चण्डि = स्त्री चडि–कोपे इन्। दुर्गायां भरतः
चण्डिकघण्टा = पु० चण्डस्तीक्ष्णस्वनोऽस्त्यस्याः ठन् चण्डिका तीक्ष्णस्वना घण्टा यस्य। शिवे। “नमश्चण्डिकवण्टाय घण्टाय घण्टघण्टिने” मा० शा० २८६ अ० शिवस्तुतौ
चण्डिका = स्त्री चण्डी स्वार्थे क चडि कोपे ण्वुल् वा। दुर्गायाम् अमरः।
चण्डिल = पु० चडि–कोपे इलच् चण्ड + अस्त्यर्थे इलच् वा। १ नापिते २ वास्तुकशाके हेम० नापितस्य तीक्ष्णास्त्रवत्त्वात् वास्तुकस्य तीक्ष्णवीर्य्यवत्त्वाच्च तथात्वम्। ३ नदीभेदे स्त्री उणादिको०
चण्डी = स्त्री चण्ड–बह्वा० वा ङीष्। १ दुर्गायां सप्तशती व्याख्यायां गुप्तवत्यां तु तन्नामनिरुक्त्यदिमुक्तं यथा “प्रसादो निष्फलो यस्य कोपोऽपि च निरर्थकः। न तं भर्त्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः” इत्यादिना महाभयजनकत्वेनैव कोपस्य साफल्योक्तेस्तादृश एव कोपे चडिधातोर्मुख्यवृत्त्या प्रवृत्तेस्तद्वशादेव “नमस्ते रुद्र मन्यव” इत्यादिना प्रथमं मन्यव एव नमस्कार दर्शनात् “भीषास्माद्वातः पवते भीषोदेति सूर्य्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः” इत्यादिश्रुत्या वाय्वादि भयजनककोपस्यापि परब्रह्मलिङ्गत्वमक्षतमेव अतएव “महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदेन ब्रह्मैवोच्यते नायुध विशेषो भयजनकत्वलिङ्गादित्युक्तमुत्तरमीमांसायाम्। “कम्पनादित्यधिकरण। तस्माच्छब्दात्पुंयोगलक्षणे ङीषि चण्डीति पदनिष्पत्तिः। तत्स्वरूपं चोक्तं रत्नत्रयपरीक्षायाम् दीक्षितैः “नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्य मेकं धर्मोधर्मीति भेदद्वितयमिति पृथग्भूय मायावशेन। धर्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्य्यानु कूला शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव। कर्त्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादि कृत्ये धर्मः पुंरूपमाप्त्वा सकलजगदुपादानभावं बिभर्त्ति। स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादि कर्त्तु प्रोक्तौ धर्मप्रभेदावपि निगमविदां धर्मिवत् ब्रह्मकोटी इति।।” वृहद्वासिष्ठे उत्पत्तिप्रकरणे द्वादशे स्वर्गे सृष्ट्यारम्भकालिकं ब्रक्षसत्तामात्रं प्रक्रम्य “तदात्मनि स्वयं किञ्चिच्चेंत्यतामिव गच्छति। अगृहीतात्मकं संविदहंमर्शनपूर्वकम्। भाविनामार्थकलनैः किञ्चिदूहितरूपकम्। आकाशादणु शुद्धं च सर्वस्मिन् भाति बोधनम्। ततः सा परमा सत्ता सचेतश्चेतनोन्मुखी। चिन्नामयोग्या भवति किञ्चिल्लभ्यतया तदा। घनसंवेदना पश्चाद्भाविजीवादिनामिका। सम्भवत्यात्तकलना यदोज्झति परं पदमित्यादि”। तट्टीकायामपि सन्मात्रस्य ब्रह्मणः “स ईक्षत लोकान्नुसृजै” इति श्रुतिसिद्धमीक्षणभावं दर्शयति तदिति त्रिभिः। अगृहीतात्मकम् अहङ्काराध्यासरहितम्। अतएव संविन्मात्रेणाहन्ताविमर्शः। सर्वस्मिन्नपि सृज्यविषये भाविनामरूपानुसन्धानांशेऽपि किञ्चिदेव संपृक्तमिव। अतएवाकाशादप्यण्वेव न तु घनम्। अतएव च शुद्धमेव घनमालिन्याभावाद्ब्रह्मैव। चेत्यतां गच्छन्तीव सती सचेतश्चेतना ईक्षणवृत्त्यभिव्यक्तचैतन्यं तदुन्मुखी तत्प्रधाना सती किञ्चिल्लभ्यतया याक्प्रवृत्ति विषय धर्म्म लाभेन तदा चिन्नामयोग्या भवतीत्यर्थः। पश्चात्तु सैव वृत्तिश्चिरावृत्त्या घनीभूता सम्यगेवात्तकलना मूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदग्राहिणी सती परं पदमपरिच्छिन्नभूमानन्दात्मभावं यदा विस्मरति तदाहिरण्यमर्भाख्यसमष्टिजीवादिनामिका भवतीत्याह। धनेति। ईदृशेक्षणाद्यात्मिका चण्डी चिदादि नामकसमष्टिवृत्तिरूपधर्म्मात्मकशुद्धब्रह्माभिन्नानां ज्ञानेच्छाक्रियाणां तिसृणां व्यष्टीनां महासरस्वतीमहाकालीमहालक्ष्मीरितिप्रवृत्तिनिमित्तवैलक्षण्येन नामरूपान्तराणि तादृशनामरूपविशिष्टदेवतात्रयसमष्टित्वं प्रवृत्तिनिमित्तीकृत्य धर्म्मे चण्डिकेति व्यवहारः। एवं व्यष्टीनां वामाज्येष्ठारौद्रीति पश्यन्तीमध्य मम् यैखरीति ब्रह्मा विष्णुः रुद्र इति रूपभेदेन समष्टे- रपि अम्बिका शान्ता परेत्यादि संज्ञा अनन्ताः तन्त्रान्तरादवगन्तव्याः द्वितीयसमष्टित्वादेवैषा तुरीयेति शक्ति निर्दिश्यते आचार्य्यभगबत्पादैरप्युक्तं “गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम्। तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये! विश्वम्भ्रमयसि परब्रह्ममहिषीति”। २ हिंस्रायां ३ कोपनायाञ्च मेदिनी। “मल्लिकामुकुले चण्डि!” सा० द० “नयुगसयुगगुरुभिः किल चण्डी” वृत्त० र० उक्ते ४ छन्दोभेदे उपचारात् दुर्गामाहात्म्यावेदके मार्कण्डेयपुराणान्तर्गते सप्तशतीमालामन्त्रात्मके ५ स्तवभेदे। तत्पाठप्रकारादि यथा वाराहीत० “अर्गलं कीलकञ्चादौ पठित्वा कवचं पठेत्। जपेत् सप्तशतीं पश्चात् क्रम एष शिवोदितः। अर्गलं दुरितं हन्ति कीलकं फलदं तथा। कवचं रक्षयेन्नित्यं चण्डिका त्रितयं तथा” तिथित० मत्स्यसू०। “जप्त्वा च प्रणवं चादौ स्तोत्रं वा संहितां पठेत्। अन्ते च प्रणवं दद्यादित्यु वाचादिपूरुषः। सर्वत्र पाठे विज्ञेयो ह्यन्यथा विफलं भवेत्। शुद्धेनाऽनन्यचित्तेन पठितव्यं प्रयत्नतः। न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम्। आधारे स्थापयित्वा तु पुस्तकं वाचयेत् सुधीः। हस्तसंस्थापनादेव यस्मादल्पफलं लभेत्। स्वयञ्च लिखितं यत्तु कृतिना लिखितं न यत्। अब्राह्मणेन लिखितं तच्चापि विफलं भवेत्। ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः। स्तीत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत्। सङ्कल्पिते स्तोत्रपाटे संख्यां कृत्वा पठेत् सुधीः। अध्यायं प्राप्य विरमेन्नतु मध्ये कदाचन। कृते विरामे मध्ये तु अध्यायादिं पठेन्नरः” तत्रैव भविष्यपु०। “ब्राह्मणं वाचकं विद्यान्नान्य वर्णजमादरात्। श्रुत्वान्यवर्णजाद्राजन्!” वाचकान्नरकं व्रजेत्। देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः। ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन!। पुनर्बध्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित्। विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदन्तथा। कलस्वरसमायुक्तं रसभावसमन्वितम्। बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप!। ब्रह्मणादिषु सर्वेषु ग्रन्थार्थञ्चार्पयन्निव। य एबं वाचयेद्व्रह्मन्! स विप्रो व्यास उच्यते। सप्तस्वरसमायुक्त काले काले विशाम्पते!। प्रदर्शयन् रसान् सर्वात् वाचयेद्वाचको नृप!”। तस्य फलं यथा “चण्डीपाष्ट फलं देवि! शृणुष्व गदतो मम। एकावृत्तादिपाठानां यथावत् कथयामि त। संकल्पपूर्वं संपूज्य न्यस्याङ्गेषु मनून् सकृत्। पाठाद्बलिप्रदानाद्धि सिद्धिमाप्तोति मानवः। उपसर्गस्य शान्त्यर्थं त्रिरावृत्तं पठेन्नरः। ग्रहोपशान्त्यै कर्त्तव्यं पञ्चावृत्तं वरानने!। महाभये समुत्पन्ने सप्तावृत्तं समुन्नयेत्। नवावृत्त्या भवेच्छान्तिर्वाजपेयफलं लभेत्। राजवश्याय भूत्यै च रुद्रावृत्तमुदीरयेत्। अर्कावृत्त्या काम्यसिद्धिर्वैरहानिश्च जायते। मन्वावृत्त्या रिपुर्वश्यस्तथा स्त्री वश्यतामियात्। सौख्यं पञ्चदशादृत्त्या श्रियमाप्नोति मानवः। कलावृत्त्या पुत्रपौत्रधनधान्यागमं विदुः। राज्ञां भीतिविमोक्षाय वैरस्योच्चाटनाय च। कुर्य्यात् सप्तदशावृत्तं तथाष्टादशकं प्रिये!। महाव्रणविमोक्षाय त्रिंशावृत्तं पठेत् सुधीः। पञ्चविंशावर्त्तनात्तु भवेद्बन्धविमोक्षणम्। सङ्कटे समनुप्राप्ते दुश्चिकित्स्यामये तथा। जातिध्वंसे कुलोच्छेदे आयुषो नाश आगते। वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये। तथैव त्रिविधोत्पाते तथा चैवातिपातके। कुर्य्याद् यत्नात् शतावृत्तं ततः सम्पदाते शुभम्। श्रियोवृद्धिः शतावृत्ताद्राज्यवृद्धिस्तथापरे। मनसा चिन्तितं देवि! सिध्येदष्टोत्तराच्छतात्। शताश्वमेधयज्ञानां फलमाप्तोति सुव्रते!। सहस्रावर्त्तनात् लक्ष्मीरावृणोति स्वयं स्थिरा। भुक्त्वा मनोरथान् कामान् नरोमोक्षमवाप्नुयात्। यथाश्वमेधः क्रतुराट् देवानाञ्च यथा हरिः। स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः। अथ वा वहुनोक्तेन किमेतेन वरानने!। चण्ड्याः शतावृत्तपाठात् सर्वाः सिद्ध्यन्ति सिद्धयः” तिथित० मत्स्यसूक्तादि “सकामैः संपुटो जाप्यो निष्कामैः संपुटं विना। शतमादौ शतञ्चान्ते संपुटोऽयमुदाहृतः” इत्याद्युक्तेः कामना भेदेन नबार्ण्ण (ऐ~ ह्री~ क्ली~ चामुण्डायै विच्चे) मन्त्रादिभिरस्या संपुटता, अनया वा नवार्ण्णस्य संपुटता कार्य्येति मतद्वयं तत्र गुप्तवत्यां सप्तशतीस्तोत्रेण नवार्ण्णस्य संपुटतोक्ता यथाह डामरतन्त्रे “मार्कण्डेय पुराणोक्तं नित्यं चण्डीस्तवं पठन्। पुटितं मूलमन्त्रस्य जपेनाप्नोतिवाञ्छितमिति”। पुटितमिति पाठक्रियाविशेषणम्। पुटितत्वं संपुटाकारता। तथा च स्तवोयथा मूलमन्त्रजपस्य संपुटाकारोभवति तथा पठनान्मूलजपस्य यद्वाञ्छितम्फलन्तत्सिध्यतीत्यर्थः। ततस्तवीयर्प्यादिन्यासपूर्बकञ्चरित्रत्रयम्पठित्वा मध्ये स्वसङ्कल्पितसंख्यानुसारेण सहस्रादिसंख्याकं नवार्णञ्जपित्वा पुनश्चण्डीस्तवं पूर्षवत्पठेत्। परंत्वेतदन्ते पुनर्मूलमष्टोत्तरशतमात्रं जप्त्वाऽऽत्मनिवेदनादिकं कुर्यात्। अयं च जपोऽङ्गभूतोन प्रधानसंख्यायाभुपयुज्यते इति विशेषः। तदप्युक्तं तत्रैव चरित्रत्रयस्य ऋष्यादीनुक्त्वा “एवं संस्मृत्य ऋष्यादीन्ध्यात्वा पूर्वोक्तमार्गतः। सार्थस्मृतिः पठेच्चण्डीस्तवं स्पष्टपदाक्षरम्। समाप्तौ तु महालक्ष्मीं ध्यात्वा कृत्वा षडङ्गकम्। जपेदष्टशतं मूलं देवतायै निवेदयेदित्यादि”। केचित्तु मूल मन्त्रजपेन पुटितं चण्डीस्तवं पठन्निति प्रथम श्लोकं योज यन्तश्चरमश्लोके पुनर्विधानं संख्यामात्रपरमिति मन्यमानाः सप्तशतीस्तोत्रस्यैव मूलेन संपुटीकारोविधीयतैत्यङ्गाङ्गीभाववैपरीत्यमिच्छन्ति। तदयुक्तं “बहुषु तन्त्रेषु नवार्ण्णं प्रकृत्य तत्प्रकरणे सप्तशतीपाठविधानेन नवार्ण्णजपस्य प्राकरणिकत्वेनान्याङ्गत्वायोगात्। तत्रविद्यमानाया अपि स्तोत्रे फलश्रुतेः प्रयाजफलश्रुतेः “वसन्तमेवर्त्तूनामवरुन्धे” इत्यस्याइवाविवक्षितार्थकत्वात्। मरीचिकल्पे “रात्रिसूक्तं जपेदादौ मध्ये चण्डीस्तवम्पठेत्। प्रान्ते तु जपनीयं वै देवीसूक्तमिति क्रमः। एवं संपुटितं स्तोत्रं पूर्वोक्तफलदायकम्” इत्यनेन वैदिकमूक्तद्वयेन संपुटिततायाः सप्तशत्यां विधानाच्च। सच स्तवः मार्कण्डेयपुराणस्थत्रिसप्तत्यध्यायोत्तरं षडशीतितमाध्यायान्तमभिव्याप्तः। “सावर्णिः सूर्यतनयः” इत्यारभ्य साबर्णिर्भविता मनुरित्यन्तस्त्रयोदशभिरध्यायैः परिच्छिन्नः श्लोकसमूहात्मको मालामन्त्रत्वेन प्रसिद्धः। अस्य सप्तशतीत्वव्यवहारस्तु न श्लोकसंख्यया तेषां षट्शतीतोऽपि न्यूनत्वात्। नापि कवचादित्रयरहस्यत्रययोर्मेलनेन, संख्याधिक्यापत्तेः। “जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरः” इत्यनेन कवचख सप्तशत्याः पृथङ्निर्द्देशाच्च। तस्माप्जपे एकमन्त्रात्मकस्यापि मालामन्त्रस्य होमाङ्गत्वेन संपुटार्थत्वेन च सप्तशतधा विभजनात् शतरुद्रियस्येवैकातेकमन्त्रात्मकत्वे विरोधाभावात्तथा व्यवहारोपपत्तिः। एतस्योत्तमत्वन्तु तन्त्रान्तरे “यथाश्वमेधः क्रतुषु देवानाञ्च यथा हरिः। स्तवानामपि सर्वेषान्तथा सप्तशतीस्तवः”। तत्रापि कलावतिप्रशस्तः “कलौ चण्डीविनायकाविति” वचनात्। वाराहीतन्त्रे सर्वेषां स्तोत्राणां परशुरामशापमुक्त्वा तद्विरहितानि कतिचिद्वर्णितानि “भीष्मपर्वणि या गीता सा प्रशस्ता कलौ युगे। विष्णोर्नाम सहस्राख्यं महाभारतमध्यगम्। चण्ड्याः सप्तशतीस्तोत्रंतथा नामसहस्रकम्” इत्यादिना “भार्गवाख्योन रामेण शप्तान्यन्यानि कारणात्” इत्यन्तेन। यद्यपि तन्त्रान्तरेऽस्यापिं स्तोत्रस्य शिवशापः कीलनं चेति सिद्भिनिरोधकावुक्तौ तथापि तत्रैव शापोद्धारोत्कीलनयोः कर्मविशेषयोस्तदङ्गत्वेन सकृत्करणविधानात्तदकरणे सिद्धिविरहोक्त्या तदावश्यकत्वपरौ तावर्थवादौ। तत्र शापोद्धारोयथा त्रयोदशप्रथमौ, द्वादशद्वितीयौ, एकादशवृतीयौ, दशमचतुर्थौ, नवमपञ्चमौ, अष्टमषष्ठौ, अध्यायौ पठित्वा सप्तममध्यायं द्विः पठेदित्याकारकः प्रयोगः। उत्कीलनं यथा। आदौ मध्यमचरित्रं पठित्वा ततः प्रथमचरित्रन्ततस्तृतीयचरित्रंपठेदित्याकारकः। “अन्त्याद्यार्कद्विरुद्रत्रिदिगब्ध्यङ्केप्विभर्तवः। अश्वोऽश्व इति सर्गाणां शापोद्ध्वारे मनोः क्रमः। उत्कीलने चरित्राणां मध्याद्यान्त्यमिति क्रमः”। अङ्कोनवमः इषुः पञ्चमः इभोऽष्टमः। “ददाति प्रतिगृह्णाति नान्यथैषा प्रसिद्ध्यति” इति विहितं दानप्रतिग्रहनामकमहोत्की लनं तु कीलकाध्यायव्याख्यावसरे विशदीकरिष्यते। एवं सम्प्रदायज्ञस्य निर्दोषमुत्तमङ्कलौ शीघ्रसिद्धिदमिद मिति सिद्धम्। एतद्वाचनक्रमो वाराहोतन्त्रे “यावन्न पूर्यतेऽध्या स्तावन्न विरमेत्पठन्। यदि प्रमादादध्याये विरामोभवति प्रिये!। पुनरध्यायमारभ्यपठेत्सर्वं मुहुर्मुहुः। अनुक्रमात्पठेदेव शिरःकम्पादिकं त्यजेत्। न मानसं पठेत्स्तोत्रं वाचिकन्तु प्रशस्यते। कण्ठतः पाठाभावे तु पुस्तकोपरि वाचयेत्”। तल्लेखनेऽपि तत्र विशेषः “न खयं लिखितं स्तोत्रं नाब्राह्मण लिपिम्पठेत्। न च स्वयंकृतं स्तोत्रं तथान्येन च यत्कृतम्। यतः कलौ प्रशंसन्ति ऋषिभिर्भाषितंतु यत्”। यत्तु “आधारे स्थापयित्वा तु पुस्तकं वाचयेत्ततः। हस्त संस्थापनादेव भवेदर्द्धफलं ध्रुवमिति”। तस्य व्यवस्थापि तत्रैव “पुस्तके वाचनं हस्ते सहस्रादधिकं यदि। ततोन्यूनस्य तु भवेद्वाचनं पुस्तकं विना”। सहस्रान्त्यून मन्त्रस्य कण्ठे पाठसत्त्वे पुस्तकं विनैव वाचनं, तदभावे आधारे पुस्तकस्थापतेनैव वाचनं सहस्राधिकस्य तु पाठसत्त्वऽप्याधारस्थापितपुस्तकोपर्येव वाचनमिति वचनार्थः। प्रकृतस्तोत्रस्य सहस्रान्न्यूनत्वात् “ततः कृताञ्जसिपुटः स्तुवीत चरितैरिमैरिति” वैकृतिकरहस्ये विधाद्धाच्च कण्ठपाठाभावे पुस्तकस्याधारे स्थापनेवैव वाचनम्ं। कण्ठपाठीकृत्य पुस्तकं विनैव तु कृताञ्जलितया पठनमुत्तम मिति द्रष्टव्यम्। अत्रंसहस्रशब्देन द्वात्रिंशत्स्वरात्मकस्यैकैकानुष्टुप्त्वकल्पनेन तादृशानुष्टुप्छन्दः सहस्रं ज्ञेयमिति स्पष्टम् शक्तिसङ्गमतन्त्रराजे “द्वात्रिशता स्वरैर्युक्त एकोग्रन्थो निगद्यते। सएव गदितः श्लोक स्तारानेत्रसमुद्भवः” इत्यादिना। तेन गद्यात्मकमालामन्त्रेष्वप्यस्य नियमस्य प्रसरो ज्ञेयः। स्तोत्रपूर्ब्बोत्तरभागपाठाभावे नैष्फल्यादिवचनानि शक्तिसङ्गमएव द्रष्टव्यानि। “ऋषिच्छन्दोदेवतादि पठेत् स्तोत्रे समाहितः। यत्र स्तोत्रे न दृश्येत प्रणवन्यासमाचरेत्”। डामरे “सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः। छन्दो गायत्रमुदितं महाकाली तु देवता। वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम्। मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः। उष्णिक्छन्दो महालक्ष्मीर्देवता बीजमद्रिजा। वायुस्तत्त्वं भवेत्तत्र मोक्षार्थे विनियोजनम्। उत्तरस्य चरित्रस्य ऋषिः शङ्कर ईरितः। त्रिष्टुप् छन्दो देवतास्य महापूर्वा सरस्वती। कामोवीजं रविस्तत्त्वं कामार्थे विनियोजनम्। ह्रीं चण्डिकायै व्यस्तेन समस्तेन षडङ्गकौ। वागै~अद्रिजा ह्री~ कामः क्ली~ इति नवार्णप्रथम वीजत्रयम् ध्यानादिकं नवार्णवत्। अस्य पुरश्चरणस्वरूपं मरीचिकल्पे “कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशीम्। वृद्ध्यैकोत्तरमाजाप्यं पूर्वसंपुटितन्तु तत्। एवं देवि! मया प्रोक्तः पौरश्चरणिकः क्रमः। तदन्ते हवनं कुर्य्यात्प्रतिश्लोकेन पायसम्। रात्रिसूक्तं प्रतिऋचं तथा देव्याश्च सूक्तकम्। हुत्वान्ते प्रजपेत्स्तोत्र मादौ पूजादिकं मुने!” इति। पूर्वाभ्यां पूर्व्वोक्ताभ्यां रात्रिसूक्तदेवीसूक्ताभ्यां संपुटितम्। प्रतिल्लोकेनेति मन्त्रविभागोपलक्षणम् कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादिविधिं प्रति वाक्यशेषत्वेन तेनैव वेद्यपदार्थनिर्णयावश्यम्भावात् “यन्न दुःखेनेत्यादेः स्थलान्तरस्थस्याप्यग्निहोत्रादिविधिशेषत्वेन स्वीकारेण स्वर्गपदार्थनिर्णयस्य वैदिकसंमतत्वात्। होम संख्या तु स्तोत्रस्य त्रिरावृत्तिरूपेति वृद्धाः। रात्रि सूक्तदेवीसूक्ते च ऋग्वेदशाकलसंहितायां प्रसिद्धे तथेत्यनेन जपे कॢप्तक्रमः संपुटाकारो निर्दिश्यते। तच्छब्दस्य पूर्व्वपरामर्शितत्वात्। तस्य श्लोकपूरणमात्रार्थत्वे तु द्वाभ्यामपि सूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तरमेव पाठक्रमानुसारेण होमः। “विश्वेश्वरीं जगद्धात्रीम्” इति स्तवोरात्रिसूक्तम्। “नमो देव्यै महादेव्यै” इति स्तवो देवीसूक्तमिति कश्चित्। तन्न। प्रतिश्लोकेन प्रतिऋधमिति प्रतिनियतनिर्देशविरोधात्। ऋक्सूक्तादिशब्दानां वैदिकमन्त्रेष्वेव रूढ्या प्रसिद्धेः। मत्स्यसूक्तमित्यादिक्वाचित्कतान्त्रिकव्यवहारस्य केवल यौगिकत्वेनोपपत्तेः। तेन ऋक्पदस्य श्लोके लक्षणेत्युक्तिरपि साहसमात्रम्। समुद्रमनोध्यानादिविधौ वृहद्रथन्तरपदयोः प्रतिनियतनिर्देशबलादेव लक्षणाव्यवस्थाया इव प्रकृते क्लप्ताया एव शक्तर्व्यवस्थादार्ढ्यस्य कैमुतिकन्यायेनैव सिद्धेः। यदि त्वेवमालोच्यते “विश्वेश्वर्य्यादिकं सूक्तं दृष्टं यद्ब्रह्मणा पुरा। स्तुतये योगनिद्राया मम देव्याः पुरन्दर!। महिषान्तकरी सूक्तं सर्वसिद्धिप्रदन्तथा। देव्या ययादिकं दिव्यं दृष्टं देवैः महर्षिभिः। देवि! प्रपन्नार्त्तिहरे प्रसीदेत्यादिकं तथा। नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्। अमुष्यास्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः। नमो देव्यादिकं सूक्तं सर्वकामफलप्रदमिति” विशकलितवेषेण पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणामपौरुषेयसिद्धान्तत्वाच्च सूक्तर्चव्यवहारो युज्यत एवेति, तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लोकात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य च योगनिद्रात्मकरात्रिदेवतात्वान्मरीचितन्त्रे रात्रिसूक्तपदेन निर्देश इति समाधेयम्। परन्तु तत्तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकाङ्गहोमदशायां न होतव्यम्। स्तोत्रान्तिम श्लोकस्य द्वधा विभागोऽपि न कार्य्यः। देवीसूक्तेऽपि त्रेधा विभागोऽङ्गहोमे न विधेयः प्रधानविघिशेषस्याङ्गविधावन्वयेन प्रतिऋचमिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम्। क्रीडतन्त्रे “प्रत्येकावर्त्तनं देवि! त्वश्वमेधेन संमितम्। त्रिरावृत्त्या लभेत्कामान् पञ्चावृत्त्या रिपून् जयेत्”। काम्ये तु प्रयोगे विशेषः। कात्यायनी तन्त्रे “एकाश्चत्तादिपाठानां प्रत्यहं पठतां नृणाम्। सङ्कल्पपूर्व्वं संपूज्य न्यस्याङ्गेषु मनून् सकृत्। पश्चाद्बलिप्रदानेन फलं प्राप्तोति मानवः”। बलिश्च ब्राह्मणादिभेदेन व्यवस्थयोक्तः कालिकापुराणे विशेषः द्रष्टव्यः। तत्राशक्तानामपि तत्रैव “कुष्माण्डमिक्षुदण्डश्च मद्यसासव मेव च। एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा”। छागसमाः पञ्चविंशतिवर्षावधितृप्तिजनकाः “अजा- विकानां रुधिरैः पञ्चविंशतिवार्षिकीम्। तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथेति” तत्रैवोक्तेः। वस्तुतस्तु “न हिंस्या दिति” निषेघस्य संकोचमन्तरेणैव छागसमानतृप्तिसम्भवे छागबलिर्ब्राह्मणैर्न कार्यएव। एवं मद्यासवे अपि न देये। “वरं प्राणाः प्रगच्छन्तु ब्राह्मणो नार्पयेत्सुरामिति” “ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेवहीयते” इति च वृहत्सङ्गमतन्त्ववचनात्। अतएव तत्प्रतिनिधिरपि कालिकापुराणे स्मर्यते “अवश्यं विहितं यत्रं मद्यं तत्र द्विजः पुनः। नारिकेल जलङ्कांस्ये, ताम्रे चैवोत्सृजेन्मधु”। कात्यायनी तन्त्रे “उपसर्गोपशान्त्यर्थं त्रिरावृत्तिं पठेन्नरः। ग्रहदोषोपशान्त्यर्थं पञ्चावृत्तं वारनने!। महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत्” इत्यादिना फलभेदेन संख्याभेदाननेकानुक्त्वोपसंहृतम् “अथ वा बहुनोक्तेन किमन्येन वरानने!। चण्ड्याः शतावृत्तपाठात्सर्वाः सिध्यन्ति सिद्धयः” इति। इतोऽप्यधिकाः सहस्रसख्यादयोऽत्र द्रष्टव्याः। हरगौरीतन्त्रे “श्रीकामः पुत्रका मोवा सृष्टिमार्गक्रमेण तु। जपेच्छक्रादिमारभ्य शुम्भदैत्यबधावधि। आदिमारभ्य प्रजपेत्पश्चाच्छेषं समापयेत्। शान्त्यादिकामः सर्वत्र स्थितिमार्गक्रमेण तु। सावर्णिः सूर्यतनयः सावर्णिर्भविता मनुः। सङ्कटे चान्त्यमारभ्य पश्चादादि समापयेत्”। इत्यादिकस्य कामनाभेदेन पाठवैचित्र्यस्य कतिपयश्लोकमात्रपाठेन तत्तत्प्रयोगवैचित्र्यस्य च विस्तरो डामरादितन्त्रस्थोग्रन्थान्तरेभ्य एवावगन्तव्यः। केरलास्तु एकैकस्मिन्दिवसे एकैकमेव चरित्नं पठेदिति दिनत्रयेणैकावृत्तिरित्येकः पक्षः। “चन्द्राक्षिभूवेदकरेन्दुदस्रसङ्ख्याकानध्यायान् क्रमेण दिनभेदेन पठेदिति सप्तभिर्दिनैरेका वृत्तिरित्यन्यः पक्षः इत्याहुः। अत्र द्वितीयमेव पक्ष पाटोऽयंद्विप्रकारः। इति सप्ताक्षर्यां संगृह्णन्त बहवस्तदनुयायिनोऽनुतिष्ठन्ति कचटतपयशवर्गवैरिहभपिण्डान्त्येरक्ष रैरङ्गाः नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिते” इति प्रसिद्धपरिभाषया पकारयकारककारा एकस्मिन् ठप्ररेफा द्वयो र्द्विशब्दश्चतुर्षु संकेतित इति। तत्रमूलतन्त्राणि त एव जानन्ति। सन्त्यऽपि तानि तन्त्रवचनानि एकदिनेनैकावृत्त्यशक्तपराणि। अस्ति हि तादृशोऽप्यस्य प्रयोगः कात्यायनीतन्त्रे मन्त्रविभजनान्ते” होमे स्वाहान्तिमा एते पूजायां तु नमोऽन्तिमाः। तर्पणे तर्पया- म्यन्ता ऊहनीयाबुधैर्मताः” इति वचनात् सप्तशतब्राह्मणभोजने प्रतिव्यक्त्येकैकमन्त्रेण काण्डानुसमयेन षोडशोपचाराणां पदार्थनुसमयेन वा पञ्चोपचाराणां वा कर्त्तुमशक्यतया स्वेच्छयाऽध्यायभेदेन वाऽनेक दिनसाध्यैकप्रयोगप्रसक्तौ उक्तवचनैर्विभजननियमोविधीयत इति। अत्र स्वयं पठितुमसमर्थस्य वा प्रभोर्वा ब्राह्मणद्वाराऽपि प्रयोग इष्टः। तत्पक्षे दक्षिणा नियमस्तन्त्रेषु “पञ्चस्वर्णा शतावृत्तेः पक्षावृत्तेस्तु तत्त्रयम्। पञ्चावृत्तेः स्वर्णमेकं त्रिरावृत्तेस्तदर्धकम्। एवावृत्तौ पादमेकं दद्याद्वा शक्तितो बुधः” इति गुप्तवती। पाठे इतिबधशब्दौ न पाट्यौ अध्यायान्ते विधानपारिजाते स्थितम्। नन्दादिशक्तिभेदाम्रामर्य्यादिवीजभेदाश्च अन्यत्रोक्ता द्रष्टव्याः। चण्ड्याः होमाङ्गत्वेन संपुटार्थत्वेन च सप्तशतमन्त्रविभागः कात्यायनीतन्त्रे दर्शितः गुप्तवत्यां च तद्वाक्यव्याख्यानपूर्वकं मन्त्रविभागे विशेषं युक्त्या निर्णीय संग्रहश्लौकैर्यथा निर्ण्णीतं तथात्र प्रदर्श्यते। तत्र एकाध्यायात्मक् प्रथम चरितस्य मन्त्रविभागसूचकास्तत्रत्याः श्लोका यथा “मार्कण्डेय उवाचेति मन्त्रः प्राथमिकोमतः। सावर्ण्याद्या मुनिवराश्रमान्ताः श्लोकका दश। सोऽचिन्तयत् तदा तत्रेत्यर्धश्लोकात्मकोमनुः। मत्पूर्व्वैरित्युपक्रम्य सप्त श्लोका नृपान्तिमाः। अथ वैश्यः, समाध्याद्याःसंस्थितान्तास्ततस्त्रयः। किं नु तेषां कथं ते किम् इत्यर्धश्लोककौ मनू। राजोवाच ततोयैस्तेष्वित्यर्धश्लोकमन्त्रकौ। मार्कण्डेयस्त तस्तौ समाधिः श्लोकार्धमन्त्रकौ। वैश्योक्तिरेवमित्याद्या बन्धुष्वन्तास्ततस्त्रयः। तेषां कृते करोमीति द्वावर्द्धश्लोकमन्त्रकौ। कृत्वा तु ताविति श्लोको राजोक्तिर्भगवन्निति। दुःखायेति च मन्त्रौ द्वावर्धश्लोकात्मकौ मतौ। ममत्वाद्यामूढतान्ताश्चत्वारोऽथ ऋषर्वचः। ज्ञानमस्तीत्युपक्रम्य मुक्तयेऽन्तास्ततोदश। सा विद्येति च संसारेत्यप्यर्धश्लोक कौ मनू। राजोक्ति र्भगवन् केतिं श्लोको यत्तदिति द्वयम्। अर्द्धश्लोकात्मकमृषिर्नत्यैवेति तथापि तत्। द्वावर्धश्लोकमन्त्रौ स्तो देवानां कार्य्यमादितः। तेजसः प्रभुरित्यन्ता श्लोकाः षड् व्रह्मणोऽथ वाक्। त्वंस्वाहा त्वं खधेत्याद्याः श्लोकमन्त्रास्त्रयोदश। प्रबोधं चेति बोधश्चेत्यर्धश्लोकात्मकौ मनू। ऋषिरेवं स्तुतेत्यादि विभ्वन्तं श्लोकपञ्चकम्। तावपीत्युक्तवन्तावित्यर्द्ध श्लोकमनुद्वयम्। भगवांश्च भवेतां किमन्येनेत्यर्धयुग्मकम्। ऋषिवाक्यं वञ्चिताभ्यामित्येकः श्लोकमन्त्रकः। आवां जहीत्यर्धमृषिस्तथेति श्लोकयोर्युगम्। इत्यष्टसप्ततिश्लोकै ७८ रध्यायप्रथमात्मनः। प्रथमस्य चरित्रस्य सर्व्वे मन्त्राश्चतुःशतम्ः १०४। तेषूवाचा ङ्कितामन्त्राद्व्येकद्व्येकत्रिपञ्चभिः। मृकुण्डपुत्रभगद्वैश्य व्रह्मनृपर्षिभिः। चतुर्द्दश स्युः श्लोकार्द्धाश्चतुर्विंशतिरीरिताः। अवशिष्टास्तु षट्षष्टिःश्लोकमन्त्रा इति स्थितिः”। अध्यायत्रयात्मकस्य द्वितीयचरितस्य मन्त्रविभागसूचका स्त्रत्रत्याः संग्रहश्लोका यथा “ऋषिवागष्टषष्टिः स्युः प्लोकादेवासुरादयः। एवं द्वितीयकेऽध्याये मन्त्रा एकोन सप्ततिः ६९। ऋषिर्निहन्यमानाद्याः पञ्चत्रिंशत्तु मन्त्रकाः। देव्युक्तिर्गर्ज गर्जेति श्लोक एक ऋषेर्वचः। पञ्च श्लोका इति चतुश्चत्वारिंशत् ४४ तृतीयके। ऋषिः शक्रादयः श्लोकाः षड्विंशति रथर्षिवाक्। श्लोकद्वयमथो देवी श्लोकार्धं व्रियतामिति। देवा उचुस्त्रयः श्लोका भगवत्या कृतादिकाः। वृद्व्रयेऽस्मत् प्रपन्ना त्वमित्यर्धश्लोककोमनुः। ऋषेर्वचश्चतुःश्लोकीत्यध्याये तु चतुर्थके। मन्त्राद्विचत्वारिंशत् ४२ स्युरध्याय त्रितयात्मनः। मध्यमस्य चरित्रस्य पञ्चपञ्चाशदुत्तराः। शतं १५५ मन्त्रा स्तेषु देव्या वचसीद्वे ऋषेस्तु षट्। देवनामेकमर्धे द्वे अन्ये श्लोका इति स्थितिः”। नवाध्यायात्मकस्य तृतीयचरित्रस्य मन्त्रविभागसूचकाः तत्रत्याः संग्रह श्लोका यथा “अथर्षि वाक्पुराशुम्भेत्यादयः श्लोककास्तु षट्। देवा ऊचुर्नमोदेव्या इत्यादिश्लोकपञ्चकम्। ततःश्लोकैकबिंशत्या प्रतिश्लोकं त्रिशस्त्रिशः। विभागादनुषङ्गाभ्यां त्रिषष्ट्या हुतयो यथा। महाकाल्याद्यर्थभेदान्नमस्तस्या इति त्रयः मन्त्राः पूर्वोत्तरौ शेषौ या देव्यर्धं नमोनमः। तेषामाद्यन्तयोर्योज्यौप्रतिप्तन्त्रक्रमेण तौ। तेन पर्य्यवसानं स्यादेकैकोमन्त्र ईदृशः। या देवीत्यर्धमुच्चार्य्य नमस्तस्यै नमोनमः। इत्युच्चरेत् त्रिपाद्गायत्र्येषा त्वर्धावसनिका। एते पूर्वार्धतुर्य्याङिव्रयोगोत्था एकविंशतिः। भवन्ति विष्णुमायादिभ्रान्त्यन्तपदर्गार्भताः। प्रथमा विष्णुमायोक्ता द्वितीया चेतना ततः। बुद्धिर्निद्रा क्षुधा छाया शक्तिस्तृष्णा तथाष्टमी। क्षान्तिर्जातिरथो लज्जा शान्तिः श्रद्धात्रयोदशी। कान्तिर्लक्ष्मीस्ततोवृत्तिः स्मृतिरूपेण संस्थिता। दया तुष्टिस्ततोमाता भ्रान्तिरित्येकविंशतिः। स्वस्थानवृद्ध्या त्रिः प्रोक्ता स्त्रिषष्टिर्मनवः स्मृताः इन्द्रियाणामितिश्लीक एकमन्त्रस्तदुत्तरः। चिति- रूपेण यत्येष प्राग्वन् मन्त्रत्रयात्मकः। स्तुता सुरै रिति श्लोकावृषिरेवं स्तवादिकाः। श्लोकाः सप्तदशाथर्षि र्निशम्येति मनुत्रयम्। दूतोक्तिर्देवि! दैत्येति नवश्लोका ऋषर्वचः। इत्युक्ता सा तदेत्येकः श्लोको देवीवचस्ततः। सत्यमुक्तमिति श्लोकचतुष्कमथ दूतबाक्। अवलिप्तेति चत्वारः श्लोका देव्यास्ततोवचः। एवमेतदिति द्वावित्येकोनत्रिंशदुत्तरम्। शतं १२९ मन्त्राः पञ्चमे षट्सप्तति ७६ श्लोकमण्डिते। अथर्षिरित्याकर्ण्येति चतुःश्लोकी ऋषेर्वचः। तेनाज्ञप्तैति श्लोक त्रयं देवीवचस्ततः। दैत्येश्वरेणेत्येकोऽथ ऋषिरित्युक्त इत्यमी। द्वादशेति मताः षष्ठे चतुर्विंशतिमन्त्रकाः २४। अथर्षिवाक् मयाज्ञप्ता इत्याद्यास्त्र्याढ्यविंशतिः २३। ऋषिस्तावित्युभावित्थं सप्तमे सप्तविंशतिः २७। अथर्षिवाणी चण्डे चेत्यारभ्याभिजंघान तम्। इत्यन्तः पञ्च पञ्चाशच्छ्लोकामन्त्रास्ततःःपरम्। मुखेन काली जगृहे इत्यर्धश्लोकमन्त्रकः। ततोऽसाविति षट् श्लोकास्त्रिषष्टिश्चेत्थमष्टमे ६३। राजा विचित्रमित्यादि श्लोक द्वयमथो ऋषिः। चकार कोपमित्याद्याः सप्तत्रिंश दुदीरिताः। इत्येकचत्वारिंशत् ४१ स्युर्नवमाध्यायमन्त्रकाः। ऋषिर्निशुम्भं निहतमिति द्वावम्बिकाबचः। ऐकैवेति द्वयं देवी तत एकोऽहमित्यृषिः। ततः प्रववृते युद्धमिति श्लोकास्त्रयोदश। तत्रापि सा निराधारेत्यर्धश्लोकात्मकोमनुः। नियुद्धं स्ये तदा दैत्य इत्याद्या मनवोनव। इत्येवं दशमेऽध्याये द्वात्रिंशन् मनवोमताः ३२। ऋषेर्देव्याहते तत्रेत्याद्यास्त्रिंशच्चतुर्युता ३४। देवीवाग् वरदेत्योको देवाः सर्वेति चैककः। देवी वैवस्वतेत्यष्टावथ शाकम्भरी मनुः। अर्धश्लोकात्मकः पश्चाच्छ्लोकास्तत्रैव चेति षट्। एवमेकादशे मन्त्राः पञ्चपञ्चाशदीरिताः ५५। देवीवागेभिरित्याद्याः श्लोका अष्टादशोदिताः। सर्वं ममैतदित्यर्धं पश्वाद्याः श्लोकका दश। ऋषेर्वचनमित्युक्तेत्याद्याः श्लोकास्ततस्त्रयः। निशुम्भे चेत्यर्धमनुरेवं भगवतीति षट्। इत्येकचत्वारिंशत् ४१ स्यु र्द्वादशाध्यायमध्यकाः। ऋषिरे तत्त इत्यर्धश्लोको मन्त्रस्ततस्त्रयः। एवंप्रभावा से त्याद्या मार्कण्डेय उवाच ह। इति तस्येति षट् श्लोकादेवी यदिति चैककः। मार्कण्डेय उवाचाथ ततो वव्रे मनुद्वयम्। देव्युवाच ततः स्वल्पैरहोभिरिति षण्मताः। अर्धश्लोकात्मका मन्त्रा मार्कण्डेयवचस्ततः। इति दत्त्वा तयोरेवं देव्यावरमिति द्वयम्। द्विर्दण्डकलितन्यायादावृत्तं स्याच्चतुष्टयम्। इत्येवमेकोनत्रिशन् २९ मनवःस्युः त्रयोदश। अत्रापरे नवार्धानि केचिदेकादशाभ्यधुः। न तत् कात्यायनीतन्त्रजल्पितं किन्तु कल्पितम्। इत्युत्तरचरित्रेऽस्मिन्नध्यायत्रिधना ९ त्मनि। सम्भूय मन्त्र संख्यैकचत्वारिंशच्चतुःशती ४४१। अर्धश्लोकात्मका मन्त्र० स्तेषु द्वादश कीर्त्तिताः। त्रिपाद् मन्त्रास्तु षट्षष्टिर्द्वौश्लोकौ पुनरुक्तकौ। श्लोका अपुनरुक्तास्तु त्रिशती सप्तविंशतिः ३२७। राजैको देवदूतोक्ती द्वे द्वे देव्युक्तयोदश। मार्कण्डेयोक्तयस्त्रिस्रऋषिवाक्यानि षोडश। इत्युवाचाङ्कितामन्त्राश्चतुस्त्रिंशदिति ३४ स्यितिः। अथसर्वे मिलितास्तदध्यायेषु त्रयोदशसु। पञ्च शतानि श्लोका अष्टसप्ततियुतानि ५७८। तेष्वन्त्यौ श्लोकौ द्विपुणौ भवतस्त्रेधा द्वाविंशतिर्भागः। एकोनविंशतेश्च द्वेध ते पञ्चषष्टिरतिरिक्ताः। ब्रह्मा भगवान्दूतोवैश्यो देवा नृपो मृकण्डुसुतः। देव्यृषयश्चैकैकद्विद्वित्रिचतुः शरार्कऋक्षमिताः। इति सप्ताधिकपञ्चाशदुवाच पदाङिकता अमी अधिकाः। द्वाविंशतिशतमेषां श्लोकैर्य्योगेन मन्त्रसप्तशती। इति विभजनमुदित प्रतिमन्त्रं कात्यायनीतन्त्रे। तस्मादेतत् प्रकृतिकमपूर्णमन्यत्तु यामलप्रभृति। एकमन्त्रस्त्रिपान्मन्त्रः पुन रुक्तोऽर्धमन्त्रकः। उवाचाङ्कितैत्येवं मन्त्रः प्रोक्तोऽत्र पञ्चधा। मन्त्रपिण्डः श्लोकपिण्डोऽध्यायपिण्ड इति त्रिधा।” गुप्तवती नागोजीभट्टकृतविभागस्त्वन्यादृशः विस्तरभयान्नोक्तः उभयोश्च युक्तायुक्तत्वमुभयग्रन्थदर्शनेन सुधीभिर्विचिन्त्यम्। तदयं संक्षेपः। अध्यायः श्लोकः श्लोकात्मा अर्द्धश्लोकात्मा त्रिपाद् उवाचाङ्कितःमन्त्रः १ च० १ ७८ ६६ २४ ० १४ १०४ २ ६८ ६८ ० ० १ ६९ ३ ४१ ४१ ० ० ३ ४४ ४ ३६ ३५ २ ० ५ ४२ २ च० ३ १४५ १४४ २ ० ९ १५५ ५ ७६ ५४ ० ६६ ९ १२९ ६ २० २० ० ० ४ २४ ७ २५ २५ ० ० २ २७ ८ ६१।। ६१ १ ० १ ६३ अध्यायः श्लोकः श्लोकात्मा अर्द्धश्लोकात्मा त्रिपाद् उवाचाङ्कितः मन्त्रः ९ ३९ ३९ ० ० २ ४१ १० २७।। २७ १ ० ४ ३२ ११ ५०।। ५० १ ० ४ ५५ १२ ३८ ३७ २ ० २ ४१ १३ १७।। १४ ७ ० ६ पुनरुक्त २२९ ३ च० ९ ३५५ ३२७ १२ ६६ ३४ पुनरुक्त २४४१ समष्टिः १३ ५७८ ५३७ ३८ ६६ ५७ पुनरुक्त २७०० अस्या रहस्यमुक्तं मार्कण्डेय पु० प्राधानिकादिरहस्ये “राजोवाच। भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः। एतेषां प्रकृतिम्ब्रह्मन्! प्रधानं वक्तुमर्हसि। आराध्यं यन्मया देव्याः स्वरूपं येन च द्विज!। विधिना! ब्रूहि सकलं यथावत् प्रणतस्य मे। ऋषिरु० “इदं रहस्यं परममनाख्येयं प्रचक्षते। भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप!। सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी। लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता। मातुलिङ्गङ्गदां खेटं पानपात्रं च बिभ्रती। नागं लिङ्गं च योनिञ्च बिभ्रती नृप मूर्धनि। तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा। शून्यं तदखिलं स्वेन पूरयामास तेजसा। शून्यं तदखिलं लोकं विलोक्य परमेश्वरी। बभार रूपमपरन्तमसा केवलेन हि। सा भिन्नाञ्जनसंकाशा दष्ट्रार्चितवरानना। षिशाललोचना नारी बभूव तनुमध्यमा। खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा। कबन्धहारं शिरसा बिभ्राणा हि शिरःस्रजम्। ताम्प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम्। ददामि तव नामानि यानि कर्म्माणि तानि ते। महामाया महाकाली महामारी क्षुधा तृषा। निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया। इमानि तव नामानि प्रतिपाद्यानि कर्म्मभिः। एमिः कर्माणि ते ज्ञात्वा योऽधीते सोऽऽश्नुते सुखम्। तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरन्नृप। सत्वाख्येनातिशुद्धेन गुणेनेन्दुपभन्दधौ। अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी। सा बभूव वरौ नारी नामान्यस्यै व सा ददौ। महाविद्या महावाणी भारती वाक्सरस्वती। आर्य्या व्राह्मी सहाधेनुर्वेदगर्भा सुरेश्वरी। अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम्। युवां जनयतान्देव्यौ मिथुने स्वानुरूपतः। इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम्। हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ। ब्रह्मन्विधे विरिञ्चेति धातरित्याह तं वरम्। श्रीःपद्मे कमले लक्ष्मीत्याहमाता स्त्रियञ्च ताम्। महाकाली भारती च मिथुने सृजति स्म ह। एतयोरपि रूपाणि नामानि च वदामि ते। नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम्। जनयासास पुरुषं महाकाली सितां स्त्रियम्। स रुद्रः शङ्करः स्थाणुः कपर्द्दीं च त्रिलोचनः। त्रयी विद्या कामधेनुः शास्त्रीभाषाक्षरास्वरा। सरस्वती स्त्रियङ्गौरीं कृष्णं च पुरुषं नृपः। जनयामास नामानि तयोरपि वदामि ते। विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः। उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा। एवं युवतयः सत्यःपुरुषत्वं प्रपेदिरे। चक्षुष्मन्तोऽनुपश्यन्ति नेतरेऽतद्विदो जनाः। ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम्। रुद्राय गौरीं वरदां वासुदेवाय च श्रियम्। स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत्। बिभेद भगवान्नुद्रस्तद्गौर्या सह वीर्यवान्। अण्डमध्ये प्रधानादि कार्य्यजातमभून्नृप!। महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम्। पुपोषपालयामास तं लक्ष्म्या सह केशवः। महालक्ष्मीरेवमजा राजन्! सर्वेश्वरेश्वरी। निराकारा च साकारा सैव नानाभिधानभृत्। नाभान्तरैर्निरूप्यौषा नाम्ना नान्येन केनचित्” १४ अ०। “ऋषिरुवाच। त्रिगुणा तामसी देवी सात्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यंते। योगनिद्रा हरेरुक्ता महाकाली तमोगुणा। मधुकैटभनाशार्थं यान्तुष्टावाम्बुजासनः। दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा। विशालया राजमाना त्रिंशल्लोचनमालया। स्पुरद्दशनदंष्ट्राढ्या भीम रूपापि भूमिष!। रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम्। खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत्। परिथं कार्मुकं शीर्षं निश्चोतद्रुधिरे दधौ। एषा सा वैष्णवी माया महाकाली दुरत्यया। आराधिता वशीकुर्य्यात्पूजाकर्त्तुश्चराचरम्। सर्वदेवशरीरेभ्यो याऽऽ विर्भूताऽसितप्रभा। त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्द्दिनी। श्वेतानना नीलभुजा सुश्वेतेस्तनमण्डला। रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा। सुचित्र जघना चित्रमाल्याम्बरबिभूषणा। चित्रानुलेपना कान्ति रूपसौगाग्यशालिनी। अष्टादशभुजा पूज्या सा सहस्र भुजा सती। आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकर- क्रमात्। अक्षमाला च कमलं वाणोऽसिः कुलिशङ्गदा। चक्रं त्रिशूलं परशुः शङ्खोघण्टा च पाशकः। शक्तिर्दण्डश्चर्म्मचापं पानपात्रं कमण्डलुः। अलङ्कृत भुजामेभिरायुधैः कमलासनाम्। सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप!। पूजयेत्सर्वदेवानां स्वर्लोकानां प्रभुर्भवेत्। गौरीदेहात्समुद्भूता या सत्वैकगुणाश्रया। साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी। दधौ चाष्टभुजा वाणमुषले शूलचक्रभृत्। शङ्खं घण्टां लाङ्गलञ्च कार्मुकं वमुधाधिप!। एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति। निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी। इत्युक्तानि स्वरूपाणि मूर्त्तीनान्तव पार्थिव! स्वरूपाणि जगन्मातुः, पृथगर्चां निशामय। महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती। दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रथम्। विरिञ्चिः स्वरया मध्ये रुद्वोगौर्या च दक्षिणे। वामे लक्ष्म्या हृषीकेश इत्येवन्देवतात्रयम्। अष्टादशभुजा मध्ये वामे चास्या दशानना। दक्षिणेऽष्टभुजा लक्ष्मीर्महती तां समर्चयेत्! अष्टादशभुजाचैषा यदा पूज्या नराधिप!। दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा। कालमृत्यू च संपूज्यौ सर्वारिष्ट प्रशान्तये। यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी। नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ। नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत्। अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः। अष्टादशभुजा चैषा पूज्या महिषमर्द्दिनी। महालक्ष्मीर्महाकाली महती च सरस्वती। ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी। महिषान्तकरी येन पूजितासौ जगत्प्रभुः। पूजयेज्जगतां घात्रीं चण्डिकाम्भक्तवत्सलाम्। अर्घ्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथोत्तमैः। धूपैर्दीपैः सनैवेद्यैः नानाभक्ष्य समन्वितैः। रुधिराक्तेन बलिना मांसेन सुरया नृप! ! सुरभिणा स्नानीयेन चन्दनेन सुगन्धिना। सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः। वामभागेऽग्रतो देव्याः छिन्नशीर्षं महासुरम्। पूजयेन्महिषं येन गतं सायुज्यमोशया। दक्षिणे पुरतः सिंहमत्युग्रं धर्म्ममीश्वरम्। ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैस्त्रिभिः। एकेन वा मध्यमेन नैकेनेतरयोरिह। चरितार्द्धञ्च न जपेज्जपन् छिद्रमवाप्नुयात्। स्तोत्रमन्त्रैस्तुवीतेमां यदि वा जगदम्बिकाम्। प्रदक्षिणनमस्कारं कृत्वा मूर्घ्नि कृताञ्जलिः। क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः। प्रतिश्लोकञ्च जुहुयात्पायसं तिलसर्पिषा। जुहुयात्स्तोत्र मन्त्रैर्वा चण्डिकायै शुभं हबिः। न मोनमः पदैर्देवीं पूजयेत् सुसमाहितः। प्रयतः प्राञ्जलिः प्रह्वः प्राणाना रोप्य चात्मनि। सुचिरम्भावयेदीशां चण्डिकान्तन्मयो भवेत्। एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम्। भुक्त्वा भोगान्यथाकामं देवीसायुज्यमाप्नुयात्। योन पूजयते नित्यं चण्डिकां भक्तवत्सलाम्। भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी। तस्मात्पूजय भूपाल! सर्वलोकमहेश्वरीम्। यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि” १५ अ०। “ऋषिरुवाच। नन्दा १ भगवती नाम या मविष्यति नन्दजा। संस्तुता पूजिता ध्याता वशीकुर्य्याज्जगत्रयम्। कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा। देवी कनकदामाढ्या कनकोत्तमभूषणा। कमलाङ्गुशपाशाब्जैरलङ्कृतचतुर्भुजा। इन्द्रिरा कमला लक्ष्मीः साश्रीरुक्माम्बुजासना १। या रक्तदन्तिका २ नाम देवी प्रोक्ता मयानघा। तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम्। रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा। रक्तायुधा रक्तनेत्रा रक्तकेशाऽतिभीषणा। रक्ततीक्ष्ण नखा रक्तदशना रक्त दंष्ट्रिका। पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्। वसुधाभनितम्बा सा सुमेरुयुगल स्तनी। दीर्धौ लम्बावतिस्थूलौ तावतीव मनोहरौ। कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी। भक्तान् सम्पाययेद्देवी सर्वकामदुघौ स्तनौ। खड्गपात्रं च मुसलं लाङ्गलञ्च बिभर्त्ति सा। आख्याता रक्तचामुण्डा देवी योगेश्वरीतिसा। अनया व्याप्तमखिलं जगत्स्था वरजङ्गमम्। इमां यः पूजयेद्भक्त्या स व्याप्तोति चराचरम्। अधीते य इमं नित्यं रक्तदन्तीवपुस्तबम्। तं सा परिचरेद्देवी पतिम्प्रियमिवाङ्गना २। शाकम्भरी ३ नीलवर्णा नीलोत्पलविभूषणा। गम्भीरनाभिस्त्रिवली बिभूषिततनूदरी। सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी। मुष्टौ शिलीमुखैः पूर्णं कमलं कमलालया। पुष्पपल्लवमूलादिफलादिशाकसञ्चयान्। काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजरापहम्। कार्मुकञ्च स्फुरत्कान्तिर्बिभर्त्ति परमेश्वरी। शाकम्भरी शताक्षी स्यात्सैव दुर्गा ४ प्रकीर्त्तिता। शाकम्भरीं स्तुवन्ध्यायन् जपनसंपूजयन्नमन्। अक्षय्यमश्नुते शीथ्रमन्नपानादि सर्वशः। भीमाऽपि ३ नीलवर्णा सा दंष्ट्रादशनभासुरा। विशाललोचना नारी वृत्तपीनघनस्तनी। चन्द्रहासं च डमरुं शरं पात्रञ्च बिभ्रती। एकवीरा कालरात्रिः सैवोक्ता कासदा स्तुता ५। तेजोमण्डलदुर्धर्षाभ्रामरी ६ चित्रकान्तिभृत्। चित्रभ्रमरपाणिः सा महामारीति गीयते ६। इत्येतामूर्त्तयोदेव्या व्याख्याता वसुधाधिप!। जगन्मातुश्चण्डिकायाः कीर्त्तिताः कामधेनवः। इदं रहस्यं परमं न वाच्यं कस्यचित्वया। व्याख्यानं दिव्यमूर्त्तीनामधीप्वावहितः स्वयम्। देव्याध्यानं मया प्रोक्तं गुह्यात्गुह्यतरम्महत्। तस्मात्सर्वप्रयत्नेन सर्वकाम फलप्रदम्। १६ अ०। शतचण्डीविधानं मन्त्रमहोदधौ १८ तरङ्गे नवार्ण्ण प्रयोगानन्तरं प्रतिपादितं यथा “शतचण्डीविधानन्तु प्रवक्ष्ये प्रीतये नृणाम्। नृपोपद्रवआपन्ने दुर्भिक्षे भूमिकम्पने। अतिवृष्टावनावृष्टौ परचक्रभये क्षये। सर्व्वे विघ्ना विनश्यन्ति शतचण्डीविधौ कृते। रोगाणां वैरिणां नाशो धनपुत्र समृद्धयः। शङ्करस्य भवान्या वा प्रासादनिकटे शुभम्। मण्डपं द्वारवेद्याढ्यं कुर्य्यात् सध्वजतोरणम्। तत्र कुण्डं प्रकुर्व्वीत प्रतीच्यां मध्यतोऽपि वा। स्नात्वा नित्य कृतिं कृत्वा वृणुयाद्दश बाडवान्। जितेन्द्रियान् सदाचारान् कुलीनान् सत्यवादिनः। व्युत्पन्नांश्चण्डिकापाठरताल्ल~ज्जादयावतः। मधुपर्कविधानेन वस्त्रस्वर्णादिदानतः। जपार्थमासनं मालां दद्यात्तेभ्योऽपि भोजनम्। ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः। भूमौ शयानाः प्रत्येकं जपेयुश्चण्डिकास्तवम्। मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः। नवार्णं चण्डिकामन्त्रं जपेयुश्चाऽयुतं पृथक्। यजमानः पूजयेच्च कन्यानां नवकं शुभम्। द्विवर्षाद्यादशाव्दान्ताः कुमारीः परिपूजयेत्। नाधिकाङ्गां न हीनाङ्गीं कुष्ठिनीञ्च व्रणाङ्किताम्। अन्धां काणां केकराञ्च कुरूपां रोमयुक्तनुम्। दासीजातां रोगयुक्तां दुष्टां कन्यां न पूजयेत्। विप्रां सर्व्वेष्टसंसिद्ध्यै यशसे क्षत्रियोद्भवाम्। वैश्यजां धनलाभाय पुत्राप्तौ शूद्रजां यजेत्। द्विवर्षा सा कुमार्य्युक्ता त्रिमूर्त्तिर्हायनत्रिका। चतुरव्दा तु कल्याणी पञ्चवर्षातु रोहिणी। षडव्दा कालिका प्रोक्ता चाण्डका सप्तहायनी। अष्टवर्षा शाम्भवी स्याद्दुर्गा च नवहायनी। सुभद्रा दशवर्षोक्ता ता मन्त्रैः परिपूजयेत्। एकाव्दायाः प्रीत्यभावो रुद्रावदा तु विवर्जिता। तासामावाहने मन्त्रः प्रोच्यते शङ्करोदितः। मन्त्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम्। नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम्। कुमारिकादि कन्यानां पूजामन्त्रान् ब्रुवेऽधुना। जगत्पूज्ये! जगद्वन्द्ये! सर्व्वदेवस्वरूपिणि। पूजां गृहाण कौमारि! १ जगन्मातर्नमोऽस्तु ते। त्रिपुरां २ त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम्। त्रैलोक्यवन्दितां देवीं त्रिमूर्त्तिं पूजयाम्यहम्। कालात्मिकां कलातीतां कारुण्यहृदयां शिवाम्। कल्याणजननीं देवीं कल्याणीं ३ पूजयाम्य हम्। अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम्। अनन्तशक्तिकां लक्ष्मीं रोहिणीं ४ पूजयाम्यहम्। कामचारां शुभां कान्तां कालचक्रस्वरूपिणीम्। कामदां करुणोदारां कालिकां ५ पूजयाम्यहम्। चण्डवीरां चण्डमायां चण्डमुण्डप्रमञ्जिनीम्। पूजयामि महादेवीं चण्डिकां ६ चण्डविक्रमाम्। सदानन्दकरीं शान्तां सर्व्वदेवनमस्कृताम्। सर्व्वभूतात्मिकां देवीं शाम्भर्वी ७ पूजयाम्यहम्। दुर्गमे दुस्तरे कार्ये भवार्णवविनाशिनीम्। पूजयामि सदा भक्त्या दुर्गां ८ दुर्गार्त्तिनाशिनीम्। सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम्। सुभद्रजननीं देवीं सुभद्रां ९ पूजयाम्यहम्। एतैर्मन्त्रैः पुराणोक्तैस्तां तां कन्यां प्रपूजयेत्। गन्धैः पुष्पैर्भक्ष्यभोज्यैर्वस्त्रैराभरणैरपि। वेद्यां विरचिते रम्ये सर्व्वतो भद्रमण्डले। घटं संस्थाप्य विधिवत्तत्रावाह्यार्च्चयोच्छिवाम्। तदग्रे कन्यकाश्चापि पूजयेद्ब्राह्मणानपि। उपचारैस्तु विविधैः पूर्व्वोक्तावरणान्यपि। एवं चतुर्द्दिनं कृत्वा पञ्चमे होममाचरेत्। पायसान्नैस्त्रिमध्वक्तैर्द्राक्षारम्भाफलैरपि। मातुलाङ्गैरिक्षुखण्डैर्नारिकेलैः पुरैस्तिलैः। जातिफलैराम्रफलैरन्यैर्मधुरवस्तुभिः। सप्तशत्या दशावृत्त्या प्रतिश्लोकं हुतञ्चरेत्। अयुतञ्च नवार्णेन स्थापितेऽग्नौ विधानतः। कृत्वाऽऽवरणदेवानां होमं तन्नाममन्त्रतः। कृत्वा पूर्णाहुतिं सम्यग्देवमग्निं विसृज्य च। अभिषिञ्चेच्च यष्टारं विप्रौघः कलसोदकैः। निष्कं सुवर्णमथ वा प्रत्येकं दक्षिणां दिशेत्। भोजयेच्च शतं विप्रान् भक्ष्यभोज्यैः पृथग्विधैः। तेभ्योऽपि दक्षिणान्दत्त्वा गृह्णीयादाशिषस्ततः। एवं कृते जगद्वश्यं सर्व्वेनश्यन्त्युपद्रवाः। राज्यं धनं यशः पुत्रान्निष्टमन्यं लभेत सः”। सहस्रचण्डीविधानं तत्रैव १८ तरङ्गे “एतद्दशगुणं कुर्य्याच्चण्डीसाहस्रिकं विधिम्। विद्यावतः सदाचारान् ब्राह्मणान् वृणुयाच्छतम्। प्रत्येकं चण्डिकापाठान् विदध्युस्ते दिशा १० मितान्। अयुतं प्रजपेयुस्ते प्रत्येकं च नवार्णकम्। पूर्व्वोक्ताः कन्यकाः पूज्याः पूर्व्वमन्त्रेः शतं शुभाः। दशाहमेवं संपाद्यहोमं कुर्य्युः प्रयत्नतः। सप्तशत्याः शतावृत्त्या प्रतिश्लोकं विधानतः। लक्षसंख्यं नवार्णेन पूर्व्वोक्तैर्द्रव्यसञ्चयैः। होतृभ्यो दक्षिणान्दत्त्वा पूर्व्वोक्तान् भोजयेद्द्विजान्। सहस्रसंमितान् साधून् देव्याराधनतत्परान्। एवं सहस्रसंख्याके कृते चण्डीविधौ नृणाम्। सिध्यत्यभीप्सितं सर्वं दुःखौघश्च विनश्यति। मारीदुर्भिक्षरोगाद्या नश्यन्ति व्यसनोञ्चयाः। नेमं विधिं वदेद्दुष्टे खले चौरे गुरुद्रुहि। साधौ जितेन्द्रिये दान्ते वदेद्विधिमिमं परम्। एवं सा चण्डिका तुष्टा वक्तृन् श्रोतॄंश्च रक्षति”। चण्डीनवाक्षरविधानं तत्रैव १८ तरङ्गे “अथोनवाक्षरम्मन्त्रं वक्ष्ये चण्डीप्रसत्तये। वाङ्माया मदनो दीर्घलक्ष्मीस्तन्द्रा श्रुतीन्दुयुक्। डायै सदृक् जलं कूर्म्मद्वयं झिण्टीशसंयुतम्। (ए~ ह्रो~ क्ली~ चामुण्डायै विच्चे) नवाक्षरोऽस्य ऋषयो व्रह्मविष्णुमहेश्वराः। छन्दांस्युक्तानि मुनिभिर्गाय त्र्युष्णिगनुष्टुभः। देव्यः प्रोक्ता महापूर्व्वा काली लक्ष्मीः सरस्वती। नन्दाशाकम्भरी भीमाः शक्तयोऽस्य मनोः स्मृताः। स्याद्रक्तदन्तिकादुर्गा भ्रामर्य्योवीजसञ्चयः। अग्निवायुभगास्तत्त्वम्फलं वेदत्रयोदितम्। सर्व्वाभीष्टप्रसिद्ध्यर्थं विनियोगौदाहृतः। ऋषिच्छन्दोदैवतानि शिरोमुखहृदि न्यसेत्। शक्तिवीजानि स्तनंयोस्तत्त्वानि हृदये पुनः। एकेनैकेन चैकेन चतुर्भिर्युगलेन च। समस्तेन च मन्त्रेण कुर्य्यादङ्गानि षट् सुधीः। ततएकादश न्यासान् कुर्वीतेष्टफलप्रदान्। प्रथमोमातृकान्यासः कार्य्यः पूर्ब्बोक्तमार्गतः। कृतेन येन देवस्य सारूप्यं याति मानवः। अथ द्वितीयं कुर्ब्बीत न्यासं सारस्वताभिधम्। वीजत्रयन्तु मन्त्राद्यं तारादि हृदयान्तिकम्। क्रमादङ्गुलिषु न्यस्येत् कनिष्ठाद्यासु पञ्चसु। करयोर्मध्यतः पृष्ठे मणिवन्धे च कुर्परे। हृदयादिषडङ्गेषु विन्यसेत् जातिसंयुतम्। अस्मिन् सारस्वतेम्यासे कृते जाड्यं विनश्यति। ततस्तृतीयं कुर्व्वीत न्यासं मातृगणान्वितम्। मायावीजादिका ब्राह्मी पूर्व्वतः पातु मां सदा। माहेश्वरी तथाग्नेय्यां कौमारी दक्षिणेऽवतु वैष्णवी पातु नैरृत्ये वाराही पश्चिमेऽवतु। इन्द्राणी वायुकाणे च चामुण्डा चोत्तरेऽवतु। ऐशाने तु महालक्ष्मीरूर्द्ध्वं व्योमेश्वरी तथा। सप्तद्वीपेश्वरी भूमौ रक्षेन्नागेश्वरी तले। तृतीयेऽस्मिन् कृते न्यासे त्रैलोक्यविजयी भवेत्। न्यासं चतुर्थं कुर्व्वीत नन्दजादिसमन्वितम्। नन्दजा पातु पूर्ब्बाङ्गे कमलाङ्कुशमण्डिता। खङ्गपात्रकरा पातु दक्षिणे रक्तदन्तिका। पृष्ठे शाकम्भरी पातु पुष्पपल्लवसंयुता। धनुर्वाणकरा दुर्गा वामे पातु सदैव माम्। शिरःपात्रकरा भीमा मस्तकाच्चरणावधि। पादादि मस्तकं यावद्भ्रामरी चित्रकान्तिभृत्। तुर्य्यं न्यासं नरः कुर्वन् जरामृत्यू व्यपोहति। अथ कुर्वीत ब्रह्माद्यं न्यासं पञ्चममुत्तमम्। पादादिनाभिपर्य्यन्तं ब्रह्मा पातु सनातनः। नाभेर्विशुद्धिपर्य्यत्तं पातु नित्यं जनार्द्दनः। विशुद्धेर्ब्रह्मरन्ध्रान्तं पातु रुद्रस्त्रिलोचनः। हंसः पातु पदद्वन्द्वं वैनतेयः करद्वयम्। चक्षुषीवृषभः पातु सर्वाङ्गाणि गजाननः। परापरौ देहभागौ पात्वानन्दमयोहरिः। कृतेऽस्मिन् पञ्चमे न्यासे सर्वान् कामानवाप्नुयात्। षष्ठं न्यासंततः कुर्य्यान्महालक्ष्म्यादिसंयुतम्। मध्यं पातु महालक्ष्मीरष्टादशभुजान्विता। ऊर्द्ध्वं सरस्वती पातु भुजैरष्टाभिरूर्जिता। अधः पातु महाकाली दशबाहुसमन्विता। सिंहोहस्त द्वयं पातु मम हंसोऽक्षियुग्मकम्। महिषं दिव्यमारूढोयमः पातु पदद्वयम्। महेशश्चण्डिकायुक्तः सर्वाङ्गाणि ममावतु। षष्ठेऽस्मिन् विहिते न्यासे सद्गतिं प्राप्नुयान्नरः। मूलाक्षरन्यासरूपं न्यासं कुर्वीत सप्तमम्। ब्रह्मरन्ध्रे नेत्रयुगे श्रुत्योर्नासिकयोर्मुखे। पायौ मूलमनोर्वर्णांस्ताराद्यान्नभसाऽन्वितान्। विन्यसेत् सप्तमे न्यासे कृते रोगक्षयोभवेत्। पायुतो ब्रह्मरन्ध्रान्तं पुनस्तानेव विन्यसेत्। कृतेऽस्मिन्नष्टमे न्यासे सर्वदुःखं विनश्यति। कुर्वीत नवमं न्यासं मन्त्रव्याप्त स्वरूपकम्। मस्तकाच्चरणं याववरणान्मस्तकावधि। पुरोदक्षे पृष्ठदेशे वामभागेऽष्टशो न्यसेत्। मूलमन्त्र छतोन्यासो नवमो देवताप्तिकृत्। ततः कुर्वीत दशमं पड्ङन्यासमुत्तमम्। मूलमन्त्रं जातियुक्तं (दीर्घस्वरयुक्तम्) हटयादिषु विन्यसेत्। कृतेऽणिन् दशमे न्यासे त्रैलोक्यं वशगं भवेत्। दशन्यासोक्तफलदं कुर्य्यादेकादशं ततः। खङ्किनी शूलिनीत्यादि (१ अ० ६१–६५) पठित्वा श्लोकपज्ञकम्। आद्यं(ऐ~)कृखतरं वीजं ध्यात्वा गर्वाङ्गके न्यसेष्ट। शूलेन पाहि नो देवीत्यादि (४ अ० २३–२६) श्लोकचतुष्टयम्। पठित्वा सूर्य्यसदृशं द्वितीयं (ह्री~) सर्वतोन्यसेत्। सर्वस्वरूपे सर्वेशे इत्यादि (११ अ० २३–२७) श्लोकपञ्चकम्। पठित्वा स्फटिकाभासं तृतीयं (क्ली~) स्वतनौ न्यसेत्। ततः षडङ्गं कुवींत विभक्तैर्मूलवर्णकैः। एकेनैकेन चैकेन चतुर्भिर्युगलेन च। समस्तेन च मन्त्रेण कुर्य्यादङ्गानि षट् सुधीः। शिखायां नेत्रयोः शुत्योर्नसोर्वक्त्रे गुदे न्यसेत्। मन्त्रवर्णान् समस्तेन व्यापकं त्वष्टशश्चरेत्। खड्गं चक्रगदेषुचापपरिघान् शूलं मुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषाभृतम्। नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत् शयिते हरौ कमलजोहन्तुं मधुकैटभौ। अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिञ्च चर्म्म जलजं घण्टां सुराभाजनम्। शूल पाशसुदर्शने च दधतीं हस्तैः प्रबाल प्रभां सेवे सैरिभमर्द्दिनीमिह महालक्ष्मीं सरोजस्थिताम्। घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्य प्रभाम्। गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्व्वामत्र सरस्यतीमनभजे शुम्भादिदैत्यार्द्दिनीम्। एवं ध्यात्वा जपेल्लक्षचतुष्क तद्दशांशतः। पायसान्नेन जुहुयात् पूजिते हेमरेतसि। जयादिशक्तिभिर्युक्ते पीठे देवीं जयेत्ततः। तत्त्व २५ पत्रावृतत्र्यश्रे षट्कोणाष्टदलान्विते। त्रिकोणमध्ये संपूज्य ध्यात्वा तां मूलमन्त्रतः। पूर्व्वकोणे विधातारं स्वशक्त्या सह पूजयेत्। विष्णुं श्रिया च नैरृत्ये, वायव्ये तूमया शिवम्। उदग्दक्षिणयोः सिंहं महिषञ्च क्रमाद्यजेत्। षट्कोणेषु च पूर्वादौ नन्दजां रक्तदन्तिकाम्। शाकम्भरीं तथा दुर्गां मीमाश्च भ्रामरीं यजेत्। सविन्दुनामवर्णाद्यास्ताराद्याश्च नमोऽन्तिमाः। नन्दजाद्या यजेच्छक्तीर्वक्ष्यमाणा अपीदृशीः। अष्टपत्रेषु ब्रह्माणी पूज्या माहेश्वरी परा। कौमारी वैष्णवी चाथ वाराही नारसिंह्यपि। पश्चादैन्द्री च चामुण्डा तथा तत्त्व २५ दलेष्विमाः। विष्णुमाया चेतना च बुद्धिर्निद्रा क्षुधा ततः। छाया शक्तिः परा तृष्णा क्षान्तिर्ज्जातिश्च लज्जया। शान्तिः श्रद्धा कान्तिलक्ष्म्यौ धृतिर्वृत्तिः श्रुतिः स्मृतिः। दया तुष्टिस्ततः पुष्टिर्माता भ्रान्तिरिति क्रमात्। बहिर्भूगृहकोणेषु गणेशः क्षेत्रपालकः। वटुकश्चापि योगिन्यः पूज्या इन्द्रादिका अपि। एवं सिद्धे मनौ मन्त्रो भनेत् सौभाग्यभाजनम्। मार्कण्डेयपुराणोक्तं नित्यं चण्डीस्तवं पठन्। पुटितं मूलमन्त्रेण जपन्नाप्नोति वाञ्छितम्। आश्विनस्य सिते पक्षे आरभ्याग्नितिर्थि सुधीः। अष्टम्यन्तं जपेल्लक्षं दशांशं होममाचरेत्। प्रत्यहं पूजयेद्देवीं पठेत् सप्तशतीमपि। विप्रानाराध्य मन्त्री स्वमिष्टार्थं लमतेऽचिरात्। सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः। छन्दो गायत्रमुदितं महाकाली तु देवता। वाग्वीजं (ऐ~) पावकस्तत्त्वं धर्म्मार्थे विनियोजनम्। मध्यमे च चरित्रे तु मुनिर्विष्णुण्दाहृतः। उष्णिक्छन्दो महालक्ष्मीर्देवता वीजमद्रिजा(ह्री~)। वायुस्तत्त्वं धनप्राप्त्यै विनियोग उदाहृतः। उत्तरस्य चरित्रस्य ऋषिः शङ्कर ईरितः। त्रिष्टुप्छन्दो देवता च महापूर्ब्बा सरस्वती। कामोवीजं (क्ली~) रविस्तत्त्वं कामाप्त्यै विनियोजनम्। एवं संस्मृत्य ऋष्यादीन् ध्यात्वा पूर्वोक्त मार्गतः। सार्थख्यति पठेच्चण्डीस्तवं स्पष्टपदाक्षरम्। समाप्तौ तु मक्षालक्ष्मीं ध्यात्वा कृत्वा षडङ्गकम्। जपेदष्टशतं १०८ मूलं देवतायै निवेदयेत्। एवं यः कुरुते सोऽत्र नावसीदति जातुचित्। चण्डिकां प्रभजन्मत्योधनैर्धान्यैर्यशश्चयैः। पुत्रैः पौत्रैरुचाऽऽरोग्यैर्युक्तो जीवेद्बहूः समाः”। निर्ण्णयसि० २ परि० शतचण्डीविधौ विशेष उक्तो यथा रुद्रयामले “शतचण्डीविधानञ्च प्रोच्यमानं शृणुष्व तत् सर्वोपद्रव्यनाशार्थं शतचण्डीं समारभेत्। षोडशस्तम्भ संयुक्तं मण्डपं पल्लवोज्ज्वलम्। वसुकोणयुतां वेदीं मध्ये कुर्यात्त्रिभागतः। पक्वेष्टकचितां रम्यामुच्छ्राये हस्तसष्मिताम्। पञ्चवर्णरजोभिश्च कुर्यान्मण्डलकं शुभम्। पञ्चवर्णवितानञ्च किङ्किणीजालमण्डितम्। आच र्केण समं विप्रान् वरयेद्दश सुव्रतान्। ऐशान्यां स्थापयेत्कुम्भं पूर्वोक्तविधिनाचरेत्। वारुण्याञ्च प्रकर्तव्यं कुण्डं लक्षणलक्षितम्। मूर्तिं देव्याः प्रकुर्वीत सुवर्णस्य पलेन वै। तदर्धेन तदर्धेन तदर्धेन महामते!। अष्टादशभुजान्देवीं कुर्याद्वाष्टकरामपि। पट्टकूलयुगच्छन्नान्देवीं मध्ये निधापयेत्। देवीं संपूज्य विधिवज्जपं कुर्युर्दश द्विजाः। शतमादौ शतञ्चान्ते जपेन्मन्त्रं नवार्णकम्। चण्डीं सप्तशतीम्मध्ये संपुटोऽयमुदाहृतः। एकं द्वे त्रीणि चत्वारि जपेद्दिनचतुष्टयम्। रूपाणि क्रमशस्तद्वत् पूजनादिकमाचरेत्। पञ्चमे दिवसे प्रातर्होमं कुर्य्याद्विधा- नतः। गुडुचीम्पायसन्दूर्वान्तिलान् शुक्लान् यवानपि। चण्डीपाठस्य होमन्तु प्रतिश्लोकन्दशांशतः। होमं कुर्य्याद्ग्रहादिभ्यः समिदाज्यचरून् क्रमात्। हुत्वा पूर्णाहुतिन्दद्यात्विप्रेभ्यो दक्षिणां क्रमात्। कपिलाङ्गां नीलमणिं श्वेताश्वं छत्रचामरे। अभिषेकन्ततः कुर्युर्यजमानस्य ऋत्विजः। एवङ्कृतेऽमरेशान! सर्वसिद्धिः प्रजायते”। “सहस्रचण्डीं विधिवच्छृणु विष्णो महामते!। राज्यभ्रंशे महोत्पाते जनमारे महाभये। गजमारेऽश्वमारे च परचक्रभये तथा। इत्यादिविविधे दुःखे क्षयरोगादिजे भये। सहस्रचण्डिकापाठं कुर्य्याद्वा कारयेत्तथा। जापकास्तु शतम्प्रोक्ता विंशद्धस्तश्च मण्डपः। भोज्याः सहस्रं विप्रेन्द्रा गोशतं दक्षिणान्दिशेत्। गुरवे द्विगुणन्देयं शय्यादानन्तथैव च। सप्तधान्यं च भूदानं श्वेताश्वं च मनोहरम्। पञ्चनिष्कमिता मूर्त्तिः कर्त्तव्या वाऽर्धमानतः। अष्टादशभुजा देवी सर्वायुधविभूषिता। अवारितान्नं दातव्यं सहस्रं प्रत्यहम्प्रभो!। शतं वा नियताहारः पयःपानेन वर्त्तयेत्। एवं यश्चण्डिकापाठं सहस्रं तु समाचरेत्। तस्य स्यात्कार्यसिद्धिस्तु नात्र कार्या विचारणेति”। एतद्द्वयं यद्यपि महानिबन्धेषु नास्ति तथापि प्रचरद्रूप त्वादुक्तमिति दिक्। वाराहीतन्त्रे “सङ्कटे समनुप्राप्ते दुश्चिकित्स्यामये तथा। जातिभ्रंशे कुलोच्छेदेऽप्यायुषो नाश आगते। वैरिदृद्धौ व्याधिवृद्धौ धननाशे तथाक्षये। तथैव त्रिविधोत्पाते तथा चैवातिपातके। कुर्य्याच्चण्ड्याःशतावृत्तिन्ततः सम्पद्यते शुभम्। श्रेयोवृद्धिः शतावृत्ताद्राज्यवृद्धिस्तथा परा। मनसा चिन्तितन्देवि! सिध्येदष्टोत्तराच्छतात्। सहस्रावर्त्तनाल्लक्ष्मीरावृणोति स्वयं स्थिरा। भुक्त्वा मनोरथान् कामान्नरो मोक्षमवाप्नुयात्। चण्ड्याः शतावृत्तपाठात्सर्वाः सिध्यन्ति सिद्धयः”। २ काल्या भैरवभेदे पु०। “असिताङ्गोरुरुश्चण्ड उन्मत्तः क्रोधनस्तथा” तन्त्रसा०। श्यामावरणाष्टभैरवोक्तौ। संज्ञायां कन्। चण्डिका सप्तवर्षायां कुमार्य्याम् अत्रैव शब्दे मन्त्रमहोदधिवाक्यम् दृश्यम्।
चण्डीकुसुम = पु० चण्डीप्रियं कुसुसं यस्य। रक्तकरवीरदृक्षे। राजनि०।
च(ण्डे)ण्डीश = पु० रुद्रगणभेदे “चण्डे(ण्डी)शः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत्” भाग० ४। ५। १६। ६ त०। २ शिवे पु० चण्डीश्वरोऽप्यत्र त्रिभुवनगुरोर्धाम चण्डीश्वरस्य” मेघ०
चण्डु = पु० चडि–उन्। उन्दुरे मूषिके शब्दच०।
चण्डेश्वर = पु० चण्डईश्वरः। रक्ततनौ शिवमूर्त्तिभेदे “चण्डेश्वरं रक्ततनुं त्रिनेत्रम्” तन्त्रसारः।
चण्डोग्रशूलपाणि = पु० शिवमूर्त्तिभेदे। “चण्डोग्रशूल पाणेश्च मन्त्रः सर्वार्थसाधकः” तन्त्रसारे तन्मन्त्रः उक्तः।
चत = याचने भ्वा० उभ० द्वि० सेट्। चतति ते एदित् अचतीत्। अचतिष्ट। चचात चेते। निरुक्तौ अयं गत्यर्थतयोक्तः। “गुहा चतन्तमुशिजो नमोभिः” ऋ० १०। ४६। २। “चतन्तं चततिर्गतिकर्म्मा” निरु० भा०। अस्य वैदिकेऽनिट्त्वम् चत्तः। “चत्तो इतश्चत्तामुतः” ऋ० १०। १५५। २। “दूरे चत्तायच्छनत्सद्गहनम्” ऋ० १। १३२। ६। याचनस्य हिंसायां वृत्तेरस्य हिंसार्थत्वमपि। “तं व इन्द्रं चतिनमस्य” ऋ० ६। १९। ४। “चतिनं नाशकमिति” भा०। बा० इनि।
***