चतुःकूटा = स्त्री श्रीविद्यामन्त्रभेदे तन्त्रसारे तत्स्वरूपं दृश्यम् “चतुःकूटा महाविद्या शङ्करेण प्रपूजिता” तन्त्रसा०।

चतुःपञ्च = त्रि० चत्वारः पञ्च वा वार्थे बहु० डच्। चतुःसंख्यके पञ्चसंख्यके वा। “अजानतामिवान्योन्यं चतुः पञ्चावशेषिताः” भाग० १। १५। २३। वा रस्य षत्वे चतुष्पञ्चेत्यप्यत्र।

चतुःपञ्चाशत् = त्रि० चतुरधिका पञ्चाशत्। (चौयान्न) १ चतुरधिकपञ्चाशत्संख्यायां २ तत्संख्यान्विते च “पशुपुरोडाशोहविस्तच्चतुःपञ्चाशत्” शत० व्रा० ६। २। २। ३७। ततः पूरणार्थे डट्। चतुःपञ्चाश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्। वा रस्य षत्वे चतुष्पञ्चाश इत्यप्यत्र।

चतुःपत्री = स्त्री चत्वारि चत्वारि पत्राण्यस्याः। क्षुद्रपाषाणभेदे राजनि०। वा रस्य षत्वे चतुष्पत्रीत्यप्यत्र

चतुःपर्णी = स्त्री चत्वारि चत्वारि प्रतिपर्णं पर्णान्यस्याः। क्षुद्राम्लिकायाम् (आमरुल्)। राजनि०। वा रस्य षत्वे चतुष्पर्ण्णीत्यप्यत्र।

चतुःपुण्ड्र = पु० चत्वारि पुण्डाणीवास्य। भिण्डावृक्षे राजनि०। वा रस्य षत्वे चतुष्पुण्ड्र इत्यप्यत्र।

चतुःफला = स्त्री चतुर्धा विभक्तं फलमस्याः। नागबलायाम् राजनि०। वा रस्य षत्वे चतुष्फलाप्यत्र।

चतुःशाल = न० चतसृणां शालानां समाहारः। अन्योन्याभिमुखशालाचतुष्टये “एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे। पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ज्यो० त०। वा रस्य विसर्गषत्वे चतुश्शातेत्यप्यत्र। ह्रखे वा ङीप् चतुः(श्)शालीत्यप्यत्र स्त्री।

चतुःषष्टि = स्त्री चतुरधिका षष्टिः। (चौषष्टि) १ चतुरधिकषष्टिसंख्यायां २ तत्संख्यान्विते च। वा रस्य विसर्गषत्वे। ततः पूरणे डट्। चतुःषष्ट तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।

चतुःषष्टिकला = स्त्री चतुःषष्टिमिता कला। उपविद्याभेदे ताश्च कलाशब्दे श्रीधरधृतवाक्ये दर्शिताः। खिलशुक्रनीतिशास्त्रे तु २ अ० अन्यविधा उक्ता यथा “पृथक् पृथक् तु विद्यानां लक्षणं संप्रकाशितम्। कलानां न पृथग् लक्ष्म नाम चास्तीह केवलम्। पृथक् पृथक् क्रिया चात्र कलाभेदस्तु जायते। यां यां कलां समाश्रिता, तन्नाम्रा जातिरुच्यते। हावभावादि संयुक्तं नर्त्तनं १ च कला स्मृता। अनेकवाद्यविकृतौ ज्ञानं तद्वादने २ कला। वस्त्रालङ्कारसंधानं ३ स्त्रीयूनोश्च कला मता। अनेकरूपाविर्भावकृतिज्ञानं ४ कला स्मृता। शय्यास्तरणसंयोगे पुष्पादिग्रथनं ५ कला। द्यूताद्यनेकक्रीडाभिरञ्जनं ६ तु कला स्मृता। अनेकासन संधाने रतिज्ञानं ७ कला स्मृता। कलासप्तकमेतद्धि गान्धर्वे समुदाहृतम्। मकरन्दासवादीनां मद्यादीनां कृतिः ८ कला। गुह्यशल्यहृतौ ज्ञाने सिराव्रणव्यधः ९ कला। हीनादिरससंयोगेऽन्नादिसंपाचनं १० कला। वृक्षादिप्रसवारोपपालनादिकृतिः ११ कला। पाषाणधात्वादिद्रु तिस्तम्भस्य करणं १२ कला। यावदिक्षुविकाराणां कृतिज्ञानं १३ कला स्मृता। धात्वोषधीनां संयोगक्रियाज्ञानं १४ कला स्मृता। धातुसाङ्कर्य्यपार्थक्यकरणं १५ तृ कला स्मृता। संयोगपूर्वविज्ञानं १६ धात्वादीनां कला स्मृता। द्वारनिष्कासन ज्ञानं १७ कलासंज्ञं तु तत् स्मृतम्। कलादशकमेतत्तु ह्या युर्वेदागमेषु च। शस्त्रसन्धानविक्षेपः १८ पदादिन्यासतः कला। सन्ध्याधाताकृष्टिभेदैर्मल्लयुद्धं ११ कलास्मृता। कलाऽभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम् २०। वाद्यसंकेततोव्यूहरचनादि २१ कला स्मृता। गजाश्वरथगुप्त्या तु युद्धसंयोजनं २२ कला। कला पञ्चकमेतद्धि धनुर्वेदागसस्थितम्। विविधासनमुद्राभिर्देवतातोषणं २३ कला। सारथ्यञ्च गजाश्वादेर्गतिशिक्षा २४ कला स्मृता। मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया २५। २६। २७। २८। पृथक् कला चतुष्कं तु चित्रीद्याने खनिः २९ कला। तडागवापीप्रासादसमभूमिक्रिया ३० कला। घट्याद्यनेकयन्त्राणां बाणाद्यानां कृतिः ३१ कला। हीनमध्यादिसंयोग वर्णादेरञ्जनं ३२ कला। जलवाय्वग्निसंयोगनिरोधादिक्रिया ३३ कला। नौकारथादियानानां कृतिज्ञानं ३४ कला स्मृता! सूत्रादिरज्जुकरणे विज्ञानं ३५ तु कला स्मृता। अनेकतन्तुसंयोगैः पटबन्धः ३६ कलास्मृता। वेधादिसदसज्ज्ञानं ३७ रत्नानां तु कला स्मृता। स्वर्ण्णादीनां तु याथात्म्यविज्ञानं ३८ च कला स्मृता। कृत्रिमस्वर्ण्णरत्नादिक्रियाज्ञानं ३८ कला स्मृता। स्वर्णाद्यलङ्कारकृतिः ३९ कला लेपादिसत्कृतिः ४०। मार्द्दवादिक्रियाज्ञानं ४१ चर्म्मणां तु कला मता। पशुचर्म्माङ्गनिर्हारक्रियाज्ञानं ४२ कला स्मृता। दुग्धदोहादिविज्ञानं ४३ घृतान्तं तु कला स्मृता। सीवने कञ्चुकादीनां विज्ञानं ४४ तु कला स्मृता। बाह्वादिभिश्च तरणं ४५ कलासंज्ञं जले स्मृतम्। मार्जने गृहभाण्डादेर्विज्ञानं ४६ तु कला मता। वस्त्र सम्मार्जनं ४७ चैव क्षुरकर्म्म ४८ कले ह्युभे। तिलमांसादिस्नेहानां कला निष्कासनं ४९ मता। सीराद्याकर्षणे ज्ञानं ५० वृक्षद्यारोहणे ५१ कला। मनोऽनुकूलसेवायाः कृतिज्ञानं ५२ कला मता। वेणुतृणादि पात्राणां कृतिज्ञानं ५३ कला मता। काचपात्रादि करणविज्ञानं ५४ तु कला मता। संसेचनं ५५ संहरणं ५६ जलानां तु कला स्मृता। लोहाभिसारशस्त्रास्त्रकृतिज्ञानं ५७ कला मता। गजाश्ववृषभोष्ट्राणां पल्यानादिक्रिया ५८ कला। शिशोः संरक्षणे ज्ञानं ५९ धारणे ६० क्रीडने ६१ तथा। सुयुक्तताडनज्ञान ६२ मपराधिजने तथा। नानादेशीयवर्ण्णानां सुसम्यग्लेखनं ६३ कला। ताम्बूलरक्षादिकृतिविज्ञानं ६४ तु कला स्मृता। आदाने आशुकारित्वं प्रतिदानेचिरक्रिया। कलासु द्वौ गुणौ ज्ञेयौ सर्व्वास्वेतौ मनीषिभिः। चतुःषष्टिः कलाह्येताः संक्षेपेण निदर्शिताः। यां यां कलामाश्रितोयस्तांतां कुर्य्यात् स एव हि”। “चतुःषष्टिकलाविद्या ईश्वरीप्रीतिवर्द्धनम्” गायत्रीकवचम्। वा रस्य विसर्गषत्वे चतुष्षष्टिकलाप्यत्र

चतुःसप्तति = स्त्री चतुरधिका सप्ततिः। (चौहत्तर) १ चतुरधिकसप्ततिसंख्यायां २ तत्संख्यान्विते च ततः पूरणे डट्। चतुःसप्त त तत्पूरणे त्रि० स्त्रियां ङीप्। वा रस्य विसर्गसत्वम्।

चतुःसम = न० चत्वारि समानि यत्र। “लवङ्गं जीरकं पथ्या यमानी च चतुःसमम्” वैद्यकोक्ते लवङ्गादिचतुर्द्रव्यात्यके औषधभेदे, शब्दार्थचि० वैद्यके तद्गुणा उक्ता यथा “लवङ्गं जीरकं पथ्या यमानी च चतुः समम्। आमशूलविवन्धध्नं पाचनं भेदि शोषनुत्”। “कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य तु। कुङ्गुमस्य त्रयश्चैव शशिनश्च चतुःसमम्” इत्युक्तेषु २ मिलितेषु तत्तत्परिमाणान्वितकस्तूरीचन्दनकुङ्गुमकर्पूरेषु च। वा रस्य विसर्गसत्वे चतुस्मममप्य भयत्र।

चतुर् = त्रि० ब० व० चत–उरन्। १ चतुःसंख्यायाम्, २ चतुःसंख्यान्विते च। “चत्वारोवयमृत्विजः स भगवान् कर्म्मोपदेष्टा हरिः” वेणी०। स्त्रियां गौणे मुख्ये च चतस्रादेशः। “तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या” मनुः। प्रियचतसा अतिचतसा। नञा सुना विना च समासे बहु० अच् समा०। अचतुरः सुचतुरः विचतुरः। अव्यंयीभावे टच् समा० उपचतुरम्। अयववे तयप् चतुष्टय। चतुःसंख्यायां तदन्वित च त्रि० स्त्रियां ङीप् “चरितार्था चतुष्टयी” कुमा०। “ततोवारे सुच् “रात्सस्य” पा० सलीपे। चतुर् २ चतुर्वारे अव्य०। तत्रार्थे चतुस् इति शब्दकल्पनं प्रामादिकम्। “चतुरवत्तः कात्या० श्रौ०। “चतुर्नमो अष्टकृत्वो भवाय” अथ० ११। २। ९। “चतुरुपह्वयते” तै० स० २। ६। ७। ३। चतुष्टयार्थे च “गूढमैथुनधर्म्मं च काले काले च संग्रहम्। अप्रमादमनालस्यं चतुः शिक्षेत वायसात्” इति चाणक्यः।

चतुर = पु० चत–उरच्। १ वक्रगतौ २ हस्तिशालायाञ्च हेमच०। ३ कार्य्यदक्षे ४ आलस्यहीने ५ निपुणे च त्रि०। ६ नायकभेदे पु० तल्लक्षणं रसमञ्जर्य्याम् “वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः। तत्र वचनव्यङ्गसमागमो यथा “तमोजटाले हारेदन्तराले काले निशायास्तव निर्गतायाः। तटे नदीनां निकटे वनानां घटेत शातोदरि! कः सहायः”। चेष्टा व्यङ्ग्यसमागमो यथा “कान्ते कनकजम्बीरं करे कमपि कुर्व्वति। अपारनिश्चले भानौ विन्दुमिन्दु मुखी ददौ”। तां बीक्ष्य लीलाचतुरामनङ्गः “तव प्रियं यश्चतुरावलोकिनः” कुमा०। “न पुनरैति गतं चतुरं वयः”। “मृगया जहार चतुरेव कामिनी” रघुः। चतुर् + अर्श० अच्। ६ चतुर्विशिष्टे त्रि०।

चतुरंशा = स्त्री वर्णवृत्तभेदे “द्विजवरकर्णा विहरसवर्णा भवति यदा सा किल चतुरंशा” छन्दोग्र०।

चतुरक्रम = पु० “द्रुतद्वन्द्वं प्लुतद्वन्द्बं तथा प्रान्ते गुरुर्भवेत्। द्वात्रिंशदक्षरैर्युक्तः शृङ्गारे चतुरक्रमः” इति संगी० दा० उक्ते रूपकभेदे।

चतुरङ्ग = न० चत्वारि अङ्गानि यस्य। १ हस्त्यश्वरथपदातिरूपाङ्गचतुष्टययुते सैन्ये। “प्रयातेऽस्मिन्नरव्याघ्र! बलेन महतावृतः। कॢप्तेन चतुरङ्गेण यत्तेन जितकासिना” भा० व० २० अ०। रक्तहरितपीतश्यामलरूपाणि चत्वारि बलस्वरूपाणि क्रीडासधनान्यङ्गान्यस्य। (चतूराजी) २ क्रीडाभेदे। तत्क्रीडाप्रकारः ति० त० व्यासयुधिष्ठिरसंवादे “युधिष्ठिर उवाच। अष्टकोष्ठ्याञ्च या क्रीडा तां मे व्रूहि तपोधन!। प्रकर्षेणेव मे नाथ! चतुराजी यथा भवेत्। व्यास उवाच। अष्टौ कोष्ठान् समालिख्य प्रदक्षिणक्रमेण तु। अरुणं पूर्वतः कृत्वा दक्षिणे हरितं बलम्। पार्थ! पश्चिमतः पोतमुत्तरे श्यामलं बलम्। राज्ञोवामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम्। कुर्य्यात् कौन्तेय! पुरतो युद्धे पत्तिचतुष्टयम्। कोणे नौकाद्वितीयेऽश्वस्तृतीये च गजोवसेत्। तुरीये च वसेद्राजावटिकाः पुरतः स्थिताः। पञ्चकेन वटी राजा, चतुष्केणैव कुञ्जरः। त्रिकेणैव चलत्यश्वः पार्थ! नौका द्वयेन तु। कोष्ठमेकं विलङ्घ्याथ सर्वतोयाति भूपतिः। अग्रएव वटी याति बलं हन्त्यग्रकोणगम्। यथेष्टं कुञ्जरोयाति चतुर्दिक्षु महीपते!। तिर्य्यक् तुरङ्गमो याति लङ्घयित्वा त्रिकोष्ठकम्। कोणकोष्ठद्वयं लङ्घ्य व्रजेन्नैका युधिष्ठिर। सिंहासनं चतूराजी नृपाकृष्टञ्च षट्पदम्। काककाष्ठं वृहन्नौका नौकाकृष्टप्रकारकम्। धाताघाते वटीं नौका बलं हन्ति युधिष्ठिर!। राजा गजोहयश्चापि त्यक्त्वा घातम् निहन्ति च। अत्यन्तं स्वबलं रक्षेत् स्वराज वलमुत्तमम् अल्पस्य रक्षया पार्थ! हन्तव्यं बलमुत्तमम्”। नौकायाश्चत्वारि पदानि अश्वस्याष्टौ पदानि इत्याधिक्यमश्वस्य। “मतङ्गजस्य गर्वेण राजा क्रीडति निर्भरम्। तस्मात् सर्वबलं दत्त्वा रक्ष कौन्तेय! कुञ्जरम्। सिंहासनं चतूराजी यदवस्थानतो भवेत्। सर्वसैन्यैर्गजैर्व्वापि रक्षितव्योमहीपतिः। अन्यराजपदे गत्वा यदा धातो युधिष्ठिर। तदा सिंहासनं तस्य भण्यते नृपसत्तम। राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनं यदा। द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्”। द्विगुणं पणं दातव्यत्वेन प्रापयेत्। “मित्रसिंहासनं पार्थ! यदारोहति भूपतिः। तदा सिंहासनं नाम सर्वं नयति तद्बलम्। यदा सिंहासनं कर्त्तं राजा षह- पदाश्रितः। तदा घातेऽपि हन्तव्यो बलेनापि सुरक्षितः। विद्यमाने नृपे यश्च स्वकीये च नृपत्रयम्। प्राप्नोति तु यदा तस्य चतूराजी तदा भवेत्। नृपेणैव नृपं हत्वा चतूराजी यदा भवेत्। द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्। स्वपदस्थं यदा राजा राजानं हन्ति पार्थिव!। चतुरङ्गे तदा भूप! बाहयेच्च चतुर्गुणम्। यदा सिंहासने काले चतूराजी समुत्थिता। चतूराजी भवत्यत्र नतु सिंहासनं नृप!”। अत्रेदं वीजम् उभयथा जयेऽपि परसिंहासनाधिकारात् परराजबधे शौर्य्या धिक्यनिष्कण्टकत्वदर्शनात् क्रीडायामपि तथा कल्प्यते। “राजद्वयं यदा हस्ते आत्मनोराज्ञि संस्थिते। परेण संहृतश्चैको बलेनाप्यपहार्य्यते। राजद्वयं यदा हस्ते न स्यादन्यकरे परः। तदा राजा हि राजानं घातेऽपि तं हनिष्यति। नृपाकृष्टो यदा राजा गमिष्यति युधिष्ठिर!। घाताघाते पि हन्तव्यो राजा तत्र न रक्षकः। कोणे राजपदं त्यक्त्वा वटिकान्तं यदा व्रजेत्। वटी च षटपदं नाम तदा कोष्ठबलं नयेत्। यदा तस्य भवेत् पार्थ! चतूराजी च षट्पदम्। तदापि च चतूराजी भवत्येव न संशयः। पदातेः षट्पदे विद्धे राज्ञा वा हस्तिना तथा। षट्पदं न भवेत्तस्य अवश्यं शृणु पार्थिव!। सप्तमे कीष्ठके यत् स्याद्वटिका दशमेन वै। तदान्योन्यञ्च हन्तव्यं सुखाय दुर्बलं बलम्। त्रिवटीकस्य कौन्तेय! पुरुषस्य कदाचन। षट्पदं न भवत्येव इति गोतमभाषितम्। नौकैका वटिका वस्य विद्यते खेलने यदि। गाढावटीति विख्याता पदं तस्य न दुष्यति”। पदं राजपदं कोणपदञ्च। “हस्ते रङ्गे बलं नास्ति काककाष्ठं तदा भवेत्। वदन्ति राक्ष{साः? सर्वे तस्य शस्तौ जयाजयौ। प्रोत्थिते पञ्चमे राज्ञि मृते वट्याञ्च षट्पदे। अशौचं स्यात्तदा हन्ति चलित्वा चालितं बलम्। द्विरावृत्त्यागते तस्मात् हन्यात् परबलं जयी। पार्थ! सिंहासने काले काककाष्ठं यदा भवेत्। सिंहासनं भवत्येव काककाष्ठं न भण्यते। उपरिष्ठाच्च यत्स्थानं तस्योप्ररि चतुष्टये। नौकाचतुष्टयं यत्र क्रियते तस्य नौकया। नौकाचतुष्टयं तस्य वृहन्नौकेति भण्यते। न कुर्य्यादेकदा राजन्! गजस्याभिमुखं गजम्। यदि कुर्वीत धर्म्मज्ञः पापग्रस्तो भविष्यति। स्थानाभावे यदा पार्थ! हस्तिनं हस्तिसंमुखम्। करिष्यति तदा राजन्! इति गोतमभाषितम्। प्राप्ते गजद्वये राजन्। हन्तव्योवामतोगजः”। इति चतुरङ्गक्रीडनम्।

चतुरङ्गिन् = त्रि० चत्वारि अङ्गानि हस्त्यश्वरथपदातयः भूम्ना सन्त्यस्य इनि। बाहुल्येन हस्त्यश्वादिसेनाङ्ग चतुष्टययुक्ते। “चालयन् वसुधां चेमां बलेन चतुरङ्गिणा” भा० आ० ९४ अ०। स्त्रियां ङीप्। “प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्” ७३ अ०।

चतुरङ्गुला = स्त्री चतस्रोऽङ्गुलयः प्रमाणमस्य पर्व्वणः अच्समा०। १ आरग्बधे (सोन्दाल)। अमरः। २ चतुरङ्गुलमिते त्रि०। “स चतुरङ्गुलमेवोभयतोऽन्तत उपगूहति” शत० ब्रा० १०। २। २। १। “तच्छाखाश्च समा दीर्घाः प्रादेशाश्चतुरङ्गुलाः” श्रा० त० छन्दोप०।

चतुरम्ल = न० चतुर्णामम्लवृक्षाणां समाहारः पात्रा० न स्त्रीत्वम्। “अम्लवेतसंवृक्षाम्लवृहज्जम्बीरनिम्बुकैः। चतुरम्लं हि, पञ्चाम्लं वीजपूरयुतं भवेत्” भावप्र० उक्ते अम्लवेतसादिचतुष्के।

चतुरशीति = स्त्री चतुरधिका अशीतिः। (चौराशी) १ चतुरधिकाशीतिसंख्यायां २ तत्संख्यान्विते च। पूरणे उट्। चतुरशीत तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।

चतुरश्र = त्रि० चतस्रोऽश्रयः कोणा अस्य नि० अच्। १ चतुष्कोणे पा० तालव्यमध्यस्यैव निपातनम्। दन्तमध्यत्वे चतुरस्रिरित्येव स्यात्। अस्य दन्त्यमध्यत्वं शब्दकल्पद्रुमोक्तं चिन्त्यम् सुप्रातसुश्वेति” पा० ५। ४। १ सू० तालमध्यस्यैव ग्रहणात् “चतुरश्रं त्रिकोणं वा वर्त्तुलं चार्द्धचन्द्रकम्। कर्त्तव्यमानुपूर्ब्बेण ब्राह्मणादिषु मण्डलम्” वौधा०। २ ब्रह्मसन्ताने केतुभेदे पु० “चतुरश्रा, ब्रह्मसन्तानाः” वृ० सं० ११ अ०। केतुशब्दे दृश्यम्। ३ अन्यूनानतिरिक्ते त्रि०। “बभूव तस्याश्चतुरश्रशोभि” कुमा०। “चतस्रोऽश्रयोऽस्य तच्चतुरश्रमन्यूनानतिरिक्तम्” मल्लि०।

चतुरात्मन् = पु० चतुरं निपुणम् आत्मा मनोऽस्य चत्वारोबुद्ध्यादय आत्मानोयस्य, चतस्रोविभूतय आत्मानोऽस्य वा। परमेश्वरे विष्णौ। “चतुरात्मा चतुर्व्यूहः” “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद्” इति च विष्णुस०। “रागद्वेषादिरहितत्वाच्चतुरं मनोऽस्येति मनोबुद्धिरहङ्कारश्चित्तं चतुष्टयमात्मा अस्येति वा चतुरात्मा। “ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः। विभूततो हरेरेता जगतः सृष्टिहेतवः। विष्णुर्मन्वादयः कालः सर्वभूतामि च द्विज!। स्थितेर्निमित्तभूतस्य विष्णोरेला विभूतयः। रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः। चतुर्धा प्रलयायैता जनार्दनविभूतयः” विष्णुपु०। उभयविधव्युतपत्त्या द्विधानामकत्वात् विष्णुस० द्विरुक्तिः

चतुरानन = पु० चत्वारि आननान्यस्य। चतुर्मुखे वेधसि अमरः। “तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः। परिक्रमन् व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि” भाग० ३। ८। १८। उक्तेस्तस्य तथात्वम्। “इतरतापशतानि यथेच्छया वितर तानि सहे चतुरानन!” उद्भटः

चतुराश्रम = न० चतुर्णामाश्रमाणां समाहारः। “चत्वारआश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः” वसिष्ठोक्तेषु ब्रह्मचार्य्यादिषु। तेषां विशेषधर्म्मास्तत्तच्छब्दे दृश्याः। तेषां साषारणधर्म्मा मनुनोक्ता यथा “चतुर्भिरपि चैवैतैर्निंत्यमाश्रमिभिर्द्विजैः। दशलक्षणकोधर्म्मः सेवितव्यः प्रयत्नतः। धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः! धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्। दश लक्षणानि धर्म्मस्य ये विप्राः समधीयते। अधीत्य चानुवर्त्तन्ते ते यान्ति परमाङ्गतिम्। दशलक्षणकं धर्म्ममनुतिष्ठन् समाहितः। वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणोद्विजः”। तस्य भावः ष्यञ्, स्वार्थे वा ष्यञ्। चातुराश्रन्य तद्धर्म्मे चतुर्ष्वाश्रमेषु च न०। “चातुराश्रम्यधर्म्माश्च वेदधर्म्माश्च पार्थिवः” भा० शा० ६५ अ०।

चतुरूषण = न० चतुर्णामूषणानां समाहारः। पिप्पलीमूल सहिते शुण्ठीपिप्पलीमरिचरूपे त्रिकटौ। “त्र्यूषणं सकणामूलं कथितं चतुरूषणम्। व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे” भावप्र०।

चतुर्गति = स्त्री चतुर्णां वर्णाश्रमाणां यथोक्तकारिणां गतिः। १ परमेश्वरे। “चतुर्मूर्त्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः” विष्णुसं०। चतुर्भिर्गतिरस्य। २ कच्छपे पु० स्त्री हेमच०।

चतुर्जातक = न० चतुर्णां जातकानां सुरन्दराणां सुरमीणां समाहारः। त्वगेलापत्रकनागकेशरेषु तदुपक्रम्य “एतच्च रोचनं रूक्षं तीक्षोष्णं मुखगन्धहृत्। लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहम्” भावप्र०। “त्रिकटु चतुर्जातककुस्तुम्बुरुमिश्रं खादेत्” सुश्रुतः।

चतुर्ण्ण(न)वति = स्त्री चतुर्भिरविका नवतिः पूर्ब्बपदाद् वा णत्वम्। (चौरानव्वुइ) १ चतुरधिकनवतिसंख्यायां २ तत्संख्येये च। चतुर्ण(न)वत्यधिकानि त्रीणि शतानि” कात्या० श्रौ० १६। ८। २३। पूरणे डट्। चतुर्ण(न)वत तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।

चतुर्थ = त्रि० चतुर्णां पूरणः डट् थुक् च। चतुःसंख्या पूरणे स्त्रियां ङीप् सा च चन्द्रस्य २ चतुर्थकलायाः ह्रासवृद्धिरूपायां तिथौ” चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन” ति० त० पुरा०। ३ व्याकरणपरिभाषिते ङे भ्याम्भ्यस्रूपे विभक्तिभेदे “सम्प्रदाने चतुर्थी” पा० “धृतिहोमे न प्रयुञ्ज्यात् गोनामसु तथाष्टसु” छन्दोगप०। चतुर्थीमिति शेषः शुक्लकृष्णपक्षयोश्चतुर्थ्या उभयदिनप्राप्तौ कस्या ग्राह्यता तन्निर्ण्णयः कालमा० चतुर्थीप्र० यथा “अथ चतुर्थी निर्णीयते। सा च युग्मवाक्यात् परविद्धा पूज्या। न च शुक्लपक्षे तथात्वेऽपि कृष्णपक्षे पूर्वैव स्यादिति शङ्कनीयम् युग्मवाक्यस्य पक्षद्वयसाधारणत्वात्। “चतुर्दश्या च पूर्णिमेत्येतच्छुक्लपक्षविषयत्वे लिङ्गमिति चेत् तस्यैकस्य युग्मस्य शुक्लपक्षविषयत्वेऽपि “प्रतिपदाप्यमावास्या” इत्यनेन पक्षद्वयस्पर्शिना युग्मेन साहचर्यादितरेषामपि पक्षद्वयस्पर्शित्वं किं न स्यात्। एवं तर्हि साहचर्ययोर्द्वयोरपि परस्परकलहादनिर्णय इति चेत् न कारणान्तरेण निर्ण्णेतव्यत्वात्। तर्हि चतुर्दशीपूर्णिमायुग्ममेकपक्षवर्त्तितिथिद्वयात्मकत्वात् द्वितीयादियुग्मैः सदृशं प्रतिपदाभावास्यायुग्मन्तु भिन्नपक्षद्वयवर्तितिथिद्वयरूपत्वाद्विलक्षणम्। अतः पूर्णिमायुग्मसाहचर्य्येणैव निर्ण्णय इति चेन्मैवम् श्रुत्या साहचर्य्यस्य बाध्यमानत्वात्। द्वितीयादिशब्दो मुख्यया वृत्त्या पक्षद्वयवर्त्तिनस्तिथीन् ब्रूते। सोऽयं श्रुति लिङ्गादिषु षट्सु प्रथमं प्रमाणं साहचर्य्यन्तु सन्निधिः। स च स्थानावान्तरभेदत्वात्पञ्चमं प्रमाणम्। तच्च प्रथमादत्यन्तदुर्बलं सोऽयमर्थः पूर्वमीमांसायां तृतीयाध्याये श्रुतिलिङ्गादिसूत्रे महता प्रबन्धेन प्रपञ्चितः जै० सूत्रञ्चैतत् “श्रुतिलिङ्गबाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति”। इममेव च श्रुतिसन्निध्योर्विरोधमुद्दिश्योत्तरमीमांसायां गुणोपसंहारे विचारितम्। तथा हि ताण्डिशाखायां श्रूयते “ओमित्येतदक्षरमुद्गीथमुपासीतेति”। अस्यायमर्थः। पञ्चभक्तियुक्तस्य साम्न उद्गीथाख्या भक्तिः कश्चिदवयवः तञ्चावयवमुद्गाता यागकाले गायति। गीयमानं तमुद्गीथं सएवोद्गाता ताण्डिशाखागतोपनिंषद्विहितैरनेकैर्गुणैरुपासीतेति ते च गुणास्ताण्डिशाखायामेव विहिताः। उद्गी- थभक्तिस्तु ताण्डिशार्दूलजैभिनीयतलवकारादिषु सर्वासु सामशाखासु पठिता। तत्र यदिदन्ताण्डिशाखोक्तगुणानामुपासनं तत्किन्ताण्डिशाखागत एवोद्गीथविशेषे अवतिष्ठते किं वा सर्वशाखागत उद्गीथसामान्ये सञ्चरतीति संशयः। तत्र सन्निधिवशादुद्गीयविशेषेऽवतिष्ठत इति पूर्व्वः पक्षः। उद्गीथशब्दो मुख्यया वृत्त्योद्गीथसामान्यं व्रूते। न च सन्निधिना पञ्चमप्रमाणेन प्रथमप्रमाणस्य श्रुतेः सङ्कोचोयुक्तः। तस्मादुपासनमुद्गीथसामान्ये संचरतीति राद्धान्तः। अनेन न्यायेन प्रकृतेऽपि साहचर्य्याख्येन सन्निधिना द्वितीयादिश्रुतेः सङ्कीचायोगाद्युग्मादि शास्त्रं पक्षद्वयविषयं द्रष्टव्यम्। यदि चतुर्दशीपूर्णिमयोः कृष्णपक्षविषयत्वं न सम्भाव्यते तर्हि तत्रैकत्र शुक्लपक्षविषयत्वमस्तु। तथा प्रतिपद्युग्ममपि गत्यन्तराभावात्पक्षद्वयसम्बन्धिविषयम् एवं व्यवस्थितौ सत्यां युग्मशास्त्रेण पक्षद्वयेऽपि चतुर्थी परविद्धैव प्राप्नोति। ननु वचनान्तरेण चतुर्थीद्वयस्य व्यवस्था प्रतीयते। तथा च मार्कण्डेयपुराणे “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः। कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरविरिति”। अत्र च वक्तव्यं किमिदं शुक्लादिवाक्यं युग्मादिशास्त्रनियमद्वारा एकवाक्यतया तिथीनां व्यवस्थापकमुत स्वातन्त्र्येण। यदि नियमद्वारा तर्हि युग्माग्नीत्यादियुग्मे पूर्व्वतिथीनामुत्तरविद्धानाम्पूज्यत्वेन “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः” इत्येतत्पूर्वार्द्धमविरोधि उत्तरार्द्धन्तु विरोधि। तथा तेष्वेव युग्मेषु चरमतिथीनां पूर्व्वविद्धानां पूज्यत्वेन “कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरविः” इत्युत्तरार्द्धमविरोधि। पूर्व्वार्द्धन्तु विरोधि। तथा दर्शप्रतिपद्युग्मे कृष्णपक्षगतस्य दर्शस्योदये पूज्यत्वं शुक्लपक्षगतायाः प्रतिपदोऽस्तमये पूज्यत्वं तथा सति तत्रोभयत्र विरोधः स्पुटतरः। तस्मान्न युग्मादिशास्त्रमनेन नियन्तुं शक्यम्। नापि स्वातन्त्र्येण तिथीनां व्यवस्थापकम् तत्र युग्मादिशास्त्रविरोधस्यापरिहार्य्यत्वात्। अविरोधेन तु शुक्लादिवाक्यस्य दशम्यादिविषयत्वम्प्रतिषत्प्रकरणे प्रसङ्गादुदाहृतम्। तस्माच्छुक्लकृष्णयोरपि पक्षयोर्युग्मादिशास्त्राच्चतुर्थी परविद्धा ग्राह्या। वृहद्वसिष्ठोऽपि “पकादशी तथा षष्ठी अमावास्या चतुर्थिका। उपोष्याः पसंयुक्ताः पराः पूर्व्वेण संयुताः” इति। ननु परविद्धोपवासुः क्वचित् प्रतिपिध्यते। “द्वितीया पञ्चमी वेधा- द्दशमी च त्रयोदशी। चतुर्द्दशी चोपवासे हन्युः पूर्व्वोत्तरे तिथी” इति। अयमर्थः। पञ्चमी वेधेन पूर्व्वाञ्चतुर्थीन्तिथिमुत्तराञ्च षष्ठीं तियिमुपवासविषये हन्तिं अतः पञ्चमीविद्धायां चतुर्थ्यान्नोपवास इति। नैषदोषः व्रतभेदेन व्यवस्थोपपत्तेः सन्ति हि चतुर्थ्याम्भिन्नदेवता विषयाणि बहूनि व्रतानि। तत्र विष्णुधर्म्मोत्तरप्रोक्ते चतुर्मूर्तिव्रते मूर्तिचतुष्टयोपेतो विष्णुर्देवता। स्कन्दपुराणोक्ते अङ्गारकचतुर्थीव्रते भौमो देवता कूर्म्मपुराणोक्ते यमब्रते यमोदेवता। सौरपुराणादिप्रोक्तेषु दूर्वागणपत्यादिव्रतेषु विनायको देवता कूर्म्मपुराण प्रोक्ते नागचतुर्थीव्रते शेषशङ्खपालादवः सर्पादेवतास्तत्र विनायकनागव्यतिरिक्तानां व्रते परेद्युरुपवासः प्राप्त्नोति तादृशे विषये पञ्चमीवेधनिषेधो व्यवस्थापनीयः! तथा पूर्व्वविद्धाप्रशंसा च तस्मिन्नेव विषये द्रष्टव्या। अतएव व्रह्मवैवर्त्ते पूर्व्वोत्तरविद्धयोर्विधि निषेधौ स्मर्य्येते “चतुर्थीसंयुता कार्या तृतीया, च चतुर्थिका। तृतीयया युता, नैव पञ्चम्या कारयेत्क्वचिदिति”। तथा तत्रैव पूर्व्वविद्धा प्रशश्यते “चतुर्थीसंयुता या च सा तृतीया फलप्रदा। चतुर्थी तु तृतीया या महापुण्यफलप्रदेति”। तस्याश्च विनायकव्रतविप यत्वं तत्रैव सूचितम् “कर्त्तव्या व्रतिभिर्वत्स! गणनाथसुतोषणीति” स्कन्दपुराणेऽपि “विनायकव्रते कार्य्या सर्वमासेषु षण्मुख!। चतुर्थी तु जयायुक्ता गणनाथसुतोषणीति”। विनायकव्रतानुष्ठाने चतुर्य्या मध्याह्न व्यापित्वं मुख्यं प्रयोजकम्। तदाह बृहस्पतिः “चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते। मध्याह्नव्यापिनीचेत् स्यात्परतश्चेत्परेऽहनीति”। (विनायकस्य माता दुर्गातत्तिथिस्तृतीया तया विद्धा) यदा पूर्वेद्युर्मध्याह्नव्यापिनी भवति तदा मुख्यप्रयोजकस्य विद्यमानत्वान्मातृविद्धत्वगुणसद्भावाच्च सा ग्राह्या तादृशे विषये परेद्युः सत्या अपि मध्याह्नव्यापिन्यास्त्याज्यता। अत एव प्रशस्यत इत्युक्तम्। परेद्युरेव यदा मध्याह्रव्यापिनी तदा मातृविद्धत्वगुणाभावेऽपि प्रधानप्रयोजकानुसारेण परथिद्धैव ग्राह्या। तथा च स्मृत्यन्तरम् “मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके। मध्याह्नेऽ परतश्चेत् स्यान्नागविद्धा प्रशस्यते” इति। ननु बहुषु वचनेषु पूर्वविद्धाया गणनाथसन्तोषकत्वमुक्तम्। अतः पूर्वविद्धत्वस्यैव मुख्यप्रयोजकता युक्ता। मैवम्। मध्याह्न प्यापित्वस्यैवं वैयर्थ्यप्रसङ्गात्। अवश्यं हि तदामध्याह्नव्यापित्वं प्रसङ्गाद्भवति। अतस्तद्विधानं व्यर्थं व्यावर्त्याभावात्। अथोच्येत पक्षान्तरेऽप्यनेकवचन विहितस्य पूर्व्वविद्धत्वस्य वैयर्थ्यन्तदवस्थम् मध्याह्न व्यापित्वेनैव तन्निर्णयादिति तन्न यदा तिथिक्षय वशादुभयत्र मध्याह्नव्याप्तिर्नास्ति यदा चोभयत्र कृत्स्नमध्याह्नव्यापित्वं तदेकदेशव्यापित्वं वा समानन्तत्र सर्वत्र मध्याह्नव्याप्त्या निर्णयाभावे सति पूर्वविद्धत्वेनैव निर्णेतव्यत्वात्। एवं तर्हि सावकाशनिरवकाशयो र्निरवकाशभ्बलीय इति न्यायेन मध्याह्नव्यापित्वस्य निरवकाशतया प्राबल्यमित्येव वक्तव्यन्नतु मुख्यतयेति चेत्। मुख्यत्वस्यापि सम्भवात् तिथिनिर्णये कर्मकालव्याप्तिशास्त्रस्य मुख्यत्वञ्चास्य प्रकरणस्य प्रारम्भे दर्शितम्। कर्मकालश्च विनायकव्रतस्य मध्याह्नः। “प्रातःशुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन्नृपेति” तत्कल्पे विधानात्। अतोमुख्यत्वादपि मध्याह्नव्यापित्वं प्रवलमिति। ननु कस्याञ्चित्स्मृतौ पूर्वविद्धत्वेन भध्याह्न व्यापित्वबाध उपलभ्यते। “जया च यदि सम्पूर्णा चतुर्थी ह्रसते यदि। जया सैव हि कर्त्तव्या नागविद्धान्न कारये दिति” स्मरणात्। मैवम्। अस्य वचनस्य दिनद्वये मध्याह्न स्पर्शाभावविषयत्वेनाप्युपपत्तेः। तथाहि पूर्वदिने विनायकव्रतप्रयोजके मध्याह्ने जया सम्पूर्णा, परेद्युर्मुहूर्त्तत्रयक्षयवशान्मध्याह्नादर्वागेव चतुर्थी समाप्तातदा दिनद्वये कर्मकाले ग्राह्यतिथेश्चतुर्थ्या अभावा द्विनायकव्रते किन्दिनमुपादेयमिति वीक्षायां पूर्वदिनं विधातुं परदिनं प्रतिषेधति। अथोच्येत। “जया च यदि सम्पूर्णा” इत्यनेन कर्मकालरूपमध्याह्नसमाप्तिपर्यन्तत्वन्न विवक्षितम् किन्तर्ह्यस्तमयपर्यन्तत्वमिति। एवं तर्हि पूर्वविद्धतैव नास्ति वेधिकायाः पूर्वतिथेः सम्पूर्णत्वे सति वेध्यायाश्चतुर्थ्या अनवकाशत्वात्। अथ मा भूत्पूर्वविद्धत्वं तथापि मध्याह्नव्यापिन्यां जयायां विहितायं परेद्युर्मध्याह्नव्यापित्वं बाध्यत इति चेत्। मैवम्। न खलूत्तरदिनहेयत्वे मध्याह्नव्यापित्वं कारणतयोपन्यस्यते किन्तु नागविद्धत्वम्। अतो नागविद्धत्वनिन्दायां वचनस्य तात्पर्यम् न चतुर्थीरहितजयाविधाने। अन्यथा चतुर्थीनिन्दायामपि तात्पर्यं प्रसज्येत। नच तद्युक्तम्। नहि वरधाताय कन्यामुद्वाहयन्ति। वचनच्छाया तु कैमुतिकन्यायेनाभिलक्ष्यते यदिशब्दप्रयोगात्। यद्यपि जया सम्पूर्णा तथापि नागविद्धा हेया। किमुत जया युक्तायाञ्चतुर्थ्यां सम्भवन्त्यामितिहि वचनव्यक्तिः। मध्याह्नव्याप्तावियती भक्तिः कुतस्तवेति चेत्। चतुर्थीरहितायां शुद्धतृतीयायान्तवापि कुतो भक्तिरिति समानः पर्यनुयोगः। वचनबलादित्युत्तरमस्माकमपि। वचनयोः परस्परकलहे पूर्वोक्ताभ्यां मुख्यत्वनिरवकाशत्वाभ्याम्मध्याह्नवचनमेवातिप्रबलं सिद्धिविनायकव्रते तस्य प्रतिपदोक्तत्वादपि प्रबलत्वम्। जयाबचनन्तु गौर्यादिव्रते चरितार्थम्। तच्च व्रतं भविष्यत्पुराणेऽभिहितम् “विनायकं समभ्यर्च्य चतुर्थ्यां यदुनन्दन!। सर्वविघ्नविनिर्मुक्तः कार्य्यसिद्धिमवाप्नुयात्” इत्यभिधायानन्तरमिदं पठ्यते “निद्रां रतिं शिवां भद्रां कीर्त्तिं मेधां सरस्वतीम्। प्रज्ञां तुष्टिं तथाकान्तिं तत्रैवाहनि पूजयेत्। विद्याकामो विशेषेन पूजयेच्च सरस्वतीमिति”। लिङ्गपुराणेऽपि “चतुर्थ्यान्तु गणेशस्य गौर्य्याश्चैव विधानतः। पूजां कृत्वा लभेत्सिद्धिं सौभाग्यञ्च नरः क्रमादिति”। नारदीयपुराणेऽपि “माघशुश्लचतुर्थ्यान्तु गौरीमाराधवेद्धुधः। चतुर्थी वरदा नाम गौरी तत्र सुपूजितेति”। अतो यथोक्तरीत्या विनायकव्रते मध्याह्नव्यापित्वेनैव निर्णयः। गौरीब्रते तु जयावचनन्द्रष्टव्यम्। तत्र यदा दिनद्वयेऽप्येतद्वैषम्ये मध्याह्नैकदेशव्यापिनी तदा पूर्वदिने तन्महत्त्वञ्चेति तदेवोपादेयम्। उत्तरदिने तन्महत्त्वे किम्महत्त्वगुणेन तदुपादेयं? किं वा मातृविद्धत्वगुणेन पूर्वमुपादेयमिति? संशये पूर्वमिति ब्रूमः। परस्य नागविद्धत्वदोषोपेतत्वात् पूर्वस्य च तदभावात्। एतदेवाभिप्रेत्य स्कन्दपुराणे पट्यते “ज्यैष्ठे च वंटसावित्री तथानङ्गत्रयोदशी। विनायकचतुर्थी च कर्त्तव्या संमुखी तिथिरिति”। विनायकव्रतवन्नागव्रतेऽपि चतुर्थी मध्याह्नव्यापिनी ग्राह्या। नागव्रतञ्च कूर्मपुराणे दर्शितम्। “तिथौ युगाह्वयायाञ्च समुपोष्य यथाविधि। शङ्खपालादिनागानां शेषस्य च महात्मनः। पूजा कार्या पुष्पगन्धक्षीराप्यायनपूर्वकम्। विषाणि तस्य नश्यन्ति नच तान् घ्नन्ति पन्नगाः” इति। युगाह्वया चतुर्थी। मध्याह्नव्यापित्वञ्च देवलेनोक्तम् “युगमध्यन्दिने यत्र तत्रोपोष्य फणीश्चरान्। क्षीरेणाप्याय्य पञ्चम्यां पूजयेत्प्रयतोनरः। विषाणि तस्य नश्यन्ति न तान् हिंसन्ति पन्नगाः” इति विनायकचतुर्थीनागचतुर्थ्योरियान्विशेषः। एकभक्तन्यायेन मध्याह्रव्याप्तेः षोढा- भेदे सति यदा परेद्युरेव मध्याह्नव्याप्तिस्तदा विनायक चतुर्थी परा। इतरेषु तु पञ्चसु भेदेषु जयायोगस्य प्रशस्तत्वात् पूर्वेद्युरेव सा भवति। यदा तु पूर्वेद्युरेव मध्याह्नव्यापिनी तदा नागचतुर्थी पूर्वा। इतरेषु तु पञ्चसु भेदेषु पञ्चमीयोगस्य प्रशस्तत्वात् उत्तराभवति। तत्प्राशस्त्यञ्च पूजयेदिति वचनादवसीयते”।

चतुर्थक = पु० चतुर्थेऽह्नि भवोरोगः कन्। “दिनत्रयमतिक्रम्य यः स्यात् सहि चतुर्थकः” इति वैद्यकोक्ते विषमज्वरभेदे।

चतुर्थकाल = पु० चतुर्थः कालःभोजनकालः। “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तमस्विन्याम्” छन्दोपरिशिष्टेन दिने भोजनद्वयस्य विधानेन तृतीयभोजनकालोत्तरे सार्द्धदिनात्मके भोजनकाले। “चतुर्थकालमश्नीयादक्षारणवणं मितम्” मनुः।

चतुर्थभक्त = न० चतुर्थे चतुर्थकाले भक्तं यत्र। सार्द्धदिनात्मके भक्तकाले। “चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते” भा० आनु० १०६ अ०।

चतुर्थभाज् = पु० चतुर्थमंशं धान्यादेः भजते कररूपेण भजण्वि। आपदि चतुर्थभागरूपकरग्राहिणि नृपे! “चतुर्थमाददानोऽपि क्षत्रियोभागमापदि। प्रजाः रक्षन् परं शक्त्या किल्विषात् प्रतिमुच्यते” मनुः। “चतुर्थभाङ् महाराज। भोज इन्द्रसखो बली” भा० स० १६ अ०।

चतुर्थांश = पु० कर्म्म०। १ चतुर्भागैकभागे “चतुर्थांशोऽथ धर्म्मस्य रक्षिता लभते फलम्” हरिवंशे १७० अ०। चतुर्थोऽंशोऽस्य। २ चतुर्थांशस्वामिनि त्रि०। “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे। तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः” मनुः दक्षिणार्थगोशतविभागोक्तौ। तुरीयांशादयोऽप्यत्र। “ओरसे पुनरुत्पन्ने तुरीयांशहराः सुताः” कात्या० स्मृ०।

चतुर्थिका = स्त्री। पलपरिमाणे वैद्यकषरिभाषा तस्य चतुःकर्षात्मकत्वात्तथात्वम्।

चतुर्थीकर्म्म = पु० विवाहादनन्तरं चतुर्थ्यां तिथौ कर्त्तव्ये कर्म्मभेदे। “अथातश्चतुर्थीकर्म्म” गोभिलः “विवाहनिष्पत्त्यनन्तरं चतुर्थ्यां तिथौ वक्ष्यमाणं कर्म्म वर्त्तिष्यते” सं० त० रघुनन्दनः।

चतुर्दंष्ट्र = पु० चतस्रोदंष्ट्रा यस्य। स्कन्दस्य सैनिकभेदे। “चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः” भा० श० ४६० अ० स्कन्दसैनिकोक्तौ। २ बलिसैन्यभेदे। “अष्टदंष्ट्रश्चतुर्दंष्ट्रो मेथनादो जलन्धमः” हरिव० २४० अ० वलिसैन्योक्तौ। ३ परंमेश्वरे च। “चतुर्द्दंष्ट्रश्चतुर्भुजः” विष्णुस०। “चतस्रोदंष्ट्रा अस्य चतुर्दंष्ट्रोनृसिंहविग्रहः सादृश्याद्वा शृङ्गं दंष्ट्रा इत्युच्यते चतस्रोदंष्ट्राः शृङ्गाणि अस्य “चत्वारि शृङ्गा द्वे शीर्षे” इत्यादिश्रुतेः” भा०।

चतुर्द्दन्त = पु० चत्वारो दन्ता अस्य। ऐरावते इन्द्रगजे हेमच०। “चतुर्दन्तगजारूढोवज्री कुलिशभृत्करः विष्णुध० इन्द्रध्यानम्। चत्वारोदन्ता अस्य गवादेः संख्यापूर्ब्बकत्वात् वयसि दत्रादेशः। चतुर्दत् चतुर्दन्तोपलक्षितवयोविशिष्टे गवादौ स्त्रियां ङीप्।

चतुर्द्दशन् = पु० ब० व०। चतुरधिकादश। (चौद्दा) १ चतुरधिकदशसंख्यायां २ तत्संख्येये च। ततः पूरणे डट्। चतुर्दश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्। सा च चन्द्रस्य चतुर्दशकलाया ह्रासवृद्धिरूपक्रियारूपायां तिथौ। “चतुर्दश्यष्ठमी तैव अमावास्या च पूर्णिमा” ति० त० पु०। उभयपक्षयोस्तस्या उभयदिनसत्त्वे कर्म्मभेदे कस्या ग्राह्यता तन्निर्ण्णयः कालमा० चतुर्द्दशीप्रक० यथा “अथ चतुर्दशी निर्णीयते। अत्रापि शुक्लकृष्णपक्षभेदेन व्यवस्था भवति। तत्र युग्मशास्त्रेण शुक्लचतुर्दशी परविद्धा ग्राह्या। तथा व्यासोऽपि “शुक्ला चतुर्द्दशी ग्राह्या परविद्धा सदा व्रते” इति। पूर्वविद्धाप्रतिषेध उत्तरविद्धा विधिश्चेत्युभयम्भविष्यत्पुराणे पठ्यते “सदा कार्या त्रयोदश्या न तु युक्ता चतुर्दशी। पौर्णमासीयुता सा स्याच्चतुर्द्दश्या च पूर्णिमेति”। नारदीयेऽपि “तृतीयैकादशी षष्ठी शुक्लपक्षे चतुर्दशी। पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुतेति”। यत्तु भाद्रशुक्लचतुर्दश्यामनन्त व्रतम्भविष्योत्तरेऽभिहितम् तत्र पूर्वविद्धा परविद्धा वा मध्याह्नव्यापिनी ग्राह्येति केचिदाहुः। लिङ्गञ्च तत्र प्रमाणत्वेनोदाहरन्ति। “मध्याह्ने भोज्यवेलायां स मुत्तीर्य सरित्तटे। ददर्श शीला सा स्त्रीणां समूहं रक्त वाससाम्। चतुर्दश्यामर्चयन्तम्भक्त्या देवं पृथक् पृथगिति”। “अत्र मध्याह्ने भोज्यवेलायामित्यनेन मध्याह्नस्य कर्मकालत्वं प्रतीयते। अतस्तद्व्यापिनी तिथिर्ग्राह्या। नैतत्सारम्। यथा विनायकव्रते “मध्याह्ने पूजयेन्नृपेति सध्याह्नः कर्मकालत्वेन विहितः। नात्र तथा विधिरस्ति। उदाहृतं तुं लिङ्गमर्थवादगतत्वान्न स्वातन्त्र्येण कम्यचि दर्थस्य प्रमापकं किन्तु सति प्रमाणान्तरे तस्योपोद्बलकं भवति नचात्र प्रमाणान्तरम्पस्यामः। अढोन मध्याह्नः कर्मकालः। तथा सति ह्यौदयिकी ग्राह्येति वचनेन युग्मशास्त्रादिभिश्चोदयव्यापिनी ग्राह्या। सा च तिथ्यन्तरवत्त्रिमूहूर्त्तेति मुख्यः कल्पः “द्विमुहुर्त्तेत्यनुकल्पः एवं सति शिष्टाचारोप्यनुगृहीतो भवति। चैत्रश्रावण चतुर्दश्यौ शुक्लपक्षे अपि रात्रियोगिन्यौ ग्राह्येति। तथा च बौधायनः “मधोः श्रावणमासस्य शुक्ला या तु चतुर्दंशी। सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्ण गामिनीति”। परा मासान्तर्वर्त्तिनी शुक्लचतुर्दशी। कृष्णा चतुदशी तु पूवविद्धैव ग्राह्या। तथा चापस्तम्बः “कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी। पूर्वविद्धा तु कर्त्तव्या परविद्धा न कस्यचिदिति”। अपराह्णव्यापित्वे तु शुक्लचतुर्दश्यपि पूर्वविद्धा ग्राह्या तथा च स्कन्दपुराणे “चतुर्दशी च कर्त्तव्या त्रयोदश्या युता विभो!। मम भक्तैर्महाबाहो। भवेद्या चापराह्णिकी। दर्शविद्धान कत्त व्या राकाविद्धा कदाचनेति”। अत्र मम भक्तैरितीश्वरोक्तिलिङ्गाच्छिबचतुर्दशीविषयत्वं द्रष्टव्यम्। तदेवं व्रतान्तरेषु चतुर्दशी निर्णीता। अथ शिवरात्रिव्रतं निर्णीयते। तत्रेदञ्चिन्त्यते। किमयं शिवरात्रिशब्दः रूढः?। किं वा यौगिकः?। उत लाक्षणिकः?। अथ वा योगरूढ? इति। किन्तावत्प्राप्तम्। रूढैति। तिथिविशेषे शिवरात्रिशब्दस्य संज्ञारूपेण स्मरणात्। तथा च स्क० नागरखण्डे “माघमासस्य शेषे या प्रथमा फाल्गुनस्य च। कृष्णे चतुर्दशी सा तु शिवरात्रिः प्रकीर्त्तितेति”। कामिके “माघमासेऽ सिते पक्षे विद्यते या चतुर्दशी। तद्रात्रिः शिवरात्रिः स्यात्सर्वपुण्यशुभावहेति”। यद्यप्यत्र शिवस्य रात्रिः शिवरात्रिरित्यवयवार्थः प्रतीयते तथापि योगात् रूढेर्बलवत्त्वाद्योगोऽत्र न ग्राह्यः। प्राबल्यञ्चाश्वकर्णादिशब्देष्ववगम्यते। अश्वस्य कर्ण इत्यवयवार्थप्रतीतावपि तमुपेक्ष्य रूढ्या वृक्षविशेषवाचित्वस्वीकारात्। ननु काकदन्तपरीक्षासमानीऽयं विचारः। यद्ययं शिवरात्रिंशब्दोरूढः यदि वा यौगिकः उभयथाप्यनुष्ठाने विशेषाभावात्। मैवम्। अस्त्रेव महान्विशेषः। यौगिकत्वे शिवसम्बन्धिब्रतजातं सर्वं यस्यां रात्रावनुष्ठीयते सा सर्वाशवरात्रिः स्यात्। माघमासादिपदञ्च तदानीमुपलक्षणं भवेत्। रूढि पक्षे तु माघमासादेर्षिशेषणत्वात् तद्विशिष्टाया एकस्याएव तिथेः शिवरात्रित्वम्। अतः कर्त्तव्यएव विचारः। तत्राहीनन्यायेन रूढिमेवाद्रियामहे। तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ भवतः “अहीनस्य द्वादशेति प्रकृतौ विकृतावुत। न हीन इति योगेन प्रकृतौ तद्विकल्प्यताम्। शीघ्रधीहेतुतो रूढेरहीने विकृताविदम्। उत्कृष्यतां द्वादशत्वं साह्रात् प्रकृतकर्मणः”। अयमर्थः ज्योतिष्टोमे श्रूयते “तिस्रएव साह्नस्योपसदोद्वादशाहीनस्य यज्ञस्य सवीर्यत्वायेति”। अह्ना सह वर्तत इति साह्नः। एकदिननिष्पाद्योज्योतिष्टोमः। तस्य प्राचीनेषु त्रिषु दिनेष्वङ्गत्वेनानुष्ठेया होमा उपसच्छब्दवाच्याः। तास्तिस्र उपसदो विधाय पुनरहीनशब्दवाच्यस्य कर्मणो द्वादशोपसदो विधीयन्ते। तत्र संशयः। किमिदं द्वादशोपसत्त्वं द्विरात्राद्यहीनप्रकृति भूते साह्नशब्दवाच्ये प्रकृते ज्योतिष्टोमे निविशते? आहोस्विदहीनशब्दवाच्ये विकृतिरूपे द्विरात्रादावुत्कृष्यते? इति। तदर्थमिदञ्चिन्त्यते। अहीनशब्दो यौगिको रूढोवेति। तत्र न हीन इति व्युत्पत्तेर्विस्पष्टं प्रतिभासाद्यौगिकएवायम्। तदर्थश्च प्रकृतावुपपन्नः। साङ्गप्रधानस्य सर्बस्य साक्षाद्वाचकशब्दैरेवोपदिष्टत्वेन हीनत्वाभावाद्बिकृतौ तु विशेषएव वाचकशब्दैरुपदिश्यते। इतरत्सर्वमतिदेशात् प्राप्यते। अत उक्तिसङ्कोचात् विकृतेर्हीनत्वम्। एवञ्च सत्यहीनशब्दस्य ज्योतिष्टोमेप्रवृत्तिसम्भवात्प्रकराणानुग्रहणाच्च तत्रैव द्वादशत्वं निविशते। न च पूर्ववाक्यविहितेन त्रित्वेन बाधः शङ्कनीयः वाक्ययोः समानबलत्वेन व्रीहियववद्विकल्पोपपत्तेः। तस्माद्ज्योतिष्टोमएव द्वादशत्वविधिरिति प्राप्ते ब्रूमः। विकृतिरूपे द्विरात्रादाविदं द्वादशत्वं विपीयते। कुतः अहीनशब्दस्य श्रौतप्रयोगबाहुल्येन तत्रैव रूढत्वात्। रूढिश्च शीघ्रबुद्धिहेतुत्वेन योगाद्बलीयसी, योगे त्वबयवार्थं प्रथमतो निश्चित्य पश्चात्समुदायार्थो निश्चेतव्य इति विलम्बः। न चात्रे प्रकरणबिरोधः शङ्कनीयः बलीयसा वावयेन प्रकरणस्य बाधितत्वात्। तस्मादिदं द्वादशत्वं प्रकृतज्योतिष्टोमादुत्कृष्य विकृतिषु तिरात्रादिषु निवेशनीयमिति। अत्र यथा रूढोऽहीनशब्दस्तथा शिवरात्रिशब्दोऽपि रूढ इति प्रथमः पक्षः। अपर आह। यौगिकएवायं शिवरात्रिशब्दः। कुतः शिवसम्बन्धमुपजीव्य तच्छब्दस्य प्रवृत्तत्वात्। तथा च स्कन्दपुराणे “माथस्य कृष्णपक्षे या तिथिश्चैव चतुर्द्दशी। शिवरात्रिस्तु सा ख्याता सर्वपापनिषूदनी”। “तस्य रात्रिः समाख्याता शिवरात्रिः शिवप्रिया। तस्यां सर्वेषु लि- ङ्गेषु सदा संक्रमते हरः। यानि कानि च लिङ्गानि चराणि स्थावराणि च। तेषु संक्रमते देवि! तस्यां रात्रौ यतोहरः। शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्लभेति”। शिवरहस्ये “तत्प्रभृत्येव देवर्षे। माघकृष्णचतुर्द्दशी। शिवरात्रिः समाख्याता प्रियेयन्त्रिपुरद्विषः” इति स्क० अवन्तिखण्डे “माघफाल्गुनयोर्मध्ये असिता या चतुर्द्दशी। शिवरात्रिस्तु सा ख्याता सर्वपापनिषूदनी”। तस्माच्छिवसम्बन्धिनी रात्रिः शिवरात्रिरिति यौगिकोऽर्थः प्रोक्षणीन्यायेन ग्रहीतव्यः। तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ “संस्कारजातियोगेषु कं ब्रूते प्रोक्षणीरिति। संस्कारं सार्वभौमत्वाज्जातिमुद्वेजनोक्तितः। अन्योन्याश्रयतो नाद्योन जातिः कल्प्यशक्तितः। यौगिकः कॢप्तशक्तित्वाकॢप्तिर्व्याकरणे स्थिता” अयमर्थः। दर्शपूर्ण मासाङ्गतया श्रूयते “प्रोक्षणीरासादयतीति”। तत्र संशयः। किमयं प्रोक्षणीशब्दोऽभिमन्त्रणासादनाद्युदकसंस्कारं ब्रूते?। किं वा जलावान्तरजाति विशेषम्? आहोस्वित् प्रोक्ष्यन्ते पात्राण्याभिरिति योगम्?। तत्र संस्कारं ब्रूत इति तावत्प्राप्तङ्कुतः? सार्व भौमत्वात्। सर्वेषु हि संस्कारविधिवाक्यादिप्रदेशेषु प्रोक्षणीशब्दः श्रूयते। “प्रोक्षणीरासादयेध्माबर्हिरुप सादयेति” प्रैषवाक्यप्रयोगः। “प्रोक्षणीरासादयतीति” विधिवाक्ये। एवमभिमन्त्रणादिवाक्यान्यप्युदाहरणी यानि तस्मात्संस्कारं ब्रूतैत्येकः पक्षः। जातिं ब्रूत इति पक्षान्तरम्। लोके हि जलक्रीडासु प्रोक्षणी भिरुद्वेजिताः स्म इत्युदकजातौ प्रयोगो दृश्यते। तत्र न तावत्संस्कारं ब्रूत इत्याद्यः पक्ष उपपद्यते। कुतः? अन्योन्याश्रयत्वात्। नापि जातिं ब्रूत इति द्वितीयः पक्षोयुक्तः उदकजातौ प्रोक्षणीशब्दशक्तेर्व्यवहारे पूर्वमकॢप्तत्वेनातः परं शक्तेः कल्पनीयत्वप्रसङ्गात्। नच योगेऽपि शक्तिः कल्पनीया व्याकरणेनैव कॢप्तत्वात् व्याकरणे हि उक्ष सेचन इत्यस्माद्धातोः करणे ल्युट्प्रत्ययेन शब्दो व्युत्पादितः। तथा सति प्रकर्षेणोक्ष्यते अनेनेति योगेन सेचनसाधनमुदकादिकं सर्वं प्रोक्षणशब्द वाच्यं सम्पद्यते। प्रकृते तु स्त्रीशब्दवाच्यानामपां सेचनसाधनत्वात् तद्वचनस्य प्रोक्षणशब्दस्य ङीप्प्रत्ययान्तत्वेन प्रोक्षणीरितिद्वितीयाबहुवचनान्तः शब्दोनिष्पद्यते। नन्वहीनाधिकरणे रूढेः पाबल्यमुक्तम्। प्रोक्षण्यधिकरणेच योगस्य प्राबल्यमुच्यते। अतः परस्परविरोधः। मैवम् लब्धात्मिका हि रूढि र्योगमपहरतीति। नच प्रोक्षणीशब्दे रूढिर्लभ्यते। वृद्धव्यवहारेण जातावव्युत्पादितत्वात्। अहीनशब्दोऽपि द्विरात्रादिषु न वृद्धैर्व्युत्पादित इतिचेत् न। व्याकरणे व्युत्पादितत्वात्। “अह्नः खःक्रतौ” इत्यनेन घाररुचेन वार्तिकेनाहन्शब्दात् स्वप्रत्ययमुत्पाद्य तस्येनादेशं कृत्वा क्रतुविषयतया व्युत्पादितो अहीनशब्दः। नन्वेवं सति घट्टकुटीप्रभातन्यायस्तव प्रसज्येत यतोऽहीनशब्दे योगम्परिहर्त्तुकामेन भवता व्याकरणमुपजीव्य योगे पर्यवसानं कृतम्। नायन्दोषः। पूर्बपक्षिणोऽभिमते समास लक्षणे योगे पर्यवसानस्यानभिधानात्। नच नञ्स मासोऽपि व्याकरणेषु व्युत्पादित इति शङ्कनीयम्। नञ्समासस्वीकारे सति “अयज्ञोवाएष” इत्यादाविवाऽहीनशब्दस्याद्युदात्तत्वप्रसङ्गात् मध्योदात्तोह्ययं शब्द आम्नायते। तस्मात्पक्षद्वये योगसाम्येऽपि समासरूप योगम्पूर्वपक्षाभिमतं निराकृत्य श्रौतरूढिः सिद्धान्तिना समाश्रिता। तामेव रूढिं प्रकटयितुं वररुचिना वार्त्तिकं कृतम् अतः सत्यपि प्रकृतिप्रत्ययविभागे यौगिकत्वं न शङ्कितुं शक्यते। तथा गोत्वजातौ रूढस्यापि गो शब्दस्यौणादिकसूत्रेषु “गमेर्डोः” इति प्रकृतिप्रत्ययविभागङ्कृत्वा गच्छतीति गौरिति व्युत्पत्तिः प्रदर्शिता। तद्वदत्राप्यवगन्तव्यम्। प्रोक्षणीशब्दे तु न रूढिज्ञापनाय किञ्चित्सूत्रं स्वतन्त्रं विहितमस्ति। किन्तर्हि सर्वधातुसाधारणेनावयवार्थव्युत्पादकेन ल्युट्प्रत्ययेन व्युत्पादितत्वात्। यौगिक एवायं प्रोक्षणीशब्दः। तस्मात्प्रोक्षणीशब्दावच्छिवरात्रिशब्दो यौगिक इति द्वितीयः पक्षः। अन्ये तु पुनर्मन्यन्ते। लाक्षणिकोऽयं शिवरात्रिशब्दः। तिथिवाचकेन शब्देन तत्तिथौ क्रियमाणस्य व्रतविशेषस्य लक्ष्यमाणत्वात्। अतएवेशानसंहितायामुक्तम् “शिवरात्रिव्रतन्नाम सर्वपाप प्रणाशनम्। आचाण्डालमनुष्याणां भुक्तिमुक्ति प्रदायकम्। अर्द्धरात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी। तत्तिथावेव कुर्वीत शिवरात्रिव्रतं व्रती। शिवरात्रि व्रतङ्कायं भूतान्वितमहानिशि। शिवरात्रिव्रतन्देव करिष्ये शिवसन्निधौ। निर्विघ्नं कुरु मे देव। भक्तग्राह्य! महेश्वरेति”। नारदीयसंहितायाम् “अर्द्धरात्रयुतायत्र माघकृष्णचतुर्दशी। शिवरात्रिव्रतं तत्र कुर्याज्जागरणं तथेति”। पद्मपुराणेऽपि “अर्द्धरात्रादध- श्चोर्ध्वं यदि युक्ता चतुर्दशी। तत्तिथावेब कुर्वोत शिवरात्रिव्रतं व्रती” स्कन्दपुराणे “शिवरात्रिव्रतन्देव! कथयस्व महेश्वरेति”। नच कालवाचकस्य शब्दस्य लक्षकत्वमदृष्टचरमिति शङ्कनीयम्। कालवाचकाभ्याममावास्यापौर्णमासीशब्दाभ्यां यागत्रयरूपयोरिष्ट्योस्तत्कालसम्बन्धिन्योरुपलक्षितत्वात्। अतएव श्रूयते” “यएवंविद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते” इति। स्मृतिष्वपि सर्वत्र तिथिवाचकैः शब्दैस्तत्सम्बन्धिनो व्रतविशेषा लक्ष्यन्ते। स्कन्दपुराणे “जन्माष्टमी नैव कृता कदाचित्कल्पायुतं पच्यते रौरवेष्विति”। ऋष्यशृङ्गोऽपि “एकादशीन्तु कुर्वीत क्षीयते द्वादशी यदेति” एवमन्यत्राप्युदाहार्यम्। तस्माल्लाक्षणिकोऽयं शिवरात्रिशब्द इति तृतीयः पक्षः। अथ सिद्धान्तं ब्रूमः। योगरूढएवायं शिवरात्रिशब्दः। योगोद्वितीयपक्षोपन्यासेन दर्शितः। रूढिश्च प्रथमोपन्यासेन। तत्रेकस्य स्वीकारे सत्यन्यविषयं शास्त्रन्तदनुग्राहकौदाहृतो न्यायश्च वाध्येत। नच यौगिकत्वे सति शिवव्रतोपेतेषु त्रयोदश्यादितिथ्यन्तरेषु शिवरात्रित्वं प्रसज्येतेतिवाच्यम्। तस्यातिप्रसङ्गस्य रूढ्या निवारणात्। यथा पङ्कजशब्दे पङ्काज्जायत इति योगं स्वीकृत्य भेकादिष्वति पसङ्गो रूढिस्वीकारेण निवार्यते। तद्वदत्रापि योग रूढतायां न कोऽप्यतिप्रसङ्गः। नच मुख्य सम्भवति लक्षणाश्रयणमुचितम्। अथोच्येत। लक्षणाया अभावे ब्रतविषयत्वन्न स्यादिति। तन्न। बहुब्रीहि स्वीकारे योगेनैव तत्सिद्धेः। शिवस्य प्रिया रात्रिर्यस्मिन्व्रतेऽङ्गत्वेन विहिता तद्व्रतं शिवरात्र्याख्यं तस्मान्नि र्मन्थ्यन्यायेनात्र योगरूढः शिवरात्रिशब्दः। तस्यात्र न्यायस्य संग्राहकः श्लोकः “निर्मन्थ्यो यौगिको योगरूढो वा योगभासनात्। यौगिकोऽचिरजातेऽग्नौ नियते र्योगरूढिभाक्”। अस्यायमर्थः। इष्टकाचयने श्रूयते “निर्मन्थ्येनेष्टकाः पचन्तीति”। तत्र संशयः। किमयं निर्मन्थ्यशब्दो यौगिकः? किं वा योगरूढः? इति। निःशेषेण मथ्यत इति योगस्य प्रतीयमानत्वात्प्रोक्षणीन्यायेन योग इति पूर्वःपक्षः। अत्र द्वावग्नी विद्येते चिरमिर्मथितोऽचिरनिर्मथितश्च। चयनम्प्रक्रम्योस्यां निर्माय तस्या मुखायाङ्कञ्चित्कालन्धारणाय योऽग्निर्निर्मथ्यते सोऽचिर निर्मथितः। तेनेष्टकाः पच्यन्ते तस्यैव पत्यासन्नत्वात्। तथा च मन्थनस्याग्निद्वितयसाधारण्येऽप्यचिरनिर्मथित मग्निं नियन्तुं रूढिराश्रयणीया। यथा वा नावनीतङ्घृत मित्यत्र नवनीतजन्यत्वयोगस्य चिराचिरयोरुभयोः साधारण्येऽपि नूतनएव वृते नावनीतशब्दो लोके प्रसिद्धेर्नियम्यते तद्वदत्राप्यवगन्तव्यम्। तथा च सति प्रतीयमानयोगस्यापरिहृंतत्वान्नियत्यै रूढिस्वीकाराच्च योगरूढोऽयं निर्मन्थ्य इति राद्धान्तः। अनेनैव न्यायेन शिवरात्रिशब्देऽपि योगरूढिराश्रीयते। तत्र शिवस्य रात्रिः शिवरात्रिरिति तत्पुरुषसमासेन योगेन प्रवत्तमानः शब्दोरूढ्या माघकृष्णचतुर्दशीरूपे कालविशेषेनियम्यते। शिवस्य रात्रिर्यस्मिन् व्रते इति वहुब्रीहि समासेन योगेन प्रवृत्तः शब्दोरूढ्याव्रतविशेषे नियम्यते। तच्च शिवरात्रिव्रतमेकदाशीजयन्तीव्रतवत्संयोगपृथक्त्व न्यायेन नित्यङ्काम्यञ्चेत्युभयविधम्। तत्र नित्यत्वमकरणे प्रत्यवायवीप्सानित्यनिश्चलशब्दैरवगन्तव्यम्। तत्राकरणे प्रत्यवायः स्कन्दपुराणे पठ्यते “परात्पर तरन्नास्ति शिवरात्रिः परात्परम्। न पूजयति भक्त्येशं रुद्रन्त्रिभुवनेश्वरम्। जन्तुर्जन्मसहस्रेषु भ्रभते नात्र संशयः”। बीप्सापि तत्र पठिता “वर्षेवर्षे महादेवि! नरोनारी पतिव्रता। शिवरात्रौ महादेवङ्कामम्भक्त्या प्रपूजयेदिति”। नित्यनिश्चलशब्दौ च तत्रैव “माघ कृष्णचतुर्दश्यां यः शिवं शंसितव्रतः। मुमुक्षुः पूजयेन्नित्यं स लभेदीप्सितम्फल मिति”। “अर्णवो यदि वा शुष्येत् क्षीयते हिमवानपि। मेरुमन्दरलङ्काश्च श्रीशैलोविन्ध्य एव च। चलन्त्येते कदाचिद्वै निश्चलं हि शिवव्रतमिति”। काम्यत्वञ्च फलश्रवणादवगन्तव्यम्। तच्च स्कन्दपुराणे “शिवञ्च पूजयित्वा योजागर्त्ति च चतुर्दशीम्। मातुः पयोधररसन्न पिबेत्स कदाचन। यदीच्छेद्वाञ्छितान् भोगान् दिवि देवमनोरमान्। आगमोक्तविधिं कृत्वा प्राप्नोति परमम्पदम्। मम भक्तस्ततो देवि। शिवरात्रिमुपोषकः। गणत्वमक्षयन्दिव्यमक्षयं शिवशासनम्। सर्वान्भुक्त्वा महाभोगान्मृतो भूयोन जायते” इति। काम्यव्रतस्येशानसंहितायां वर्षसंख्यापढ्यते “एवमेतद्वतङ्कुर्यात्प्रतिसंवत्सरं व्रती। द्वादशाब्दिकमेतत्स्याच्चतुर्विंशाब्दिकन्तु वा। सर्वान् कामानवाप्नोति प्रेत्य चेह च मानवः” इति। नित्यकामरूपस्यास्य व्रतस्य सर्वाधिकारित्वमीशानसंहितायामुक्तम् “शिवरात्रिव्रतन्नाम सर्वपापप्रणाशनम्। आचाण्डाल मनुष्याणां भुक्तिमुक्तिप्रदायकमिति”। अधिकारिणि यमाः स्कन्दपुराणे दर्शिताः “माघमासे तु कृष्णा याफाल्मुनादौ चतुर्दशी। सा च पुण्या तिथिर्ज्ञेया सर्वपातकनाशिनी। अहिंसा सत्यमक्रोधो ब्रह्मचर्यं दया क्षमा। शान्तात्मा क्रोधहीनश्च तपस्वी ह्यनसूयकः। तस्मै देयमिदन्देवि! गुरुपादानुगोयदि। अन्यथा योददातीदं स तदा नरकं व्रजेदिति”। उक्ताधिकारिणा नुष्ठेयं व्रतस्वरूपं त्रिविधम् “उपवासो जागरणंपूजा च। तदुक्तं नागरखण्डे “उपवासप्रभावेण बलादपि च जागरात्। शिवरात्रौ तथा तस्य लिङ्गस्यापि च पूजया। अक्षयान्लभते भोगान् शिवसायुज्य माप्नुयादिति”। स्क० सह्यखण्डे “स्वयञ्च लिङ्गमभ्यर्च्य सोपवासः सजागरः। अजानन्नपि निष्पापो निषादो गणतां गतः”। अत्रेदञ्चिन्त्यते किमेता उपवासजागर पूजा व्रतस्य स्वरूपे स्वेच्छया विकल्प्यन्ते?। उत समुच्चिताएवेति?। तत्र विकल्प्यन्ते इति तावत्प्राप्तम्। कुतः। एकैकस्येतरनिरपेक्षतया विधानात्। तथाहि स्कन्दपुराणे केवलोपबासविधिः पट्यते “अखण्डित व्रतोयोहि शिवरात्रिमुपोषयेत्। सर्वान् कामानवाप्नोति शिवेन सह मोदत इति”। तथा केवलजागरणं पठ्यते “कश्चित्पुण्यविशेषेण व्रतहीनोऽपि यः पुमान्। जागरङ्कुरुते तत्र स रुद्रसमतां व्रजेत्”। तथा केवलपूजा पठ्यते “यःपूजयति भक्त्येशमनेकफलतां व्रजेदिति”। तस्मादुपवासादयस्त्रयोऽपि विकल्प्यन्ते। यदि नागरस्वण्डसह्यखण्डयोः समुच्चयविधिरस्तीत्युच्यते। तर्हिप्रत्येकं वा समुदायोवा यथेष्टमनुष्ठीयतामिति प्राप्तेब्रूमः। वैश्वानरविद्योपासनन्यायेन समुदाय एवात्रा नुष्टेयः। तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ “वैश्वानरमुपास्तेऽत्र प्रत्येकसमुदायतः। विकल्पः समुदायो वा नियतोद्विविधाद्विधेः। विकल्प इति चेन्मैत्वं ससमुदायप्रशस्तितः। अवयुत्यानुवादेन प्रत्येकोक्त्युपपत्तितः” इति। अयमर्थः। छन्दोगैराम्नायते “बैश्वानरमुपास्ते इति। द्युलोकादित्यवाय्वाकाशोदक पृथिवीरूपैः षड्भिरवयवैरुपेतोऽवयवी सर्वात्मको विराट् पुरुषो वैश्वानरशब्दवाच्यः। तत्र संशयः। किं द्युलोकाद्यवयवा अवयवी च प्रत्येकं विकल्पेनोपास्याः? उतावयव्येव नियमेनोपास्यः? इति। विकल्प इति तावत् प्राप्तम् कुतः द्विविधस्य विधेः श्रूयमाणत्वात्। प्राचीनशालसत्ययज्ञेन्द्रद्युंम्नजनवुडिडोद्दालक नामभिः षद्भिर्महर्षिभिः क्रमेण द्युलोकादयः षडवयवाः प्रत्येकमुपासिताः। तद्वृत्तान्तकथनपरेषु वाक्येषु षण्णामवयवानां प्रत्येकमुपस्तिविधये नियमाश्च फलसहिता उपलभ्यन्ते। पुनश्चान्ते षड्भ्यस्तेभ्यो महर्षिभ्योऽश्वपती राजा समुदायोपास्तिमवोचत। अतोद्विविधविधिबलेन यथेच्छं विकल्प इति प्राप्ते ब्रूमः। समुदायएवात्र नियमेनीपासितव्यः कुतः प्रस्तुतत्वात्। अवयवोपास्तिवाक्यान्यवयुत्यानुवादरूपत्वेनाप्युपपद्यन्ते। तस्मात्समुदाय उपास्य इति राद्धान्तः। अनेन न्यायेन प्रकृतेऽप्युपवासादीनान्त्रयाणां समुदायस्यैव व्रतरूपत्वम्। नमु क्वचिदुपवासादित्रसं विधाय पुनः पक्षान्तररूपेणोपवासव्यतिरिक्तं द्वयं पठ्यते। “अथवा शिवरात्रिञ्च पूजाजागरणैर्नयेदिति”। नायन्दाषः। अथ वेत्यनुकल्पोपक्रमेणाशक्तविषयत्वोपपक्षे। अत्र व्रते विहितान्त्रयाणां परस्परमङ्गाङ्गिभावबोधकप्रमाणाभावादाग्नेयादिषड्यागवत्प्रत्येककालसम्बन्धविधानात्फलविधानाच्च समं प्राधान्यन्द्रष्टव्यम्। अस्यैवोपोद्वलकं लिङ्गमभिधीयते। लुब्धकस्य भद्राश्वजन्म प्राप्तवतो दुर्वाससा सह संवादे पठ्यते “कृष्णपक्षे चतुर्द्दश्यान्न कञ्चिन्मृगमाप्तवान्। अण्वपि प्राणरक्षार्थं क्षुधासम्पो डितोऽ वसत्” इत्युपक्रम्य “धनुःकोट्याहतान्येव विल्वपत्राणि मानद!। पतितानि महाराज! शम्भोः शिरसि भूतले। तत्रैव रस्थौ राजेन्द्र! सर्वरात्रमतन्द्रितः। रात्रिशेषं स्थितोव्याधः स्तब्धवृष्टिरनामिषः। प्रभाते विमले जाते दृष्ट्वा तत्रैव शङ्करम्। विल्वपत्रैर्नरश्रेष्ठ! कन्दमूलैश्च पारितः” इति। एतस्मिन् यथोक्ततिथिन्निर्णेतुम् इदं विचार्यते। किंव्रतान्तरेष्विवात्राप्युदयास्त मयवेध आदर्त्तव्यः? किं वा प्रदोषवेधः? आहोस्विन्निशीथ वेध? इति। तत्र पूर्वेद्युरुदये त्रयोदशीवेधः परेद्युरस्त मये दशवेध इत्युदयास्तमये वेधोयुक्तः तस्य व्रतान्तरेषु कॢप्तत्वात् कॢप्तस्य च कल्प्याद्बलीयस्त्वात्। मैवम्। समान्याद्विशेषस्य बलीयस्त्वात्। समान्यरूपोह्यु दयास्तमयवेधः सर्वतिथिसु समानत्वात् विशेषरूपौ प्रदोषनिशीथवेधौ कृष्णचतुर्दशीलक्षणे तिथिविशेषे शिवरात्र्याख्यं व्रतविशेषमुपजीव्य प्रवृत्तत्वात्। एतदेवाभिप्रेत्य ईशानसंहितायामुक्तम्। “उदयेऽन्विताः क्वचिद्ग्राह्याः क्वचिदस्तमयेऽन्विताः। व्रतिभिस्तिथयो यस्माद्वर्जयित्वा व्रतन्त्विदमिति”। अस्मिंस्तु व्रते प्रदोष घेधोवायुपुराणे दर्शितः “त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु। भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरेदिति”। स्मृत्यन्तरेऽपि “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी। रात्रौ जागरणं यस्मात्तस्मात्तां समुपोषयेदिति”। कामिके “आदित्यास्तमये काले अस्तिचेद्या चतुर्दशी। तद्रात्रिः शिवरात्रिः स्यात्सम्भवे दुत्तमीत्तमेति”। निशीथवेधो नारदीयसंहितायां दरितः। “अर्द्धरात्रयुता यत्र माघकृष्णचतुर्दशी। शिवरात्रिव्रतन्तत्र सोऽश्वमेधफलं लभेदिति”। स्मृत्यन्तरेऽपि “भवेद्यत्र त्रयोदश्यां भूतव्याप्ता महानिशा। शिवरात्रिव्रतन्तत्र कुर्याज्जागरणन्तथेति”। ईशानसंहितायाम् “माघकृष्णचतुर्दश्यामादिदेवोमहानिशि। शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः। तत्कालव्यापिनी ग्राह्यां शिवरात्रिव्रते तिथिः। अर्द्धरात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी। तत्तिथावेव कुर्वीत शिवरात्रिव्रतं व्रती। नार्द्धरात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी। नैव तत्र व्रतङ्कुर्य्यादायुरैश्वर्यहानि देति”। “व्याप्यार्द्धरात्रं यस्यान्तु लभ्यते या चतुर्दशी। तस्यामेव व्रतङ्कार्यं मत्प्रसादार्थिभिर्नरैः। पूर्वेद्युर्वा परेद्युर्वा महानिशि चतुर्दशी। व्याप्ता सा दृश्यते यस्यान्तस्यां कुर्यात्व्रतन्नरः। लिङ्गाविर्भावकाले तु व्याप्ताग्राह्या चतुर्द्दशी। तदूर्ध्वाधोन्विता भूता सा कार्य्या व्रतिभिःसदा। मम प्रियकरी ह्येषा माघकृष्णचतुर्द्दशी। महानिशान्वितायान्तु तत्र कुर्य्यादिदं व्रतमिति”। एवं सति पूर्व्वेद्युरेव यत्र प्रदोषनिशीथोभयव्याप्तिस्तत्र व्रतमाचरणीयम्। पूर्व्वेद्युरेवोमयव्याप्तौ स्कन्दपुराणे पठ्यते। “त्रयोदशी यदा देवि! दिनभुक्तिप्रमाणतः। जागरे शिवरात्रिःस्यान्निशि पूर्ण्णा चतुर्दशी। दिनभुक्तिरस्तमयः। परेद्युरेवोभयव्याप्तौ कामिके पठ्यते “निशाद्वये चतुर्द्दश्यां पूर्वा त्याज्या परा शुभेति”। दिनद्वयेऽप्युभयव्याप्तिस्तु न सम्भव्यते यामद्वयवृद्धेरभावात्। दिनद्वयेऽप्युभयव्याप्त्यभाबोऽपि न सम्भाव्यते यामद्वयक्षयस्याभावात्। एकैकस्मिन् दिनएकैकव्याप्तौ तु कथमिति चेत्। सा ह्येवं प्रसज्यते। पूर्व्वेद्युर्निशीथव्याप्तिः परेद्युः प्रदोषव्याप्तिरिति। तत्रैकव्याप्तेर्दिनद्वये समानत्वेऽपि जयायोगस्य प्रशखत्वाद्दर्शयोगस्य निन्दितत्वाच्च पूर्वेद्युरेवोपवासः। जयायोगप्राशस्त्यञ्चानेकवचनैरादृतत्वादवगस्यते। तथा च स्कन्दपुराणे पठ्यते “कृष्णाष्टमी स्कन्द- षष्ठी शिवरात्रिचतुर्द्दशी। एताः पूर्व्वयुताः कार्य्यास्तिथ्यन्ते पारणम्भवेत्”। “जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च। पूर्ब्बविद्धैव कर्त्तव्या तिथिभान्ते च पारणम्”। “श्रावणी दूर्गनवमी तथा दुर्वाष्टमी च या। पूर्व्वविद्धा तु कर्त्तव्या शिवरात्रिर्बलेर्दिनमिति”। “जय न्ती शिवरात्रिश्च कार्य्ये भद्राजयान्विते” इति। नागरखण्डे “माघफाल्गुनयोर्मध्ये असिता या चतुर्द्दशी। अनङ्गेन समायुक्ता कर्त्तव्या सा सदा तिथि रिति” पद्मपुराणे “अर्द्धरात्रात् पुरस्ताच्चेज्जयायोगो यदा भवेत्। पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैरिति”। व्रह्मवैवर्त्ते “रुद्रव्रतेषु सर्वेषु कर्त्तव्य संमुखी तिथिः। अन्येषु व्रतकल्पेषु परयुक्तामुपावसे दिति”। दर्शयोगनिन्दा च स्कन्दपुराणे दर्शिता “महतामपि पापानां दृष्टा वै निःकृतिः पुरा। न दृष्टा कुर्वतां पुंसां कुहूयुक्तां तिथिं शिवामिति”। अन्यान्य पि यानि कानिचिद्दर्शयोगनिन्दावचनानि तत्र तत्र स्मर्य्यन्ते। तानि सर्व्वाण्यस्मिन्विषये योजनीयानि। यदा पूर्व्वेद्युर्निशीथादूर्द्ध्वं पवृत्ताचतुर्द्दशी, परेद्युः क्षयवशात्निशीथादर्वागेव समाप्ता तदा पूर्व्वेद्युः प्रदोष निशीथव्याप्त्योरुभयोरप्यसम्भवात्परेद्युः प्रदोषव्याप्तेरेकस्याः सद्भावाच्च परविद्धैव ग्राह्या। एतदेवाभिप्रेत्यस्तर्य्यते “माघासिते भूतदिनं कदाचिदुपैति योगं यदि षञ्चदश्या। जयाप्रयुक्तां न तु जातु कुर्य्याच्छिवस्यरात्रिं प्रियकृच्छिवस्येति”। यदा पूर्व्वेद्युः प्रदोषादूर्ध्व प्रवृत्ता चतुर्द्दशी, परेद्युः क्षयवशात्प्रदोषादर्वागेव समाप्ता तदा परेद्ध्युर्व्याप्तिद्वयाभावात्पूर्वेदुर्निशीथव्याप्तेः सद्भावाज्जयायोगाच्च पूर्व्वेद्युरेवोपवासः। अत्रायं विवेकः सम्पन्नः। दिनद्वये निशीथव्याप्तौ तदव्याप्तौ च प्रदोषव्याप्तिर्नियामिका। तथा दिनद्वयेऽपि प्रदोषव्याप्तौ तदव्याप्तौ च निशीथव्याप्तिर्निर्यामिका एकैकस्मिन् दिन एकैकव्याप्तौ जयायोगो नियामक इति। अस्य शिवरात्रिव्रतस्याहोरात्रसाध्यत्वेनाहनि रात्रौ च सम्बन्धे साधारणे सति अहर्वेधमुपेक्ष्य प्रदोषनिशीथयोरेव कुतः शास्त्राणां पक्षपात इति चेत्। रात्रेरत्र प्रधानत्वादिति ब्रूमः। तत्प्राधान्येन चोपपत्तिः स्कन्दपुराणे पट्यते “निशि भ्रमन्ति भूतानि शक्तयः शूलभृद्यतः। अतस्तस्यां त्रयोदश्यां सत्यां तत्पूजनम्भवेदिति”। तस्यान्त्रयोदश्यामिति व्यधिकरणे सप्रम्पौ। तथा चायमर्थः सम्पद्यते। त्रयोदशीनिशीथे तस्यां चतुर्द्दश्यां विद्यमानायां शिवपूजनम्भवेदिति। नागरखण्डेऽपि “माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर!। अहं यास्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ। लिङ्गेषु च समस्तेषु चरेषु स्थावरेषु च। संक्रमिष्याम्यसन्दिग्धं वर्षपापविशुद्धये। रात्रौ तस्यां हि मे पूजां यः करिष्यति मानवः। मन्त्रैरेतैः सुरश्रेष्ठ! विपापः स भविष्यतीति”। सा च शिवरात्रिचतुर्दशी त्रिधा भवति। एकतिथ्यत्मिका तिथिद्वयात्मिका तिथित्रयात्मिका चेति। तत्र सूर्य्योदयमारभ्य प्रवृत्ता परदिनोदयपर्य्यन्तैकतिथ्यात्मिका। सा वेधदोषाभावात्प्रशस्ता। तिथिद्वयात्मकत्वं च द्वेधा भवति। जयायोगेन दर्शयोगे न च। तत्र योगद्वयमेकैकस्मिन्विषये प्रशस्तम्। स च विषयविशेषः पूर्वमेवोदाहृतः। तिथित्रयात्मकत्वन्त्वतिप्रशस्तम्। एतदेवाभिप्रेत्य पुराणे पठ्यते “त्रयोदशीकलाप्येका मध्ये चैव चतुर्दशी। अन्ते चैव सिनीबाली त्रिस्पृश्यां शिवमर्चयेत्”। यथा त्रिस्पृशी प्रशस्ता तथा वारविशेषेण योगविशेषेण च प्रशस्ता भवति। तथा च स्कन्दपुराणे पठ्यते “माघकृष्णचतुर्दश्यां रविवारो यदा भवेत्। भौमोवाथ भवेद्देवि! कर्त्तव्यं व्रतमुत्तमम्। शिवयोगस्य योगे वै तद्भवेदुत्तमोत्तमम्। शिवरात्रिव्रतन्त्वेतत्तद्भवेदुत्तमोत्तममिति”। ननु यदा पूर्वविद्धायामुपवासस्तदा परेद्युः किं तिथ्यन्ते पारणम्भवति किं वा तिथिमध्ये। शास्त्रन्तु पक्षद्वयेऽपि समानम्। तत्र तिथ्यन्तपारणघचनानि पूर्वमुदाहृतानि “तिथि मध्यपारणवचनन्तु स्क न्दपुराणे पठ्यते “उपोषणं चतुर्दश्यां चतुर्दश्यान्तु पारणम्। कृतैः सुकृतलक्षैश्च लभ्यते वाथ बा न वा। ब्रह्मा स्वयं चतुर्वक्त्रैः पञ्चवक्त्वैस्तथाप्यहम्। सिक्थे सिक्थे फलन्तस्य शक्तौ वक्तुं न पार्वति!। ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै। संस्थितानि भवन्तीह भूतायां पारणे कृते”। “तिथीनामेव सर्वासामुपवासव्रतादिषु। तिथ्यन्ते पारणङ्कुर्य्याद्विना शिव चतुर्दशीमिति”। बाढम्। अस्ति हि द्विविधं शास्त्रं तस्य च द्विविधस्य शास्त्रस्य प्रतिपत्प्रकरणोक्तन्यायेन व्यवस्था द्रष्टव्या। यदा यापत्रयादर्वागेव चतुर्दशी परिसमाप्यते। तदा तिथ्यन्ते पारणम्। यदा तु चतुर्दशी यामत्रयमतिक्रामति तदा चतुर्दशीमध्ये पूर्वाह्णे पारणङ्कर्य्यात्”। ति० त० अन्यथोक्तं गौडमात्रग्राह्यत्वान्नोक्तम्। चतस्रोदशा अस्य। २ चतुर्दशायुक्ते त्रि०। “अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नु पाधिभिः। चतुर्दशत्वं कृतवान् कुतः? स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम्” नैष०। प्रकारे धाच्। चतुर्दशधा चतुर्दश प्रकारे अव्य०। नान्तत्वात् पूरणे डटि प्राप्ते असंख्यादे रिति पर्य्युदासेऽपि क्वचिदार्षे मट्। चतुर्दशम चतुर्दश पूरणे त्रि०। “मनुर्वा इन्द्रसावर्णिश्चतुर्दशम इत्यपि” भाग० ८। १३। १५।

चतुर्दशभुवन = न० समा० द्विगुः पात्रादि न ङीप् स्त्रीत्वे। भूलोकादिषु चतुर्दशसु लोकेषु। “झूर्लोकाख्यों दक्षिणो व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः। लभ्यः पुण्यैः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्यात्तपः सत्यमन्त्यः” “सि० शि० भुवनकोषे भूलोकादि सप्तकमुक्तम् “अवनेरप्यधस्तात् सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपकॢप्ताः। अतलं वितलं सुतलं तलातलं महातलं रसातलं पाताल मिति” भाग० ५। २४। ११ श्लोके अतलादिसप्तकमुक्तम् तद्विवरणं तत्राध्याये दृश्यम्। भूलोकादिविवरणं काशीख० २३ अ०। “पादगम्यं हि यत् किञ्चिद्वस्त्वस्ति धरणीतले। तद्भूर्लोक इति ख्यातं साब्धि द्वीपाद्रिकाननम्। भूर्लोकाच्च भुवर्लोक आब्रध्नात् समुदाहृतः। आदित्यादाध्रुवं विप्र! स्वर्लोक इति गीयते। महर्लोकः क्षितेरूर्द्धमेककोटिप्रमाणतः। कोटिद्वयोत्तरः ख्यातो जनो भूर्लोकयोजनैः। चतुःकोटिप्रमाणस्तु तपोलोकोहि भूतलात्। उपरिष्टात् क्षितेरष्टौ कोटयः सत्यमीरितम्”। योगिनां तनुमध्ये ध्येयानि स्थानभेदे चतुर्दश भुवनादीनि योगस्वरोदये उक्तानि यथा। “व्रह्माण्डे सन्ति ये अण्डाः पिण्डमध्येऽपि संस्थिताः। तलं पादाङ्गुष्ठतले तस्योपरि तलातलम्। महातलं गुल्फमध्ये गुल्फोपरि रसातलम्। सुतलं जङ्घयोर्म्मध्ये वितलं जानुमध्यगम्। ऊर्वोर्म्भध्ये तलंप्रोक्तं सप्तपातालमारितम्। तलातलञ्चातलञ्च महातलरसातलम्। सप्तपातालमेतत्तु सुतलं वितलं तलम्। इदानीं पिण्डमध्येतु सप्तलोकं शृणु प्रिये!। मूलाधारे तु भूर्लोको लिङ्गाग्रे तु भुवस्ततः। स्वर्लोको लिङ्गमूले तु मेरुमूले महस्तथा। मेरुच्छिद्रे जनोलोको मेरुनाड्यां तपस्तथा। कमले सत्यलोकस्तु इति लोकाः पृथक् पृथक् भूभुवः स्वर्महश्चेति जनश्चैव तपस्तथा। सप्तमासत्यलोकस्तु सप्त लोका इति स्मृताः। सप्तलोकैस्तु पातालैभु वनानि चतुर्दश। अथ ब्रह्माण्डमध्यस्थाश्चत्वारो लोकपालकाः। पिण्डमध्ये तु तान् ज्ञात्वा सर्वसिद्धीश्वरोभवेत्। इन्द्रोब्रह्मा विष्णुरीशश्चत्वारश्चात्मदेवताः। मूलाधारे चतुःपत्रे गजारूढो महानिति। सृष्टिकर्त्ता च तत्रैव स्वाधिष्ठाने महान् हरिः। मणिपूरे शूलपाणिरष्टसिद्धीश्वरोमहान्। तालुद्वारे तालुमध्ये ललाटे वक्षःकण्ठके शृङ्गाटिकाकपाले च लम्बिकाब्रह्मरन्ध्रके। नवचक्रमूर्द्ध्वचक्रं ९ त्निकूटेत्येकविंशतिः। ब्रह्माण्डानि वसन्ती ति ज्ञातव्यानि प्रयत्नतः। सप्त द्वीपानि कथ्यन्तेऽधुनातानि शृणु प्रिये!। जभ्वुद्वीपन्तु मज्जायां शाकद्वीपन्तु मध्यमे। शाल्मद्वीपः शिरोमध्ये मांसमध्ये कुशस्तथा। त्वचि क्रौञ्चोलोममध्ये गोमेदद्वीप ईरितः। नखमध्ये तथा श्वेतः सप्तद्वीपा वसुन्धरा। जम्बुःशाकस्तथा शाल्मःकुशःक्रौञ्चश्च गोमयः। श्वेतः सप्तेति खण्डानि सप्तखण्डैर्वसुन्धरा। सप्तान्येतानि रूपाणि देहमध्ये स्थितानि च। समुद्राःसप्त कथ्यन्ते पिण्डमध्ये व्यपस्थिताः। लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः। लवणः स्वेदमध्ये तु इक्षूरक्ते मधुत्वचि। सर्पिर्मेदोवसामध्ये दधिक्षीरं ललाटके। वीर्य्यमध्येऽमृतोज्ञेयः पादे कूर्म्मः स्थितोमहान्। इदानीन्तु नवद्वारे नवखण्डानि संशृणु। पाय्वादौ भारतं खण्डं काश्मीरं त्रिकमण्डलु। द्विजखण्डमेकपादं खण्डं वक्ष्ये समण्डलम्। कैवर्त्तगर्त्तगान्धारं नवखण्डमिति स्थितम्। इदानीं पर्वताष्टौ च कथ्यन्ते शृणु यत्नतः। मेरुदण्डे सुमेरुस्तु पीठमध्ये हिमालयः। वामस्कन्दे तथा दक्षे मलयोमन्दराचलः। विन्ध्यस्तु दक्षिणे कर्णे वामे मैनाक ईश्वरि!। लन्ताटे मध्यदेशे तु श्रीशैलः परमेश्वरि!। तथा व्रह्मकपालस्थः कैलाशःपर्वतोमहान्। सुमेरुर्हिमवान् विन्ध्योमलयोमन्दरस्तथा। श्नीशैलः मैनाकश्चेति कैलाशोऽष्टौ च पर्वताः। अपरे पर्वताःसर्वे अङ्गुलीमध्यवासिनः। शरीरे नवनाडीस्था नर्म्मदा च महेश्वरि!। इडायां यमुना देवि! पिङ्गलायां सरस्वती। सुषुम्णायां वहेद्गङ्गा चान्याऽ न्यासु च नांडिषु। गङ्गासरस्वतीगोदानर्म्मदायमुनातथा। कावेरी चन्द्रभागा च वितस्ता च इरावती। द्विसप्ततिसहस्रेषु नदीनदपरिस्रवः। इतस्ततोदेहमध्ये ऋक्षाणि सप्तविंशतिः। योगाश्च राशयश्चैव ग्रहाश्च तिथ- यस्तथा। लहरीषु मीनमणी वाहनं स्थापनं तथा। सर्वाङ्गेषुच देवेशि! समग्रमृक्षमण्डलम्। त्रयस्त्रिंशत्कोटयस्तु निवसन्ति च देवताः। तथा पीठानि सर्वाणि देहमध्ये स्थितानि च। हृदये व्योममध्ये तु अनन्ताद्यास्तु वासुकिः। उदये व्योममध्ये तु परे नागा व सन्ति हि। गन्धर्वकिन्नराःशूरा विद्याधराप्सरादयः। अनेकतीर्थवर्णाश्च गुह्यकाश्च वसन्ति हि। अनन्तसिद्धये वुद्ध्या प्रकाशोवर्त्तते हृदि। मेघस्य मण्डलं ज्ञेयमश्रुपाते तथैव च। चन्द्रार्कौ नेत्रयोर्म्मध्ये जङ्घलोमसु साक्षिणः। तृणगुल्मादिकञ्चापि विश्वरूपंस्मरेत्ततः। समग्रदर्शनान्मुक्तः स्वर्गभोगञ्च सत्सुखम। तदेतच्चिन्तया याति रोगशोकविवर्ज्यताम्”।

चतुर्दशविद्या = स्त्री ब० व० संज्ञात्वात् कम्म०। वेदादिषु चतुर्दशसु विद्यासु। ताश्च “विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति। षडङ्गमिश्रितावेदा धर्म्मशास्त्रं पुराणकम्। मीमांमातर्कमपि च एता विद्याश्चतुर्दश” नन्दि पु०। “पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।

चतुर्द्दशाङ्ग = न० चतुर्दश अङ्गान्यस्य। “चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः। किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिना वा त्रिवृता विमिश्रः” चक्रदत्तोक्ते पाचनभेदे।

चतुर्द्दिश = न० चतसृणां दिशानां समाहारः असंज्ञात्वात् द्विगुः। चतसृषु दिक्षु। दिक्शब्देन समासे चतुर्दिश् इत्येव। संज्ञात्वे तु कर्म्मधा०। प्राच्यादिषु चतसृषु दिक्षु ब० व०। “शिवाभिर्घोररावाभिश्चतुर्द्दिक्षु समन्विताम्” कालीध्यानम्।

चतुर्द्दोल = पुं न० (चण्डोल) इति (चन्दोल) इति ख्याते “राज्ञोयद् द्विपदं यानं विशेषाख्यमलं विदुः। चतुर्भिरुह्यते यत्तु चतुर्दोलं तदुच्यते” उक्ते चतुर्भिर्बाह्ये यानविशेषे। प्रसङ्गाच्चतुर्दोलाष्टदोललक्षणभेदादिकं भोजदेवोक्तं प्रदर्श्यअते। “चतुर्भिर्वाहकैर्दण्डैः षड्मिः कुम्भैः सुसंस्थितैः। स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनुत्तमम्। तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम्। चतुर्विधानां भ्रपानां चतुर्द्दोलाः प्रकाशिताः। त्रिहस्तुसम्मितायामो द्विहस्तपरिणाहवान्। हस्तद्वयोन्नतः प्रोक्तश्चतुर्द्दोलोजयाख्यया। चतुर्हस्तायतोयस्तु सार्द्धहस्त- स्तु विस्तृतौ। चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः। पञ्चहस्तायतोयस्तु त्रिहस्तपरिणाहवान्। तावदेवोन्नतोवीरश्चतुर्द्दोल उदाहृतः। आयामपरिणाहाभ्यां चतुर्हस्तमितोहि यः। चतुर्द्दोलोह्ययं सिंहस्तदर्धेनोन्नतः शुभः। सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापिनिश्छदिः। आद्यः समरवर्षासु परः केलिघनात्यये। सर्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः। चन्दनेनैव घटना सर्वेषामुपयुज्यते। लोमजं सर्ववस्त्रेषु कनकं सर्वधातुषु। कुम्भश्च पद्मकोषश्च सिरिश्चेति यथाक्रमम्। त्रैदेशानां महीन्द्राणां चतुर्दोलेषु विन्यसेत्। दर्पणं चार्द्धचन्द्रश्च हंसः केकी शुकीगजः। अश्वः सिंहश्च तस्याग्रे आदित्यादिदशोत्तरान्”। मणिनियमस्तु दण्डवत्। “रक्तः शुक्लश्च पीतश्च कृष्णश्चित्रस्तथाऽरुणः। नीलः कपिल इत्युक्तः पताकानान्तु सङ्ग्रहः। चतुर्दोलः सपताकः शुभयान मिति स्मृतः। मुक्तास्तवकैर्वशभिर्युक्तः स्वाद्राजकेशानाम्। चामरदर्ण्डर्दशभिर्दिग्जयिनां चतुर्दोलः। चाषपक्षस्य पुच्छश्चेत् सर्वोपरि परिन्यसेत्। यात्रासिद्धिरयं नाम्ना चतुर्दोलो महीभुजाम्। स्तम्भश्छदिरहितो निश्छदिरुक्तश्चतुर्दोलः”। मानं पूर्ववत्। “स पुनर्द्विविधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः। ध्वजान् षडत्र न्यस्यन्ति षड्वर्गविजयैषिणः। तेषां मानन्तु चत्वारः स्वाभिहस्तैकसम्मिताः। कोणेषु पश्चादग्रेषु हस्तद्वयमितौ ध्वजौ। सुवर्णं रजतं युग्मं त्रिविधानां महोभुजाम्। मणिचामरकुम्भानां खड्गादीनां विनिश्चयः। चतुर्दोलध्वजोराज्ञां विज्ञेयो नवदण्डवत्। निर्ध्वजे तु चतुर्दोले मानमन्यविधं शृणु। आया मपरिणाहाभ्यां चतुर्हस्तमितोहि यः। विजयोनाम विज्ञातश्चतुर्दोलोमहीभुजाम्। विजयो मङ्गलो भव्योवितस्त्येकैकवृद्धितः। त्रिविधानां महीन्द्राणां यानत्रयमुदाहृतम्। अष्टाभिरुह्यते यस्तु अष्टदोल मुशन्ति तम्। सोपानद्वितयञ्चात्र विज्ञेयं शिल्पि निर्मितम्”। भोजस्तु। “अष्टाभिर्वाहकैर्दण्डैः षडभिस्तु दशभिर्घटैः। स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं महीभुजाम्। तद्भेदाजयकल्याणवीरसिंहा यथाक्रमम्। चतुर्विधानां भूपानामष्टदोलाः प्रकीर्त्तिताः। षड्भिर्हस्तैर्मितायामः परिणाहे चतुर्भुजः। चतुर्हस्तोन्नतो राज्ञामष्टदोलं जयं विदुः। आयामपरिणाहाभ्यां पञ्चहस्तमितोहि यः। कल्याणाख्योऽष्टदोलोऽयं चतु र्हस्तमितोन्नतिः। सप्तहस्तायतः कार्योविस्तरे पञ्चहस्तकः। पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीमु जाम्। आयामपरिणाहाभ्यामष्टहस्तमितोहि यः। सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः। सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः। काष्ठवस्त्र घटादीनां मणीनां चामरस्य च। चतुर्दोलवदुन्ने योनियमोऽन्योऽपि सूरिभिः। पूर्ववन्निश्छदेर्मानं ध्वजमानमिहोच्यते। दशध्वजास्तेषु चाष्टौ स्वामिहस्त द्वयोन्नताः। पश्चादग्रे ध्वजौ राज्ञश्चतुर्हस्तमितौ मतौ। मणिचामरपक्षाणां निर्णयो निष्पताकवत्। निर्ध्वज श्चाष्टदोलोयः शिविकेति स गद्यते। मणिकुम्भमुखादीनां नियमो नवदण्डवत्”। “एवं द्वादश षोडशविंशति दोलादिकाः कार्य्याः। मान सार्द्धद्विंगुणितं सार्द्धत्रिगुणितं युक्तमेतेषाम्। विंशतिदोलात् परतो भोजमते सम्भवेद्यानम्”। यानं वह्वनुयोज्यं बहुगुणमेतज्जगाद वै व्यासः”। भविष्योत्तरेऽपि “यदुक्तं द्वैपदं यानं तेन मानेन योनृपः। स्वयानं कुरुते दिव्यं स चिरं सुखमश्नुते। स्वयोगयुक्तयानस्थो भोगमाप्नोति मानवः। परयौगिकयानस्थः क्लेशमाप्नोति पुष्कलम्। योदम्भादथवाऽज्ञानाद्यानं प्रकुरुतेऽन्यथा। तस्यैतानि विनश्यन्ति आयुर्विद्यायशोधनम्। प्रधानं यानमाश्रित्य नियमोऽयं समाश्रितः। नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता”।

चतुर्द्वार = न० चत्वारि द्वाराण्यस्य। १ चतुर्मुखे गृहभेदे। समाहारद्विगुः। २ चतुर्षु द्वारेषु न०। “मण्डपं कारयेत्तत्र चतुर्द्वारसमन्वितम्” हेमाद्रौ तुलादानप्रकरणे।

चतुर्द्धा = अव्य० चतुःप्रकारम् धाच्। चतुःप्रकारे। “ततश्च शेषं प्रविभज्य शीघ्रमर्द्धं चतुर्द्धा मम चात्मनश्च” भा० आ० १९२ अ०। “द्विधा विधाय चैकैकं चतुर्द्धा प्रथर्म पुनः। स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते” पञ्चदशी

चतुर्बाहु = पु० चत्वारोबाहवोऽस्य। १ विष्णौ “पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः” भाग० ८। १७। २। २ चतुर्भुजयुक्तमात्रे त्रि०। ३ चतुष्कोणे क्षेत्रे च न०।

चतुर्भद्र = न० चचुर्ण्णां धर्म्मार्थकाममोक्षाख्यानां भद्राणां श्रेयसां समाहारः। १ धर्म्मार्थकाममोक्षेषु अमरः। चत्वारि भद्राण्यस्य। २ तद्युक्तं त्रि०। “स चेन्ममार सञ्जय। चतुर्भद्रतरस्त्वया” भा० भा० द्रो० अभिमन्युब० प० षोडशराजिके बहुकृत्वः प्रयुक्तम्।

चतुर्भाव = पु० चतुर्ण्णां भावः उत्पत्त्यपादानम्। विष्णौ परमेश्वरे “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्” विष्णुस०। “धर्म्मार्थकाममोक्षाख्यंपुरुषार्थचतुष्टयं भवत्युत्पद्यतेऽस्मादिति चतुर्भावः” भा०।

चतुर्भुज = पु० चत्वारो भुजा यस्य। १ विष्णौ “चतुरात्मा चतुर्व्यूहश्चतुर्दष्ट्रोश्चतुर्भुजः” विष्णुस०। २ तदवतारे वासुदेवे नन्दनन्दने च “तेनैव रूपेण चतुर्भुजेन सहस्वबाहो। भव विश्वमूर्त्ते!” गोवा। “तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्” भाग० १०। ६। ९। श्लो० ३ चतुर्बाहुयुक्ते त्रि०। “मुक्तकेशीं चतुर्भुजाम्” श्यामाध्यानम्। “सवाल आसीद्वपुषा चतुर्भुजः” (शिशुपालः) माधः। ४ चतुष्कोणे क्षेत्रे न०। भुनक्ति भुज–क चतुर्ण्णीं धर्म्मार्थकामानां भुजः। ५ धर्म्मार्थकामगोक्षभाजने त्रि०।

चतुर्मुख = पु० चत्वारि मुखान्यस्य। १ चतुरानने वेधसि चतुराननशब्दे दृश्यम्। “चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगम्। चतुर्वर्ण्णमयोलोकस्त्वत्तः सर्व्वं चतुर्मुखात्” मनुः। २ चतुर्द्वारे गृहे न०। चतुर्ण्णां मुखानां समाहारः ङीप्। ३ चतुर्षु मुखेषु स्त्री। चतुर्मुखसमीरिताः” कुमा०। “चतुर्भिर्मुखैः समीरिताः वाक्ये उत्तरपदद्विगुः। समाहारे चतुर्मुखी स्यात्। ४ औषधभेदे पु० तल्लक्षणं वैद्यके यथा “रसगन्धकलौन्हाभ्रंसमं सूताङ्घ्रि हेम च। सर्वंखल्लतले क्षिप्त्वा कन्यारसविमर्द्दितम्। एरण्डपत्रै रावेष्ट्य धान्यराशौ दिनत्रयम्। संस्पाप्य तत उद्धृत्य सर्वरोगेषु योजयेत्। एतद्रसायनवरं त्रिफलामधुसंयुतम्। तद्यथाग्निबलं खादेत् वलीपलितनाशनम्। क्षयमेकादशविधं कासं पञ्चविधं तथा। कुष्ट मष्टादशविधं पाण्डुरोगान् प्रमेहकान्। शूलं श्वासञ्च हिक्काञ्च मन्दाग्निं चाम्लपित्तकम। व्रणान् सर्वानाम्रवातविसर्पं विद्रषिं तथा। अपस्मारग्रहोन्मादान् सर्पार्शांसि त्वगामयान्। क्रमेण सेवितं हन्ति वृक्षमिन्द्राशनिर्यथा। पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारणम्। चतुर्भुखेण देवेन कृष्णात्रयेण सूचितम”। चतुर्मुखप्रकाशितत्वाटस्य चतुर्मखत्वम्।

चतुर्मूर्त्ति = पु० चतस्रोमूर्त्तयोऽस्य। १ परमेश्वरे तस्य विराट्मूत्रात्माव्याकृततुरीयमूर्त्तिकत्वात् तथात्वम्। “चतुर्मूर्त्तिश्चतुर्वाहुश्चतुर्व्यूहश्चतुर्गतिः” विष्णुस०। चतस्रो मूर्त्तयः विराट्सूत्रात्माव्याकृततुरीयात्मानोऽस्य” शाङ्करभाष्यम्।

चतुर्युग = न० चतुर्णां युगानां समाहारः पात्रादि० न ङीप्स्त्रीत्वे। सत्यत्रेताद्वापरकलिरूपेषु चतुर्षु युगेषु “तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्। सूर्य्यावद्सङ्ख्यया द्वित्रिसागरैरयुताहतैः ४३२००००। सन्ध्यासन्ध्यांशसहितं बिज्ञेयं तच्चतुर्युगम्” सू० सि०।

चतुर्वक्त्र = पु० चत्वारि वक्त्राण्यस्य। चतुरानने चतुर्वदना दयोऽप्यत्र।

चतुर्वय = पु० चत्वारोवयाः शाखा अवयवा अस्य। चमसभेदे। “एकं वि चक्र चमसं चतुर्वयम्” ऋ० ४। ३६। ४। वयाः शाखाः चतुःशाखं चतुरवयवम्” भा०।

चतुर्वर्ग = पु० ६ त०। धर्म्मार्थकाममोक्षसमुदाये “चतुर्वर्ग फलं ज्ञानं कालावस्थाश्चतुर्युगम्” मनुः।

चतुर्वर्गचिन्तामणि = पु० हेमाद्रिकृते स्मृतिनिबन्धभेदे “यः पूर्वं चारुचिन्तामणिममितगुणं मन्दराद्रिः समुद्रम् निर्मथ्य प्रायशोऽयं वितरति बहुशः प्रार्थनादर्थमेब। सम्प्रत्यालोच्य सर्वस्मृतिनिगमपुराणेतिहासाम्बुराशीन् हेमाद्रिः स्पर्द्धयैव प्रकटयति चतुर्वर्गचिन्तामणिं सः। “खण्डानि चास्मिन् व्रतदानतीर्थमोक्षाभिधानि क्रमशो भवन्ति। यत्पञ्चमं तत्परिशेषखण्डमखण्डितो यत्र विभाति धर्म्मः” हेमाद्रि व्र० ख०। “चतुरेण चतुर्वर्गचिन्तामणिबणिज्यया। हेमाद्रिर्वोपदेवेन मुक्तांफलमचीकरत्” मुक्ताफलम्।

चतुर्वर्णः = पु० ब० व० चत्वारोवर्णाः संज्ञात्वात् न समा० द्वि० कर्म्म०। ब्राह्मणक्षत्रियवैश्यशूद्रेषु चतुर्षु वर्णेषु। “चतुर्वर्णमयोलोकस्त्वत्तः सर्वं चतुर्मुखात्” मनुः। स्वार्थे भावे वा ष्यञ् चातुवर्ण्य चतुर्षु वर्णेषु तद्भावे च न०। “चातुर्वर्ण्यं मया प्रोक्तं गुणकर्मविभागशः” गीता०

चतुर्वर्णादि = पु० स्वार्थे ष्यञ्प्रत्ययनिमित्ते का० वार्त्तिकाक्ते शब्दगणे। “चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्” का० वार्त्ति०। स च गणः “चतुर्वर्ण चतुराश्रम सर्वविद्य त्रिलोक त्रिस्वर षड्गुण सेना अनन्तर सन्निधि समीप उपमा सुख तदर्थ इतिह मणिक” चतुर्वर्णादिः।

चतुर्विंशति = स्त्री चतुर्भिरधिका विंशतिः। (चव्विश) १ चतुरधिकविंशतिसंख्यायां २ तत्संख्येये च। पूरणे डट्। चतुर्विंश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।

चतुर्विंशतिक = त्रि० चतुरधिका विंशति र्यत्र कप्। १ चतुर्विंशतिसंख्यायुक्ते। २ सांख्योक्ते प्राकृतिके गणे पु० “पञ्चभिः पञ्चभिः ब्रह्मश्चतुर्भिर्दशभिस्तथा। एतच्चतुर्विंशतिकं गणं प्रधानिकं विदुः। महाभूतानि पञ्चैवभूरापोऽग्निर्म्मरुन्नभः। तन्मात्राणि च तावन्ति ५ गन्धादीनि मतानि वै। इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः। वाक्करौ चरणौ मेट्रं पायु र्दशम उच्यते। मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्। चतुर्द्धा लक्ष्यते मनोवृत्त्या लक्षणरूपया” भाग०३। ३६। १४। तादृशगणश्च “प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात् गणश्च षोडशकः। तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि” सा० का० उक्तः।

चतुर्विंशतिमूर्त्ति = स्त्री कर्म्म०। विष्णोर्हस्तभेदेनचक्रादि विन्यासभेदेन चतुर्विंशतिसंख्यके मूर्त्तिभेदे तन्मूर्त्ति लक्षणं तद्भेदेन विष्णोर्नामभेदाश्च अग्निपु० उक्ताः यथा “ओंरूपः १ केशवः पद्मशङ्खचक्रगदाधरः। २ नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम्। ततो गदी ३ माधवोऽरिशङ्खपद्मी नमामि तम्। चक्रकौमोदकीपद्मशङ्खी ४ गोविन्द ऊर्जितः। मोक्षदः श्रीगदी पद्मी शङ्खी विष्णु ५ श्च चक्रधृक्। चक्रशङ्खाब्जगदिनं ६ मधुसूदनमानमे। भक्त्या त्रिविक्रमः ७ पद्मो गदी शङ्खी च चक्य्रपि। शङ्खचक्रगदापद्मी वामनः ८ पातु मां सदा। मुक्तिदः श्रीधरः ९ पद्मी चक्री गदी च शङ्ख्यपि। हृषीकेशो १० गदाचक्री पद्मी शङ्खी च पातु नः। वरदः पद्मनाभ ११ स्तु शङ्खाब्जारिगदा धरः। दामोदरः १२ पद्मशङ्खगदाचक्री नमामि तम्। रक्षेद्गदी शङ्खचक्री वासुदेवो १३ऽब्जभृज्जगत्। सङ्कर्षणो १४ गदी शङ्खी पद्मी चक्री च पातु नः। चक्री शङ्खगदी पातु प्रद्युम्नः १५ पद्मभृत् प्रभुः। अनिरुद्ध १६ श्चक्रगदी शङ्खी पद्मी च पातु नः। सुरेशोऽर्य्यब्जशङ्खाढ्यः श्रीगदी पुंरुषोत्तमः १७। अधोक्षजः १८ पद्मगदी चक्री शङ्खी च पातु नः। देवो नृसिंह १९ श्चक्राब्जगदाशङ्खी नमामि तम्। अच्युतः २० श्रीगदी पद्मी चक्री शङ्खी च पातु नः। बालरूपी शङ्खगदी उपेन्द्र २१ श्चक्रपद्म्यपि। जनार्द्दनः २२ पद्मचक्री शङ्खधारी गदाधरः। शङ्खी चक्री च पद्मी च हरिः २३ कौमोदकीधरः। कृष्णः २४ शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः। आदिमूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्षणोऽभवत्। सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः। केशवादि प्रभेदेन एकैकस्य त्रिधा क्रमात्। द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्त्तिमत्। यः पठेच्छृणुयाद्द्वापि निर्ललः सर्तमाप्नुयात्”। चतुर्विंशतिमूर्त्तीनां दक्षहस्तोर्द्ध्वादिष्वस्तन्यासभेदेन नामभेदविवृतिः। मूर्त्तिनाम दक्षोर्द्धे दक्षाधः वामोर्द्ध्वे वामाधः। १ केशवस्य १ पद्मम् १ शङ्खः १ चक्रम् १ गदा २ नारायणस्य १ शङ्खः १ पद्मम् १ गदा १ चक्रम् ३ माधवस्य १ गदा १ चक्रम् १ शङ्खः १ पद्मम् ४ गोविन्दस्य १ चक्रम् १ गदा १ पद्मम् १ शङ्खः ५ विष्णोः २ गदा २ पद्मम् २ शङ्खः २ चक्रम् ६ मधुसूदनस्य २ चक्रम् २ शङ्खः २ पद्मम् २ गदा ७ त्रिविक्रमस्य २ पद्मम् २ गदा ३ शङ्खः ३ चक्रम् ८ वामनस्य २ शङ्खः २ चक्रम् २ गदा पद्मम् ९ श्रीधरस्य ३ पद्मम् ३ चक्रम् ३ गदा २ शङ्खः १० हृषीकेशस्य ३ गदा ४ चक्रम् ३ प्रद्यम् ३ शङ्खः ११ पद्मनाभस्य ३ शङ्खः ३ पद्मम् २ चक्रम् ३ गदा १२ दामोदरस्य ४ पद्मम् ३ शङ्खः ४ गदा ४ चक्रम् १३ वासुदेवस्य ४ गदा ४ शङ्खः ३ चक्रम् ३ पद्मम् १४ सङ्कर्षणस्य ५ गदा ५ शङ्खः ४ पद्मम् ५ चक्रम् १५ प्रद्युम्रस्य ३ चक्रम् ६ शङ्खः ५ गदा ४ पद्मम् १६ अनिरुद्धस्य ४ चक्रम् ३ गदा ४ शङ्खः ५ पद्मम् १७ पुरुषोत्तमस्य ५ चक्रम् ४ पद्मम् ५ शङ्खः ४ गदा १८ अधोक्षजस्य ५ पद्मम् ४ गदा ४ चक्रम् ४ शङ्खः १९ नृसिंहस्य ६ चक्रम् ५ पद्मम् ६ गदा ५ शङ्खः २० अच्युतस्य ६ गदा ६ पद्मम् ५ चक्रम् ६ शङ्खः २१ उपेन्द्रस्य ४ शङ्खः ५ गदा ६ चक्रम् ६ पद्मम् २२ जनार्हनस्य ६ पद्मम् ५ चक्रम् ६ शङ्खः ५ गदा २३ हरेः ५ शङ्खः ६ चक्रम् ६ पद्मम् ६ गदा २४ कृष्णस्य ६ शङ्कः ६ गदा ६ पद्मम् ६ चक्रम् हेमाद्रिव्र० ख० मुद्रितपुस्तके ११४ पृ० चतुर्विंशतिमूर्त्तीनां ध्यानवाक्यत्वेन यन्मुद्रितं तत्र केशवमूर्त्तिं विहाय वयोर्विंशतिमूर्त्तीनां ध्यानानि सन्ति तत्र चरमे विष्णुर्बिभर्त्ति यः” इत्यत्र “कृष्णोबिभर्त्ति य” इत्येव भवितुमुचितम् विष्णोः पूर्व्वमुक्तत्वात् कृष्णस्यानुक्तत्वात्। तथा वासुदेवादीनां त्रयोविंशतिमूर्त्तीनामेव मूर्त्तिज्ञापकाः सार्द्धैकादशश्लोकाः सन्ति केशवमूर्त्तिज्ञापकमर्द्धपद्यं पतितम्। तच्च संस्कर्त्तुः प्रमादवशात् एवं मूर्त्तिभेदलक्षणैक्यमपि इति सुधीभिश्चित्यम्। चतुर्षु हस्तेषु चतुरस्त्रविन्यासभेदाच्चतुर्विंशतिसंख्यकाएव मूर्त्तिभेदा भवन्ति। “स्थानान्तमेकादिचथाङ्कघातः संख्याविभेदाः” लीला० उक्तदिशा १। २। ३। ४। २४ संख्या इति तद्वृत्तौ उक्तम्।

चतुर्विद्या = स्त्री चतस्रः विद्या संज्ञात्वात् कर्म्म०। १ ऋग्यजुः सामाथर्वाख्यासु विद्यासु। चतस्रोवेदरूपा विद्याअस्य। २ चतुर्वेदाभिज्ञे। ततः स्वार्थे चतुर्वर्णा० ष्यञ् अनुशतिका० उभयपदवृद्धिः। चातुर्वेद्य चतुर्वेदाभिज्ञे

चतुर्विध = त्रि० चतसो विधा अस्य। चतुःप्रकारे “एष वोऽभिहितो धर्म्मोब्राह्मणस्य चतुर्विधः”। “पारुष्यमनृत्तं चेव पैशुन्यञ्चापि सर्वशः। असम्बन्घप्रलापश्च बाड्मयं स्याच्चतुर्विधम्” इति च मनुः। चतुर्विधशरीराणि (जरायुजाण्डजस्वेदजोद्भिज्जाख्यानि) धृत्वा मुक्त्वा सहस्रशः। सुकृतान्मानवोभूत्वा ज्ञानी चेन्माक्षभाप्रुयात्” शब्दार्थचि० धृतवाक्यम्।

चतुर्वीज = न० समाहारद्विगुः। “मेथिकाचन्द्रशूरञ्च कणा जाजी यवानिका। एतच्चतुष्टय युक्तं चतुर्वीजमिति स्मृतम्” भावप्र० उक्ते वीजचतुष्टये। “तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयान्। अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम्” भावप्र० तद्गुणा उक्ताः।

चतुर्वेद = पु० चत्वारोवेदाः प्रतिपादका अस्य, चतुरो बेदान् वेत्ति अधीते वा विद–अण् उप० स० वा। १ परमेश्वरे “चतुर्वेदश्चतुर्होत्रश्चतुरात्मा सनातनः” हरिव० २३८ अ०। २ चतुर्वेदाभिज्ञे च। ततः स्वार्थे ष्यञ्। चतुर्वेदस्योभय पदवृद्धिः। चातुर्वैद्य तदर्थे पु०।

चतुर्वेदविद् = पु० चतुरो वेदान् वेत्ति विद–क्विप् ६ त०। १ विष्णौ “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद्” विष्णु स०। २ चतुर्वेदाभिज्ञमात्रे च।

चतुर्व्यूह = पु० चत्वारो व्यूहा अस्य। १ विष्णौ “चतुर्व्यूहश्चतुर्गतिः” विष्णुस०। “शरीरपुरुषः, छन्दः पुरुषोवेद पुरुषो महापुरुषः इयि वह्वृचोपनिषदुक्ताश्चत्वारोव्यूहा अस्येति चतुर्ष्यूहः” भा०। “चतुरात्मा चतुर्व्यूहः” विष्णुस०। “सृष्ट्यादिकार्य्यार्थं चत्वारोव्यूहा विभागा वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धसंज्ञा मूर्त्तयो यस्यसः” भाष्यम्। उभयविधव्युत्पत्तियोगात्तु द्विनामतया द्विधा प्रयोगः। तथा। “व्यूह्यात्मानञ्चतुर्द्धा वै वासुदेवादिमूर्त्तिभिः। तृष्ट्यादीन प्रकोरोव्येष विश्रुतात्मा जनार्द्दनः” इति विष्णुपुः। मार्कण्डेयपुराणे च “मूलकारणं वासु- देवाख्यं व्यूहमुक्त्रोक्तम् “द्विदीया पृथिवी मूर्द्ध्ना शेषाख्या धारयत्यधः। तामसी सा समाख्याता तिर्य्य क्त्वे समुपाश्रिता। तृतीया कर्म कुरुते प्रजापालन तत्परा। सत्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थान कारिणी। चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा। राजस्यास्तद्गुणः सर्गं सा करोति सदैव हि”। पाङ्ख्ये २ मोक्षशास्त्रे। तत्र हि हेयं हानं हेयहेतुः हानापायश्चेति चत्वारोव्यूहाः प्रतिपाद्याःसन्ति। तत्र त्रिविधै दुःखं हेयम्। तदत्यन्तनिवृत्तिर्हानम्। प्रकृतिपुरषसंयोगद्वारा चाविवेको हेयहेतुः। विवेकख्यातिस्तु हानोपाय इति। ३ चिकित्साशास्त्रे च न०। तत्र च रोग आरोग्यं रोगनिदानं भैषज्यमिति च त्वारोय्यूहा उक्ताः इति तस्य तथात्वम्।

चतुर्हायन(ण) = त्रि० चत्वारोहायना अस्य। चतुर्वर्षोद्भवे जन्तौ वयोवाचित्वे स्त्रियां ङीप् णत्वञ्च। वयोऽ न्यत्र न ङीप् णत्वं वा। चतुर्हायना शाला।

चतुर्होतृ = पु० कर्म्म०। चतुर्वेदोक्तहोमचतुष्टयकारिषु होतृषु “चतुर्होतार् आप्रियश्चातुर्मास्यानि नीविदः” अथ० ११। ७। १९। चतुर्होतॄणां कर्म्म अण्। चातुर्होत्र तत्कृतकर्म्मणि। “चतुर्भुजश्चतुर्मूर्त्तिश्चातुर्होत्रप्रवर्त्तकः” हारव० ३७९ अ०।

चतुर्होत्र = पु० चत्वारि होत्राणि होमा प्रीत्यर्था अस्य। १ विष्णौ परमेश्वरे। चतुर्वेदश्चतुर्होत्रश्चतुरात्मा सनातना हरिवं० २३८ अ०।

चतुर्होत्रक = न० चत्वारि होत्राणि यत्र कर्म्मणि कप्। चतुर्होत्रविधायके चतुर्वेदे “त्रय्या चतुर्होत्रकबिद्यया च” भाग० ७। ३। २८।

***