गोशकृत् = न० ६ त०। गोमये जटा०। “उदकुम्भं सुमनसो गोशकृन्मृत्तिकाः कुशान्। पयोघृतं वाऽऽमरणाद्गोशकृद्रसमेव वा” मनुः।

गोशर्य्य = त्रि० शॄ–कर्त्तरि बा० यत् गौः शर्य्या शीर्ण्णा यस्य। शीर्णगौ शयौ” “याभिर्गोशर्य्यमावतम्” ऋ० ८। ८२०। “गोशर्य्यः शयुः भा०।

गोशाल(ला) = स्त्री न०। गवां शाला “विभाषा सेनेत्यादिना” वा क्लीवता। गवां शालायाम्। तत्रजातः एङादित्वे प्राचां मते वृद्धसंज्ञत्वाच् छ, अन्यमते अण्, तस्य स्थानान्तगोशालेत्यादि पा० लुक्। गोशाल तत्र जाते त्रि०। स्त्रीत्वपक्षे तु न लुक्। गोशालीय गौशाल वा तत्रजाते त्रि० इति भेदः।

गोशीर्ष = पु० गोः शीर्षमिव शीर्षं यस्य। १ ऋषभपर्व्वते तस्य गोशीर्षाकारशृङ्गत्वात् तथात्वम्। स आकरत्वेनास्त्यस्य अच्। २ चन्दनभेदे। गोशीर्षाद्युत्पत्तिकथा रामा० कि० का० ४१ स० ३९। ४० श्लो०। “तञ्च देशमतिक्रम्य महान्यषभ संस्थितिः। सर्व्वरत्नमयः श्रीमानृषभो नाम पर्व्वतः। गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्। दिव्यमुत्पद्यते तत्र तच्चैवाग्निसमप्रभम्”। तदाकारे ३ अस्त्र भेदे च “अयोगुडैर्भिन्दिपालैर्गोशीर्षोलुखलैरपि” भा द्रो० १७९ अ०। ६ त०। ४ गोमुण्डे न०।

गोशीर्षक = पु० गोः शीर्षभिव कायति कै–क १। दिव्यपुष्पीदृक्ष रत्नमा० स्वार्थे क। २ चन्दनभेदे गोशीर्षशब्दे उदा०।

गोशृङ्ग = पु० गोः शृङ्गमिव शृङ्गमस्य। ऋषिभेदे “हिमवद् वनमध्यस्थो गोशृङ्ग ऋषिसत्तमः” “गोशृङ्गस्य ऋषस्तत्र ददृशाते तथाश्रमम्” स्क० पु० प्रभा० ख०। २ दक्षिणदेशस्थे पर्व्वतभेदे च। “तथैव सहदेवोऽपि प्रययौ दक्षिणां दिशम्” इत्युपक्रमे “निषादभूमिं गोशृङ्गं पर्व्वतप्रवरं तथा। तरसैवाजयचश्रीमान्” भा० स० १० अ०। ६ त०। ३ गोर्विषाणे न०। तदाकारोऽस्त्यस्य अच्। ४ वर्वर वृक्षे पु० राजनि०।

गोश्रुति = पु० व्याघ्रपदगोत्रापत्ये ऋषिभेदे “तद्धैतत् सत्यकामोजावालो गोश्रुतये वैयाध्रपद्यायोबाच” छा० उ०।

गोश्व = पु० द्वि० व०। इतरे० द्व० पररूपम् “गवाश्वप्रभृतीनि च” पा० “यथोच्चारितानि तथैव साधूनि स्युः सि० कौ०। पक्षे नैकवद्भावः न क्लीवता च। गवि अश्वे च। पक्षे एकवद्भावः अवङ् च। तत्रार्थे न०।

गोष(म)खि = पु० गौः सखाऽस्य वेदे वा षत्वम्। १ गोसहायके “स्तोता मे गोषखा स्यात्” ऋ० ८। १४। १। “यस्मिन्निन्द्रः सोमं पिबति गोसखायम्” ऋ० ५। ३७। ४। ६ त० अच् समा० न षत्वम्। २ गोः सहाये

गोषड्गव = न० गवां षट्कम् गो + षड्गबच्। गोषट्के एवं छागषङ्गवादयश्छागादिषट्के न०।

गोषणि(सनि) = त्रि० गां सनोति ददाति सन–दाने इन् सवनादिषु पाठात् न नित्यं षत्वम् किन्तु पूर्ब्बपदात् वा षत्वम्। १ गोदातरि “यस्ते अश्वसनिर्भक्षोयोगोसनिस्तस्य” यजु० ८। १२। पक्षे षत्वम्। “गोषणिं धियमश्वं वाजसासुत” ऋ० ६। ५३। १०।

गोषद् = त्रि० गवि वाचि सीदन्ति सद–क्विप् पूर्व्वपदात् षत्वम्। स्खलद्वाक्ये। गोषदितिशब्दोऽस्त्यत्राध्यायेऽनुवाके वा गोषदा० वुन्। गोषत्क गोषच्छब्दयुक्ते अध्याये अनुवाके च पु०। अच्। गोषद तत्रार्थे त्रि०।

गोषदादि = पु० अध्यायानुवाकयोः “गोषदादिभ्यो वुन्” पा० मत्वर्थे वुन्प्रत्यय निमित्ते शब्दगणे। स च गणः पा० ग० सू० उक्तो यथा गोषद् इषेत्वा मातरिश्वन् देवस्यत्वा दैवीरापः कृष्णास्या खरेष्ठा देवीधियः रक्षोहण युञ्जान अञ्जन प्रभूत प्रतूर्त्त कुशानु गोषद”।

गोषन् = त्रि० गां सनोति सन–विच् ६ त० “सनोतेरनः” पा० नान्तस्य नित्यषत्वनिषेधेऽपि पूर्बपदात् वा षत्वम्। गोदातरि “शंसामि गोषणो नपात्” ऋ० ४। ३२। २२।

गोषा = त्रि० गां सनोति सन–विट् ङा। सनोतेरनः” पा० षत्वम्। गोदातरि “गोषा इन्द्रीनृषामसि” सि० कौ० धृता श्रुतिः “इत्था गृणन्तो महिनस्य शर्म्मन् दिविष्याम पार्य्ये गोषतमाः” ऋ० ६। ३३। ५। अत्र “घरूपेत्यादि” पा० सू० गोषाशब्दस्य तमपि परे ह्रस्वः।

गोषा(सा)ति = स्त्री सो–भावे–क्तिन् ऊतियूतीत्यादिना नि०, सन–भावे क्तिन् ङा वा ६ त० षत्वम्। १ गोलाभे २ गोदाने च “गोषाता यस्य ते गिरः” ऋ० ८। ८४। ७। “गोषातौ गवां लाभे” मा० सप्तस्या डाच् एव मुत्तरत्र। गवां सातिर्णाभोऽस्य। ३ लब्धगौ लब्धपशुके त्रि० “यत्र गोषाता ऋषितेषु खादिषु” ऋ० १०। ३८। १। गोषातौ लब्धपशुके” भा०

गोषादी = स्त्री गां सादयति सद–णिच्–अण् उ० स० षत्वं गौरा० ङीष्। पक्षिभेदे। “गेषादी देवानां पत्नीभ्यः” यजु० २४। २४।।

गोषेधा = स्त्रीं गोरिव सेध उत्सेधोयस्याः पूर्बपदात् षत्वम्। दुर्लक्षणायां स्त्रियाम्। “विश्वपदीं वृषदतीं गोषेधां विधमामुत” अथ० १। १८। ४।

गोष्ट = संघाते भ्वा० आत्म० अक० सेट्। गोष्टते अगोष्टिष्ट। जुगाष्टे।

गोष्टोम = पु० गोसंज्ञः स्तोमोऽत्र। उक्थसंस्थे बहुमन्त्रात्मके १ स्तोमभेदे। २ तदुपलक्षिते एकाहसाध्ये यागभेदे च “स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै लोका एतें स्तोमा अयमेव ज्योतिरयम्भध्यमो गौरसावुत्तम आयुः” ता० व्रा० ४। १। ७।

“स पूर्व्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोमशब्देन त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते। तानि ज्योनिर्गौरायुरिति एतन्नामकान्यपश्यत्। तत्र ज्योतिरग्निष्टोमसंस्थः, गौरायुश्चैते उक्थसंस्थे० ज्योतिष इयं स्तोमकॢप्तिः। त्रिवृद्बहिष्पवमानं पञ्चदशान्याजानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठ्यानि सप्तदश आर्भव एकविंशोग्निष्टोमसामेति। अथ गोष्टोमस्य, पञ्चदशोबहिष्पवमानः त्रिवृदाज्यानि सप्तदशम्माध्यन्दिनं सवनमेकविंशं तृतीयसवनम्। अथायुष्टोमस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशम्माध्यन्दिनं सवनमेकविंशं तृतीयसवनमिति। एते उक्ताः स्तोमा इमे लोका वै भूरादिकाः खलु, कः कतमोलोक इति बुभुत्सायामाह अयमेव लोकोज्योतिः, अयम्मध्यमोऽन्तरिक्षलोको वै असावुत्तमस्तृतीयः स्वर्लोक आयुः, स्तोमत्रयस्य लोकत्रयेण सह संख्यासाम्यात् तच्छब्दता एतैः त्रिभिः स्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदिति शेषःअथैतान् विधत्ते” भा०।

“यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनयन्त्येषु लोकेषु प्रतितिष्ठन्ति” ता० व्रा० ८। “यदेषोऽतिरात्रो भवतीति वाक्यवदेतत्सर्वं व्याख्येयम्। अभिप्लवषडहस्योत्तरं त्र्यहं विधातुमाह” भा० “स एत न्त्र्यहं पुनः प्रायुङ्क्त तेन षडहेन षट्क्रतून् प्राजनयत्” ता० व्रा०९। “स प्रजापतिरेतं पूर्व्वोक्तं त्र्यहं पुनः प्रयुक्तवान्। गौरायुर्ज्योतिरिति क्रमोऽत्रावगन्तव्यः। तथा चापस्तम्बः “ज्योतिष्टोममग्निष्टोमं रथन्तरसामानङ्गामुक्थं वृहत्सामानमायुषमुक्थं रथन्तरसामानं ज्योतिष्टोमं वृहत्सामानमिति। नन षडहेन षट् क्रतून् वसन्ता- दीन् प्राजनयत् सृष्टवान्। अथार्थवादानुगुण्याय पूर्व्वविहितेन त्र्यहेन संयुज्य इममुत्तरं त्र्यहं विधत्ते” भा०। “तदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति” ता० व्रा० १०।

गोष्ठ = न० गावस्तिष्ठन्त्यत्र घञर्थे क षत्वम्। गवां स्थाने अमरः। “गोष्ठेषु गोष्ठीकृतमण्डलासनान्” माघः। गोष्ठी वहुजनाः कर्त्तृतयास्त्यस्य अच्। २ गोष्ठीकर्त्तव्ये श्राद्धभेदे न० “पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम्” मनुः “गोष्ठे गोष्ठीश्राद्धे “गोष्ठ्यां शुद्ध्यर्थमष्टमम्” इति विश्वामित्रेण द्वादशविधश्राद्धगणनायां गोष्ठश्राद्धस्य विधानात्” कुल्लू०।

गोष्ठपति = पु० ६०। गोः स्थानाध्यक्षे अमरः।

गोष्ठश्व = पु० गोष्ठे श्वा अचतुरेत्यादि अच् समा०। १ गोष्ठस्थे शुनि तत्तुल्ये परहिंसके स्वगृहे स्थित्वा २ परद्वेष्टरि च त्रिका०। षष्ठीसमासे तु न अच् समा०। गोष्ठश्वा इत्येव

गोष्ठागार = न० ६ त०। गोष्ठस्य सभाया बहुजनस्थानस्यागारम्। बहुजनागारे गञ्जे हारा०।

गोष्ठाध्यक्ष = पु० ६०। गोष्ठपतौ।

गोष्ठान = न० गोः स्थानं वेदे पूर्बपदात् षत्वम्। १ गवां स्थाने गोष्ठे। “व्रजं गच्छ गोष्ठानम्” यजु० १। ३५। लोके तु गोस्थानमित्येव। “गोष्ठं गोस्थानकम्” अमरः।

गोष्ठा(पा)ष्टमी = स्त्री “कार्त्तिके शुक्लपक्षे तु स्मृता गोष्ठा(पा)ष्टमी वुधैः। तद्दिने वासुदेवोऽभूत् गोपः पूर्वन्तु वत्सपः” इत्युक्तायामष्टम्याम् गोपाष्टमीशब्दे दृश्यम्।

गोष्ठि = स्त्री गाबो वाग्विशेषास्तिष्ठन्त्यत्र स्था–बा० कि ६ त० षत्वम्। १ गोष्ठीशब्दार्थे २ परस्परसंलापे च। “आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथाऽत्यागित्वमेव च। तएते सप्त दोषाः स्युः सदा विद्यार्थिनां मताः” भा० उ० १५६३ श्लो०।

गोष्ठी = स्त्री गावोऽनेकावाचस्तिष्ठन्ति अत्र स्था–घञर्थे क। ६ त० अम्बाम्बेति षत्वम्” गौरा० ङीष्। १ सभायां परिषदि। “तत्र गोष्ठीषु रथ्यासु सिद्धप्रव्रजितेषु च। भा० वि० ६। २ परस्परालापे “गोष्ठीसुखमनुभवन्तस्तिष्ठन्ति” हितो०। ३ पोष्यवर्गे च”। “विषं गोष्ठी दरिद्रस्य” चाणक्यः। ४ समूहे गोष्ठशब्दे उदा०। सभायाम् अस्य पुंस्त्वमपि। “समुच्छ्रयान् पर्वतसन्निराधान् गोष्ठान् हरीणां गिरिसेतुमालाः। भा० व० १७७ अ०।

गोष्ठीपति = पु० ६ त० १ बहुपोष्यवर्गपालके २ सभापतौ च।

गोष्ठेक्ष्वेडिन् = पु० गोष्ठे क्ष्वेडते क्ष्विड–स्नेहे णिनि पात्रे समि० नि०। प्रगल्भे। युक्तारोह्या० आद्युदात्ततास्य। एवं गोष्ठेगल्भ गोष्ठेपटु गोष्ठेपण्डितः गोष्ठेशूरः गोष्ठेविजित इत्येतेऽपि पात्रेसमिता नि०। सभाप्रगल्मे सभाकुशले। पूर्ब्बवत् आद्युदात्तताचैषाम्।

गोष्ठेशय = पु० गोष्ठे गोस्थाने शेते शी–अच् अलुक् स०। गोव्रतार्थं गोष्ठशयनकारके। “पञ्चगव्यं पिबेत् गोघ्नो मासमासीत संयतः। गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति” याज्ञ०।

गोष्ठ्य = त्रि० गोष्ठे भवः यत। १ गोष्ठे भवे। २ रुद्रभेदे पु०। “नमोव्रज्याय च गोष्ठ्याय च” यजु० १६। ४४।

गोष्पद = न० गोः पदम्, गावः पद्यते यस्मिन् देशे वा “गोष्पदं सेवितासेवितप्रमाणेषु” पा० सेवितादौ षुट्। गोः पदजाते १ गर्त्ते, २ गोपदप्रमाणे च। ३ गोभि सेवितदेशे ४ तदसेविते वनादौ च। “बाहुभ्या सागरं तीर्त्त्वा लङ्घितुं गोष्पदं लघु” रामा० ल० ६९ स०। “भीष्मद्रोणार्ण्णवं तीर्त्वा कर्णपाताल (बडवानल) सम्भवम। मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्” भा० श० ७ अ०। ५ प्रभांसक्षेत्रस्थे तीर्थभेदे। तत्स्थानादि स्क० पु० प्रभा० “इयं सरस्वती पुण्या सर्वदैव हि विद्यते। पञ्चस्रोताः प्रभासे तु दुष्प्रापा त्रिदशैरपि। तस्या यत्पञ्चमं स्रोतो न्यङ्कुमत्यास्तटानि च। तम्य मध्ये स्थितं तीर्थं गोष्पदेति च विश्रुतम्” “पापिनां मुक्तिदं तीर्थमाद्या रुद्र गया स्मता। तदास्मिन् गोष्पदं नाम कलौ ख्यातं धरातले। यदा क्षीरोदमथनात् प्रसूता लोकमातरः। तदा देवि! समन्तात्तु ता गतास्तीर्थसन्निधौ। पदं तत्र निमग्नं च नन्दिन्याश्च शिलांतले। शिलां खुराङ्कितां दृष्ट्वा जानुदेशाङ्कितां तथा” इत्युपक्रमे देवान् प्रति नन्दिनीवाक्यम्। “इदं मम पदं देवाः! शिलासंस्थं विराजते। गगनाङ्गणभूमिस्थं चन्द्रविम्बमिवा परम्। अद्य प्रभृति भो देवा! स्त्रैलोक्ये सचराचरे। गोष्पदं नाम विख्यातं लोके ख्यातिं गमिष्य ति”।

गोस = पु० गां जल स्यति सो–क। १ बोले २ उष्णकाले ३ विभाते मेदि०।

गोसङ्ख्य = पु० गाः संचष्टे सम् + चक्ष–अच्। गोपे। अमरः “गोसङ्ख्य आसं कुरुपुङ्गवानाम”। “तेषां गोसङ्ख्य आर वै तन्त्रिपालेति मां विदुः” इति च भा० वि० १० अ०।

गोसत्र = पु० गोभिः कृतं सत्रम्। गवामयनाख्ये सत्रभेदे “गावो वा एतत् सत्रगासत” ता० व्रा० ४, १, १, गवामयन शब्दे विवृतिः।

गोसदृक्ष = पुंस्त्री गोः सदृक्षः। गोतुल्ये गवये हेम०। २ जात्यादिना गोतुल्ये त्रि०। गोसदृशादयोऽपि तत्रार्थे।

गोसनि = पु० गां सनोति सन–इण् ६ त० पूर्व्वपदात् वा षत्वे पाप्ते सवना० न षत्वम्। गोदातरि गोषणिशब्दे उदा० दृश्यम्। “गोसनिं वाचमुदेयम्” अथ ३। २०। १०।

गोसम्प्रदाय = त्रि० गां सम्प्रददाति सम् + प्र + दा–“आतोऽनुपसर्गे” पा० अनुपसर्गैत्युक्तेः न कः किन्तु अण्। गोसंप्रदातरि।

गोसम्भवा = स्त्री गोरिव सम्भवो लोमादिरूपाकारो यस्याः। १ श्वेतदूर्वायां राजनि०। २ गोजाते त्रि०।

गोसर्ग = पु० गावःसृज्यन्तेऽत्र काले सृज–आधारे घञ्। गवां वनगमाय मोचन काले सूर्य्येण किरणानां त्यागकाले १ प्रातःकाले “गोसर्गे चार्द्धरात्रे च तथा मध्यन्दिनेषु च” सुश्रु०।

गोसर्प = पुंस्त्री गोरिव चतुश्चरणवत्त्वात् सर्पः। (गोसाप्र) ख्याते गोधाख्ये जन्तौ।

गोसव = पु० गौः सूवते हिंस्यतेऽत्र सू–हिंसायाम् आधारे अप् पूर्ब्बपदात् वा न षत्वम्। गोसत्राख्ये यज्ञभेदे “स्वर्जिता गोसवेन वा” हेमा० दा० लिङ्गपु०। तत्कर्त्तव्यता च कात्या० श्रौ० २२, ११, ३ सूत्रादौ उक्तं यथा “ऋषभगोसवौ” १ सू० “ऋषभोगोसवश्च क्रतू भवतः” कर्कः “पूर्वो राज्ञः” २ सू० “पूर्वः ऋषभसंज्ञको राज्ञः” कर्कः “दक्षिणा ऋषभसहस्रं द्वादशं वा शतम्” ५ सू० “विकल्पेन ऋषभसंज्ञक ऋषभाणां सहस्रं, द्वादशाधिकं शतं वा” (दक्षिणा) कर्कः। “उक्थ्यो गोसवोऽयुत दक्षिणः” ६ सू०। गोसवसंज्ञः क्रतुरुक्थसंस्थो भवति अयुतदक्षिणश्च कर्कः। “वैश्ययज्ञ इत्येके” ७ सू० मन्यन्ते। “सर्वेषामित्यपरे” ८ सू०। सराजानो विशो यं पुरस्कुर्वीरन् स एतेन यजेत” ९ सू०। “राज्ञा सहिता विशः प्रजाः सर्थे पुरुषा यं पुरस्कुर्वीरन् मुख्यत्वेनाङ्गीकुर्वीरन् स गोसवेन यजेत”। आस्थण्डिलेऽमिषिच्यते” १० सू०। “प्रतिदुराहवनीयस्य दक्षिणतः” १ सू०। “स्थितः आगान्तुकत्वादन्ते। आहवनीयात् दक्षिणस्यां स्थण्डिले उपविष्टो यजमानः प्रतिदुहाधारोष्णेन दुग्धेनाभिषिच्यते “संस्थपतिरित्येनं ब्रूयुः “गोसबयाजिनं जनाः” कर्कः। “वैश्यस्तीम दक्षिणा- लिङ्गो मरुत्स्तोमोगणयज्ञो भ्रातॄणां सखीनां वा २२ सू०। वैश्यस्तोमदक्षिणायां यानि लिङ्गानि तान्यत्रापि भवन्ति” कर्कः। गां स्वर्गं सुनोति अच् षत्वम् “दातुः स्वर्गदातरि” “तिलोऽसि सोमदैवत्यो गोषवो देवनिर्म्मितः” तिलदानमन्त्रः।

गोशशस् = पु० गवि जले शशति शश–बा० असच् ७ त०। वोले रायमुकुटः।

गोसहस्र = न० गवां सहस्रं दातव्यतया यत्र। तुलापुरुषादिषोडशमहादानान्तगते पञ्चमे महादानभेदे “अथातः संप्रवक्ष्यामि महादानानुकीर्त्तनम्”। “यत्तत् षोडशधा प्रोक्त’ वासुदेवेन भूतले” इति चोपक्रम्य “कल्पपाद पदानञ्च गोसहस्रं च पञ्चमम्” इत्युक्त्वा तद्दान प्रकारः हेमा० दा० मत्स्य पु० उक्तो यथा “मत्स्य उवाच। अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। गोसहस्रप्रदानाख्यं सर्वपापहरं परम्। पुण्यं तिथिमथासाद्य युगमन्वन्तरादिकम्। पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा। लोकेशावाहनं कुर्य्यात् तुलापुरुषदानवत्। पुण्याहवाचनं कुर्य्याद्धोमः कार्य्यस्तथैव च। ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम्। वृपं लक्षण संयुक्तं वेदिमध्येऽधिवासयेत्। गोसहस्राद्विनिष्कृष्य गवां दशकमेव”। पयोव्रतस्त्रिरात्रमिति दोनदिनात् पूर्वं त्रिरात्रं पयोव्रतः स्यादित्यर्थः, अत्रादिशब्देन देशकाल–वृद्धिश्राद्ध–शिवादिपूजा–गुर्वृत्विग्वरण–मधुपर्कदान–कुण्डवेदिवितान–चक्रलेखनपताकादीनि मत्स्यपुराणोक्ततुलापुरुषदाने विहितानि गृह्यन्ते। वृषं लक्षण संयुक्तं, वृषलक्षणानि, “उन्नतस्कन्धककुदम् उज्ज्वलायत कम्बलम्” इत्यादीनि वृषोत्सर्गप्रकरणे मत्स्यपुराणोक्तान्येव वेदितव्यानि, गोसहस्राद्विनिष्कृष्येति दशोत्तरगोसह स्रादिति वेदितव्यम्, अग्रे दशाधिकगोसहम्रविनियोगदर्शनात्। यद्यपि गवां दशकमित्यत्र गोमात्रप्रतीतिः तथापि उत्तस्त्र “ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेदिति” धेनुसंशब्दनात्, पुराणान्तरे “गोसहस्राद्विनिष्कृष्य सवत्सं दशकं गबामिति” श्रवणाच्चधेनुदशकमेवाधिवासनीयम्। इतरत्र पुनर्नावश्यं धेनुरूपत्वादरः। “गोसहस्रं बहिः कुर्य्याद्वस्त्रमाल्यविभूषितम। सुवणशृङ्गाभरण रौप्यपादसमन्वितम्। अतः प्रवेश्य दशक वस्त्रमाल्यैस्तु पूजयेत्। सुवर्ण–वण्टिकायुक्तं ताम्रदोहनिकान्वितम्। सुवर्णतिलकोपेतं हमपट्टैरलङ्कृतम्। कौशेयवस्त्रसंवीतं मात्यगन्ध- समन्वितम्। हेमरत्नयुतैः शृङ्गैश्चामरैश्चापि शोभितम्। पादुकोपानहच्छत्रभाजनासनसयुतम्। “दशसौवर्णिके शृङ्गे, खुराः, पञ्चपलास्तथा”। पञ्चाशत्पलमितोदोहनकः अन्यत्र तथाभिधानात् षण्टिकादौ सुवर्णशब्दोऽत्र षोडशमाषपरिमितहिरण्यवचनः, सकृदुच्चरितसुवर्णशब्दावगतपरिमाणपरित्यागानुपपत्तेः। पादुके काष्ठमय्यौ, चर्म्मकृते उपानहाविति भेदः। “गवां दशकमध्ये स्यात् काञ्चनो नन्दिकेश्वरः। कौशेयबस्त्रसंवीतो नानाभरणभूषितः। लवणद्रोणशिखरं-माल्येक्षुफलसंयुतः। कुर्य्यात् पलशतादूर्द्धं सर्वमेतदशेषतः। शक्तितः फलसाहस्रत्रितयं यावदेव तु। गोशते वै दशांशेन सर्वमेतत् प्रकल्ययेत्”। लवणद्रोणशिखरे, लवणद्रोणोपरीत्यर्थः। नन्दिकेश्वरलक्षणं ललितविजयात् “ऊर्द्धस्त्रिनेत्रो द्विभुजः सौम्यास्योनन्दिकेश्वरः। वामे तु शूलभृद्दक्षे चाक्षमालासमन्वितः” इति ऊर्द्ध इति, अशयानानुपविष्ट इत्यर्थः। पलशतादूर्द्धं पलसहस्रत्रितयं यावदिति, साभरणनन्दिकेश्वरविषयमेतत् आनन्तर्य्यात्। गोशते वै दशांशेनेति गोशते देये गामेकामेकञ्च वृषभं वेदिमध्येऽधिवासयेत्। पलशतादूर्द्धं पलशतत्रयं यावदिति साभरणनन्दिकेश्वररचनादिकं कुर्य्यादित्यर्थः। “पुण्यं कालमथासाद्य गीतिमङ्गलनिःस्वनैः। सर्वोषध्युदकस्नानस्नापितो वेदिपुङ्गवैः। इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः”। अत्रापि पूर्ववत् पूर्वेद्युरधिवासनं विधाय द्वितीयदिवसे व्राह्मणवाचनानन्तरमग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुतिपर्य्यन्तं कर्मशेषं गुरुः समापयेत्। ततः पुण्यकालम् आत्मानुकूललग्नमुहूर्त्तादिलक्षणमासाद्य कुण्डसमीपस्थितकलसोदकेन ब्राह्मणैः स्नापितः शुक्लमाल्याम्बरधरो यजमानो वक्ष्यमाणमन्त्रानुदीरयेत्। “नमो वो विश्वमूर्त्तिभ्यो विश्वमातृभ्य एव च। लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमो नमः। गवामङ्गेषु तिष्ठन्ति भुवनान्येकविंशतिः। ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः। गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावः शिरसि मे नित्यं गवां मध्ये वसाम्यहम्। यस्मात् त्वं वृपरूपेण धर्म एव सनातनः। अष्टमूर्त्तेरधिष्ठानमतः पाहि सनातनः। इत्यामन्त्र्य तु यो दद्याद्गुरवे नन्द्रिकेश्वरम्। सर्वोपकरणोपेतं गोयुगञ्च विचक्षणः। ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेत्। गवां च शतमथैकैकं तदर्द्धं चाथ विंशतिम्”। दश पञ्चाथवा दद्यादन्ये- भ्यस्तदनुज्ञया”। दानवाक्यमत्र तुलापुरुषवद्वेदितव्यम्, एते च शतप्रभृति पञ्चपर्य्यन्ता विकल्पा ऋत्विग्विषया नदानन्तर्य्यात् ततश्चायमर्थः सिद्धो भवति गोदशकमध्यान्नन्दिकेश्वरयुतं गोयगं गुरवे प्रतिपाद्य शेषाणामष्टानाङ्गवामेकैकामेकैकस्मै ऋत्विज दद्यात्, तथा गोसहस्रमध्यात् शतद्वयं गुरवे प्रदाय एकैकं शतमृत्विग्भ्यो दद्यात्, अथ वा शतं गुरवे पञ्चाशतं पञ्चशतमृत्विग्भ्यः, अथ वा चत्वारिंशतं गुरवे विंशतिं विंशतिमृत्विग्भ्यः। विंशतिं, वा गुरवे दश दशर्त्विग्भ्यः, दश वा गुरवे पञ्च पञ्चर्त्विग्भ्यो दद्यात् शेषा गास्तदनुज्ञया अन्येभ्योऽपि दद्यात्। दक्षिणाञ्चात्र पूर्ववदेव दद्यात् अनुक्तदक्षिणासु सुबर्ण्णः दक्षिणेति वचनात् यथाशक्ति सुवर्णं वा। ततः पूर्ववदेव पुण्याहवाचन–देवतापूजन–विसर्जनादि कुर्य्यात्। “नैका बहुभ्यो दातव्या यतो दोषकरी भवेत्। बह्व्यश्चैकस्य दातव्या श्रीमतारोग्यवृद्धय। पयाव्रतः पुनस्तिष्ठेदेकाहं गोसहस्रदः”। इदञ्च पयोव्रतानुष्ठानं, शक्त्यपेक्षम् “अशक्तौ नक्तमिष्यते” इति वचनात्। “श्रावयेत् शृणुयाद्वापि महादानानुकीर्त्तनम्। तद्दिनं ब्रह्मचारीस्याद्यदीच्छेद्विपुलां श्रियम्”। आथर्वणगोपथब्राह्मणे “अथातो गोसहस्रविधिर्गोष्ठ उदकान्ते शुचौ देशे प्राञ्चमिध्ममुपसमाधाय अन्वालभ्याथ जुहुयात्, आ गावसूक्तेनाद्यं जुहुयात्, महाव्रीहीणामैन्द्रञ्चरु सौम्यञ्च सहस्रं तस्याः पयसि श्रपयित्वा गाव इति, एवमुभय इत्येतेन जुहुयात् पश्चादग्नेस्तीर्थोदकपूर्णकलसमवस्थाप्याहिसंवोगोष्ठेनेति दश गाः स्नापयेत् त्वरमाणोऽन्याः समभ्युक्ष्य सहस्रं, तस्याः स्नानोदकेनेममिन्द्रं वर्द्धय क्षत्रियं म इति, राजानममिमिच्येमा आप इति, षड्भिर्यथोक्तमञ्जनाभ्यञ्जनानुलेपनं कृत्वा सहस्रतमीं प्रथमामलंकृत्य गावो मामुपतिष्ठत प्रजावती सूयवासादिति च पर्य्यासयेत् प्रियमशनन्दत्त्वा द्विवृणमघ्न्य इति सहस्रतमीमालभ्य जपेत् मया गावः पतिना सबद्धमिति मन्त्रेणानेनार्धं दत्त्वा सहस्रतमीं पुनरुप संगृह्य भूमिष्ट्वा प्रतिगृह्णात्विति जपेत् सहस्रं, तस्याः पृष्ठतो व्रजन् सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्ति वाच्य व्राह्मणेभ्यो निवेद्य दश गा दक्षिणाः कर्त्रे सहस्र तमीं वस्त्रयुग्मञ्च तदपि। सप्तजन्मानुगं पापं पुरुषै सप्तभिः कृतम्। तत्क्षणात् विधिनानेन नाशयेद्गोप्रदो नरः। सर्वेषामिह दानानां फलं यत् परिकीर्त्तितम्। तदवाप्नोति विप्रेभ्यो गोसहस्रप्रदोनरः। अश्वमेधं वृषोत्सर्गं गोसहस्रत्रयन्तु यः। दद्यान्मोक्षाय इत्याहुः पितरस्तर्पयन्ति हि। तस्मादनेन विधिना गोसहस्रन्तु योनरः। प्रदद्यात् स विशुद्धात्मा याति तत् परमं पदमिति”। मत्स्यपुराणे “अनेन विधिना यस्तु गोसहस्प्रदोभवेत्। सर्वषापविनिर्मुक्तः सिद्धचारणसेवितः विमानेनार्कवर्णेन किङ्किणीजालमालिना। सर्वेषां लोकपालानां लोके संपूज्यते सुरैः। प्रतिमत्वन्तरं तिष्ठेद्राजराजो भवेत् पुनः। अश्वमेधशतं कुर्व्याच्छिवध्यानपरायणः। वैष्णवं लोकमास्थाय ततो मुच्येत बन्धनात्। पितरश्चाभिनन्दन्ति गोसहस्रपदं शुभम्। अपि स्यात्स कुलेऽस्माकं पुत्रोदौहित्र एव च। गोसहस्रप्रदो भूत्वा नरकादुद्धरिष्यति। स यस्तत्कर्मकरो वा स्यादपि द्रष्टा तथैव च। संसारसागरादस्मादस्मान् सन्तारयिष्यति। इति पठति य एतद्गो–सहस्रप्रदानं सुरभुवनमुपेयात्संस्मरेद्वापि पश्येत्। अनुभवति सुखं वा बाच्यमानो निकामम् प्रहतकलुषदेहः सोऽपि यातीन्द्रलोकम्”। अन्यपुराणोक्तस्तद्विधिस्तत्रैव दृश्यः। ६ त०। २ गवां सहस्रे च। गोसहस्रं तद्दानफलं विद्यतेऽत्र अच्। गौरा० ङीष्। ३ सोमवारयुतायाम् ४ मङ्गलवारयुतायां वा। अमाख्यायाम् स्त्री। जाह्नवीस्नाने तस्यास्तथापुण्यजनकत्वमुक्तं ति० त० व्यासेन “अमावास्यां भवेद्वारी यदि भूमिसुतस्य च। गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी। सिनीवानी कुहूर्वापि यदि सोमदिने भवेत्। गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम”।

गोसाद = त्रि० गां सादयति सद–णिच् अण् उप० स०। गोचालके गोसारथौ “गौः सदसादिसारथिषु” पा० पूर्ब्बपदप्रकृतिस्वरः।

गोसादिन् = त्रि० गां सादयति सद–णिच्–णिनि ६ त०। गोसारथौ। गोसादवत् पूर्व्वपदे प्रकृतिस्वरः।

गोसारथि = पु० ६ त०। गोचामके सारथौ गोसादवत् पूर्ब्बपदे प्रकृतिस्वरः।

गोस्तन = पु० गोः स्तन इव गुच्छो यस्य। १ चतुर्यष्टिकहारे अमरः। ६ त०। २ गोःस्तने च “करीरपनसास्थि गोस्तनाकाराणि” “सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्” सुश्रु०।

गोस्तना(नी) = स्त्री गोः स्तनैव फलमस्याः स्वाङ्गत्वात् वा ङीष्। १ कपिलद्राक्षायामसर टावन्तः गोः स्तनाइव स्तना अस्याः ङीष्। २ कुमारानुचरमातृभेदे। “शृणु मातृगणान् राजन्! कुमारानुचरानिमान्” इत्युपक्रमे” प्रभावती विशालाक्षी पालिता गोस्तनी तथा” भा० श० ४७ अ०।

गोस्तोम = पु० गोनामकः स्तोमः पूर्व्वपदात् वा षत्वाभावः। एकाहसाध्ये अग्निष्टोमाङ्गे यज्ञभेदे। “गोस्तोमभृमिस्तोमवतस्पतिसवानाम्” आश्व० श्रौ० ९। ५। २। “गोस्तोमो भूमिस्तोमोवनस्पतिसव इति त्रयः एकाहाः कर्त्तव्याः” नारा० दृ०। गोष्टोमशब्दे विवृतिः।

गोस्थान = न० ६ त०। गोष्ठे अमरः “मध्ये गोस्थानसङ्कुलम्” हरिवं० ६१ अ०। स्वार्थे क। तत्रार्थे।

गोस्वामिन् = ६ त०। गवां स्वामिनि। “तावत् भूयो वा गोस्वामिने दत्त्वा” कात्या० श्रौ०। १५। ६। १२। “गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः” मनुः। “प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतमुत्तमम्” पराशरः। गवामिन्द्रियाणां स्वामी। ३ जितेन्द्रिये यतीनामुपाधिभेदे। वोपदेवगोस्वामी रूपगोस्वामी।

गोह = पु० गुह्यतेऽत्र गुह–घञ् बा० ऊत्त्वाभावः। गेहे “अद्रिमौशिजस्य गोहे” ऋ० ४, २१, ६। “गुहा यदीमौशिजस्य गोहे” ७ “विदद् गौरस्य गवयश्च गोहे” ८ “गोहे गृहे” भाष्यम्। तस्यादूरभवोदेशः सुवास्त्वा० अण्। गौह गेहाद्ररभवे त्रि० स्त्रियां ङीप्।

गोहत्या = स्त्री ६ त०। गोहनने। प्राणवियोगफलकव्यापारोहननम् यथाह वह्निपु० “स्यात् प्राणवियोगफलकव्यापारोहननं स्मृतम्। रागात् द्वेषात् प्रमादाद्वा स्वतः परत एव वा”। हत्याया ज्ञानाज्ञान कृतत्वं च प्रा० त० न्यरूपि यथा “अथ ज्ञानकृतादिनिरूपणम्। तत्र गोबधस्य बुद्धिपूर्वकत्वं तदा भवति, यदि गां ज्ञात्वा एतां हन्मीति इच्छया हन्ति, तदा कामनाद्वारैव ज्ञानस्य प्रवृत्त्यङ्गत्वात्, तद भावे त्ववुद्धिपूर्बकत्वम्। अतएव प्रवृत्त्यङ्गज्ञानस्य कामनाव्यभिचाराभावादेव “कृच्छांस्तु चतुरः कुर्य्यात् गोबधे बुद्धिगूर्वके। अमत्या च द्वयं कार्य्यम्, इति विश्वामित्रवचने ज्ञानाज्ञानाभ्यां द्वैविध्यमुक्तम् अन्यत्र कामाकामाभ्यामित्युक्तम् यथा वृहस्पतिः “कामाकामकृ तं त्वेवं महापाप द्विधा मतम्। पुरुषापेक्षंया चैव निष्कृतिर्द्विविधा स्मृता”। इत्थञ्च गवयादिभ्रमेण योगोबधस्तत्र बधस्य न ज्ञानकृतत्व गोत्वेनाज्ञानात्। गोत्वेन गां जानन्नप्यन्योद्देशक्षिप्तनाराचादिना यदि हन्ति तदापि न ज्ञानकृतत्वं तद्विषयकहननेच्छारूपद्वाराभावात्”। तत्र साक्षात् परम्पराकृतव्यापारभेदः मिता० उक्तो यथा “साक्षात्कर्वृ निमित्तिनोश्च भेदस्तेनैव दर्शितः “पाषाणैर्लगुडैर्वापि शस्त्रेणान्येन वा बलात्। निपातयन्ति येगास्तु कृत्स्नं कुर्युर्व्रतंहि ते। तथैव बाहुजङ्घांसपार्श्वग्रीवादिमोटनैरिति”। एतदुक्तम्भवति। पाषाणलगुडादिभिर्ग्रीवादिमोटनादिना वा ये गां निपातयन्ति। ते साक्षाद्धन्तारस्तेष्वेव कृत्स्नं प्रायश्चितम्। ये तु व्यवहित रोधबन्धादिव्यापारयोगिनस्ते निमित्तिन स्तेषां न कृत्स्नव्रतसम्बन्धः किन्तु तदवयवैरेव पादद्विपादादिभिरिति तत्रावरोधादीनां व्यवहितव्यापारत्वाविशेषेऽपि वचनात् क्वचित्पादः क्वचिद्द्विपादः पादोनं क्वचिदिति” युक्तम्। तस्याः शोधकं प्रायश्चित्तं खामिभेदाद्भिन्नं प्रा० त० उक्तं यथा तत्र ब्राह्मणस्यामिकस्य गोर्वधे मानवं प्रायश्चित्तं तच्च गोघ्नशब्दे दर्शितं तत्र सप्तदश धेनवः तन्मूल्यं वा। क्षत्रियस्वामिकस्य गोर्बधे देवलोक्तं तच्च तत्रैवोक्तं यथा “गोघ्नः षण्मासान् तच्चर्मणा परिवृतो गोग्रासाहारो गोव्रती यवाशी गोभिरभिसञ्चरन् विप्रमुच्यते”। गोग्रासाहारो गोग्रासाहर्त्ता “कर्मण्यण्” इति साधुः। षण्मासयावकभक्षणं द्वादशप्राजापत्यतुल्यंदक्षिणा च विशेषानुपदेशाद् यथाशक्ति देयेति। एतज्ज्ञानादज्ञानात्तदर्द्धं स्त्रीशूद्रवालवृद्धानामर्द्धम् एकस्योभयपरत्वे पादः। वैश्यसम्बन्धिनो गोर्बधे तु शातातपः “पञ्चगव्येन गोघाती मासैकेन विशुध्यति। गोमतीञ्च जपेद्विद्यां गवां गोष्ठे च संवसेत्”। पञ्चगव्यमाह शातातपः “गोशकृत् द्विगुणं, सूत्रं सर्पिर्विद्याच्चतुर्गुणम्। क्षीरमष्टगुणञ्चैव पञ्चगव्ये तथा दधि” तथाऽष्टगुणम्। यमः “आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च। प्रणवेन समालोड्य प्रणवेनैव तत्पिबेत्”। उत्थाष्य मिश्रीकृत्य। “मन्त्राज्ञाने मिताक्षरायां षट्त्रिंशन्मतम् “जपहोमादि यत्किञ्चित् कृच्छ्रोक्तं सम्भवेन्न चेत्। सर्वं व्याहृतिभिः कुर्य्यात् गायत्र्या प्रणवेन च”। गवां गोष्ठ इति श्रवणकुण्डलबत् तातकालिकगोसत्त्वावबोधाय। गोमती जपसहितमासपञ्चगव्यपानं प्राजापत्यपञ्चकतुल्यम्। एतदज्ञानकृते ज्ञानकृते तु द्वैगुण्यम्। स्त्रीशूद्रबालवृद्धानामर्द्धम् एकस्योभयधर्मपरत्व पादः। शूद्रसम्बन्धिनोगोर्वधे तु विश्वामित्रः “कृच्छ्रास्तु चतुरः कुर्य्यात् गोबधे बुद्धिपूर्वके। अमत्या च द्वयं कार्य्यं तदर्द्धं बाल वृद्धयोः। स्त्रीशूद्रयोरेवमेतद्बधे चैव न संशयः”। कृच्छ्रान् प्राजापत्यानि। तच्चतुष्टयाशक्तौ चतस्रोधेनवः द्वादश कार्षापणा वा। एतज्ज्ञानकृते अज्ञाने तदर्द्धंस्त्रीशूद्रबालवृद्धानामर्द्धम्। एकस्योभयधर्म्मपरत्वे पादः। प्रा० त० रघु०। स्वामिकृतविशेषस्तु प्रायश्चित्तविवेकानुसारादुक्तः। गर्भिण्यादौ तु विशेषमाह वृहस्पतिः “गर्भिणीं कपिलां दीग्ध्रीं होमधेनुञ्च सुव्रताम्। रोधादिना घातयित्वा द्विगुणं गोव्रतञ्चरेत्”। गर्भिणीवधे तु विशेषमाह वृद्धयमः “गवां निपतने चैव गर्भनाशोयदा भवेत्। एकेकत्र चरेत् कृच्छ्रं यथापूर्वं तथा परम्”। कृच्छ्रपदं व्रतपरम् द्विगुणं गोव्रतमित्येकवाक्यत्वात् “पादमुत्पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते। पादोनं व्रतमाचष्टे हत्वा गर्ममचेतनम्। अङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतःसमन्विते। द्विगुणं गोव्रतं कुर्य्यात् प्रायश्चित्तं विशुद्धये”। मध्यमवचनं भवदेवेन व्याख्यातम् यथा “यदि लगुडाद्यभिघातेन गौर्जीवति गर्भमात्रपातो भवति तदोत्पन्नगर्भमात्रपाते यथोक्तप्रायश्चित्तपादाचरणम्। गात्रावयवात्पत्तौ प्रायश्चित्तपादद्वयं सकलगात्रसम्पत्तौ चैतन्याभावे प्रायश्चित्तमूहनीयम्”। मिताक्षरायान्तु गर्गीणीबधे यदा गर्भोऽपि निहतोभवति तदा प्रतिनिमित्तं नैमित्तिकमावर्त्तत इति न्यायादविशेषेण द्विगुणव्रतप्राप्तौ षटत्रिंशन्मते विंशेषोक्तेः “पादौत्पन्नमात्रे तु द्वौ पादौ दृढतां गते। पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम्। अङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतःसमन्विते। द्विगुणं गोब्रतं कुर्य्याद्देषा गोघ्नस्य निष्कृतिः”। दोग्धीं बहुक्षीराम्। वृहस्पतिः “अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीम्। हत्वा पूवीविधानेन चरेदर्द्धं व्रतं द्विजः”। पूर्वविधानेन मन्वाद्युक्तत्रैमासिकादिना अतिवृद्धा तृणच्छेदनासमर्था अतिकृशा कृशत्वेन दोहनवाहनायोग्या अतिबाला वर्षपर्य्यन्तं बाला तदतिक्रान्ता द्विवर्षीया। तथा च वृहदङ्गिराः “वर्षमात्रा तु बाला स्यादतिबाला द्विवार्षिकी। अतःपरन्तु सा गौः स्यात्तरुणी दन्तजन्मनि”। अतएव वक्ष्यते द्विपादस्तु द्विहायने” इति संवर्त्तः। “व्यापन्नानां बहूनाञ्च बन्धने रोधनेऽपिवा। मिषङिमथ्योपचारे च द्विगुणं गोव्रतञ्चरेत्। एकप्रयत्ने निष्पन्ने बहूनां गवा वधे प्रायश्चित्तगौरवमुक्तं न तु तन्त्रता पापभेदाभावात् एकप्रयत्नजन्यत्वेनैकमेव गुरुतरं पापमिति प्रायश्चित्तमपि तथा। बहूनामित्येकाधिकपरम्। तद्विवक्षायामपि गोद्वयबधे प्रयत्नाभेदेऽपि विशेषवचनाभावात् प्रायश्चित्तद्वैगुण्यं युक्तम्। अपिशब्दात् गृहदाहादिना। क्रमकृते तु प्रायश्चित्तावृत्तिः। यथोपपातकानुवृत्तौ यमः “गोघ्नवद्विहितः कल्पश्चान्द्रायणमथापि वा। अभ्यासे तु तयोर्भूयस्ततःशुद्धिमवाप्नुयात्”। तयोर्गोबधतदन्योपपातकयोः। संवर्त्तापस्तम्बौ “एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता भवेत्। पादं पादञ्च हत्यायाश्चरेयुस्ते पृथक् पृथक्”। हत्याया यत्र यद्विहित व्रतं तत्र तस्यैव पादं प्रत्येकं कुर्य्युः। एकेत्युपलक्षणम् अतोबहुभिर्द्वयोर्बहूनाञ्च हनने प्रतिपुरुषं पादद्वयं त्रयं वा कल्पनीयमिति मिताक्षरा। वस्तुतस्तु एकाधिकानामेकैकपुरुषस्यैकप्रयत्न जन्यवधे “व्यापन्नानां बहूनामिति” पूर्वोक्तवचनात् एकैकपुरुषस्य द्विपादं प्रायश्चित्तम् प्रयत्नभेदे तु गोघ्नवदित्यनेन तन्त्रताया अभावात् प्रत्येकं प्रतिपुरुषं द्विपादावृत्तिरिति। एतच्चाकामतोबधे द्रष्टव्यम् दैवादिति विशेषोपादानात् कामकृते तु बहूनामपि प्रत्येकं कृत्स्नदोषसम्बन्धात् पूर्णप्रायश्चित्तं युक्तं सत्रिणां फलमिव प्रतिपुरुषं कृत्स्नव्यापारसमवायात्। “एकं घ्नतां बहूनाञ्च यथोक्ताद्घिगुणोदमः” इति प्रत्येकं दण्डद्वैगुण्यदर्शनाच्चेति मिताक्षरा। वस्तुतस्तु सर्वत्र पापे “स्यात्त्वकामकृते यत्तु द्विगुणं बुद्धिपूर्वके” इत्यङ्गिरोचनेनाज्ञानात् ज्ञाने द्वैगुण्यदर्शनादत्रापि ज्ञाने द्विपादएव युक्तः। सत्रे तु “सप्तदशावराऋद्धिकामाः सत्रमुपासीरन्निति” श्रवणात्तथेति। एकं घ्नतामिति परवचनन्तु गोबधातिरिक्तविषयम् गोबधे एका चेदित्युपदेशेन दण्डवत् प्रायश्चित्तानि भवन्तीत्यतिदेशानवसरात्। तदवसरत्वे प्रत्येकं पूर्णप्रायश्चित्तद्वैगुण्यं स्यात् न पूर्णप्रायश्चित्तमात्रम् अतएव प्रायश्चित्तविवेके “एकं घ्नतां वहूनामिति” मनुष्यवधे उक्तम्। बहुभिरित्युपादानात् द्वाभ्यां हनने तु प्रत्येकं सम्पूंर्णप्रायश्चित्तम्”। अथैकहायनादिगोबधप्रायश्चित्तम् वृद्धप्रचेताः “एकवर्षे गवि हते कृच्छ्रपादो विधीयते। अबुद्धिपूर्वं पुंसः स्यात् द्विपादस्तु द्विहायने। त्रिहायणे त्रिपादः स्यात् प्राजापत्यमतःपरम्”। इदमपि प्रायश्चित्तलाघवेन अबुद्धिपूर्वकाधमशूद्रस्वामिकब्रधविषयमिति प्रायश्चित्तविवेकः। तेन यत् स्वामिकबधे यत् प्रायश्चित्तं तस्यैव तत्र प्रादादिकमू- हनीयमतएवातिबालामित्यत्र तथैवोक्तम्। अतःपरं चतुर्हायणे इत्यर्थः। बुद्धिपूर्वे एतदेव द्विगुणमित्यर्थः” प्रा० त० रघुः। अपालननिमित्तगोबधप्रायश्चित्तम् प्रा० त० उक्तं, यथा पराशरः “शीतानिलहता चैव उद्बन्धनमृतापि वा। शून्यागाराद्युपेक्षायां प्राजापत्यं विनिर्दिशेत्। अपालनात् प्रणश्येत्तु गौश्चरन्ती कथञ्चन। जलौघपल्वले मग्ना नागविद्युद्धतापि वा। श्वभ्रे वा पतिताऽकस्मात् श्वापदैर्वापि भक्षिता। प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतमुत्तमम्। सशिखं वपनं कार्यं त्रिसन्ध्यमवगाहनम्। शृङ्गैर्वापि खुरैर्युक्तं लाङ्गूलश्रवणादिभिः। आर्द्रमेव हि तच्चर्म परिधाय स गां व्रजेत्। तासां मध्ये वसेद्रात्रौ दिवा ताभिः समं व्रजेत्। ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः। प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम्। अनडुत्सहितां गाञ्चदद्याद्विप्राय दक्षिणाम्”। अत्र गोस्वामीत्यभिधानात् उत्सृष्टवृषवत्सतरीषु स्वत्वाभावादपालननिमित्तकतद्बधे तदुत्स्रष्टुर्दोषोनास्तीति प्रतीयते। तत्स्वत्वाभावेनान्येषां स म्भाव्यमानमौपादानिकस्वत्वं निराकरोति कल्पतरुधृतव्रह्मपुराणम् “अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः। ब्राह्मणानाह, यत् किञ्चित् मयोत्सृष्टन्तु निर्जने। तत् कश्चिदन्योन नयेद्विभाज्यञ्च यथाक्रमम्। न वाह्यं न च तत्क्षीरं पातव्यं केनचित् क्वचित्”। बक्रोक्तिभिः काकूक्तिभिः स्वाम्यभावेनोत्सृष्टपशोः पालननियमाभावाद्धान्यादिभक्षणे मोच्यत्वमप्याह याज्ञवल्क्यः “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः। पालोयेषाञ्च ते मोच्या दैवराजपरिप्लुताः”। महोक्षोऽनिर्वाय्यः महावलीवर्द्दः। उत्सृष्टपशवः देवतोद्देशेन पित्रादिनिष्ठफलोद्देशेन वा चक्राद्यङ्कितास्त्यक्तपशवः। सूतिका अनिर्गतदशाहाः। आगन्तुका ग्रामान्तरादागताः। आदिशब्दात् उशनसोक्ताश्च यथा “अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः। अदण्ड्याः काणकुण्ठाश्च वृषभः कृतलक्षणः” कुण्ठः खञ्जः। अत्र काणकुण्ठशब्दाभ्यामत्यन्ताक्षम उच्यते। वृषभःकृतलक्षणः प्रागुक्तोत्सृष्टपशुः एते सपालां विपाला वा सर्वथा मोच्याः तथा च मनुः “अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा। सपालान् वा विपालान् वा अदण्ड्यान् मनुरव्रबीत्”। एतद्भिन्नानां येषाञ्च पालोऽस्ति तेऽपि मोच्याः। अर्थात्तत्र पालोदण्डनीयः। दैवराजपरिप्लुताः गजादिद्रावणात् सेनादिदर्शनाद्वा पलायिताः पशवो यदि क्षेत्रे चरन्ति तदा न दोष इत्यर्थः। पलकान्तरसत्त्वे तु मनुः “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे। योगक्षेमेऽन्यथा चेत्तु पालोवक्तव्यतामियात्”। “दिवा पशूनां पालहस्तन्यस्तानां योगक्षेमविषये दोषे जाते पालकस्य गर्हणीयता रात्रौ पुनः पालप्रत्यर्पितानां स्वामिनां दोषः। अन्यथा यदि रात्रावपि पालहस्तगता भवन्ति तदा दोषे उत्पन्ने पाल एव गर्हणीयतां प्राप्नोति” इति कुल्लूकभट्टः। स्मृतिसागरे वृहदङ्गिराः “अनागतस्य चानेता आगतस्य च रक्षकः। रात्रावपि यदान्योऽस्ति तदा स्वामी न दोषभाक्”। ननु दण्डप्रकरणोक्तमनुवचनं प्रायश्चित्ते कथमिति चेन्न। “दण्डवत् प्रायश्चित्तानि भवन्तीति” श्रुतेः तथा व्यवहाराच्च। एवञ्च “यत्रापवर्त्तते युग्यं वैगुण्यं प्राजकस्य च। तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमः” इति मनुवचने “यत्र सारथेरकौशलात् यानमन्यथा गच्छति तत्र हिंसायामसुशिक्षितसारथिनियोगात् स्वामी द्विशतं दण्डं दाप्यः स्यादिति” कुल्लूकभटृव्याख्यानदर्शनात् अयोग्यपालकसमर्पणे स्वामिनो दोषात्तस्यैव प्रायश्चित्तमुक्तम्। “यावत् शस्यं विनश्येत्तु क्षेत्री तावत् फलं लभेत्। पालस्ताड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति” याज्ञबल्क्यवचने गवादिदोषेण यावत् शस्यं विनश्यति तावदेव पालकात् प्राप्तव्यं पालकाशक्तौ पालकस्ताड्यः स्वामी पूर्वोक्तं दण्डादिमर्हतीति दर्शनाच्च। गोबधप्रायश्चित्ते पालकद्रव्यासम्भवे स्वामिना द्रव्यं दत्त्वा प्रायश्चित्तं कारयितव्यं कर्त्तव्यं वा। म्लेच्छपालके स्वयं कर्त्तव्यम्। सशिखवपनमित्यत्र नैंमित्तिकेन सशिखवपनेन “सदा वद्धशिखेन तु” इत्यस्य “गायत्र्या तु शिखां बद्ध्वा नैरृत्यां व्रह्मरन्ध्रवः। जुटिकान्तु ततोबद्ध्वा ततः कर्म समाचरेत्” इति ब्रह्मपुराणोक्तस्य च नित्यस्य बाधोन दोषाय फलचमसेन सोमस्य बाधवत् गोदोहेन चमसस्य बाधवच्च। “सशिखं वपनं कार्यमास्नानात् ब्रह्मचारिणा। इति कात्यायनकृतछन्दोगपरिशिष्टेऽप्येवम्। एतदेकश्रुतिमूलकत्वात् तद्धृतपारस्करीये पर्युप्तशिरसमिति सूत्रेऽपि तथैवार्थः तद्भाष्यकृता हरिशर्मणापि परिसर्वगोभावेनोप्तशिरसं मुण्डितशिरसमिति व्याख्यातम्। न च “एते लूनशिखास्तस्य दशनैरचिरोद्गतैः। कुशाः काशा विराजन्ते वटवः सामगा इव” इति विष्णुपुराणीये सामगा इति विशेषणान्नान्येषां लूनशिखत्वमिति वाच्यं प्रागुक्तवचनात् सर्वेषां सशिखवपनप्राप्तेः विध्यन्तरकल्पनापत्तेश्च। तृणसागरयोरौपम्यन्तु हरिणसुखहेतुत्वेनाप्युक्तं तयोः सुखहेतुत्वञ्च भक्ष्यत्वेन गायकत्वेनेति शेषः। एवं प्राचीनावीतित्वादिना “सदोपवीतिना भाव्यम्” इत्यस्यापि बाध इति प्रसङ्गादुक्तम्। ब्राह्मणस्य विशेषेणेति ब्राह्मणस्य गवानुगमनं मुख्यम्। एतेनापालनकृतगोबधे पजापत्यं करणीयमिति अत्रेतिकर्त्तव्यतापि प्रजापत्यतुल्येति पण्डितसर्व्वस्वे हलायुधः। वृषभो गौश्च दक्षिणा। ब्राह्मणभोजनं विशेषयति यज्ञपार्श्वः “गर्माषानादिकृत्येषु ब्राह्मणान् भोजयेद्दश”। प्राजापत्यद्वयाशक्तौ धेनुद्वयं तदशक्तौ षट् कार्षापणाः। एवञ्च वृषमूल्यं पञ्च कार्षापणाः गोमूल्यमेकः कार्षापणः। शूलपाणिप्रभृतिभिस्तु इतिकर्त्तव्यतायां विशेषो नादृतः। एतच्च शूद्रस्वामिकेतरबधविषयम् शूद्रस्वामिकस्याज्ञानात् साक्षाद्बधे यत्किञ्चिद्दक्षिणककृच्छ्रद्वयस्य निबन्धृभिर्व्यवस्थापित्वेनापालनकृतबधे तदधिकस्यायुक्तत्वात् वरं तत्तुल्यं कृच्छ्रद्बयं युक्तमुत्पश्यामः। अतएव एतद्विषयएव स्मृतिसागरसारे वृहदङ्गिराः “अरक्षिते तु कूपादौ हते व्याघ्रादिभक्षिते। ब्रतार्द्धमाचरेत् स्वामी रक्षिते नास्ति दूषणम्”। व्रतार्द्धं कामकृतव्रतार्द्धं नास्ति दूषणमिति यदि प्रमत्ता गौर्निवारयन्तं पालमतिक्रम्य गर्त्तकान्तारादौ म्रियते तदा नेत्यर्थः। अन्यत्र सत्येव पालके सम्यक्पालनाभावेन श्वभ्रादौ पाताद्गोर्मरणे प्रायश्चित्तमाह विष्णुः “पल्वलौघवृकव्याघ्रश्वापदादिनिपातने। श्वभ्रोद्बन्धनसर्पाद्यैर्मृते पादोनमाचरेत्। अपालने तु कृच्छ्रं स्यात् शून्यागाराद्युपप्लवे”। पादोनं प्राजापत्यमेव उत्तरवचने कृच्छ्रश्रवणात्। तथा “पादश्चाप्राप्तके देयोवत्से स्वामिन्यरक्षिते”। अप्राप्तके अप्राप्तदम्यावस्थे त्रिहायणपर्य्यन्ते इति यावत्। एवम्भूते वत्सेऽरक्षिते श्वभ्रपातादिना मृते सति स्वामिना प्राजापत्यपादः करणीयः। अत्र पादमात्रप्रायश्चित्तत्वात् बालत्वादिना नानुग्रहः। ततश्चाप्राप्तदम्यावस्थवत्सापालननिमित्तकवधजन्यपापक्षयकाम इति प्रयोज्यम्” आतिदेशिकी गोहत्या बहुविधा यथा “सावित्र्युवाच। विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम्। का वा नृणामगम्या वा को वा सन्ध्याविहीनकः। एतेषां लक्षणं सर्वं वद वेदविदांवर!। यम उवाच, गामाहारं प्रकुर्वन्तं पिबन्तं यो निवारयेत्। याति गोविप्रयोर्मध्ये गोहत्याञ्च लभेत्तु स। दण्डैर्गान्ताडयन् मूढो यो विप्रो वृषवाहकः। दिने दिने गवां हत्यां लभते नात्र संशयः। ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम्। भोजयेद्वृषवाहान्नं स गाहत्यां लभत्ध्रुवम्। वृषलीपतिं याजयेद्योभुङ्क्तेऽन्नं तस्य यो नरः। गोहत्याशतकं सोऽपि लभते नात्र संशयः। पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत्। गृहं विशेदधौताङ्घ्रिः स्नात्वा गोबधमालभेत्। यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङिघ्ररेव च। सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेत् ध्रुवम्। अवीरान्नञ्च योभुङ्क्ते योनिजीवी च ब्राह्मणः। यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम्। पितॄंश्च पर्वकाले च तिथिकाले च देवताः। न सेवतेऽतिथिं योहि स गोहत्यां लभेत्ध्रुवम्। स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या। कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद्ध्रुवम्। गोमार्गखननं कृत्वा ददाति शस्यमेव च। तडागे च तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम्। प्रायश्चित्तं गोबधस्य यः करोति व्यतिक्रमः। अर्थलोभादथाज्ञानं स गोहत्यां लभेत्ध्रुवम्। राजके दैवके यत्नात् गोस्वामी गां न पालयेत्। दुःखं ददाति यो मूढो गोहत्यां लभते ध्रुवम्। प्राणिनं लङ्घयेत् यो दि देवार्च्चामनलं जलम्। नैषेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद्ध्रुवम्। शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः। देवद्वेषी गुरुद्वेषी स गोहत्यां लभेत्ध्रुवम्। देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति!। न सम्भ्रमान्नमेत् यो हि स गोहत्यां लभेत्ध्रुवम्। न ददात्याशिषं कोपात् प्रणताय च यो द्विजः। विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत्ध्रुवम्” ब्रह्म वैव० पु० प्रकृतिख०, ३७ अ०। “मुष्कमोषकरोविप्रो गोवधस्व व्रतं चरेत्” प्रा० त० उक्तेः मुष्कमोषोऽपि आदेशिकः गोबधः।

गोहन् = त्रि० गां हन्ति हन–विच् ६ त०। १ गोहन्तरि मेघस्थ जलभेदके २ इन्द्रे पु०। “आ रे गोहा मृहा बधोवः” ऋ० ७। ५६। १७। “गोहा गवां मेघस्थसलिलानां भेदकः” भा०।

गोहन = त्रि० गुहू–संवरणे ल्यु ऊत्वाभावःच्छान्दसः। सं वरके “समाने अहन् त्रिरवद्य गोहनाः” ऋ०१। ३४। ३ “गुहू सवरणे नन्द्यादित्वात् ल्युः “ऊदुपाधायाः गोहः” पा० प्राप्तस्य ऊत्त्वस्याभावश्छान्दसः” भा०।

गोहमुख = पु० भारतवर्षस्ये पर्वतभेदे। भागवतोक्तगोकामुख पर्वतस्य विष्णु पु० गोहमुखेति नाम। गोकामुखशब्दे दृश्यम्।

गोहरितकी = स्त्री गोः हरितकीव हितकारित्वात्। विल्ववृक्षे त्रिका०।

गोहल्ल = न० हल–बिलेखे क्विप् तं लाति ला–क गोर्हल्लः। गोमये हारा०।

गोहालिया = स्त्री गवां हाले बिलेखे साधु बा० घ। (गोयालिया) ख्याते लताभेदे “पीतं गोयालियामूलं तिलदध्याज्यसंयुतम्। निबद्धमूत्रं कथितं प्रवर्त्तयति शङ्कर!” इति गारुडे १९० अ०।

गोहित = पु० गवां हितं यस्मात् ५ ब०। १ विल्वे, २ घोषालतायाञ्च। ३ गोहितकारके त्रि०। ४ विष्णौ पु० “गोहितो गोपतिर्गोप्ता” विष्णुसह०। “गोभ्यो हितो गोहितः, गोर्भूमेर्भारावतारणेच्छया शरीरग्रहणं कुर्वन् गोहितोवा” भाष्यम्।

गोहिर = न० गुह–बा० इरच् पृषो० ऊत्त्वाभावः। पादमूले हेमच०।

गोह्य = त्रि० गुह–वा ण्यत् अच्येव ऊत्त्वस्य नियमनात् नोत्त्वम्। १ गुह्ये २ अप्रकाश्ये ३ संवरणीये च।

गौकक्ष्य = पुंस्त्री गोकक्षर्षेर्गोत्रापत्यं गर्गा० यञ्। गोकक्षर्षिगोत्रापत्ये। तस्य छात्रः कण्वा० अण् यलोपः। गौकक्ष तच्छात्रे गौकक्ष्यस्यापत्यं तिका० फिञ्। गौकक्ष्यायनि तदपत्ये पुंस्त्री। स्त्रियां क्रौद्ध्यादि० ष्यञ्। गौकक्ष्या गोकक्षगोत्रस्त्रियाम्। बहुत्वे “यञञोश्च” पा० यञो लुक्। गोकक्षास्तद्गोत्रापत्येषु।

गौग्गुलव = त्रि० गुग्गुलौ भवः अण्। गुग्गुलुभवे धूपादौ स्त्रियां शार्ङ्गरवा० ङीन्।

गौच्य = पु० गोच्याः हिमालयपत्न्याः अपत्यम् ढकि प्राप्त बा० यत्। हिमालयपुत्रे मैनाके शब्दार्थचि०।

गौञ्जिक = पु० गुञ्जा तुलामानभेदः तद्ग्रहणं शीलमस्य ठक्। स्वर्ण्णकारे त्रिका०।

गौड = पु० “वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे!। गौडदेशः समाख्यातः सर्वविद्याविशारदः” स्कन्दपु० उक्ते १ देशे २ तद्देशस्थे जने ब० व०। “सारस्वताः कान्यकुब्जा गौडमैथिलकोत्कलाः। पञ्च गौडा इति ख्याताविन्ध्यस्वोत्तरवासिनः” स्कन्दपु० इत्युक्तेषु विन्ध्यप- र्व्वतोत्तरभागवासिषु ३ ब्राह्मणभेदेषु च। स्वार्थे क तत्रार्थे। “अथ पूर्ब्बस्याम्” इत्युपक्रमे “उदयगिरि भद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः” वृ० स० १४ अ० कूर्म्मविभागे पूर्व्वस्थदेशीक्तौ। “अस्ति गौडविषये कौशाम्बी नाम नगरी” हितो०। “गौडोराष्ट्रमनुत्तमं निरूपमा तत्रापि राढा पुरी” प्रबोधच० “सर्व सिंहगुंरुर्वर्ज्यः कलिङ्गे गोडगुर्जरे” मुहु० चि०। गुडस्य विकारः अण्। ४ गुडविकारे खण्डासवादौ त्रि० “गुडस्य तृप्तामद्यस्य पीत्वा गौडं सुरासवम्” भा० व० ४४ अ०। “नानास्वादरसानाञ्च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः” रामा० बा० ५३ श्लो०। “गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम्” सुश्रुतः। ५ मदिराभेदे स्त्री “गौडी पैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा। यथैवैका तथा सर्व्वा न पातव्या द्विजोत्तमैः” मनुः। “गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत्। तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात्” वृहस्पतिः। ६ काव्यरीतिभेदे स्त्री “पदसंघटना रीति रङ्गसंस्थाविशेषवत्। उपकर्त्त्री रसादीनां सा पुनः स्यात्चतुर्विधा। वैदर्मी चाथ गौडी च पाञ्चाली लाटिका तथा” विभज्य “ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः। समासबहुला गौडी” सा० द० तल्लक्षणमुक्तं यथा “चञ्चद्भुजभ्रमितचण्डगदाभिघात–संचूर्णितोरुयुगलस्य सुयोधनस्य। स्त्यानावनद्धवनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि! भीमः” वेणीसं०। एषा च गौडजनप्रियत्रात् गौडैः प्रयुज्यमानत्वाच्च गौडीसंज्ञां लभते। गौड + छ। गौडीया अत्रार्थे। “बहुतरसमासयुक्तामहाप्राणाक्षरा च गौडीया। रीतिरनुप्रासमहिमपरतन्त्राऽस्तोभवाक्या च” पुरुषोत्तमः। ७ रागिणीभेदे स्त्री संगीतदा०। पुरशब्देपरे समासेअस्य “अरिष्टगौडपूर्वम्” पा० अन्तोदात्तता। गौडपुरम्।

गौडपाद = पु० माण्डुक्योपनिषदि तदर्थकश्लोककारके वेदान्ति पण्डितभेदे। ते च “बहिःप्रज्ञो विभुर्विश्वोह्यन्तःप्रज्ञस्तु तैजसः” इत्यादयः “दुर्द्दर्शमतिगम्भीरमजं साम्यं विशारदम्। बुद्ध्वा पदमनानात्वं नमस्कुर्म्मो यथाबलम्” इत्यन्ताः शतं श्लोकाः।

गौडवास्तुक = पुंन० “तदेव च वृहत्पत्रं रक्तं चेत् गौडवास्तुकम्” इत्युक्तलक्षणे वास्तुकभेदे। (चिल्लीशाक) राजनि०।

गौडिक = त्रि० गुडे साधु गुडा० ठक्। १ इक्षौ। गौडः गूडविकारः साधनतयाऽस्त्यस्य ठन्। २ गुडविकारसाध्ये भक्ष्य भेदे। “वृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः” “मधुमांसोपदंशं वा पिबेद्वाप्यथ गौडिकम्” इति च सुश्रु०

गौण = त्रि० गुणमधिकृत्य प्रवृत्ता गौणी तत आगतः अण्। १ सादृश्यलक्षणलक्ष्यसम्बन्धरूपया गौण्या लक्षणया प्रवृत्ते शब्दे “गौणश्चेन्नात्मशब्दात्” शा० सू०। २ अमुख्ये च। “यद्वाऽऽगामिक्रियामुख्य कालस्याप्यन्तरालवत्। गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्म्मणि” उद्वा० त० हरिहरपद्धतिः। “एवमागामियागीय मुख्य कालादधस्तनः। स्वकालादुत्तरो गौणः कालः र्वस्य कर्म्मणः” छन्दोग०। “तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्” भा० शा० १८२ अ०। “बहूनि मम नामानि कीर्त्तितानि महर्षिभिः। गौणानि तत्र नामानि कर्म्मजानि च कानि चित्” ३४३ अ०। स्त्रियां ङीप्। “गौण्यश्रुतेः” शा० सू०। (गौणीउत्पत्तिः) गुणं सादृश्यमधिकृत्य प्रवृत्ता अण् ङीप्। ३ सादृश्यमूलकलक्षणाभेदे स्त्री। “सादृश्यात्तु मता गौण्यस्ताश्च षोडशभेदिताः” सा० द०। “सादृश्येतरसम्बन्धेऽपि वृत्तेर्गौणत्वमिच्छन्ति। “अभिधेयाविनाभूतप्रतीति र्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता” काव्य प्र०। गुणोऽप्रधानमेव स्वार्थे प्रज्ञा० अण्। ४ अप्रधाने कर्मादौ। “गौणे कर्म्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्” व्या० का०। गौणस्य भावः ष्यञ् गौण्य न०, त्व गौणत्व न०, तल् गोणता स्त्री, अप्रधानत्वे “गवाबादेः स्वोऽन्ते गौण्येऽनीयसः” सुग्ध०। “वृत्तेरिष्टा तु गौणता” काव्यप्र० गौणत्वञ्च प्रसिद्धवस्तुभेदस्यैव यथाह शा० भा० “प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः। यस्य हि प्रसिद्धो वस्तुभेदः यथा केशरादिमानाकृतिविशेषोऽन्वयः व्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः। ततश्चान्यःपुरुषः प्रायिकैः क्रौर्य्यशौर्य्यादिभिः सिंहगुणैः सम्पन्नः प्रसिद्धः तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतः नाप्रसिद्धवस्तुभेदस्य”।

गौणचान्द्र = पु०। “चान्द्रोऽपि द्विविधः प्रोक्तो गौणमुख्यप्रभेदतः। गौणः कृष्णप्रतिपदः पौर्णमास्यन्तईरितः” शब्दर० उक्ते कृष्णपदादिपौर्णस्यान्ते चान्द्रे मासे अत्र व्यवस्था नि० सि० उक्ता यथा त्रिकाण्डमण्डनः “चान्द्रोऽपि शुक्लपक्षादिः कृष्णादिर्वति च द्विधा” इत्युक्त्वा देशभेदेन तद्व्यवस्थामाह “कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति केचन। येऽपीच्छन्ति न तेषाञ्च देशे विन्ध्यस्य दक्षिणे” इति विन्ध्यस्य दक्षिणे कृष्णादिनिषेधाद् उत्तरतोद्वयोरभ्यनुज्ञा गम्यते तत्रापि शुक्लादिर्मुख्यः कृष्णादिर्गौणः शास्त्रेषु चैत्रशुक्लप्रतिपद्येव चान्द्रसंवत्सरारम्भोक्तेः तदुक्तं दीपिकायां “चान्द्रोऽव्दोमधुशुक्लगप्रतिपदारम्भः” इति न हि ये कृष्णादिं मन्यन्ते तेषां वत्सरारम्भोभिद्यते अतः शुक्लादिर्मुख्यः कृष्णादिना मलमासासम्भवाच्च चान्द्रस्य सर्वनक्षत्रभोगेन नाक्षत्रमासः। सावनादीनां व्यवस्थोक्ता हेमाद्रौ ब्रह्मसिद्धान्ते “अमावास्यापरिच्छिन्नोमासः स्याद्व्राह्मणस्य तु। संक्रान्तिपौर्णमासीभ्यां तथैव नृपवैश्ययोः” अत्र ब्राह्मणादीनां यत्र कर्मविशेषे वचनान्तरेण “वसन्ते ब्राह्मणोऽग्निमादधीत” इत्यादिवन्मास उक्तस्तत्र दर्शान्तत्वमात्रं नियम्यते न तु सर्वकमसु दर्शान्तएवेति वृष्ट्याद्यर्थसौभरेयादिनिधननियमवद्विधिलाघवात् त्रैवर्णिकानां सर्वकर्मसु मासविशेषबिधेः सावनादीनां शूद्रानुलोमादिपरत्वापत्तेश्चेति गुरुचरणाः। ज्योतिर्गर्गः “सौरमासो विवाहादौ यज्ञादौ सावनः स्मृतः। आव्दिके पितृकार्ये च चान्द्रोमासः प्रशस्यते”। ऋष्यशृङ्गः “विवाहव्रतयज्ञेषु सौरं मामस्यचक्षते। पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टन्तथावदिके” स्मृत्यन्तरे “एकोद्दिष्टविवाहादौ ऋणादौ सौरसावनौ” ज्योतिर्गर्गः “आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा। सावनेनैव कर्त्तव्या शत्रूणां चाप्युपासना” विष्णुधर्मे “नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन कुर्य्याद्भगणात्मकेनेति” ब्राह्मे “तिथिकृत्ये च कृष्णादिं व्रते शुक्लादि मेव च। विवाहादौच सौरादिंमासंकृत्ये विनिर्दिशेत्”

गौणिक = त्रि० गुणे रूपादौ साधु कथा० ठक्। १ गुणसाधने। गुणं वेत्ति तत्प्रतिपादकं ग्रन्थमधीते वा उक्था० ठक्। वसन्ता० ठक् वा। २ गुणवेत्तरि ३ तद्ग्रन्थपाठके च त्रि० गुणैः सत्त्वादिभिः निर्वृत्तः ठञ्। सत्वादिनिर्वृत्ते ४ पदार्थे स्त्रियां ङीप्। तत्र वृणभेदेन गतिभेदो मनुना दर्शितो यथा “येन यांस्तु गुणेनैषां संसारान् प्रतिपद्यते। तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम्। देवत्वं सात्विका यान्ति मनुष्यत्वञ्च राजसाः। तिर्य्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः। त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः। अधमा मध्यमाऽग्र्य्या च कर्कविद्याविशेषतः। स्थावरा कृमिकीटाश्च मत्स्याः सर्प्राः सकच्छपाः। पशवश्च मृगाश्चैव जघन्या तामसी गतिः। हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः। सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः। चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः। रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः। झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः। द्यूतपानप्रसक्ताश्च जवन्या राजसी गतिः। राजानः क्षत्रियाश्चैव राज्ञश्चैव पुरोहिताः। वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः। गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये। तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः। तापसा यतयो विप्रा ये च वैमानिकागणाः। नक्षत्राणि च दैत्याश्च प्रथमा सात्विकी गतिः। यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः। पितरश्चैव साध्याश्च द्वियीया सात्विकी गतिः। ब्रह्मा विश्व सृजोधर्मो महानव्यक्तमेव च। उत्तमां सात्विकीमेतां गतिमाहुर्मनीषिणः। एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः। त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौमिकः”। गुणएव अङ्गुल्या० स्वार्थे ठक्। ५ गुणशब्दार्थे पु०

गौतम = पु० गोतमस्यर्षेर्गोत्रापत्यम् ऋष्यण्। १ गोतमर्षिगोत्रापत्ये २ भरद्वाजमुनौ पु०। स च वैवस्वते मन्वन्तरे सप्तर्षि मध्यवर्त्ती यथाह हरिवं० ७ अ० “अत्रिर्वसिष्ठोभगवान् कश्यपश्च महानृषिः। गौतमश्च भरद्वाजो विश्वामित्रस्तथैव च। तथैव पुत्रो भगवानृचीकस्य महात्मनः। सप्तमो जमदग्निश्च ऋषयः साम्प्रता दिवि” शतानन्दपिता अहल्यापतिश्च गौतमस्ततोभिन्न एव। तत्कथा च” रा० बा० ४८। ४९ अ० “गौतमस्याश्रमं श्रेष्ठं पूर्व्वमासीन्महात्मनः इत्यादौ दृश्या अहल्यापुत्रे ३ शतानन्दे “गौतमश्च शतानन्दः” वीरच०। गोतमगोत्रस्य शरद्वतोऽपत्ये ४ कृपाचार्य्ये ५ तस्य भगिन्यां द्रोणपत्न्यां कृप्यां स्त्री ङीप्। “कृपः स्मृतः स वै तस्मात् गौतमी च कृपी मता। एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः” हरिवं ३२ अ०। कृपशब्दे २१९२ पृ० विवृतिः। “तत आसाद्य तरसा दारुणं गौतमीसुतम्” (अश्वत्थामानम्) भाग० १। ७। ४७ श्लो०। ६ मायादेवीसुते शाक्यमुनौ अमरः। एकतादीनां मुनीनां ७ पितरि। “आसन् पूर्वयुगे राजन्! मुनयोभ्रातरस्त्रयः। एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः” इत्य पक्रमे “तेषाञ्च तपसा प्रीतो नियमेन दमेन च। अभवद् गौतमोनित्यं पिता धर्म्मरतः सदा” भा० श० ३७ अ०। ८ दुर्गायां स्त्री मेदि० “गै तमीं कंसभयदां यशोदानन्दवर्द्धिनीम्” हरिवं०१७ अ०। ९ राक्षसोभेदे स्त्री शब्दर०। तस्येदमित्यण् ङीप्। १० गोदावरीनद्यां स्त्री गौरा० ङीष्। “गौतमस्याघनाशिनी” इति गोदावरीस्नानमन्त्रलिङ्गादघनाशाय तस्यास्तत्सेवितत्वाद्वा तथात्वम्” “ताम्रारुणा वेत्रवती पर्णाशा गौतमी तु सा। गोदावरी च वेणा च” भा० आ० १६५ अ०। ११ गोरोचनायाञ्च स्त्री राजनि०। १२ शाक्यमुनिप्रणीतविद्यायाम् १३ गौतमप्रणीतायां षोडशपदार्थविद्यायाञ्च स्त्री। “अधीत्य गौतमीं विद्यां शृगालत्वमवाप्नुयात्। पुराणान्तरे तद्विद्याध्ययननिषेधः।

गौतमसम्भवा = स्त्री गौतमाय तदवनाशाय सम्भवतीति अच्। गौतमगङ्गायां गोदावरीनद्याम् राजनि०। ब्रह्मपु० गौतमं प्रति त्र्यम्बकवाक्यम्। “इयन्तु गौतमी पुत्र! यत्र क्वापि ममाज्ञया। सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति। क्वचित् काले पुण्यतसं किञ्चित्तीर्थं सुसङ्गमे। सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः। इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च। ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी। ब्रह्म तेजःसमानीता सर्वपापप्रणाशिनी” “एवमेषाऽपि ते प्रोक्ता गङ्गाख्याता महामते!। माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी। भागीरथी देवनदी हिमवच्छिखराश्रया। महेश्वरजटाभारैरेवं द्वैविध्यमागतम्। बिन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते। उत्तरे सापि बिन्ध्यस्य भागीरथ्यभिधीयते”

गौत्तम = पु० गच्छतिति गं गात्रमुत्तायति उद् + तम–अच् स्वार्थे अण्। स्थावरविषभेदे हेमच०।

गौदन्तेय = त्रि० गोदन्तस्येदम् शुभ्रा० ढक्। गोदन्तचन्दन सम्बन्धिनि।

गौदानिक = त्रि० गादानं कर्म्मास्य ब्रह्मचर्य्यस्य महानाम्न्यादिभ्यः षष्ठ्यर्थे उपसंख्यानम्” वार्ति० ठक्। १ गोदानाख्यब्रह्मचर्य्य सम्बन्धिनि। गोदाने उक्तं ठक्। २ गोदानोक्ते कर्म्मणि। “उपरि समिधं कृत्वा गामन्नञ्च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्मः कुर्व्वीत” आश्व० गृ० ३। ८। ६। “ततो गोदानोक्तं कर्म्मेहापि कुर्य्यात्” नारा० वृत्तिः।

गौधार = पु० गोधायाः अपत्यम् आरक्। गोधापुत्रे। गौधेयः गौधेरोऽप्यत्र गोधाशब्दे दृश्यम्।

गौधूम = त्रि० गोधूमस्य विकारः बिल्वा० अण। गोधूम- विकारे रोटिकादौ स्त्रियां ङीप्। “गोधूमं चषालं भवति” श त० व्रा० ५। २। १। ६। “उत्कीर्ण्णसमाग्रो गोधूमचषालः” कात्या० श्रौ० १४। १। २२। “गोधूमपिष्टमयश्चषालो भवतीत्यर्थः।

गौधूमीन = न० गोधूमस्य भवनं क्षेत्रम् गीधूम–खञ्। गोधूमभवनयोग्ये क्षेत्रे।

गौधेरकायणि = पुंस्त्री गोधेरस्यापत्यं वाकिना० फिञ् कुक्च्। गौधेरापत्ये। पक्षे अत इञ् न कुक्। गौधेरि तदपत्ये पुंस्त्री।

गौनर्द्द = त्रि० गोनर्द्ददेशे भवः प्राचोभिन्नमते एङादित्वेऽपि वृद्धत्वाभावात् न छ, किन्तु अण्। १ गोनर्द्ददेशभवे २ पातञ्जलमुनौ पु०

गौपत्य = न० गोपतेर्भावः पत्यन्तत्वात् यक्। गोपतिभावे गोस्वामित्वे। “विश्वरूप्यूर्जा मा विश गौपत्येन” यजु० ३। २२। “रायस्पोषं गौपत्यन्”। ४१। ५८।

गौपवन = पु० गोपवनशब्दे व्युत्पत्तिः। ऋषिभेदे स च मधुकाण्डस्य वंशस्थोमुनिभेदः “अथ वंशः पौतिमाष्यात् गौपबनात् गौपपनः” वृ० उ० ४। ६। १।

गौपिक = पु० स्त्री गोपिकाया अपत्यम् ढकोबाधकः शिवा० अण्। गोपिकाऽपत्ये स्त्रियां ङीप्।

गौपिलेय = त्रि० गोपिल + चतुरर्थ्यां सख्या० ढक् गोपिल निर्वृत्तादौ।

गौपुच्छ = त्रि० गोपुच्छमिव शर्करा० इवार्थे अण्। गोपुच्छसदृशे।

गौपुच्छिक = त्रि० गोपुच्छेन क्रीतम् ठञ्। १ गोपुच्छक्रीते। गोपुच्छेन तरति ठञ्। २ गोपुच्छेन तारके च।

गौप्तेय = पु० स्त्री गुप्ता वैश्यजातिस्त्री तस्या अपत्यम् शुभ्रा० ढक् तन्नामिकाणोऽपवादः। गुप्ताया अपत्ये।

गौभूत = त्रि० गोभृता निर्वृत्तं सङ्कला० अण्। गोभृता निर्वृत्ते

गौमत = त्रि० गोमत्यां भवः पलद्या० अण्। गोमतीनदीभवे मत्स्यादौ।

गौमतायन = पु० स्त्री गोमत्यां भवादि बा० फञ्। गोमती भवादौ। ततः अरीहणा० चतुरर्थ्यां वुञ्। गौमतायनक० तन्निर्वृत्तादौ त्रि०।

गौमयिक = त्रि० गोमयेन निर्वृत्तादि कुमुदा० ठञ्। गोमय र्निवृत्तादौ।

गौमायन = पु० स्त्री गोमिनोगोत्रापत्यम् अश्वा० फञ् टिलोपः। गोस्वामिगोत्रापत्ये।

***