ष्मीदेव्या वीजमेतत्तेन देवीं प्रपजयेत्। श्री~। सरस्वत्यर्थ ऐशब्दो विन्दुर्दुःखहरार्थकः। सरस्वत्यावीजमेतत्तेन वाणीं प्रपूजयेत्। ऐ~। कः कामदेव उद्दिष्टोऽप्यथवा कृष्ण उच्यते। लैन्द्रई तुष्टिवाची सुखदुःखप्रदञ्च अम्। कामवीजार्थ उक्तस्ते तव स्नेहान् महेश्वरि। क्ली~। हः शिवः कथितो देवि! ऊर्भेरव इहोच्यते। परार्थो नादशब्दस्तु विन्दुर्दुःखहरार्थकः। वर्मवीजमयोह्यत्र कथितस्तव यत्नतः। हू~। गणेशार्थे गौक्तस्ते विन्दुर्दुःखहरार्थकः। गंवीजार्थस्तु कथितस्तव स्नेहान् महेश्वरि!। ग~। ग गणेशो व्यापकार्थो लकारस्ते ज और्मतः। दुःखहरार्थकोविन्दु र्गणेशं तेन पूजयेत्। ग्लौ~। क्षौंनृसिंहो ब्रह्म रश्च ऊर्द्ध्वदन्तार्थकश्च औः। दुःख हरार्थको विन्दुर्नृसिंहं तेन पूजयेत्। क्ष्रौ~। नामादिवर्णः सर्वेषां नामौक्तं स्वयम्भुवा। तेनैवार्थन्तुजानीयादर्थलभ्यन्तु चिन्तयेत्। यथायथं विभक्त्यन्तं मन्त्रार्थो चिन्तयेच्छिवे!। तत्तद्वर्णादियोगेन संक्षेपात् कथितं त्वयि। दुर्गोत्तारणबाचीस्तारकार्थस्तकारकः। मुक्त्यर्थोरेफौक्तोऽत्र महामायार्थकश्च ई। विश्वमातार्थकोनादो विन्दुर्दुःखहरार्थकः। बधूवीजार्थ उक्तोऽत्र तव स्नेहान् महेश्वरि!। स्त्री~। यत्र विन्दुद्वयं मन्त्रे एकं दुःखहरार्थकम्। अन्यत् सुखप्रदं देवि! ज्ञात्वा चार्थं विचिन्तयेत्। यत्र विन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम्। स्वाहामात्रार्थका देवी परार्था वा प्रकीर्त्तिता। शक्रमाता वषट्प्रोक्ता हरिप्रियार्थका गिरा। सुरार्था फठयग्रीवे विव्रिं वीजं विनिर्दिशेत्। यंवीजं वायुवाचि स्यात् लमैन्द्रं परिकीर्त्तितम्। अनेकाक्षरवीजे च स्वस्ववीजं स्वनामकम्। एवं ज्ञात्वा महेशानि! मन्त्रार्थं परिचिन्तयेत्। एकवीजद्वयं यत्र पृथगर्थं प्रकल्पयेत्। वीप्सार्थं वा महेशानि ज्ञात्वा मन्त्रं जपेद्धिया। इति ते कथितो देवि मन्त्रार्थः परमेश्वरि! ईंवीजेनैव पुटितं मूलमन्त्रं जपेद्यदि। तदेव मन्त्रचैतन्यं भवत्येव सुनिश्चितम्”। सरस्वतीतन्त्रे प्रथमपटले “ईश्वर उवाच। मन्त्रार्थं प्ररमेशानि! सावधानावधारय। मूलाधारे मूलविद्यां भावयेदिष्ट देवताम्। शुद्धस्फटिकसङ्काशां भावयेत् परमेश्वरीम्। भावयेदक्षरश्रेणीमिष्टविद्यां सनातनीम्। मुहूर्त्तार्द्धं विभाव्यैतां पश्चाद्ध्यानपरो भवेत्। ध्यानं कृत्वा महेशानि! मूहूर्त्तार्द्धं ततः परम्। ततोजीवो महेशानि! भनसा कमलेक्षणे!। स्वाधिष्ठानं ततोगत्वा भावयेदिष्ट देवताम्। वन्धूकारुणसङ्काशां जवासिन्दूरसन्निभाम्। विभाव्य अक्षरश्रीणीं पद्ममध्यगतां पराम्। ततो जीवः प्रसन्नात्मा पक्षिणा सह सुन्दरि!। मणिपूरं ततो गत्वा भावयेदिष्टदेवताम्। विभाव्य अक्षरश्रेणीं पद्ममध्यगतां पराम्। शुद्ध्वस्फटिकसङ्काशां शिरापद्मोपरिस्थिताम्। ततोजीवो महेशानि! पक्षिणा सह पार्वति!। हृत्पद्मं प्रययौ शीघ्रं नीरजायतलोचने!। इष्टविद्यां महेशानि!। मावयेत् कमलोपरि। विभाव्य अक्षरश्रेणीं महामरकतप्रभाम्। ततोजीवो वरारोहे! विशुद्धं प्रययौ प्रिये!। तत्पद्मगहनं गत्वा पक्षिणा सह पार्वति!। इष्टविद्यां महेशानि! आज्ञांशे परिचिन्तयेत्। पक्षिणा सह देवेशि! खञ्जनाक्षि! शुचिस्मिते!। इष्टविद्यां महेशानि! साक्षाद्ब्रह्मस्वरूपिणीम्। विभाव्य अक्षरश्रेणीं हरिद्वर्णां वरानने!। आज्ञाचक्रे महेशानि! षट्चक्रे ध्यानमाचरेत्। षट्चक्रे परमेशानि! ध्यानं कृत्वा शुचिस्मिते!। ध्यानेन परमेशानि! यद्रूपं समुपस्थितम्। तदेव परमेशानि! मन्त्रार्थं विद्धि पार्वति” अथ कुल्लुकादि। सरस्वतीतन्त्रे तृतीयपटले “तारायाः कुल्लूका देवि! महानीलसरखती। पञ्चाक्षरी कालिकायोः कुल्लुका परिकीर्त्तिता। कालीकूर्च्चं वधूमाया फट्कारान्ता महेश्वरि!। च्छिन्नावास्तु महेशानि! कुल्लुकाष्टाक्षरी भवेत्। वज्रवैरोचनीये च अन्ते वर्म च पूरयेत्। सम्पत्प्रदायाः प्रथमं भैरव्याः कुल्लुका भवेत्। श्रीमत्त्रिपुरसुन्दर्य्याः कुल्लूका द्वादशाक्षरी। वाग्भवं प्रथमं वीजं कामवीजमनन्तरम्। लज्जावीजं ततः पश्चात् त्रिपुरेति ततःपरम्। भगवतीति ततः पश्चादन्ते ठद्वयमुद्धरेत्। अथ कामवीजञ्च कुल्लुका परिकीर्त्तिता। प्रासादवीजं शम्भोश्च मञ्जुघोषे षडक्षरम्। एकार्णा भुवनेश्वर्य्या विष्णोः स्यादष्टवर्णकम्। नमोनारायणायेति प्रणवाद्यञ्च कुल्लुका। मातङ्ग्याः प्रथमं बीजं माया धूमावतीं प्रति। वालायाश्च वधूवीजं लक्ष्म्याश्च निजवीजकम्। सरस्वत्या वाग्भवञ्च अन्नदाया अनङ्गक!। अपरेषाञ्च देवानां मन्त्रमात्रं प्रकीर्त्तितम्। इयन्ते कथिता देवि! संक्षेपात् कुल्लुका मया। अज्ञात्वा कुल्लुकामेतां योजपेदधर्मः प्रिये!। पञ्चत्वमाशु लभते सिद्ध्विहानिस्तु जायते। तथा जपादिकं सर्वं निष्फलं नात्र संशयः। तस्मात् सर्वप्रयत्नेन धारयेन्मूर्द्ध्नि कुल्लुकाम्”। तथा “विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च। वैश्यानाञ्चैव फट्कारो माया शूद्रस्य कथ्यते। अजप्त्वा हृदि देवेशि! यो वै मन्त्रं समुच्चरेत्। सर्वेषामेव मन्त्राणा मधिकारोन तस्य हि। महासेतुश्च देविशि! सुन्दर्य्या भुवनेश्वरी। कालिकायाः स्वबीजञ्च तारायाः कूर्च्चवीजकम्। अन्यासान्तु वधूवीजं महासेतुर्वरानने!। आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः। धने वनेशतुल्योऽसौ वाप्यावाणीश्वरोपमः। युद्धे कृतान्त सदृशो नारीणां मदनोपमः। जपकालो भवेत्तस्य सर्वः कालो न संशयः। अथ वक्ष्यामि निर्वाणं शृणुष्वावहितानघे!। प्रणवं पूर्वमुच्चार्य्य मातृकाद्यं समुद्धरेत्। तती मूलं महेशानि! ततोवाग्भवमुद्धरेत्। मातृकास्तु समस्तास्तु पुनः प्रणवमुद्धरेत्। एवं पुटितमूलन्तु प्रजपेन्मणिपूरके। एवं निर्वाणमिशानि! यो नं जानाति प्रामरः। कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते”। षथ मुखशोधनम्। पञ्चमपटले “ईश्वर उवाच। अपरैकं प्रवक्ष्यामि मुखशोधनमुत्तमम्। यन्न कृत्वा महादेवि! जपपूजा वृथा मवेत्। अशुद्धजिह्वया देवि! योजपेत्स तु पापकृत्। तस्मात्सर्वप्रयत्नेन जिह्वाशोघनमाचरेत्। महात्रिपुरसुन्दर्य्या मुखस्य शोधनं शुभे!। श्रीवीजं प्रणवो लक्ष्मीस्तारः श्रीः प्रणवस्तथा। इमं षडक्षरं मन्त्रं सुन्दर्य्या दशधा जपेत्। शृणु सुन्दरि! श्यामाया मुख शोधनमुत्तमम्। निजवीजत्रयं देवि! प्रणवत्रितयं पुनः। कामत्रयं वह्निविन्दुरतिचन्द्रयुतं पृथक्। एषा नवाक्षरी विद्या मुखशोधनकारिणी। तारायाः शृणुचार्वङ्गि! अपूर्वमुखशोधनम्। जीवनं मध्यमं लज्जां मुवनेशीं ततः प्रिये!। त्र्यक्षरीयं महाविद्या विज्ञेयाऽमृतवर्षिणी। दुर्गायां शृणु चार्वङ्गि! मुखशोधनमुत्तमम्। द्वादशस्वरमुद्धृत्य विन्दुयुक्तं त्रयं तथा। अपरैकं प्रवक्ष्यामि वगलामुखशोधनम्। वाग्भवं भुवनेशीञ्च वाग्वीजसुरवन्दिते!। मातङ्ग्याः शोधनं देवि! अङ्कुशं वाग्भवन्तथा। वीजञ्चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरीयकम्। लक्ष्म्याश्च शोधनं देवि! श्रीवीजं कमलानने!। दुर्गायाः शोधनं माया वाग् वीजपुटिता भवेत्। दुर्गेस्वाहा पुनर्म्माया वाग्वीजञ्च पुनश्च वाक्। प्रणवं दान्तमुद्धृत्य वामकर्णविभूषितम्। पुनः प्रणवमुद्धृत्य धनदामुखशोधनम्। एवंमन्त्रं महेशानि! धूमावत्याभवेदपि। प्रणवो विन्दुमान् देवि! पञ्चान्तकोगणेशितुः। वेदादिगगनं विह्निमनुयुन्मन्तु चन्द्रवत्। द्व्यक्षरः परमेशानि!। विष्णोश्च मुखशोधनम्। अन्यासां प्रणवं देवि! वालादीनां प्रकीर्त्तितम्। स्त्रीणाञ्च शूद्रतुल्यं हि मुखशीधनमीरितम्। मुखशोधनमात्रेण जिह्वाऽमृतमयो भवेत्। अन्यथा मुखविड्युक्ता जिह्वा भवति सर्व्वदा। भक्षणैर्दूषिता जिह्वा मिथ्यावाक्येन दूषिता। कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम्। तच्छोधनमनाचर्य्य न जपेत् पामरः क्वचित्। शैवशाक्तवैष्णवादेः सर्वस्यावश्यमेव वा। अन्यथा प्रजपेन्मन्त्रं मोहेन यदि भाविनि!। सर्वं तस्य वृथा देवि! मन्त्रसिद्धिर्न जायते। अन्ते नरकगामी च भवेत् सोऽपि न चान्यथा। देवो यदि जपेन् मन्त्रं अकृत्वा मुखशोधनम्। तपनं तस्य देवेशि! किं पुनर्म्मर्त्यवासिनाम्”। षष्ठपटले “ईश्वर उवाच। अथ वक्ष्यामि देवेशि! प्राणयोगं शृणुष्व मे। विना प्राणं यथा देहः सर्वकर्मसु न क्षमः। विना प्राणं तथा मन्त्रः पुरश्चर्य्याशतैरपि। मायया पुटितोमन्त्रः सप्तधा जपतः पुनः। सप्राणो जायते देवि! सर्वत्रायं विधिःस्मृतः। तथैव दीपनीं वक्ष्ये सर्वमन्त्रे च भाविनि!। अन्धकारे गृहे यद्वन्न किञ्चित् प्रतिभामते। दीपनीरहितो मन्त्र स्तथैव परिकीर्त्तितः। वेदादिपुटितं मन्त्रं सप्तवारं जपेत्पुनः। दीपनीयं समाख्याता सर्वत्र परमेश्वरि!। वेदादिपुटितं कृत्वा प्रयत्नेन सुरेश्वरि!। दशधा प्रजपेन्मन्त्रं सूतकद्वयमुक्तये। अथोच्यते जपस्यात्र क्रमश्च परमाद्भतः। यं कृत्वा सिद्धिसंघानामधिपोजावते मरः। नतिर्गुर्वादिनामादौ नमो मन्त्रशिखां भजेत्। ततोऽपि मन्त्रचैतन्यं मन्त्रार्थभावना ततः। गुरुध्यानं शिरःपद्मे हृदीष्टध्यानमाचरेत्। कुल्लुकाञ्च ततः सेतुं महासेतुमनन्तरम। निर्वाणञ्च ततो देवि! योनिमुद्राविभायना। अङ्गन्यासं प्राणायामं जिह्वाशोधनमेव च। प्राणयोगं दीपनीञ्च अशौचभङ्गमेव च। म्रूमध्ये वा नसोरग्रे दृष्टौ सेतुं जपेत् पुनः। सेतुमशौच भङ्गञ्च प्राणायाममिति क्रमः”। चतुर्थपटले। “कुल्लुकां मूर्द्ध्निसंजप्य हृदि सेतुं विचिन्तयेत्। महासेतुं विशुद्धौ च कण्ठदेश समुद्धरेत्। मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः। स्वाधिष्ठाने कामवीजं राकिणीमूर्द्ध्नि संस्थितम्। विचिन्त्य विधिवद्देवि! मूलाधारान्तिके शिवे!। विशुद्धान्तं स्मोद्देवि! विसतन्तुतनीयसीम्। वेदिस्थानं हि जीवान्तं मूलमन्त्रावृतं मुहुः”।
जपत = न० जप–भावे ल्युट्। जपे। “सन्न्यास एव वेदान्ते वर्त्तते जपनं प्रति” भा० शा० १०१६ अ०।
जपमाला = स्त्री० जपस्य जपार्था माला। जपसाधने मालायां तद्विधानादि अक्षमालाशब्दे ४३ पृ० उक्तप्रायमधिकमत्र प्रदर्श्यते। नित्यातन्त्रे नवमपटले “ईश्वर उवाच। अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम्। अथ मुक्ताफलमयी भोगमोक्षप्रदायिनी। राजवश्यकरी सर्वसिद्धिदा नात्र संशयः। यथा मुक्ताफलमयी तथा स्फटिक निर्मिता। रुद्राक्षमाला गिरिजे! मोक्षदा च समृद्धिदा। प्रवालघटिता माला वश्यदा कर्मसाधिनी। माणिक्यरचिता माला साम्राज्यफलदायिनी। पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदायिनी। पद्मवीजाक्षमाला तु महालक्ष्मीप्रदायिनी। रक्तचन्दनवीजाक्षमालावश्यफलप्रदा”। मुण्डमालातन्त्रे द्वितीयपटले “स्फाटिकैर्मोक्षलाभः स्यात् रुद्राक्षैर्बहुपुत्रदा। जीवपुत्रैश्च धनदा पाषाणैर्गोगमोक्षदा। शुद्धस्फटिकमाला तु महासम्पत्प्रदा प्रिये!। श्मशानधूस्तुरैर्माला एका धूमावतीविधौ”। तथा। “मणिरत्नप्रबालैश्च हेमराजतसम्भवा। माला कार्य्या कुशग्रन्थ्या सर्वभोग फलप्रदा”। समायाचारतन्त्रे द्वितीयपटले “पूर्व्वाम्नायादि सर्वेषां मालां शृणु यथाक्रमम्। जप्प्वा येनाशु लभते फलं देवैश्च दुर्ल्लभम्। अक्षमाला प्रथमतो मातृकार्णस्वरूपिणी। अथ मुक्तामयी माला रतिमोक्ष फलदा। सर्वसिद्धिकरी माला सर्वराजवशङ्करी। प्रवालमालावश्यार्थं सर्वकार्यफलप्रदा। माणिक्यरचिता माला साम्राज्यफलदायिनी। पद्माक्षरचिता माला यशीलक्ष्मीप्रदा सदा। सुवर्णरचिता माला सर्वकामफलप्रदा। रक्तचन्दनमाला च भोगदा मोक्षदा भवेत्। रुद्राक्षरचिता माला सर्वकामफलप्रदा। सर्वमालां प्रपूज्याथ चन्दनेन विलेपिताम्। समाश्रित्य जपेन्नित्यं यथोक्तफलमाप्नुयात्। एता मालाश्च सुभगे! पञ्चाम्नायेषु पूजिताः” मुण्डमालातन्त्रे “देव्युवाच अक्षमाला तु कथिता यत्नतो न प्रकाशिता। अक्षमालेति किं नाम फलं वा किं वदस्व मे। ईश्वर उवाच अक्षमाला तु देवेशि! काम्यभेदादनेकधा। भवति शृणु तत् प्राज्ञे! विस्तरादुच्यते मया। अनुलोमविलोमेन कॢप्तया वर्णमालया। आदिलान्तलादिआन्तक्रमेण परमेश्वरि!। क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन”। मेरुलङ्घनदोषस्तु तत्रैव “मेरुहीना च या माला मेरुलङ्घा च या भवेत्। अशुद्धप्रतिकाशा च सा माला निष्फला भवेत्। चित्रिणी विसतन्त्वाभा ब्रह्मनाडीगतान्तरा। तया संग्रथिता माला सर्वकामफलप्रदा। अष्टोत्तरशत जप्त्वा आदिक्लीवं समाचरेत्। ॠऌॡद्वयं यत्तु तद्धि क्लीवं प्रचक्षते। वर्गाणामष्टभिर्वापि काम्यभेदात् क्रमेण तु अकचटतपयशा अष्टौ वर्गाः प्रकीर्त्तिताः”। मालयाजपविशेषस्तु नित्यातन्त्रे “अक्षमालां प्रपूज्याथ चन्दनेन सुलचने!। समाश्रिव्य जपेद्विद्वान् लक्षमात्रमनन्यधीः। योषितः सकला वश्याः सप्तद्वीपस्य पार्बति!। ततो द्वितीयलक्षञ्च प्रजपेद्वीरवन्दिते!। पातालतलनागेन्द्रकन्या वश्या भवन्ति हि। ततो लक्षत्रवं मद्रे! प्रजपेत् साधकोत्तमः। देवाङ्गना भवन्त्येव वश्यास्तस्य महेश्वरि!। महापातककोटीक्ष नाशयेत् कमलेक्षणे! अभिमानेन सौभाग्यं सौख्यं सौन्दर्य्यमाप्नुयात्। चतुर्लक्षं प्रजप्याथ महायोगीश्वरो भवेत्। पञ्चलक्षजपादृवि! कुवेरपदवीं व्रजेत्। षड्लक्षं तु प्रजप्याथ देवपूज्यो भवेन्नरः। अणिमाद्यष्टसिद्धीनां नायको नात्र संशयः। राजानोवशगास्तस्य योषितश्च विशेषतः। नवलक्षं महादेवि! योजपेत् साधकोत्तमः। रुद्रमूर्त्तिः स्वयं साक्षात् कर्त्ता हर्त्ता न संशयः”। समयाचारतन्त्रे “उत्तराम्नाये या माला भूयः शृणु वदामि ते। अथ वर्णमयी माला सर्व्वोत्कृष्टा च सा मता। महाशङ्खमयी माला वाञ्छितार्थफलप्रदा। उडुम्बरफलस्याथ सूक्ष्मस्याथ कृता मता”। योगिनीतन्त्रे पूर्वखण्डे द्वितीय पटले “ईश्वर उवाच। वर्णमाला शुभा प्रोक्ता सर्वमन्त्रप्रदीपनी। तस्याः प्रतिनिधिर्देवि! महाशङ्खमयी शुभा। महाशङ्खः करे यस्य तस्य सिद्धिरदूरतः। तदभावे वीरवन्द्ये! स्फाटिकी सर्वसिद्धिदा”। मणिभेदेन फलभेदमाह मुण्डमालातन्त्रे “त्रिंशतैश्वर्य्यफलदा पञ्चविंशैस्तु मोक्षदा। चतुर्द्दशमयो मोक्षदायिनी भोगवर्द्धिनी। दशपञ्चात्मिका माला मारणोच्चाटने स्थिता। स्तम्मने मोहने वश्य रोधने अञ्जने तनोः। पादुकासिद्धिसंघे च शतसख्या प्रकीर्त्तिता। अष्टोत्तरशतं कुर्य्यादथवा सर्वकामदम्”। योगिनी तन्त्रे “मणिसंख्या महादेवि! मालायाः कथ यामि ते। पञ्चविंशतिभिर्म्मोक्षं पुष्ट्यै तु सप्तबिंशतिः। त्रिंशद्भिर्धनसिद्धिः स्यात् पञ्चाशन्मन्त्रसिद्धये। अष्टोत्तरशतैः सर्वसिद्धिरेव महेश्वरि!। एतत्साधारणं प्रोक्तं विशेषं कामिनां वदे। शिवौवाच। दन्तमाला जपे कार्य्ये गले धार्य्या नृणा शुभा। दशनैर्यदि कर्त्तव्यां संख्यादन्तस्य ते प्रिये!। सर्वसिद्धिप्रदा माला राजदन्तेन मेरुणा। अन्यत्रापि महेशानि! मेरुत्वेनैवमादिशेत्। नित्यं जप करे कुर्य्यान्न काम्यमवरोधनात्। काम्यमपि करे कुर्य्यान्मालाऽभावे प्रियंवदे!। अत्राङ्गुल्या जपं कुर्य्यात् अङ्गुष्ठाङ्गुलिभिर्जपेत्। अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत्”। उत्पत्तितन्त्रे प्रथमपटले “नित्यं नैमित्तिकं काम्यं करे कुर्य्याद्विचक्षणः। करमाला महादेवि! सर्वदोषविवर्जिता। छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन। अक्षयस्तु करोदेवि! माला भवति तादृशी। ग्रन्थिः सा कुण्डलीशक्तिः पञ्चाशद्वर्णरूपिणी। अतएव महेशानि! करमाला महाफला”। योगिनीतन्त्रे “तथातथातो ग्रथनं मालानां तत्र शोधनम्। पूजां विधाय भक्त्या तु शुचिः पूर्वमुपोषितः। विजने ग्रथयेन्मौनी स्वयं मालाञ्च साधकः। कृतनित्यक्रियः शुद्धः शुद्धर्क्षेषु च मन्त्रवित्। यथाकालं यथाकाममक्षाण्यानीययत्नतः। अन्योऽन्यसमरूपाणि नातिस्थूलकृशानि च। कीटादिभिरदुष्टानि न जीर्णानि नवानि च। गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक्। पृथ्वीदेवेन्द्रपुण्यस्त्रीनिर्म्मितं ग्रन्थिवर्जितम्। त्रिगुणं त्रिगुणीकृत्य पट्टसूत्रमथापि वा। शुक्लं रक्तं तथा कृष्णं शान्तिवश्याभिचारके। सूत्रं संपातयेद्विद्वान् तत्प्रक्षाल्य च पूर्ववत्। मालामेकैकमादाय सूत्रे संपातयेत् तधीः। मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु वाजयेत्। तोपुच्छसदृशी कार्य्याथ वा सर्पाकृतिर्भवेत्। तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतोन्यसेत्। एकैकमालामध्ये तु ब्रह्मग्रन्थिं प्रकल्पयेत्”। उत्पत्तितन्त्रे षाष्टपटले “क्रमोत्क्रमाच्छतावृत्त्या पञ्चाशद्वर्णमालया। योजपः स तु विज्ञेय उत्तमः परिकीत्तितः। अकारादि क्षकारान्ता वर्णमाला प्रपीर्त्तिता”। अधिकं जपशब्दे दृश्यम् तदग्रथनप्रकारादि तन्त्रसारे दर्शितं यथा सनत्कुमारीये “कार्पाससम्भवं सूत्रं धर्म्मकामार्थं मोक्षदम्। तच्च विप्रेन्द्रकन्याभिर्निर्मितञ्च सुशीभनम्। शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा। शान्तिवश्याभिचारेषु मोक्षैश्वर्य्य जयेषु च। शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात्। सर्वेषामेक वर्णानां रक्तं सर्वेप्सितप्रदम्। त्रिगुणं त्रिगुणीकृत्य ग्रथयेत् शिल्पशास्त्रतः। एकैकं मावृकावर्ण सतारं प्रजपन्सुधीः। मणिमादाय सूत्रेण ग्रथयेन्मध्यभा गतः। ब्रह्मग्रन्थि विधायेत्थं मेरुञ्च ग्रन्विसंयुतम्। ग्रथयित्वा पुरोमालां तत्संस्कारं समाचरेत्। कस्वचिचिन्मते मूलविद्यया ग्रथयेत् तथा च एकवीराकल्पे “भातृका बर्णतो ग्रन्थिं विद्यया वाथ कारयेत्”। सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः। ब्रह्मग्रन्थिं ततो दद्यात् नागपाशमथापि वा। कवचेनावबध्नीयान्मालां ध्यानपरायणः। सर्वशेषे ततोमेरुं सूत्रद्वयसमन्वितम्। ग्रथयेत्तारयोगेन बध्नीयात् साधकोत्तमः। एवं निष्पाद्य देवेशि! प्रतिष्ठाञ्च समाचरेत्”। गौतमीये “मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योज येत्। गोपुच्छसदृशी माला यद्वा सर्पाकृतिः शुभा”। मुखपुच्छनियमस्तु स्वच्छन्दमाहेश्वरे “रुद्राक्षस्योन्नतं प्रोक्तं मुखं पुच्छञ्च निम्नगम्। कमलाक्षस्य सूक्ष्मांशै सविन्दुद्वितयं मुखम्। सविन्दु कस्य स्थूलांशं दृढं श्लक्ष्णमिति स्थितम्। एवं ज्ञात्वा मुखं पुच्छ रूद्राक्षाम्भोरुहाक्षयोः। तत्सजातीयमेकाक्षं मेरुत्वना ग्रतोन्यसेत्। एकैकं मणिमादाय ब्रह्मग्रन्थिं प्रकल्पयेत्। एकैकमातृकावर्णान् ग्रथनादौ तु संजपेत्”। ग्रन्थिनियमस्तु स्वच्छन्दमाहेश्वरे “त्रिवृत्तिग्रन्थिनैकेन तथार्द्धेन विधीयते”। अथ वा “नवभिस्तन्तुभिश्चाथ रज्वुं कृत्वोपवीतवत्। सार्द्धद्वयावर्त्तनेन ग्रन्थिं कुर्य्याद्यथा दृढम्”। इत्यताभ्यामिच्छाविकल्पः। तथा “द्वादष्यां वैष्णवी माला कर्त्तव्या सोपवासतः। समृद्ध्यै विष्णुमन्त्रेण दिवाभागे प्रयत्नतः। शक्तीनामपि कर्त्तव्य रात्रिन्त्यक्ता यथाविधि। अष्टभ्याञ्च नवम्य ञ्च चतुर्द्दश्यान्तथैव च। त्रयोदश्यान्तथा कुर्य्याच्छिवस्याथ सुरेश्वरि! शुभे लग्ने शुभे वारे शुभर्क्षे च शुभे तिथौ। प्रतिष्ठां कारयेन्मन्त्री स्वयं वा गुरुणापि वा। एवं निर्म्माय मालां वै शोधयेन्मुनिसत्तम!। कालिकापुराणे ब्रह्मग्रन्थियुतं कुर्य्यात् प्रतिवीजं यथास्थितम्। अथ वा ग्रन्थिरहितं दृद रज्वुसमन्वितम्। अश्वत्थपत्रनवकैः पद्माकारन्तु कल्पयेत्। तन्मध्ये स्थापयेत्मालां मातृकां मूलमुच्चरन्। क्षालयेत् पञ्चगव्यैस्तु सद्योजातेन सज्जलैः”। इत्यादि। मालासंस्कारस्य नित्यतामाह रुद्रयामले “अपतिष्ठितमालाभिर्मन्त्रं जपति यो नरः। सर्वं तद्विफलं विद्यात् क्रुद्धा भवति देवता”। खच्छन्दमाहेश्वरे “मध्यमायां न्यसेत् मालां ज्येष्ठेनावर्त्तयेत सुधीः। भुक्तिमुक्तिप्रदा सेयं किञ्चाथ मातृकाक्रमात्। कामनाभेदे अङ्गुलीनियमो यथा “तर्ज्जन्यङ्गुष्ठयोगेन शत्रूणां नाशने जपेत्। अङ्गुष्ठमध्यमायोगात् मन्त्रसिद्धिः सुनिश्चिता। अङ्गुष्ठानामिकायोगाच्छत्रोरुच्चाटनं मतम्। ज्येष्ठाकनिष्ठायोगेन शत्रूणां शासनं मतम्”। “वैशम्पायनसंहितायाम् अङ्गुष्ठमध्यमानाञ्च गणेयं मध्यमागतः। तर्ज्जन्या न स्पृशेदेनां मुक्तिदो गणनक्रमःः। जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत्। प्रमादात् पतिता हस्तात् शतमष्टोत्तरं जपेत्। जपेन्निषिद्धसंस्पर्शे क्षालयित्वाऽक्षमालिकाम्”। छिन्नेऽप्यष्टोत्तरशतजपः कार्य्यः करभ्रष्टच्छिन्नयोस्तुल्यत्वात्” तन्त्रसारः।
जपयज्ञ = पु० जपएव यज्ञः। जपरूपे यज्ञे तद्भेदादिकं हारीतेनोक्तं यथा “विविधो जपयज्ञः स्यात्तस्य तत्त्वं निबोधत। वाचिकश्च उपांशुश्च मानसश्च त्रिधाकृतिः। त्रयाणामपि यज्ञानां श्रेष्ठः स्यादुत्तरीत्तरः। यदुच्चनीचोच्चरितैः शब्दैः स्पष्टपदाक्षयैः। मन्त्रमुच्चारयन् वाचा जप यज्ञः स वाचिकः। शनैरुच्चारयन् मन्त्रं किञ्चिदोष्ठौ प्रचालयेत्। किञ्चित् श्रवणयोग्यः स्यात् स उपांशुर्जपः स्मृतः। धिया पदाक्षरश्रेण्या अवर्णमपदाक्षरम। मन्त्रार्थचिन्तनाभ्यान्तु तदुक्तं मानसं स्मृतम्। जपेन देवता नित्यं स्तूयमाना प्रसीदति। प्रसन्ने विपुलान् भोगान् प्राप्नुवन्ति मनीषिणः। राक्षसाश्च पिशाचाश्च महासर्पाश्च भीषणाः। जपितान्नोपसर्पन्ति दूरादेव प्रयान्ति ते। छन्दऋष्यादि विज्ञाय जपेन्मन्त्र मतन्त्रितः”। “विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः। उपांशुः स्यात् शतगुणः साहस्रो मानस स्मृतः”। “ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः। सर्वे ते जपयज्ञस्यं कलां नार्हन्ति षोडशीम्” मनुः “जपयज्ञप्रसिद्ध्यर्थं विद्याञ्चाध्यात्मिकीं जपेत्” याज्ञ० “यज्ञानां लपयज्ञोऽस्मि” गीता।
जपस्थान = न० ६ त०। नानातन्त्रोक्ते जपसाधनस्थानभेदे। तानि च नामातन्त्रोक्तानि प्रदर्श्यन्ते।
“सारदायां द्वितीयपले “पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम्। तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं सरः। उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः। देवाद्यायतनं कूलं समुद्रस्य निजं गृहम्। साधनेष् प्रशस्यन्ते स्थानान्येतानि मन्त्रिणाम्। नदीतीरं पुण्यनदीतीरं सामान्यनदीतीरस्य निषिद्धत्वात्। विविक्तानि विज नानि। राघवभट्टधृतम् “प्रत्यङ्मुखशिवस्थाने वृषभादिविवर्ज्जिते। अश्वत्थविल्वतुलसीवपुष्पान्तरावृते। गवां गोष्ठेऽश्वत्थमूले पुण्यक्षेत्रेषु शस्यते”। गोष्ठ इत्यनेनैव गीस्थाने लब्धे गवामिति यदुक्तं तत्तात्कालिकगोसम्बन्धज्ञापनाय तेन गोसमीपे जपादिकर्म्मप्रशस्तमतएव गवां समीप इत्युक्तम्। वायवीयसंहितायाम् “सूर्य्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च। विप्राणाञ्च गवाञ्चैव सन्निधौ शस्यते जपः। अथ वा प्रजपेत्तत्र यत्र चित्तं प्रसीदति”। मुण्डमालातन्त्रे तृतीयपटले च “नदीतीरे विल्वमूले श्मशाने शून्यवेश्मनि। एकलिङ्गे पर्वते वा देवागारे चतुष्पथे। शवस्योपरिमुण्डे वा जले वाऽऽकण्ठपूरिते। संग्रामभूभौ योनौ वा स्थाने वा विजने वने। यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोलयः” वृहन्नीलतन्त्रे द्वितीयपटले “एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे। हर्म्ये वा साधयेद्देवीं सर्वाभीष्टप्रदायिनीम्” “पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमोक्ष्यते। तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” इति श्यामारहस्यधृतेनैकलिङ्गं ज्ञातव्यम्। तथा “उज्जष्टे पर्वते वापि निर्जने वा चतुष्पथे। देवागारे देवशून्ये विल्वमूले नदीतटे। स्वगृहे निर्जनेऽरण्ये तथा चाश्वत्थसन्निधौ” इत्यपि श्यमारहस्ये। नित्यातन्त्रे प्रथमपटले च “एकलिङ्गे श्मशाने वा शून्यागारे नदीतटे पातालभवने वापि गिरौ वा दीर्थिकातटे। शक्तिक्षेत्रे महापीठे विल्वमूले शिवालये। धात्रीवृक्षतलेऽश्वत्थमूले चैव तरोस्तले”। पातालभवने भूमिमध्ये। समयाचारतन्त्रे द्वितीयपटलेऽपि “जपस्थानाभि देवेशि! सिद्धपीठानि यानि च। सिद्धपीठे च शय्यायां स्वट्टा शय्या विशेषतः। चतुष्पथे सिद्धलिङ्गे गुरुदेवालये तथा। वटाश्वत्थविल्वमूले रम्भाया विपिने तथा। नदीतीरे शिवागारे पुहापर्वतमस्तके। जपस्थानानि देवेशि! कथितानि नगात्मजे!। शृणु देवि! विशेषेण उत्तराम्नायहेतवे!। वेश्याभृहे श्मशाने वा गत्वा मैथुनमाचरेत्। ततो जपादिकं देवि! कृत्वा च लभते फलम्। अथ वा स्वगृहे रात्रौ भक्तिमान् सुसमाचरेत्। स प्राप्नोति फलं सर्वं चित्तादिभयवर्जितः” पुरश्चरणरसोल्लासतन्त्रे चतुर्थपटले “गोष्ठं चतुष्पथञ्चैव त्रिपथञ्च वरानने!। निर्जतञ्च तथारण्यं शून्यगेहं तथैव च। पर्बतञ्च नदीतीरं तथैव दीर्घिकातटम्। अश्वत्थवृक्षमूले च वटवृक्षतले तथा। धात्रीवृक्षतले देवि! तथैव बकुलस्य च। यत्र पद्मवनं भद्रे! शुक्लं रक्तं वरानने!। द्रोणपुष्पस्य चार्वङ्गि! यदि भाग्येन लभ्यते। अरुणादित्यसङ्काशं जपकालं परात् परम्” फलविशेषस्तु राघवभट्टेनोक्तो यथा। “गृहे जपः समः प्रोक्तो गोष्ठे शतगुणस्तु सः। आरामे च तथारण्ये सहस्नगुण उच्यते। अयुतः पर्वते पुण्ये नद्यां लक्षगुणस्तु सः। कोटिर्देवालये प्राहुरनन्तं शिवसन्निधौ” तत्र सिद्धपीठानि कुब्जिकातन्त्रे ७म पटले। “शिव उवाच। श्रूयतां सावधानेन सिद्धपीठं पतिव्रते!। यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरो भवेत्। मायावती मधुपुरी काशी गोरक्षकारिणी। हिङ्गुला च महापीठं तथा जालन्धरं पुनः। ज्वालामुखीमहापीठं पीठं नगरसम्भवम्। रामगिरिर्महापीठं तथा गोदावरी प्रिये!। नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये!। अयोध्याञ्च कुरुक्षेत्रं सिंहनादं मनोरमम्। मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम्। वदरीञ्च महापीठं अम्बिकामर्द्धनालकम्। त्रिवेणीं च महापीठं गङ्गासागरसङ्गमम्। नारिकेलञ्च विरजा उड्डीयानं महेश्वरि!। कमला विमला चैव तथा माहेष्मती पुरी। वाराही त्रिपुरा चैव वाङ्मती नीलवाहिनी। गोवर्द्धनं विन्ध्यगिरिः कामरूपं कलौ युगे। घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरेश्वरि!। क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने!। कामरूपं महापीठं सर्वकामफलप्रदम्। कलौ शीघ्रफलो देवि! कामरूपे जपः स्मृतः” अन्यत्र जपेऽपि कामाख्यावस्त्रयोगेन फलमुक्तं तत्रैव “कामाख्यावस्त्रमादाय जपपूजाः समाचरेत्। पूर्णकामं लभेद्देवि! सत्यं सत्यं न संशयः” तन्त्रचूडामणौ महापीठान्युक्तानि यथा। “ईश्वर उवाच। मातः! परात्परे! देवि! सर्वज्ञानमयीश्वरि!। कथ्यतां मे सर्वपीठं शक्तीर्मैरवदेवताः” देव्यु- वाच। “शृणु वत्स! प्रवक्ष्यामि दयालो! भक्तवत्सल!। यानिर्विना न सिद्ध्यन्ति जपसाधनतत्क्रियाः। एकपञ्चाशतं पीठं शक्तीर्भैरवदेवताः। अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च। ममास्य वपुषो देव! हिताय त्वयि कथ्यते। व्रह्मरन्ध्रं १ हिङ्गुलायां भैरवो भीमलोचनः। कोट्टरीशा महादेव! त्रिगुणा सा दिगम्बरी। २ करवीरे त्रिनेत्रं मे देवी महिषमर्द्दिनी। क्रोधीशो भैरवस्तत्र ३ सुगन्धायाञ्च नासिका देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता। ४ काश्मीरे कण्टदेशश्च त्रिसन्ध्येश्वरभैरवः। महामाया भगवती गुणातीता वरप्रदा। ५ ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः। अम्बिका सिन्निदानाम्नी स्त्रनं ६ जालान्धरे मम। भीषणो भैरवस्तत्व देवी त्रिपुरमालिनी। हृद्यपीठं ७ वैद्यनाथे वैद्यनाथस्तु भैरवः। देवता जयदुर्गाख्या। ८ नेपाले जानु मे शिव। कपाली मैरवः श्रीमान् महामाया च देवता। ९ मालवे दक्षहस्तं मे देवी दाक्षायणी हर!। अमरो भैरवस्तत्र सर्वसिद्धि प्रदायकः। १० उत्कले नाभिदेशन्तु विरजाक्षेत्रमुच्यते। विमला सा महादेवी जगन्नाथस्तु भैरवः। ११ गण्डक्यां गण्डपातश्च तत्र सिद्धिर्न संशयः। तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः। १२ बहुलायां वामबाहुर्बहुलाख्या च देवता। भीरुको भैरवस्तत्र सर्वसिद्धिप्रदायक। १३ उज्जयिन्यां कूर्परञ्च माङ्गल्यः कपिलाम्बरः। भैरवः सिद्धिदःसाक्षाद्देवी मङ्गलचण्डिका। १४ चट्टले दक्षवाहुर्मे भैरबश्चन्द्रशेखरः। व्यक्तरूपा भगवती भवानी तत्र देवता। विशेषतः कलियुगे वसामि चन्द्रशेखरे। १५ त्रिपुरायां दक्षपादी देवी त्रिपुरसुन्दरी। भैरवस्त्रिपुरेशश्च सर्वाभीष्टप्रदायकः। १६ तिस्रोतायां वामपादो भ्रामरी भैरवेश्वरः। योनिपीठं कामगिरौ १७ कामाख्या तत्र देवता। यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी। यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः। सर्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः। तत्र श्रीभैरवी देवी तत्र च क्षेत्रदेवता। प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुरात्मिका। वगला कमला तत्र भुवनेशी सधूमिनी। एतानि नव पीठानि शंसन्ति बरभैरवाः। अङ्गुलीवृन्दं हस्तस्य १८ प्रयागे ललिता भवः। १९ जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः। सर्वत्र बिरला चाहं कामरूपे गृहे गृहे। २० गौरीशिखरमारुह पुनर्जन्म न विद्यते। भूतधात्री महामाया भैरवः क्षीरकण्ठकः। युगाद्या सा म- हामाया दक्षाङ्गुष्ठपदो मम। नकुलीशः कालीपीठे दक्षपादाङ्गुली मम। करतोयां समारभ्य यावद्दिक्करवासिनी। शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम्। देवा मरणमिच्छन्ति किं पुनर्मानवादयः। भुवनेशी सिद्धिरूपा किरीटस्था २१ किरीटतः। देवता विमलानाम्नी संवर्त्तो मैरवस्तथा। २२ वाराणस्यां विशालाक्षी देवता कालभैरवः। मणिकर्णीति विख्याता कुण्डलञ्च मम श्रुतेः। २३ काल्याश्रमे च पृष्ठं मेऽनिमेषो भैरवस्तथा। सर्वाणि देवता तत्र, २४ कुरुक्षेत्रे च पुल्फतः। स्थाणुनाम्नी च सावित्री अश्वमाथस्तु प्रैरवः। २५ मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः। २६ श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता। भैरवः शम्बरानन्दो देशे देशे व्यवस्थितः। २७ काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः। देवता देवगर्भाख्या नितम्बः २८ कालमाधवे। भैरवश्रासिताङ्गश्च देवी काली सुसिद्धिदा। दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात्। २९ शोणाख्ये भद्रमेनस्तु नर्म्मदाख्या नितम्बके। ३० रामगिरौ तथा नासा शिवानी चण्डभैरवः। ३१ वृन्दावने केशजालमुमानाम्नी च देवता। भूतेशो भैरवस्तत्र सर्वसिद्ध्विप्रदायकः। संहाराख्य ऊर्द्ध्वदन्ते देवी नारायणी ३२ शुचौ। अधोदन्ते महारुद्रो वाराही ३३ पञ्चसागरे। ३४ करतोयातटे तल्पं वामे वामनभैरवः। अपर्णा देवता तत्र व्रह्मरूपाकरोद्भवा। ३५ श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा। सर्वसिद्धीश्वरी सर्व्वा सुनन्दाऽऽनन्दभैरवः। ३६ कपालिनी भीमरूपा वामगुल्फविभागके। भैरवश्च महादेवः सर्व्वानन्दशुभप्रदः। उदरञ्च ३७ प्रभासे मे चन्द्रभागा यशस्विनी। वक्रतुण्डो भैरवश्चोर्द्धौष्ठे मैरवपर्वते। ३८ अवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः। ३९ चित्रके भ्रामरी देवी किकुभाख्यजले स्थले। भैरवः सर्वसिद्धीशस्तत्र सिद्धिरनुत्तमा। ४० गण्डो गोदावरीतीरे विश्वेशी बिश्वमातृका। दण्डपाणिर्भैरवस्तु ४१ वामे गण्डे तु राकिणी। भैरवोवत्सनाभस्तु तत्र सिद्धिर्न संशयः। ४२ रत्नावल्यां दक्षस्कन्धे कुमारी भैरवः शिवः। ४३ मिथिलायां महादेवी वामस्कन्धे महोदरः। ४४ नलाहाट्यां नलापातो योगीशो भैरवस्तथा। तत्र सा कालिका देवी सर्व्वसिद्धिप्रदायिका। ४५ कालीघट्टे मुण्डपातः क्रोधीशो भैरवस्तथा। देवता जयदुर्गाख्या नानाभोग- प्रदायिनी। ४६ वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः। नदी पापहरा तत्र देवी महिषमर्द्दिनी। ४७ यशोरे पाणिपद्मञ्च देवता यशोरेश्वरी। चण्डश्च भैरवस्तत्र यत्र सिद्धिमवाप्नुयात्। ४८ अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता। विश्वेशो मैरवस्तत्र सर्व्वाभीष्टप्रदायकः। हारपातो ४९ नन्दिपुरे भैरवो नन्दिकेश्वरः। नन्दिनी सा महादेवी तत्र सिद्धिर्न सशयः। ५०लङ्कायां कर्परञ्चैव भैरवो राक्षसेश्वरः। इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा। ५१ विराटदेशमध्ये तु पादाङ्गुलिनिपातनम्। भैरवश्चामृताख्यश्च देवी तत्राम्बिका स्मृता। एतास्ताः कथिताः पुत्त्र! पीठनाथाधिदेवताः। क्षेत्राधीश विना देव! पूजयेच्चान्यदेवताम्। भैरवैर्ह्रियते सर्व्वं जपपूजादिसाधनम्। अज्ञात्वा भैरवं पीठं पीठशक्तिञ्च शङ्कर!। प्राणनाथ! न सिध्येत्तु कल्पकोटिजपादिभिः। न देयं परशिष्येभ्यो निन्दकाय दुरात्मने। शठाय क्रूरकार्य्याय दत्त्वा मृत्युमवाप्नुयात्। दद्यात् शान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये”। महानीलतन्त्रे पञ्चमपटले “पीठार्च्चनं महादेवि! तत्र सिद्धिरनुत्तपा। पीठानां परमं पीठं कामरूपं महाफलम्। तत्र या क्रियते पूजा सकृद्वापि महेश्वरि!। विहाय सर्वपीठानि तस्य देहे वसाम्यहम्। तस्माच्छतगुण प्रोक्तं कामाख्यायोनिमण्डलम्। तेषां फलं महेशानि! वक्तुं किं शक्यते मया। तत्र कोटिगुणैः सार्द्धमाद्या वसति तारिणी। यत् पीठं व्रह्मणा गुप्तं वक्तुं सर्वसुखावहम्। यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः। सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु। द्विविधञ्चैव यत् पीठं गोप्तव्यं तन्महेश्वरि!। गुप्ताद्गुप्तं महापुण्यं दुरापं साधकाधमैः। व्यक्तं सर्ब्बत्र देवेशि! लभ्यते कुलसुन्दरि!। पीठप्रसङ्गाद्देवेशि पीठानि शृणु भैरवि!। शृणु तानि महाप्राज्ञे! श्रेष्ठस्थानापि यानि च। सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च। पुष्करञ्च गयाक्षेत्रम् अक्षयाख्यवटस्तथा। वराहपर्व्वतश्चैव तीर्थञ्चामरकण्टकम्। नर्म्मदा यमुना पिङ्गी गङ्गाद्वार तथा प्रिये। गङ्गासागरसङ्गश्च कुशावर्त्तश्च विल्वकम् श्रीनीलपर्वतश्चैव कलम्बकुब्जके तथा। भृगुतुङ्गञ्च केदारं सर्वप्रियमहावनम्। ललिता च सुगन्धा च शाकम्भरी सुरप्रियम्। कण्वतीर्थं महागङ्गा तण्डुलिकाश्रमएव च। कुमाराख्यप्रभासौ च तथा धन्या सरस्वती। अगस्त्याश्रममिष्टं मे कण्वाश्रममतःपरम्। कौशिकीसरयूःशोणो ज्योतिःसरःपुरःसरम्। कालोदकं प्रियं श्रीमत् प्रियसुत्तरमानसम्। मतङ्गवापी सप्तार्च्चिर्महाविष्णुपदं महत्। वैद्यनाथं महातीर्थं प्रियःकालाञ्जरोगिरिः। रामोच्छेदं गर्गोच्छेदं हरोच्छेदं महावनम्। भद्रेश्वरं महातीर्थं लक्ष्मणच्छेदमेव च। जानीहि प्रियश्रेष्ठा च कावेरी कपिलीदका। सोमेश्वरं शुक्लतीर्थं कृष्णवेन्नाप्रभेदकम्। पाटला च महावोधिर्नगतीर्थं मदन्तिके। पुण्यं रामेश्वरं देवि! तथा मेघवनं हरेः। ऐलं वनफलञ्चैव गोवर्द्धनमजप्रियम्। हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमपि प्रियम्। इन्द्रनीलं महानादं तथैव प्रियमैनकम्। पञ्चाप्सरं पञ्चवटी वटीपर्वटिका तथा। गङ्गाविल्वप्रसङ्गश्च प्रियनादवटं तथा। गङ्गारामाचलञ्चैव तथैव ऋणमोचनम्। गौतमेश्वरतीर्थञ्च वशिष्ठतीर्थमेव च। हारीतञ्च तथा देवि! ब्रह्मावर्त्तं शिवप्रियम्। कुशावर्त्तमभिश्रेष्ठं हंसतीर्थं तथैव च। पिण्डारकवनं ख्यातं हरिद्वारं तथैव च। तथैव वदरीतीर्थं रामतीर्थं तथैव च। जयन्ती विजयन्तञ्च सर्वकल्याणदं प्रिये!। विजया सारदातीर्थं भद्रकालेश्वरं तथा। अश्वतीथं सुविख्यातं तथा देवशिवप्रियम्। ओघवती नदी चैव तीर्थमश्वप्रदं तथा। छागलिङ्गं मातृगणं करवीरपुरं तथा। सप्तगीदावरं तीर्थं लिङ्गाख्यं सर्व्वमोहनम्। किरीटमुत्तरे तीर्थं दक्षिणे तीर्थमुत्तमम्। विशालतीर्थं काल्याश्च वनं वृन्दावनं तथा। ज्वालामुखा हिङ्गुला च महातीर्थं गणेश्वरम्। जानीहि सर्वतीर्थानां हेतुस्थानानि सुन्दरि!। अत्र सन्निहिता नित्यं सर्वे देवा महर्षयः। पितरो योगिनश्चैव ये ये सिद्धिपरायणाः। आशु सिद्व्यन्ति कर्म्माणि श्रद्धाभक्तिमतां प्रिये!। पुण्यकाले पठेत् यस्तु तत्पुण्यमक्षयं भवेत्। श्राद्धकाले पठेत् यस्तु जुहुयाद्वापि भक्तितः। अक्षयं तद्भवेत् कव्यं पितॄणां परमं सुखम्। तस्मिन् स्थाने पठेद् यस्तु सिद्धिर्भवति तत्जणात् अथ वक्ष्ये महेशानि! यत्र या देवता शृचु यत्र ते यानि नामानि कथयिप्यामि तत् शृणु। रग्नोऽहं परमानन्दे तत् कथामृतवारिधौ! पुष्करे कमलाक्षी च गयायाञ्च गयेश्वरी। अक्षया अक्षयवटेऽमरेशोऽमरकण्टके। वराहपर्वते च त्वं वाराही धरणीप्रिया। नर्म्मदा नर्म्मदायाञ्च कालिन्दी यमुनाजले। शिवामृता च गङ्गायां अश्वा देहलिकाश्रमे। शारदा सरयूतीरे शोणे च कनकेश्वरी। अप्रकाशा सदा देवी ज्योतिर्म्मय्यब्धिसङ्गमे। श्रीरहं श्रीगिरौ चैव काली कालोदके तथा। महोदरी महातीर्थे नीला चोत्तरमानसे। मातङ्गिनी मतङ्गे च गुप्तार्च्चिर्विष्णुपादुके। स्वर्गदा स्वर्गमार्गे च गोदावर्य्यां गवेश्वरी। विमुक्तिश्चैव गोमत्यां विपाशायां महाबला। शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै। ऐरावत्याञ्च ईर्नाम सिद्धिदा सिद्धतीरके। दक्षपञ्चनदे चैव दक्षिणाहं प्रकीर्त्तिता। औजमे वीर्य्यदा च त्वं सङ्गमा तीथसङ्गमे। बाहुदायामनन्ताहं कुरुक्षेत्रे रणेक्षणा। तपस्विनी पुण्यतमा भारती भारताश्रमे। सुकथा नैमिषारण्ये पाण्डौ च पाण्डुरानना। विशालायां विशालाक्षी मुण्डपृष्ठे शिवात्मिका। श्रद्धा कनखले तीर्थे शुद्धबुद्धिर्मुनीश्वरी। सुवेशा सुमना गौरी मानसे च सरोवरे। नन्दापुरे महानन्दा ललिता ललितापुरे। ब्रह्माणी ब्रह्मशिरसि महापातकनाशिनी। पूर्णिमा चेन्दुमत्याञ्च सिद्धमतिप्रिया सदा। जाह्नवीसङ्गमे वृत्तिः स्वधा श्च पितृतुष्टिदा। पुण्याहं बाहुदायाञ्च प्रपायां पापनाशिनी। शत्रुसंहारिणी चैव घोररूपा महोदरी। स्वर्गोच्छेदे महावारिप्रबला च महावने। भद्रा च भद्रकाली च भद्रेश्वरी शिवप्रिय!। भद्रेश्वरेश्वरमा विष्णु प्रिया विष्णुपदे तथा। दारुणा नर्म्मदाच्छेदे कावेर्य्यां कपिलेश्वरी। भेदिनी कृष्णवेन्नायां संभेदे शुभवासिनी। श्रद्धा च शुक्रतीर्थे च प्रभासे चेश्वरी तथा। महाबोधौ महाबुद्धिः पाटले पाटलेश्वरी। सुवला नागतीर्थे च नागेशी नागनन्दिता। मदन्तौ च मदन्ती च प्रमदा च मदन्तिका। मेघस्वना मेघवासे विद्युत्सौदामनीच्छदा। रामेश्वरे महाबुद्धिर्वीरा चेलापुरे सती। प्रिया च भार्गवे दुर्गा सुवेशा सुरसुन्दरी। कात्यायनी महादेवी गोवर्द्धनेऽखिलात्मिका। शुभेश्वरी हरिश्चन्द्रे पुरचन्द्रे पुरेश्वरी। पृथूदके महावेगा मैनाकेऽखिलबर्द्धिनी। इन्द्रनीले महाकान्ता रत्नवेशा सुशोभना। माहेश्वरी महानादे महातेजा महावने। प्रत्यकसरसि सारङ्गा पञ्चवट्यां तपस्विनी। वटीशा वटिकायाञ्च सर्ववर्णा सुरङ्गिणी। सङ्गमे बिन्ध्यगङ्गायां विन्ध्यं श्रीविन्ध्यवासिनी। महानन्दा नन्दतटे गङ्गारामाचले शिवा। आर्य्यावर्त्ते महार्य्या त्वं विमुक्तिरृणमोचने। अट्टहासे च चामुण्डा तन्त्रे श्रीगौतमेश्वरी। वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धनी। हरिते हरिणाक्षी च व्रह्मावर्त्ते व्रजेश्वरी। गायत्री चैव सावित्री कुशावर्त्ते कुशप्रिया। हंसेश्वरी महातीर्थे परहंसेश्वरेश्वरी। पिण्डारकवने धन्या सुरसा सुखदायिनी। नारायणी वैष्णर्वा च गङ्गाद्वारे विमुक्तिदा। श्रीविद्या वदरीतीर्थे रामतीर्थे महाधृतिः। जयन्ती च जयन्तेत्वं विजयन्तेऽपराजिता। विजया च महाशुद्धिः शारदायाञ्च शारदा। सुभद्रे भद्रदा भव्या भद्रकालेश्वरे तथा। महाभद्रा महाकाली हयतीर्थे गवीश्वरी। वेददा वेदमाता च विदेहे वेदमस्तके। युवत्याञ्च महाविद्या महानद्यां महोदया। चण्डा च त्रिपदे चैव छागलिङ्गे बलिप्रिया। मातुर्देशे जगन्माता करवीरपुरे सती। नलिनीरङ्गिणी रामा परमा परमेश्वरी। सप्तगोदावरे तीर्थे देवर्षिरखिलेश्वरी। अयोध्यायां भवानी च जयदा जयमङ्गला। माधवी मथुरायाञ्च देवकी यादवेश्वरी। वृन्दागोपेश्वरी राधारासवृन्दावने रमा। कात्यायनी महामाया भद्रकाली कलावती। चन्द्रमाला महायोगी महायोगिन्यधीश्वरी व्रजेश्वरी यशोदेति व्रजे श्रीगोकुलेश्वरी। काञ्च्यां कनककाञ्ची स्यादवन्त्यामभिपावनी। विद्या विद्यापुरे चैव विमला नीलपर्वते। रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे। विरजा यागपुर्य्याञ्च भद्रेऽपि भद्रकर्णिका। तमोलिप्ते तमोघ्नी च स्वाहा सागरसङ्गमे। कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया। मङ्गले! मङ्गले कोटे राढे मङ्गलचण्डिका। ज्वालामुखी शिवापीठे मन्दरे भुवनेश्वरी। कालीघट्टे गुह्यकाली किरीटे च महेश्वरी। किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी। साक्षी सर्वत्र भक्तानामभक्ताना कुतोऽपि न। अथान्यत् सम्प्रवक्ष्यामि सिद्धस्थानानि सुन्दरि!। सर्वपापविनाशार्थं सर्वसिद्धिप्रदं नृणाम्। निर्म्मितानि शिवेनेह सिद्धस्थानानि यानि च। श्रुत्वा मनसि भव्यानि प्रकाश्यात्यधिकारिषु। अमरेशमहापीटे कुषतुङ्गारसंज्ञकः। तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी। प्रभासे सोमनाथोऽसौ देवी च पुष्करेक्षणा। देवदेवाधिपः शम्भुर्नैमिषे च महेश्वरः। तत्र प्रज्ञा च देवी च शिवानी लिङ्गधारिणी। पुष्करे च राजगन्धिः पुरहूता महेश्वरी। श्रीपर्वते श्रिया नाम शङ्करस्त्रिपुरान्तकः। मायावी शङ्करी तत्रा भक्तानामखिलार्थदा। जष्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी। त्रिशूली शङ्करस्तत्र सर्वपापविमोचकः। आम्रातकेश्वरे सूक्ष्मासूक्ष्माख्या परमेश्वरी। गणक्षेत्रे मङ्गलाख्या शिवोयः प्रपितामहः। कुरुक्षेत्रे शिवः स्थाणुः शिवा स्थाणुश्रिया परा। इष्टनाभे स्वयम्भुश्च देवी स्वायम्भुवा मता। उग्रः कनखले प्रोक्तः शिवोग्रे शिववल्लभा। विमलेश्वरे विश्वशम्भु विश्वाविश्वप्रिया सदा। अट्टहासे महानन्दी महानन्दा महेश्वरी। महान्तको महेन्द्रश्च पार्वती च महान्तका। भीमेश्वरी भीमपीठे शिवा भीमेश्वरी तथा। वस्त्रपादे भवो नाम भवानी भुवनेश्वरी। अद्रिकूटे महायोगा रुद्राणी परमेश्वरी। अविमुक्ते महादेवो विशालाक्षी शिवा परा। महामाये हरो रुद्रो महाभागा शिवा तथा। महाबलश्च गोकर्णे शिवभद्रा च चण्डिका। भद्रकर्णे महादेवो भद्रा च कर्णिका तथा। सुपर्णाख्ये सहस्राख्य उत्पला परमेश्वरी। स्थाणुसंज्ञे शिवस्था श्रीः खरस्था श्रीघरा शिवा। कमलालये महास्थाने कमलाख्यो महेश्वरः। कमलाक्षी महेशानी। सकलार्थप्रदायिनी। छागला तु कपर्दी च प्रसभा च महेश्वरी। ऊर्द्ध्वरेतामहारण्ये सन्ध्याख्या परमेश्वरी। साकोटास्या महाकोटे शिवा च मुण्डकेश्वरी। मातुलेश्वरपीठे च करवीरार्च्यशेखरा। श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः। शिवः सभापतिर्नाम यत्र नृत्यति शङ्करः। आत्मानन्दसहानादपूर्णानन्दमहार्णवम्। नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति। यत्र चाशु महादेवी भक्तानां वरदो भवेत्। नृत्यन्तं यत्र सर्वेशं वीक्ष्य लोको विमुच्यते। पुण्यस्थानेषु सर्वेषु स्थानमेतदनुत्तमम्। यद्यत्कर्म्माणि सर्वाणि अक्षयाणि भवन्ति वै। तस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यमद्भुतम्। तडागमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः। तडागेऽस्मिन् वसन् स्नात्वा समानाथं समीक्ष्य तु। अष्टोत्तरसहस्रं तु जपेच्छुद्धो मुदान्वितः। यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः। भवन्ति सिद्धगन्धर्वाः सिद्धयः सर्वसिद्धिदाः। अत्र दत्तं हुतं जप्तम् स्नानमक्षयपुण्यदम्। यद् यत् प्रकीर्त्तितं नाम भैरवं परिपूज्य च। प्रणवादिहृदन्तेन लभतेऽभीष्टमुत्तमम्। भोजयेद् ब्राह्मणान् योऽत्र अक्षयं फलमश्नुते। इह नानासुखं भुक्त्वा हरगौरीपुरं व्रजेत्। शोकदुःखविनाशोऽयं करुणानिधिरीश्वरः। निर्म्ममे सर्वसस्पत्त्यै पुण्यक्षेत्राणि भूतले। अकाले पुण्यशुद्धानामनेकपुण्य- साधनैः। आस्तिकानां भवेदत्र निवासः साधनं प्रति। तस्माद् यत्नेन कर्त्तव्यमत्र साधनमुत्तमैः। इदानीं शृणु चार्वङ्गि! पीठं सर्वाङ्गसुन्दरम्। अक्षमालामयं पीठं ब्रूहि मे परमेश्वरि!। यत्र सिद्ध्यन्ति कार्य्याणि स्थितिस्ते शङ्करस्य च। विष्णोरगाधबोधस्य तत्प्रियाया महेश्वरि!। अन्येषाञ्चैव देवानां युष्मत्पदनिवासिनाम्। प्रसादो हि भवत्याशु तत्र प्रीतिरनुरुत्तमा”।
जपा = स्त्री जप–अच् टाप्। जवावृक्षे हेमच०। तत्पुष्पेऽपि स्त्री। “ओड्रपुष्पं जपा चाथ त्रिसन्ध्या साऽरुणासिता। जपा संग्राहिणी केश्या त्रिसन्ध्या कफवातजित्” भावप्र० तद्गुणोक्तिः। “सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः” मेघ०
***