चतुल = त्रि० चत–उलच्। स्थापयितरि संक्षिप्तसा०।
चतुश्चक्र = न० रुद्रयामलोक्ते दीक्षाङ्गेमन्त्रशुद्धिज्ञापके चक्रभेदे यथा “चतुश्चक्रम् प्रवक्ष्यामि शृणु पार्वतीवल्लभ। वामदक्षिणयोगेन रेखापञ्चकमालिस्वेत्। पूर्वपश्चिमभेदेन पञ्च रेखाः समालिखेत्। पतुष्कोष्ठे दक्षभागे चतुष्कोष्ठे च मन्त्रवित्। तदधश्च चतुष्कोष्ठे तद्वामस्थे चतुर्गृह। प्रलिखेत् क्रमशश्चाद्ये चतुर्मन्दिरमध्यगे। स्निग्धञ्च शीतलं जप्नं सिद्धञ्चापि ततः परम्। अकारञ्च उकारञ्च ऌमोकारं ततः परम्। स्निग्धस्थमिति वर्णं च शीतलस्थं शृणु प्रभो!। आकारञ्च ऊकारञ्च ऌमौकारं ततः परम्। तदधोजप्रगेहस्थं वर्णं शृणु महाप्रभो। इकारञ्च ऋकारञ्च एतमोङ्कारसः परम्। सिद्धगेहस्थितं वर्णं शृणु सर्वसुखप्रदम्। ईकारञ्च ॠकारञ्च औकारञ्च ततः परम्। दक्षे चतुर्गेहस्थितान् वर्णान् तव वदामि तान्। आह्लादं चापि प्रत्यायं मुख्यञ्च शुद्धमित्यपि। एतत्कोष्ठस्थितान् सर्वान् शुभाशुभफलप्रदान्। ककारञ्च खकारञ्च झकारञ्च ञकारकम्। आह्लादस्थमिति प्रोक्तं प्राप्तिमात्रेण सिद्धिदम्। प्रत्यायस्थं गकारञ्च घकारं सचमित्यपि। मुस्व्यस्थं हि ङकारञ्च टकारं डठमित्यपि। शुद्धस्थञ्च ढकारञ्च णकारं प्ततमित्यपि। तदधःस्थं चतुर्गेहं लौकिकं सन्धिकं तथा। मानसिकं राजसिकं चतुर्गेहस्थितं त्विमम्। लौकिकस्थं थकारञ्च दकारं च मकारकम्। सात्विकस्थं धकारञ्च नकारञ्च यकारकम्। मानसिकस्थं शृणु भो पकारं च फकारकम्। तद्वामस्थचतुर्गेहं शृणु पञ्चानन! प्रभो!। सुप्तं क्षिप्तञ्च लिप्तञ्च दुष्टमन्दं प्रकीर्त्तितम्। एतद्गेहस्थितान् वर्णमात्रान् गृह्णाति योनरः। वर्जयित्वा सुप्तमन्त्रं क्षिप्तं लिप्तञ्च दुष्टकम्। ऐहिके सिद्धिमाप्नोति परे मुक्तिमबाप्नुयात्। यद्यभाम्यवशात् सुप्तादिषु गेहेषु लभ्यते। तदा मन्त्रं शोधयेत् वै सुप्तस्तम्भितकीलितैः। वर्द्धितैर्दोषजालस्थैरशुभं भूतशुद्धये। भूतलिप्या पुटीकृत्य जप्त्वा सिद्धिं ततो लभेत्। न तु वा वर्जयेत् गेहं चतुष्कं वर्णवेष्टितम्। सुप्तगेहस्थितं वर्णं शृणुष्व पञ्चकानन। बकारञ्च भकारञ्च ततोऽन्यगृहसंस्थितम्। शकारञ्च लकारञ्च लिप्तगेहस्थितं द्वयम्। षकारञ्च क्षकारञ्च लिप्तगेहस्थितं द्वयस्। दुष्टगेह स्थितं नाथ! सकारं गगनं तथा। निजस्वभावमुक्तं यत्तन्मन्त्रं समुपाश्रयेत्”।
चतुश्चत्वारिंशत् = स्त्री चतुरधिका चत्वारिंशत्। (चोयाल्लिश) १ चतुरधिकचत्वारिंशत्संख्यायां २ तत्संख्यान्विते च। परणे डट्। चतुश्चत्वारिंश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
चतुश्शृङ्ग = पु० चत्वारि शृङ्गाण्यस्य। १ कुशद्वीपस्थ वर्षपत्रेते “बभ्रुश्चतुश्शृङ्गः कपिलाचित्रकूटोदेवानीकऊर्द्ध्वरोसा द्रविणः” भाग०५ २०। ११ श्लो०। २ परमेश्वरे च। “चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे” इत्यादि श्रुतौ तस्य चत्रश्शृङ्गत्वोक्तेस्तथात्यम्। ३ शब्दशास्त्रे च तस्य नामाख्यातनिपातोपसगरूपचतुर्विधार्थबोधकत्वात् तथात्वम्।
चतुष्क = न० चतुरवयव चत्वाराऽवेयबायस्य वा कन्। १ चतुःसंख्यायां २ तदन्विते च “एकं द्विकं त्रिकं चैव चतुष्क” पञ्चकं तथा। तामार्था इति सर्वेऽमी पक्षाः शास्त्रे व्यवस्थिताः” हरिः। “एतत् कष्टतमं विद्यात् चतुष्कं कामजे गणे” द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम्” इति च मनुः। ३ चतुस्तम्भे मण्डपभेदे “चतुष्कपुष्पप्रकरावकीर्णयोः” “नार्य्यश्चतुष्काभिसुर्स्व व्यनैपुः” इति च कुमा०। “नारीसनांसीव चतुष्कमन्तः” रघुः। ४ मशकार्य्यां (मशारि) ५ पुष्करिणीभेदे च स्त्री ङीप् मेदि०। ६ यष्टिभेदे न० शब्दार्थ०।
चतुष्कर्णी = स्त्री चत्वारः कर्ण्णा अस्या ङीष्। १ कुमारानुचर मातृभेदे “क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा” भा० श० ४७ अ० कुमारानुचरमातृगणोक्तौ। चत्वार १ कर्णाः श्रवणसाधनं यत्र। २ द्वाभ्यां क्रियसाणे मन्त्रे पुप “षट्कर्णोभिद्यते मन्त्रश्चतुष्कर्णः स्थिरोभवेत्” पञ्चत०।
चतुष्कल = पु० चतस्रः कलाः मात्रायत्र। आर्य्यादिषु चतुर्मात्रायुते गणभेदे “ज्ञेया सर्वान्तमध्यादिगुरवोऽत्र चतु ष्कलाः। गणाश्चतुर्लघूपेताः पञ्चार्य्यादिषु संस्थिताः” वृ० र
चतुष्कोण = त्रि० चत्वारः कोणा अत्र। १ चतुरश्रे तदाकारं २ क्षेत्रभेदे न०।
चतुष्टय = त्रि० चत्वारोऽ वयवा विधा अस्य तयप्। १ चतुर्विध भागवति चतुष्के। स्त्रियां ङीप् “प्रवृत्तिरासोच्छब्दानां चरितार्था चतुष्टयी” कुमारः। “तदैषु सर्वमेप्येतत्पयुञ्जीत चतुष्टयम्” मनुः। “चतुष्टयमर्थदेहादिदण्डम्” चतुर्णामबयवः तयप्। २ चतुःसख्यायाम् “युक्तं मणीस्तम्भचतुष्टयेन” कुमा०। “केन्द्रं चतुष्टयं ज्ञेयम्” नील० ता० उक्तेषु ३ लग्नचतुर्थसप्तमदशमस्थानेषु न०।
चतुष्टोम = पु० चतुरुत्तरः स्तोमः त्रिवृत्पञ्चदशसप्तदशैकविंशानां समूहः मध्यपदलोपी स०। चतुरुत्तरस्तोमे “बिवर्त्तोऽष्टाचत्थारिंशः धर्त्रं चतुष्टोमः” यजु० १४। ३३। चतुर्द्दिक्षु स्तूयमानत्वात् ३ वायौ च। “यएव चतुष्टोम स्तोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्रं चतुष्टोमः स व्याभिश्चतसृभिर्दिग्भिः स्तुते वायुर्वै सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूपमुपदधातीति” शत० ब्रा० ८। ४। १। २६। ३ स्तोमभेदे। “समीचीर्दिशः स्पृताश्चतुष्टोमः स्तोमः” यजु० १४। २५। “चतुष्टोमेन स्तोसेन समीचीः समोच्यादिशः स्पृताः” वेददी०
चतुष्पञ्चाशत् = स्त्री चतुरधिका पञ्चाशत्। (चौयान्न) १ चतु रुत्तरपञ्चाशत्संख्यायां २ तत्संख्येये च। ततः पूरणे डट्। चतुष्पञ्चाश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
चतुष्पत्री = स्त्री चत्वारि चत्वारि पत्राण्यस्याः जातित्वात् ङीष्। १ सुनिषणके (सुसुनि) शाकभेदे “चाङ्गेरी सदृशः पत्रैश्चतुर्द्दल इति स्मृतः। शाकोजलान्विते देशे चतुष्पत्रीति चोच्यते” शब्दार्थचि०। २ क्षुद्रपाषाणभेदिनि च राजनि०।
चतुष्पथ = पु० चत्वारः पन्थानः ब्रह्मचर्य्यादयः आश्रमा यस्य अच् समा०। १ ब्राह्मणे अमरः ब्राह्मणानां हि “एष वोऽभिहितो धर्म्मो ब्राह्मणस्य चतुर्विधः” मनुना चातुराश्रम्यस्य उक्तत्वात् तथात्वम्। चतुर्णां पथां समाहारः अच्। २ चतुर्मुखे (चौमाथा) पथि।
चतुष्पथनिकेता = स्त्री चतुष्पथे निकेतोऽस्याः। कुमारानुचर मातृभेदे “चतुष्पथनिकेता च गोकर्ण्णा महिषानना” भा० श० ४७ व० कुमारानुचरमातृगणोक्तौ।
चतुष्पथरता = स्त्री ७ त०। कुमारानुचरमातृभेदे। “चतुष्पथरता चैव भूतितीर्थाऽन्यगोचरा” भा० श० ४७ अ०।
चतुष्पद = पुंस्त्री चत्वारि पदानि चरणा अस्य। १ चतुश्चरणे गवादौ जन्तौ स्त्रियां जातित्वात् ङीष्। २ तिय्यर्द्धरूपे ध्रुवकरणभोदे न०। करणशब्दे १६९० पृ० सू० सि० वाक्ये दृश्यम्। अस्य शब्दक० पुंस्त्वोक्तिः सौरागमविरुद्धा। “मृगधनुराद्यान्त्यार्द्धे वृषाजसिहाश्चतुश्चरणाः” ज्यो० त० उक्तेषु ३ मकराद्यार्द्धधनुरन्त्यार्द्धमेषवृषसिंहराशिषु पु०। स्त्रीणां ४ करणभेदे न० हेमच०।
चतुष्पदवैकृत = न० ६ त०। वृ० स० उक्ते चतुष्पदजन्तुप्रसवादिविकारे यथा “परयोनावभिगमनं भवति तिरश्चामसाधु धेगूनाम्। उक्षाणो वान्योऽन्यं पिबन्ति श्वा वा सुरभिपुत्रम्। प्रासत्रयेण विद्यात् तस्मिन्निःसंशयं परागमनम्। तत्पतिचातायैतौ श्लोकौ गर्गेण निर्दिष्टौ। त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत्। तर्पयेद्व्राह्मणां श्चात्र जपहोमांश्च कारयेत्। स्थालीपाकेन धातार पशुना च पुरोहितः। प्राजापत्येन मन्त्रेण यजेद्बहुल दक्षिणम्” ४६ अ०।
चतुष्पदी = स्त्री चत्वारः पादा अस्याः अन्त्यलोपः समा० वा ङीष् पादः पद्भावः। १ पद्ये “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा” छन्दोम०। २ प्राकृतभाषादिप्रसिद्धे (चौपाया) छन्दोमेदे ३ चतुश्चरण स्त्रीपशौ च अन्यलिङ्गे चतुष्पादित्येव।
चतुष्पर्णी = स्त्री चत्वारि चत्वारि पत्रे पत्रे पर्ण्णान्यस्याः ङीष्। (सुसुनी) शाकभेदे। राजनि०।
चतुष्पाटी = स्त्री चतस्रोदिशः पाठयति पाटि–अण् उप० स०। नद्यां शब्दमाला
चतुष्पाठी = स्त्री चतुर्ण्णां वेदानां पाठोऽत्र गौरा० ङीष्। छात्राणामध्ययनमण्डपे (चौपाडी) गृहे।
चतुष्पाणि = पु० चत्वारः पाणयोऽस्य। १ विष्णौ हारा० २ चतुर्बाहुयुक्तमात्रे त्रि०।
चतुष्पाद् = त्रि० चत्वारः पादा अस्य अन्त्यलोपः समा०। चतुरश्चणयुक्ते गवादौ स्त्रियां ङीष् पादः पद्भावः चतुष्पदीत्येव। समासान्त्यविधेरनित्यत्वात् अन्त्यलोपाभावे चतुष्पादोऽपि तत्रार्थे “भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम्” छन्दोम०।
चतुस्तन = स्त्री चत्वारः स्तना अस्याः वा न ङीष्। सुरभौ गवि। “तस्यै स्तनानुन्नयति। ऊधसस्तत् स्तनानुन्नयति सा चतुस्तना भवति चतुस्तना हि गौः” शत० व्रा० ६। ५। २। १८। २। महिष्यादौ च षक्षे ङीषि चतुस्तनीत्यपि।
चतुस्त्रिंशत् = स्त्री चतुरधिका त्रिंशत्। (चौतिश) १ चतुरधिकत्रिंशत्संख्यायां २ तत्संख्येये च। पूरणे डट्। चतुस्त्रिंश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
चतुस्त्रिंशज्जातक = पु० बुद्धभेदे हेमच०।
चतुस्सन = पु० ब० व० चतुर्ण्णां धर्म्मार्थकाममोक्षाणां सनः दाता सन–दाने अच् ६ त० चत्वारः सनेतिशब्दा नाम्नि येषां वा। १ सनकसनत्कुमारसनन्दसनातनेतिनामकेषु चतुर्षु ब्रह्मपुत्रेषु ऋषिषु तन्नाम्नां सनादित्वेन तथात्वम्। २ तदवतारधारिणि चतुर्वगदातरि वा २ विष्णौ पु० “तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्स्वतपसः स चतुःसनोऽभूत्” भाग० २। ७। ६।
चतुस्स्रक्ति = पु० चतस्रः स्रक्तयः कोणादिग्रूपा अस्य। चतुर्दिगवच्छिन्ने। “चतुःस्रक्तिर्नाभिरृतस्य” यजु० ३८। २०। “चतस्रः स्रक्तयः कोणा दिग्रूपायस्य सः” वेददी०। “चतुःस्रक्तिरेष कूपो भवति” शत० व्रा० ६। ३। ३। २६।
चतूराजी = स्त्री चतुर्ण्णां राज्ञां समाहारः टच् सम०। चतुरङ्ग क्रीडायां क्रीडाभेदे चतुरङ्गशब्दे २८६३ पृ० दृश्यम्।
चतूरात्र = न० चतुसृणां रात्रीणां समाहारः चतुसृभिः रात्रिभिर्निर्वृत्तः अण् तस्य लुक् वा अच् सुमा० “संख्यापूर्ब्बं रात्रमिति” पा० क्लीवत्वम्। १ चतुसृषु रात्रिषु २ तत्साध्ये क्रतुभेदे च। “चतूरात्रम्” कात्या० श्रौ० १९। १। १४। “अयं क्रतुर्भवतोति शेषः” कर्कः। चतूरात्रादिष्वधिकम्” कात्याश्रौ० २३। १। ७। “सहस्रमधिकं दक्षिणा” कर्कः।
चत्वर = न० चत–ष्वरच्। १ स्थण्डिले होमाथ कृतसंस्कृत भूभागे २ गृहाद्बहिरङ्गने (उठान) (चाताल) इति च ख्याते ३ स्थाने अमरः “गृह्यन्तां गृहवास्तूनि कार्य्यन्तां त्रिकचत्वराः” हरि० ११६ अ०। ४ नानाजनस्थानानां वासस्थाने “सहि श्रेष्ठिचत्वरे प्रतिवसति” मृच्छ०। “न चत्वरे निशि तिष्ठेत् निगूढः” भा० उ० ३६ अ०। (चोतारा) ५ ख्याते स्थाने “चत्वरान् राजमार्गांश्च समानन्तःपुराणि वः” हरिवं० ११६ अ०। ६ चतृसृणां रथ्यानां सङ्गमे शब्दार्थचि०। “अनुरथ्यासु सर्वासु चत्वरेषु च कौरव!” भा० व० १५ अ०।
चत्वरवासिनी = स्त्री चत्वरे वस्तुं शीलमस्याः वस–णिनि ङीप्। कुमारानुचरमातृभेदे। “ऋक्षाम्बिका निम्बुटिका रामा चत्वरवासिनी” भा० ४७ अ०।
चत्वारिंशत् = स्त्री चतस्रोदशतयः परिमाणमस्याः। “पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्” इत्यादि” पा० नि०। (चाल्लिश) १ संख्यायां २ तत्संख्येये च। ततः पूरणे तमप्। चत्वारिंशत्तम तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
चत्वाल = पु० चत–वालञ् संज्ञापूर्व्वकत्वेन वृद्धेरनित्यत्वात् न वृद्धिः। चात्वाले १ होमकुण्डे ३ दर्भे च मेदि०।
चद = याचने भ्वा० द्विक० उभ० सेट्। चदति ते एदित् अचदीत् अचदिष्टाम्। चचाद चेदतुः चेदे।
चद = आह्लादे दीप्तौ च भ्वा० अक० प० सेट् इदित्। चन्दति अचन्दीत् चचन्द चचन्दतुः। चन्द्रः।
चदिर = पुंस्त्री चद–किरच्। १ हस्तिनि २ भुजगे च स्त्रियां जातित्वात् ङीष्। ३ चन्द्रे ४ कर्पूरे च पु० संक्षिप्तसा०।
चन = हिंमे भ्वा० प० सक० सेट्। चनति अचनीत्–अचानीत् चचान चेनतुः। मित् णिचि चनयति ते।
चन = शब्दे तु० प्र० अक० सेट्। चनति अचा (च) नीत् चचान चेनतुः। णिचि चानयति।
चन = अव्य० चन–शब्दे अच्। असाकल्ये “असाकल्ये तु चिच्चन” इत्यमरः। समुच्चायार्थकचशब्देन नञः समास इत्यन्ये “युवोरिदापश्चन प्र मिणन्ति व्रतं वाम्” ऋ० २। २४। १२। “चनेत्येतत्पदद्वयसमुदायः। ऐकपद्यं त्वध्यापक भाम्प्रदायिकम्। २ नेत्यर्थे “पूर्वीश्चन प्रसितयस्तरन्ति” ऋ० ७। ३२। १३। “चनेति समुदायो नेत्यर्थे” भा०। ३ अप्यर्थे “स्वप्नश्चनेदनृतस्य प्रयोता” ऋ० ७। ८६। ६। “स्वप्नश्चन स्वप्नोऽपि” भा०। “महिम्न एषां पितरश्चनेशिरे” ऋ० १०। ५६। ४। पितरश्चन पितरोऽपि” यत्तु मुग्धवो० “किमःक्त्यन्ताच्चिच्चनौ” विभक्त्यन्तात् किमः चिच्चनप्रत्ययौ विहितौ तच्चिन्त्यम् अप्यर्थकेन असाकल्यार्थेन वा चनशब्देन गतार्थत्वात् कदाचन कथञ्चनेत्यादौ कदापि कथप्रपीत्यर्थलाभात् न प्रत्ययान्तरकल्पनम्। प्रागुक्तप्रयोगे किमोऽभावेऽपि प्रयोगदर्शनात् किम इत्यस्य प्रार्यिकत्वकल्पनेऽपि चनप्रत्यये परे पूर्ब्बसुपः लोपापत्तेश्च। तन्मते चित्त्वेन प्रत्ययस्याव्ययसज्ञकत्वात् तयोश्चित्त्वाभावेनानव्ययत्वापत्तेः स्वरबैलक्षण्यानुपपत्तेश्च
चनस् = न० चाय् पूजादौ “चायतेरन्ने ह्रस्वश्च” उणा० असुन् चात् नुट्। १ भक्ते उज्ज्व०। “चनो धाः सहसो यहो” ऋ० १। २। ६। १०। “चनोदधिष्व पचतोत सोमम्” निरुक्तधृतश्रुतिः।
चनसित = न० च न शब्दे अच् चनः सित अवसानमस्य। ब्राह्मणस्याप्रत्यक्षनामभेदे। “नाध्यक्षनाम्नाऽऽचक्षीत चनसितेत्यर्हता सह। सम्भाषमाणो व्रूयाद्विचक्षणेतीतरैरिति” कर्कधृतमनुवाक्यम्। “जागर्त्त्येतां रात्रिं क्रीते राजनि द्वितीयां श्वः सुत्यायां तृतीयां चनसितं विचक्षणमिति” नामधेयान्तेषु दधाति चनसितेति व्राह्मणं, विचक्षणेति राजन्यवैश्यौ” “विचक्षणचनसितवतीं वाचम्” कात्या० श्रौ० ७। ५। ७। “विचक्षणशब्दवतीं चनसितशब्दवतीं च वाच ब्राह्मणादिनामधेयभूतां वाणीं वदेत्” कर्कः।
चनस्य = चनोऽन्नमिच्छति क्यच् नामधातुः अन्नेच्छायां पर० अक० सेट् चनस्यति अचनस्यीत्। “पुरुभुजा चनस्यतम्” ऋ० १। ३। १।
चनिष्ठ = त्रि० चनोन्नम् उपचारात् तद्वान् ततः अतिशये इष्ठन् डिद्वद्भावे टिलोपः। अन्नवत्तमे “अस्मे वो अस्तु सुमतिश्चनिष्ठा” ऋ० ७। ५७। ४। “चनिष्ठा अन्नवत्तमा” भा०।
चन्द = पु० चदि अह्लादने ण्यन्तात् अच्। १ चन्द्रे २ कर्षूरे च शब्दार्थर०।
चन्द(न्द्र)क = पु० चन्द(न्द्र)इव कायति शुभ्रत्वात् कै–क। (चा~दा) मत्स्यभेदे “चन्द(न्द्र)कोरुचिकृत् वल्यश्चानभिष्यन्दकृदपि” राजवल्लभः।
चन्दन = पु० न० चदि–ण्यन्तात् ल्यु। स्वतामख्याते मलयाच- लजे वृक्षविशेषे तद्भेदगुणादिकं भावप्र० उक्ते यथा श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः। गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः। स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम्। ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते। चन्दनं शोतलं रूक्षं तिक्तमाह्लादनं लघु। श्रमशोषविषश्लेष्मवृष्णापित्तास्रदाहनुत्। अथ पीतचन्दनम् (कलम्यक)। “कालीयकन्तु कालीयं षीताभं हरिचन्दनम्। हरिप्रियं कालसारं तथा कालानुसार्यपि। कालीयकं रक्तगुणं विशेषातङ्गनाशनम्”। अथ रक्तचन्दनम् “रक्तचन्दन माख्यातं रक्ताङ्गं क्षुद्रचन्दनम्। तिलपूर्णं रक्तसारं तत्प्रवालफलं स्मृतम्। रक्तं शीतं गुरु स्वादु छर्दितृष्णा म्लपित्तहृत्। तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम्। तत्र पुंसि “सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः” शकु०। क्लीवे “विना मलयमन्यत्र चन्दनं न विवर्द्धते” पञ्चत०। “ततः कृत ह्निकाः सर्व्वे दिव्यचन्दनभूषिताः” भा० स० ५७ अ०। “चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्” सा० द० तस्य शृङ्गारोद्दीपकत्वमुक्तम्। २ रक्तचन्दने न० मेदि० ३ वानरभेदे पु० हेम०। ४ शारिवोषधौ स्त्री राजनि०। (मधुखाली) नगरीसमीपस्थे ५ नदीभेदे च स्त्री।
चन्दनगिरि = पु० चन्दनस्योत्पत्तिस्थानं गिरिः। मलयाचले
चन्दनगोपी = स्त्री चन्दनमपि गोपायति गुप–अण्। शारिवाभेदे राजनि०।
चन्दनधेनु = स्त्री पतिपुत्रवत्या मृताया नार्य्या उद्देशेन पुत्रदातव्यायां चन्द्रनाङ्कितधेनौ। तद्विधिमाह रत्नाकरे देवलः “जीवद्भर्त्री तु या नारी पुत्रिणी म्रियते यदि। सवत्सामङ्कितां धेनुमाचार्य्याय प्रदापयेत्। पतिपुत्रवती नारी म्रियते याग्रतस्तयोः। वृषं नचोत् सृजेत् पुत्रः पिता यावच्च जीवति”। तथा कर्मोपदेशिन्यां ब्राह्मणसर्वस्ने चाहलायुधधृतानि वचनानि स्मृतिः “पतिपुत्रबती नारी म्रियते भर्त्तुरग्रतः। चन्दनेनाङ्कितां “धेनुं तस्याःस्वर्गाय कल्पयेत्”। तथा जातूकर्णः घेनुं चन्दनमालिप्य यो दद्यान्मातृहेतवे। यदि पापणतैर्युक्ता तथापि स्वर्गमाप्नुयात्”। तथा वशिष्ठः “न युक्तश्च वृषोत्सर्गः पिता यावत् तु जीवति। चन्दनेनाङ्कितां धेनुमाचार्य्याय प्रदापयेत्”। “चतुर्हस्तो भवेद्पूपो यज्ञवृक्षसमुद्भवः। वर्त्तुलः शोभनः स्थूनः कर्त्तव्यो घेनु- मौलिकः। विल्वस्य बकुलस्यैव कलौ यूपः प्रशस्यते। अभावे वारुणेनापि यूपं कुर्य्याद्विधानतः”। “तरुणीरूप सम्पन्नः सुशीला च पयस्विनी। न्यायार्ज्जिता गृहे जाता देया सा श्रोत्रियाय गौः। नदीतीरे वने गोष्ठे देवतायतनेषु च। व्रीहिक्षेत्रे कुशक्षत्रे राजद्वारे चतुष्पथे”। एषु वचनेषु वृषोत्सर्गनिषेधचन्दनधेनूत् सर्गविध्योर्युगपदुपसंहारदर्शनात् वृषोत्सर्गस्थाने प्रधानतया चन्दनधेनूत्सर्गः प्रतीयते अतोऽस्य वृषोत्सर्गकार्य्यकारित्वात् तत्कलहेतुत्वं लभ्यते। “एकोद्दिष्टं न कुर्व्वीत न्यासिनाञ्चैव सर्वदा। अहन्येकादशे प्राप्ते पार्वणं तु विधीयते” इति श्राद्धविवेकधृतोशनोवचने त्रिदण्डसन्न्यासिनाम् एकोद्दिष्टनिषेधपार्वण विध्योर्युगपदुपसंहारात् एकोद्दिष्टस्थाने पार्वणमिव। यद्वा पतिपुत्रवतीरूपप्रेतविशेषाधिकृतवृषं न चोत् सृजेदिति निषेधचन्दनधेनूत्सर्गविधिभ्यां प्रेत मात्राधिकृतसामान्यवृषोत्सर्गविध्यवगतफलभावनाकरणीभूतवृषकर्मकत्यागमनूद्य तत्कर्मीभूतवृषमपहाय तत्स्थाने धेनुमात्रगुणविधिर्लाथयादवगम्यते। पशुयागे सामान्यविध्यवगतापःप्रणयणीयाधिकरणचमसस्थाने “गोदोहेनापः प्रणवेदिति” विशेषविधिना गोदोहगुण विधिवत्। “नालाभेऽपि प्रवेशिनीम्। उपोष्य द्वादशीं तत्र त्रयोदश्यान्तु पारणम्” इत्यत्र एकादशीरूपनिमित्तस्थाने द्वादशीमात्रगुणविधिवच्च। अन्यथा धेनूत्सर्गस्य पृथक्कर्मत्वे फलभावनातत् करणनियोज्यानां पृथक्कल्पने गोरवं स्यात्। उक्तविधिनिषेधयोरुपसंहारवैयर्थ्यञ्च स्यात्। ततश्च कारणैक्यात् फलैक्यमिति। चन्दनधेनूत्सर्गेऽपि प्रेन्तत्व विमुक्तिपूर्वकस्वर्गप्राप्तिः फलम्। एवं किपिलोक्तमन्त्रस्थ पापव्यपगमस्वर्गप्रार्थनायाअपि तथैव तात्पर्य्यम्। तथा जातूकर्णवचनस्थपापस्वर्गपदयोरपि तथैव तात्पर्य्यं वोध्यम्। भूतार्थानां विधिशेषिणामेव जैमिन्युक्त प्रामाण्येन प्रकृते सिद्धे विधिशेषित्वे लाघवात् “पापिष्ठमपि शुद्धेन शुद्धं पापकृत्यापि वेति” कात्यायनवचनस्य पापपदस्य प्रेतत्व एव तात्पर्य्यदर्शगाच्च। अत्र यद्यपि पतिपुत्रवतीत्यत्र पतिपुत्रवत्त्वस्य विशेष्यीभूतकर्त्रन्वयि मरणानन्वयित्वेन न विशेषणत्वं किन्तूपलक्षणत्वमेव ततश्च काकवन्तो देवदत्तस्य गृहा इतिवत् कादाचित्कतद्वत्तामादायापि पतिपुत्रवतीति प्रयोग उपपद्यते। तथापि “अग्रतस्तयोः” “भर्त्तुरग्रतः” इत्याभ्यां मरणकालिकी पति पुत्रसत्ताऽवगम्यते गवां गोष्ठे इतिवत्। अथ वा परार्द्धान्वयेन धेनूत्सर्गकालिकीति। नच “अपुष्पिता मृता काचित् तस्याधेनु र्विगर्हिता” इति कपिलवचने अपुष्पितायाः पुत्रकर्त्तृकधेनूत्सर्गनिषेघस्याप्रसक्ततया सपत्नीपुत्रकर्त्तृकधेनूत्सर्गनिषेधप्राप्तौ तद्दृष्ट्या पतिपुत्रवतीत्यस्य सपत्नीपुत्रवतीपरत्वम् अवश्यं वाच्यम्। तदेकवाक्यतया पुत्रिणीत्यादावपि तथात्व मिति वाच्यम्। अपुष्पितेति कपिलार्द्धस्य प्रसक्ति पर्वकतार्थं पतिपत्रवद्निवृत्त रजस्काया धेनूत्सर्ग निषेधार्थत्वात् गत्यां सत्यां लक्षणाया वीजाभावात्। पतिवोगिवत् ध्वंसप्रागभावयोरपि अत्थन्ताभावविरोवित्वमते तु अजातपुष्पस्त्रीपरत्वं वा भवतु तथात्वेऽपि “तस्या धेनुर्विगर्हितेति” अप्रसक्तार्थाप्रि अपुष्पिता धेनुदाननिन्दा स्तुतिपरा। यथा हरेरुत्थाने “पौष्ण शेप्रेण किन्तेन प्रतिपद्यथ योनिशि” इत्यप्रसक्तापि निन्दा एकादश्यादिपौर्णमास्यन्तपञ्चके रेवत्यन्तपादयोनविधि स्तुतिपरा यथा वा वेदगाने “यो गिरा गिरेति ब्रूयात् स आत्मानमपि गिरेत्” इत्यप्रसक्तनिन्दा “ऐरं कृत्वा अवगिरेदिति विधेः स्तुतिपरा। अतएव उक्तंशावरमाष्ये “न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते अपि तर्द्वीवरत् स्तोतुमिति”। स्तुतौ हि अप्रसिद्ध गुणदोषारोपो न दोषाय। नचात्र काम्यस्यैव कार्त्ति वचादिवृषोत्सर्गस्य स्थाने धेनुदानं विधीयते इति वाच्यम्। तन्मात्रपरत्वे मानामावात्। प्रत्युत म्रियत इति वर्त्तमानार्थकविभक्त्या वर्त्तमानसामीप्येनाचिरप्रमीतोपस्थितेश्च। ये तु “बह्वीनामेकपत्नीना मेका चत् पुत्रिणी भवेत्। सर्वास्तास्तेन पुत्रैण प्राह पुत्रवतीर्मनुरिति” मनुना पुत्रववीत्वामियावादेव पतिपुत्रवतीत्यत्र सपत्नीपुत्रवती प्रतीयते इति ब्रुवते तेऽतीव भ्रान्ताः। पुत्रवतीतिषदस्याखण्डतया मतुपा पतिपदस्यान्वये तटस्थत्वापत्तेः। गनु वृषतुल्यवयो वर्णोवृषः स्याद्दक्षिणा द्विजाः। वृषोत्सर्भे तता पुंसां स्त्रीणां स्त्रीगोर्विशिष्यते” इति भविष्यसंवादाद्धेनुदानमिदं पतिपुत्रवत्या वृषोत्सर्गे दक्षिणादा नस्य विशेषरूपम्, न तुप्रधानकर्म्मान्तरं गौरवात्। न च दक्षिणाया अङ्गत्वेन फलासङ्गतिः। “यस्म पर्णसयी जुहूभवति न स पापश्लोक शृणोतीति” वत्तदुप- पत्तेरिति चेत् न वृषोत्सर्गदक्षिणातश्चन्दनाङ्कित धेनुदानस्य प्रकरणान्तराम्नायन प्रकरणान्तरन्यायतः प्रधानत्वसिद्धेः वृषोत्सर्गस्थानीयत्वेनानुवर्त्तमान शिष्टाचारात्। धेनुदानयुगनद्धवृषोत्सर्गनिषेधानामसङ्गतेः कपिलपञ्चरात्रे चन्दनधेनुदानस्यापीति कर्त्तव्यतायां वृषरूपदक्षिणादागविधानाच्च। यथा कपिल उवाच “अतःपरं प्रवक्ष्मामि धेनुदानमनुत्तमम्। पतिपुत्रवती नारी म्रियते भर्त्तुरग्रतः। चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत्”। तथा“जीवद्भत्रीतु या नारी पुत्रिणी त्रियते यदि। सवत्सामङ्कितां धेनुमाचार्य्याय निवेदयेत्। साध्वी पतिव्रता नारी म्रियते याग्रतस्तयोः। वृषं नैवोत्सृजेत् पुत्रः पिता यावत् तु जीवाति। मृतपुत्रा च या नारी संगृहीता तु या भवेत्। तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते। “अपुष्पिता मृता काचित्तस्या धेनुर्विगर्हिता। दद्याद्धेनुं सुतो ज्येष्ठः कनिष्ठो वृषमुत्सृजेत्। द्वयोः सोदरयोरेको भवेत् ज्येष्ठः प्रधानतः। त्रयाणां द्वा सुतौ ज्येष्ठौ, चतुर्णाञ्च त्रयः स्मृताः। पञ्चानां सोदराणाञ्च त्रयोज्येष्ठाः प्रकीर्त्तिताः। ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं विधानतः। हेमशृङ्गींस्मुरै रूप्यैः सुशीलां वस्त्रसंयताम्। कांस्योदरीं ताम्रपृष्ठां घण्टाचामरभूषिताम्। प्रबाल षालिकां दद्यात् कर्णयोरुभयोरपि। चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत्। मवां लोकमवाप्नोति दिवि देवैश्च मोदते। चन्दनेनाङ्कितां धेनुं दत्त्वागच्छेत् सुरालयम्। तावत्तिष्ठति स्वर्लोके यावदाहूल संप्लवम्। नचोत्सर्गो वृषस्यात्र वत्सतर्य्यत्वितस्य च। वृषोत्सर्ग विधानेन कर्त्तव्यं सर्वकर्म च। मानं स्तोकेति मन्त्रेण दक्षे वषोऽज्यसीति च। धेनोश्च सक्थिदेशे तु त्रिशूलाङ्कं समालिखेत्। वामभागे विशेषोऽयं दक्षे चक्रं समालिखेत्। तत्रान्यद्वर्जयेद्विद्वानाचार्य्यस्तु विधानवित्। ततो वैसंलिखेच्चकं पञ्चाङ्गुल प्रमाणकम्। शूलं षडङ्गुलं कार्य्यं दक्षे वामे यथाविधि। पूर्वाशाभिमुखीं धेनुं यजमानोत्तरामुखः। मस्तकादि क्रमेणैव प्रतिमन्त्रः प्रपूजयेत्”। “एवंविशिष्टां तां धेनुं दत्त्वा तपणमारभेत्। पुच्छं गृहीत्वा पित्रादीन् वर्षोत्सर्गविधानतः। ऐशान्यां चालयेत् किञ्चित् आचार्य्याय च दक्षिणाम्। वृषभञ्च ततो दद्यादाचार्य्याय गुणान्वितम्। पूजयेत् ब्राह्मणांश्चैव वस्त्रमाल्यादिभिस्ततः। कांस्यपात्रं वस्त्रयुग्मं सुवर्णञ्च विशेषतः। आचार्य्याय प्रदातव्यं ब्रह्मणे कनकन्तथा। आगतान् पूजयेद्भक्त्या यथाशक्ति विधानतः। दीनार्त्तकृपणादींश्च अन्नाद्यैः परिपोषयेत्”। पुस्तकान्तरे पाठाधिक्यं यथा “एकादशाहे प्रेतायाः षण्मासे चाविदके तथा। त्रिपक्षे मासिके वापि दद्याद् गां चन्द्रनाङ्किताम्” तथा वराहपुराणम् “अयने विषुवेऽष्टम्यां युगाद्यापूर्णिमासु च। दर्शे मन्वन्तरे चैव धेनुं दद्यात् सुपूजिताम्”। नर्नु आद्यश्राद्धे त्रिपक्षे बा” इत्यादिना आद्यश्राद्धकर्त्तव्यनित्यवृषोत्सर्ग कालस्य परपरकालो गौणः। न वा सर्वे मुख्याः कालाःस्युः। तत्र नाद्यः त्रिपक्षादौ शिष्टाचारविरोधात्। नापि द्वितोयः त्रिपक्षादौ नित्यत्वबोधकाभावात्। वस्तुतः आद्यश्राद्धे वृषोत्सर्गस्व नित्यत्वं त्रिपक्षादौ काम्यत्वम्। आद्यश्राद्धपदम् अशौचान्तद्वितीयदिनपरम् “अशौचान्तात् द्वितीयेऽह्नीत्याद्येकवाक्यत्वात्। अत्र च आद्य श्राद्धस्य विघ्नपतितत्वेन एकादश्यादौ क्रियमाणत्वे वृषोत्सर्गमपि न कुर्य्यात्। आद्यश्राद्धदिने वृषोत्सर्गाकरणे त्रिपक्षाद्यान्यतमकालेऽपि वृषोत्सर्गस्यावश्यप्रेतत्य करीहारकत्वेन तस्य पुनः संवत्सरसाध्यसकृत्कृतस्य नित्यत्वं कल्प्यम्। एवं धेनुदानस्यापि। अतएव पूर्ण संवत्सरे मलमासपातेऽपि प्रागकृतश्चेत् कार्य्यएव इति नवीनाजगुः। एककर्त्तृकानेकवृषोत्सर्गोऽपि शिष्टाचारादेकदिनेऽपि। तथा हि स्वर्गलोकगमनफलश्रुतेः काम्यत्वेन “यो भूय आरभते तस्मिन् फले विशेषः” इति न्यायादविरोधः। ननु नैमित्तिकत्वात् कथमावृत्तिः “सकृत् कृते कृतः शास्त्रार्थः” इति न्यायात् नचैकत्र क्रियाद्वयमिति वचनाच्च। अत्रायं विशेषः काम्यनैमित्तिकं फलविशेषार्थं भूयः कार्य्यं, नैमित्तिकमात्रं तु सकृदेव। किञ्च। संक्रान्त्यादिनिमित्तकश्राद्धमपि पुनः पुनः स्यात्। मैवं तत्र पितृतृप्तिरूपप्रधानफलस्य सत्त्वेन चरितार्थत्वात्। अत्रोक्तानि सर्वाण्येतानि वचनानि निर्य्यगधिकरणन्यायमूकानि तथा हि तिर्य्यगधिकरणे तिर्य्यक्पङ्गुत्र्यार्षेयदेवतानामनघिकार इति यागमात्रे उक्तम्। तत्र हेतवः तिरश्चां विशिष्टान्तःकरणविरहात् त्र्यार्षेयाणाम् अन्धवधिरमूकानामवेक्षणश्रवणोच्चारणविरहात् साङ्गयागासामर्थ्ये तेषां यथा यागानधिकारस्तद्वदत्र “स्वपितुः पितृकृत्येषु
“कारो न विद्यते” इति छन्दोगपरिशिष्टे अग्निष्वात्ताद्यन्तर्गणानुक्त्वा “जीवत्पितृकश्चैतानन्याश्चेतर” इति कात्यायनसूत्रे च जीवत्पितृकस्य पितृतर्पण निषेधात् वृषोत्सर्गे तदङ्गभूततद्पुच्छगलितोदक तर्पणविरहात् साङ्गकरणासामर्थ्ये वृषोत्सर्गेऽनघिकारः। अतएव द्वैतनिर्णयेऽपि स्त्रियाः “किरणीभूतऋग्वाधेन यागवद्वृषोत् सर्गस्य वाघ उक्तो वाचस्पतिमिश्रेण। धेनुदानाङ्गतर्पणे तु प्रधानापिकार श्रुतेः जीवत्पितृकाधिकृतविशेषविघानाच्चाधिकार एवाभ्युदयिकश्राद्धवत् जन्ममास्यु पनयनाङ्गमशिखवपनवच्च। अयन्तु सामान्यशास्त्रोपजीवित्वेन निपेधः पर्य्युदास एव। स यदि पतिपुत्रवतोभिन्नाया वृषोत्मर्गं कुर्य्यात् इत्येवंमात्रस्तदा पूर्व्वभागवैयर्थ्यं स्यात्। यदि पतिपुत्रवत्या जीवत्पितृकपुत्रभिन्नो वृषोत्सर्गं कुर्य्यादिति विशिष्टरूपस्तथापि पतिपुत्रवत्यास्तदुभयरहितायाश्च जीवत्पिवृकपौत्रादिना वृषोत्सर्गः स्यात्। चायुक्तएव प्रागुक्तवचनन्यायविरोधात्। तस्मात् ममुदायवचनसार्थक्याय पतिपुत्रवतीभिन्नाया वृषोत्सर्गं कुर्य्यात्। तथा जीवतपिवृकमिन्नो वृषोत्सर्गं कुर्य्यात् इति वचनन्याय संवादाद्वाक्यद्वयमेवं सिद्ध्यति प्रमाणद्वौरवस्य मर्वैरङ्गीकृतत्वात् दर्शपौर्णमासयोः षट्प्राधानापूर्व्ववत्। अय वोक्तदेवलादिवचने “ज्येष्ठेनैव तु कर्त्तव्य धेनुदानं विधानतः” इत्यन्तकापिलादिसकलवचनपर्य्यालोचनया कनिष्ठपुत्रवतीभिन्नपतिपुत्रवतीतरजनस्य कापिलपति प्रसूतकनिष्ठपुत्रभिन्नजोवत्पितृकादन्यो जनो वृषोत्मग कुर्य्यात् इति सामान्यत एव वृषोत्सर्गविधिः। तथा पतिपुत्रवत्या ज्येष्ठपुत्रएव चन्दनाङ्गितघेनुमुत्सृजेदिति विधिश्च सिद्ध्यति। ततश्च पतिपुत्रवत्याः कनिष्ठपुत्रसत्त्वएव तदन्यमृतपितृकेण वा वृषोत्सर्गः कार्य्यः। कनिष्ठत्राभावे तु न केनापि। एवं पत्यादिना न चन्दनधेनु दानामिति। प्रतिप्रसूतकनिष्ठान्यजोवत्पितकेण न कस्यापि वृषोत्सर्गः कार्य्य इत्यपि च पर्य्यवस्तितम्। वस्तुतस्तु पतिपुत्रवत्या वृषोत्सर्गनिषेधे तत्पुत्रस्य जीवत्पितकत्वेनानधिकार एव हेतुः न तु स्त्रियाः पतिसत्त्वं पुत्रसत्त्वं वा मृतपुत्रेत्यादिपागुक्तकापिलवचने पतिसत्त्वे कनिष्ठपुत्रसत्त्व च वृषोत्सर्गावगतेः तत्पुत्रस्य पितुः सत्त्व एवानघिकारोक्त्या तन्मरणे वृषोत् सर्गावगमाच्च। न वा तदुभयसुत्त्व भिलितम् उक्त- न्यायावगतस्य तत्पुत्रस्य जीवत्पितृकत्वहेतोरेव तादृश निषेधप्राप्तेः पतिपुत्रसत्त्वयोर्निर्वीजहेतुत्वकल्पना नौचित्यात् तयोर्वाचनिकहेतुत्वे तु अदृष्टकल्पनाया अनाय्यत्वात् सिद्धजीवत्पितृकनिषेधप्रपञ्चतया पतिपुत्रवत्या निषेधोपपत्तौ अधिकनिषेधकल्पने गौरवाच्च। यस्तु जीवत्पितृकवर्षोत्सर्गनिषेधे पतिपुत्रवत्याः पृथमुपसंहारः सोऽपि तस्याः पुत्रानधिकारमात्रप्रयुक्तसिद्धवृषोत्सर्गाभावभागित्वानुवादः पूर्ववाक्यावगतधेनुदानस्य वृषोत्सर्गस्थानीयत्वज्ञापनार्थ एवेति प्रागपि निरूपितम्। ततश्चोक्तवचने तिर्य्यगधिकरणन्यायप्राप्तं जीवत्पितृकस्य वृषोत्सर्गकर्तृत्वाभावमन्द्य सपतिकाया वृषोत्सर्गस्थाने चन्दनाङ्कितधेनूत्सर्ग एव विधीयते एतेन वृषोत्सर्गकर्त्तरि कपिलप्रतिप्रसूतसपतिकावृषोत्सर्गकृतिमत्कनिष्ठपुत्रान्यजीवत्पितृकेतरत्वविशेषणं सपतिकाया वृषोत्सर्गस्थाने ज्येष्ठपुत्रस्यैव चन्दनाङ्कितधेनूत्सर्गमात्रश्च लभ्यते। अतोजीवत्पितृकेण काम्यवृषोत्सर्गः पतिते प्रव्रजिते वा पितरि जीवति पितामहादिवृषोत्सर्गश्च न क्तार्य्यः। एवं सपतिकाया अपि पुत्रस्य कर्मायोग्यत्वे असत्त्वे वा पत्या कन्यादिना वा वृषोत्सर्गः कार्य्य एवेति स्थितम्। इदन्तु रत्नाकरहलायुधा चार्य्यचूडामणिविद्याभूषणशुभङ्करमहादेवभट्टाचार्य्य प्रभृतीनामपि सम्मतं तेषां पृथक् पृथक् पद्धतिरपि प्रसिद्धास्ति। कृचिद्देशे स्मार्त्तभट्टाचार्य्यस्यापि समूल पद्धतिर्दृश्यते। अत एवात्र विशेषादर्शिनामनाचारोऽनाचार एव। अत्र भविष्योक्तप्रकारस्तु वैकल्पिकएव “स्मृतिशास्त्रे विकल्पो हि आकाङ्क्षापूरणे सतीति” जैमिन्युक्तेः। तत्रत्यपूजाहोमाद्यङ्गेषु विशेषमन्त्रोक्तेः। कपिलकल्पेन वृषोत्सर्गधर्म्मातिदेशेन विशेषोक्तनिरासाच्च” नव्यवाचस्पतिमतम्। रघुनन्दनमते तु चन्दनधेनोः काम्यत्वमात्रत्वात् वृषोत्सर्गं व्रिहाय केबल चन्दनधेनुदानं न शास्त्रसिद्धं काम्येन नित्यबाधायोगात् सति सामर्थ्ये उभयकर्त्तव्यतार्थं वृषोत्सर्गनिन्दा चन्दनधेनु दानस्तुतिपरा। रघुनन्दनकृततत्पद्धतिसत्त्वेऽपि तस्य काम्यस्यैव विधानार्थत्वम् इति साम्प्रदायिकाः
चन्दनपुष्प = न० चन्दननिव सुगन्धि पुष्पमस्य। लवङ्गे राजनि०
चन्दनमय = त्रि० चन्दनात्मकः मयद। चन्दनवृक्षनिर्म्मिते पर्य्यङ्कादौ “यः सर्वः श्रीपर्ण्याः पर्य्यङ्को निर्म्मितः स फल- दाता” इत्युपक्रमे चन्दनमयोरिपुघ्नो धर्म्मयशोदीर्घ जीवितकृत्” वृ० स० ७९ अ० तन्मयपर्य्यङ्कस्य फलमुक्तम्।
चन्दनशारिवा = स्त्री चन्दनैव सुगन्धिः शारिवा। शारिवा भेदे राजनि०।
चन्दनसार = पु० चन्दस्येव सारोऽस्य। १ वज्रक्षारे राजनि० ६ त०। २ घृष्टचन्दनसारे च।
चन्दनाचल = पु० चन्दनस्याकरोऽचलः। मलयाचले राजनि०। चन्दनाद्रिप्रभृतयोऽप्यत्र।
चन्दनादि = पु० “चन्दनञ्च तथोशीरं कर्पूरोगन्धवाकुची। एलाकर्चूरगोहूलाः सप्तैते चन्दनादयः” इति वैदाकोक्ते पित्तोपशमने द्रव्यसप्तके।
चन्दनाद्य = न० “चन्दनाद्यं नखं वाप्यं यष्टिशैलेयपद्मकम्। मञ्जिष्ठा सरलं दारु शठ्येलापूतिकेशरम्। पत्रं तैलं सुरा मांसी कक्कोलं वनिताम्बुदम्। हरिद्रे शारिवे तिक्ता लवङ्गागुरुकुङ्कुमम्। त्वग्रेणुनलिकटुमिस्तैलं मस्तु चतुर्गुणम्। लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्ण्णकृत्। अपस्मारज्वरोन्मादकृत्याऽलक्ष्मीविवाशनम्। आयुःपुष्टिकरं चैव वशीकरणमुत्तमम्” चक्रदत्तोक्ते तैलभेदे।
चन्दनीया = स्त्री चन्द्यतेऽनया बा० करणे अनीयर्। गोरोचनयाम् राजनि०।
चन्दिर = पुंस्त्री० चदि–किरच्। १ गजे स्त्रियां ङीष्। २ चन्द्रे पु० मेदि०।
चन्द्र = पु० चदि–आह्लादे णिच्–रक्। व्योमस्थे जलमये मण्डलाकारे (चा~द) ख्याते पदार्थे। तन्मण्डलमानादि इन्दुशब्दे ९५५। ५६ पृ० उक्तम्। स च ग्रहभेदः तदधिष्ठावृदेवादि ग्रहयज्ञशब्दे २७५७ पृ० दर्शितम्। अधिकमिन्दुशब्दे ९३० पृष्ठादौ दृश्यम्। तस्योत्पत्तिः अत्रिजशब्दे १११ पृ० उक्तम्। तद्वंशादि हरिवंशे भागवते च दृश्यम्। चन्द्रस्य दिग्वलवर्ण्णादिज्ञानाय सर्वग्रहाणां दिग्बलाद्युच्यते तत्र ज्यो० त० “रक्तश्यामोभास्करोगौरैन्दुर्नात्युच्चाङ्गोरक्तगौरोमहीजः। दूर्वाश्यामोज्ञोगुरुर्गौरगात्रः श्यामः शुक्रोभास्करिः कृष्णदेहः”। “सूर्य्यः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी। सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः”। “प्राच्यां सौम्यसुराचार्य्यौ याम्या भास्करभूमिजौ। प्रत्यक् सौरिरुदीच्यान्तु सितेन्दू दिग्वलान्वितौ”। “भौमार्कजीवाः पुरुषाः क्लीवौ सोमजभानुजौ। स्त्र्याख्यौ भार्गवचन्द्रौ द्वौ तत्पतित्वात्तथोच्यते”। “चन्द्रार्कजीवाज्ञसितौ कूजाकीं यथाक्रम” सत्वरजस्तमांसि”। “कटुलवणतिक्तमिश्रितमधुराम्लौ च कषायकोऽर्कतः”। “ब्राह्मणे शुक्रवागोशौ क्षत्रिये भौमभास्करौ। चन्द्रोवैश्ये बुधः शूद्रे पतिर्मन्दोऽन्त्यजे जने”। “ऋग्वेदाधिपतिर्जीवोयजुर्येदाधिपः सितः। सामवेदाधिपोभौमः शशिजोऽथर्ववेदराट्”। “मधुपिङ्गरादृक्चतुरश्रतनुः पित्तप्रकृतिः सविताल्पकचः। तनुवृत्ततनुर्बहुवातकफःप्राज्ञशशी मृदुवाक् शुभदृक्। भूमिजस्तरुणभूर्त्तिरुदारः पैत्तिकः सुचपलः कृशमध्यः। श्लिष्टाक् सततहास्यरुचिर्ज्ञः पित्तमारुतकफप्रकृतिश्च। वृहत्तनुः पिङ्गलमूर्द्धजेक्षणोवृहस्पतिः श्रेष्ठमतिः कफात्मकः। भृगुः सुखी कान्तवपुः सुलोचनः कफानिलात्माऽसितवक्रमूर्द्धजः। मन्दोऽलसः कषिलदृक् कृशदीर्घगात्रः स्थूलोऽङ्घ्रिजः परुषलोमकचोऽनिलात्मा” “मित्राणि सूर्य्यच्छिशिभौमजीवाः सूर्य्येन्दुजौ सूर्य्यशशाङ्कजीवाः। आदित्यशुक्रौ रविचन्द्रभौमा बुधार्कजौ चन्द्रजभार्गवौ च। “सितासितौ चन्द्रमसो न कश्चित् बुधः शशी सौम्यसितौ रवीन्दू। रवीन्दुभौमा रवितस्त्वमित्रा मित्राविशेषस्तु समः प्रदिष्टः। बुधः कुजेज्यास्फुजिदर्कपुत्राः, शुक्रार्कजौ, भौमसुरेज्यमन्दाः। शनिः, कुजेज्यौ सुरराजमन्त्री रव्यादितोऽमी समसंज्ञिताः स्युः”। तच्चारफलादिकम् वृ० स० उक्तम् तच्च इन्दुशब्दे ९३१। ३२ पृ० दृश्यम् “अर्द्धादूनः शशी पापः” समयामृतम्। अद्रिजातसोमस्य चन्द्रलोकप्राप्तिकथा काशीख० १४ अ०। “पिता सोमस्य भो विप्र! जज्ञेऽत्रिर्भगवानृषिः। ब्रह्मणोमानसात् पूर्वं प्रजासर्गं विधित्सतः। अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नौ श्रुतम्। ऊर्द्धमाचक्रमे तस्य रेतः सोमत्वमीयिवः। नेत्राभ्यां तच्च सुस्नाव दशधा द्योतयत्दिशः। तं गर्भविधिना हृष्टा दश देव्यो दधुस्ततः। समेत्य धारयामासुर्नैव ताः समशक्नुवन्। यदा न धारणे शक्तास्तस्य गर्भस्य ता दिश। ततस्ताभिः सजूः सोमोनिष्पपात वसुन्धराम्। पतितं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया। स तेन रथमुख्येन सागरान्तां वसुन्धराम्। द्विः सप्तकृत्वे द्रुहिणश्चकाराये प्रदक्षिणम्। तस्य यत् प्लावितन्तेजः पृथिवीमन्वपद्यत। तेनौषध्यः समुद्भूता याभिः सन्धार्य्यते जगत्। स लब्धतेजा भगवान् ब्रह्मणा वर्द्धितः स्वयम्। तपस्तेपे सहाभाग! पद्मानां दशतीर्दश। अविमुक्तं समासाद्य क्षेत्रं परमपावनम्। संस्थाप्य लिङ्गममृत चन्द्रेशाख्यं खनामतः। वीजोषधीनां तोयानां राजाऽ भूच्च द्विजन्मनाम्। प्रसादाद्देवदेवस्य विश्वेशस्य पिनाकिनः। तत्र कुण्डं विधायैकममृतोदमिति स्मृतम्। यस्याम्बुपानस्रानाभ्यां नरोऽज्ञानात् प्रमुच्यते। तुष्टेन देवदेवेन स्वमौलौ योधृतः सदा। आदाय तत्कलामेकां जगत्सञ्जीवनीं पराम्। पश्चाद्दक्षेण शप्तोऽपि मासान्ते क्षयमाप्य च। आप्याय्यतेऽसौ कलया पुनरेघ तया शशी। स तत् प्राप्य महद्राज्यं सोमः सोमवतां वरः। राजसूयं समाजह्रे सहस्रशतदक्षिणम्। दक्षिणामददत् सोम स्त्रिलोकानिति नौ श्रुतम्। तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भोद्विज!। हिरण्यगर्भो ब्रह्मात्रिर्भृगुर्यत्रर्त्विजोऽभवन्। सदस्योऽभूद्धरिस्तत्र बहुभिर्मुनिभिर्वृतः। तं सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः। कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविर। उमया सहितं रुद्रं सन्तर्प्याध्वरकर्मणा। प्राप सोमैति ख्यातिं दत्तां सोमेन शम्भुना। तत्रैव तप्तवान् सोमस्तपः परमदुष्करम्। तत्रैव राजसूयञ्च चक्रे चन्द्रेश्वराग्रतः। तत्रैव ब्राह्मणैः प्रीतैरित्युक्तोऽसौ कलानिधिः। सोमोऽस्नाकं ब्राह्मणानां राजा त्रैलोक्यदक्षिणः। तत्रैव देवदेवस्य विलोचनपदङ्गतः। शम्भुना प्रोतमनसा त्रैलोक्याह्लादहेतवे। त्वं ममापि परा मूर्त्तिरित्युक्तस्तत्तपीबलात्! जगत्तवोदयं प्राप्य भविष्यति सुखोदयम्। त्वत्पीयूष मयैर्हस्तैः स्पृष्टमेतच्चराचरम्! भानुतापपरीतञ्च परां ग्नानिं विहास्यति”। “इति दत्त्वा वरान् शम्भुस्तस्मै चन्द्रमसे द्विज!। अन्तर्हितो महेशानस्तस्मिन् वैश्वेश्वरे पुरे। तदारभ्य च लोकेऽस्मिन् द्विजराजाऽधिपोऽभवत्”। तस्य मासमध्ये दक्षशापात् क्षयवृद्धी पाद्मे स्वर्गखण्डे उक्ते यथा “अश्विन्याद्यास्तु दक्षस्य उपयेमे सुता विधुः। रोहिण्या मेव सततं बद्धप्रेमा रराम ह। दृष्ट्वा तदितरास्तानु तप्ताः पितरमब्रुवन्। अस्माकं कामदस्तात। जामाता तव रोहिणीम्। रमयत्येव सततं तेन तप्ता वयं पितः!। तत् श्रुत्वा चाप्रियं दक्षः सोममाह भजस्व भोः। प्रेम्णा समेन सर्व्वास्त्वं दुहितॄर्मम मानद!। जगृहे त द्वचोनैव सोमः सप्रेम रोहिणीम्। तथैव रमयामास श्रुत्वा दक्षश्चुकोप ह। शशाप तेन भविताऽपक्षीणोऽस्मद्वचातिगः। यक्ष्मणा च परिग्रस्तो भव त्वं क्षीणरेतकः। अय क्षयमिते तस्मिन् सर्व्वास्ताः सहिताः स्त्रियः। पितरं शरणं प्राप्ताः क्षीयते नः पतिः पितः!। न वयं तेन वर्त्तामो विना सुखनिराकृताः। उवाच दक्ष स्ताः सर्व्वा शापो मे नान्यथा भवेत्। मासमध्ये पक्षमेकं वर्द्धतां स क्रमेण वै। क्षयं क्रमेण प्राप्नोतु पक्षमेकं व्यवस्थया। एवं शापं वरञ्चैव लेभे तस्य व्यवस्थया। तथैव राजते व्योम्नि क्षयवृद्धी दधद्विधुः”। ज्योतिषोक्ततत्कारणन्तु इन्दुशब्दे ९३३ पृ० दर्शितम्। २ आह्लादजनकद्रव्यमात्रे त्रिका०। ३ कर्पूरे ४ स्वर्णे ५ जले ६ काम्पिल्ले पु० मेदि०। ७ द्वीप्रभेदे शब्दमा०। ८ विसर्गवर्णे तन्त्रसंकेतः चदि–दीप्तौ रक्। ९ कमनीये त्रि० १० मयूर पिच्छे मेचके हेमच०। ११ शोणमुक्ताफले व्याडिः। अन्त्यपदलोपे १२ चन्द्रगुप्ते नृपे च। “क्रूरग्रहः सकेतुः चन्द्रमसंपूर्ण्णमण्डलमिदानीम्” मुद्रारा०। “चन्द्रं गता पद्मगुणान्न भुङ्क्ते” कुमा०। “बधूजनश्चन्द्रमधश्चकार” नाघः। “चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्” सा० द० तस्य शृङ्गाररसोद्दीपकत्वमुक्तम्। स्वर्णे “चन्द्ररथः “होता मन्द्रः शृणुवच्चन्द्ररथः” ऋ० १। १४१। १२। १३ हीरके। चन्द्राघिष्ठातृके १४ मृगशिरोनक्षत्रे १५ एकाङ्के च।
चन्द्रक = पु० चन्द्र इव काथति कै–क। मयूरपुच्छस्थे चन्द्राकारे १ पदार्थे अमरः। २ नखे शब्दच० ३ मत्स्यमेदे (चा~टा) राजनि०। “चन्द्रकस्त्वनभिष्यन्दी मधुरो बलवर्द्धनः” राजनि० तद्गुणाउक्ताः। स्वार्थे क। ४ चन्द्रशब्दाथ जले पतितस्नेहांशस्य चन्द्राकारे ५ मण्डले च “यां चन्द्रकैमेदजलस्य महानदीनाम्” माघः। ६ सितमरिचे न० राजनि० ७ शिग्रुवीजे न० शब्दार्थचि० चन्द्रकोजातोऽप्य तारका० इतच्। चन्द्रकित जातचन्द्रके त्रि०।
चन्द्रकला = स्त्री ६ त०। चन्द्रमण्डलस्य षोडशभागैकभागे तासां नामानि कलाशब्दे १७८४ पृ० दर्शितानि तिथिभेदे स्त्रीणां देहांशभेदे स्थितानां तासां नामभेदाश्च काम शान्त्रे उक्ता यथा “पुषा यशा सुमनसा रतिः प्राप्तिस्तथा धृतिः। ऋद्धिः मौम्या मरीचिश्च तथा चैवांशुमालिनी। अङ्गिरा शशिनी चेति छाया सम्प्रूर्ण्णमण्डली। तुष्टिश्चैवामृत। चेत्रि कलाः सोमस्य पोडश”।
चन्द्रकवत् = पुंस्त्री चन्दकोऽस्त्यस्य मतुप् मस्य वः। मयूरे “प्राद्दुवत् सपदि चन्द्रकवान् द्रुमाग्रात्” माघः। त्रियां ङीप्।
चन्द्रकाटुकि = पु० प्रवरभेदे हेमा० व्र० ख० मूलं वृश्यम्।
चन्द्रकान्त = पु० चन्द्रः कान्तोऽभीष्टो यस्य। स्वनामख्याते १ मणिभेदे तद्दर्शने हि तस्य जलस्रावात् तत्कान्तत्वम्। २ कैरवे, ३ श्रीखण्डचन्दने च न०। ४ रात्रौ, ५ ज्योत्स्नायां, स्त्री मेदि० ६ चन्द्रघोषायां, चन्द्रपत्न्थाञ्च स्त्री हेमच०। “चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम्” मुश्रु०। “सायं शशाङ्ककिरणाहतचन्द्रकान्तः” “दृष्ट्वा तस्यामल वपुरिदं चन्द्रकान्तानुसारि” अमरुश०। “चन्द्रकान्ताभिधा रौ तौ विरामः स्वराष्टौ” वृ० र० टी० उक्ते पञ्चदशाक्षरपादके ७ छन्दोभेदे स्त्री। “८ लक्ष्मणात्मज चन्द्रकेतुराजधान्यां स्त्री चन्द्रकेतुशब्दे दृश्यम्।
चन्द्रकान्ति = न० चन्द्रस्येव कान्तिरस्य शुभ्रत्वात्। १ रजते रूप्ये, ६ त०। तद्गुणादि भावप्र० उक्तं यथा
“त्रिपुरस्य बघार्थाय निर्न्निमिषैर्विलोचनैः। निरीक्षयामास शिवः क्रोधेन परिपूरितः। अग्निस्तत्कालमपतत्तस्यैकस्माद्विलोचनात्। ततोरुद्रः समभवद्वैश्रानर इव ज्वलन्। द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु वामकात्। तस्माद्रजतमुत्पन्नमुक्तवर्म्मसु योजयेत्। कृत्रिमञ्च भवेत्तद्धि वङ्गादिरसवोगतः। रूप्यन्तु रजतं तारञ्चन्द्रकान्ति सितप्रयम्। गुरुस्निग्धं मृदुश्वेतं दाहे छेदे घनक्षयम्। वर्णाढ्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम्। कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु। दाहच्छेदघनैर्नष्टं रूक्षं दुष्टं प्रकीर्त्तितम्। रूप्यं शीतं कषायाम्लं स्वादु पाकरसं सरम्। वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्। प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम्। तारं शरी रस्य करोति तापं विद्धं वनं वलं यच्छति शुक्रनाशम्। वीर्य्यं बलं हन्ति तनोश्च पुष्टिं महागदान् शोषयति ह्यशुद्धम्”। चन्द्रस्य २ दीप्तौ
चन्द्रकिन् = पु० स्त्री चन्द्रकोऽस्त्यस्य इनि। मवूरे त्रिका० स्त्रियां ङीप्।
चन्द्रकुण्ड = पुंन० ६ त०। कामरूपस्थे चन्द्रकृते कुण्डभेदे चन्द्रकूटशब्दे दृश्यम्।
चन्द्रकूट = पु० कामरूपस्थे पर्व्वतभेदे तत्वाघा कालिका० ८१ अ० “पूर्व्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः। त्रिकोणस्ताम्रसङ्काशस्तदूर्द्धे चन्द्रमण्डलम्। द्वितीयवर्गस्याद्यन्तु विन्द्विन्दुभ्यामलङ्कृतम्। चन्द्रवीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयत्। अद्यापि प्रतिदर्शे तु पर्व्वतं तं निशापतिः। अदक्षिणीकरोत्येव दशभीरश्मिभि- र्युतः। तस्यैव पूर्व्वभागे तु सोमकुण्डाह्वयं सरः। तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते। स्वर्गादवभृतश्चन्द्रः कामाख्यासेवने यदा। तदा तद्रश्मिसंघात निःसृतास्तोयराशयः। तैस्तोयैर्व्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः। मध्ये पुण्यतमस्थने स्वयं ब्रह्म शिलोपरि। चन्द्ररश्मिसमुद्भूत! चन्द्रकुण्डमहोदधेः। सुधास्रवण! साह्लाद! त्वं चन्द्र! कलुषं हर। इत्यनेन तु मन्त्रेण सुस्नातश्च चन्द्रपाथसि। चन्द्रकूटं समारुह्य पूजयेद्यस्तु तं नरः। अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते। परत्र चन्द्रभवनं भित्त्वा याति परं पदम्। तीरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः। तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः। न्यञ्चभावं समासाद्य सर्व्वदेवेश्वरो हरिः। सेवितुं त्रिदशेशानीं सततं वर्त्तते नरः। चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथागिरेः। प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा। चन्द्रकुण्डजले स्नात्वा समारुह्याथ नन्दनम्। आराध्य शक्रं लोकेशं महाफलमवाप्नुयात्”।
चन्द्रकूप = पु० चन्द्रकृतः कूप काशीस्थे कूपभेदे। “चन्द्रकूपजले स्नात्वा जग्राह नियमं व्रती” काशीख० १० अ०।
चन्द्रकेतु = पु० भारतप्रशिद्धे १ सौबलानुचरे सैन्यभेदे “शत्रञ्जयं चन्द्रकेतु” महामेघ सुवर्च्चसम्। सूर्य्यभासञ्च पञ्चैतान् हत्वा विव्याध सौबलम्” भा० द्रो० ४८ अ०। २ लक्ष्मणात्मजभेदे। तस्व देशभेदे राज्याभिषेककथा रागा० उ० १०३ स० “इमौ कुमारौ सौमित्रे! तव धर्म्मविशारदौ। अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ। इमौ राज्येऽभिषेक्ष्यामि देशः साधु विचीयताम्। रमणीयोह्यसंताधोरमेतां यत्र धन्विनौ। न राज्ञा यत्र पीडा स्यान्नाश्रमाणां विनाशनम्। स देशो दृश्यतां सौम्य नापराध्यामहे यथा। तथाक्तवति रामे तु भरतः प्रत्युवाच ह। अयं कारुपथो देशो रमणीयो निरामयः। निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः। चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम्। तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः। तञ्च कृत्वा वशे देशमङ्गदस्य न्यवेशयत्। अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता। रमणीया सुगुप्ता च रामेणाक्लिष्टकर्म्मणा। चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता। चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा। ततोरामः परां प्रीतिं लक्ष्मणो भरतस्तथा। ययुर्युद्धे दुराधर्षाअभिषेकञ्च चक्रिरे। अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सुसमाहितौ। अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्। अङ्गदञ्चापि सौमित्रिर्लक्षणोनुजगाम ह। चन्द्रकेतोस्तु भरतः पार्ष्णि ग्राहो वभूव ह”।
चन्द्रक्षय = पु० क्षीयतेऽस्मिन् क्षि–आधारे अच्। ६ त०। अमावास्यायाम् मेदि०।
चन्द्रगिरि = पु० चन्द्रकूटाख्ये पर्व्यतभेदे
चन्द्रगुप्त = पु० मौर्य्यवंश्ये राजभेदे तद्राज्याभिषेककथा वृहत्कथायां विस्तरतो दृश्या। “नव नन्दान् द्विज कश्चित् प्रपन्नानुद्धरिष्यति। तेषामभावे जगतीं मौर्य्या भोक्ष्यन्ति वै कलौ। सएव चन्द्रगुप्तं वै द्विजो राज्येऽभि षेक्ष्यति” भाग० १२। १। ७। श्लो०। “द्विजः कश्चित् चाणक्यः” श्रीधर० “ततोऽपि द्विसहस्रेषु दशाधिकशतत्रये। भविष्यं नन्दराज्यञ्च चाणक्योयान् हनिष्यतीति” स्कन्दपुराणेकवाक्यत्वात् तत्रार्थता।
चन्द्रगृह = न० ६ त०। कर्कराशौ। चन्द्रमन्दिरादयोऽप्यत्र
चन्द्रगोल = पु० चन्द्रएव गोलः। गोलाकारे चन्द्रमण्डले
चन्द्रगोलस्थ = पु० ब० व०। चन्द्रगोले तिष्ठन्ति स्था–क। चन्द्रलोकस्थेषु स्वधाभोजिषु पितृलोकेषु त्रिका०। “विधूर्द्ध्वभागे पितरोवसन्ति” सू० सि० उक्ते स्तेषां तथात्वम्।
चन्द्रगोलिका = स्त्री चन्द्रगोलः साधनत्वेनास्त्यस्य ठन्। ज्योत्स्नायां हेम०।
चन्द्रचञ्चल = पु० चन्द्र इव चञ्चलः। (खलिसा) १ मत्स्यभेदे जटा। (चा~दा) २ मत्स्ये स्त्री शब्दर०।
चन्द्रचार = पु० चन्द्रस्य चारः गतिभेदः। चन्द्रमण्डलस्य राशिविशेषे गतौ तत्फलम् इन्दुशब्दे ९३१ पृ० उक्तम्
चन्द्रचूड = पु० चन्द्रः चूडास्याम् यस्य। चन्द्रशेखरे शिवे।
चन्द्रज = पु० चन्द्राज्जायते जन–ड। बुघे चन्द्रजातादयोऽप्वत्र। इन्दुजशब्दे ९३४ पृ० दृश्यम्। “रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रक्षापीडा” वृ० स० ७। ३।
चन्द्रतापन = पु० दानवभेदे। “श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा। चन्द्रतापनः” हरिवं० २४० अ० दानवोक्तौ
चन्द्रदार = पु० ब० व० ६ त०। अश्विन्यादिषु १ दक्षकन्यासु चन्द्रकलत्रेषु २ तन्नामनक्षत्रेषु च।
चन्द्रदेव = पु० भारतप्रसिद्धे कुरुदलस्थे नृपभेदे “प्रत्युद्ययुस्त्रिगर्त्तास्तम् (अर्जुनम्) इत्युपक्रमे” “सत्यसेनश्चन्द्रदेवोमित्रदेवः सुतञ्जयः” “शत्रुञ्जयञ्च विंशत्या चन्द्रदेव तथाष्टमिः” इति च भा० क० २७ अ०।
चन्द्रद्युति = पु० चन्द्रस्य द्युतिरिव द्युतिरस्य। चन्दने मावप्र० चन्दनशब्दे दृश्यम् ६ त०। २ चन्द्रस्य प्रकाशे स्त्री
चन्द्रनाभ = पु० चन्द्रोनाभौ यस्य संज्ञायाम् अच्। भारतप्रसिद्धे दानवभेदे। “सूर्य्यनाभश्च विक्रान्तश्चन्द्रनाभश्च भारत!” हरिवं० ३२४ अ० दानवोक्तौ।
चन्द्रनामन् = पु० चन्द्रस्य नामान्येव नामान्यस्य। कर्पूरे शब्दार्थचि०। चन्द्रसंज्ञचन्द्राह्वयादयोऽप्यत्र
चन्द्रपाद = पु० ६ त०। चन्द्रकिरणे। “नियमितपरिखेदा तच्छिरश्चन्द्रपादैः” कुमा०। चन्द्रचरणादयोऽप्यत्र।
चन्द्रपुत्र = पु० ६ त०। बुधे चन्द्रनन्दनादयोऽप्यत्र।
चन्द्रपुष्पा = स्त्री चन्द्र इव श्वेतं पुष्पमस्याः। श्वेतकण्टकार्य्याम् राजनि०।
चन्द्रप्रभ = पु० चन्द्रस्य प्रभेव प्रभाऽस्य। १ जैनभेदे हेम०। “कृमिरिपुदहनव्योषत्रिफलामरदारुचव्यभूनिम्बम्। मागधिमूलं मुस्तं सशटिवचामाक्षिकञ्चैव। लवणक्षार निशायुगकुस्तुम्बुरुगजकरणातिविषाः। कर्षांशकान्येव समानि कुर्य्यात् पलाष्टकञ्चाश्मजतोर्विदध्यात्। निष्पत्रशुद्धस्य पुरस्य धीमान् पलद्वयं लौहरजस्तथैव। सिताचतुष्कं पलमत्र वंश्यानिकुम्भकुम्भत्रिसुन्धियुक्तम्। चन्द्रप्रभेयं गुटिका प्रयोज्या चार्शांसि निर्यातयते षडेव। भगन्दरं पाण्डुरकामलाञ्च निर्नष्ट वह्नेः कुरुते च दीप्तिम्। हन्त्यामयान् पित्तकफानिलोत्यान् नाडीगते मर्म्मगतव्रणे च। ग्रन्थ्यर्बुदे विद्रधिराजयक्ष्मणोर्मेहे भगाख्ये प्रबले च योज्या। शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे शुक्रुप्रवाहेऽप्युदरामये च। भक्तस्य पूर्ब्बं सततं प्रयोज्या तक्रानुपानं त्वथा मस्तुपानम्। आजोरसो जाङ्गलजो रसो वा पयोऽथ वा शीतजलानुपानम्। बलेन नागस्तुरगोजवेन दृष्ट्या सुपर्णः श्रवणे वराहः। बलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते। न पानभोज्ये परिहार्य्यमस्ति न शीतवातातपमैथुनेषू। शम्भुं समभ्यर्च्य कृतप्रसादेनाप्ता वटी चन्द्रमसः प्रासादादिति” मुखबोधोक्ते गुटिकाभेदे स्त्री चक्रदत्तोक्ते ३ वर्त्तिर्भेदे स्त्री तत्प्रकारो यथा “त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसोरजः। नीलोत्पलं विडङ्गानि फेनञ्च सरितां पतेः। आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने। सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वत्त येत्। एषा दृष्टिप्रदा वर्त्तिरन्धस्याभिन्नचक्षुषः। चन्दनत्रिफलापूगपलाशतरुशोणितैः। जलपिष्टैस्त्वियं वर्त्तिरशेपतिमिरापहा। निशाद्वयाभयामांसीकुष्ठतृष्णा- विचूर्णिता। सर्वनेत्रामयान् हन्यादेतत् सौगतमञ्जनम्। व्योषोत्पलाभयाकुष्ठतार्क्ष्यैवर्त्तिः कृता हरेत्।। अर्बुदं पटलं काचं तिमिरार्म्माश्रुनिस्रुतिम्। त्र्यूषणं त्रिफलावक्रसैन्धवालमनःशिलाः। क्लेदोपदेहकण्डूथ्नी वर्त्तिः शस्ता कफापहा। एकगुणा मागधिका द्विगुणा च हरीतकी। सलिलापिष्टा वर्त्तिरियं नयनसुखार्म्मतिमिरपटलकाचाश्रुहरी। अञ्जनं श्वेतमरिचं पिप्यली मधुयष्टिका। विभीतकस्य मध्यन्तु शङ्खनाभिर्मनःशिला। एतानि समभागानि अजाक्षीरेण पेषयेत्। छायाशुष्कां कृतां वर्त्तिं नेत्रेषु च प्रयोजयेत्। अर्बुदं षटलं काचं तिमिरं रक्तराजिकाम्। अधिमांसं मलञ्चैव यश्च रात्रौ न पश्यति। वर्त्तिश्चन्द्रप्रभा नाम जातान्ध्यमपि शोधयेत्।”
चन्द्रबाला = स्त्री चन्द्रस्य कर्पूरस्य बालेव तुल्यगन्घित्वात्। १ स्थूलैलायाम् राजनि०। अन्त्यस्थबमध्य इत्यन्ये। २ औषधभेदे ६ त०। ३ ज्योत्स्नायां ४ चन्द्रपत्न्थाञ्च।
चन्द्रभस्मन् = न० चन्द्र इव शुभ्रं भस्म। कर्पूरे शब्दार्थचि०।
चन्द्रभाग = पु० चन्द्रस्य भागोऽत्र। १ पर्व्वतभेदे तत्र जातायां २ नद्यां स्त्री। तयोः कथा कालि० पु० २०। २२ अ० यथा “ऋषय ऊचुः। “चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ। कीदृक्सरस्तद्विप्रेन्द्र! वृहल्लोहितसंज्ञकम्। कथं स पर्व्वतश्रेष्ठश्चन्द्रभागाह्रयोऽभवत्। चन्द्रभागाह्वया कस्वान्नदी जाता वृषोदका। एतन्नः श्रोष्यमाणानां जायते कौतुकं महत्। माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तदा। मार्कण्डेय उवाच। श्रूयतां चन्द्रभागाया उत्पत्तिर्द्विज सत्तमाः!। युष्माभिश्चन्द्रभागस्य महात्म्य नाम कारणम्। हिमवद्गिरिसंसक्तशतयोजनविस्तृतः। योजनत्रिंशतोच्छ्रायः कुन्देन्दुधवलोगिरिः। तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम्। विभज्य कल्पयामास देवार्थं स पितामहः। पित्रथञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम्। कल्पयामास जगतां हिताय कमलासनः। विभक्तश्चन्द्रमा यस्मात् तस्मित् पर्व्वतसत्तमे। अतो देवाश्चन्द्रभागं नाम्नाचक्रुः पुरा गिरिम्” कालि० पु० २०। २२ अ०। “मार्कण्डेय उवाच। “यत्र देवसमा भूता सानौ तस्य महागिरेः। तत्र जाता देवनदी सीताख्या वचनाद्विधेः। स्नाप्रयित्वा यदा चन्द्रं सौतातोयैर्मनोहरैः। चन्द्रं घपुर्व्रह्मवाक्यात् सर्व्वे ते त्रिदिवौकसः। तदा सीताजलं चन्द्रस्नानयोगाच्च सामृतम्। भूत्वा निपतितं तस्मिन् वृहल्लोहितसंज्ञके। तद्विवृद्धं तदा तोयम् तस्मिन् सरसि निर्मलम्। तद्ददर्श स्वयं ब्रह्मा विवृद्धं साधु तज्जलम्। तद्दर्शनाज्जलात्तस्मादुत्थिता कन्यकोत्तमा। चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः। भार्य्यार्थे सागरस्तान्तु जग्राह ब्रह्मसम्मते। तत्रैवाधिष्ठितं तोयं गदाग्रेण निशापतिः। निर्भिद्य पश्चिमे पार्श्वे गिरिं तत्तु प्रवाहते। तत्सामृतजलं भित्त्वा वृहल्लोहितसंज्ञकम्। कासारं सागरं जात चन्द्रभागा नदी तु सा। सागरोऽपि तदा भार्य्यां चन्द्रभागां महानदीम्। तेन तोयप्रवाहेण निनाय भवनं स्वकम्। एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी। चन्द्रभागे महाशैले गुणैर्गङ्गासमा सदा”।
चन्द्रभूति = न० चन्द्रस्येव भूतिः कान्तिरस्य। रजते राजनि० तस्य चन्द्रतुल्यकान्तिमत्त्वात् तथा त्वम्।
चन्द्रमणि = पु० चन्द्रप्रियोमणिः शाक० त०। चन्द्रकान्तमणौ हेमच०।
चन्द्रमण्डल = न० ६ त०। गोलाकारे विम्बे चन्द्रस्य तन्मानादि इन्दुशब्दे ९३२ पृ० दृस्यम्।
चन्द्रमल्ली = स्त्री चन्द्र इव मल्ली। अष्टापद्यां शब्दचि०।
चन्द्रमस् = पु० चन्द्रमाह्लादं मिमीते मि–असुन् मादेशः चन्द्रं कर्पूरं माति तुलयति मा–असुन् वा। १ चन्द्रे २ कर्पूरे च अमरः। “सितासितौ चन्द्रमसोन कश्चित्” ज्यो० त०। “राहुर्वै हस्ती भूत्वा चन्द्रमसं गृह्णाति” श्रुतिः। “क्रूरग्रहः सकेतुश्चन्द्रमसं पूर्ण्णमण्डलमिदानीम्” मुद्रारा०। तस्येदमित्यण् चान्द्रमस तत्सम्बन्धिनि “तिथिश्चान्द्रमसं दिनम्” सू० सि०। स्त्रियां ङीप्। “पद्माश्रिता चान्द्रमसीमभिख्याम्” कुमा०।
चन्द्रमा = स्त्री चन्द्रेण मीयते मा–घञर्थे क। नदीभेदे। “कौशिकी मिश्रपा शोणं बाहुदामथ चन्द्रमाम्” भा० भी० ९ अ० भारतवर्ष नदीकथने।
चन्द्रमौलि = पु० चन्द्रो मौलावस्य। महादेवे इन्दुमौलि शब्दे ९३६ पृ० दृश्यम्। “चन्द्रमौलिः सदाशिवः” विष्णुधर्म्मो०।
चन्द्ररसा = स्त्री चन्द्र इवाह्लादको रसोऽस्याः। भारतवर्षस्थे नदीभेदे। “चन्द्ररसा ताम्रपर्ण्णीत्यादि” भाग० ५। १८। १८। नद्युक्तौ “तत्रचन्द्ररसा ताम्रपर्ण्यादयः” भाग० ४। २। ३१।
चन्द्ररेखा = स्त्री ६ त०। चन्द्रस्य मण्डलसूचकरेखाभेदे २ अपसरोभेदे च “चन्द्ररेखा तिलोत्तमा” काशीख० ८ अ०। ३ वाकुचोलतायाम् राजनि०। ४ चन्द्रशेखरसहजायां चन्द्रशेखरशब्दे दृश्यम्। “नसरयुगलैश्चन्द्ररेखर्त्तुलोकैः” वृ० र० टी० उक्ते ५ छन्दोभेदे च
चन्द्ररेणु = पु० चन्द्रआह्लादकोरेणुरत्र। काव्यचौरे त्रिका०।
चन्द्रला = स्त्री कर्ण्णाटदेशख्याते १ देवीभेदे २ तत्स्थाने च शब्दार्थचि
चन्द्रलेखा = स्त्री चन्द्रं तत्कान्तिं लिखति लिख–अण् उप० स०। (हाकुच्) ख्याते १ लताभेदे राजनि०। ६ त०। २ चन्द्ररेखायाम्। “म्रौमोयौ चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा” छन्दोम० उक्ते पञ्चदशाक्षरपादके ३ छन्दोभेदे च।
चन्द्रलोहक = चन्द्र इव शुभ्रं लोहकं धातुद्रव्यम्। रजतधातौ राजनि०।
चन्द्रवश = पु० ६ त०। चन्दस्य सन्तानादिपरम्परायां स च हरिवं २५ अध्यायादौ उक्तः। तत्र भवः यत्। चन्द्रवंश्य तद्वंशोद्भवे त्रि०।
चन्द्रवर्त्मन् = न० चन्द्रवर्त्म निदगदन्ति वनभसैः वृ० र० उक्ते द्वादशाक्षरपादके छन्दोभेदे।
चन्द्रवल्लरी = स्त्री ६ त०। सोमलतायाम् भरतः।
चन्द्रवल्ली = स्त्री चन्द्र इव वल्ली सुधातुल्यमधुस्रावित्वात्। १ माधवीलतायाम् राजनि०। २ सोमलतायां च।
चन्द्रविन्दु = पु० चन्द्रः अर्द्धचन्द्रयुक्तोविन्दः। अर्द्धचन्द्राकारोपरिगतविन्दुरूपसन्निवेशरूपे वर्ण्णभेदे।
चन्द्रविहङ्गम = पुंस्त्री चन्द्र इव अर्द्धाङ्गे शुभ्रः विहङ्गमः। (शङ्खचिल) शङ्खिनि खगे त्रिका०। स्त्रियां जातित्वात् ङीष्
चन्द्रव्रत = न० चन्द्रस्य चन्द्रलोकप्राप्तये व्रतम् नियमः। चान्द्रायणसंज्ञके व्रते। चान्द्रायणशब्दे दृश्यम्।
चन्द्रशाला = स्त्री चन्द्रः शालेवाधारो यस्याः। १ ज्योत्स्नायाम् त्रिका०। चन्द्र इव शाला उच्चस्थितत्वात्। २ प्रासादोपरिस्थे गृहे (चिलेघर) हारा०। “वियद्गतः पुष्पकचन्द्रशालाः” रघुः। “गृहराजः षोडशकस्त्रिचन्द्रशाला भवेद्वलभी” “बहुरुचिरचन्द्रशाला षड्विंशः पञ्चभौमश्च” वृ० स० ५६ अ०। ततः स्वार्थे क। चन्द्रशालिका १ वटभ्यां त्रिका०।
चन्द्रशिला = स्त्री चन्द्रप्रिया शिला शाक० मध्यपद० स०। चन्द्रकान्ते प्रस्तरभेदे। “प्रह्लादिता चन्द्रशिलेव तूर्णम्” भट्टिः।
चन्द्रशू(सू)र = पु० चन्द्रे तज्जेश्लैष्मिके रोगे शू(सू)र इव। चादसूर) (हालौ) इति च ख्याते वृक्षभेदे तत्फले न०” भावप्र०। “चन्द्रशू(सू)रं हितं हिक्वावातश्लेष्मातिसारिणाम्”। तद्गुणा उक्ताः
चन्द्रशेखर = पु० चन्द्रः चन्द्रकला शेखरेऽस्य। १ महादेवे इन्दुभृच्छब्दे ९३५ पृ० दृश्यम्। “रहस्युपालभ्यत चन्द्रशेखरः” कुमा०। चन्द्रयुक्तः शेखरोऽस्य। २ पर्व्वतभेदे। ३ पौष्यनृपपुत्रे करवीरपुराधीशे नृपभेदे कालिका पु० ४६ अ० तत्कथा यथा “ततः पुत्रार्थिनं भूर्प प्रसन्नो वृषभध्वजः। ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाह ह। ईश्वर उवाच। इदं फलं व्रह्मदत्तं विभज्य नृपते! त्रिधा। भोजयैताः स्वजाया स्त्वं प्रहृष्टः सुस्थमानसः। ततः प्रवृत्ते भवत एतासु ऋतुसङ्गने।। आथास्यन्ति च गर्भांस्तु भार्य्यास्ते युगपन्नृप!। काले प्राप्ते च युगपत् प्रसवो योषितां तव। भविष्यति नृपश्रेष्ठ! तदेवं त्वं करिष्यसि। एकस्या जठरे शीर्षं भार्य्यायास्ते भविष्यति। अपरस्यास्तथा कुक्षौ मध्यमागो भविष्यति। अधोनाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति। ततः खण्डत्रयं भूप! यथास्थानं पृथक पृथक्। योजयिष्यसि पश्चात्ते पुत्र एको मविष्यति। तस्य शीर्षे चन्द्ररेखा सहजा संभविष्यति। तेनैव नाम्ना सा ख्यातिं गमिष्यति च भूपते!।” इत्युपक्रमे “इत्युक्त्वा स महादेवस्तासां गर्भात् खयं तदा। संस्कर्त्तुं जाह्नवीतोयमात्मनः शिरसो न्यधात्। ततःफले स्वयं देवः प्रविवेश वृषध्वजः। तत्क्षणात् तत्फलं भूतं त्रिभाग स्वयमेव ह। पौष्यस्तत्फलमादाय मुदितः सह भार्य्यया। प्रययौ मन्दिरं हृष्टोह्यनुज्ञाप्य वृषध्वजम्। ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम्। तत् फलं नृपशार्द्दूलात् गर्भाश्चाप्याहिताःशुभाः। सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत। खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम्। तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य चं। एकं पिण्डं चकाराशु तत्र पुत्रो व्यजायत। तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा। विरराज यथा स्वच्छा शरत्काले कला विधोः। तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम्। सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा। दृष्ट्वा पौष्योऽथ भार्य्याभिस्तिसृभिः सह संमुदम्। लेभे दरिद्रः सत्कोषं प्राप्येव विपुलं ततः। तस्य ढामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः। चन्द्रशेखर इत्येवं कान्त्या चन्द्रम सा समः। ववृधे स महामागः प्रत्यहं चात्यराच। कलाभिरिव तेजस्वी शरदीव निशाकरः। एवं तिसृणामम्बानां गर्भे जातो यतोहरः। अतस्त्र्य- म्बकनामाऽभूत् प्रथितो लोकदेवयोः” इत्युपक्रमे “सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः। सार्वभौमो नृपोभूत्वा राजभिः परिषेवितः। अमरै रिव देवेन्द्रो विजहार श्रिया युतः। एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्वृतिम्। ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे। दृशद्वतीनदीतीरे राजा भूत्वा मुमोद ह”। “ऊनविंशतिवर्ण्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः। कथितः केन्दुके ताले भवेत् शृङ्गारवीरयोः” संगी० दा० उक्ते ४ ध्रुवकभेदे। ५ चट्टलदेशस्थमहापीठे ६ तत्रस्थे भैरवभेदे “चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः। व्यक्तरूपा भगवती भवानी तत्र देवता”। “विशेषतः कलियुगे वसामि चन्द्रशेखरे” तन्त्रचूडामणिः।
चन्द्रसम्भव = पु० चन्द्रः सम्भवोऽस्य। १ बुधे। २ क्षुद्रैलायाम् स्त्री शब्दच०।
चन्द्रसेन = पु० चन्द्रा आह्लादिका सेनाऽस्य। भारतप्रसिद्धे समुद्रमेनपुत्रे राजभेदे “समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतपपबान्” भा० आ० १८६ अ०। “जघान स (द्रोणिः) पृषद्रुञ्च चन्द्रसेनञ्च मानिवम्” भा० द्रो० १५६ अ०। “समुद्रसेनं निर्ज्जित्य चन्द्रसेनञ्च पार्थिवम्” भा० स० २९ अ०। भीमप्राचीविजये।
चन्द्रहन् = पु० चन्द्रं हतवान् हन–क्विफ्। १ दानवभेदे राहौ “एकाक्षश्चन्द्रहा राहुः संहारो मृदुलस्वनः” हरिवं० ४२ अ०। श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा चन्द्रतापनः २४० अ०।
चन्द्रहनु = पु० चन्द्र इव हनुरस्य। दानवभेदे चन्द्रहन् शब्दे उदा०।
चन्द्रहन्तृ = पु० चन्द्रं हन्ति हन–तृच् ६ त०। असुरभेदे भारतयुद्धकाले सएव शुनकनृपरूपेण प्रादुर्भूतः। यथाह भा० आ० सम्भ० ६७ अ०। “चन्द्रहन्तेति यस्तेषां कीर्त्तितः प्रवरोऽसुरः। शुनकोनाम राजर्षिः स बभूव नराधिपः” “चन्द्रहन्ता क्रोघहन्ता क्रोधवर्द्धन एव च” हरिवं० ४२ अ०। दानवकथने
चन्द्रहाम = पु० चन्द्रस्येव हासः प्रभाऽस्य, चन्द्रंहसति सितत्वात् हस–अण् वा। १ खड्ग २ रावणखडगे च मेदि०। ३ रौप्ये न० राजनि०। ४ गुडूच्यां स्त्री राजनि०।
***