गोपा = स्त्री गां पाति पा–क टाप्। १ श्यामालतायाम् शब्दरत्ना०। गां पाति पा–क्विप्। २ गोरक्षके च। “गोपा विश्वपावत्” मुग्ध०
गोपाध्यक्ष = पु० ६ त०। गोरक्षकपतौ “गोपाध्यक्षो भयत्रस्तो रथमास्थाय सत्वरः” भा० वि० ३५ अ०।
गोपानसी = स्त्री० गवां किरणानां पानं शोषणं गोपानं तत् स्यति सो–क गौरा० ङीष्। कुड्येषु छादनार्थं बद्धे १ वक्रकाष्ठे (मुदनी) २ बन्धनाधारे पटलाधारे वंशपञ्जरे च अमरः। “गोपानसीषु क्षणमास्थितानाम्” माघः।
गोपायक = त्रि० गोपयति गुप–आय + ण्वुल्। रक्षके “गोपायकानां भुवनत्रयस्य” किरा०।
गोपायन = न० गुप–आय–भावे ल्युट्। १ गोपने “गोपायनं प्रकुरुते जगतः सार्वलौकिकम्” हरिवं० ४ अ०। कर्त्तरि ल्यु। २ रक्षके। “गोपानां बहुसाहस्रैबलैर्गोपायनैर्वृतः” भा० भी० ७ अ०।
गोपायित = त्रि० गुप–आय–कर्मणि क्त। १ रक्षिते अमरः। भावे क्त। २ अतीतगोपने न०।
गोपाल = पु० गां भूमिं पशुभेदं वा पालयति पालि–अण् उप० स०। १ नृपे २ गोरक्षके च। “क्षत्रियात् शूद्रकन्यायां समुत्पन्नस्तु यः सुतः। स गोपाल इति ज्ञेयो भोज्योविप्रैर्न संशयः” पराशरोक्ते ३ सङ्कीर्णजातिभेदे। “आर्द्धिकः कुलमित्रश्च गोपालोदासनापितौ। एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” मनुना तस्य भोज्यान्नतोक्ता। नन्दनन्दने ४ विष्णीरवतारभेदे तद्रूपञ्च पद्मपु० पाताल ख० “त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन!”। श्रीकृष्णं प्रति व्यासप्रार्थने भगवदुक्ति व्यासवाक्ये यथा “पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम्। ततोऽ पश्यमहं भूप! बालं बालाम्बुद प्रभम्। गोपकन्यावृत गोपं हसन्तं गोपबालकैः। कदम्बमूलमासीनं पीतवासः समुज्ज्वलम्। वनं वृन्दावनं नाम नवपल्लवमण्डितम्। कोकिलभ्रमरारावमनोभवमनोहरम्। नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम्। गोवर्द्धनं तथाऽपश्यं कृष्णवामकरोद्धृतम्। महेन्द्रदर्पनाशाय गोगोपालसुखावहम्। दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम्। गोपालमबलासङ्गमुदितं वेणुनादिनम्,। तस्य ध्यानमन्त्रयन्त्रादिकं तन्त्रसारे दृश्यम्।
गोपालक = पु० गां पालयति पालि–ण्वुल् ६ त०। १ गोरक्षके २ भूमिरक्षके च ३ शिवे त्रिका० गोपाल + स्वार्थे क। उक्तार्थे ४ नन्दनन्दने।
गोपालकक्षा = स्त्री गोपालप्रधाना कक्षा। भारतवर्षस्थे प्राच्ये देशभेदे “अत ऊर्द्ध्वं जनपदान्निबोध गदतो मम” इत्युपक्रमे “कक्षा गोपालकक्षाश्च जाङ्गलाः कुरुवर्वराः”। भा० भी०९ अ०। तस्य राजनि अण्। गौपालकक्षः तन्नृपे बहुत्वे तस्य लुक्। गोपालकक्षास्तन्नृपेषु “ततो गोपालकक्षांश्च सोत्तरानपि कोसलान्। मल्लानामधिपश्चैव पार्थिवांश्चाजयत् प्रभुः” (भीमः) भा० स० २९ अ०। भीमप्राचीविजयोक्तौ।
गोपालकर्कटी = स्त्री। गोपालस्य गोरक्षकस्य प्रिया कर्कटी। राजनि०। क्षुद्रकर्कट्याम् (राखालशसा)।
गोपालतापनीय = न० गोपालस्तापनीय सेव्यो यत्र। उपनिषद्भेदे उपनिषच्छब्दे १२२२ पृ० दृश्यम्। गोपालतापनमप्यत्र न०।
गोपालधानी = त्रि० गोपालोधीयतेऽत्र धा–आधारे ल्युट् ङीप् ६ त०। गोष्ठे। तस्य पूलासेन समासे राजद० पूर्वनि० समाहारैकत्वं च गोपालधानीपूलासम्।
गोपालव = पु० गोपालं तद्धर्मं वाति वा–क उप० स०। गोपतिधर्मयुक्ते आयुधजीविनि राजन्यभेदे। तस्य ब्राह्मणत्वे आयुधजीवित्वेऽपि स्वार्थे न ष्यञ्। “अब्राह्मणेति किं गोपालवाः” सि० कौ०।
गोपालि = पु० गां वृषभं पालयति पालि–इन्। “शिवे “गोपालिर्गोपतिर्ग्रामः” भा० आनु० १७ अ० शिवसहस्रनामोक्तौ २ प्रवरभेदे प्रवराध्वायः।
गोपालिका = स्त्री गोपालकस्य पत्नी पालकान्तित्वात् न ङीष् टापि अत इत्त्वम्। १ आभीरपत्न्याम् २ शारिवोषधौ च शब्दार्थचि०। गवां रक्षणात्तस्यास्तथात्वम ३ कीटभेदे हेमच०।
गोपाली = स्त्री गोपालस्तदादरोऽस्त्यत्र अच् गौरा० ङीष्। १ गोपालकर्कट्याम् राजनि०। गोपालस्य पत्नी ङीष्। २ गोपपत्न्याम्। गां पालयति पालि–षण् ईप् मुग्ध०। ३ गोपालयित्र्यां ४ कुमारानुचरे मातृभेदे च “अब्जजाता च गोपाली वृहदम्बालिका तथा” भा० श० ४७ अ०।
गोपाष्टमी = स्त्री गोपप्रियाष्टमी। कार्त्तिकस्य शुक्लाष्टम्याम्। “शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः। तद्दिने वासुदेवोऽभूत् गोपः पूर्वं स वत्सपः। तत्र कुर्य्यात् गवां पूजां गोग्रासं गोप्रदक्षिणम्। गवानुगमनं कार्य्यं सर्वान् कामानभीप्सता” कूर्मपु०।
गोपिका = स्त्री गोपायति गुप–ण्वुल्। १ गोपालयित्र्याम् गोप्येव स्वार्थे क ह्रस्वः। २ गोपपत्न्याम्।
गोपित्त = न० गोः पित्तमिव। गोरोचरनाख्ये गन्धद्रव्यभेदे त्रिका०।
गोपिन् = स्त्री गोपायति गुप–णिनि। १ रक्षितरि स्त्रियां ङीप् सा च २ श्यामालतायाम् शब्दच०। अतिशयेन गोपी इष्ठन् टिलोपः। गोपिष्ठ गोप्तृतमे त्रि०। “कामचारस्य वा कामायायं गोपिष्ठो गोपायादिति वा” शत० ब्रा० २। २। ३। २ “गोपिष्ठः गोपायितृतमः” भाष्यम्।
गोपिल = त्रि० गुप–इलच्। गोप्तरि ततश्चतुरर्थ्यां घञ्। गौपलेय गुपिलनिर्वृत्तादौ त्रि०।
गोपी = स्त्री गोपजातिः स्त्री जातौ ङीष्। १ गोपजातिस्त्रियाम्। वृन्दावनस्थगोप्यश्च श्रुतिदेवमुनिकन्यारूपा यथा पद्मपु० पाता० “गोप्यस्तु श्रुतयो ज्ञेयाः स्वधिका गोपकन्यकाः। देवकन्याश्च राजेन्द्र! न मानुष्यः कथञ्चन”। तत्र श्रेष्ठा राधाचन्द्रावलीविशाखाललितादयः। मूलम् उज्ज्वलमणौ दृश्यम्। “इत्येवं दर्शयन्त्यस्ताश्चैवं गोप्योविचेतसः” भाग० १०। ३। ३२। स्क० प्रभा० ख० तु चन्द्ररूपक्रष्णस्य कलारूपता तासामुक्ता यथा। “ततो गोप्यो महादेवि! आद्यायाः षोडश स्मृताः। तासां नामानि ते वक्ष्ये तानि ह्येकमनाः शृणु। लम्बिनी चन्द्रिका कान्ता कूठा शान्ता महोदया। भीषणी नन्दनी शोका सुपुर्ण्णा विमलाऽक्षया। शुभदा शोभना पुण्या हंस सुताः कलाः क्रमात्। हंसएव मनः कृष्णः परमात्माजनार्द्दनः। तस्यैताः शक्तयो देवि! षोडशैव प्रकीर्त्तिताः चन्द्र रूपी ततः कृष्णः कलारूपास्तु ताः स्मृताः संपूर्ण मण्डला तासां मालिनी षोडशी कला। प्रतिपत्तिथि मारभ्य विहरत्याशु चन्द्रमाः। षौडशैव कला यास्तु गोपीरूपा वरानने! एकैकशस्ताः संभिन्नाः सहस्रेण पृथक् पृथक्”। गोपायति गुप–अच् गोस्त्र० ङीष्। २ रक्षिकायां स्त्रियाम् “गीतानि गोप्याः कलमं मृगव्रजः” माघः। स्वार्थे क। गोपिका तत्रार्थे “सहासमालोकयति ख गोपिका” माघः।
गोपीगीता = स्त्री भाग० १० स्क० उक्तार्या गोपीभिः कृतकृष्णस्तुतौ सा च “जयति तेऽधिकं जन्मनाम व्रजेत्याद्येकत्रिंशत्तमाध्यायस्था।
गोपीजनवल्लभ = पु० गोप्येव जनस्तस्य बल्लभः। श्रीकृष्णे “गोपोजनवल्लभाय स्वाहा” तन्त्रसारे तन्मन्त्रः। गोपीभर्त्त्रादयोऽप्यत्र “गोपीभर्त्तुर्विरहविधुरा काचिदिन्दीवराक्षी” पदाङ्कदूतम्।
गोपीत = पु० स्त्री गौर्गोरोचनेव पीतः। खञ्जनभेदे। वृ० स० ४५ अ० “पीतो गोपीत इति क्लेशकरः खञ्जनोदृष्टः” तस्य दर्शने क्लेशकारितोक्ता।
गोपीथ = न० पा–भावे थक्–“गोपीथेत्यादि” पा० नि० गोः सोमस्य पीथः। सोमपाने। “प्रति त्वं चारुमध्वरं गोपीथाय प्रहूयसे” ऋ०१। १९। १। “गोपीथाय सोमपानाय” भा०। गावः पिबन्त्यस्मिन् आधारे थक्। २ तीर्थे गोर्जलावतरणे सोपाने तीर्थस्य जलावतरणसोपानत्वात्तथात्वम्। “गोपीथं तीर्थमाख्यातम्” उणादि वृ०। गुप–भावे थक् नि०। ३ रक्षणे पु० “गोपीथाय जगत्सृष्टेः काले त्वस्याच्युतात्मकः” भाग० ४। २२। ५०। “जगत्सृष्टेर्गोपीथाय रक्षणाय” श्रीधरः। “अजातशत्रुः पृतनां गोपीथाय मधुद्विषः” भाग० १। १०। ३६। “गोपीथाय रक्षणाय” श्रीधरः। गोपीयाय हितं यत्। गोपीथ्य तत्र हिते त्रि० “जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो यओजः” ऋ० १०। ९५। ११।
गोपुच्छ = पु० गोः पुच्छ इव पुच्छो यस्य। १ गोलाङ्गूलाख्येवानरे हेमच० “सर्ववानरगोपुच्छा यमृक्षाद्या भजन्ति वै” (यं सुग्रीवम्) भा० व० २८१ अ०। “गोपुच्छैर्हरिभिमर्कैर्नकुलैर्नाभिभिर्वृतम्” (आश्रमम्) भाग० ३। २१। ४३। “गोपुच्छशालावृकमर्कटाश्च” भाग० ८। २। १७। गोपुच्छाकारत्वात् २ हारभेदे अमरः। ६ त०। ३ गोर्लाङ्गूले न०। “गोपुच्छस्थे वल्मीकगेऽथ वा दर्शनं भुजङ्गस्य” वृ० स० ९५ अ०। ततः शर्करा० स्यार्थे अण्। गोपुच्छ तत्रार्थे त्रि०।
गोपुटा = स्त्री गोरिव पुटमस्याः। स्थूलैलायाम् राजनि०।
गोपुटिक = न० गोः शिववृषस्य पुटिकं पुटयुक्तं मस्तकम्। शिववृषस्य मस्तके त्रिका०।
गोपुर = न० पुर–अग्रगमने क गवां पुरम्, गवा जलेन पूर्य्यते पॄ–वञर्थे क वा। १ पुरद्वारे २ श्रेष्ठद्वारे अमरः। तत्र गवामग्रगमनात्तथात्वम्। ३ कैवर्त्तीमुस्तके मेदि० तस्य जलेन पूरणात्तथात्वम् “गुप्तवप्रचयप्रख्यैर्गोपुरैर्नन्दनोपमैः” भा० आ० २०६० श्लो०। “गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्” भा० व० १७३ अ०। “पुरगोपुरं प्रति ससैन्यसागरम्” माघः। “पीडा पुरस्यैव च गोपुरस्थे” (शुनि) वृ० स० ८९ अ०।
गोपुरक = पु० पुर–क ६ त० गोपुर + स्वार्थे क। १ गवां पूरके त्रिका० २ गोपुरशब्दार्थे च गां भूमिं पिपर्त्ति पॄ–क संज्ञायां कन्। ३ कुन्दूरकवृक्षे राजनि०।
गोपुरीष = न० ६ त०। गोमये राजनि०।
गोपेन्द्र = पु० गोप इन्द्र इव। १ श्रीकृष्णे हेमच०। “गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे” भा० भी० २३ अ०। ६ त०। २ गोपेश्वरे नन्दे च गोपेश्वरादयोऽप्यत्र।
गोपेश = पु० ६ त०। १ नन्दघोषे “गोपेशं परितः परे” मुग्ध० २ शाक्यमुनौ त्रिका०।
गोप्तव्य = त्रि० गुप–कर्मणि तव्य वा आयाभावः। १ अप्रकाश्ये २ रक्षणीये च “पौरजानपदाश्चैव गोप्तव्यास्ते यथा सुखम्” भा० क० ९५ अ०। इट्पक्षे गोपितव्य आयपक्षे गोपायितव्य तत्रार्थे त्रि०।
गोप्तृ = पु० गुप–वृच। रक्षके। “तस्मै सभ्याःसभार्य्याय गोप्त्रेगुप्ततमेन्द्रियाः” रघुः। “तस्यार्थे सर्वभूतानां गोप्तारं धर्म्यमात्मजम्”। “मुच्यते व्रह्महत्यायाः गोप्ता गोब्राह्मणस्य च” मनुः २ संवरके च। ३ विष्णौ पु० “उत्तरो गोपतिर्गोप्ता” विष्णु स० “सकलभूतपालनात् गोप्ता” भा०। “गोहितो गोपतिर्गोप्ता” विष्णुस०। “स्वात्मानं स्वमायया गोपायति संवृणोति गोप्ता” भा०। स्त्रियां ङीप्। “गुह्यातिगुह्यगीप्त्री त्वम्” देवीजपसमापनमन्त्रः। इट्पक्षे गोपितृ आयपक्षे गोपायितृ तत्रार्थे त्रि० स्त्रियां ङीप्।
गोप्य = त्रि० गुप–कर्मणि यत्। १ रक्षणीये २ गोपनीये अपकाशतीये च। आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुन मेषजम्। तपोदानापमानं च नब गोप्यानि यत्नतः” काशीख०। ३ दासीपुत्रे पु० मेदि०।
गोप्यादित्य = पु० प्रमासतीर्थस्थे गोपीस्थापितरविमूर्त्तिभेदे तत्कथा स्क० प्रभा० ख० यथा “ततोगच्छेन्महादेवि! गोप्यादित्यमनुत्तमम्। भूतेशाद्वायवे भागे धनुर्भिस्त्रिशतान्तरे। बलातिबलदैत्यघ्नी दक्षिणाग्नेयसंस्थितम्। धनुषां दशके देवि! संस्थितं पापनाशनम्। तस्योत्पत्तिं प्रवक्ष्यामि महापापहरां शुभाम्” इत्युपक्रमे “अथ तत्र कृतान् ज्ञात्वा प्रासादान् यादवैः पृथक्। तेतो गोप्योऽपि ताः सर्वाः सहस्राणि च षोडश। कृष्णमाज्ञाप्य भावेन स्थापयाञ्चक्रिरे रविम् ऋषिभिर्नारदाद्यैस्तु तथा क्षेत्रनिवासिभिः तत् प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम्। प्रतिष्ठिते ततः सूर्य्येददुर्दानानि भूरिशः। ततः क्षेत्र निवासिभ्यस्तीर्थ देवरतेषु वै! ततस्ते ऋषयः सर्वे सन्तुष्टा हृष्टमानसाः। चक्रुर्नाम रवेस्तत्र गोप्यादित्येति विश्रुतम्”।
गोप्याधि = पु० कर्म्म०। आधिभेदे आधिशब्दे ७११ पृ० दृश्यम्। “गोप्याधिभोगे नो वृद्धिः” याज्ञ०।
गोप्रकाण्ड = न० प्रशस्तो गौः (जातिः) “प्रशंसावचनैश्च” पा० नित्यस० परनि०। श्रेष्ठे गवि अमरः। नियतलिङ्गत्वात् क्लीवत्वमेव “प्रकाण्डमुद्घतल्लजौ” अमरोक्तेः। शब्दक० पुंस्त्वोक्तिश्चिन्त्या। यदपि तत्र गोषु मध्ये प्रकाण्ड इत्युक्तं तदपि प्रामादिकं “प्रशंसावचनैश्चेति सूत्रस्य कर्म्मधारयसमासमात्रविषयत्वात्।
गोप्रचार = पु० प्रचरत्यस्मिन् प्र + चर–आधारे घञ् ६ त०। १ गोचारणस्थाने। “ग्रामेच्छया गोचारो भूमिगुजवशेन वा” याज्ञ० “गवादीनां चारणाय कियानपि भूभागोऽकृष्टः कल्पनीयः” मिता०। स्कन्दपु० प्रभा० खण्डोक्ते २ तीर्थभेदे। “गोप्रचारकथा पुण्या गोपीनां द्वारका गमः” वृहन्ना० तत्प्रतिपाद्योक्तौ।
गोप्रतार = पु० गवां प्रतारः प्रतरणतुल्यः संमदाऽत्र। रामस्य वैकुण्ठगमनकाले तदनुगामिनां पुरवासिनां गोप्रतरणतुल्यसम्मर्दयुते सरयूस्थे १ तीर्थ भेदे। “गोप्रतारं ततो गच्छेत् सरय्यास्तीर्थमुत्तमम्। यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः। देहं त्यक्त्वा महाराज! तस्य तीर्थेस्य तेजसा। रामस्य च प्रसादेन व्यवसायाच्च भारत!। तस्मिंस्त्रीर्थे नरः स्नात्वा गोप्रतारे नराधिप!। सर्वपापविशुद्धात्मा स्वर्गलोके महीयते” भा० व० ८४ अ०। ऋदोरप्” पा० अप्। गोप्रतरोऽप्यत्र “यद्गोप्रतरकल्पाऽभूत् संमर्दस्तत्र मज्जताम्। अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे” रघुः। अत्रापि दीर्घमध्यता इत्यन्ये। गवा वृषभेन प्रतारो गमनमस्य। २ शिवे पु०। “गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः” भा० आनु० २८६ अ०। शिवसहस्रनामोक्तौ। अप् ६ त०। ३ गोःप्रतारे पु० अनुपदम् उक्तं रघुवाक्यम् उदा०।
गोप्रवेश = पु० ६ त०। १ गोर्वनादितो गृहप्रवेशे “गोप्रवेशसमयेऽग्रतोवृषोयाति कृष्णपशुरेव वा पुरः” वृ० स० २५ अ०। आधारे ल्युट्। २ तत्काले। स च कालः सूर्य्यास्तमयात् प्राक्कालः तथा च वर्ण्णितम् रघौ “सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्। प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः”।
गोफणा = स्त्री सुश्रुतोक्ते व्रणबन्धनभेदे तत्र कोषदामेत्याद्युपक्रसे “वितानगोफणा पञ्चाङ्गी चेति चतुर्दश बन्धविशेषास्तेषां नामभिराकृतयः प्रायेण व्याख्याताः” सुश्रुतः “चिवुकनासौष्ठांसवस्तिषु गोफणाम्”। (निदध्यात्) सुश्रुत०।
गोबाल = पु० ६ त०। १ गोकेशे २ तल्लोमनि च स च सीमाज्ञानाय भूमौ निधेयः यथाह मनुः “अश्मनोऽस्थीनि गोबालांस्तुषान् भस्म कपालिकाः। करीषमिष्टकाक्षार शर्कराः बालुकास्तथा। यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत्। तानि सर्वाणि सीमायामप्रकाशानि कारयेत्”। गोर्बाल इव बालोऽस्याः “पाककर्णेत्यादि” पा० ङीप्। ओषधिभेदे स्त्री सि० कौ०।
गोभण्डीर = पु० स्त्री भट–भाषणे बा० ईरन् गवि जले भण्डीरः। जलकुक्कुभखगे त्रिका०। स्त्रियां जातित्वात् ङीष्।
गोभानु = पु० तुर्वसुनृपपौत्रे “तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः” हरिवं० ३२ अ०।
गोभिल = पु० छन्दोपगृह्यकारके ऋषिभेदे।
गोभृत् = पु० गां भूमिं बिभर्त्ति भृ–क्विप् ६ त०। पर्वते “नादेन गोभृच्छिखरेषु मत्ताः नृत्यन्ति गोकर्णशरीर भक्ष्याः” चौरः। तेन निर्वृत्तम् सङ्गला० अञ्। गौभूत पर्वतनिर्वृत्ते त्रि० स्त्रियां ङीप्।
गोम = लेपने अद० चुरा० उभ० सक० सेट। गोमयति–ते अजुगोमत् त।
गोमक्षिका = स्त्री गोः क्लेशदायिका नक्षिका। (डा~स) ख्याते मक्षिकाभेदे शब्दर०।
गोमघ = त्रि० गां मंहति ददाति महि–अच् छन्दसि नि नलोपः हस्य घश्च ६ त०। गोदातरि। “कदा गोमघा हवनानि गच्छाः, ऋ० ६। २५। ३ “मंहतेर्दानार्थस्य रूपमुत्तरपदम्” भा० “सं गोमघा जरित्रे” ६। ३५। ४। “गोमघा गोदात्री” भा० “अश्वामघा गोमघा वा हुयेम” ऋ० ७। ७१। १।
गोमण्डल = न० ६ त०। १ गोसमूहे २ भूमण्डले। “मग्नां च तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चक र” माघः। ३ किरणसंघे च।
गोमत् = त्रि० गौरस्त्यस्य मतुप्। १ गोस्वामिनि २ गोयुक्ते च “इन्द्र! गोमन्निहायाहि” यजु० २६। ४ “गावः स्तुतिरूपा वाचः किरणा वा विद्यन्तेऽस्य गोमान्” वेददी० स्त्रियां ङीप्। सा च ३ नदीभेदे स्त्री “गोमतीं धूतपापां च गण्डकीञ्च महानदीम्” भा० भी० ९ अ०। स्कन्धपु० प्रभा० तन्माहात्म्यम् “गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम्। चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसङ्गमः” वृहन्ना० तत्खण्डप्रतिपाद्ये। अत्र उदधि सङ्गम इत्युक्तेः “गङ्गा सरस्वती पुण्या यमुना च “महानदी। गोदावरी गोमती च नदी तापी च नर्म्मदा” इत्युपक्रमे “नद्यः समुद्रसंयोगात् सर्वाः पुण्याः शुभावहाः” प्रभा० खण्डोक्तेश्च सा समुद्रगा अन्या तु गोमती काशीतोऽनतिदूरे उत्तरस्यां गङ्गासङ्गता यथाह” भा० व० ८४ अ० यथा “गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते। अग्निष्टोममबाप्नोति कुलञ्चैव समुद्धरेत्” गोमतीस्नान फलं तत्रैव “रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन!। अश्वमेधमवाप्नोति पुनाति च कुलं नरः। शतसाहसकं तीर्थं तत्रैव भरतर्षभ!। तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः। गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ!” गौः गोपदमाधिक्येन विद्यतेऽस्यां विद्यायां मतुप् ङीप्। ५ विद्याभेदे सा च गोदानशब्दे २६९९ पृ० दर्शिता अन्या तिलधेनुशब्दे वक्ष्यते “गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य च” भा० आनु० ७८ अ०। “पञ्चगव्येन गोघाती मासेनैकेन शुध्यति। गोमतीं च जपेद्विद्यां गवां गोष्ठे च संबसेत्” शाता०। गोमत्यां भवः पलद्या० अण्। गौमत तत्रभवे त्रि० स्त्रियां ङीप्। गोमत्या अदूरभवो देशः अण। गौमत तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्। बहुत्वे तस्य वरणा० लुप्। गोमत्यः। उक्तगोमच्छब्दस्य सर्वनामस्थाने नुम् गोमान् गोमन्तावित्यादि रूपम्। गोमानिवाचरति गोमत् + क्किप् गोमतीति ततः क्विप् गोमत्। ४ गोस्वामितुल्ये अत्र सर्व्वनामस्थाने धातुत्वात् न नुम्। गोमत् गोमतौ इत्येव। षष्ठीतत्पुरुषे गोमतीशब्दस्य “वैदेहि बन्धोर्हृदयं विदद्रे” इत्यत्रेव “ङ्यापोः संज्ञाच्छन्दसोः” पा० आर्षे प्रयेगे वा ह्रस्वः। “सा लतेव महासालं फुल्लं गोमतितीरजम्” भा० वि० २७ अ०। न तु ह्रस्वान्तं शब्दान्तरम् केषाञ्चित् तथा कल्पनं तु प्रामादिकम्। गौस्तदस्थि अत्रास्ति मतुप् ङीप् (भागाड) ख्यातायां ५ भूमौ “भोजनं यत्र तत्रापि शयनं हट्टमन्दिरे। मरणं गोमतीतीरे” उद्भटः।
गोमतल्लिका = स्त्री प्रशस्ता गौः (जातिः) “प्रशंसाव चनैश्च” पा० नित्यस० परनि०। प्रशस्ते गवि पुंस्यपि स्त्रीत्वमेव। “प्रंशसावचनैश्चेति” पा० सूत्रे वचनग्रहणं रूढमात्रशब्दपरिग्रहार्थं तेन ये यौगिकाः शस्तशोभनादयः ये च विशेषवचनाः शुचिसाध्वादयः ये च गौणवृत्त्या सिंहोमाणवक इत्यादौ प्रशंसां बोधयन्ति ते सर्व्वे व्युदस्यन्ते” मनो०। प्रशंसावचनरूढशब्दाश्चामरे पठिता यथा “मतल्लिका मचर्चिका प्रकाण्ड मुद्ध्वतल्लजौ। प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः”। गोमचर्चिकाप्यत्रार्थे स्त्री।
गोमत = न० गवां मतम्। गव्यूतौ शब्दार्थ०।
गोमत्स्य = पु० गौरिव स्थूलोमत्स्यः। सुश्रुतोक्ते नादेये मत्स्यभेदे। “तत्र नादेयाः रोहितपाठीनपाटलाराजीबवर्म्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारभूरणसहस्रदंष्ट्राप्रभृतयः”
गोमथ = त्रि० गां दुग्धं मथति मथ–अच् ६ त०। गोदुहे गोपे। ततः चतुरर्थ्यां कुमुदा० ठक्। गौमथिक तन्निर्वृत्तादौ त्रि०।
गोमन्त = पु० सह्यपर्व्वं तविवरस्थे पर्व्वतभेदे। “ततश्च्युताः गमिष्यामः सह्यस्य विवरं गिरिम्। गोमन्तमिति विख्यातं नैकशृङ्गविभूषितम्” हरिवं० ९६ अ०। तद्वर्ण्णनञ्च “एवं वयं जरासन्धादभितः कृतकिल्यिषाः। सामर्थ्यवन्तः सम्बन्धाद् गोमन्तं समुपाश्रिताः। त्रियोजनायतं सप्तत्रस्कन्धं योजनादधि। योजनान्ते शतद्वारं वीर विक्रमतोरणम्” भा० स० १३ अ०।
“तदगच्छ कृष्ण! शैलेन्द्रं गोमन्तं तु नगोत्तमम्” तत्रैव। जरासन्धेन तत्र कृष्णयुद्धकथा तत्पर्वतदाहकथा च हशिवं० ९९ अ० दृश्या। “मथुरापूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः” वृ० स० १६ अ०।
गोमन्द = पु० पर्वतभेदे। “क्रौञ्चद्वीपे महाक्रौञ्चो गिरीरत्नचयाकरः। सम्पूज्यते महाराज! चातुर्वर्ण्येन नित्यदा। गोमन्दः पर्वतो राजन्! सुमहान् सर्वधातुकः। यत्र नित्यं निवसति श्रीमान् कमललोचनः” भा० भी० १२ अ०।
गोमय = पुंन० गोः पुरीषं गो + मयट् अर्द्धर्चादि। (गोवर) १ गोः पुरीषे तद्गुणादिगोशब्दे २६८१ पृ० दृश्यम्। “अत्यन्त जीर्णदेहाया बन्ध्यायाश्च विशेषतः। रोगार्त्तायाः प्रसूताया न गोर्गोमयमाहरेत्” शब्दार्थचि० स्मृतिः। गोमयस्य श्रेष्ठताकारणम्। “शतं वर्षं सहस्राणां तपस्तप्तं सुदुष्करम्। गोभिः पूर्व विसृष्टाभिर्गच्छेम श्रेष्ठतामिति। अस्मत्पुरीषस्नानेन जनः पूयेत सर्वदा। शकृता च पवित्रार्थं कुर्वीरन् देव मानुषाः। ताभ्यो वरं ददौ व्रह्मा तपसोऽन्ते स्वयं प्रभुः। एवं भवत्विति विभुर्लोकांस्तारयतेति च”। तत्र लक्ष्म्या वासो यथा गोलक्ष्मीसंवादे “अवश्यं माननां कार्य्या तवास्माभिर्यशस्विनि!। शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे!। श्रीरुवाच। दिष्ठ्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः। एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः!” इति भा० शा० दानधर्मे उक्तम्। “गोमयं यमुना साक्षात् गोमूत्रं च सरस्वती” काशीख०। “गोमयाच्च वृश्चिको जायते” शास्त्रकारप्रवादः “मुग्धाङ्गना गोमयगोमुखानि” माघः। “शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्” मनुः। २ तदात्मके त्रि० स्त्रियां ङीप।
गोमयच्छत्र = न० गोमये तदाधारस्याने छत्रमिव। शिलीन्धे (छातिया)। त्रि० स्वल्पार्थे ङीप् स्वार्थे क। गोमयच्छत्रिकापि तत्रार्थे स्त्री हारा०।
गोमयप्रिय = न० गोमयं प्रियमस्य साधनत्वात्। भूतृणे शिलीन्ध्रे रत्नमाला।
गोमयोत्था = स्त्री गोमयादुत्तिष्ठति उद् + स्था–क टाप्। (गुवरियापोका) कीटभेदे हेमच०।
गोमयोद्भव = त्रि० गोमयादुद्भवति उद् + भू–अच्। १ गोमयजाते २ आरग्बधे (सो~दाल) वृक्षे च पु० शब्दर०।
गोमहिषदा = स्त्री कुमारानुचरे मातृभेदे। “शृणु मातृगणान् राजन्! कुमारानुचरानिमान्” इत्युपक्रमे “पयोदा गोमहिषदा गोविषाणी च गारत!” भा० श० ४७ अ०।
गोमांस = न० ६ त०। गवां मांसे तद्गुणादि गोशब्दे २६८१ पृ० उक्तं “गोमांसभक्षणे प्राजापत्यं चरेत्” सुमन्तुः तच्चाज्ञानतः, ज्ञानतस्तद्भक्षणे चान्द्रायणं यथाह शातातर्पः “अगम्यागमने चैव मद्यगोमांसभक्षणे। शुद्ध्यै चान्द्राः यणं कुर्य्यान्नदीं गत्वा समुद्रगाम्” विष्णुना तु द्विजातीनां तत्र पुनरुपनयनमुक्तं यथा “विड्वराह ग्रासकुक्कुटनरगोमांसभक्षणे सर्वेष्वेव द्विजातीनां प्रयिश्चित्तान्ते भूयः संस्कार’ कुर्य्यात्।”
गोमातृ = स्त्री ६ त०। गवां मातरि सुरभौ कश्यपपत्नीभेदे। “गोमातरः सुशीलाद्यास्तत्र सन्ति शिवप्रियाः” काशीख० २ अ०।
गोमायु = पु० स्त्री गां विकृतां वाचं मिनोति मा–उण्। १ शृगाले, अमरः “अनु हुङ्गुरुते घनध्वनिं नहि गोमायुरुतानि केशरी” किरा०। “पांशुवर्षे दिशां दाहे गोमायुविरुते तथा” मनुः। तन्मूत्रादिभक्षणनिषेधमाह मनुः “विडवराहनरोष्ट्राश्वगोमायोः कपिकाकयोः। प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत्।” तद्रुतादिशुभाशुभफलं वृ० स० उक्तं यथा “श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः। हूहरुतास्ते परतश्च टाटा पूर्णः खरोऽन्ये कथिताः प्रदीप्ताः। लोमाशिकायाः खलु कक्कशब्दः पूर्णः स्वभावप्रभवः स तस्याः। येऽन्ये स्वरास्ते प्रकृतेरपेताः सर्वे च दीप्ता इति सम्प्रदिष्टाः। पूर्वोदीच्योः शिबा शस्ता शान्ता सर्वत्र पूजिता। धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्। सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्न्यशोभना। पुरे सैन्येऽपसव्या च कष्टा सूर्य्योन्मुखी शिवा। याहीत्यग्निभयं शास्ति टाटेति मृतवेदिका। धिग्धिग् दुष्कृतमाचष्टे सज्वाला देशनाशिनी। नैव दारुणतामेके नज्वालायाः प्रचक्षते। अर्काद्यनलवत्तस्या वक्त्रं लालास्वयावतः। अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी। वारुण्यनुरुता म्सव शंसते सलिले मृतिम्। अक्षोभः श्रवणं चेष्टं घनप्राप्तिः प्रियागमः। क्षोभप्रधानभेदश्च वाहनानां च सम्पदाम्। फलमासप्तमादेतदग्राह्यं परतो रुतम्। याम्यायां तद्विपर्यस्तं फलं षटपञ्चमादृते। या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम्। रावात् त्रासं च जनयेत्सा शिवा न शिवप्रदा। मौनं गता प्रतिरुते नरद्विरदवाजिनाम्। या शिबा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति। भेभे इति शिबा भयङ्करी भो भो व्यापदमादिशेच्च सा। मृतबन्ध निवेदनी फिफी हुहु चात्महिता शिवा स्वरे। शान्ता त्ववर्णात् परमं रुवन्ती टाटामुदीर्णमिति वाश्यमाना। टे टे च पूर्वं परतश्च थे थे तस्याः स्वतुष्टिप्रभवं रुतं तत्। उच्चेर्घोरं वर्णमुच्चार्य्य पूर्वं पश्चात् क्रोशत् क्रोष्टुकस्यानुरूपम्। या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण”। श्वरुतादिफलं श्वशब्दे वक्ष्यंमाणं तत्तुल्यफलमेतस्येत्यतिदिष्टम्! २ गन्धर्वभेदे जटाधरः। “बहुभिः सह गन्धर्वैः प्रागायत च तुम्बुरुः” इत्युपक्रमे “गोमायुः सूर्य्यवर्चाश्च सोमवर्चाश्च सप्तमः” हरिवं० २६ अ०।
गोमायुभक्ष = पु० गोमायुं भक्षयति भक्ष–अण् उप० स०। नीचजातिभेदे अर्कपुत्रस्येत्युपक्रमे “गोमायुभक्षशूलिक वोक्काणाश्वमुखविकलाङ्गाः” वृ० स० १६ अ० तस्य शनि बिभागे उक्तिः।
गोमिन् = त्रि० गौरस्त्यस्य मिनि। १ गोस्वामिनि अमरः स्त्रियां ङीप्। “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम्। गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम्” मनुः। २ उपासके ३ शृगाले पु० मेदि०। ४ बुद्धभिक्षुशिष्ये पु० त्रिका०। शालागब्दे परे समासे छात्र्यादि०। “छात्र्यादयः शालायाम्” पा० अस्थ उदात्तता।
गोमीन = पु० स्त्री गौरिव स्थूलो मीनः। गोमत्स्याख्ये मीनभेदे “न दद्यात् तिक्तकमठं पशुशृङ्गिणमेव। गोमीनं चक्रशकुलं वडालराघवं तथा” मत्स्यसूक्तम्।
गोमुख = पु० गोर्मुखमिव मुखमस्य। १ नक्रे २ यक्षभेदे च हेमच०। ३ मातलिपुत्रे “बहुशोमातल त्वञ्च तव पुत्रश्च गोमुखः” भा० क० ९९ अ०। ४ बाद्यभेदे ५ कुटिलाकारे लेपने च न० मेदि० वाद्यभेदे पुंस्त्वमपि यथा “आडम्बरान् गोमुखांश्च डिण्डिमांश्च महास्वंनान्” भा० श० ४७ अ०। मृदङ्गाझर्झराभेर्य्यः पणवाणकगोमुखाः” भा० द्रो० ८२ अ०। “पणवाणकगोमुखाः सहसैवाप्यभ्यहन्यन्त” गीता। लेपनञ्च तदाकारेण भित्तौ लेखनम् “मुग्धाङ्गनागोमयगोमुखानि” माघः। ६ तदाकारे सन्धिभेदे (सुरङ्ग) तन्त्रोक्ते जपमालारक्षणाय पट्टवस्त्रादिनिर्भिते स्वनामख्याते ७ पदार्थे स०। तस्य लक्षणं मुण्डभालात० उक्तं यथा। “चतुर्तिंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम्। निर्मायाष्टाङ्गुलिमुखं ग्रीवायां षड्दणाङ्गुलम्। ज्ञेय गोमुखयन्त्रञ्च सवतन्त्रषु गोपितम्। तन्युखे स्थापयेन्मालां ग्रीवामध्यगते करे। प्रजपेद्विधिना गुह्यं वर्णमालाधिकं प्रिये! निधाय गोमुखे मालां गोपयेन्मातृजारवत्” (गोमुड) ख्याते ८ नदीभेदे स्त्री गोमु- खाकारत्वात् ९ हिमालयात् भूमौ गङ्गापतनगुहायां स्त्री ङीष्।
गोमूत्र = न० ६ त०। (चोना) इति ख्याते गोर्मूत्रे गोशब्दे २६८१ पृ० तद्गुणाद्युक्तम्। “शुद्धिर्विजानता कार्य्या गोमूत्रेणोदकेन वा।” “गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा” “गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः” मनुः।
गोमूत्रिका = स्त्री गोर्मूत्रस्येव गतिरस्त्यत्र ठन्। चित्राल ङ्कारभेदे तल्लक्षणमलङ्कारशब्दे ३९२ पृ० दृश्यम्। सा च पादार्द्धश्लोकविपरीतभेदाच्चतुर्विधा। दिङ्मात्रमुदाह्रियते” प्र। वृ। त्ते। वि। क। स। द्द्वा। नं। सा। ध। ने। प्य। वि। षा। दि। भिः। व। वृ। षे। वि। क। स। द्दा। नं। यु। ध। मा। प्य। वि। षा। णि। भिः। माघे १९ स० ४६ श्लोके तल्लक्षणान्तरं मल्लिनाथोक्तं यथा “वर्णानामेकरूपत्वं यद्येकान्तरमर्द्धयोः। गोमूत्रिकेति तत् प्राहुर्दुर्ष्करं तद्विदो विदुः”। षोडशकोष्ठद्वये पङ्क्तिद्वये द्वयं द्वयं क्रमेण बिलिख्य एकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरिति तदुद्धारः। गोमूत्रप्रकारः प्रकारे स्थूला० कन् टापि अत इत्त्वम्। गोमूत्रतुल्ये बक्रसरलप्राये ३ प्रचारादौ। “गोमूत्रिकाप्रचारेषु” दशकु० “गोमूत्रतुल्यवक्रसरलप्रचारेषु” (ताम्बुडु) ख्याते ४ तृणभेदे स्त्री राजनि०।
गोमृग = पु० स्त्री गवाकृतिर्मृगः! गवये तस्य गवाकृतित्वात् तथात्वम्। “अश्वस्तूपरो गोमृगस्ते प्राजापत्याः” यजु० २४। १। स्त्रियां जातित्वात् ङीष्।
गोमेद = पु० गौरिव मेद्यति मिद–अच्। १ मणिभेदे २ द्वीपभेदे तन्नामनिरुक्तिर्यथा “गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः। याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले। स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून्। वव्रे, तं गोतमः कोपादशपत् सोऽगमत् क्षयम्। यज्ञवाटेऽस्य तागावो दग्धाः कोपाग्निना मनेः। तन्मेदसा महीच्छन्ना गोमेदः स ततोऽभवदिति” युक्तिकल्पतरुः। ३ प्लक्षद्वीपस्थे वर्षाचलभेदे तद्वर्षोपक्रमे” मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्वताः। सप्तैव तेषां नामानीत्यभिधाय “गोमेदश्चैव चन्द्रश्च नारदो दुन्दभिस्तथा। सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः” विष्णु पु०। स्वार्थे क। मणिभेदे तस्य परीक्षादियुक्तिकल्पतरावृक्तं यथा “हिमालय वा सिन्धौ वा गोमेदमणिसुम्भवः। स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि। वलक्षः पिञ्जरो धन्यो गोमेद इति कीर्त्तितः। चतुर्द्धा जाति भेदस्तु गोमेदेऽपि प्रकाश्यते। ब्राह्मणः शुक्लवर्ण स्यात् क्षत्रियो रक्त उच्यते। आपीतो वैश्यजातिस्तु शूद्रस्त्वानील उच्यते। छाया चतुर्विधा श्वेता रक्ता पीताऽसिता तथा। गुरुप्रभाढ्यः सितवर्णरूपः स्निग्धो मृदुर्वातिमहापुराणः। स्वच्छस्तु गोमेदमणिर्धृतोऽयं करोति लक्ष्मीं धनधान्यवृद्धिम्। लघुर्विरूपोऽतिखरोऽन्यमानः स्नेहोपलिप्तो मलिनः खरोऽपि। करोति गोमेदमणिर्विनाशं सम्पत्तिभोगे बलवीर्य्यराशेः। ये दोषा हीरके ज्ञेयास्ते गोमेदमणावपि। परीक्षा वह्नितः कार्य्या शाणे वा रत्नकोविदैः।। स्फटिकेनैव कुर्वन्ति गोमेदप्रतिरूपकम्। शुद्धस्य गोमेदमणेस्तु मूल्यं सुवर्णतो द्वैगुणमाहुरेके। अन्ये तथा विद्रुमतुल्य मूल्यं तथा परे चामरतुल्यमाहुः। चतुर्बिध्रानामेषान्तु धारणं परिसम्मतम्”। सच जलकालुष्यशोधकः यथाह सुश्रुतः “तत्र (जले) सप्त कालुष्यप्रसाधनानि भवन्ति तद्यथा कतकगोमेदकविसग्रन्थिसैबालमूलवस्त्राणि मुक्तामणिश्चेति”। स्वार्थे क। द्वीपभेदे। “शाकं ततः शाल्सलमत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च। द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपसुदाहरन्ति” सि० शि०।
गोमेदसन्निभ = पु० गोमेदेन तुल्यः नित्यस०। दुग्धपाषाणे राजनि०।
गोमेध = पु० मेध–बधे आधारे घञ् ६ त०। गोसवाख्ये यज्ञभेदे गोसवशब्दे विवृतिः “गवां मेधमवाप्नोति अप्सरोभिश्च मोदते” भा० आनु० १०९ अ०।
गोऽम्भस् = न० ६ त०। गोमूत्रे राजनि०।
गोयज्ञ = पु० गवा कृतो यज्ञः। १ गोसवयज्ञे तच्छब्दे विवृतिः। गा उद्दिश्य यज्ञः। श्रीकृष्णेन गोपानां हितार्थं वृन्दावने प्रवर्त्तिते गोवर्द्धनगिरियज्ञसहिते गवां महोत्सवकारके २ व्यापारभेदे तत्तथा हरिवं० ७३ अ०। “शरद्येवं सुशस्यायां प्राप्तायां प्रावृषः क्षये। नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः। फलैः प्रबालेन घनमिन्द्रचापघनोपमम्। भवनाकारविटपं लतापरम मण्डितम्। विशालमूलविततं पवनाभोगधारिणम्। अर्चयामागिरिं देवं गाश्चैब सविशेषतः। सावतसैर्विषाणैश्च बर्हापीडैश्च दंशिर्तेः। घण्टाभिश्च प्रलम्बाभिः पुष्पैः शारदिकैस्तथा। शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्त्यताम्। पूज्यतां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम्। गोयज्ञं कारयिष्यामि बलादेव न संशयः”। एवं श्रीकृष्णेनोक्ते गोपवाक्यं यथा “यत्त्वयाऽभिहितं वाक्यं गिरियज्ञं प्रति प्रभो। कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधेः। स्थितः शक्रमहस्तात! श्रीमान् गिरिमहस्त्वयम्। त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम्। भाजनान्युप कल्प्यन्तां पयसः पेशलानि च। कुम्भाश्च विनिवेश्यन्ता मुदपानेषु शोभनाः। पूर्य्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः। भक्ष्यं भोज्यञ्च पेयञ्च तत्सर्व्वमुपनीयताम्। भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च। त्रिरात्रञ्चैव सन्दोहः सर्ब्बघोषस्य गृह्यताम्। विशस्यन्ताञ्च पशवो भोज्या ये महिषादयः। प्रवर्त्यताञ्च यज्ञोऽयं सर्वगोपसुसङ्गुलः। आनन्दजननो घोषो महान् मुदितगोकुलः। तूर्य्यप्रणादघोषैश्च वृषभाणाञ्च गर्ज्जितैः। हम्भारवैश्च वत्सानां गोपानां हर्षवर्द्धनः। दधिह्रदः शरावर्त्तः पयःकुल्यासमावृतः। मांसराशिप्रकॢप्ताद्यः प्रकाशौदनपर्वतः। सं प्रावर्तत यज्ञः स गिरेर्गोभिः समाकुलः। तुष्टगोपगणाकीर्णो गोपनारीमनोहरः। अथाधिशृतपर्य्यन्ते पर्य्याप्ते यज्ञसंविधौ। यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह। यजनान्ते तदन्नन्तु तत्पयो दधि चोत्तमम्। मांसञ्च मायया कृष्णो गिरिर्भूत्वा समश्नुते। तर्पिताश्चापि विप्राग्र्यास्तुष्टाः सम्पूर्णभोजनाः। उत्तस्थुः प्रीतमनसः स्वस्ति वाच्य यथासुखम्। भुक्त्वा चावभृथे कृष्णः पयः पीत्वा च कामतः। संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै। तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम्। गिरिमूर्द्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः। भगवानपि तेनैव रूपेणाच्छादितः प्रभुः। सह तैः प्रणतो गोपैर्ववन्दात्मानमात्मना। तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम्। भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म? किङ्कराः। स उवाच ततो गोपान् गिरिप्रभवया गिरा। अद्य प्रभृति याज्योऽहं गोषु यद्यस्ति वो दया। अहं वः प्रथमो देवः सर्वकामकरः शुभः। सम प्रभावाच्च गवामयुतान्युपभोक्ष्यथ। शिवश्च वो मविष्यामि मद्भक्तानां वने वने। रंस्येऽहं सह युष्माभिर्यथा दिवि गतस्तथा। ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः। एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम्। पर्य्याप्नुवन्तु क्षिप्रं मां गावो वत्ससमाकुलाः। एवं मम परा प्रीतिर्भविष्यति न संशयः” ७४ अ०।
गोयान = न० गवा कृष्टं यानम्। गवाकृष्टे याने (शगड) “गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः” सुश्रुतः गोयाने मैथुननिषेधमाह मनुः “मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः। गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत्”।
गोयूति = स्त्री “गोर्यूतौ छन्दसि” पा० अध्वपरिमाणे” वार्त्ति० छन्दोध्वपरिमाणभिन्ने न वान्तादेशः। गोर्गतौ।
गोरक्ष = पु० गां रक्षति सेवनात् रक्ष–अण् उप० स० (चाकुलिया) १ लताभेदे २ नागरङ्गे मेदि०। ३ ऋषभनामौषधौ हेम०। ३ गोपालके त्रि०। भावे घञ्। ५ गोः रक्षणे च। “कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम्” मनुः।
गोरक्षक = त्रि० गां रक्षति रक्ष–ण्वुल् ६ त०। (राखाल) गोपालके “गोरक्षकान् बाणिजकान् तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत्” मनुः।
गोरक्षकर्कटी = स्त्री कर्म्म०। क्षुद्रकर्कट्याम् (राखालकाकुड) भावप्र०।
गोरक्षजम्बू = स्त्री गोरक्षे गोपे जम्बूरिव। १ घोण्टाफले २ मोधूमे च जटा०।
गोरक्षतण्डुली = स्त्री गोरक्षः तण्डुलो वीजं यस्याः। (गोरक्षचाकुलिया) क्षुपभेदे रत्नमाला।
गोरक्षतुम्बी = स्त्री गोरक्षी तुम्बी। कुम्भाकारतुम्ब्वाम्राजनि०
गोरक्षदुग्धा = स्त्री गोरक्षं गोपोषकं दुग्धं निर्यासोऽस्याः। मालवप्रसिद्धे क्षुपभेदे गोरक्षीक्षुपे राजनि०।
गोरक्षी = स्त्री० गां रक्षति रक्ष–षण् ईष् मुग्ध०। मालवप्रसिद्धे क्षुपभेदे राजनि०।
गोरङ्कु = पु० स्त्री गवा वाचा रङ्कुरिव। पक्षिभेदे लग्नके मेदि०।
गोरट = पु० गवि रटति रट–अच्। दुष्खदिरे राजनि० तस्व गोः पोषणाय रटनात् तथात्वम्।
गोरण = न० गुर–भावे ल्युट्। उत्तोलने उद्यमे अमरः।
गोरथ = पु० मगधदेशस्थे पर्वतभेदे। “अतीत्य गङ्गां शोणञ्च त्रयस्ते प्राङ्मुखास्तदा। कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः। ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्। गोरथं गिरिमासाद्य ददृशुर्मागधं (जरासन्धपुरम्) पुरम्”। भा० स० १९ अ०।
गोरस = पु० ६ त०। १ गोर्दुग्धे २ दध्नि ३ तक्रे च हेम०। “आ- द्यानां मांसपरमं मध्यानां गोरसोत्तरम्। तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ!” भा० उ० ३३ अ०। “शालाः शालीक्षुगोरसैः” भा० आश्व० ८५ अ०। गोरसानुपभुञ्जान उपभोगांश्च भारत!”। भा० व० २३९ अ०। “अन्नं प्रर्य्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम्। अस्नेहा अपि गोधूमयवगोरसविक्रियाः” याज्ञ० अस्नेहस्य चिरस्थितस्य तद्विकारस्य भोज्यतामाह। “हरिद्रा गोरसो धान्यं पुनः पाकेन शुध्यति” स्मृतिः। ४ वाक्यरसे च “कोरसो गोरसं विना” उद्भटः।
गोरसज = न० गोरसात् दध्नो जायते जन–ड ५ त०। तक्रे राजनि०।
गोराज = पु० ६ त० टच् समा०। श्रेष्ठवृषे शब्दर०।
गोराटिका = गोरिव रटति रट + ण्वुल्। शारिकापक्षिणि राजनि०। अच् गौरा० ङीष्। गोराटीत्यपि तत्रैव हेमच०।
गोरिका = स्त्री गोराटिका पृषो०। शारिकाखगे राजनि०।
गोरुत = न० ६ त० १ गवां शब्दे तद्रुतशुभाशुभफलं गवेङ्गितशब्दे २५ ६७ पृ० उक्तम्। गोरुतं तच्छब्दः श्रुतिगोचरत्वेन अस्त्यस्य अच्। गोरवश्रवणयोग्ये २ क्रोशद्वयात्मके देशे हेमच०।
गोरूप = न० ६ त०। १ गोः रूपे “जुगोप गोरूपधरामिवोर्वीम्” रघुः। गोः रूपमिव रूपमस्य। ३ महादेवे पु०। “गारूपश्च महादेवो हस्त्यश्वोष्ट्रखराकृतिः” भा० आनु० १४ अ०।
गोरोच = न० गवा किरणेन रोचते रोच–अच्। हरिताले राजनि०।
गोरोचना = स्त्री गोभ्यो जाता रोचना हरिद्रा। स्वनामख्याते गन्धद्रव्ये भावप्र०। “गोरोचना हिमा तिक्ता वश्या मङ्गलकान्तिदा। विषाऽलक्ष्मोग्रहोन्मादगर्भस्रावक्षतास्रहृत्” भावप्र०। “गोरोचनापत्रविभक्तरम्याः” “गोरोचनाक्षेपनितान्त गौरे” कुमा०। सा च यन्त्रलेखनदव्यं “गोरोचनालक्तककुङ्कुमेन” तन्त्रसारोक्तेः।
गोर्द = न० गुर। अब्दादित्वात् नि०। मस्तिष्के मस्तकस्थे घृते अमरः।
गोल = पु० गुड–अच् डस्य लः। १ सर्ववर्त्तुले २ मदनवृक्षे रत्नमा०। ३ जारात् जाते विधवायाः सुते धरणी। ४ वोले जटाधरः। गोलः विषतयाऽस्त्यस्य अच्। खगोलभूगोलज्ञापके भास्करीये गोलाध्यायाख्ये ५ ग्रन्थे च। “तं तां च प्रणिपत्य गोलममलं यालावबोधं ब्रुवे। मध्याद्यं द्युसदां यदत्र गणितं तस्योपपत्तिं विना प्रौटिं प्रौढसभासु नैति गणको निःसंशयो न स्वयम्। भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च। सभा न भातीव मुवक्तृहीना गोलानभिज्ञो गणकस्तथात्र”। “गोलः स्मृतः क्षेत्रविशेष एष प्राज्ञैरतः स्याद्गणितेन गम्यः” सि० शि० उक्ते ६ क्षेत्रभेदे ७ मण्डले न० मेदि० ८ ज्योतिषोक्तेग्रहयोगभेदे पु०। “ग्रहाणामेकस्मिन् यदि भवति षण्णां निवसतिस्तदा गोलोयोग, प्रलयपदमिन्द्रोऽपि लभते। भवेल्लोको रक्षः, परिहरतिं पुत्रञ्च जननी नृपाणां नाशः स्यात् ज्वलति वसुधा शुष्यति नदी” प्रश्नकौमुदी “सप्त ग्रहा यदैकस्था गोलयोगस्तदा भवेत्। दुर्भिक्ष्यं राष्ट्रपीडा च तस्मिन् काले नृपक्षयः” मयूरचित्रकम्। “एकादिगृहोपेतैरुक्तान् योगान् विहायसंख्याख्यान्। गोलयुकशूलकेदार पाशदामाख्यवीणाः स्युः। दुःखितदरिद्रघातुककृषिकर दुःशील पशुपनिपुणानाम्। जन्म क्रमेण दुःखिनः परभाग्यैः सर्व एवैते” दीपिका।
गोलक = पु० गुड–ण्वुल् डस्य लः। १ मणिके अलिञ्जरे (जाला) २ गुडे च हेमच०। ३ गन्धरसे रत्नमाला ३ कलाये (मटर) ख्याते शब्दच० तस्य गोलाकृतित्वात् तथात्वम्। गोल + स्वार्थे क। ४ गोलशब्दार्थे ५ पिण्डे च “तेजसां गोलकः सूर्य्यः ग्रहर्क्षाण्यम्बुगोलकाः। प्रभावन्तोहि दृश्यन्ते सूर्य्यरश्मिप्रदोपिताः” सू० सि०। ६ गोलोके न० “यद्रूपं गोलकं धाम तद्रूपं नास्ति मामके” तन्त्रसा०। जारजगोलकस्य संस्कारार्हता कुण्डशब्दे २०८७ पृ० उक्ता। ७ इन्द्रियाधिष्ठानभेदे न०। चक्षुर्गोलकम्।
गोलक्षण = न० ६ त०। गोः शुभाशुभसूचके चिह्नभेदे वृ० स० तल्लक्षणाद्युक्तं यथा “पराशरः प्राह वृहद्रथाय गोलक्षणं यत् क्रियते ततोऽयम्। मया समासः शुभलक्षणास्ता सर्वास्तथाप्यागमतोऽभिधास्ये। सास्राबिलरूक्षाक्ष्यो मूषक नयनाश्च न शुभदा गावः। प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः। दशसप्तचतुर्दन्त्यः प्रलम्ब मुण्डानना विनतपृष्ठाः। ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च। श्यावातिदीर्घजिह्वागुल्फेरतितनुभिरतिवृहद्भिर्वा। अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च। वृषभोऽप्येवं स्थुलातिलम्ब- वृषणः सिराततक्रोडः। स्थूलसिराचितगण्डस्त्रिस्थानं मेहते यश्च। मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्येष्टः। कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः। स्थूलशकृष्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च। गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः। श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडाल्यक्षः। विप्राणामपि न शुभं करोति वृषभः परिगृहीतः। ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः। कातरनयना हीनाश्च पृष्ठतस्ते न भारसहाः। मृदुसंहततास्वोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च। तनुह्रस्वीञ्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च। आताम्र संहतखुरा व्यूढोरस्का वृहत्ककुदयुक्ताः। स्निग्ध श्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः। तनुभूस्पृग्बालधयो रक्तान्तविलोचना महोच्छासाः। सिंहस्कन्धास्तन्वल्प कम्बलाः पूजिताः सुगताः। वामावर्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्त्तैः। शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः। वैदूर्य्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रवर्माणः। पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वेऽपि भारवहाः। घ्राणोद्देशे शवलो मार्जारमुखः सितश्च दक्षिणतः। कमलोत्पलताक्षाभः सुबालधिर्वाजितुल्य जवः। लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणक्रोडः। ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः। सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः। हंसोनाम शुमफलो यूथस्य विवर्धनः प्रोक्तः। भूस्पृग्बालधिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च। कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः। यो वा सितैकचरणो यथेष्टवर्णश्च सोऽपि शस्तफलः। मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति” ६१ अ०।
गोलत्तिका = स्त्री गवि भूमौ लत्तिकेव। वनचरपशुस्त्रीभदे “रोहित् कण्डणाची गोलत्तिका तेऽप्सरसाम्” यजु० २४। ३७। “रोहित् ऋष्यः, कुण्डृणाची, वनत्तरी गोलत्ति कापि” वेददी०।
गोलन्द = पु० ऋषिभेदे तस्यापत्यं गर्गा० यञ्। गौलन्द तदपत्ये पु० स्त्री।
गोलयन्त्र = न० सि० शि० उक्ते यन्त्रभेदे। “अपवृत्तगरविचिह्न क्षितिजे धृत्वा कुजेन संसक्ते। नाडोवृत्ते विन्दुं कृत्वा धृत्वाथ जलसमं क्षितिजम्। रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विधते। उडुगोले कुजविन्द्वोर्मध्ये नाड्यो द्युजाताः स्युः”। “यथोक्तविधिना खगोलान्तर्भगोलं वद्ध्वा तत्र क्रान्तिवृत्ते मेषादेरारभ्य रविभुक्तं राशिभागाद्यं दत्त्वा तदग्रे तच्चिह्नं तदपवृत्तग–रविचिह्न मुच्यते। भगोलं चालयित्वारविचिह्नं क्षितिजे धार्य्यम्। तथा धृते सति क्षितिजं प्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकया विन्दुः कार्य्यः। ततः क्षितिजवृत्तं जलसमं यथा भवति तथा गोलयन्त्रं स्थिरं कृत्वा भगोलस्तथा चाल्यो यथा रविचिह्नस्य च्छाया भूगर्भे पतति। तथा कृते सति विषुवद्वृत्ते क्षितिजविन्द्वोर्मध्ये यावत्यो घटिका स्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः। अपवृत्ते मेषादेरारभ्य प्राक् क्षितिजपर्य्यन्तं यद्राशिभागाद्यं तल्लग्नं ज्ञेयम्” प्रमिताक्षरा।
गोलवण = न० गवे देयं परिमितं लवणम्। याबद्गवे लवणं दीयते तावन्मिते लवणे। “गाधलवणयोः” पा० प्रमाणे गम्ये एतयोः परतः पूर्वं तत्पुरुषे प्रकृतिस्वरता।
गोला = स्त्री गां बहुभूमिम् आधारत्वेन लाति ला–क। १ गोदावरीनद्याम्। गां वाचं लाति। २ सख्या, ३ कुनट्याम्। गां दीप्तिं जल बा लाति। ४ पत्राञ्जने, ५ सणिके, ६ मण्डले, ७ वालक्रीडनके ८ दुर्गायाञ्च मेदि०।
गोलाक्ष = पु० ऋषिभेदे तस्य गोत्रापत्यम् अश्वा० फञ्। गौलाक्षायण तद्गोत्रापत्ये पु० स्त्री।
गोलाङ्गूल = पु० स्त्री गोर्लाङ्गूलमिव लाङ्गूलमस्य। १ वानरभेदे त्रिका० सच कश्यपपत्न्याः क्रोधायाः कन्यायांहरिनाम्न्यां जातः यथाह भा० आ० ६६ अ० “नव क्रोधवशा नारीः प्रजज्ञे क्रोधसम्भवा। मृगी च मृगमन्दा च हरी भद्रजनो अपि” इत्युपक्रमे “हर्य्याश्च हरयोऽपत्यं वानराश्च तरस्विनः। गोलाङ्गुलांश्च भद्रं ते हर्य्याः षुत्रान् प्रचक्षते”। २ कृष्णवानरे राजनि०। तल्लक्षणञ्चं काशी ख० ३ अ०। “गोलाङ्गूला रक्तमुखा नीलाङ्गा यूथनायकाः।”
गोलाध्याय = पु० गोलस्वरूंपादिप्रतिपादके भास्करीये ग्रन्थभेदे।
गोलास = पु० गां भूमिं लासयति प्रकाशयति लस–णिच् अण् उप० स०। शिलीन्ध्रे हारा०।
गोलिह = पु० गोभिर्लिह्यते लिह–घञर्थे क। १ छत्रिकायां २ घण्टापाटलौ (घण्टापारुलि) च जटा०।
गोलीढ = पु० गोभिर्लिह्यते लिह–क्त। घण्टापाटलौ (घण्टापारुलि) अमरः।
गोलोक = पु० वैकुण्ठोर्द्धस्थे स्थानभेदे तत्स्थानमानादि व्रह्मवै० पु० उक्तं यथा “निराधारश्च वैकुण्ठो ब्रह्माण्डानां परोवरः। तत्परश्चापि गोलोकः पञ्चाशत्कोटियोजनात्। ऊर्द्धे निराश्रयश्चापि रत्नसारविनिर्म्मितः। सप्तद्वारः सप्तसारः परिखासप्तसंयुतः। लक्षप्राकारयुक्तश्च नद्या विरजया युतः। वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा। योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम्। शतकोटियोजनश्च शैलौच्छ्रित एव च। दैर्घ्यं तस्य शतगुणं प्रस्थे च लक्षयोजनम्। योजनायुत विस्तीर्णस्तत्रैव रासमण्डलः। अमूल्यरत्ननिर्म्माणो वर्त्तुलश्चन्द्रविम्बवत्। पारिजातवनेनैव पुष्पितेन च वेष्टितः। कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च। नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा। त्रिकोटि रत्नाभरणैर्गोपीलक्षैश्च रक्षितः। रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः। नानाभोगसमायुक्तो मधुवापीशतैर्वृतः। पीयूषवापीयुक्तश्च कामभोगसमन्वितः। गोलोकगृहसंख्यानं वर्णनं वा विशारदः। न कोपि वेद विद्वान् वा वेदविद्वान् व्रजेश्वर!”।
गोलोमिका = स्त्री गोः लोमेव लोमास्य ङीप् ततः स्वार्थे के अणो ह्रस्वः। (पाथुरी) (गोधूमा) इति च ख्यातायां १ प्रस्तरिण्याम्। २ क्रोष्टुकपुच्छायाञ्च। राजनि०।
गोलोमी = स्त्री गोर्लोमेव लोम लोमसदृशं दलादिकमस्या ङीप्। १ श्वेतदूर्वायाम्। गोलोमेव जाता अण् ङीप्। २ बचायाम्। गवा वाचा लोमयति अनुकूलयति लोमन् + नामधातु–अच् गौरा० ङीष्। ३ वेश्यायां हेमच०। ३ गोलोमिकावृक्षे राजनि०।
गोवतस = पु० ६ त०। गवां वत्से तन्नामद्वादशीव्रतम् व्रत शब्दे दृश्यम्।
गोवत्सादिन् = पु० गोवत्समत्ति अद–णिनि६ त०। वृके (नेकडेवाव) राजनि०।
गोवन्दनी = स्त्री गवि भूमौ वन्द्यते वन्द–कर्म्मणि ल्युट् ङीप्। १ प्रियङ्गौ, अमरः २ पीतदण्डोत्पले रत्नमाला।
गोवर = न० गोषु व्रियते वृ–बा० अ। “गोष्ठान्तर्गोखुरक्षुण्णशुष्कचूर्ण्णितगोमयम्। गोवरं तत्समाख्यातं वरिष्ठं रससाधने” भावप्र० उक्ते शुष्कगोमयचूर्ण्णे(गेटा)
गोवर्द्धन = न० वृध–णिच् भावे ल्युट् ६ त०। १ गवां वर्द्धने। करणे ल्युट्। २ गिरियज्ञभेदे तत्प्रकारो गोयज्ञशब्दे दृश्यः वृधि–णिच्–कर्त्तरि ल्यु ६ त०। ३ वृन्दावनस्थे पर्व्वतभेदे पु० तस्य पूजाकालो हरिभक्तिविलासे १६ वि० उक्ते यथा “प्रातर्गोवर्द्धनं पूज्य द्यूतञ्चैव समाचरेत्। भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः। श्री० कृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः। शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः”। “प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत्” इति क्वचित् पाठः। तस्मात्तदिदं कर्म गोवर्द्धनप्राधान्येन गोप्रधान्येन च ख्यातमप्येकमेव ज्ञेयम्। तत्र दिननिर्णयमाह देवलः “प्रतिपद्दर्शसंयोगे क्रीडनैस्तु गवां मतम्। परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः”। निर्णयामृतधृतं पुराणान्तरवचनम् “या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप!। पूजामात्रेण वर्द्धन्ते प्रजा गावो महीपते!। ततः प्रातर्गोवर्द्धनं पूज्येति पूर्वाह्णतात्पर्य्यके द्वितीयासर्गंस्तु सर्वथा निषिद्धः तद्यथा “नन्दायां दर्शने रक्षाबलिदानदशासु च। भद्रायां गोकुलक्रीडा देशनाशाय जायते”। पुराणसमुच्चये तु सम्भावितचन्द्रोदयो द्वितीयासंयोग एव निषिध्यते “गवां क्रीडा दिने यत्र रात्रौ दृश्येत चन्द्रमाः। सोमोराजा पशून् हन्ति सुरभी पूजकांस्तथा”। तदुदयसम्भावनञ्च निर्णयामृते निर्णीतं यथा “प्रतिपद्यापराह्णिकत्रिमूहूर्त्तव्यापिन्यां द्वितीयायां चन्द्रदर्शनं सम्भाव्यते तदुक्तमग्न्याधानविषये वृद्धशातातपेन” द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी। अग्न्याधानञ्चतुर्द्दश्यां परतः सोमदर्शनादिति”। अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः ततश्च यत्र प्रतिपदि पराह्णत्रिमूहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावनमिति। अन्यदा तूत्तरैव प्रतिपत्तत्र गृहीता तथैवोक्तं पुराणसमुच्चये “वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका। द्वितीया वृद्धिगामित्वादुत्तरा तत्र चोच्यते”। किञ्च। यदा पूर्णप्रतिपत् परत्र निष्क्रामति तदाप्युत्तरैव कार्य्या यथोक्तं भविष्योत्तरे “यथा द्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः। तथैवाहोरात्रवृद्ध्या तिथिः प्रोक्तो मलिम्लुचः। यथा मलिम्लुचः पूर्वस्त्याज्योग्राह्य स्तथा परः। त्याज्या तिथिस्तथा पूर्वा ग्राह्या चैव तथोत्तरेति” निर्णयामृतमतम् किन्तु वञ्जुलीन्यायेन पूर्वैव मन्तुं शक्यते। तद्वदत्रापि देवलादिवचनप्रामाण्यमस्तीति। अथ गोवर्द्धनपूजाविधिः। तत्रैव पाद्मे “मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम्। गोमयेन महास्थूलं तत्र पूज्यो गिरिर्यथा। मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम्। वैष्णवं धाम संप्राप्य मोदते हरिसन्निधौ”। पूजामन्त्रः। “गोवर्द्धन! धराधार! गोकुलत्राणकारक!। विष्णुवाहुकृतोच्छ्रायो गवां कोटि प्रदो भव” गोपूजामन्त्रः स्कान्दे तत्रैव “लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता। घृतं वहति यज्ञार्थ यमपाशं व्यपोहतु। अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः। गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम्”। अथ तत्र गोक्रीडा तत्रैव “क्रोधापयेद्धावयेच्च गोमहिष्यादिकं ततः। वृषान् कर्षापयेद्गोपैरुक्तिप्रत्युक्तिवादनात्”। पाद्मे च तत्रैव “महिषादेस्तथा भूषा क्रीडनं वारणन्तथा”। तन्माहात्म्यञ्च तत्रैव “एवं गोवर्द्धनो गाश्च पूजनीया विधानतः। गोवर्द्धनमखोरम्यः कृष्णसन्तोषकारकेः”। “गोवर्द्धनस्याकृतिरन्वकारि” माघः।
गोवर्द्धनधर = पु० गोवर्द्धनं वृन्दावनस्थपर्वतभेदं धरति धर–अच् ६ त०। श्रीकृष्णे नन्दनन्दने तस्य तद्धारणकथा हरि० ७५ अ० यथा “गवां तत् कदनं दृष्ट्वा दुर्द्दिनागमजं महत्। गोपांश्चा सन्ननिधनान् कृष्णः कोपं समादधे। स चिन्तयित्वा संरब्धो दृष्टोपायो मयेति च। आत्मानमात्मना वाक्यमिद मूचे प्रियंवदः। अथाहमिममुत्पाढ्य सकाननवनं गिरिम्। कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्द्धरम्। अयं धृतो मया शैलः पृथ्वीगृहमिवापरम्। त्रास्यन्ते सव्रजा गावो मद्वश्यञ्च भविष्यति। एवं सञ्चितयित्वा तु कृष्णः सत्यपराक्रमः। बाहोर्बलं दर्शयिष्यन् समीपे तं महीधरम्। दोर्भ्यामुत्पाटयामास कृष्णो गिरिरिवापरः। स धृतः सङ्गतो मेधैर्गिरिः सव्येन पाणिना। गृहभावङ्गतस्तत्र गृहाकारेण वर्ष्मणा”। “धृतं गोवर्द्धनं दृष्ट्वा परित्रातञ्च गोकुलम्। कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः” हरि० ७६ अ०।
गोवर्द्धनधारिन् = पु० गोवर्द्धनं नगं धारयति धारि–णिनि। नन्दनन्दने श्रीकृष्णे।
गोवशा = स्त्री वशा बन्ध्या गौः जात्या समासे परनि०। बन्ध्यायां गवि।
गोवाट = न० ६ त०। गोशालायां गोष्ठे “सार्गलद्वारगोवाटं मध्ये गोस्थानसङ्कुलम्” हरिव० ६१। “गोवाटेषु च ये वृक्षाः परिवृत्तार्गलेषु च। सर्ब्बे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः हरिब० ६५ अ०।
गोवास = पु० बस आधारे घञ्। ६ त०। गवां वासस्थाने गोष्ठे “निवेशनमथा जग्मुर्जरासन्ध्यस्य धीमतः। गोवासमिव वीक्षन्तः सिंहा हैमवता यथा” भा० स० २० अ०।
गोवासदासन = पु० प्राच्ये देशभेदे तत्र भवः “एङ् प्राचां देशे” पा० एङादेर्वृद्धसंज्ञत्वात् छ। गोवासदासनीय तत्र मवे त्रि० तद्राजे पु० “गोवासदासनीयानां वशातीनाञ्च भारत!। प्राच्यानां वाटधानानां भोजानाञ्चाभिमानिनाम्” भा० व० २३ अ०।
गोवासन = पु० गां वासयति वस–णिच्–ल्यु ६ त०। गवां वासयितरि ब्राह्मणभेदे। “गोवासना ब्राह्मणाश्च दासनीयाश्च सर्वतः। प्रीत्यर्थं ते महाराज। धर्म्मराज्ञो महात्मनः” भा० स० ५१ अ०।
गोविकर्त्त = पु० गां विकृन्तति वि + कृत–अण् उप० स०। १ गोघातके २ कर्षके हालिके च। “रौद्रोयजमानस्याक्षावापगोविकर्त्तगृहेभ्यो गवेधुकाम्” कात्या० श्रौ० १५। ३। १२। अप्रहतां गां भूमिं विकृन्तति गोविकर्त्तः कर्षुकः गोहिंसको व्याधो वा। “अक्षावापस्य गृहेभ्यो गोविकर्त्तस्य च गवेधुकां सम्भृत्य” शत० ब्रा० ५। ३। १। १०। “गोविकर्त्तः मृगयासहायभूतो गोहिंसको व्याधः” भा०।
गोविकर्त्तृ = पु० त्रि० गां विकृन्तति वि + कृत–तृच् ६ त०। पाकाद्यर्थं गोघातके। “आरालिको गोविकर्त्ता सूपकर्त्ता नियोधकः। आसं युंधिष्ठिरस्याहम्” भा० वि० २ अ०। “नियोधकः बाहुयुद्धकारी।
गोवितत = पु० गावो वितता अत्र। गोभूयिष्ठे अश्वमेधयज्ञे “याजयामास तं कण्वो विधिवद्भूरिदक्षिणम्। श्रीमान् गोविततं नाम वाजिमेधमवाप सः” भा० आ० ७४ अ०। गोविनतोऽप्यत्र। “गोविनतेन शतानीकः” शत० ब्रा० १३। ५। ४१। ९। “आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन” शत० ब्रा० १३। ५। ४। २। “गोविनतो नाम वक्ष्यमाणस्तोमविशेषोऽश्वमेधः” भा०। तत्स्तोमभेदाः। “चतुर्विंशा पवमानाः, त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना एकविंशान्याज्यानि त्रिणवान्युक्थान्थेकविंशानि पृष्ठानि षट्त्रिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्तमग्निष्टोमसामादेकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः” ता० व्रा० उक्ताः।
गोविदांपति = पु० गां वेदवाणीं विदन्ति गोविदः वेदज्ञास्तेषां पतिः अलुक्स०। परमेश्वरे “अनिरुद्धः सुरानन्दो गोविन्दो गोविदांपतिः” विष्णुस०।
गोविन्द = पु० गां वेदमयीं वाणीं गां भुवं धेनुं स्वर्गं वा विन्दति “गवादिषु संज्ञायाम्” पा० श, ६ त०। विष्णौ वराहरूपेण भुव ऐश्वर्य्यप्राप्तेः इन्द्रेण स्वर्गस्य निवेदनात् मत्स्यरूपेण वेदस्योद्धारणात् गोभिर्वेदान्तवाक्यैः विद्यते इति वा तस्य तथात्वम् “गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः” विष्णु सहस्र० भाष्यधृतवाक्यम्” “नष्टां तु धरणीं पूर्व्वमविन्दत् यत् गुहागताम्। गोविन्द इति तेनाहं वेदैर्वाग्भिरभिष्टुतः” भा० शा० ३४४ अ०। “गौरेषा भवतो वाणी ताञ्च वेदयते भवान्। गोविन्दस्तु ततोदेवमुनिभिः कथ्यते भवान्।” तद्भाष्यधृतहरिव० वाक्यम्। “अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः। गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुबि शाश्वतम्” हरिव० ७६ अ०। गोभिश्च गोविन्दस्याभिषेककथा हरिव० ७६ अ० यथा “ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान्। अभिषेकेण गोविन्दं योजयामास योगबित्। दृष्ट्वाभिषेच्यमानं च गावस्तम् सह यूथपैः। स्तनैः प्रस्नवसंयुक्तैः सिषिचुः कृष्णमव्ययम्।” अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम्” इति च।
गोविन्दद्वादशी = स्त्री गोविन्दप्रिया द्वादशी। फाल्गुन शुक्लद्वादश्याम् तत्स्वरूपविधानादि ब्रह्म पु० यथा “फाल्गुनामलपक्षे तु पुष्यर्क्षे द्वादशी यदि। गोविन्द द्वादशी नाम महापातकनाशिनी। तस्यामुपोष्य विधिवन्नरः संक्षीणकल्मषः। प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभामिति”। “आमर्दकी द्वादशीति लोके ख्यातेयमेव हि। यत्र आमर्द्दकीपूजा व्रतमस्यां विशेषतः”। तदुक्तं व्राह्मे पापनाशिनीमाहात्म्य प्रसङ्गे “फाल्गुने तु विशेषेण विशेषः कथितो नृप! आमर्दक्याव्रतं पुण्यं विष्णुलोकप्रदं नृणाम्”। प्रभास खण्डे च देवीमहेश संवादे “फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः। स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा। गत्वा गिरौ वने वापि यत्र सा प्राप्यते शिवा। क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः। आमर्दाच्चैव दैत्यानां तेन साऽऽमर्दकी स्मृता। शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः। देवैर्व्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः। तंत्र गत्वा हरिः पूज्यो वृक्षमूलेऽथ वा शिवा। पूज्या पुष्पैः शुभैरात्रौ कार्य्यं जागरणं हरेः। करकं जलपूर्णन्तु कर्त्तव्य पात्रसंयुतम्। हविष्यान्नन्तु कर्त्तव्यं दीपः कार्य्यो विधानतः। एवं जागरणं कार्य्यं कथाश्रवण तत्परैः। मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः। देहान्ते च नराः सर्वे पूज्यन्ते हरिमन्दिरे”।
गोविष् = स्त्री ६ त०। गोमये अमरः।
गोविषाण = न० ६ त०। गोः शृङ्गे (सिग्) “अनर्थक मनायुष्यं गोविषाणस्य भक्षणम्। दन्ताश्च परिमृज्यन्ते रसश्च न च लभ्यते” भा० शा० १४० अ०। “नैपालं वा गोविषाणोद्भवं वा” सुश्रुतः। गोविषाणं साधनतयाऽस्त्यस्य ठन्। गोविषाणिक गोविषाणनिर्मिते वाद्यभेदे पु०। “पटहान् झर्झरांश्चैव क्रकचान् गोविषाणिकान्” भा० शल्य० ४७ अ०।
गोविष्ठा = स्त्री ६ त०। गोमये राजनि०।
गोवीथि = स्त्री गगनस्थे नक्षत्रभेदत्रयरूपे मार्गभेदे। “नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः। अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः”। “पैतामहात् त्रिभास्तिस्रो गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे” वृ० स० ९ अ०।
गोवीर्य्य = न० ६ त०। गवां वीर्य्ये “भृतावनिश्चितायां तु दशमं भागमाप्नुयुः। लाभगोवीर्य्यशस्यानां बणिग् गोपकृषीवलाः” नारद स०।
गोवृन्द = न० ६ त०। गोसमूहे हला०।
गोवृन्दारक = न० गौर्वृन्दारकमिव उपमितसमासे व्याध्रादे राकृतिगणत्वेन सिद्धेऽपि “वृन्दारकनागकुञ्जरैः पूज्यमानम्” पा० सामान्यप्रयोगेऽपि अस्य समासार्थं पुनर्ग्रहणभिति सि० कौ०। श्रेष्ठे गवि।
गोवृष = पु० गवि वर्षति रेतः वृष–क। श्रेष्ठे वृषे। “मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः” भा० व० ३० अ०। “गोवृषं वत्सकं वापि यथेच्छं विनिवेदयेत्” आ० त० भविष्यपु०। गोवृषं श्रेष्ठवृषम्” रत्नाकरः। “भगवान् गोवृषध्वजः” भा० अनु०८४ अ०। “ग्राम्याणां गोवृषश्चासि भवां ल्लोकप्रपूजितः” भा० आनु० १४ अ०। “मृगाणामथ शार्द्दूलं गोवृषन्तु गवामपि” हरिवंशे० ४ अ०। गौश्च वृषश्च तौ सादृश्येनास्त्यत्र अच्। सामान्यविशेषद्योतके गोवलीवर्द्दन्याये, गोवलीवर्दन्यायोऽप्यत्र
गोव्याघ्र = न० गौश्च व्याघ्रश्च सदाविरोधित्वात् समाहा० द्व०। गोव्याघ्रसमाहारे।
गोव्याधिन = पु० गोत्रप्रवर्त्तके ऋषिभेदे प्रवराध्याये मूलं दृश्यम्
गोव्रज = पु० ६ त०। १ गोसमूहे। गाबोत्रजन्त्यत्र व्रज–आधारे क। २ गोगतिस्थाने ३ गोष्ठे च पु० “न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे” “नाधीयीत स्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा”। “कृतवाप्रनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा” मनुः।
गोव्रत = न० गोहत्यानिमित्तं गोषु व्रतम्। १ गोहत्यानिमित्ते गोषु व्रतभेदे तच्च व्रतं विष्णुनोक्तं यथा। “मासमेकं कृतवापनो गवानुगमनं कुर्य्यात् आसीनास्वासीत स्थितासु स्थितः स्यात् अवसन्नाञ्चोद्धरेत् भयेभ्यश्च रक्षेत् तासां शीतादित्राणमकृत्वा नात्मनः कुर्य्यात् गोमूत्रेण स्नायात् गौरसैश्च वर्त्तेत एतद् गोव्रतं गोबधे कुर्य्यात्” पराशरस्तु सापवादं तत्र विशेषमाह “गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः। तद्बधन्तु न तं विद्यात् कामाकामकृतन्तथा। अङ्गुष्ठमात्रस्थूलोवा बाहुमात्रः प्रमाणतः। आर्द्रस्तु सपलाशश्च दण्डैत्यभिधीयते। दण्डादूर्द्ध्वं यदन्येन प्रहरेद्वा निपातयेत्। प्रायश्चित्तं चरेत् प्रोक्तं द्विगुणं गोब्रतञ्चरेत्। रोधबन्धनयोक्त्राणि धातनञ्च चतुर्विधम्। एकपादञ्चरेद्रोधे द्विपादं बन्धने चरेत्। योक्त्रेषु पादहीनं स्याच्चरेत् सर्वं निपातने। गोचारे च गृहे वापि दुर्गेष्वपि समेष्वपि। नदीष्वपि समुद्रेषु खातेऽप्यथ दरीमुखे। दग्धदेशे स्थिताः गावस्तम्भनाद्रोध उच्यते। योक्त्रदामकडोरैश्च घण्टाभरणभूषणैः। गृहे वापि वने वापि बद्धा स्याद्गौर्मृता यदि। तदेव बन्धनं विद्यात् कामाकामकृतञ्च तत्। मृल्लेखे शकटे पङ्क्तौ भारे वा पीडितोनरैः। गोपतिर्मृत्युमाप्नोति योक्त्रे भवति तद्बधः। मत्तः प्रमत्तौन्मत्तश्चेतनोवाप्यचेतनः। कामाकामकृतक्रोधाद्दण्डैर्हन्यादथोपलैः। प्रहता वा मृता वापि तद्धि हेतुर्निपातने। मूर्च्छितः पतितोवापि दण्डेनाभिहतः स तु। उत्थि तस्तु यदा गच्छेत् पञ्च सप्त दशैव वा (पदानि)। ग्रामं वा यदि गृह्णीयात्तोयं वापि पिबेद् यदि। पूर्वव्याध्युपसृष्टश्चेत् प्रायश्चित्तं न विद्यते। पिण्डस्थे पादमेकन्तु द्वौ पादौ गर्भसम्मिते। पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम्। पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च। त्रिपादे तु शिखावर्जं सशिखन्तु निपातने। पादे वस्त्रयुगञ्चैब द्विपादे कांस्यभाजनम्। पादोने गोवृषं दद्याच्चतुर्थे गोद्वयं स्मृतम्। निष्पन्नसर्वगात्रन्तु दृश्यते वा सचेतनम्। अङ्गप्रत्यङ्गसम्पन्ने द्विगुणं गाव्रतं चरेत्। पाषाणेनैव दण्डेन गावोयेनाभिघातिताः। शृङ्गभ चरेत् पादं द्वौ पादौ तेन पातने। लाङ्गूले कृच्छ्रपा दन्तु द्वौ पादावस्थिभञ्जने। त्रिपादञ्चैव कर्णे तु चरेत् सर्वं निपातने। शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च। यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते। व्रणभङ्गे च कर्त्तव्यः स्नेहाभ्यङ्गस्तु पाणिना। यवसश्चापहर्त्तव्योयावद्दृढबलोभवेत्। यावत्सम्पूर्णसर्वाङ्गस्तावत्तं पोषयेन्नरः। गामेवं ब्राह्मणस्याग्रे नमस्कृत्य विसर्जयेत्। यद्यसम्पूर्णसर्वाङ्गोहीनदेहोभवेत्तदा। गोघातकस्य तस्यार्द्धं प्रायश्चित्तं विनिर्द्दिशेत्। काष्ठलोष्ट्रकप्राषाणैः शस्त्रेणोपहतो बलात्। व्यापादयति यो गान्तु तस्य शुद्धिं विनिर्दिशेत्। चरेत् सान्तपनं काष्ठे, प्राजापत्यन्तु लोष्ट्रके। तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चैवातिकृच्छ्रकम्। पञ्च सान्तपने गावः प्राजाप्रत्ये तथा त्रयः। तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश। प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम्। तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः। अन्यत्राङ्कनलक्ष्मभ्यां वाहने दाहने तथा। सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः। अतिदाहेऽतिवाहे च नासिकाभेदने तथा। नदीपर्वतसञ्चारे प्रायश्चित्तं बिनिर्द्दिशेत्। अतिदाहे चरेत् पादं द्वौ पादौ वाहने चरेत्। नासिके पादहीनन्तु चरेत् सर्वं निपातने। दहनाच्च बिपद्येत अबद्धोवापि यन्त्रितः। उक्तं पराशरेणैव ह्येकपादं यथाविधि। रोधबन्धनयोक्त्रञ्च भारः प्रहरणं तथा। दुर्गप्रतरयोक्त्रञ्च निमित्तानि बधस्य षट्। बन्धपाशसुगुप्ताङ्गोम्रियते यदि गोपशुः। भवने तस्य नाशस्य पापे कृच्छ्रार्द्धमर्हति। न नारिकेलैर्नच शाणबालैर्नचापिं मौञ्जैर्नच बद्धशृङ्खलैः। एतैस्तु गावोन निबन्धनीयाबद्ध्वा तु तिष्ठेत् परशुं गृहीत्वा। कुशैः काशैश्च बध्नीयाद्गोपशुं दक्षिणामुखम्। पाशलग्नाग्निदग्धेषु प्रायश्चित्तं न विद्यते। यदि तत्र भवेत् मृत्युः प्रायश्चित्तं कथं भवेत्?। जपित्वा पावनीं देवीं मुच्यते तत्र किल्विषात्। प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन्। गवाशनेषु विक्रीणंस्ततः प्राप्नोति गोबधम्। आराधितस्तु यः कश्चिद्भिन्नकक्षोयदा भवेत्। श्रवणं हृदयं भिन्नं मग्नोवा कूपसङ्कटे। कूपादुत्क्रमणे चैव भग्नोवा ग्रीवापादयोः। स एवं म्रियते, तत्र त्रीन् पादांस्तु समाचरेत्। कूपखाते तटीबन्धे नदीबन्धे प्रपासु च। पानीयेषु विपन्नानां पाय- श्चित्तं न विद्यते। कूपखाते तटीखाते दीर्घखाते तथैव च। अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते। वेश्मद्वार निवासेषु योनरः खातमिच्छति। स्वकार्य्यगृहखातेषु प्रायश्चित्तं विनिर्द्दिशेत्। निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च। अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते। ग्रामघाते शरौघेण वेश्मबन्धनिपातने। अतिवृष्टिहतानाञ्च प्रायश्चित्तं न विद्यते। संग्रामे प्रहतानाञ्च ये दग्धा वेश्मकेषु च। दावाग्नौ ग्रामघाते वा प्रायश्चित्तं न विद्यते। यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने। यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते। व्यापन्नानां बहूनाञ्च बन्धने रोधनेऽपि वा। भिषग्मिथ्योपचारे च प्रायश्चित्तं विनिर्द्दिशेत्। गोवृषाणां विपत्तौ च यावन्तः प्रेक्षकाजनाः। न वारयन्ति तां तेषां सर्वेषां पातकं भवेत्। एकोहतोयैर्बहुभिः समस्तैर्न ज्ञायते कस्य हतोऽभिथातात्। दिव्येन तेषामुपलभ्य हन्ता निर्वर्त्तनीयोनृपमन्नियुक्तैः। एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता भवेत्। पादं पादञ्च हत्यायाश्चरेयुस्तं पृथक् पृथक्। हतेषु रुधिरं दृश्यं व्याधिग्रस्तः कृशोभवेत्। नाना मवति दृष्टेषु एवमन्वेषणं भवेत्। मनुना चैवमेकेन सर्वशास्त्राणि जानता। प्रायश्चित्तन्तु तेनोक्तं गोषु चान्द्रायणं चरेत्। केशानां रक्षणार्थाय द्बिगुणं गोव्रतं चरेत्। द्विगुणे व्रतआदिष्टे दक्षिणा द्विगुणा भवेत्। राजा वा राजपुत्रोवा ब्राह्मणोवो बहुश्रुतः। अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत्। यस्य न द्विगुणं दानं केशश्च परिरक्षितः। तत्पापं तस्य तिष्ठेत वक्ता च नरकं व्रजेत। यत्किञ्चित् क्रियते पापं सवं केशेषु तिष्ठति। सर्वान् केशान् समुद्धृत्य च्छेदयेदङ्गुलिद्वयम्। एवं नारीकुमारीणां शिरसोमुण्डनं स्मृतम्। न स्त्रियाः केशवपनं न दूरे शथनासनम्। न च गोष्ठेवसेद्रात्रौ न दिवा गाअनुव्रजेत्। नंदीषु सङ्गमे चैव अरण्येषु विशेषतः। न स्त्रीणामजिनं वा सोव्रतमेवं समाचरेत्। त्रिसन्ध्य स्नानमित्युक्तं सुराणामर्च्चनं तथा। बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम्। गृहेषु नियतं तिष्ठच्छ चिर्नियममाचरेत्। इह योगाबधं कृत्वा प्रच्छादयितुमिच्छति। स याति नरकं घोरं कालसूत्रमसंशयम्। विमुक्तानरकात्तस्मान्मर्त्त्यलाके प्रजायते। क्लीवोदुःखी च कुष्ठी च सप्त जन्मानि वै नरः। तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत्। स्त्रीबालभृयगोविप्रेष्वतिकोपं विवर्जयेत”। अधिकं गोहत्याशब्द दृश्यम्। गोहितं व्रतम्। २ गोसेवारूपे व्रते गोशब्दे तत्परिचर्य्याप्रकरणे उदा० तत्प्रकारश्च तत्र दृश्यः।
***