चूचूक = न० चूष्यते चूष–बा० ऊकः पृषो० षस्य च। कुचाग्रे भरतः २ चूषणशक्तिरहिते त्रि० “पापयोनिं समापन्नाश्चाण्डालामूकचूचूकाः” भा० आश्व० ३६ अ०।

चूडक = पु० चूडास्त्यस्य बा० कन्। कूपे त्रिका०।

चूडा = स्त्री चुल–अङ्चुल–समुच्छ्रये अङ् डस्य लः नि० दीर्थः। १ मयूरशिखायां २ शिरोमध्यस्थशिखामात्रे, जुटिकायाम अमरः। ३ वडभ्यां ४ बाहुभूषणे, मेदि०। ५ अग्रे हेमच०। ६ कूपे त्रिका०। ७ संस्कारभेदे तद्विहि तनक्षत्रादि मुहू० पी० धा० उक्तं यथा। “चूडा वर्षात्तृतीयात् प्रभवति विषमेऽष्टार्करिक्ताद्यषष्ठी पर्वोनाहे विचैत्रोदगयनसमये ज्ञेन्दुशुक्रेज्यकानाम् वारे, लग्नांशयोश्चास्वभनिधनतनौ नैधवे शुद्धियुक्ते शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषट्त्रिस्थपापैः (१) क्षीणचन्द्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपङ्गुताज्वराः। स्युः क्रमेण बुधजीवभार्गवैः केन्द्रगैश्च शुभमिष्टतारया (२) पञ्चमासाधिके मातु र्गर्भे चौलं शिशोर्न सत्। पञ्चवर्षाधिकस्येष्टं गर्भिण्यामपि मातरि। (३) तारादौष्ट्येऽब्जे त्रिकोणोच्चगे वा क्षौरं सत् स्यात्सौ म्यमित्रस्ववर्गे। सौम्ये भेऽब्जे शोभने दुष्टतारा शस्ता ज्ञेया क्षौरयात्रादिकृत्ये (४)। ऋतुमत्याः सूतिकायाः सूनोश्चौलादि नाचरेत्। ज्येष्ठापत्यस्य न ज्यैष्ठे कैश्चिन्मार्गेऽपि नेष्यते” (५)। मुहूर्त्तचिन्तामणिः “चूडा वर्षादिति। तृतीयाद्वर्षादिति ल्यब्लोपे पञ्चमी। तेन गर्भाधानकालाज्जन्मकालाद्वा तृतीये विषमे वर्षे पञ्चमे सप्तमे वा चूडाकरणं प्रभवति कृतं मच्छुभोदर्कं भवतीत्यर्यः। यदाह वसिष्ठः “तृतीये पञ्चमेऽब्दे वा स्वकुलाचारतोहितम्। चौलं शिशूनां यत्नेन स्व गृह्योक्तविधानतः। आधानतोजन्मतो वा सप्तमावदेऽपिकारयेत्”। स्वकुलाचारत इत्यनेन येषां कुले पार्थक्येन चूडाकरणं तत्र मुहूर्त्तविचारः। येषामुपनीत्या सहेष्यत इति पक्षस्तेषामुपनयनमुहूर्त्तेन सिद्धित्वान्न पृथक् मुहूर्त्तविचारानुन्मेषः। अतएवोक्तं याज्ञवल्क्येन “चूडा कार्या यथाकुलमिति”। मनुना प्रथमवर्षे उक्तम्। “चूडाकर्म्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात्” एवं बहुकालोक्तौ यथागृह्यं व्यवस्था द्रष्टव्या। स्वगृह्ये विशेषकालानुक्तौ तु समबलत्वात्सर्वेषां विकल्पः। विशेषमाह गुरुः “तृतीयेऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः। पञ्चमे सप्तमे वापि स्त्रियाः पुं सोऽथवा सममिति। अष्टेति अष्टाष्टमी अर्काः द्वादशी रिक्ताः प्रसिद्धाः आद्या प्रतिपत् षष्ठी प्रसिद्धा पर्वाणि अष्टमीचतुर्दशीपूर्णिमामावास्यासंक्रान्तयः। एतैरूने रहितेऽहनि। अत्र तत्पुरुषसमासे “राजाहःसखिभ्यष्टजिति” पा० टच् “न स्तद्धित” इति टिलोपः। अष्टम्यादितिथीस्त्यक्त्वा शेषासु तिथिषु चूडा स्यादित्यर्थः। यदाह गुरुः “द्वादशीं चाष्टमीं रिक्तां षष्ठीं पतिपदन्तथा। हित्वा शेषासु तिथिसु क्षौरकर्म शुभावहम्” कश्यपः “पञ्चपर्वतिथिं रिक्तां त्यक्त्वान्यदिवसे शुभमिति”। अतएवाह वशिष्ठः “पञ्चमी सप्तमी चैव दशम्येकादशी तथा। त्रयोदशी तृतीया च क्षुरकर्म शुभावहा” इति। चकाराद्द्वितीयाऽपि। ननुं सप्तमी त्रयोदश्योर्गलग्रहत्वात्कथं तयोर्ग्रहणम्, यदाह गुरुः “विद्यारम्भोब्रतादेशः क्षौरञ्चैव विशेषतः। गलग्रहे न कर्त्तव्यं यदीच्छेद्दीर्घजीवितमिति” चेत् उच्यते वैदिकं मुण्डनञ्चौलमित्युच्यते तद्विषयको विधिः। अवैदिक मुण्डनं सुखार्थं यत् क्षौरमुच्यते क्षरम्यकर्म क्षौरमिति सामान्यव्युत्पत्तेरतस्तद्विषयको निषेध इति वयं ब्रूमः। अन्ये देशाचारतो व्यवस्थामाहुस्तदयुक्त विरोधाभावात्। विचैत्रेति। चैत्ररहिते उत्तरायणे चूडा स्यात्। शुभाशुभप्रकरणाभिहितो जन्ममासनिषेधोऽत्रापि ध्येयः। तदाह राजमार्त्तण्डः “उत्तरवर्त्मनि सवितरि चूडाकरणं जगुर्बुधा जवनाः। चैत्रं हित्वा पापग्रहदिवसं जन्ममासञ्च”। तथा ज्ञेन्दुशुक्रेज्यकानां वारे लग्नांशयोश्चेति सौम्यग्रहवारे सौम्यग्रहाणां लग्ने कर्कमिथुनवृषकन्यातुलाधनुर्मीनानामन्यतमे लग्ने तेषामेव च नवांशे चूडा स्यात्। “चन्द्रज्ञगुरुशुक्राणां वारलग्नांशकेषु चेति” काश्यपीक्तेः। विशेषमाह पराशरः “सितेज्यसौम्यवारेषु क्षौरं पक्षद्वये हितम्। इन्दुवारः सिते पक्षे वाराः शेषा न शोभनाः”। प्रयोगपारिजाते पापवाराणामप्यपवादः पठितः “पापग्रहाणां वारेऽपि विप्राणां तु शुभोरविः। क्षत्रियाणां तु भूसूनुर्विट्शूद्राणां शनिः शुभः।” इति। तथा अस्वभनिधनतनौ भं लग्नं राशिश्च स्वस्य भे स्वभे स्वाभ्यां निधनमष्टमलग्नं तन्न विद्यते यस्मिन् तनौ स्वजन्मजन्मलग्नराशिभ्यामष्टमलग्नरहिते लग्ने चूडा स्यादित्यर्थः। तथा नैधनऽष्टमस्थाने शुद्धि युक्ते शुद्धिः शुक्रव्यतिरिक्तसर्वग्रहराहित्यं तद्युक्ते सति चूडा स्यात्। उक्तञ्च कश्यपेन “नैधने शुद्धि संयुक्ते लग्नराशौ न नैधने” इति। पराशरः “अष्टमस्था ग्रहाःसर्वे नेष्टाः शुक्रविवर्जिताः। शुक्रश्च निधने क्षौरे सर्वसंपत्करः शिशोरिति”। शाक्रोपेतैरिति। शाक्रोपेतैज्येष्टायुक्तैर्विमैत्रैरनुराधारहितैर्मृदुचरलघुभिर्द्वादशभिर्नक्षत्रैरुपलक्षिते काले चूडा स्यात्। यदाह वशिष्ठः “अदितिद्वितये पौष्णद्वितये श्रवणत्रये। हस्ताच्च त्रितये शाक्रे सैन्दवे चौलमीरितम्”। कश्यपोऽपि “दास्रेन्द्वदितिपुष्पेन्द्रभेषु हस्तत्रयेऽपि च। विष्णुत्रये च पौष्णर्क्षे चौलकर्म शुभप्रदमिति” अविहितनक्षत्रेषु जन्मनक्षत्रम्प्रशस्तमित्याह कश्यपः “नवान्नप्राशने चौले व्रतवन्धेऽभिषेचने। शुभदञ्जन्मनक्षत्रमशुभं त्वन्यकर्म्मणीति” नारदादिवाक्यान्यन्नप्राशनेऽभिहितानि अत्र केचित् जन्मनक्षत्रपदन्तारापरं ज्ञेयमित्याहुः तथाचोक्तं लल्लेन “हित्वैकं जन्मर्क्षन्द्वे तारे जन्म संज्ञिते शुभदे। उद्वाहे चोपनये यात्रायामन्नभोजने क्षुरे कार्ये” इति। तन्न अर्वेदिकक्षुरविषयकत्वात् “जन्म र्क्षे कर्मनक्षत्रे” इति गुरुवचनमपि तद्विषयमेव वैदिक क्षुरपरञ्चैतत्कश्यपादिवाक्यमिति समञ्जसम्। अथ लग्नबलमाह। आयेति। एकादशषष्ठतृतीयस्थानस्थितैः पापग्रहैश्चोपलक्षिते काले चूडा स्यात्। “अषष्ठान्त्यारिगे चन्द्रे पापैरायारिसंस्थितैः” इति काश्यपोक्तेः”। (१) क्षीणेति। तथा क्षीणचन्द्रः। कुजो मङ्गलः सौरिः शनिः भास्करः सूर्यः एतैः केन्द्रस्थैः क्रमेण यथासङ्ख्यं मृत्युः मरणं, शस्त्रमृतिः शस्त्रान्मृतिः, पङ्गुता खञ्जता ज्वरः प्रसिद्धः एतानि फलानि स्युर्भवेयुः। बुधजीव भार्गवैस्तु केन्द्रस्थैः शुभङ्कल्याणकारि फलं चूडाकर्त्तुः स्यात् तदुक्तं रत्नमालायां “क्षौरर्क्षेषु स्वकुलविधिना चौलमाहुमु नीन्द्राः केन्द्रं यातैर्गुरुभृगुबुधैस्तत्र सूर्ये ज्वरःस्यात्। शस्त्रान्नाशो धरणितनये पङ्गुता चार्कपुत्रे शीतज्योतिष्यपचिततनौ निश्चितं नाशमेति”। केन्द्रव्यतिरिक्तस्थानफलमपि तत्रैव “धनव्ययत्रिकोणगैरसद्ग्रहैर्मृतावपि। क्षुरक्रिया न शोभना शुमैस्तु पुष्टिकारिणीति” मृतौ तु शुक्र एव शस्तो नान्ये शुभग्रहाः प्रागुक्तपराशरवाक्यस्वरसात्। क्षुरक्रिया चौलम् इष्टतारयेति च पुनरिष्टतारया गोचरप्रकरणोक्तया शुभफलदतारया चूडा स्यात्। उक्तञ्च राजमार्त्तण्डेन “रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ। क्षौरन्ताराशुद्धौ शेषञ्चन्द्राश्रितं कर्मेति”। ज्योतिर्निबन्धे “विवाहे सविता, शस्तोव्रतबन्धे वृहस्पतिः। क्षौरे ताराविशुद्धिश्च, शेषे चन्द्रबलम्बलमिति”। चौलप्रयोजनमाह वसिष्ठः “सर्वेषामेव वर्णानां चूडाकर्मविधिः स्मृतः। केशमूलं पिता ज्ञेयः, केशाग्रं जननी तथा। चौलेनैवायुषोवृद्धिश्चौलेनैवायुषः क्षयः। तस्माच्चौलं प्रयत्रेन कारयेद्बुद्धिमान्नरः” व्यवहारनिबन्धे चौलारम्भे विशेषमाह श्रीपतिः” “केशवमानर्त्तपुरं पाटलिपुत्रम्पुरीमहिच्छत्राम्। दिति मदितिञ्च स्मरतां क्षौरविधौ भवति कल्याणमिति”। यत्तुकैश्चिदुक्तम् “चन्द्रशुद्धिर्यत्र नास्ति तारायाश्च विशेषतः। अक्षौरभेऽपि कर्त्तव्यं वारेण बुधसोमयोः” इति तत्सामान्यक्षौरविषयम् (२)। पीयूषधारा अथ सगर्भायां स्वमातरि सत्यां शिशोश्चौलार्थङ्काल मनुष्टुभाह। पञ्चेति चौलाधिकारिणः शिशोर्मातुर्गर्भे पञ्चमासेभ्योऽधिके सति चौलं न सत् शुभ फलदातृ नैव स्यात्। अतः पञ्चमासेभ्यः पूर्वञ्चौलङ्कृतं सच्छुभफलमित्यर्थः तदुक्तं गृह्यपरिशिष्टे “चूखाकर्म्म न कर्त्तव्यं यस्य मातास्ति गर्भिणी। करोति यदि भन्दात्मा तदा गर्मस्य नाशनम्। पित्रोर्मृतिं वदन्त्येके चतुरव्दोत्तरे स्फुटम्” इति। वसिष्ठः “पुत्र चूडाकृतौ माता गर्भिर्णी यदि वा भवेत्। विपद्यते गुरुश्चैव दम्पती शिशुरव्दतः। गर्भे मातुः कुमारस्य न कुर्य्याच्चौलकर्म च। पञ्चमासादधः कुर्य्यादतऊर्ध्वं न कारयेत्” इति। अस्यापवादमाह। पञ्चेति पञ्चवर्षाधि कस्योल्लङ्घितपञ्चमवर्षस्य शिशोर्मातरि गर्भिण्यामपि सत्यां पञ्चमासादध ऊर्ध्वं विहितकाले चौलमिष्टङ्कल्याणकारि भवेत्। अतो बालो यावत्पञ्चवर्षो न भवति तावत्प र्यन्तं निषेध इत्यर्थः। तदाह नारदः “सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत्। पञ्चमाव्दात् प्रागथोर्ध्वं गर्भिण्यामपि कारयेत्”। यदा तूपनयनेन सह चौलञ्चिकीर्षितं तदा विशेषमाह ज्योतिर्नारदः “सहोपनीत्या कुर्य्याच्चेत्तदा दोषो न विद्यते” इति। अत्र तु पञ्चवर्षाणां न्यूनाधिकभावो नापेक्षितः सर्वापवादकत्वादस्य। एवं पार्थक्येन मौञ्ज्यपि सगर्भायां संस्कार्यमातरि सत्यां न भवति। तदुक्तम् “सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेत्। गते तु पञ्चमे मासे गर्भादीनां मृतिर्भवेत् (३)। अथ चौले ताराबलमावश्यकमित्युक्तं तत्र दुष्टायां तारायां सत्यामपवादं शालिन्याह तारादौष्ट्ये इति ताराणां दुष्टत्वं गोचरप्रकरणेऽभिहितं तत्तत एवाव धार्यम्। तस्मात्तारादौष्ठ्ये सत्यपि क्षौरञ्चौलं सच्छोभनं स्यात्। कस्मिन् सति? अब्जे चन्द्रे त्रिकोणगे नवपञ्चमस्थानस्थिते, अथ वोच्चगे वृषराषिस्थे। अथ वा सौम्यानां बुधगुरुशुक्राणां वर्गे षड्वर्गे अथ वा स्वस्यैव षड्वर्गे सति। उक्तञ्च ज्योतिस्तत्त्वे “सोम्यसुहृन्निजवर्गे चन्द्रे तुङ्गगे त्रिकोणगे वापि। क्षौरादिकोप करणे तारादोषो न दोषाय”। आदिशब्देन यात्रा। “विपत्तारे गुडं दद्यात्” इत्यादयोऽपि तारादौष्ट्यापवादा प्रागुक्तास्तेऽप्यत्रोह्याः। अथ शुभतारायाङ्गुणमाह सौम्ये भे विहिते नक्षत्रे सति अब्जे शोभने चन्द्रे गोचरोक्ताष्टस्थानस्थे सति दुष्टताराऽसमीचीनतारापि चेत् स्यात्तदा क्षौरयात्रादि मङ्गलकृत्येषु शस्ताऽतिप्रशस्ता निखिलदीषापवादिका स्यादित्यर्थः। तदप्युक्तं ज्योतिस्तत्त्वे “ऋक्षन्दग्धन्तिथी रिक्ता चन्द्रश्चाष्टमगस्तथा। तत्सर्वं नाशयेत्तारा षट्पञ्च नवमी तथा। जन्माख्यद्व्यष्टमी तारा न शुभा नापि निन्दितेति। (४) पी० धा० “अथ चौलादिकृत्ये कालविशेषनिषेधमाह ऋतु मत्या इति। ऋतुः स्त्रीधर्मः स यस्या अस्तीति ऋतुमती तस्यास्तथा सूतिकाया जातापत्यायाः सूनोः पुत्रस्योपलक्षणत्वात्कन्याया वा चौलोपनयनविवाहाद्युक्तवक्ष्यमाणकृत्यं नाचरेत् न कारयेत्। उक्तं च प्रचेतसा “यस्य माङ्गलिकं कृत्यन्तस्य माता रजस्वला। वैधव्यं जायते तत्र नृनार्योः वाणिपीडने”। पाणिपीडने वैधव्यमन्यत्र मृत्युरित्यर्था। सूतिकाया अपि कर्मानर्हकाल उक्तोविष्णुस्मृतौ। “सूतिकाम्पुत्र वतीं विंशतिरात्रेण कर्म्मणि कारयेत् सासेन स्त्रीजननीनिति”। अतएव सूतिकाया उक्तकालपर्य्यन्तं कर्मानर्हत्वात्तदपत्यस्यापि मङ्गलकृत्ये निषेधः। ज्येष्ठेति ज्येष्ठापत्यस्याद्यगर्भस्य पुत्रस्य कन्याया वा व्रतवन्धविवाहादि शुभकृत्यं ज्यैष्ठमासे न भवति उक्तञ्च रत्नमालायाम् “आद्यगर्भदुहितुः सुतस्य वा ज्यैष्ठमासि न च जातु मङ्गलमिति” कैश्चिदिति। मार्गेऽपि मार्गशीर्षमासेऽपि केश्चिदाचार्य्यैराद्यगर्भसुतकन्ययोर्मङ्गलकृत्यं नेष्यते तदाह वात्स्यः “मार्गे मासि तथा ज्यैष्ठे विवाहं चौलमेव च। ज्येष्ठपुत्र दुहित्रोश्च न कुर्वीत व्रतं तथा”। भरद्वाजोऽपि “मार्गशीर्षे तथा ज्यैष्ठे क्षौरं परिणयं व्रतम्। आद्यपुत्रदुहित्रोश्च यत्नतः परिवर्जयेत्”। अस्मादेव ज्ञापकात् द्वितीयादिगर्भपुत्रदुहित्रोर्ज्यैष्ठे मार्गशीर्षे च न मङ्गलकृत्यानां निषेधः किं तु विधिरिति प्रतिमाति” पी० धा०।

चूडामणि = पु० चूडास्थितोमणिः शा० त०। १ शिरःस्थेरत्ने अमरः। “चूडामणीकृतविधुर्वलयीकृतवामुकिः” सि० मु०। “चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम्” रघुः। चूडायां मणिरिवास्य। २ काकमाचिकाफले मेदि०। ३ ग्रहणविशेषे यथा गारुडे। “सूर्य्यग्रहः सूर्य्यवारे सोमे सोमग्रहस्तथा। चूडामणिरयं योगस्तत्रानन्तं फलं स्मृतम्। अन्यस्माद् ग्रहणात् कोटिगुणमत्र फलं लभेत्”

चूडाम्ल = न० चूडायामग्रेऽम्लम्। वृक्षाम्ले राजनि०।

चूडार = त्रि० चूडामृच्छति ऋ–अण्। चूडागते ततः। प्रगद्या० चतुरर्थ्यां ञ्य। चौडार्य्य तन्निर्वृत्तादौ त्रि०।

चूडारक = त्रि० चूडामृच्छति ऋ–ण्वुल्, चूडा + वा० आरक वा। १ चूडायुक्ते २ ऋषिभेदे पु० तस्य गोत्रापत्यम् इञ्। चौडारकि तद्गोत्रापत्र्ये पुंस्त्री। बहुत्वे तु द्वन्द्वे अद्वन्द्वे च इञो लुक्। चूडारकाः तद्गोत्रापत्येषु ब० व०।

चूडारत्न = न० चूडाया रत्नम्। चूडामणौ हेमच०।

चूडाल = त्रि० चूडा अस्त्यस्य प्राणिस्थत्वात् ल। चूडायुक्ते “चूडालाः कर्णिकालाश्च ग्रहाश्च पिठरोदराः” भा० सौ० ७ अ०। २ मस्तके न० शब्दरत्ना०। ३ उच्चटातृणे स्त्री अमरः ४ श्वेतगुञ्जायां ५ नागरमुस्तायां च राजनि०।

चूडावत् = त्रि० चूडा अस्त्यर्थे पक्षे बला० मतुप् मस्य वः। चूडाविशिष्टे पक्षे इनि। चूडिन् तत्रार्थे पुरोहितादिगणे चूडिक इति निर्द्देशात् पक्षेठनपि। चूडिक उक्तार्थे। ततः पुरोहिता० भावादौ यक्। चौडिक्य चूडाविशिष्टत्वे न०।

चूण = सङ्कोचे चुरा० उभ० सक० सेट्। चूणयति ते अचुचूणत् त।

चूत = पु० चूष–क्त चोतति रसम् चुत–अच् वा पृषो०। १ आम्रे, अमरः “नवचूतप्रसवोगमिष्यति” “चूताङ्कुरास्वादकयायकण्ठः”। “सहचरमधुहस्तन्यस्तचूताङ्गुरास्त्रः” कुमारः। च्यू–क्त पृषो०। २ गुदद्वारे न०। स्वार्थे क। चूतक आम्रे कूपके च।

चूर = दाहे दिवा० आत्म० सक० सेट्। चूर्य्यते अचूरिष्ट। चुचूरे ईदित् चूर्णः।

चूरु = पु० चूर–उण्। कृमिभेदे सुश्रु० कृमिशब्दे २१९४ पृ० दृश्यम्।

चूर्ण्ण = पेषे चु० उभ० सक० सेट्। चूर्णयति–ते अचु चूर्णत् त। चूर्णः चूर्णितः

चूर्ण्ण = न० चूर्ण–कर्म्मणि अच्। १ पेषणजाते क्षोदे (मयदा) प्रभृतौ राजनि० “अन्नादष्टगुणं चूर्णं चूर्णादष्टगुणं पयः” वैद्य०। तल्लक्षणमुक्तं भावप्र० “अत्यन्तशुष्कं तद्द्रव्यं सुपिष्टं वस्त्रगालितम्। तत् स्याच्चूर्णं रजः० क्षोदस्तन्मात्रा कर्षसम्मिता। चूर्णे गुडः समो देयः शर्कराद्विगुणा मता। चूर्णे तु भर्जितं हिङ्गुदेयं नोत्क्लेदकृद्भवेत्। लिहेच्चूर्णं द्रवैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः। पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः। चूर्णावलेहगुटिका कल्कानामनुपानकम्। पित्तवात कफातङ्के त्रिष्वेकपलमाहरेदिति” (आवीर) २ ख्याते। क्षोदे “अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः” रघुः। ४ धूलौ तम्बूलोपकरणे ५ क्षारे (चूण) मेदि०। “चूर्णमानीयतां तूर्णं पूर्णचन्द्रनिभानने!। पर्णानि स्वर्णवर्णानि सीदन्त्याकर्णलोचने” उद्भटः। भावे अच् ६ पेषणे पु०

चूर्णक = न० चूर्ण + स्वार्थे क। १ चूर्णने २ चूर्णशब्दार्थे ३ पद्यभेदे न० तल्लक्षणादिकं छन्दो० उक्तं यथा “अपादः पदसन्तानोगद्यं तत्तु त्रिधा मतम्। चूर्णकोत्कलिकाप्रावृत्तगन्धिप्रभेदतः” “अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः। तत्तु वैदर्भीरीतिस्थं गद्यं हृद्यतरम् भवेत्” ३ सक्तौ (छातु) पु० त्रिका०।

चूर्णकार = त्रि० चूर्णं करोति कृ–अण् उप० स०। पेषणकारके। (चूण) इति पदार्थनिष्पादके (चूनारी) इति ख्याते २ सङ्कीर्णजातिभेदे पुंस्त्री०। सच नटकन्यायां पुण्ड्रकाज्जात इत्याह पराशरः।

चूर्णकुन्तल = पु० चुर्ण्यते इति चूर्णः कर्म०। शिरःस्थे क्षुद्रकेशे अलके अमरः।

चूर्णखण्ड = न० चूर्णस्य तदर्थं खण्डम्। (का~करघूटिङ्) ख्याते कर्करे हारा०।

चूर्णपारद = पु० चूर्णं पारदस्य एकदेशिस०। पारदहेतुभूते चूर्णरूपे हिङ्गुले राजनि०।

चूर्णशाकाङ्क = पु० चूर्ण इव शाकः अङ्को यस्य। गौरसुवर्णशाके राजनि०।

चूर्णादि = न० अप्राणिषष्ठ्यन्तात् परस्थस्य आद्युदात्ततानि मित्ते शब्दगणे स च पा० ग० सू० उक्तो यथा “चूर्ण करिव करिप शाकिन शाकट द्राक्षा तूस्त कुन्दम दलप चमसी चक्कन चौल। “चूर्णादीनामप्राणिषष्ठ्याः” पा०। मुद्गचूर्णम्।

चूर्णि(णीं) = स्त्री अशेषविदुषां तर्कं चूर्णयति चूर्ण–इन्। पतञ्जलिकृते महाभाष्ये “चूर्णिभागुरिवाभटाः” व्या० का०। २ कपर्दकशते सि० कौ० ३ कार्षापणे पुराण परिमितकर्पदके “अशीत्युत्तरपरिमितधेनुशतं देयं तदशक्तौ चत्वारिंशत्पुराणोत्तरचूर्णीशतपञ्चकम्” प्रा० वि०। भावे इन्। ४ चूर्णने स्त्री वा ङीप्।

चूर्णिदासी = स्त्री चूर्णौ चूर्णने नियुक्ता दासी शा० त०। पेषणनियुक्तायां दास्यां शब्दार्थचि०।

चूर्णिका = स्त्री चूर्णश्चूर्णनमस्त्यस्याः ठन्। सक्तुषु शब्दार्थचि०

चूर्णिकृत् = पु० चूर्णिं महाभाष्यं करोति कृ–क्विप्। महाभाष्यकारके पतञ्जलिमुनौ

चूर्णिन् = त्रि० चूर्णैः संसृष्टः इनि। चूर्णसंसृष्टे अपूपादौ सि० कौ०।

चूर्त्ति = स्त्री चर–भावे क्तिन् अत उत्त्वम्। चरणे

चूल = पु० चुल–क पृषो० दीर्घः। केशे अमरः। “मुक्तकेशाश्च चूलिनः” लिङ्गपु०। “शिखिनं चूलिनञ्चैव तप्तकुण्डलभूषणम्” हरिवं० ४५ अ०। “गृहीतचूलको विप्रोम्लेच्छेन रजकादिना” मत्स्यसू०।

चूला = स्त्री चूला + डस्य लः। गृहोपरिगृहे चन्द्रशालायां (चिलेधर) शब्दार्थचि० २ चूडायाञ्च। तस्या इदम् अण्। चौल चूडासम्बन्धिनि संस्कारभेदे चूडाशब्दे दृश्यम्।

चूलिक = न० घृतभ्रष्टसमितायाम् (लुचि) शवदार्थ०।

चूलिका = स्त्री चुल–समुच्चये ण्वुल् पृषो० दीर्घः। १ हस्तिकर्णमूले, २ नाटकाङ्गभेदे च “अर्थोपक्षेपकाः पञ्च विष्टम्भकप्रवेशकौ। चूलिकाङ्कावतारोऽथ स्यादङ्कमुखमित्यपि” सा० द०। “अर्थोपकक्षेप नाटकाङ्गानि विभज्य “अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका” इति लक्षितम्। यथा वीरचरिते चतुर्थाङ्कस्यादौ “भो भो वैमानिकाः प्रवर्त्तन्तां रङ्गमङ्गलानीत्यादि” रामेण परशुरामोजितः इति नेपथ्ये पात्रैः सूचितम्। “अंशुलताजालजटिलचूलिकानाम्” काद०।

चूष = पाने (चोषा) भ्वा० पर० सक० सेट्। चूषति। अचूषीत्। चुचूष। चूष्यम्

चूषा = स्त्वी चूष्यते पीयते पृष्ठमांसेनाऽदृश्यातां नीयते चूषघञर्थे क। १ हस्तिमध्यवन्धनरज्वाम् कक्षायाम् अमरः भावे अङ्। २ चूषणे स्त्री

चूष्य = त्रि० चूष–कर्म्मणि ण्यत्। जिह्वोष्ठाभ्यां, संयोगभेदेन पेये आहारशब्दे चर्व्यशब्दे च दृश्यम्। “प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचूष्याभ्यवहार्य्याणाम्” भा० श० १९१ अ०।

चृत = हिंसे ग्रन्थने च तुदा० सक० सेट्। चृतति अचर्तीत् चचर्त्त। चर्त्तिष्यति चर्त्स्याति।

चृत(प) = संदीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। चर्त्त(र्प)यति–ते। अचीचृत(प)त्–त अचचर्त्त(र्प)त् त। पक्षे चर्त्त(र्प)ति अचर्त्ती(र्पी)त्।

चेकित = त्रि० कित–यङ् लुकि अच्। १ अतिशयवासज्ञानाभ्यां युक्ते। २ ऋषिभेदे पुं तस्य गोत्रापत्यं गर्गा० यञ्। चैकित्य तद्गोत्रापत्ये पुंस्त्री०।

चेकितान = त्रि० कित–यङ्लुकि ताच्छील्ये चानश्। १ अत्यन्तज्ञानयुक्ते २ महादेवे पु० “रुद्रमीशानमृषर्भ जिह्मं शम्भुं कपर्द्दिनम्। चेकितानं परं योनिं तिष्ठतो गच्छतश्च ह” भा० द्रो० २०१ अ०। ३ नृपभेदे। “धृष्टद्युम्नश्चेकितानः काशीराजश्च वीर्य्यवान्” गीता।

चेट(ड) = पु० चिट–परप्रैष्ये अच् वा टस्य डः। १ दासे हेमच० स्त्रियाम् उभयत्र ङीप्। २ दास्याम्। ण्वुल् चेटक १ दासे अमरः। उपपतिनायके २ सन्धानदक्षे रसम०। स्त्रियां चेटि(डि)का। “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः”। “उत्तमाः पीठमर्द्दाद्याः मध्यौ विटविदूषकौ तथा। शकारचेटाद्या अधमाः परिकीर्त्तिता” सा० द०ः। “ताम्बूलाक्तं दशनमसकृत् दर्शयन्तीह चेटी” सा० द०।

चेत् = अव्य० चित–विच्। १ यद्यर्थे २ पक्षान्तरे, अमरः ३ असन्देहेऽपि सन्दिग्धतया कथने च शब्दार्थचि०। “सत्यं चेत् गुरुवाक्यमेव पितरोदेवाश्च चेत् योगिनी प्रीता चेत् परदेवता च यदि चेत् वेदाः प्रमाणं हि चेत्। शाक्तीयं यदि दर्शनं भवति चेदाज्ञाप्यमोघास्ति चेत् स्वातन्त्रा अपि कौलिकाश्च यदि चेत् स्यान्मे जयः सर्वदा” तन्त्रम्। “चेत्कण्ठके पणफरे तु ग्रहाः समस्ता” नील० वा०। अधिकं (चेद्) शब्दे दृश्यम्

चेतकी = स्त्री चेतयति उन्मीलयति बुद्धिबलेन्द्रियाणि चित–णिच् ण्वुल् गौरा० ङीप्। १ हरीतक्याम् अमरः। तस्वा उत्पत्तिभेदादिकं भावप्र० उक्तं यथा “पपात विन्दुर्मेदिन्यां शक्रस्य पिवतीऽमृतम्। ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी। हरीतक्यभया पथ्या कायस्था पूतनाऽमृता। हेमवत्यव्यथा चापि चेतकी श्रेयसी शिवा। वयस्था विजया चापि जीवन्ती रोहिणिति च। विजया रोहिणी चैव पूतना चामृताऽ भया। जीवन्ती चेति पथ्याया विज्ञेयाः सप्त जातयः। अलाबुवृत्ता विजया १ बृत्ता सा रोहिणी २ स्मृता। ३ पूतनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृता ४। पञ्चरेखाऽ भया ५ प्रोक्ता जीवन्ती स्वर्णवर्णिनी ६। त्रिरेखा चेतकी ७ ज्ञेया सप्तानामियमाकृतिः। विजया सर्वरोगेषु रोहिणी व्रणरोहिणी। प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता। अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत्। चूर्णार्थे चेतकी शस्ता यथायोगं प्रयोजयेत्। चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः। षडङ्गुलायता शुक्ला, कृष्णा त्वेकाङ्गुला स्मृता। काचिदास्वादमात्रेण काचिद् गन्धेन भेदयेत्। काचित् स्पर्शेन दृष्ट्यान्या चतुर्द्ध्वा भेदयेच्छिवा। चेतकी पादपच्छायामुपसर्पन्ति ये नराः। भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः। चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः। तावद्भिद्येत रोगैस्तु प्रभावान्नात्र संशयः। न धार्य्यं सुकुमाराणां कृशानां भेषजद्विषाम्। चेतकी परमा शस्ता हिता सुखविरेचनी। सप्तानामपि जातीनां प्रधानं विजया स्मृता। सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते। हरीतकी पञ्चरसा लवणा तु वरा परम्। रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी। चक्षुष्या लघुरायुष्या वृंहणी चानुलोमिनी। श्वासकासप्रमेहार्शःकुष्ठशोथोदरकृमीन्। वैस्वर्य्यग्रहणीरोगविबन्धविषमज्वरान्। गुल्माध्मानतृषाच्छर्दिहिक्काकण्डू हृदामयान्। कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा। अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत्। स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत् तु सा। कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा। पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा। प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत् प्रकाश्यते! हेतुभिः शिष्यबोधार्थं न पूर्वं क्रियतेऽधुना। कर्म्मान्यत्वं गुणैः साम्यं दृष्टमाश्रमभेदतः। यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा। पथ्याया मज्जनि खदुः स्नाय्वाम्लमो व्यवस्थितः। वृतौ तिक्तस्त्वचि कटुरस्थनितुवरो रसः। नवा स्निग्धा घनावृत्ता गुर्वी क्षिप्ता च याम्भसि। निमज्जेत् सा प्रशस्या च कथितातिगुणप्रदा। नवादि गुणयुक्तत्वं तथैकत्र द्विकर्षता। हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते। चर्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी। स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत्। उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम्। विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन। अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान्। हरीतकी हरत्याशु भुक्तस्य परियोजिता। लवणेन कफं हन्ति पित्तं हन्ति सशर्करा। घृतेन वातजान् रोगान् सर्वरोगान् गुडान्विता। सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात्। वर्षादिष्वभया प्राश्या रसायनगुणैषिणा। अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्षितश्च। पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत्”। तस्याः फलम् अण् हरीतक्या० तस्य लुप् लुपि व्यक्तिवचनत्वम्। २ तत्फलेऽपि स्त्री। ३ जातिपुष्पे राजनि०।

चेतन = पु० चित–ल्यु। १ आत्मनि जीवे २ परमेश्वरे हेमच०। ३ मनुष्ये राजनि०। ४ प्राणिमात्रे अमरः। ५ प्राणयुक्ते त्रि० मेदि०। “उन्मादश्चापरिच्छेदश्चेतननाचेतनेषु” च सा० द०। “चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः” हरिवं० ६७ अ०। तस्य भावः ष्यञ् चैतन्य न०। त्व चेतनत्व न० तल् चेतनता स्त्री चेतनायाम् “शरीरस्य न चैतन्यम्” भाषा० “चैतन्यमात्मनोविद्यात्” श्रुतिः।

चेतनकी = पु० चेतनं करोति कृ–ड गौ० ङीष्। हरीतक्याम् राजनि०।

चेतना = स्त्री चु० चित–युच्। १ बुद्धौ २ ज्ञाने ३ चैतन्ये चिति खरूपज्ञानव्यञ्जिकायां प्रमाणासाधारणकारणिकायां ४ चित्तवृत्तौ “चेतनानामधिष्ठानं मनोदेहश्च सेन्द्रियः। केशलोमनखाग्रान्तमूलद्रव्यगुणैर्विना” शब्दार्थचि० धृतवाक्ये केशादिव्यतिरिक्तस्यैव देहस्य चेतनाव्यञ्जकत्वमुक्तम्। गर्भस्थस्य सप्तमे मासि चैतन्ययोगः यथाह याज्ञ० “मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुसिरायुतः। सप्तमे, चाष्टमे चैव त्वङ्मांसस्मृतिमानपि” असौ पूर्व्वोक्तो गर्भः सप्तमे मासि मनसा चेतनया च युक्तः” मिता०। “निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम्” याज्ञ० “षष्ठस्तु चेतना धातुर्मन इत्यभिधीयते” भा० व० २०९ अ०।

चेतनीया = स्त्री चेतनायै हिता छ। १ ऋद्धिनामौषधे राजनि०। २ ज्ञेये त्रि०।

चेतस् = न० चित–करणे असुन्। १ चित्ते अमरः “चेतो नलं कामयते मदीयम” “चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्” नैष० “गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः” शकु०। २ चित्तवृत्तौ निघ०। चित्तवृत्तेः सांख्यमते पौरुषेयबोधकरणत्वात् तथात्वम्। ३ कर्त्तरि असुन्। ३ ज्ञातरि त्रि०। भावेऽसुन्। ४ चैतन्ये ५ प्रज्ञायाम् न०।

चेतिष्ठ = त्रि० अतिशयेन चेतयिता इष्टन् तृणोलोपे तन्निमित्तकेटो निवृत्तिः णिलोपश्च। अतिशयचेतयितरि “क्रत्वा चेतिष्ठो विशामुषर्भुत्” ऋ० १। ६५। ५। “चेतिष्ठोऽतिशयेन चेतयिता” भा०। “वसुश्चेतिष्ठो वसुधातमश्च” यजु० २७। १५।

चेतोंऽशु = पु० चेतसश्चैतन्यस्यांशुरिव जीवे रवेरिव चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवतिर्य्यगादिदेहभेदेषु विभाव्यमाना इति वेदान्तप्रकरणोक्तेस्तस्य तथात्वम्

चेतोजन्मन् = पु० चेतसि जन्मास्य। मनोभवे कन्दर्पे “चेतो जन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्” नैष०। चेतोभवादयोऽप्यत्र।

चेतोमत् = त्रि० चेतस् + अस्त्यर्थे मतुप् बा० न मस्य वः। १ चेतोयुक्ते २ चैतन्ययुक्ते। “चेतोमन्ति च सामानि धनुर्वेदश्च भारत!” भा० व०।

चेतोमुख = पु० चेतोमुखं द्वारं यस्य। चैतन्यदीप्तेऽज्ञानवृत्ति प्रधाने प्राज्ञे” “आनन्दभुक् चोतोमुखः प्राज्ञः” इति श्रुतिः। चेतसो मुखत्वञ्च चेतःकारणाज्ञानवृत्तिमुखत्वात्।

चेत्तृ = त्रि० चित–अन्तर्भूतण्यर्थे ताच्छील्ये तृन् वेदे नि० इडभावः। ज्ञापयितरि। “स चेत्ता देवता पदम्” ऋ० १। ३२। ५। “चेता ज्ञापयिता” भा० प्रक्रिया उक्तरूपैव

चेत्य = त्रि० चित–कर्म्मणि ण्यत्। ज्ञेये। “तं त्राता चरणे चेत्यः” ऋ० ६। १। ५। “चेत्येन हृदयं चैत्तः क्षेत्रज्ञः प्राविशद् यदा” भाग० ३। २६। ५ अ०।

चेदि = पु० देशभेदे सोऽभिजनोऽस्य अणः तद्राजाणश्च बहुत्वे लुक्। २ तद्देशवासिषु ३ तन्नृपेषु च ब० व०। “चेदिमत्स्यकरूषाश्च मोजाः सिन्धुकुलिन्दका” भा० भी० ९ अ० जनपदोक्तौ। स च देशः शुक्तिमतीनदीतीरस्थः उपरिचरशब्दे १३२० पृ०। दृश्यम्। चेदि + स्वार्थे क। चेदिदेशे वृ० स० १४ अ० कूर्म्मविभागे अथ पूर्व्वस्यामित्युपक्रमे “शौलिकविदर्भवत्सान्ध्र चेदिकाश्चोर्द्ध्वकण्ठाश्च”।

चेदिपति = पु० ६ त०। १ उपरिचरनामके वसुभेदे उपरिचरशब्दे १३१९ पृ० दृश्यम्। २ दमघोषसुते शिशुपाले च। “एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः। चेदीनामधिपोऽधावत् बलवानन्तकोपमः। दमघोषसुतो वीरः शिशुपालो महीपतिः” भा० आ० १८७ अ०। चेदिपादयोऽप्यत्र “वमुपूर्णां च वसुधां वस चेदिषु चेदिप!” भा० अ० १०६ अ०।

चेदिराज् = पु० चेदिषु राजते राज–क्विप्। चेदिपतौ १ उपरिचरवसौ २ शिशुपाले च त्रिका०। “मा वेदि यदसावेको जेतव्यश्चेदिराडिति” माघः।

चेदिराज = पु० चेदोनां राजा टच् समा०। उपरिचरराख्यं वसौ। तस्य भूमिविवरगतिकथादि भा० शा० ३३९ अ०। “अजेन यष्टव्यमिति प्राहुर्द्देवा द्विजोत्तमान्। स च छागोऽयजोज्ञेयो नान्यः पशुरिति स्थितिः। ऋषय ऊचुः। वीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः। अजसंज्ञानि वीजानि छागं नो हन्तुर्महथ। नैष धर्मः सतां देवा! यत्र बध्येत वै पशुः। इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः। भीष्म उवाच। तेषां संवदतामेवमृषीणाम् विबुधैः सह। मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान् वसुः। अन्तरीक्षचरः श्रीमान् समग्रबलवाहनः। तं दृष्ट्वा सहसा यान्तं वसुं ते त्वन्तरीक्षगम्। ऊचुर्द्विजातयोदेवानेष च्छेत्स्यति संशयम्। यज्वा दान पतिः श्रेष्ठः सर्व्वभूतहितप्रियः। कथं स्विदन्यथा ब्रूयादेष वाक्यं महान् वसुः। एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा। अपृच्छन् सहसाभ्येर्त्य वसुं राजान भन्तिकात्। भो राजन्! केन यष्टव्यमजेनाहोस्विदौषधैः। एतं न संशयं छिन्दि प्रमाणं नो भवान्मतः। स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः। कस्य वैकोमतः कामोब्रूत सत्यं द्विजोत्तमाः!। ऋषय ऊचुः। धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप!। देवानान्तु पशुः पक्षो मतो राजन्! वदस्व नः। भीष्म उवाच। देवानान्तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्। छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा। कुपितास्ते ततः सर्वे मुनयः सूर्य्यवर्च्चसः। ऊचुर्वसुं विमानस्थं देवपक्षार्थ वादिनम्। सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत। अद्य प्रभृति ते राजन्नाकाशे विहता गतिः। अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि। ततस्तस्मिन्मुहूर्त्तेऽथ राजोपरिचरस्तदा। अधो वै सम्बभूवाशुभूमेर्विवरगो नृपः। स्मृतिस्त्वेनं न विजहौ तदा नारायणाज्ञया। देवास्तु सहिताः सर्व्वे वसोः शाप विमीक्षणे। चिन्तयामासुरव्यग्राः सुकृतं हि नृपर्स्य तत्। अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना। अस्य प्रतिप्रियं कार्य्यं सहितैर्नो दिवौकसाम्। इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः। ऊचुः संहृष्टमनसो राजोपरिचरन्तदा। ब्रह्मण्यदेवभक्तस्त्वं सुरासुरररुर्हंरिः। कामं स तव तुष्टात्मा कुर्य्याच्छापविमोक्षणम्। मानना तु द्विजातीनां कर्त्तव्या वै महात्मनाम्। अवश्यं तपसा तेषां फलितव्यं नृपोत्तम!। यतस्त्वं सहसा भ्रष्ट आकाशाम्मेदिनीतलम्। एकनयनुग्रहं तुभ्यं दद्मो वै नृपसत्तम!। यावत्त्वं शापदोषेण कालमाशिष्यसेऽनघ!। भूमेर्विवरगो भूत्वा तावत्त्वं कालमाप्स्यसि। यज्ञेषु सुहुतं विप्रैर्व्वसोर्द्धारां समाहितैः। प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरस्पृशत्। न क्षुत्पिपासे राजेन्द्र! भूमेश्छिद्रे भविष्यतः। वसोर्द्धाराभिपीतत्वात्तेजसाप्यायितेन च। स देबोऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति”।

चेबी(वी) = स्त्री रागिणीभेदे हला०।

चेय = त्रि० चि–कर्म्मणि यत्। १ चेतव्ये चयनीये २ आधानाङ्ग संस्कारसंस्कार्य्ये वह्नौ च “अग्निश्चेयो बहुभिश्चाषि यज्ञैः” मा० शा० २९३ अ०। ३ चेतुं योग्ये। हस्तचेयम अङ्कुशचेयं पुष्पम्।

चेरु = पु० चि–बा० रु। चयनशीले “त्वं ह्येहि चेरवे विदा भगं वसुत्तये” ऋ० ८। ६१। ७।

चेल = लौल्ये अक० गतौ सक० भ्वा० प० सेट्। चेलति अचेलीत् चिचेल ऋदित् अचिचेत्यत् त।

चेल = न० चिल–आच्छादने कर्म्मणि घञ्। १ वस्त्रे। चेल–लौ ल्ये अच्। २ अधमे न० अमरः। “चेलचर्म्माविपालञ्च त्रिरात्रं स्यादभोजनम्” मनुना तस्य हरणे त्रिरात्रोपवासोविहितः “मा ज्ञातिचेलं भुवि कस्यचिद् भूः” भट्टिः ज्ञातिचेलमित्यत्र “कुत्सितानि कुत्सनैः” पा० समासे परनिपातः। “चेलखेटकटुकाण्डं गर्हायाम्” पा० निन्दायां चेलादीनाम् आद्युदात्तता। पुत्रश्चेलमिवचेलसादृश्येन पुत्रस्य निन्दा गम्यते सि० कौ० “घरूपचेलड्ब्रवेत्यादि पा० चेलडादीनि वृत्तिविषये कुत्सनवाचीनि” सि० कौ० तेषु परेषु ङ्यन्तस्य ह्रस्वः धचादिषु दित्करणसामर्थ्यात् ङीप् “ब्राह्मणिचेली” सि० कौ०। “चेले क्नोपेः” पा० अस्मिन् उपपदे क्नोपेर्णमुल् चेलक्नोपम्।

चेलगङ्गा = स्त्री चेलमिव गङ्गा। गोकर्णसमीपस्थे नदीभेदे। “गोकर्णस्योपरिष्टात्तु भ्रंसितः स महासुरः। पपात चेलगङ्गायाः पुलिने सह कन्यया” हरिव० १४९ अ०। “गङ्गा सरस्वतो चैव चेलगङ्गा च निम्नगा” १३६ अ०

चेलान = पु० चेल–बा० आनच्। फलप्रधाने लताभेदे (फेलन) रत्नमा०।

चेलाल = पु० चेलमिवालति अल–अच्। लतापनसे त्रिका०।

चे(चै)लाशक = पु० चेलं तत्स्थयूकामश्राति अश–ण्वुल्। प्रेतभेदे। “चे(चै)लाशकस्तु भवति शूद्रो धर्म्मात् स्वकात् च्युतः” मनुः। “चेलः कीटभेदस्तद्भक्षकः प्रेतो मवति” गोविन्दराजः। “चेलसम्बन्धिनी यूका चैलकस्तद्भक्षकः” इति कुल्लूकभट्टः।

चेलिका = स्त्री चेल–ण्वुल्। पट्टवसने (चेलिर कापड) “सेयं कृष्णस्य वनिता पीतशाटीपरिच्छदा। रक्तचेलिकया छन्ना शातकुम्भनिभस्तनी” पद्मपु०।

चेलुक = पु० चेल–उक। बुद्धभिक्षुशिष्ये त्रिका०।

चेल्ल = चालने गतौ च भ्वा० पर० सक० सेट्। चेल्लति अचेल्लीत् चिचेल्ल ऋदित् अचिचेल्लत् त।

चेष्ट = ईहायां भ्वा० आ० सक० सेट्। चेष्टते अचेष्टिष्ट। चिचेष्टे। अचचेष्टत्त अचिचेष्टत् न। चेष्टितः चेष्टा चेष्ट- मानः। “गङ्गायां हि न शक्नोमि वृहत्त्वाच्चेष्टितुं चिरम्” मत्स्यपु०। “अतत्वरञ्च तान् योद्धुमचिचेष्टच्च राघवौ” भट्टिः “एतचेष्टितभूमिषु” रघुः। “आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति” भाग० ५। २६। “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत्” मनुः। “चेष्टनस्पर्शनेऽनिलम्” मनुः। “तष्ट्रेव विहितं यन्त्रं तथा चेष्टयितुर्वशे” भा० शा० ३३ अ०।

चेष्टक = त्रि० चेष्ट–ण्वुल्। १ चेष्टान्विते। २ रतिबन्धभेदे पु०। “पादमेकं हृदि न्यस्य इतरेणैव चेष्टयेत्। कान्तक्रोडे स्थिता नारी बन्धोऽयं चेष्टकोमतः” स्मरदीपिका।

चेष्टा = स्त्री चेष्ट–अङ्। “आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः। कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया” इत्युक्ते कृतिजन्ये क्रियासाधने कायिके व्यापारे। “घेष्टावदन्त्यावयवित्वं शरीरत्वम्” सि० मु०। “बाह्यैर्वि भावयेल्लिङ्गैर्भावैरन्तर्गतं नृणाम्। स्वरवर्णोङ्गिताकारै श्चक्षुषा चेष्टितेन च। आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः” मनुः “चेष्टा हस्तास्फालनादि” कुल्लू०। “चेष्टाभोजन वाग्रोधे नेत्रादिप्रतिभेदने” याज्ञ०। “वायोस्तु स्पर्शनं चेष्टां व्यूहनं रीक्ष्यमेव च” याज्ञवल्क्येन तस्य वायुकार्य्यत्वमुक्तम्।

चेष्टानाश = पु० चेष्टायानाशोऽत्र। प्रलयकाले राजनि०।

चेष्टावल = न० ज्योतिषोक्ते ग्रहाणां बलभेदे तच्च वृहज्जा० उक्तं यथा “उदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः। विपुलकरा युघि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः परिकल्प्याः” वृ० जा०। “अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादि राशिषटकमुत्तरमयनं कर्कटादिषट्कं दक्षिणमयनमिति। उदगयने उत्तरायणे रविशीतमयूखौ सूर्य्यचन्द्रमसौ बलिनौ भवतः। परिशेषाः भौमबुधगुरुसितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताः बलिन एव चन्द्रेण संयोगोग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयो भौमादीनां परस्परं युद्धम्। उक्तञ्चाचार्य्यविष्णुचन्द्रेण “दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम्। कुसुतादीनां युद्धम् निगद्यतेऽन्योन्ययुक्तानामिति” विपुलकराइति विपुलाः करा येषां ते विपुलकराः विस्तीर्णरश्मयो बलिनो भवन्ति शीघ्रकेन्द्रे द्वितीयततीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः संभवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिन एक। कुसुतादीना युद्धमित्युक्तम् तत्र यः उत्तरदिग्भाग संसितो जयी स च वलवान् उत्तरसंस्थत्वमत्रोपलक्षणार्ग्रम्। वस्तेजस्वी स एव बलवान्। तत्रैतज्जय लक्षणम् “दक्षिणदिकस्थः परुषोवेपथुरप्राप्त सन्निकृष्टतनुः। अधिरूढोविकृतोनिःप्रभो विवर्णश्च यः स जितः। उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्द्दिष्टः। विपुलः स्विग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः” इति पतच्छुक्तस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः “सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः” इति एतच्चेष्टाबलम्। एषामन्यतमेन संयुक्तश्चेष्टाबलसंयुक्तो भवति” भट्टोत्पलः।

चेष्टित = त्रि० चेष्ट–कर्त्तरि क्त। १ चेष्टायुक्त। भावे क्त २ गतौ ३ कायादिव्यायारे च न० मेदि० चेष्टाशब्दे उदा०।

चैकित्य = पुंस्त्री चेकितस्य गोत्रापत्यम्। गर्गा० यङ्। चैकितर्षेर्गोत्रापत्ये तस्य छात्त्रः कण्वा० अण् यलोपः। चैकित तच्छात्त्रे।

चैकित्सित्य = पुंस्त्री चिकित्सितर्षेरपत्यम् गर्गा० यञ्। चिकित्सितर्षेरपत्ये ततः कण्वा० छात्त्रे अण्। चैकित्सित। तच्छात्त्रे।

चैकीर्षित = त्रि० चिकीर्षित एव प्रज्ञा० अण्। चिकीर्षिते स्त्रियां अणन्तत्वात् ङीप्।

चैटयत = त्रि० चेट इव यतते यत–अच् ततः स्वार्थे अण्। चेटतुल्ययत्नशीले तस्यापत्यं त्रिका० फिञ्। चैटय तायनि तदपत्ये पुंस्त्री। स्त्रियां क्रोड्या० ष्यङ् चैटयत्या। चैटयतानां विषयः भौरिक्या० विधल् चैटयतविघ तद्विषये न०।

चैतन्य = न० चेतन एव, चेतनस्य भावो वा ष्यञ्। वेदा न्तिमते चित्स्वरूपे १ परमात्मनि न्यायादिमते २ आत्मधर्म्मे चेतनायाम्। “चैतन्यमात्मनोविद्यान्न बिभेति कुतश्चन” श्रुतिः वेदान्तिमते राहोः शिर इतिवद् अभेदे षष्ठी, अन्यमते भेदे। “शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः” भाषा० ३ प्रकृतौ मेदि०। “प्रकृतिश्च दृष्टान्तानुपरोधात्” शा० सू० चैतन्यस्य जगत्प्रकृतित्वाऽङ्गीकारेण तथात्वम्। “चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते ज्ञानक्रिये जगत्कर्त्त्य्रौ दृश्येते चेतनाश्रये” वेदा न्तका०। चेतन एव स्वार्थे ष्यञ्। ३ शचीगर्भजाते कलौ कृष्णावतारभेदे अनन्तसंहिता। तस्या न प्रामाणिकत्वमिति स्मार्त्तानुयायिनः। वैष्णवास्तु तन्मूलतयैव चैतन्यदेवस्य कृष्णावतारत्वमिच्छन्ति। वयं तु तस्याः प्रामाणिकत्वे संवादिमूलग्रन्थान्तरस्यादर्शनात् उदासीना इत्यतः न किञ्चित् ब्रूमहे। यदि चासौ अवतारः यदि वा न, तथापि तस्य वैष्णवसम्प्रदायगुरुत्वात् पूज्यत्वं मन्यामहे चैतन्यचन्द्रोदयः चैतन्यचरितामृतं चैतन्यभागवतम् इत्यादयो ग्रन्थाः तन्माहात्म्यावेदका वैष्णसम्प्रदायप्रसिद्धाः सन्ति।

चैतन्यभैरवी = स्त्री तन्त्रसारोक्ते भैरवीभेदे तत्र तन्मन्त्रादिकं दृश्यम्।

चैत्त = न० चित्तस्येदम् अण्। चित्तसम्बन्धिनि १ स्मरणादौ। “चन्द्रचतुर्मुखशङ्कराच्युतैः क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात् संशयनिश्चयाहङ्कार्य्यचैत्तांश्च सर्व्वानेतान् स्थूलविषयाननुभवतः” वेदान्तसा०। ३ चित्ताभिमानिके क्षेत्रज्ञे “चेत्येन हृदयं चैत्तः क्षेत्रज्ञः प्राविशद्यदा। पिराट् तदैव पुरुषः सलिलादुदतिष्ठत” भाग०। ३। २६। ५९। बौद्धमते विज्ञावनस्कन्धातिरिक्ते ४ स्कन्धमात्रे। तैस्तु चित्तं चैत्तमिति द्विविधस्यैव पदार्थस्याङ्गीकारेण विज्ञानातिरिक्तस्य चैत्तत्वात्। बुद्धशब्दे तद्भेदो दृश्यः।

चैत्य = न० चित्यया इदमण्। १ आयतने अमरः। २ मुखरहिते सचित्ये अचित्ये वा यज्ञायतने भरतः। ३ देवायतनमात्रे ४ देवकुले (देउल) च। ५ बुद्धे ६ विम्बे ७ उद्देश्यवृक्षे मेदि०। ८ ग्रामादिप्रसिद्धमहावृक्षे। ९ देवावासे १० जिनतरौ पु० मेदि०। “सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिता। चैत्यश्मशानसीमा सु पुण्यस्थाने सुरालये” याज्ञ०। “चैत्ये भयं ग्रहकृतम्” वृ० स० ५३ अ०। “चैत्यस्थाने स्थित’ वृक्षे फलवन्तमिव द्विजाः” भा० अनु० १६६ अ०। चैत्ये भवः अण् चैत्यस्थे देवभेदे चैत्यमखभेदे शब्दे दृश्यम्।

चैत्यक = पु० चैत्य इव कायति कै क। अश्वत्थवृक्षे त्रिका०। गिरिव्रजपुरवेष्टकपञ्चगिरिमध्ये २ पर्वतभेदे “वैहारो विपुलः शैलो वराहो वृषभस्तथा। तथा ऋषिगिरिस्तात! शुभाश्चैत्यकपञ्चमाः। एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः। रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्”। “मागधानान्तु रुचिरं चैत्यकान्तरमाप्तवान्” “भक्त्वा भेरीत्रयं तेऽपि चैत्यप्रकारमाद्रवन्”। “मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन्”। “चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह छद्मना” भा० स० २० अ०।

चैत्यगृह = न० चैत्यस्य समीपे गृहम्। चतुष्पथस्थे चैत्यसन्निहिते गृहे शब्दार्थचि०।

चैत्यतरु = पु० कर्म्म०। ग्रामादौ १ प्रसिद्धवृक्षे २ अश्वत्थवृक्षे रत्नमाला। चैत्यवृक्षादयोऽप्यत्र। “चेत्यतरौ सा पतिता सत्कृतपीडां करोत्युल्का” वृ० स० ३३ अ०। “चैत्यद्रुम श्मशानेषु” मनुः।

चैत्यमुख = पु० चैत्यस्य देवकुस्येव मुखमस्य। कमण्डलौ त्रिका०।

चैत्ययज्ञ = पु० आश्व० गृह्योक्ते यज्ञभेदे तस्य विधानादि” यथा “चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत्” सू०। चैत्ये भवाश्चैत्याः। शङ्करः पशुपतिः आर्या ज्येष्ठा इत्येवमादयः। यदि कस्यैचिद्देवतायै प्रति शृणोति यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्त्वा महमाज्येन स्थालीपाकेन पशुना वा यक्ष्यामीति ततोलब्धे वस्तुनि तस्य तेन यागं कुर्यात् स चैत्ययज्ञः। तत्र स्विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारान्तेन नामधेयेन पुनश्चैत्यस्य ग्रहणं प्रत्यक्षहरणार्थम्। तेन चैत्यायतने एवोपलेपनादि कुर्य्यात्” ना० वृ०। “यद्यु बै विदेशस्थं पलाशदूतेन यत्र वेच्छा वनस्पते इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीबधेऽभ्याघाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्यमिति यो दूताय” सू०। “यदि विदेशस्थं चैत्यं यजेत् तदा पलाशदूतेन बलिं हरेत्। पलाशेन दूतं वीवधञ्च कुर्यात्। यत्र वेच्छेत्यृचा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेत्। तयोरेकं पिण्डं निर्दिश्य दूतं वदति इमं तस्मै बलिं हरेति। अपरं दूताय प्रयच्छति अयं तुभ्यमिति। एतयर्चेति वचनम् अन्यत्र पादग्रहणेऽपि क्वचित् सूक्तं भवतीत्थेव मर्थम्। तेन “आत्वाहार्षमन्तरेधीति ऋषभं मा समानानामिति” च सूक्तं सिद्धम्। अन्ये पुनरभ्यासार्थं मन्यन्ते पिण्डकरणे वीवधाभ्याधाने दूताय प्रदाने इति ना० वृ०। “प्रति भयं चेदन्तरा शस्त्रमपि किञ्चित्” सू०। “कर्त्तुश्चैत्यस्य च मध्ये भयमस्ति चेत् शस्त्रमपि किञ्चित् दद्यात् दूताय” ना० वृ०। “नाव्या चेत् नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति” सू०। “उभयोर्मध्ये यदि नावा तार्या नदी स्यात् तदा प्लवरूपमपि किञ्चित् दद्यात् अनेनेति मन्त्रेण” ना० वृ०। “धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरो- हितायाग्रे बलिं हरेत्” सू०। “यदि धन्वन्तरि श्चैत्यो भवति तदा व्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत् पुरोहिताय नम इति ततो धन्वन्तरये नम इति। धन्वन्तरौ विदेशस्थे त्वयं विशेषः धन्वन्तरेश्च पुरोहितस्य चैकः पिण्डः द्वितीयो दूतस्य”। ना० वृ०।

चैत्यविहार = पु० चैत्यस्येव विहारोऽत्र। जिनगृहे हेम०।

चैत्र = न० चि–ष्ट्रण् चित्रमेव स्वार्थे अण् वा। १ देवकुले (देउल) २ मृते मेदि० ३ पुद्धभिक्षुके पु० ४ वर्षाचलभेदे पु० त्रिका० कुलपर्ब्बतशब्दे २१२३ पृ० दर्शिते विष्णु पु० वाक्ये “गोमेदश्चैव चन्द्रश्चेत्यत्र चैत्र इति पाठान्तरदर्शनात् त्रिकाण्डोक्तिः समञ्जसा। चित्रायां भवः अण्। बुधस्य कलत्रभेदचित्रायागर्भजे ५ बुधपुत्रभेदे पु० ब्रह्मवै० पा० ख०। चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् चैत्रीसास्मिन् मासे पुनरण्। चित्रानक्षत्रयुक्तपौर्णमासी युक्तेतदुपलक्षिते वा ६ चान्द्रे मासि वार्हस्पत्ये ७ वर्षभेदे ८ तथाभूते अर्द्धमासे मीनस्थरविके ९ सौरचैत्रे च कार्तिकशवदे १९४८ पृ० दृश्यम्। चित्रायां भवः अण्। १० चित्रानक्षत्रजाते त्रि० स्त्रियान्तु तस्याणो लुक्। चित्रा चित्राजातायां स्त्रियां स्त्री चित्राशब्दे दृश्यम्। स्वार्थे क तत्रार्थे शब्रत्ना०। “फाल्गुनं वाथ चैत्रं वा मासं प्रति यथावलम्” मनुः। “मीनादिस्थो रविर्येषामारम्भः प्रथमक्षणे। भवेत् तेऽव्दे चान्द्रमासाश्चैत्राद्या द्वादशः स्मृताः” व्यासः “चैत्रे मदोन्मादिनी” उद्वा० त०।

चैत्ररथ = न० चित्ररथेन गन्धर्वेण निर्वृत्तम् अण्। १ कुवेरस्योद्यान अमरः। “बभौ वल्गुजनाकीर्णं वनं चैत्ररथं यथा” हरिव० ३२४ अ०। “एकोययौ चैत्ररथप्रदेशान्” रघुः २ मुनिभेदे पु० “आविक्षितमभिष्यन्तं तथा चैत्ररथं मुनिम्” भा० आ० ९४ अ०। चैत्ररथेः शशविन्दोरपत्यम् स्त्री अण् ङीप्। ११ शशविन्दोःसुतायां स्त्री “मान्धातुर्युवनाश्वस्य त्रिलोकीविजयी सुतः। तस्य चैत्ररथी भार्य्या शशविन्दोःसुताऽमवत्” हरिव० १२ अ०। चित्ररथं गन्धर्वमधिकृत्य कृतोग्रन्थः अण्। १३ भारतपर्व्वान्तर्गतेऽवान्तरपर्वभेदे न० चित्ररथशब्दे दृश्यम्। “तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरम्” भा० आ० १० अ० अवा न्तरपर्वोक्तौ।

चैत्ररथि = पु० चित्ररथस्य उषद्गुपुत्रस्यापत्यम् अण्। उषद्गुपुत्र चित्ररथस्यापत्ये शशविन्दौ नृपे “ततः प्रसूतिमिच्छन् वै उषद्गुःसोऽग्र्यमात्मजम्। जज्ञे चित्ररथस्तस्य पुत्रः कर्म्मभिरन्वितः। आसीत् चैत्ररथिर्वीरो यज्वा विपुल दक्षिणः। शशविन्दुः परं वृत्तं राजर्षीणां समन्वितः” हरिव० ३७ अ०।

चैत्ररथ्य = न० चैत्ररथमेव स्वार्थे ष्यञ्। चैत्ररथबने “मानसे चैत्ररथ्ये च स रेमे रामया रतः” भाग० ३। १३। ३८ अ०।

चैत्रमख = पु० चैत्रे कर्त्तव्यो मख इव महोत्सवः। चैत्रमासे मदनत्रयोदश्यादिकर्त्तव्ये वसन्तोत्सवे हेमच०।

चैत्रायण = पुंस्त्री चित्रस्य गोत्रापत्यम् नडा० फक्। १ चित्रस्य गोत्रापत्ये। चित्रेण निर्वृत्तादि पक्षा० फक्। २ चित्रनिर्वृत्तादौ त्रि०।

चैत्रावली = स्त्री चैत्रे आबलिः सम्यक् बलिरत्र ङीप्। चैत्रपौर्णमास्यां त्रिका०। “चैत्राबल्याः परेऽपि या” ति० त०। “चैत्राबलो मदनत्रयोदशीत्यपरे तस्यामेव मदनपूजाविधानात्तस्यास्तथात्वम्।

चैत्रिक = पु० चित्रानक्षत्रयुक्ता पौर्णमासी साऽस्मिन् मासे पक्षे ठक्। चैत्रमासे अमरः।

चैत्रिन् = पु० चैत्री विद्यतेऽस्मिन् व्रीह्या० इनि। चैत्रमासे राजनि०। तत्र चैत्रिरित्यपि तत्र बा० इञ्।

चैत्री = स्त्री चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप्। चित्रानक्षत्रयुक्तायां पौर्णमास्यां सा हि चैत्रमासे एव भवति योग्यत्वात् कार्त्तिकशब्दे १९४८ पृ० दृश्यम् “चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति” भा० आश्व० ७२ अ०। “चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते” भा० शा० १०० अ०।

चैदिक = पुं त्रि० चेदिदेशे भवः काश्या० ठञ् ञिठ् वा इदित्। चेदिदेशभवे स्त्रियां तु ठञि ङीप् ञिठि–टाप्।

चैद्य = पु० चेदीनां जनपदानां राजा ष्यञ्। १ शिशुपाले। “क्रुद्धस्य चैद्यं प्रति” “त्वया विप्रकृतश्चैद्यः” माघः।

चैन्तित = पुंस्त्री० चिन्तितायाः तन्नामिकायाः स्त्रिया अपत्यम् “अव्यङ्गाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः” पा० अण्। चिन्तितानामिकायाः स्त्रिया अपत्ये। चिन्तायुक्तायाः स्त्रिया अपत्ये तु ढक्। चैन्तितेय इत्येव।

चैल = त्रि० चेलस्येदम् अण् १ वस्त्रसम्बन्धिनि स्वार्थे अण। २ चेले वस्त्रे चे(चै)लाशकशब्दे दृश्यम्। “चैलकम्बलवेश्मानि विचित्राणि महान्ति च” भा० आ० १२८ अ०। “प्रदीप्तमिव चैलान्तं कस्तं देशं न सन्त्यजेत्” भा० श० २८९ अ०।

चैलकि = पु० चेलकस्यर्षेरपत्यम् इञ्। जीवलनामर्षौ तद्व होवाच जीवलश्चेलकिः” शत० ब्रा० २। ३। १। ३४। चेलकर्षिश्च “चेलक उन्माद शाण्डिल्यायन” इति शत० व्ना० १०। ४। ५। ३०। शाण्डिल्यगोत्रे उक्तः।

चैलधाव = त्रि० चैलं वस्त्रं धावति मार्ष्टि धाव–मृजि अण् उप० स०। वस्त्रक्षालके रजके (धीपा) “चैलधावसुराजीविसहोपपतिवेश्मनाम्” याज्ञ० तदन्नभोजनं निषिद्धम्।

चोकुटि = पु० गोत्रप्रवरभेदे हेमा० प्रवरा०।

चोक्ष = पु० १ स्वभावसिद्धशुचिषु वनप्रदेशेषु। “अवकाशेषु चोक्षेषु नदोतीरेषु चैव हि” अनुव्या० कुल्लू०। तत्र भवं यत्। चौक्ष्य तत्रभवे उदके “अचौक्ष्यसलिलक्षालितयोनिम्” सुश्रुतः। “शुचौ दक्षे च चोक्षःस्यात्” त्रिका० उक्ते २ दक्षे। “श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः” भा० अनु० १४४ अ०।

चोच = न० चु–बा० च। १ वल्कले २ चर्म्मणि धरणिः। प्रशस्तं चोचमस्यास्ति अच्। ३ त्वक्पत्रे पु० अमरः ४ गुडत्वचि शब्दार्थ०। स्वार्थे क। तत्रार्थे “दद्याच्चात्र पिष्पलीमूलतण्डुलीयकवराङ्गचोचकेत्यादि” सुश्रु०।

चोड = पु० चुल–समुच्छ्राये अच् लस्य डः। १ प्रावरणे २ देशभेदे ब० व० मेदि०। चोलशब्दे दृश्यम्।

चोडी = स्त्री चुल–अच् गौरा० ङीष् लस्य डः। शाट्यां हेमच०।

चोद = पु० चोदयति चुद–अच्। अश्वादेः प्रेरके १ कशादौ। “जघने चोद एषां वि सक्थानि नरो यमुः” ऋ० ४। ६१। ३। “चोदः प्रेरिका कशा अराग्रकाष्ठविशेषो वा” २ प्रेरकमात्रे त्रि० “चोदः कुवितुज्यात् जातमेवितः” ऋ० १। १४३। ७। “चोदः प्रेरकः” भा०।

चोदक = पु० चुद–ण्वुल्। १ प्रवर्त्तके विधिवाक्ये “वर्त्तमानोपदेशाच्चोदनाशब्दात्श्रुत्यर्थाभावात्तवैचेति वचनान्निर्देशात् कर्मचोदकः” कात्या० श्रौ० १। १०। १ “अग्नीदग्नीनित्यादिः कर्मचोदकः कर्मविधायकः विधिवाक्यमित्यर्थः न तु मन्त्रः। कुतः वर्त्तमानोपदेशात् एवमादयो वर्त्तमानमर्थमनुष्ठेयत्वेन यत उपदिशन्ति अग्निविहरणं कर्त्तव्यं स्तरणं च कर्त्तव्यमित्येवमुपदिश्यते किं च चोदनाशब्दात् अपि च एषु प्रेषेषु चोदनाशब्दो विधिशब्दोऽस्ति विधौ हि लोट् स्मर्यते। लोट् चेति” पा०। लोटो मध्यमपुरुषवचनानि चैतानि विहर म्पृणीहि आसादयेत्यादीनि तस्मादपि कर्मचोदका एते” कर्कः २ प्रेरकमात्रे त्रि०

चोदन = न० चुद–भावे ल्युट्। १ प्रवर्त्तने चोदनाशब्दार्थे। “प्रथमेऽव्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात्” मनुः। २ प्रेरणमात्रे च “कार्य्यकारणसन्देहे भवत्यन्योन्यचोदनात्” भा० अनु० १ अ०। कर्त्तरि ल्यु। ३ चोदके त्रि०। “अपिप्रयं चोदना वा मिमाना” यजु० २९। ७। “चोदना चोदनानि कर्म्माणि” वेददी०।

चोदना = स्त्री चु० चुद–युच्। “चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः” इति भट्टोक्ते प्रवर्त्तनावाक्ये ‘चोदनालक्षणोऽर्थो घर्म्मः” इति मीमांसासूत्रम्। २ प्रेरणायां, ३ प्रवर्त्तनायाञ्च। चोद्यतेऽनया करणे बा० युच् ४ प्रवृत्तिहेतौ च “ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म्मचोदना” गीता। “ज्ञानमिष्टसाधनमिति बोघः, ज्ञेयमिष्टसाधनं कर्म्म। परिज्ञाता एतज्ज्ञानाश्रयः, कर्म्मचोदना कर्म्म चोद्यते प्रवर्त्त्यतेऽनया चोदना ज्ञानादित्रितयं प्रवृत्तिहेतुरित्यर्थः” श्रीधरः। ५ अज्ञातार्थज्ञापके शब्दमात्रे–“चोदनाप्रवृत्तिभेदाच्च” “या हि चोदना धर्म्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्, अवबोधस्य चोदनाजन्यत्वात् न पुरुषोऽवबोधे नियुज्यते यथाऽक्षसन्निकर्षेणार्थाऽबोधे तद्वत्” शा० सू० शाङ्करभाष्यम्। “अज्ञातज्ञापकः शब्दः चोदना तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्य भेद इत्यर्थः। संग्रहवाक्यं विवृणोति या हीति लक्षणं प्रमाणं “स्वर्गकामोयजेत” इत्यादि वाक्यं हि स्वविषये धर्मे यागादिके स्वर्गभावनारूपे फलहेतुयागादि गोचरनियोगे वा हितसाधने यागादौ वा, पुरुषं प्रवर्त्तयदेवावबोधयति “अहमात्मा ब्रह्म” इत्यादि वाक्यं तु पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्त्तयति विषयाभावात् नन्ववबोध एव विषयोऽस्तु तत्राह न पुरुष इति ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्त्यते इत्यत्र हेतुं पूर्ववाक्येनाह अवबोधस्येति। स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्त्तकमित्यत्र दृष्टान्तमाह यथेति मानादेव बोधस्य जातत्वात् जाते च तस्मिन् विध्ययोगात् न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः। तथाच प्रवर्त्तकमानमेयो धर्मः, उदासीनमामेयं ब्रह्मेति” रत्नप्रमा। लोगाक्षिमास्करेणापि “वेदप्रतिपाद्यप्रयोजनवदर्थो धर्म्म” इति धर्मलक्षणमुक्त्वा “चोदनालक्षणोऽर्थो धर्म” जै० सूत्रस्थचोदनापदस्य वेदमात्रपरत्व मुररीकृतम्। तल्लक्षणे चार्थपदस्य इष्यमाणपरत्वेन सिद्धे इच्छाभावात् ब्रह्मणः सद्धत्वेन इष्यमाणत्वाभावात् वेदप्रतिपाद्यत्वेऽपि नातिव्याप्तिरिति बोध्यम्। ५ चोदनाविषये यागादिप्रयत्ने च। “एकं वा संयोग रूपचोदनाऽख्याऽविशेषात्” जै० सू०। “कर्स्मैक्यप्रतिपादका संयोगरूपचोदनासंज्ञारूपाः पदार्थास्तेषामपिशेषादैक्यम्। “तत्र चोदना प्रवर्त्तकः शब्दः चोदितप्रयत्नो वा” रत्नप्रभा।

चोदनागुड = पु० चोदनया नोदनया मुर्य्यते गुर–क रस्य डः। कन्दुके त्रिका०।

चोद्य = न० चुद–ण्यत्। १ प्रश्ने २ पूर्वपक्षे च अमरः ताभ्यां हि उत्तरदानाय प्रवर्त्तनात् तयोस्तथात्वम्। “चोद्यं वा परिहारोवा क्रियतां द्वैतभाषया। अद्वैतमाषया चोद्यं नास्ति नापि तदुत्तरम्” वेदन्तका०। ३ आक्षेप्ये च “चपलाजनं प्रति न चोद्यमदः” माघः। “चोद्यं चोदनीयम् कथमित्याक्षेप्यम्” मल्लि० “सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च” भा० उ० ४२ अ०। ४ अद्भुते ५ प्रेरणार्हे त्रि०। “नित्योत्थिता गुरुकर्म्मस्वचोद्याः” भा० अनु० १०३ अ०।

चोपन = न० चुप–ल्युट्। १ मन्दगमने, २ तूष्णीम्भवने, ३ मौने च।

***