चित्रतण्डुल = न० चित्रस्तण्डुलोऽस्य। विडङ्के रत्नमाला। तत्रार्थे स्त्री अमरः।

चित्रत्वच् = पु० चित्रा त्वक् यस्य। भूर्जत्वचे। राजनि०।

चित्रदण्डक = पु० चित्रोदण्डःकाण्डो यस्य कप्। (ओल) शूरणे रत्नमाला।

चित्रदीप = पु० पञ्चदशीप्रकरणान्तर्गते दीपभेदे “यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम्। परमात्मनि विज्ञेयं तथावस्थाचतुष्टयम्। यथा धौतो घट्टितश्च लाञ्छितो रञ्जितः पटः। चिदन्तर्यामिसुत्राणि विराडा त्मा तथेष्यते। स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात्। मस्याकारैर्लाञ्छितः स्यात् रञ्जितो वर्ण पूरणात्। स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः। सूत्रात्मा स्थूलसृष्ट्येष विराडित्युच्यते परः। ब्रह्माद्यास्तम्बपर्य्यन्ताः प्राणिनोऽत्र जडा अपि। उत्तमाधमभावेन वर्त्तन्ते पटचित्रवत्। चित्रार्पितमनुष्याणां वस्त्राभासाः पृथक् पृथक्। चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः। पृथक् पृथक् चिदामासा श्चैतन्याध्यस्तदेहिनाम्। कल्पान्तजीवनात्मानोबहुधा संसरन्त्यमी। वस्त्राभाषा स्थितान् वर्णान् यद्वदाधार वस्त्रगान्। विदन्त्यज्ञास्तथा जीवं संसारं चिद्गतं विदुः” इत्युपक्रमे। “जगच्चित्रं खचैतन्ये पटे चित्रमिवार्पितम्। मायया तदुपक्ष्यैव चैतन्यम् परिशिष्यताम्। चित्रदीपमिमं नित्यं ये तु संदधते बुधाः। पश्यन्तोऽपि जगच्चित्रं ते मुह्यन्ति न पूर्बवत्” पञ्चदशी।

चित्रदेवी = स्त्री चित्रं दीव्यति दिव–अच् गौरा० ङीष्। १ महेन्द्रवारुण्यां राजनि०। २ कुमारानुचरभेदे पु० “तुहरश्च तुहारश्च चित्रदेवश्च वीर्य्यवान्” भा० शल्य० ४६ अ०। कुमारानुचरोक्तौ

चित्रधर्म्मन् = पु० भारतप्रसिद्धे नृपभेदे “विरूपाक्षस्तु दैतेय श्चित्रयोधी महासुरः। चित्रधर्म्मेति विख्यातः क्षिता वासीत् स पार्थिवः” भा० आ० ६७ अ०।

चित्रनेत्रा = स्त्री चित्रं नेत्रं यस्याः। शारिकायां हारा०।

चित्रपक्ष = पुंस्त्री चित्रौ पक्षावस्य। तित्तिरिखगे जटा धरः। स्त्रियां ङीष्। “चित्रपक्षः कफहरः वातघ्नो ग्रहणीप्रणुत्” भावप्र० तन्मांसगुणा उक्ताः।

चित्रपट = पु० कर्म्म०। (छिट) प्रभृतौ १ वस्त्रे शब्दार्थचि०। २ चित्राधारपटे पु० चित्रदीपशब्दे उदा० “निःशेषं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा” हरिवं० २१७ अ०।

चित्रपत्त्र = पु० चित्रं पत्त्रं पक्षोऽस्य। चित्रपक्षे खगमात्रे “चित्रपत्रशकुनिनीडद्योतितेत्यादि” काद०।

चित्रपत्रिका = स्त्री चित्रं पत्त्रं पर्ण्णं यस्याः कप् कापि अतैत्त्वम्। १ चित्रपर्ण्णीवृक्षे रत्नमाला २ द्रोणपुष्प्यां राजनि० कबभावे गौरा० ङीष्। चित्रपत्री जलपिप्पल्यां स्त्री राजनि०।

चित्रपथा = स्त्री प्रभासतीर्थस्थचित्रानद्याम् तत्कथा स्क० पु० प्रभा० यथा “ततोगच्छेन्महादेवि! नदीं चित्रपथां शुभाम्। ब्रह्म कुण्डसमीपस्थां चित्रादित्यस्य मध्यतः। यदा चित्रस्तु संनीतो यमदूतैः सुरप्रिये!! सशरोरः महाप्राज्ञो यमादेशपरायणैः। एवं ज्ञात्वा तु तत्रस्था भगिनी तस्य दुःखिता। चित्रा, नदी ततोभूत्वा तथा तस्य महात्मनः। प्रविष्ठा सागरे देवि! अन्विष्यन्तीष बान्धवम्। ततश्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः। एवं तत्र समुत्पन्ना सा नदी वरवर्णिनि!। तस्यां स्नात्वा नरोयस्तु चित्रादित्यं प्रपश्यति। स याति परमं स्थानं यत्र देवो दिवाकरः। अस्मिन् कलियुगे देवि! अन्तर्द्धानं गता नदी। प्रावृट्कालेऽथ दृश्येत दुर्लभं तत्र दर्शनम्। स्नार्न दानं विशेषेण सर्वपातकनाशनम्। भक्तोवाप्यथ वाऽभक्तो रात्रौ वा यदि वा दिवा। पर्वकालेऽथवाऽ काले पवित्रोह्यथ वाऽशुचिः। यदैव दृश्यते तत्र नदी चित्रपथा प्रिये!। प्रमाणं दर्शनं तस्या न कालस्तत्र कारणम्। दृष्ट्वा नदीं महादेवि! पितरः स्वर्गसंस्थिताः। गायन्ति तत्र वाञ्छन्ति नृत्यन्ति च हसन्ति च। अस्माकं वंशजः कश्चित् श्राद्धमत्र करिष्यति। यावत् कल्पं तथास्माकं प्रीतिमुत्पादयिष्यति। एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धञ्च कारयेत्। सर्वपापविनाशार्थं पितॄणां प्रीतये तथा। इत्येतत् कथितं देवि! यथा चित्रपथा नदी। प्रभासक्षेत्रमासाद्य संस्थिता पापनाशिनी”।

चित्रपदा = स्त्री चित्रं पदं स्वाधिष्ठानस्थानं यस्याः। १ गोधालतायां शब्दमा० अष्टाक्षरपादके २ छन्दोभेदे च। तल्लक्षणं “चित्रपदा यदि भौ गौ” छन्दोम०। आश्चर्य्यं पदं शब्दभेदोऽत्र। ३ चित्रपदयुक्ते वाक्यादौ त्रि०। “वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनी तथा वचः” भा० व० ३१ अ०। “सप्त यदा भगणाः परतो गुरुरन्तगतो लघुकोजितदेश! चित्रपदेति तदा युधि विक्रमतो धृतवैरिधराधिपकेश!। सा कथिताधिकमङ्गल! पिङ्गलनागवरेण दयाभिनिवेश! गौडकुलोज्ज्वल! धारय चेतसि हे यशवन्त! नरेश!” वृत्तरत्रोक्ते ३ छन्दोभेदे च

चित्रपर्ण्णी = स्त्री चित्राणि पर्ण्णान्यस्याः! (चाकलिया) ख्याते पृश्निपर्ण्ण्याम् अमरः। २ जलपिपल्यां ३ द्रोणपुष्प्यां च राजनि०। ४ मञ्जिष्ठायां रत्नमाला। स्वार्थे क। चित्रपर्ण्णिका चित्रपर्ण्णीभेदे रत्नमाला।

चित्रपादा = स्त्री चित्रौ पादौ यस्याः। शारिकायां हारा०।

चित्रपिच्छक = पुंस्त्री चित्रं पिच्छमस्य। मयूरे राजनि० स्त्रियां ङीष्।

चित्रपुङ्ख = पु० चित्रः पुङ्खोऽस्य। शरभेदे राजनि०।

चित्रपुष्पी = स्त्री चित्राणि पुष्पाण्यस्याः ङीप्। अम्बष्ठालतायाम् राजनि०।

चित्रपृष्ठ = पुंस्त्री० चित्रं पृष्ठमस्य। कलविङ्कपक्षिणि। हारावली स्त्रियां ङीष्।

चित्रफल = पु० चित्रं फलं फलकमिवाकरोऽस्त्यस्य अच्। (चितल) नत्स्ये राजनि०। स्थार्थे क। चित्रफलक तत्रार्थे।

चित्रफला = स्त्री चित्रं फलं यस्याः अजा० टाप्। १ चिर्भष्ट्यां २ मृगेर्वारौ ३ लिङ्गिन्यां ४ महेन्द्रवारुण्याम् ५ वार्त्ताक्यां ६ कण्ठकार्य्याञ्च राजनि०। एतासां चित्रफलत्रात्तथात्वम्”।

चित्रबर्ह = पुंस्त्री चित्रा वर्हा यस्य। १ मयूरे स्त्रियां जातित्वात् ङीप्। “काकेनेमांश्चित्रबर्हान् शार्दूलान् क्रोष्टुकेन च। क्रीणीष्व पाण्डवान् राजन्! मा मज्जीः शोकमागरे” भा० स० ६० अ०। २ गरुडात्मजभेदे। “सुमुखश्चित्रकेतुश्च चित्रवर्हस्तथाऽनलः” भा० उ० १०० अ०। गरुडात्मजोक्तौ।

चित्रबाहु = पु० धृतराष्ट्रपुत्रभेदे। चित्रबाहुश्चित्रवर्म्मा” आ० ६७ अ०। तत्पुत्त्रोक्तौ।

चित्रभानु = पु० चित्राभानवो यस्य। १ अग्नौ २ सूर्य्ये, ३ चित्रकवृक्षे, ४ अर्कवृक्षे च मेदिनिः। ५ भैरवे शब्दरत्ना०। तत्राग्नौ “पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे” भा० आ० ५२ अ० सर्पसत्रे। “किन्त्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना” भा० शा० २२६ अ०। ६ अश्विनीकुमारयोः द्वि० व०। तयोश्चित्रभानुसूर्य्यजातत्वात् तथात्वम् “प्रपूर्वगापूर्वजौ चित्रभानू” भा० आ० ६० अ० अश्विनोःस्तुतौ। प्रभवादिषष्टिवर्षेसु ७ षोडशे वर्षे “चणका मुद्गमाषाश्च अन्यच्च द्विदलं प्रिये!। महार्घं जायते सर्वं चित्रभानौ वरानने!”। “श्रेष्ठं चतुर्थस्य (हौताशस्य) युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम्” वृ० स० ८ अ०।

चित्रभेषजा = स्त्री चित्रमाश्चर्य्यं भेपजं यस्याः ५ व०। काकोडुम्बरिकायाम् राजनि०।

चित्रमण्डल = पुंस्त्री० चित्रं मण्डलमस्य। मण्डलिनि सर्पभेदे सुश्रुतः अहिशब्दे ५८१ पृ० दृश्यम्।

चित्रमृग = पु० चित्रवर्ण्णोमृगः। पृषते मृगभेदे शब्दार्थचिन्ता०। “षण्भासा~श्छागमांसेन पार्षतेन च सप्त वै” मनुव्या० “पृषतश्चित्रमृगः” कुल्लू०।

चित्रमेखल = पुंस्त्री चित्रा मेखलास्य। मयूरे त्रिका०।

चित्रयोधिन् = त्रि० चित्रं युध्यति युध–णिनि। १ आश्चर्य्य युद्धकारके स्त्रियां ङीप्। “यदा द्रोणोविविधानस्त्रमार्गान् निदर्शयन् समरे चित्रयोधी” भा० आ० १ अ०। “विरुपाक्षश्च दैतेयश्चित्रयोधी महासुरः” भा० आ० ६७ अ०। २ अर्ज्जुने तन्नामनामके ३ अर्ज्जुनवृक्षे पु० राजनि०।

चित्ररथ = पु० चित्रोरथोऽस्य। १ सूर्य्ये २ गन्धर्वभेदे च मेदि०। स च गन्धर्वः कश्यपात् मुनिनाम्न्यां दक्षकग्यायां बभूव यथाह “भोमोग्रसेनौ चेत्युपक्रमे “भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी” इत्युपक्रमे “इत्येते देवगन्धर्वा मौनयाः परिकीर्त्तिताः” भा० आ० ६५ अ०। इत्युक्तम् स च अङ्गारपर्णनामा अर्ज्जुनेन च तस्य दग्धरथत्वात् दग्धरथनामा बभूव यथाह भा० आ० १७० अ०। “गन्धर्व उवाच, “जितोऽहं पूर्वकं नाम सुञ्चाम्यङ्गारपर्णताम्। न च श्लाध्ये बलेनाङ्ग नाम्नाद्य जनसंसदि। साध्विमं लब्धवांल्लाभोयोऽहं दिव्यास्त्रधारिणम्। गान्धर्व्या माययेच्छामि संयोजयितुनर्ज्जुन!। अस्त्राग्निना विचित्रोऽयं दग्धोमे रथ उत्तमः। सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्”। “गन्धर्वाणां चित्ररथः” गीता। “सागराणां नदीनाञ्च मेघानां वर्षितस्य च। गन्धर्वाणामधिपतिं चक्रे चित्ररथं विभुः” हरिव० ४ अ०। तस्य गन्धर्वाधिपत्य मुक्तम्। २ नदीभेदे स्त्री ३ उषद्गोः पुत्रे पु० चैत्ररथिशब्दे दृश्यम्। चित्ररथमधिकृत्य कृतो ग्रन्थः अण्। चैत्ररथ भारतस्यादिपर्वान्तर्गतेऽवान्तरपर्वणि। तच्च पर्व आदिपर्वणि १६५ अवधि १८३ अध्यायपर्य्यन्तम्।

चित्ररश्मि = त्रि० चित्रारश्मयोऽस्य। १ नानावर्ण्णरश्मियुक्ते २ मरुद्गणभेदे पुं हरिव० २०४ अ० “अग्निश्चक्षुर्हविर्ज्योतिः सावित्रं मित्रमेवच। अमरं शर वृष्टिञ्च सङ्क्षयञ्च महाभुजम्। विरजञ्चैव शुक्रञ्च विश्वावसुविभावसू। अश्मन्तञ्चित्ररश्मिञ्च तथा निष्कुषितं नृपम्। नहुषञ्चाहुतिञ्चैव चारित्रं ब्रह्मपन्नगम्। वृहतञ्च वृहद्रूपं तथैव परतापनम्। मरुत्वती तथा यज्ञे एतं वै मरुतां गणम्”।

चित्ररेफ = पु० शाकद्वीपाधिपस्य प्रैयव्रतस्य मेधातिथेः १ पुत्रभेदे तन्नामके तत्रत्ये २ वर्षभेदे च। शाकद्वीपोपक्रमे “तस्यापि प्रैयव्रत एवाधिपतिः नाम्ना मेधातिथिः। सोऽपि विभज्य सप्त वर्षाणि पुत्रनामाङ्कितेषु स्वात्मजान् पुरोजवमनोजव पवमान धुम्रानीक चित्ररेफ बहुरूप विश्वाघार संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्यनन्तआवेशितमतिस्तपोवनं प्रविवेश” भाग० ५। १२। १९।

चित्रल = पु० चित्रमाश्चर्य्यं लाति ला–क। १ कर्वूरवर्ण्णे २ तद्वति त्रि० शब्दरत्ना०। ३ गोरक्षीवृक्षे स्त्री राजनि०।

चित्रलता = स्त्री० नित्यकर्म्म०। मञ्जिष्ठायां राजनि०।

चित्रलेखनी = स्त्री चित्रं लिख्यतेऽनया लिख ल्युट् करणे ङीप्। (तुली) कूच्याम्। उज्ज्वलद०।

चित्रलेखा = स्त्री चित्रं लेखयति लिख–अण् उप० स०। १ वाणासुरमन्त्रिणः कुम्भाण्डस्य कन्यायाम् २ अप्सरोभेदे च। तस्याश्च चित्रलेखनदक्षता हरिव० १७६ अ० वर्ण्णिता यथा “ऊषायावचनं श्रुत्वा रामा वाक्यमिदं पुनः। उवाच रुदतीञ्चैव कुम्भाण्डतनया सखी। कुशला ते विशालाक्षि! सर्व्वथा सन्धिविग्रहे। अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्वतां सखि!। अस्याः सर्व्वमशेषं वै त्रै लोक्यं विदितं सदा। एवमुक्ता तदैवोषा हर्षेणागतविस्मया। तामप्रसमानाय्य चित्रलेखां सखीं प्रियाम्। कृताञ्जलिपुटा दीना ऊषा वचनमव्रवीत्। परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भाविनि!। भर्त्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम्। कान्तं पद्मपलाशाक्षं मत्तमातङ्गविक्रमम्। त्यक्ष्याम्यहं प्रियान् प्राणांस्ततः कमललोचने!। चित्रलेखाऽब्रवीद्वाक्यमूषां हर्षवती शनैः। नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भाविनि! सुव्रते!। न कुलेन न वर्णेन न शीलेन न रूपतः। न देशतश्च विज्ञातः सहि चोरो मया सखि!। किन्तु शक्यं यथा कर्त्तुं बुद्धिपूर्व्वं मया सखि!। प्राप्तुञ्च शृणु मे वाक्यं यथाकाममवाप्स्यसि। देवदानवयक्षाणां गन्धर्व्वोरगरक्षसाम्। ये विशिष्टाः प्रभावेण रूपेणाभिजनेन च। यथाप्रधानतः सर्व्वानालिखिष्याम्यहं सखि!। मनुष्पलोके ये चापि प्रवरा लोकविश्रुताः। सप्तरात्रेण ते भीरु। दर्शयिष्यामि तानहम्। ततो विज्ञाय पट्टस्थं भर्त्तारं प्रतिलप्स्यसे। सा चित्रलेखया प्रोक्ता ऊषा हितचिकीर्षया। क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम्। ततः कुशलहस्तत्वाद्यथालेख्यं समन्ततः। इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान्। चित्रपट्टगतान् मुख्यानानयामास शोभना। ततः प्रस्तीर्य्य पट्टं सा चित्रलेखा स्वयंकृतम्। ऊषायै दर्शयामास सखीनाञ्च विशेषतः”। “ततस्तुदेव्या रूपेण चित्रलेखा वराप्सराः” तत्राध्यायादौ। भाग० १०। ६२ अ०। कुम्भाण्डकन्यया चित्रलेखयैव तथा चित्रं लिखितमित्युक्तं यथा “वाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता। सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता” इत्युपक्रमे। “चित्रलेखोवाच व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते। तमानेष्ये नरं यस्ते मनोहर्त्ता तमादिश। इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान्। दैत्यविद्याधरान् यक्षान् शूरमानकदुन्दुभिम्। व्यलिस्यत् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता। अनिरुद्धं विलिखितं वीक्ष्यैषाऽवाङ्मुखीह्रिया। सोऽसावसाविति प्राह स्मयमाना महीपते!। चित्रलेखा तमाज्ञाय शौर्य्यं कृष्णस्य योगिनी। ययौ विहायसा राजन्! द्वारकां कृष्णपालिताम्” “मन्दाक्रान्ता नपरलघुयुता चित्रलेखा” छन्दोम० उक्ते ३ अष्टादशाक्षरपादके “सद्राश्वैर्मननततमकैः कीर्त्तिता चित्रलेखेयम्” वृ० र० टी० उक्ते च ४ छन्दोभेदे। “ससजा मजगा गु दिक्स्वरैर्भवति चित्रलेखा” वृ० र० टी० उक्ते ५ छन्दोभेदे। ६ व्रजाङ्गनामेदे। “शङ्केऽमुष्मिन् जगति मृगदृशां साररूपं यदासोदाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि। नैतादृक् चेत् कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्यां नयनयुगमभूत् चित्रलेखाद्भुतायाम्” उज्ज्वलमणिः कर्म्म०। ७ चित्रायां रेखायाम् स्त्री रलयौरेक्यात् ६ त०। ७ चित्रस्य लेखने पु०। “ऊषाऽनिरुद्धसमागममिव, चित्रलेखादर्शितविचित्रसकलभुवनाकारम्। (राजकुलम्) काद०।

चित्रलोचना = स्त्री चित्रं लोचनमस्याः। शारिकाखगे जटाधरः।

चित्रवदाल = पु० चित्रवद् आ समन्तात् अलति आ + अलअच्। पाठीनमतस्ये (वोयाइल) जटाघरः।

चित्रवर्म्मन् = पु० १ धृतराष्टपुत्रभेदे “चित्रबाहुश्चित्रवर्म्मा” मा० आ० ६७ अ०। चित्रं वर्म्मास्य। २ चित्रकवचयुक्ते त्रि०।

चित्रवल्लिक = पु० वल्लीव कायति कै–क पृषो० ह्रस्वः कर्म्म०। पाठीनमत्स्ये हेमच०

चित्रवल्ली = स्त्री० नित्यकर्म्म०। १ मृगेर्वारौ ३ महेन्द्रवारुण्याञ्च राजनि० कर्म्म०। ३ चित्रायां लतायाम्।

चित्रवहा = स्त्री चित्रं वहति वह–अच्। भारतप्रसिद्धे नदीभेदे “करीषिणीं चित्रबहां चित्रसेनाञ्च निम्नगाम्” भा० भी० ९ अ०। नानानद्युक्तौ “ऋषिकूल्या तथा मेध्या नदी चित्रवहा तथा” भा० आनु०१६५ अ० तीर्थोक्तौ।

चित्रवाण = पु० १ धृतराष्ट्रपुत्रभेदे “चित्रवाणश्चित्रवर्म्मा सुवर्म्मा दुर्विमोचनः” भा० आ० ११० अ०। २ चित्रशरयुक्ते ति०

चित्रवाहन = पु० मणिपूरेश्वरे नागभेदे। “मणिपूरेश्वरं राजन्! धर्म्मज्ञं चित्रवाहनम्” भा० आ० २१५ अ०।

चित्रवीर्य्य = पु० चित्रमाश्चर्य्यं वीर्य्यमस्य। रक्तैरण्डे। राजनि०।

चित्रवेगिक = पु० चित्रवेगोऽस्त्यस्य ठन्। नागभेदे “वराहको वीरणकः सुचित्रश्चित्रवेगिकः” भा० आ० ५७ अ०। नागोक्तौ।

चित्रशाला = स्त्री चित्रलेखननिर्म्माणार्था शाला। चित्रलेखननिर्म्माणार्थायाम् शालायाम्, जालिन्याम् हेम०।

चित्रशिखण्डिज = पु० चित्रशिखण्डिनोऽङ्गिरसो जायते जन–ड। वृहस्पतौ अमरः। चित्रशिखण्डिप्रसूतादयोऽप्यत्र।

चित्रशिखण्डिन् = पु० चित्रः शिखण्डः अस्त्यस्य इनि। “मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। वमिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः” इत्युक्तेषु सप्तसु मुनिषु अमरः। “ये हि ते ऋषयःख्याताः सप्र चित्रशिखण्डिनः। तैश्चैकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्”। “मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वशिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः। सप्त प्रकृतयो ह्येतास्तथा स्वायम्भवोऽष्टमः। एताभिर्धार्य्यते लोकास्ताभ्यः शास्त्रं विनिःसृतम्” भा० शा० ३३७ अ०।

चित्रशिरस् = पु० चित्रं शिरोऽस्य। १ गन्धर्व्वभेदे “महाश्रुति श्चित्रशिरा ऊर्णायुरनघस्तथा” हरिवं० २६१ अ० गन्धर्वभेदोक्तौ। २ मूत्रपुरीषविषे सत्वभेदे सुश्रु० “चित्रशिरः सरावकुर्द्दिशतदारुकारिमेदकशारिकामुखामुखसन्दश विशर्द्धिता मूत्रपूरीषविषाः” मुश्रुतः।

चित्रशीर्षक = पु० चित्रं शीर्षमस्य कप्। कीटभेदे सुश्रुतः। कीटशब्दे २०५८ पृ० दृश्यम्।

चित्रसर्प = पु० नित्यकर्म्म०। मालुधानसर्पे शब्दर०।

चित्रसेन = पु० धृतराष्ट्रपुत्रभेदे “तेषां धृतराष्ट्रस्य पुत्राणां चत्थारः प्रघाना बभूवुः। दुर्य्योधनो दुःशासनोविकर्ण्णश्चित्रसेनश्चेति” भा० आ० ९५ अ०। २ गन्धर्वभेदे। चित्रसेनश्च शीतोष्णस्तथा चित्ररथोऽपि च। एते चान्ये च गन्धर्वा धनेश्वरमुपासते” भा० स० १० अ०। ततस्तं खेचराः सर्वे चित्रसेने न्यवेदयत्। गन्धर्वराजस्तान् सर्वानव्रवीत् कौरवान् प्रति” भा० व० २४० अ०। अर्जुनेन तत्पराजयकथा तत्रैव दृश्यम्। “क्रुद्धोगन्धर्वराजानं चित्रसेनमरिन्दमम्। विजिग्ये तरसा संख्ये सेनां प्राप्य सुदुर्जयाम्” भा० वि० ४९ अ०। चित्रगुप्तादित्रितयान्तर्गते मर्त्यलोकविवेचके व्रह्मपादजक्षत्रियभेदे कायस्थशब्दे १९३३ पृ० दृश्यम्। ५ नदीभेदे स्त्री चित्रवहाशब्दे दृश्यम्।

चित्रहस्त = पु० चित्र आश्चर्य्योहस्तः हस्तक्रिया यत्र। मल्ल युद्धाङ्गहस्तक्रियाभेदे “चित्रहस्तादिक कृत्वा कक्षाबन्ध च चक्रतुः” मा० स० २२ श्र०। भीमजरासन्धयोर्मल युद्धवर्णने।

चित्रा = स्त्री चित्र–अच्। १ मूषिकपर्ण्यां २ गोडुम्बायां ३ सुभद्रायां ४ दन्तिकायां ५ मायायां ६ सर्पभेदे ७ नदीभेदे च मेदि०। ८ चित्रगुप्तस्य भगिन्यां सा च नदी भूत्वा चित्र पथा नदी जाता सैव चित्रा नदी। चित्रपथाशब्दे दृश्यम् ९ अप्सरोभेदे हेमच०। १० व्रजाङ्गनाभेदे उज्ज्वलमणिः। “परमप्रेष्ठमध्ये तु ललिता सविशाखिका। सचित्रा चम्पकलता तुङ्गविम्बेन्दुलेखिका। रङ्गदेवी सुदेवी। चेत्यष्टौ सर्वगुणाः श्रिया” “चित्रानाम यच्छन्दोऽस्मिन् स्युस्त्रयोमास्ततो यौ” वृ० टी० उक्ते पञ्चदशाक्षरपादके वर्ण्णवृत्तभेदे। राशिचक्रस्थे १२ नक्षत्रभेदे। सा त राशिचक्रस्य १७३। २० अवधि १८६। ४० पर्य्यन्तं १३। २० अंशाद्यात्मिका तत्स्वरूपादिकम् अश्लेषाशब्दे ४९७ पृ० उक्तम्। “हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव” रघुः। चित्रानामके चन्द्रकलत्रे १३ दक्षकन्याभेदे च। १४ मृगेर्वारौ १५ श्वेतदूर्वायां १६ मञ्जिष्ठायां राजनि०। चित्रायां जाता अण् “चित्रारोहिणी कृत्रिकारोहिणीभ्यः स्त्रियामुपसंख्यानम्” वार्त्ति० जातार्थाणो लुक्। १७ चित्राजातायां स्त्रियां स्त्रीभिन्ने तु न लुक् चैत्रः इत्येव।

चित्राक्ष = त्रि० चित्रमक्षि यस्य षच् समा०। चित्रनेत्रयुक्ते स्त्रियां षित्त्वात् ङीष्। सा च २ शारिकाखगे त्रिका० ३ धृतराष्ट्रपुत्रभेदे पु० “चित्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह” भा० आ० ६७ अ०।

चित्राक्षुप = पु० नित्यक० पृषो० द्रोणपुष्प्याम् शब्दार्थ चि०।

चित्राङ्ग = पु० १ धृतराष्ट्रपुत्रभेदे। “अयोबाहुर्महावाहुश्चित्राङ्ग श्चित्रकुण्डलः” भा० ११७ अ० तत्पुत्रोक्तौ। २ चित्राङ्गयुक्तमात्रे त्रि०। ३ रक्तचित्रके ४ सर्पभेदे ५ चित्रके (चिते) राजनि०। चित्रमङ्गं यस्मात्। ६ हरिताले ७ मञ्जिष्ठायां ८ हिङ्गुले च न० राजनि०।

चित्राङ्गद = पु० शान्तनोः सत्यवत्यां जाते पुत्रभेदे। “भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति तस्यां पूर्ब्बं कानीनो गर्भः पराशराद् द्वैपायनोऽभवत्। तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः। विचित्रवीर्य्यश्चित्राङ्गदश्च तयो रप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्य्यस्तु राजासीत्” भा० आ० ९५ अ०। ब्रह्मपादजचित्रगुप्तादित्रितयान्तर्गते अधोलोकविचारके २ क्षत्रभेदे च। कायस्थभेदं चित्राङ्गदमुपक्रम्य “कलेर्दश सहस्राणि नागलोकेश्वरोभव। ततस्त्रिलोकनाथ स्त्वमिन्द्रतुल्योभविष्यसि” इति प्रति तं ब्राह्मणशापमुक्त्वा। “तत आनन्दमनसा गतश्चित्राङ्गदस्तलम्” इत्युक्तम् आचार निर्णयतन्त्रे। ४ गन्धर्वभेदे। हरिवं० १०८ अ० दृश्यम्। ५ अप्सरोभेद स्त्री। “अलम्बूषा घृताची च चित्रा चित्राङ्गदा रुचिः” भा० आनु० १९०। मणिपूरेश्वरचित्रवाहनस्य कन्यायाम् ३ अर्जुनकलत्रभेदे च स्त्री “अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्। मणिपूरेश्वरं राजन्! धर्म्मज्ञं चित्रवाहनम्। तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना। तां ददर्श पुरे तस्मिन् विच- रन्तीं यदृच्छया। दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम्” भा० आ० १२५ अ० “चित्राङ्गदा वरारोहानपराध्यति किञ्चन” भा० आश्व० ८१ अ०

चित्राङ्गद = सू स्त्री चित्राङ्गदं सूते सू–क्विप् ६ त०। सत्यवत्यां शान्तनुनृपकलत्रभेदे राजनि०।

चित्राटीर = पु० चित्रां नक्षत्रमटति चित्रं वा अटति अटवा० ईरच्। १ चन्द्रे २ घण्टाकर्णे शिवानुचरभेदे ३ बलिछागरक्ताङ्कितभाले च मेदि०।

चित्रादित्य = पु० चित्रस्य चित्रगुप्तस्य आदित्यः तत्पूजितत्वात्। प्रभासतीर्थस्थे चित्रगुप्तस्थापिते आदित्यमूर्त्तिभेदे चित्रपथाशब्दे दृश्यम्।

चित्रान्न = न० नित्यकर्म्म०। चित्रौदने “दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च” याज्ञ० तल्लक्षणन्तु “अजाक्षीरेण संस्विन्ना यवाश्च तिलतण्डुलाः। अजाकर्णस्य रक्तेन रक्ताश्चित्रान्नसंज्ञिताः” दीपिकोक्तम्।

चित्रापूप = पु० नित्यकर्म्म०। पिष्टकभेदे त्रिका०।

चित्रामघा = स्त्री ऊषसि निघण्टुः।

चित्रायस = न० कर्म्म० अच्समा०। तीक्ष्णलौहे (इस्पात)। राजनि०।

चित्रायुध = त्रि० चित्राण्यायुधान्यस्य। १ आश्चर्य्यायुधयुक्ते २ धृतराष्ट्रपुत्रभेदे पु० “चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा” भा० आ० ११७ आ०। “कार्य्यैश्चित्रान्तराश्चित्रा श्चित्रायुधमुदावहन्” भा० द्रो० २३ अ०। कर्म०। आश्चर्य्यायुधे न० चित्रायुधसुरक्षितम्” भा० स० १६ अ०।

चित्रारम्भ = पु० आरभ्यते आ + रभ कर्मणि घञ् ७ त०। चित्रलिखितपुत्तलिकादौ।

चित्रार्पितारम्भ = त्रि० चितेऽर्पित आरम्भोऽस्य। चित्रलिखिते “तच्छासनात् काननमेव सर्वं चित्रार्पितारम्भमिवावतंस्थे” कुमा०।

चित्रावसु = पु० चित्राणि विविधानि चन्द्रार्कर्क्षाणि वसन्ति यस्यां वस उ–पृ० दीर्घः। रात्रौ “रात्रिर्वै चित्रावसुः सा चित्राणि संगृह्य वसतीति” शत० व्रा० २। ३। ४। १२। “चित्राणि ग्रहनक्षत्रादीनि” भा०। “चित्रावसो। स्वस्ति ते पारमसीय” यजु० ३। १८।

चित्रिक = पु० चैत्रिक + पृषो०। चैत्रमासे शब्दरत्ना० चित्रा स्वार्थे क। चित्राशब्दे स्त्री।

चित्रिन् = त्रि० चित्र–णिनि चित्र + अस्त्यर्थे इनि वा। १ आश्चर्य्यकारके २ चित्रयुक्ते च। स्त्रियां ङीप्। “भ्रमिश्चिद्घासि तूतुजिरा चित्रिणीष्वा” ऋ० ४। ३२। २। “चित्रिणीषु चित्रकर्मयुक्तासु” भा०। ३ नायिकाभेदे स्त्री रतिमञ्जरी। “भवति रतिरसज्ञा नातिदीर्घा न खर्व्वा तिलकुसुम सुनासा स्निग्धदेहोत्पलाक्षी। कठिनघनकुचाढ्या सुन्दरी सा सुशीला सकलगुणविचित्रा चित्रिणी चित्रवक्त्रा। पद्मिनी चित्रिणी चैव शङ्ख्हिनी हस्तिनी तथा। शशो मृगो वृषोऽश्वश्च स्त्रीपुंसोर्जातिलक्षणम्। शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम्। वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम्। पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी। शङ्खिनी क्षारगन्धा च मन्दगन्धा च हस्तिनी”।

चित्रेश = पु० ६ त०। १ चन्द्रे शब्दच०। २ चित्रेश्वरशिवलिङ्गे न०

चित्रेश्वर = न० प्रभासक्षेत्रस्थे चित्रगुप्तस्थापिते शिवलिङ्गभेदे यथा “ततो गच्छेन्महादेवि! चित्रेश्वरमनुत्तमम्। घनुषां सप्तके तस्य स्थितमाग्नेयदक्षिणे। लिङ्गं महाप्रभावं हि सर्वपातकनाशनम्। तत्र चित्रेश्वरं पूज्य नरकात् न मवेद्भयम्। यत्तदस्थिगतं पापं चित्रोमार्जयति प्रिये! तस्मात् सर्वप्रयत्नेन चित्रेशं पूजयेत् सदा। तस्मात् पाप युतोवापि नरकं नैव पश्यति”।

चित्रोक्ति = स्त्री चित्रा आश्चर्य्यकरी उक्तिः। आकाशबाण्यां त्रिका०। २ चित्रकथने च।

चित्रोपला = स्त्री ६ त०। चित्र उपलोयस्याम्। १ नदीभेदे। “चित्रीपलां चित्रपथां मञ्जुलाम् मञ्जुवाहिनीम्” भा० स्त्रीप० ९ अ०। नदीकथने। इयं चित्रोत्पलेति पुरुषोत्तमतत्त्वे उक्ता। “नदी तत्र महापुण्या विष्णुपादविनिर्गता। चित्रोत्पलेति विख्याता सर्वपापहरा शुभा” “चित्रोत्पला महानदी” रघुनन्दनः।

चित्रौदन = पु० नित्यकर्म०। केतुवलिरूपे चित्रान्ने चित्रान्नशब्दे लक्षणमुक्तम्। “चित्रोदनञ्च केतुभ्यः सर्वमक्ष्यैः समर्च्चयेत्” संस्का० त०।

चित्र्य = त्रि० चित्र–कर्मणि यत्। पूज्ये “सूय्य मा घत्थोदिवि चित्र्यं रथम्” ऋ०५। ६३। ७। “चित्र्यं पूज्यम्” भा०।

चिद् = अव्य०। चित् + पृषो०। १ असाकल्ये चिच्छब्दार्थे। तस्य असाकल्यार्थत्वेऽपि “अथ निपाता उच्चावच्चेष्वर्थेषु निपतन्त्युपमार्थेऽपि” निरुक्तोक्तेः अव्ययाना मनेकार्मत्वात् वा २ उपमायाम्। “दघि चिदित्युपमार्थे” निरु०। ३ निन्दायाम् “कुन्माषांश्चिदाहरेदिति कुत्सिते” निरु०। “चनचिदिवगोत्रादितद्विताम्रेडि- तेषु गतेः” पा० षट्मु परेषु तिङन्तं नानुदात्तम्। देवः पचति चित्” सि० कौ० “किंवृत्तं च चिदुत्तरम्” पा०। “अविद्यमानपूर्वं चिदुत्तरं यत् किंवृत्तं तद्युक्तं तिङन्तं नानुदात्तम्”। “विभक्त्यन्तं डतरडतमान्तकिमोरूपं किं वृत्तम्” सि० कौ०।

चिदाकाश = पु० न०। चिद् आकाशमिव निर्लेपत्वात् सर्व्वाधारत्वाच्च। आकाशवन्निर्लेपे शुद्धे ब्रह्मणि।

चिदात्मन् = पु० चित् चैतन्यमात्मा स्वरूपमस्य। चैतन्यस्वरूपे परात्मनि प्रत्यगात्मनि परपुरुषे। “एतद्रूपं भगवतोह्यरूपस्य चिदात्मनः” भाग० १। ३। ३५। श्लोकः

चिदाभास = पु० चित आभासः प्रतिविम्बः। बुद्धावात्म प्रतिविम्बे जीवे “बुद्धिवृत्तिचिदाभासाविति वेदान्तका०। चित्रदोपशब्दे दृश्यम्।

चिद्रूप = पु० चिदेव रूपमस्य। १ आत्मनि, २ स्फूर्त्तिमति च। ३ हृदयालौ हेमच०।

चिन्तन = न० चिति–भावे ल्युट्। अनुध्याने “परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम्” मनुः। युच्। चिन्तनाप्यत्र स्त्री।

चिन्ता = स्त्री चिति–भावे अ। १ अनुध्याने सा० द० उक्ते २ व्यभिचारिगुणभेदे च तत्र “सधृतिचपलताग्लानिचिन्ता वितर्काः” व्यभिचारिणो विभज्य “ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत्” सा० द० लक्षि तम्। “चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः” चाणक्यम्। “चिन्तामपरिमेयाञ्च प्रलयान्तामुपाश्रिताः” गीता। “धर्मक्रियात्मचिन्ता च सात्विक गुणलक्षणम्” मनुः। ३ दर्शनसंभोगभावनाभेदे रसमञ्ज०।

चिन्तामणि = पु० चिन्तायां सर्वकामदोमणिः शा० त०। चिन्तितार्थप्रदे मणिभेदे। “चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान्” हरिवं० १५२ अ०। “सामर्थ्यसम्पादितवाञ्छितार्थचिन्तामणिः स्यान्न कथं हनूमान्” भट्टिः। २ सर्वकामदे परमेश्वरे च “आयुरारोग्यमर्थञ्च भोगांश्चैवानुषङ्गिकान्। ददाति ध्यायतां नित्यम् सर्वकामप्रदोहरिः” इत्युक्तेस्तस्य तथात्वम्। ३ मन्त्रविशेषे “सहजस्थानगो भौमो भाग्यस्थश्च वृहस्पतिः! चिन्तामणिसमाख्योऽयं यातुः संकल्पपूरकः” ज्यो० उक्ते ४ यात्रायोगभेदे ५ बुद्धवेदे त्रिका०। ६ स्पर्शमणौ “यथा चिन्तामणिं स्पृष्ट्वा लौहं काञ्चनतां व्रजेत्”। पद्मोत्त० ख० कपिलगृहप्रादुर्भूते तदीयचिन्तामणिहारकगणदैत्यनाशके ७ गणेशभेदे तत्कथा “गणं हत्वा महावीर्यं चिन्तामणिस्त्वया-ऽऽहृतः चिन्तामणिरिति ख्यातं तव नाम भविष्यति। अमुञ्चिन्तामणिं नाथ! त्वमेव स्वीकुरु प्रभो”!। “मुनिना कपिलेनासौ प्रार्थितोऽभिजिताऽपि च। मणिञ्चिन्तामणिन्धृत्वा शुशुभे स विनायकः। चिन्तामणिरिति ख्यातिन्ततोऽपि परभां दधौ। कपिलस्य गृहे जातः कपिलाख्यामतो ययौ” स्क० पु० गणपतिकल्पे

चिन्तामणिविनायक = पु० काशीस्थे गणपतिमूर्तिभेदे “चतुर्थावरणे काश्यां भक्तविघ्नविनायकाः। द्रष्टव्या हृष्टचेतोभिः स्पष्टमष्टौ बिनायकाः” इत्युपक्रमे “हेरम्बा द्वह्निदिगुभागे चिन्तामणिविनायकः। भक्तचिन्तामणिः साक्षात् चिन्तितार्थसमर्पकः” काशी ५० अ०।

चिन्तावेश्मन् = न० ६ त०। यन्त्रणागृहे।

चिन्ति = पु० चिति–इन्। देशभेदे तस्य सुराष्ट्रेण सह द्वन्द्वे कार्त्तकौजपा० पूर्वपदप्रकृतिस्वरः चिन्तिसराष्ट्राः।

चिन्तिडी = स्त्री तिन्तिडी + पृषो०। तिन्तिडीवृक्षे द्विरूको०।

चिन्तित = त्रि० चिति–कर्म्मणि क्त। चिन्ताकर्म्मणि “सख्या सुखं समुपयास्यसि चिन्तितानि” किरा०। कर्त्तरि क्त। २ चिन्तायुक्ते ३ तन्नामिकायां स्त्रियां स्त्री। भावे क्त। ४ चिन्तायाम् न०।

चिन्तिति = स्त्री० चिति–क्तिन् बा० इट्णिलोपश्च। चिन्तायाम् शब्दरत्ना०।

चिन्तिया = स्त्री० चिन्ता + स्वार्थे बा० घ। चिन्तायां त्रिका०।

चिन्त्य = त्रि० चिति–कर्म्मणि यत्। चिन्तनीये “केषु केषु च भावेषु चिन्त्योऽसि भगवन्! मया” गीता। “अयं हि सर्वधर्म्माणां धर्म्मश्चिन्त्यतमोमतः” भा० आनु० ४४ अ०।

चिन्त्यद्योत = पु० चिन्त्यःसन् द्योतते द्युत–अच्। देवभेदे। “गणा देवागामूष्मपाः सोमपाश्च लोकाः सुयामास्तुषिता ब्रह्मकायाः। आभासुरा गन्धपा दृष्टिषाश्च वाचा विरुद्धाश्च मनोविरुद्धाः। शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च। चिन्त्यद्योता ये च देवेषु मुख्याये चाप्यन्यादेवताश्चाजमीढ!। सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा चारणपन्नगाश्च” भा० अनु० १८ अ०।

चिपिट = पु० चि–पिटच् किच्च। (चिडा) ख्याते पृथुके हेमच०। तत्करणप्रकारादि भावप्र० उक्तं यथा “शालयः सतुषा आर्द्रा भृष्टा अस्फुटितास्ततः। कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका अपि। शालयो यवनालाद्याश्चिपिटा पुष्टिवर्द्धनाः”। अस्य भक्ष्याभक्ष्यत्वं यथा “द्विः स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके। नात्य- न्तशस्तं विप्राणां भोजने च निवेदने। अभक्ष्य तत् यतीनाञ्च विधवाब्रह्मचारिणाम्” ब्रह्मवै० पु०। “नासिकाया नते इनच् पिटच् चिकचि च” पा० वार्त्ति० पिटच् प्रकृतेश्चिः। २ नतनासिकायां (खांदा) ३ तद्दति त्रि० (चेपटा) ४ ख्याते पदार्थे “करतलपीडनचिपिटीकृतश्रवणपुटेन” काद०। “उन्नतो मांसलोऽङ्गुष्ठो वर्त्तु लोऽतुलभोगदः। वक्रोह्रस्वश्च चिपिटः सुखसौभाग्यभञ्जकः। चिपिटीभिर्भवेद्दासी” इति काशी० ख० ३७। प्रान्ते अङ्गुल्यानिपीडनेन ५ नेत्रस्याकुलतायाम्। “अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः” नैष०। “दृगन्तचिपिटीकरणं नेत्रान्ताकुलीकरणम्” मलि०। अङ्गुल्या हि नेत्रप्रान्तनिपीडने एकपदार्थस्य द्विधा भानं लोकप्रसिद्धम्। ६ गुण्डाशिनीतृणे स्त्री राजनि०। पृषो० चिपटोऽपि पृथुके हेमच०। स्वार्थे क। चिपिटक पृथुके अमरः।

चिपिटनासिक = पु० चिपिटा नासिका यत्र। १ देशभेदे स च देशः “उत्तरतः कैलासः” इत्युपक्रमे “केशधरचिपिट नासिकदासेरकवाटधानाः” वृ० स० १४० अ० कूर्मविभागे उत्तरस्यामुक्तः। सोऽभिजनोऽस्य अणः तद्राजाणो वा बहुत्वे लुक्। २ तद्देशवासिषु ३ तन्नृपेषु च ब० व०।

चिपुट = पु० चिपिट + पृषो०। पृथुके रुद्रः।

चिप्प = पु० “नखमांसमधिष्ठाय वातं पित्तं च देहिनाम। करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत्” भाव० उक्ते नखरोगभेदे। (आङ्गुल हाडा)

चि(छि)प्पिका = पु० रात्रिचरजन्तुभेदे “लोमाशिकाषिङ्गल चि(छि)प्पिकाख्यौ वल्गुल्युलूकौ शशकश्च रात्रौ” वृ० स० ८८ अ०। “सर्वे स्वकालोत्क्रमचारिणः स्युर्देशस्य नाशाय नृपान्तदा वा” तस्य दिवाचारेऽनिष्टफलमुक्तम् “नानाविधानि विरुतानि हि चि(छि)प्पिकायास्तस्था शुभः कुलुकुलु र्न शुभास्तु शेषाः” वृ० स० ८८ अ०।

चिप्य = पु० स्वश्रुतोक्ते कृमिभेदे कृमिशब्दे दृश्यम्।

चिमि = पु० चि–बा० मिक्। १ शुकखगे शब्दरत्ना०। २ पट्टकवृक्षे (पाटशाक) शब्दमाला। स्यार्थे क तत्रार्थे।

चिर = न० चि–रक्। १ दीर्घकाले। २ तद्वर्त्तिनि पदार्थे ति०। लघ्वादौ (।ऽ) त्रिकले गणे शब्दार्थचि० “दीर्घसूत्री चिरक्रियः” अमरः। चिरजीवी चिरकारी चिरकालादि।

चिरकारिन् = त्रि० चिरेण करोति कृ–णिनि। १ चिरेण कर्म कर्तरि दीर्घसूत्रे। २ गौतमस्य पुत्रभेदे पु०। “चिरकारो महाप्राज्ञो गौतमस्याभवत् सुतः। चिरेण सर्वकार्य्याणि विमृष्यार्थान् प्रपद्यते। चिरं सञ्चिन्तयतयाश्चिरं जाग्रत् चिरं स्वपन्। चिरं कार्य्याभिपत्तिञ्च चिरकारी तथोच्यते” भा० शा० २६७ अ०। तस्य चिरकारिताफलं तत्राध्याये वर्ण्णितम्। स्वार्थे क, चिरःकारः क्रियाऽस्त्यस्य ठन् वा। चिरकारिकोऽप्यत्र ततैवोदा०

चिरकाल = पु० कर्म्म०। दीर्घकाले।

चिरक्रिय = त्रि० चिरा क्रिया यस्य। दीर्घसूत्रे विलम्बेन क्रियाकारके अमरः।

चिरजात = त्रि० चिरं दीर्घकालं जातः। दीर्घकालजाते। इन्दद्यम्नशब्दे ९४५ पृ० उक्ते भा० व० वाक्ये उदा०

चिरजीवक = पु० चिरं जीवति जीव–ण्वुल्। १ जीवकवृक्षे। जटांधरः। २ चिरजीवनयुते त्रि०

चिरजीविका = स्त्री कर्म्म०। दीर्घकालवृत्तौ “वृणीष्व विचं चिरजीविकाञ्च कठ० उ०

चिरजीविन् = त्रि० चिरं जीवति जीव–णिनि। १ दीर्घकालजीवनयुक्ते २ विष्णौ ३ काके च पु० मेदि० ४ जीवकवृक्षे ५ शालमलिवृक्षे पु० राजनि०। ६ मार्कण्डेये “अश्वत्थामा वलिर्व्यासो हनुमांश्च विभीषणः। कृपः परशुरामश्च जप्रैते चिरजीविनः” ति० त० उक्तेषु ७ अश्वत्थामादिषु “चिरजीवी यथा त्वं भोः” ति० त०। मार्कण्डेयपूजामन्त्रः। अथ राज्ञोबभूवैव वृद्धस्य चिरजीविनः” (दशरमस्य) रामा० अयो० १। ३६। श्लोकः।

चिरञ्जीविन् = पु० चिरं जीवति जीव–णिनि। चिरजीविपदार्थे।

चिरण्टी = स्त्री चिरेण अटति पितृगृहात् भर्तृगेहम् अट–अच् पृषो०। १ यौवनवत्यां पितृगेहस्थायां स्त्रियाम्। अमरः २ युवत्यां रुद्रः।

चिरतिक्त = पु० चिरस्तिक्तो रसो यत्र। (चिराता) भूनिम्बे शब्दरत्ना०।

चिरत्न = त्रि० चिरे भवः चिर + त्न। चिरन्तने पुरातने जटा०।

चिरन्तन = त्रि० चिरम् + भवार्थे ट्युल् तुट् च। पुरातने अमरः। “स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्” माघः। स्त्रियां ङीप्।

चिरपाकिन् = पु० चिरेण पाकोऽस्त्यस्य दुर्ज्जरत्वात् इनि। कपित्थो राजनि०।

चिरपुष्प = पु० चिराणि पुष्पाण्यस्य। बकुलवृक्षे राजनि०।

चिरम = अव्य० चि–बा० रमुक। बहुकालार्थे हेम०। “चिरं चकोरस्य भवन्मुखस्पशी” नैष०। “ततः प्रजानां चिरभात्मना धृताम”। “विपक्षभावे चिरमस्य तस्थुषः” रघुः। एषु क्रियाविशेषणत्वात् चिरशब्दात् द्वितीयेत्यपि भवितुमर्हति। चिरन्तनः चिरञ्जीवन इत्याद्येवात्र उदा०

चिरमेहिन् = पु० चिरेण मेहति मिह–णिनि। दीर्घकालेन प्रस्रावकारिणि गर्द्दभे हेमच०।

चिरम्भण = पुंस्त्री० चिरं भणति भण–अच्। चिल्ले त्रिका०। तस्य दीर्घकालरावात्तथात्वम्।

चिररात्र = न० चिरा रात्रिः योगविभागात् अच् समा०। दीर्घकाले “चिररात्रोषिता स्मेह ब्राह्मणस्य निवेशने” भा० आ० १६८ अ०। “चिररात्रेप्सितं कर्म्म तद्भवात् कर्तुमर्हति” भा० उ० ६३ अ०।

चिररात्राय = अव्य० चिररात्रमयते अय–अण् उप० स०। दीर्घकाले। “हविर्यद् चिररात्राय तच्चानन्त्याय कल्पते” मनुः “शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्” भा० व० १३१ अ०।

चिरलोक = पु० चिर चिरकालस्थायी लोकोयेषाम्। प्राप्तपितृलोकेषु पितृषु “स एकः पितॄणां चिरलोक लोकानामानन्दः” तैत्ति० उ०। “चिरकालस्थायी लोको येषां पितॄणां चिरलोकाः पितरः” भा०।

चिरविल्व = पु० चिरं विलति विल–भेदने व। करञ्जवृक्षे अमरः। “चिरविल्वयुतं पुण्यं पनसार्जुनसंकुलम्। भा० श० ५५ अ०।

चिरसूता = स्त्री चिरं सूता। बहुकालप्रसववत्यां गवादौ। अमरः। स्वार्थे क अत्रार्थे

चिरस्थ = त्रि० चिरं तिष्ठति स्था–क। १ चिरस्थायिनि २ नायके पु० त्रिका०। स्था–णिनि। चिरस्थायिन् दीर्घकालस्थायिनि त्रि० स्त्रियां ङीप्।

चिरस्य = अव्य० चिरमस्यते अस–यत् शक०। दीर्घकाले। अमरः। “चिरस्य दृष्टेव मृतोत्थितेव” कुमा०।

चिराटिका = स्त्री चिरमटति अट–ण्वुल् कापि अतैत्त्वम्। श्रेतपुनर्णवायां रत्नमा०। २ चटिकालतायाञ्च (पाताडो) वैद्यकम्। “गोमूत्रशुद्धस्य पुरातनस्य यद्वायऽसस्ताति चिराटिकायाः” वैद्यकम्।

चिरात् = अव्य० चिरमतति अत–क्विप्। १ दीर्घकाले, “चिराद्दारैः समागतम्” रामा० ४। २७। १७। “तस्या चिरान्महतास्नेहेन मृगकाकौ निवसतः” हितो०। २ गरुडे पु० त्रिका०। ३ चिरतिक्ते (चिराता) शब्दर०।

चिराय = अव्य० चिरमयते अर्थ–अण्। चिरकाले दीर्घकाले। “चिराय यदि ते सौम्य! चिरमस्मि न दुःखितः” भा० शा० २६७ अ०। “चिराय नाम्नः प्रथमाभिधेय- ताम्”। “अभीष्टमासाद्य चिराय कालः” माघः।

चिरायुस् = पु० चिरमाबुर्यस्य। १ देवे। २ चिरजीविनि त्रि० त्रिका० “लब्धदौर्हृदा च वीर्य्यवन्तं चिरायुषं च पुत्रं जनयति” सुश्रुतः।

चिरि = हिंसे स्वादि० पर० सक० सेट्। चिरिणोति अचिरायीत्। वैदिकोऽयम्।

चिरि = पु० चि–बा० रिक्। शुकखगे त्रिका०। स्वार्थे क। तत्रार्थे हेमच०

चिरिण्टी = स्त्री चिरण्टी + पृषो०। स्ववासिन्यां पितृगेहस्थायां कन्यायाम् अमरे रिमध्यपाठान्तरम्।

चिरिविल्व = पु० चिरविल्व + पृषो०। करञ्जकवृक्षे भावप्र०।

चिरु = न० चीयते चि–बा० रुक्। बाहुसन्धौ शब्दच०।

चिरे = अव्य० चिरमेति इ–विच्। दीर्धकाले। “चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः” अमरटीकायाम् आद्यशब्देन चिरे चिरेण चिरात् इति गृह्यन्ते” भानुजदीक्षितः।

चिरेण = अव्य० चिर + वा० एनप्। दीर्घकाले “निद्रा चिरेण नयनाभिमुखी बभूव” रघुः। “चिरेण मित्रं बध्नीयात् चिरेण च कृत त्यजेत्। चिरेण च कृतं मित्रं चिरं धारणमर्हति” भा० शा० २६७ अ०।

चिर्भटी = स्त्री चिरेण भटति भट–अच् गौ० ङीष् पृषो०। कर्कट्याम् हेम०।

चिर्भिट = पु० चिर्भटी + पृषो०। १ कर्कटीभेदे गोरक्षकर्कट्याम् (गोमुख) राजनि०। फले न० “चिर्भिटं मधुरं रूक्षं गुरु पित्तकफापहम्। अत्युष्णं ग्राहि विष्टम्भि पक्वं तूष्णञ्च पित्तलम्” भावप्र० तत्फलगुणाक्तिः।

चिल = वासे आच्छादने तु० पर० अक० सेट्। चिलति अचेलीत्। चिचेल।

चिल(मि)मीलिका = स्त्री चिरं मिलति मीलति वा ण्वुल्। रम्यलः १ कण्ठीभेदे २ खद्योते ३ विद्युति च मेदि०।

चिलिचिम = पु० चिल–इन् चिलि वास चिनोति चि–मक्। (वेलेगुडगुडिया) मत्स्यभेदे अमरः। अस्य पृषो० चिलिचीम चिलीचिम चिलीचिमि चिलीचीम चे लिचीम चेलिम स्मिल्लिम चिलीचीमि इति रूपान्तराणि। (चेङ्ग) ख्याते मत्स्यं भरतः।

चिलमीनक = पु० चिल–क कर्म्म० सज्ञायां कन्। (चेङ्गो) मत्स्ये भरतः।

चिल्ल = शैथिल्ये भावकृतौ च भ्वा० पर० अक० सेट्। चिल्लति अचिल्लोत्। चिचिल्ल।

चिल्ल = पु० चिल्ल–अच। १ पक्षिभेदे (चिल) अमरः। क्लिन्न + पृषो०। २ क्लिन्ने त्रि० मेदि०।

चिल्लक = पुंस्त्री चिल्ल इव कायति शब्दायते कै–क। झिल्लि- कायां शब्दरत्ना० चिल्ल + स्वार्थे क चिल्लशब्दार्थे पु० “खरोष्ट्रमहिषा व्याघ्रा। सिंहा सृमरचिल्लकाः” मा० द्रो० अ०।

चिल्लभक्ष्या = स्त्री ६ त०। हट्टविलासिन्यां शब्दच०।

चिल्लाभ = पु० चिल्ल इव प्रसह्यहारित्वादाभाति आ + भा–क। ग्रन्थिभेदके चौरे त्रिका०।

चिल्लि = पु० चिल्ल–इन्। भ्रूमध्ये शब्दार्थचि०। स्यार्थे क तत्रार्थे। “सलिलचरकेतनशरासनानतां चिदिकालताम्” काद०

चिल्ली = स्त्री चिल्ल–बा० ई। क्षुद्रवास्तुकशाके राजनि०। “तण्डुलीयकोपोदकाऽश्ववलाचिल्लीपालङ्क्यावास्तूकप्रभतीनि। सृष्टमूत्र पुरीषाणि सक्षारमधुराणि च। मन्द वातकफान्याहू रक्तपित्तहराणि च। कटुर्विपाके कृमिहा मेधाग्निबलवर्द्धनः। सक्षारः सर्वदोषध्नो वास्त को रोचकः सरः। चिल्ली वास्तूकवत् ज्ञेया पालङ्क्या तण्डुलीयवत्” सुश्रु०। २ झिल्लिकायां शब्दर०। स्यार्थे क। चिल्लिकाप्यत्र।

चिवि = स्त्री चीव–इण् पृषो०। चिवुके जटाधरः।

चिविट = पु० चिपिट + पृषो०। चिपिटे त्रिका०।

चिविल्लिका = स्त्री रक्तदलायां क्षुद्रक्षुपभेदे राजनि०।

चिवु(क) = न० चीव–संवरणे उ पृषो० ह्रस्वः। ओष्ठाघोभा० गे अमरः। “वस्ति तालूदरं शीर्षं चिवुके गलशुण्डिके” याज्ञ०। स्वार्थे क ततैवार्थे। २ सुचकुन्दवृक्षे पु० राजनि०।

चिश्च्या = अव्य० इषुषिशब्दविशेषानुकरणे। “चिश्च्या कृणोति समनावगत्य” ऋ० ६। ७५। ५। चिश्च्येति शब्दानुक रणे इषुषूद्ध्रियमाणेष्विषुधिश्चिश्च्याशब्द करोति” भा०।

चिहण = त्रि० चिक्कण + पृषो०। चिक्कणे “आदिश्चिहणादी नाम्” पा० अस्य क्लीवकन्थशब्दे परे आद्युदात्तता चिहणकन्थम् सि० कौ०।

चिहणादि = पु० क्लीवकन्थशब्दे परे आद्युदात्ततानिमित्ते शब्दगणे स च गणः पा० ग० सूत्रे उक्तो यथा “चिहण मडर मद्रुमर वैतुल पटत्क वैडालिकर्णव वैडालिकर्णि कुक्कुट चिक्कण चित्कण चिहणादिः।

चिहर = पु० चिकुर + पृषो०। चिकुर शब्दार्थचिन्तामाणः।

चिह्न = लक्षणे अ० चु० उभ० सक० सट्। चिह्नयति ते अचिचिह्नत् त। सौत्रोऽयमिति वृद्धाः।

चिह्न = न० चिह्न–अच्, चह–न उपघाया इत्त्वम् वा। लघ्वादिके (।ऽ) १ त्रिकले गणे शब्दार्थचि०। २ लक्षणे च “चक्रे प्रजाः स्वाः सनिमेषचिह्नाः “स्वनामचिह्नं निचखान सायकम्” रघुः।

चिह्नकारिन् = त्रि० चिह्न करोति कृ–णिनि। १ चिह्नकर्तरि २ घोरदर्शने विश्वः स्त्रियां ङीप्।

चिह्नधारिन् = त्रि० चिह्नं धारयति धारि–णिनि। १ चिह्नयुक्ते स्त्रियां ङीप् सा च २ श्यामालतायां शब्दच०।

चिह्नित = त्रि० चिह्न–कर्म्मणि क्त। १ अङ्किते २ लाञ्छिते। “दिवा चरेयुः कार्य्यार्थं चिह्निताः राजशासनैः” मनुः।

चिह्ल = पु० चिह्न + पृषो० (गान्धारी) पर्व्वतप्रसिद्धे वृक्षभेदे शब्दार्थचि०। स्वार्थे क। तत्रार्थे “चिह्लकोवातनिर्हारी श्लेष्मघ्नोधातुपुष्टिकृत्। आग्नेयो विषहृत्तस्य फलं मत्स्यनिषूदनम्” भावप्र०।

चीक = मर्षणे वा चु० उभ० पक्ष भ्वा० पर० सक० सेट्। चीकयति ते चीकति अचीचिकत् त अचीकीत्।

चीचीकुटि = अव्य० शारिकादिशब्दानुकरणे “चीचीकूटीति वाशन्ते सारिका वृष्णिवेश्मसु” भा० मौ० २ अ०। “चीचीकूटीति वाशन्तं त्वामद्य न शृणोमि किम्” हरिव० २० अ०।

चीडा = स्त्री चिड–पृषो०। स्वनामख्याते गन्धद्रव्ये। राजनि०।

चीन = पु० चि–नक् पृषो० दीर्घः। “कश्मीरं तु समारभ्य कामरूपात्तु पश्चिमे। भोटान्तदेशोदेविशि! मानसेशाच्च दक्षिणे। मानसेशाद्दक्षपूर्व्वे चीनदेशः प्रकीर्तितः” शक्ति सङ्गमतन्त्रोक्ते १ देशभेदे। सोऽभिजनोऽस्य अणः तद्राजाणो वा बहुत्वे लुक्। २ तद्देशवासिषु तन्नृपेषु च ब० व०। “वाजिनां च सहस्राणि चीनदेशोद्भवानि च” भा० उ० २७ अ०। अयञ्च देशः वृ० सं० १४ अ० कूर्म्मविभागे ऐशान्यामुक्तः। ऐशान्यामित्युपक्रमे “वनराजकिरातं चीनकौलिन्दाः” “यवनाश्चीनकाम्बोजा दारुणाम्लेच्छजातयः” भा० भी० ९ अ० जनपदोक्तौ। तद्देश नृपाश्च क्रियालोपात् शनैर्वृषलत्वं गताः यथाह मनुः “शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः। वृषलत्वं गता लोके ब्राह्मणादर्शने न च। पौण्ड्रकाश्चोड्रद्रविडाः काम्बोजाः यवनाः शकाः। पारद पह्रवाश्चीनाः किरातादरदाःखसाः”। ४ तद्देशजे वस्यप्रेदे च “कार्ण्णाटीचीन पीनस्तनवमनदशान्दोलनस्पन्दमन्दः” उद्भटः। ५ व्रीहिभेदे अष्टादशधान्यशब्दे ५२४ पृ० दृश्यम्। “चीनकः कङ्कुभेदोऽस्ति स ज्ञेयः कङ्गुवद्गुणैः” भावप्र०। ६ सूत्रे ७ मृगभेदे च मेदि०। ८ पताकायां न० त्रिका०। ९ सीसके न० रत्नमाला तन्त्रोक्ते १० तद्देशवासिजनानामाचारभेदे पु०। पृषो० अस्य णत्वमपि वदन्ति। ११ चीनकर्पुरे राजनि०।

चीनकर्पूर = पु० चीनोपपदः कर्पूरः। कर्पूरभेदे राजनि०।

चीनज = न० चीने तद्देशे जायते जन–ड। १ तीक्ष्णलौहे राजनि०। २ चीनजातमात्रे त्रि०

चीनपिष्ट = न० चीनस्य सीसकस्य पिष्टं चूर्णं ६ त०। (चीनेर सिन्दुर) १ सिन्दूरभेदे हेमच०। चीनं पिष्टमिव। २ सीसके राजनि०।

चीनवङ्ग = न० चीनभवं वङ्गम्। सीसके राजनि०।

चीनांशुक = न० कर्म्म०। चीनाख्ये पट्टवस्त्रभेदे “चीनांशुककेतुसालम्” कुमा०। “चीनांशुकमिव पीनस्तनजघनायाः कुलीनायाः” उद्भटः।

चीनाक = पु० चीनं तदाकार म कति अक–अण्। (चीनिया) कर्पूरभेदे। “चीनाकसंज्ञः कर्पूरःकफक्षयकरः स्मृतः। कुष्ठकृमिविषहरस्तथा तिक्तरसश्च सः” भावप्र०।

चीनाकर्कटी = स्त्री चीनमिव स्वादुः कर्कटी पृषो० दीर्घः। १ राजकर्कट्यां चित्रकूटप्रसिद्धकर्कटीभेदे राजनि०।

चीभ = प्रशंसायां भ्वा० आत्म० सक० सेट्। चीभते अचीभिष्ट। चिचीभे ऋदित् अचिचीभत् त।

चीर = न० चि–क्रन् दीर्घश्च। १ वस्त्रखण्डेः मेदि०। (कानि) “चीराणि किं पथि न सन्ति दिशन्ति भिक्षाम्” शान्तिश०। २ वृक्षत्वचि मुभूतिः। ३ गोस्तने ४ वस्त्रभेदे ५ रेखा लक्षणभेदे मेदि०। ६ वस्त्रमात्रे ७ चूडाया ८ सीसके हेमच०। ९ लिखनभेदे १० वलकले च शब्दार्थचि० “तं कदाचित् तपस्यन्तमार्द्र चीरजटाधरम्” भा० व० १८७ अ०। “चेरुश्चीरपरिग्रहाः” कुमा०।

चीरक = न० चीर + संज्ञायाम् कन्। विकारलेखने विश्वः। स्वार्थे क। चीरशब्दार्थे

चीरपत्रिका = स्त्री चीरमिव पत्रपस्याः कप् अत इत्त्वम्। चञ्चुशाके राजनि०।

चीरपर्ण = पु० चीरमिव पर्णमस्य। शालवृक्षे राजनि०।

चीरनिवसन = पु० चीरं निवसनं वस्त्रं यत्र। “ऐशान्यामित्युपक्रमे “पौरवचीरनिवेशनत्रिनेत्रमुञ्जाद्रिगन्धर्वाः” वृ० सं०१४ उक्ते १ देशभेदे २ तद्देशवासिषु ३ तन्नृपेषु ब० व०। ४ चीरधारिणि त्रि०

चीरल्लि = पु०। पक्षिभेदे “धारयेदपि जिह्वाश्च चाषचीरल्लि सर्पजाः” सुश्रुतः।

चीरि = स्त्री चि–बा० क्रि दीर्घश्च। १ नेत्रांशुके शब्दरत्ना०। २ झिल्लिकायां ३ कच्छटिकायां शब्दार्थचि०

चीरिका = स्त्री चीरीति कायति कै–क। झिल्लिकायां हेमच०।

चीरिणी = स्त्री वैवस्वतमनोस्तपस्यास्थानसमीपस्थे वदरीक्षेत्रस्थे नदीभेदे। “ऊर्द्ध्वबाहुर्विशालायां वदर्य्यां स (वैवस्वतः) नराधिपः। इत्युपक्रमे “तं कदाचित् तपस्यन्तमार्द्रचीर जटाधरम्। चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्” भा० व० १८७ अ०।

चीरितच्छदा = स्त्री चीरवदाचरितः छदो दर्ल यस्याः। पालङ्क्यशाके भावप्र०।

चीरीवाक = पु० चीरीतिशब्दोवाकः वाचकोऽस्य। कीटभेदे “चीरिवाकस्तु लवणं वलाका शकुनिर्दधि” मनुना नवणहरणकर्म्म विपाके तद्योनिरुक्ता” “श्वित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः” याज्ञ० ऐकवाक्यात् अस्य चीरीसमानर्थकताऽवसेया।

चीरुक = स्त्री चीति–रोति–रुशब्दे बा० क। १ झिल्लिकायां शब्दार्थचि०। सा सादृश्येनास्त्यस्य अच्। २ फलप्रधानवृक्षभेदे न०।

चीर्ण्ण = त्रि० चर नक् पृषो० अत इत्त्वम्। १ कृते ३ शीलिते, ३ सम्पादिते “चीर्ण्णव्रतानपि सदा कृतघ्नसंहितानिमान्” याज्ञ०। ४ विदारिते च।

चीर्ण्णपर्ण्ण = त्रि० चीर्णं विदारितं पर्णमस्य। १ खर्जूरवृक्षे २ निम्बवृक्षे च मेदि०।

चीलिका = स्त्री चीति शब्दं लाति ला–क टापि अत्र इत्त्वम् चीरिका + रस्य लोवा। झिल्लिकायां शब्दरत्ना०।

चील्लक = पु० चीदिति शब्दं लक्कति लक्क–अच् पृषो०। झिल्लिकायां शब्दर०।

चीव = ग्रहणे संवृतौ च भ्वा० उभ० सक० सेट्। चीवति ते अचीवीत् अचीविष्ट। चिचीव चिचीये ऋदित्। अचिचीवत् त।

चीव = दीप्तौ चुरा० उभ० सक० सेट्। चीवयति ते अचीचिवत् त

चीवर = न० चि–वरच् नि० दीर्घः चीव–अच् वा। भिक्षु प्रावरणे उज्ज्वलद० “कौपिनाच्छादनं यावत्तावदिच्छेच्च चीवरम्” भा० आ० ९१ अ०। “प्रेतचीवरवसा स्वनोग्रया” रघुः। “पुच्छभाण्डचीवराण्णिङ्” पा० चीवरादर्जने परिधाने च” वार्त्ति० चीवराणि अर्जयति परिधत्ते वा संचीवरयते भिक्षुः सि० कौ०।

चीवरिन् = पु० चीवरमस्त्यस्य इनि। १ भिक्षुके बुद्धभिक्षुके त्रिका०।

चुक्क = पीडने चु० उभ० सक० सेट्। चुक्कयति ते अचुचुक्कत् त।

चुक्कार = पु० चुक्क–भावे–अच् चुक्कं पीडनमाराति सम्यक्ददाति आ + रा–क। सिंहनाद त्रिका०।

चुक्र = न० चक–रक् अत उत्त्वञ्च। १ अम्लरसे २ अम्लवेतस पु० विश्वः २ शाकभेदे, (चुकापालङ्ग) ३ शुक्तभेदे च शब्दार्थचि०। “चुक्रमत्यम्लमुष्णञ्च दीपनं पाचन परम्। शूलगुल्मविबन्धामवातश्लेष्महरम परम्। वमितृष्णास्यवैरस्यहृत् पीडावह्निमान्द्यहृत्” भावप्र०। ५ काञ्चिकप्रभेदे। ६ रसाम्ले ७ सन्धानविशेषे शब्दार्थचि० “यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्रकाञ्जिकम्। धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते। द्विगुणं गुडमध्वारनालमस्तुक्रमादिह” वैद्यकपरिभाषा। ततः दृढा भावे इमनिच्। चुक्रिमन् अम्लत्वे पु०। स्वार्थे क संज्ञायां वा कन्। चुक्रक तत्रार्थे। (चुकपालङ्) शाके न०।

चुक्रफल = न० चुक्रं फलति फल–अच्। वृक्षाम्ले राजनि०।

चुक्रवास्तुक = न० चुक्रं वास्तुकमिय। (चुकपालङ्) शाकभेदे राजनि०।

चुक्रवेधक = न० चुक्रमिव विध्यति विध–ण्वुल्। काञ्जिकभेदे राजनि०

चुक्रा = स्त्री चक–रक् अत उत्त्वम्। १ चाङ्गेर्य्याम् (आमरुल) मेदि०। २ तिन्तिड्यां शब्दर०। स्वार्थे क चुक्रिका। अम्ल लोणिकायाम् (आमरुल्) अमरः।

चुक्राम्ल = न० चुक्रमिवाम्लम्। १ वृक्षाम्ले (चुकापालङ्) २ शाके ३ अम्ललोणिकायां (आमरुल्) स्त्री राजनि०।

चुक्री = स्त्री चुक्र + गौरा० ङीष्। चाङ्गेर्य्याम् “चुक्री त्वम्लतरा स्वाद्वी वातध्नी कफपित्तकृत्। रुच्या लघुतरा पाके वृन्ताकेनातिरोचनी” भावप्र०।

चुक्षा = स्त्री चष बधे बा० स पृषो०। १ हिंसार्या चुक्षा शीलमस्य छत्त्रा० ण। चौक्ष हिंसाशीले त्रि०। “शिलाकीर्ण्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम्। लतावितानसंछन्नं चौक्ष(ण्ड)ण्डमित्यभिधीयते। अश्मादिभिरबद्धं यत् चु(ण्डे)क्षेति च परे जगुः। तत्रत्यमुदकं चौ(ण्डम्)क्ष’ मुनिभिःसमुदाहृतम्” भावप्र० उक्ते जलाधारभेदे। सुश्रुतेन तज्जलस्य चौण्टसंज्ञोक्ता अचौ क्षसलिलक्षालित योनिम्” इति सुश्रुते निदानस्थाने चौक्षेति पाठास्तु लिपिकरप्रमादकृतः भावप्र० बहुषु पुस्तकेषु चौण्डमिति पाठः युक्तएव त्रिकाण्डे चुण्ठाः शब्दस्य उपकूलजलाशयार्थकत्वात् तत्रत्यजलस्यैव चौण्डसंज्ञौचित्यात्

चुचु(चू)क = पु० न० चुचु इत्यव्यक्तशब्दं कायनि पीयमानं कै–क। १ कुचस्याग्रे अमरः तत्र चूचूकगिति। दीर्घ- दृष्यमिति भरतः पृषो०। २ दक्षिणदेशभेदे ३ तद्देशवासिषु “गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा० शा० २०७ अ०।

चुचू = पु० चु० च्यू बा० उ पृषो०। सुनिषण्णके शाकभेदे (सुषुणि) त्रिका०।

चुचुपा = पु० १ देशभेदे २ तद्देशवासिषु ब० व०। अन्ध्रस्तालचराश्चैव चुचुपा रेणुपास्तथा” मा० उ० १३९ अ०।

चुचूक = पु० चुचुक + पृषो०। कुचाग्रे “चुचूको ना कुचस्या ग्रमिति रत्नकोषात् पुंस्त्वम्।

चु(च्चू)च्यू = पु० शाकभेदे। “चुच्चूपूतिका तरुणीजीवन्ती विम्बीतिकानन्दीभल्लातकच्छगलान्त्री स वृक्षादनीफञ्जीशाल्मलीशेलु वनस्पतिप्रसवशणकर्वुदारकोविदार प्रभृतीमि। कषायस्वादुतिक्तानि रक्तपित्तहराणि च। कफध्नान्यनिलं कुर्य्युः संग्राहीणि लघूनि च। लघुः पाके च जन्तुघ्नः पिच्छिलोव्रणिनां हितः। कषाय मधुरो ग्राही चु(च्यू)च्चूस्तेषां त्रिदोषहा। “सतीनोवास्तुक श्चुच्चू(च्यु)चिल्लीमूलकपोतिकाः। मण्डूकपर्णी जीवन्ती शाकवर्भे प्रशस्यते” सुश्रु०। “चुच्चू(च्यू)प्रभृतीनां लोध्रासवः” सुश्रुते तस्यानुपानमुक्तम्।

चुच्य = स्नाने मन्थने पीडने सुरादिसन्धाने च भ्वा० पर० सक० चुच्यति अचुच्यीत् ईदित् चुक्तः।

चुञ्चु = पु० १ छुछुन्दर्य्यां हारा०। “चुञ्चुर्मद्गुश्च वैदेह वन्दिस्त्रियोर्ब्राह्मणेन जातौ वौधायनोक्ते २ सङ्कीर्णजातिभेदे। “मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम्” मनुना तद्वृत्तिरुक्ता।

चुञ्चुरी(ली) = स्त्री तिन्तिडीवीजद्यूते त्रिका०। वा रस्य लः तत्रार्थे हारा०।

चुञ्चुल = पु० गीत्रप्रवर्तके विश्वामित्रपुत्रभेदे “औदुम्बराह्यमिष्णातास्तारकायणचुञ्चुलाः” हरिव० २७ अ०।

चुट = अल्पीभावे भ्वा० पर० अक० सेट्। चोटति अचोटीत् चुचोट।

चुट = अल्पीभावे भ्वा० पर० अक० सेट् इदित्। चुण्टति अचुण्टीत्। चुचुण्ट।

चुट = छेदने चुरा० उभ० सक० सेट् इदित्। चुण्टयति–ते अचुचुण्टत् त

चुट = छेदने वा चु० उभ० पक्षे तुदा० कुटा० पर० सक० मेट्। चोटयति–ते अचूचुटत्–त पक्षे चुटति अचुटीत् चुचोट।

चुट्ट = अल्पीभावे चुरा० उभ० अक० सेट्। चुट्टयति–ते अचुचुट्टत्–त।

चुड = छेदने चुरा० उम० सक० सेट् सदित्। चुण्डयति–ते अचुचुण्डत्–त।

चुड = अल्पीभावे भ्वा० पर० अक० सेट् इदित्। चुण्डति अचुण्डीत्।

चुड्ड(द्ड) = कृतौ हावे च भ्वा० पर० सक० सेट्। चुड्डति अचुड्डीत्। क्विपि दोपधस्य चुद् डोपधस्य चुड्

चुण = छेदने तु० कु० पर० सक० सेट्। चुणति अचुणीत् चुचोण।

चुण्डा = स्त्री चुडि–अच्। कूपे त्रिका०। गौरा० ङीष्। उपर्कूपस्थजलाशये। तत्र भवः अण्। चौण्ड तत्रत्यजले सुश्रुतः। चुक्षाशब्दे दृश्यम्।

चुत = क्षरणे भ्वा० प० अक० सेट्। चोतति इरित् अचुतत् अचोतीत् चुचोत

चुत = पु० चोतति शोणितमस्मात् वा० घञर्थे क। गुदद्वारे शब्दरत्ना०।

चुद = नोदने चु० उ० सक० सेट्। चोदयति–ते अचूचूदत्–त चोदितः चोदना। “धियो योनः प्रचोदयात्” “चोदनालक्षणोऽर्थोधर्म्मः” जैमि०।

चुदी = स्त्री चुद–बा० की। कुट्टिन्यां हेमच०।

चुप = मन्दगतौ भ्वा० पर० सक० सेट्। चोपति अचोपीत्। चुचोप। “किं स्वित् स्वप्नङ् न मिषति किं स्विज्जाग्रन्न चोपति” भा० व० १३३ अ० अष्टावक्रं प्रति प्रश्नः।

चुपुनीका = स्त्री चुप–बा० उनङ् ततः स्वार्थे ईकक्। अग्निचयनार्थे इष्टकाभेदे “इष्टका चुपूनीका” तैत्ति० ४। ४। ५। १।

चुप्य = त्रि० चुप–क्यप्। १ शनैर्गन्तरि गोत्रप्रवर्त्तके २ ऋषिभेदे पु० तस्य गोत्राप्यत्यम् अश्वा० फञ्। चौप्पाय न तद्गोत्रापत्ये पुंस्त्री०।

चुब = चुम्बने मुखसंयोगभेदे वा चु० उभ० पक्षे भ्वा० परसक० सेट् इदित्। चुम्बयति ते चुम्बति अचुचुम्बत् त अचुम्बीत् चुचुम्ब। “घूर्त्तोऽपरां चुम्बति” सा० द० “प्रियामुखं किं पुरुषश्चुचुम्ब” कुमा०। “दशनच्छद एष चुम्बयितुम्” दशकुमा०।

चुबुक = चिबुक + पृषो० चुबि उकक् पृषो० नलोपो वा। चिबुकार्थे” “औदम्बरं मैत्रावरणदण्डमास्यदघ्नं चुबुकद घ्नं वा” आपस्तम्बसूत्रम्।

चुरू = पु० चु ऊ नि०। मुखे उज्जलदत्तः।

चुमुरि = पु० ऋग्वेदप्रसिद्धे असुरभेदे “धुनी चुमुरी या ह स्विष्वप्” ऋ० ६। २०। १३। “धूनिश्च चुमुरिश्चेत्येतन्नाम कावसुरौ” भा०।

चुम्ब = पु० चुबि–भावे घञ् अच् वा। १ चुम्बने भावे अ। २ चुम्बने स्त्री “स्वेदोऽस्य चुम्बा प्रथमाऽभियोगः” “चुम्बाविरामे वदनं प्रमार्ष्टि” वृ० स० ७८ अ०।

चुम्बक = पु चुम्बति लौहम् चुवि–ण्वुल्। स्वनामख्याते अयस्कान्ते मणिभेदे “चुम्बको लेखनः शीतोमेदोविष गरापहः” भावप्र०। २ धटस्योपर्य्यावलम्बने ३ वहुग्रन्थैकदेशे। ४ चुम्बनकर्त्तरि ५ कामुके ६ चुम्बनपरे ७ धूर्त्ते च त्रि० शब्दार्थचि०।

चुम्बन = न० चुबि–भावे ल्युट्। सुखसंयोगविशेषे। “समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि। दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः” सा० द०। चुम्बनस्थानमाह कामशास्त्रे “मुखे स्तने ललाटे च कण्ठे च नेत्रयोरपि। जघने कर्णयोश्चैव कक्षोरुभगमूद्धसु। चुम्बनस्थानमित्युक्तम् विज्ञेयं कामुकैरिह”। चु० चबि–भावे मुच्। चुम्बनाप्यत्र स्त्री

चुर = स्तेये (परद्रव्यापहरणे) वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। चोरयति–ते चोरति अचूचुरत्–त अचोरीत् “यश्चाग्निं चोरयेत् गृहात्” याज्ञ०। “अचूचुरत् चन्द्रसमोऽभिरामताम्” माघः।

चुर = त्रि० चुर–क। चीर्य्यकर्त्तरि

चुरण = चौर्य्ये कण्डा० पर० सक० सेट्।। चुरण्यति अचुरण्यीत्।

चुरा = स्त्री चुर–बा० भावे अ। चौर्य्ये शब्दरत्ना०। चुराशीलमस्य छत्त्रा० ण। चौर चुराशीले त्रि०।

चुरि(री) = स्त्री चुर बा० किं वा ङीप्। उपकूपे कूपसमीपस्थे जलाधारे हेम०।

चुरुचुर = पु० त्रि० चुर–कु चुर–क कर्म्म०। पिशुने अस्य कर्णे उपपदे पात्रसमि० स०। कर्णेचुरुचुर कर्णेपिशुने युक्तारो आद्युदात्तताऽस्य।

चुल = समुच्छ्रये वाचुरा० उभ० सक० सेट्। चोलयति–ते अचूचुलत् त पा०

चुल = त्रि० चुर–क रस्य लः। चोरे ततः चतुरर्य्यां बला० य च। चुल्य तन्निर्वृत्तादौ त्रि०।

चुलका = स्त्री नदीभेदे “कावेरीं चुलकां चापि वेणां शतवलामपि” भा० भी० ९ अ०। नद्युक्तौ

चुलुक = पु० चुल–उकक्। १ प्रसृतौ २ निविडपङ्के, ३ भाण्डभेदे च त्रिका० ४ माषमात्रमज्जनयोग्ये जले न० हेमच०। “काश्यामुत्तरवाहिन्या एकेन चुलुकेन तत्” काशी० ३९ अ०। ६ गोत्रप्रवर्त्तके ऋषिभेदे पु० ततः गर्गा० गोत्रे यञ्। चौलक्य चुलुकगोत्रापत्ये पुंस्त्री०। स्त्रियां ङीप् यलोपश्च चौलुकी।

चुलुकिन् = पु० चुलुक + अस्त्यर्थे इनि। शिशुमाराकारे मत्स्यभेदे शब्दरत्ना०। चुलकशालिनि त्रि० स्त्रियां ङीप्।

चुलु(न्प)म्प = लौल्ये भ्वा० पर० अक० सेट्। चुलुम्पति अचुलुम्पीत् “अम्भोधेर्नालिकेलीरसमिव चुलुकैरुच्चुलुम्पन्त्यपो ये” महावी०। अस्य नोपधत्वे क्विपि चुलुन् मोपधत्वे चुलुम्।

चुलुम्प = पु० चुलुम्प–भावे घञ्। १ बाललालने जटा०। २ छाग्यां स्त्री त्रिका०।

चुलुम्पिन् = पु० चुलुम्प–णिनि। शिशुमाराकृतिमत्स्ये शब्दर०।

चुल्ल = भाव कृतौ भ्वा० पर० अक० सेट्। चुल्लति अचुल्लीत् चुचुल्ल।

चुल्ल = न० क्लिन्नस्य चुलादेशः लच्प्रत्ययः। १ क्लिन्ननेत्रे २ तद्युक्ते जने त्रि० मेदि०।

चुल्लकी = स्त्री० चुल्ल–ण्वुल् गौरा० ङीष्। शिशुमारे कुम्भीरभेदे मेदि०।

चुल्ली(ल्लि) = स्त्री चुल्ल–इन् वा ङीप्। चुल–वा० लिक् वा। पाकार्थमग्निस्थापनस्थाने (चुला) अमरः। “चुल्ली चिर रोदिति” उद्भटः। “पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः” मनुः। अच्। चुल्लाप्यत्र। दीर्घान्तः चितायां मेदि

चुस्त = पुंन० चु–क्त वा० सुट्। १ वुस्ते मांसपिण्डभेदे २ स्थालीभ्रष्टमांसे च शब्दार्थचि०। पनसफलान्तर्गते (भुति) इति ख्याते पदार्थे भरतः।

***