गोड = पु० गोण्ड + पृषो०। (गो~ड) इति ख्याते नाभौ प्रवृद्धर्मासगुडके मरतः
गोडिम्ब = पु० गोर्भूमेर्डिम्ब इव। शृगालजम्ब्वां शब्दार्थचि०।
गोडुम्बा = स्त्री गां भूमिं तुम्बति अर्द्दति तुवि–क पृ०। (गोमुक) १ गवादन्यां (तरमुज) २ शीर्णवृन्ते पु० मेदि०। स्वार्थे क। गोडुम्बिका गवादन्याम् रत्नमाला
गोणी = स्त्री गुण–घञ् नि० गुणः गोण + आवपनेऽर्थे ङीप्। धान्याधारे (गुण) ख्याते १ आवपनपात्रे २ छिद्रवस्त्रे,३ शाण्यां, ४ द्विशूर्पात्मके मानभेदे, ५ द्रोणीपरिमाणे च। “गोणी त्वावपनं चेत्” स्मानपदा० पा० सू० सि० कौ०। तस्य द्विशूर्पात्मकता भावप्र० उक्ता यथा “शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःसहस्रपलिका षण्णवत्यधिका व सा। पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः। तुला पलशतं ज्ञेयं सर्वत्रैवैष निश्चयः। माषटङ्काक्षविल्वानि कुडवः प्रस्थ माटकम्। राशिर्गोणी स्वारिकेति यथोत्तरचतुर्गुणम्”। पञ्चभिः सप्तभिर्वा गोणीभिः क्रीतः तद्धितार्थे द्विगौ परिमाणात् ठञ्। “द्विगोर्लुगनपत्ये” पा० तस्य लुकि उपवर्जनस्त्रीप्रत्ययेस्य लुक्। ततः “इद्गोण्याः” पा० इत् पञ्चगोणि सप्तगोणि पञ्चगोण्यादिक्रीते पटादौ त्रि०। ह्रस्वा गोणी ष्टरच् षित्त्वात् ङीष्। गोणीतरी ह्रस्वगोण्याम्।
गोऽण्ड = पु० गोरण्ड इव। १ नीचजातिभेदे (गो~ड) २ वृद्धनाभौ च ३ तद्वति त्रि० मेदिनिः।
गोण्डाकरी = स्त्री रागभेदे “गोण्डाकरीरागेण रूपकतालेन गीयते” गीतगो०।
गोतम = पु० गोभिस्तमोध्वस्तं यस्य पृषो०। १ मुनिभेदे तन्नामनिरुक्तिः भा० आनु० ९३ अ० यथा “गोतमोऽयं मतोऽधूमोदमस्ते मम दर्शनात्। गोभिस्तमोमम ध्वस्तं जातमात्रस्य देहतः। विद्धि मां गोतमं कृत्ये यातुधानि! निबोध मे” इति। स च श्वेतवराहकल्पे व्रह्मणो मानसः पुत्रः यथाह वायु० गया० २ अ० “ब्रह्मा संभृतसंभारो मानसा नृत्विजोऽसृजत्” इत्युपक्रमे “सृकपालं गोतमञ्च तथा वेदशिरोव्रतम्”। इति। स च गोत्रप्रवर्त्तकः गोत्रशब्दे दृश्यम्। गोतमस्यापत्यम् ऋष्यण्। गौतम तद्वंश्ये प्रबरप्रवर्त्तके ऋषिभेदे बह्वर्थे तस्य लुक् गोतमाः। गौतमशब्देऽधिकं वक्ष्यते आर्षशब्दे ८२७ पृ० उदा० दृश्यम्। गोतमवश्याश्चाङ्गिरसगोत्रोत्पन्ना दश तद्भेदास्त्रत्रैव दृश्याः। अतिशयेन गौः जडत्वात् तमप्। २ अतिजडे पुंस्त्री। “मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम्। गोतमं तमवेतैव यथा वेत्य तथैव सः” नैष० चार्वाकोक्तिः। तस्य चान्वीक्षिकीविद्याप्रकाशकत्वमक्षपादशब्दे ४३ पृ० दृश्यम् तच्छब्दे एव तच्छास्त्रप्रतिपाद्याद्य क्तम्। तस्य छात्रः गौतम गोतमच्छात्रे गौरा० ङीष्। गोतमी तद्भार्य्यायां शतानन्दमातरि ३ अहल्यायाम् स्त्री
गोतमान्वय = पु० गोतमोऽन्वयो वंशप्रवर्त्तको यस्य। शाक्य मुनौ मायादेवीसुते हेम०।
गोतमस्तोम = पु० गोतमेन दृष्ट० स्तोमः। १ सूक्तभेदे अथ प्रातर्गोतमस्य चतुरुत्तरस्तोमो भवति तस्य चतसृषु बहिष्पवमानमष्टास्वष्टास्वाज्यानि, द्वादशसु माध्यन्दिनः पवमानः, षोडशसु पृष्ट्यानि, विंशत्यामार्भवः पवमानः, चतुर्विंशत्यामग्निष्टोम साम” शत० ब्रा० १३। ५। १। १ दानशीलप्रजाकामनया कर्त्तव्ये एकाहसाध्ये २ यज्ञभेदे च “गोस्तोमेन य इच्छेत् दानकामा मे प्रजा स्यादितिः” आश्व० श्रौ० ९। ५। १४ तद्विधानं तत्रैवोक्तम् दृश्यम्।
गोतमीपुत्र = पु० ६ त०। गोतम्या अहल्यायाः पुत्रे शतानन्दे
गोतल्लज = पु० प्रशस्तः गौः “प्रशंसावचनैश्च” पा० पूर्वनि०। प्रशस्ते गवि स्त्रियामपि पुंस्त्वमेव नियतलिङ्गत्वात् अमरः। गोषु मध्ये तल्लज इति शब्दक० व्युत्पत्तिकल्पनं प्रामादकमेव पाणिनीयसूत्रे कर्मधारये तद्विधानात्
गोतीर्थ = न० गवा कृतं तीर्थम्। १ गोष्ठे “बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना” सुश्रु० २ तीर्थभेदे च। “तस्यां त्रितस्यो शनसोमनोश्च पृथोरथाग्नेरसितस्य वायोः। तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेये” भाग० ३। १२। २। त्रितादीनामेकादश तीर्थानि तत्तन्नाम्ना प्रसिद्धानि” श्रीधरः
गोतीर्थक = पु० “पार्श्वागतेन शस्त्रेण छेदोगोतीर्थको भवेत्” सुश्रुतोक्ते छेदभेदे “आधौ तत्र बहुच्छिद्रे भिषजा वैविजानता। अर्द्धलाङ्गलिकश्छेदः कार्यो लाङ्गलिकोऽपि वा। सर्वतोभद्रको वापि कार्य्यो गोतीर्थकोऽपि च” सुश्रुते तत्प्रयोगे निमित्तमुक्तम्।
गोत्र = पु० गां भूमिंत्रायते त्रैङ् पालने क। १ पर्व्वते तस्य विष्कम्भरूपेण पृथिव्या धारकत्वात् तथात्वम् गोत्रभित्। गूयते शब्द्यतेऽनेन गूङ् शब्दे करणे ष्ट्रन् गूधृपचीत्यादिना त्रो वा। २ आख्यायां नामनि तया शब्द्यमानत्वात्तस्यास्तथात्वम् गोत्रस्ख्यलनम्। ३ सम्भावनीयबोधे ४ कानने ५ क्षेत्रे ६ मार्गे च मेदि०। ७ छत्रे हेमच०। ८ संघे ९ वृद्धौ शब्दच०। १० वित्ते धने विश्वः ११ मुनिभेदस्यापत्यादिबंशे न०। गोत्रकाराश्चाष्टौ सुप्रसिद्धाः यथाह नि० सि० वौधायनः “विश्वामित्रोजमदग्निर्भरद्वाजोऽथ गोतमः। अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमिति” मनुस्तु सप्ताह यथा “जमदग्निर्भरद्वाजो विश्वामित्रात्रिगोतमाः। वशिष्ठकाश्यपागस्त्या मुनयो गोत्रकारिणः। एतेषां यान्यपत्त्यानि तानि गोत्राणि मन्यते” एतदुपलक्षणमन्येषामपि दर्शनात्। तथा च धर्म्मप्रदीपे गोत्राणि तु चतुर्विंशतिरित्याह तथा च वृद्धमनुः “शाण्डिल्यः कश्यपश्चैव वात्स्यः सावर्णकस्तथा। भरद्वाजो गोतमश्च सौकालीनस्तथापरः। कल्मषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ। विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः। घृतकौशिकमौद्गल्यौ आलम्ब्यानः पराशरः। सौपायनस्तथाऽत्रिश्च वासुकीरोहितस्तथा वैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः। चतुर्विंशति र्गोत्राणां कथिता पूर्ब्बपण्डितैः”। “सौकालीनकमौद्गल्यौ पराशरवृहस्पती। काञ्चनो विष्णुकोशिक्यौ कात्यायनात्रेयकाण्वकाः। कृष्णात्रेयः साङ्कृतिश्च कौण्डिल्यो गर्गसंज्ञकः। आङ्गिरस इति ख्यातः अनावृकाख्यसंज्ञितः। नव्यजैमिनिवृद्धाख्याः शाण्डिल्यो वत्सएव च। सावर्ण्यालम्ब्यानवैयाघ्रपद्या घृतकौशिकः। शक्त्रिः काण्वायनश्चैव वासुकिर्गोतमस्तथा। शुनकः सौपायनश्च मुनयो गोत्रकारिणः। एतेषां यान्यपत्त्यानि तानि गोत्राणि मन्यते”। सर्व्वेद्विचत्त्वाविंशद्गोत्रकाराः। “अपत्यं पौत्रप्रभृति गोत्रम्” पा० १२ उक्ते पौत्रप्रभृतौ अपत्यत्वेन विवक्षिते वंश्ये न० तस्यायमाशयःप्रवराध्यायप्रसिद्धं लोके गोत्रमिह तु तदप्रसिद्धस्यापि संज्ञार्थमिदम् पौत्रादेरप्यपत्यत्वाव्यभिचारादपत्यपदस्यापत्यत्वेन विवक्षितमित्यर्थः तेन पौत्रादेस्तत्त्वेन विवक्षायामेव गोत्रत्वम्। पौत्रापत्यशब्दयोः ससम्बन्धिकतया यदीयपौत्रादि तं प्रत्येव तस्य गोत्रत्वम् इति। अस्य प्रयोजनं तु “एकोगोत्रे” पा० नियमार्थं तथाहि गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यम् उपगवः। गार्ग्यः। नाडायनः। “गोत्रे स्वैकोन संख्यानां प्रत्ययानाम्परम्परा। यद्वा स्वद्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते। अपत्यम्पितुरेव स्यात्ततः प्राचामपीति च। मतभेदेन तद्ध्यन्ये सूत्रमेतत्तथोत्तरम्” सि० कौ० अयमर्थः पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादि स्यात्। चतुर्थे त्वजीवज्येष्ठे मृतवंश्ये औपगवेः फक्। इत्थमिञ्फकोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतम्प्रत्ययाः स्युः। पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अणन्तादिजपि स्यात् चतुर्थे फगिति ततः फगिञाः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः। अतो नियमार्थमिदं सूत्रम्”। इति गोत्रापत्ये अनेकप्रत्ययाः पा० विहिता विस्तरभयान्नोक्ताः। गोत्रान्तरे जातस्यापि दानादितो गोत्रान्तरत्वं स्मृतिबि- हितं यथा “गोत्ररिक्थे जनयितुर्न भजेत् दत्त्रिमः सुतः। गोत्ररिक्थानुगः पिण्डोव्यपैति ददतः स्वधा” मनुः। अयमाशयः दानात् जनयितुः स्वत्वे जिवृत्ते द्वादशविधपुत्रान्तर्गतत्वेन दत्तदाकीनां पुत्रनिधित्वेन विधानात् विधानेन संस्कारादिना च ग्रहीतुः पुत्रत्वे तद्गोत्रत्वम्। दत्तकन्यायान्तु वचनादेय पितृगोत्रापहारेण पतिगोत्रप्राप्तिः तथा च उ० त० व्यपस्थापितं यथा
“तदानीं गोत्रापहारमाह लघुहारीतः। “स्वगोत्राद्भ्रश्यते नारी विवाहात् सप्तमे पदे। पतिगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया”। पाणिग्रहणादपि पितृगोत्रापहारमाह श्राद्धविवेके वृहस्पतिः। “पाणिग्रहणिका मन्त्राः पितृगोत्रापहारकाः। भर्त्तुर्गोत्रेण नारीणां देयं पिण्डोदकं ततः”। यत्तु सपिण्डनस्य गोत्रापहारित्वप्रतिपादकवचनम्। “संस्थितायान्तु भार्यायां सपिण्डीकरणान्तिकम्। पैतृकं भजते गोत्रमूर्द्ध्वन्तु पतिपैतृकम्” इति कात्यायनीयं तत् शाख्यन्तरीथं शिष्टव्यवहाराभावात्। अतएव “अनुमन्त्रिता गुरुं गोत्रेणाभिवादयेत” इति गोभिलोक्तं सप्तपदीगमनानन्तरं पत्युरभिवादनं तत् पतिगोत्रेण कर्त्तव्यमिति भट्टनारायणैरुक्तम् एतेन पितृगोत्रेणेति सरलाभवदेवभट्टाभ्यामुक्तं हेयम्। श्राद्धे गोत्रोल्लेखे विशेषः श्रा० त० प्रचेताः “गोत्रसम्बन्धनामानि पितॄणां परिकल्पयन्”। सामगानां श्राद्धादिकर्मभेदे तस्य विभक्तिविशेषान्ततामाह तत्रैव गोभिलः “गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षष्यकर्मणि। गोत्रस्तु तर्पणे प्रोक्त एवं कर्त्ता न मुह्यति” शाखिभेदेन प्रेततर्पणे तु विशेषः व्रह्मपु० उक्तः। “अमुकामुकगोत्रस्तु प्रेतस्तृप्यत्विदं जपन्”। “स्नात्वा सचेलमाचम्य सिञ्चेयुरुदकं जले। गोत्रनामानुवादादि तर्पयामोति चोत्तरम्” छन्दोगविषयं गोभिलवाक्यम् “विपक्षगोत्रं दयितेन लम्भिता” किरा० “स्फुटमिन्द्रताद्य मयि गोत्रभिदा” माघ०। “गोत्रबिस्खलितमूचुरङ्गनाः” रघुः। “स्मरसि स्मर! मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम्” कुमा०। “गोत्रभिदोऽप्यमर्षण” रघुः। गोत्रं करोति कृ–णिनि। गोत्रकारिन् गोत्रप्रवर्त्तक ऋषिभेदे। “सप्तैते गोत्रकारिणः” वौधा०। तृच् गोत्रकर्त्तृ तत्रार्थे “तपस्विनो ब्रह्मविदो गोत्रकर्त्तार एव च” भा० आनु० ४ अ०। गां भूमिं वृष्ट्या त्रायते त्रै–क। १३ मेघे निरु०। गोत्रमिच्छब्दे दृश्यम्।
गोत्रकीला = स्त्री गोत्रः पर्वतः कील इव विष्टम्भकत्वात् यस्याः। पृथिव्यां हेमच०
गोत्रज = पुंस्त्री गोत्रे समाने वंशे जायते जन–ड। एकगोत्रोत्पन्ने “तत्सुतो गोत्रजौ बन्धुः” याज्ञ०। यद्यपि गोत्रोत्पन्नमात्रेऽस्य प्रवृत्तिस्तथापि अशौचग्रहणे “दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके। त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः” व्यासवाक्ये गोत्रजपदं पारिभाषिकं यथाह वृहन्मनुः “सपण्डिता तु पुरुषे सप्तमे विनिवर्त्तते। समानोदकभावस्तु निवर्त्तेताचतुर्दशात्। जन्मनाम्नां स्मृतेरेके तत्परं गोत्रजामताः” इति “गोत्रजा निवृत्तसमानोदकभावाः शु० त० रघु०। वस्तुतः गोत्रजपदस्य गोत्रोत्पन्नमात्रार्थकत्वेऽपि सामान्यविशेषन्यायेन सपिण्डादेर्विशेषाशौ चोक्तेस्तद्भिन्नपरत्वम् अत एव “तत्सुतो गोत्रजोबन्धुरित्यत्र याज्ञ० वचने गोत्रजपदेन पितामह्यादेर्ग्रहणमिति तद्व्याख्याने च मिता० “गोत्रजाः सपिण्डाः पितामह्यादयः समानगोत्राः” इत्युक्तम्।
गोत्रभाग = पु० गोत्राणामेकगोत्रजातानां भागः। गोत्रजातानां परस्परविभागे “गोत्रसाधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः। तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः। तृतीयः पञ्चमश्चैव सप्तमोवापि यो भवेत्। जन्मनामपरिज्ञाने लभेतांशं क्रमागतम्। यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः। तदन्वयस्या गतस्य दातव्या गोत्रजैर्मही। भुक्तिस्त्रैपुरुषी सिध्ये दपरेषां न संशयः। अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति। अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम्। सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते। विवाह्यश्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च। सुदीर्घेणापि कालेन तेषां सिद्ध्यति तत्तु न” वृहस्पतिः गोत्र साधारणं द्रव्यमिति शेषः विवाह्यो जामाता
गोत्रभिद् = पु० गोत्रं पर्वतं मेघं वा भिनत्ति भिद–क्विप्। इन्द्रे इन्द्रस्य वृष्ट्यर्थं मेघभेदनात् पर्वतपक्षशातनाद्वा तथात्वम्। “पुरन्दरो गोत्रभिद् बाहुरायात्” यजु० २०। ३८ गौर्भूमिस्तां वृष्ट्या त्रायन्ते गोत्रा मेघाः तान् वृष्ट्यर्थ भिनत्ति गोत्रान् गिरीन् वा भिनत्ति” वेददी०। तस्य गिरिपक्षभेदनकथा पौराणिकी अनुसन्धेया। यथा “ततोऽद्रयो जातपक्षा विष्णोश्चैव तु मायया। वस्थिता मेदिनीं त्यक्त्वा यथापूर्वं निवेशिताः। तत्स्थान- मसुराणान्तु घात्रादिष्टं जलार्णवे। प्रतीच्यां पर्वताः सर्वे निममज्जुर्यथा गजाः। तत्रासुरेभ्यः शंसुस्ते आधिपत्यं सुराश्रयम्। तच्छ्रत्वैवासुराः सर्वे चक्रुरुद्योगमुत्तमम्” इत्युपक्रमे “धरगबान्तु गिरीन् स्थाप्य स्वेषु स्थानेषु गोः पतिः। चिच्छेद पविना पक्षान् सर्वेषां भुवि चारिणाम्। एकः सपक्षो मैनाकः सुरैस्तत्समये कृतः” अग्निं पु०। “पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः” इति तदनु रेण रघौ वर्णितम्। गोत्रे नाम भिनत्ति। २ नामभेदके एकनामोच्चारणकाले अन्यनामोच्चारके च। “तदयुक्तमङ्ग तव विश्वस्मृजा न कृतं यदीक्षणसहस्रतयम्। प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा” माघः। “गोत्रभिदा पर्वतभिदा नामभेदिना च” मल्लि०।
गोत्रवृक्ष = पु० गोत्रभवो नगजातो वृक्षः। धन्वनवृक्षे भावप्र०।
गोत्रस्खलन = न० गोत्रे नामनि स्खलनम्। अन्यस्य नामग्रहणाशया अन्यस्य नामग्रहणरूपे रागहेतुके स्खलने। “जगाद गोत्रस्खलने च का न तम्” (नलम्) नैष०। “गोत्रस्खलने भ्रान्तिं मानिनि! जानीहि केबलां मेऽत्र। आख्यानतोविशेषप्रतिपत्तिः पाणिनीय इव” उद्भटः। भावे क्त “गोत्रस्खलितमप्यत्र न० “उत गोत्रस्खलितेषु वन्धनम्” कुमा०
गोत्रा = स्त्री गवां समूहः त्र। १ गोसमूहे गां त्रायते शस्यादिपोषणेन त्रै–क। २ भूमौ अमरः।
गोत्रादि = पु० “तिङोगोत्रादीनि कृत्स्नाभीक्ष्ण्ययोः” पा० तिङन्तात् परस्य अतदात्ततानिमित्ते शब्दगणे तदुगणश्च पा० ग० सूत्रे उक्तो यथा “गोत्र ब्रुव प्रवचन प्रहसन प्रकथन प्रत्यायन प्रपञ्च प्राय न्याय प्रचक्षण विचक्षण अवचक्षण स्वाध्याय भूयिष्ठ वानाम”।
गोत्व = न० गोर्भावः त्व। गोशब्दप्रवृत्तिनिमित्ते गवेतरावृत्तौ सकलगोव्यक्तिस्थे जातिभेदे। तल्लक्षणन्तु गवेतरावृत्तित्वे सति सकलगोव्यक्तिवृत्तित्वम्। सत्ताद्रव्यत्वादिजातेः सकलगोव्यक्तिवृत्तित्वात् तद्वारणाय सत्यन्तम् विशेषणं गगनादेर्गवेतरावृत्तित्वात् विशेष्यदलम्। वृत्तिताद्वयञ्च समवायेन ग्राह्यं तेन गवेतरघटादौ कालिकसम्बन्धेन गोत्वस्य सत्त्वेऽपि नासम्भवः ब वा गवेतरासमवेतस्य गगनादेः कालिकेन सकलगोव्यक्तिवृत्तित्वादतिव्याप्तिः। तस्याश्च जातेः गोपदप्रवृत्तिनिमित्तत्वमुक्तं काव्य० प्र० वाक्यपदीये “गौः स्वरूपेण न गौर्नाप्यगौः गोत्वाभिसम्बन्धात्तु गौः” यतो गोत्वसम्बन्धादेव गोर्गोपद- वाच्यता अतो गोत्वस्य गोपदप्रवृत्तिनिमित्तत्वम्। तद्व्यञ्जकञ्च गलकम्बलादिमत्त्वरूपआकारभेदः संस्थानविशेषस्यैव जातिव्यञ्जकत्वात्। तत्र गोपदं गोत्वे शक्तं व्यक्तेर्भानमनुमानात् तुल्यवित्तिवेद्यत्वाद्वेति मीमांसकामन्यन्ते अनुमानञ्च गामानयेत्यादौ गोत्वानयनमिति शाब्दबोधात् परम् गोत्वकर्मकानयनं गोकर्मकानयनं विनाऽनुपपन्नमिति व्यतिरेकव्याप्तिग्रहाधीनम्। गोत्वविशिष्टे शक्तमिति तु नैयायिकाः व्यक्तिमात्रस्य शक्यत्वे व्यक्तीनामानन्त्यात् व्यभिचारः। अतद्व्यावृत्तिरूपोऽपोहो वा गोपदशक्य इति तु बौद्धाः
गोद = पु० गां नेत्रं दायति शोधयति दै–क। १ मस्तकस्थे मस्तिष्के हेम० मस्तिष्कस्य नेत्रप्रकाशहेतुत्वात् तथात्वम्। गां ददाति दा–क। २ गोदातरि त्रि०। “अन्नदस्तु श्रियं पुष्टां गोदोव्रध्नस्य पिष्टपम्” मनुः। गोदावर्य्या समीपस्थे देशभेदे पु० ततः चतुरर्थ्याम् अण्। गौदः तद्देशादूरभवादौ त्रि० जनपदे तु वरणा० तस्य लुप्। गोदो जनपदः “विशेषणानाञ्चाजातेः” पा०। लुबर्थस्य विशेषणानामपि तल्लिङ्गवचने न तु जातेः। गोदौ रमणीयौ” सि० कौ०
गोदत्र = न० गोदं त्रायते त्रै–क। मस्तिष्करक्षके मुकुटादौ
गोदन्त = न० गोर्दन्त इवावयवोऽस्य ६ त०। हरिताले राजनि०
गोदा = स्त्री गां स्वर्गं ददाति स्नानेन दा–क। गोदावरीनद्याम् हेम०। “नेष्टोऽथ गोदोत्तरतश्च यावत्” मु० चि०।
गोदान = न० गावो केशालोमानि वा दीयन्ते खण्ड्यन्तेऽत्र। आधारे ल्युट् १ केशान्ताख्ये द्विजाति संस्कारभेदे केशान्त शब्दे २२५० पृ० दृश्यम्। “अथास्य गोदानविधेरनन्तरम्” रघुः। तच्च “एवेन गोदानम्” आश्व० गृ० १। १८। १। इत्यादिसूत्रजा तेन निरूपितम्। “चूडोपनयनगोदानविवाहाः” आश्व० गृ०। गवि पृथिव्यां दीयते निधीयते स्वापकाले दा–कर्म्मणि ल्युट्। २ दक्षिणकर्ण्णसमीपस्थे शिरःप्रदेशे। “अपरेण दक्षिणाग्निम् दक्षिणं गोदानमुन्दति” कात्या० श्रौ० ५। २। १४। “दक्षिणं गोदानं वितार्य्योनत्तीमामापः” कात्या० श्रौ० ७। २। ९। “स्वपद्भिर्गवि पृथिव्यां दीयते इति गोदानं शिरसोदक्षिणं प्रदेशं वितार्य्य कङ्कतादिना तत्स्थाने केशान् विजटान् कृत्वा उन्दति क्लेदयति अद्भिरार्द्रं करोति इमामापः इत्यादि मन्त्रेण” कर्कः। ६ त०। गोः सुरभ्या वृषस्य वा ३ दाने। गोप्रशंसापूर्वकं तद्दानप्रकारो हेमाद्रि० दा० उक्तो यथा भविष्यत् पुराणे। ब्रह्मोवाच “आदित्यदुहिता र्गौर्हि पृथ्वीयं परिकीर्त्तिता। श्रेयोऽर्थे सर्वलोकानामुत्पन्ना क्रतुसिद्धये। ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्। एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति। गोभ्यो यज्ञाः प्रवर्त्तन्ते गोभ्योदेवाः समुत्थिताः। गोभ्यो वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः। शृङ्गमूलं गवां नित्यं ब्रह्मविष्णू समाश्रितौ। शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च। शिरोमध्ये महादेवः सर्वभूतमयः स्थितः। ललाटाग्रे स्थिता देवी नासावंशे च षण्मुखः। कम्बलाश्वतरौ नागौ नासापुटसुपालितौ। कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ। दन्तेषु वायवः सर्वे जिह्वायां वरुणः स्थितः। सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः। सन्ध्याद्वयं तथोष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः। रक्षांसि कक्षदेशे तु साध्याश्चोरसि संस्थिताः। चतुष्पात् सकलो धर्मः स्वयं जङ्घासु संस्थितः। खुरमध्ये तु गन्धर्वाः स्वुराग्रेषु च पन्नगाः। खुराणां पश्चिमाग्रेषु गणाह्यप्सरसां स्थिताः। रुद्राश्चैकादश पृष्ठे वसवः सर्वसन्धिषु। श्रीणीतटस्थाः पितरः सोमोलाङ्गूलमाश्रितः। आदित्यरश्मयोबाले पिण्डीभूता व्यवस्थिताः। साक्षाद्गङ्गा च गोमूत्रे गोमये यमुना स्थिता। क्षीरे सरस्वती देवी नर्मदा दधिसंस्थिता। हुताशनः स्वयं सर्पिर्ब्राह्मणानां गुरुः परः। अष्टाविंशतिदेबानां कोष्ट्योरोमसु संस्थिताः। उदरे पृथिवी ज्ञेया सशैलवनकानना। चत्वारः सागराः पूर्णा गवाङ्गे तु पयोधराः। एतद्धि कथितं सर्वं यथा गोषु प्रतिष्ठितम्। जगद्वै देवशार्दूल! स देवासुरमानवम्”। स्कन्दपुराणे “तृणानि खादन्ति वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाणि। दुह्यन्ति वाह्यन्ति पुनन्ति पापं गवां रसैर्जीवति जीवलोकः। तुष्टास्तु गावः शमयन्ति पापं दत्तास्तु गावस्त्रिदिवन्नयन्ति। संरक्षिताश्चोपनयन्ति तित्तं गोभिर्न तुल्यं धनमस्ति किञ्चित्। शष्पं समश्नाति ददाति नित्यं पापक्षतिं मित्रविवर्द्धनं च। स एव चार्य्यैः परिभुज्यते च गोभिर्न तुल्यं धनमस्ति किञ्चित्। तृणानि शुष्काणि वने चरित्वा पीत्वापि तोयान्यमृतं स्रवन्ति। यद्गोमयाद्याश्च पुनन्ति लोकान् गोभिर्न तुल्यं धनमस्ति किञ्चित्”। हारीतः “बहुक्षीराश्च यो गा वै ब्राह्मणायो पपादयेत्। उत्तारयेत्स आत्मानं सप्त सप्त ता कुलानि च”। देवलः “सुशीलां लक्षणवतीं युवतीं वत्ससंयुताम्। बहुदुग्धवतीं स्निग्धां धेनुं दद्याद्विचक्षणः”। वेदव्यासः “यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति। आत्मविक्रयतुल्यास्ताः शाश्वतीः वृद्धकौशिकः”। तथा संग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति। यावतीः स्पर्शयेद्गावः स तावत् फलमश्नुते”। तावदिति पूर्वोक्त तावद्गोरोमसम्मितं संवत्सरं स्वर्गफलमित्यर्थः। “यो वै द्यूते धनं जित्वा क्रीत्वा गाः संप्रयच्छति। स दिव्यमयुतं शाक्रवर्षाणां फलमश्नुते”। “अन्तर्जाताः, सुक्रयज्ञानलब्धाः पणक्रीता निर्जिताश्चौकजाश्च। कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः”। अन्तर्जाता गर्भिण्य इति भारतपदप्रकाशकारः। सुक्रयलब्धाः यथामूल्यक्रयप्राप्ताः ज्ञानलब्धाः प्रतिग्रहलब्धाः पणक्रीताः भृतिलब्धाः निर्जिता युद्धादिना, ओकजाः गृहजाताः, कृच्छोत्सृष्टाः पोषणाभ्यागता अतिव्याध्यादिकृच्छ्राक्रान्ताः सत्यः स्वामिना यास्त्यक्ताः स्वयं च पोषणं कृत्वा लब्धाः। “रुष्टा दुष्टा दुर्बला व्याधिता च न दातव्या या च मूल्यैरदत्तैः। क्लेशैर्विप्रं या फलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चापि लोकाः”। मूल्यैरदत्तैः स्वीकृतेति शेषः। तथा। “न कृशां पापवत्सां वा बन्ध्यां रोगान्वितां तथा। न व्यङ्गामपरिश्रान्तां दद्याद्गां ब्राह्मणाय वै। योदद्यान्नोपयुक्तार्थां जीर्णान्धेनुञ्च निष्फलाम्। तमः संप्रविशेद्दाता द्विजं क्लेशेन योजयन्”। ब्रह्मपुराणे “पीतोदकां जग्धतृणां दुग्धचोषां निरिन्द्रियाम्। उन्मत्तामङ्गहीनाञ्च मृतवत्सां महाशनाम्। केशबालपुरीषास्थिक्रव्यादां सन्धिनीं खलाम्। पुटधेनुं थमलसून्नित्यं व्रणयितस्तनीम्। न दद्याब्ब्राह्मणेभ्यश्च सदोषं वृषभन्तथा”। पोतोदकां जग्धतृणामिति, वृद्धत्वोपलक्षणपरम्। दुग्धचोषां, स्वकीयस्तनपायिनीं, महाशनाम् बहुभक्षां, पुटधेनुं बाल्यावस्थैव या गर्भिणी। विश्वामित्रः “नैकशृङ्गाञ्च निःशृङ्गां स्फुटिताक्षीं चन्तत्खुराम्। न दद्यात् त्रिस्तनीञ्चैव गां शुभामेव दापयेत्”। महाभारते “अम्बरीषोगवां दत्त्वा ब्राह्मणेभ्यो प्रतापवान्। अर्बुदानि दशैकञ्च सराष्ट्रोऽभ्यपतद्दिवम्। दत्त्वा शतसहस्रन्तु गवां राजा प्रसेनजित्। सवत्सानां महातेजा गतोलोकाननुत्तमान्”। तथा। “प्रासादा यत्र सौवर्ण्णाः शय्या रत्नोज्ज्वला- स्तथा। वराश्चाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः। गोप्रदोनरकन्नैति पयः पीत्वाम्बुजञ्जलम्। विमानेनार्कवर्णेन दिवि राजन्! विराजते। तञ्चारुवेशाः सुश्रोण्यः शतशोवरयोषितः। रमयन्ति विमानस्थं दिव्याभरणभूषिताः। वेणूनां वल्लकीनाञ्च नूपुराणाञ्च निःस्वनैः। हासैश्च हरिणाक्षीणां सुप्तः सन् प्रतिबुध्यते। यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते स्वः। स्वर्गाच्च्युतश्चापि ततस्तु लोके कुले समुत्पस्यति गोमतां सः”। विष्णुः “गोप्रदानेन स्वर्माप्नोति दशधेनुप्रदीगोलोकं शतप्रदश्च ब्रह्मलोकम्”। जाबालः “होमार्थमग्निहोत्रस्य योगान्दद्यादयाचिताम्। त्रिर्वित्तपूर्णा पृथिवी तेन दत्ता न संशयः”। याज्ञवल्क्यः “यथाकथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा। अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते”। अङ्गिराः “गौरेकस्यैव दातव्या श्रोत्रियस्य विशेषतः। सा हि तारयते पूर्वान् सप्त सप्त च सप्त च”। नन्दिपुराणे “अपात्रे सा तु गौर्दत्ता दातारन्नरकं नयेत्। कुलैकविंशत्या युक्तं ग्रहीतारञ्च तारयेत्। विधिना च यदा दत्ता पात्रे धेनुः सदक्षिणा। तदा तारयते जन्तून् कुलानामयुतैः शतैः। पात्राण्याध्यात्मिका मुख्याः सुशुद्धाश्चाग्निहोत्रिणः। देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम्”। महाभारते “वृत्तिग्लाने सीदति चातिमात्रम् कव्यार्थं च होमहेतोः प्रसुत्याम्। गुर्वर्थे वा बालसंवृद्धये वा धेनुन्दद्यदेष कालो विशिष्टः” प्रसुत्यां सोमयागे। तथा “न बधार्थं प्रदातव्या न कीनाशे न नास्तिके। गोजीवे न च दातव्या तथा गौः पुरुषर्षभ!”। कीनाशो हलवाहकः। आत्रेयः “सीदते बहुभृत्याय श्रोत्रियायाऽऽहितास्तये। अतिथिप्रियाय दान्ताय देया धेनुर्गुडान्विता। अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च। हव्यकव्यव्यपेताय गौर्नं देया कथञ्चन”। अथ दानविधिः। विश्वामित्रः “प्राङ्मुखीं गामवस्थाप्य सवत्सान्तां सुपूजिताम्। पुच्छदेशे तु दाता वै स्मातो बद्धशिखो भवेत्। उदङ्मुखस्तु विप्रः स्यात्पात्रलक्षणलक्षितः। आज्यपात्रं करे कृत्वा कनकेन समन्वितम्। निक्षिप्य पुच्छं तस्मिंस्तु घृतदिग्धं प्रगृह्य च। सतिलं विप्रपाणिन्तु प्रागग्रन्तु निधापयेत्। सतिलं सकुशञ्चापि गृहीत्वा दानमाचरेत्। अनेनैव तु मन्त्रेण पात्रहस्ते जलं क्षि- पेत्। यज्ञसाघनभूता या विश्वस्याघप्रणाशिनी। विश्वरूपः परो देवः प्रीयतामनया गवा। अनुब्रज्य तु तां धेनुं ब्राह्मणेन समन्विताम्। गोमतीन्तु ततो विद्यां जपेत प्रयतः शुचिः। उद्दिश्याथ वासुदेवं प्रीयतामिति चानघ!। पात्रं मनसि सञ्चिन्त्य तोयमप्सु विनिक्षिपेत्। जलशायी व्रह्मपिता पद्मनाभः सनातनः। अनन्तभोगशयनः पीयतां परमः पिता”। गोमतीमाह यमः “गावः सुरभयोनित्यं गावोगुग्गुलगन्धिकाः। गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्। अन्नमेव परं गावो देवानां हविरुत्तमम्। पावनं सर्वभूतानां रक्षन्ति च वहन्ति च। हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि। ऋषीणामग्निहोतॄणां गावो होमप्रतिष्ठिकाः। सर्वेपामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो मङ्गलमुत्तमम्। गावः सर्वस्य सोकस्य गाबोघन्याः शुभावहाः। नमोगोभ्यः श्रोनतोर्भ्यैः सौरभेयौभ्य एव च। नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः। ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कतस्। एकत्र मन्त्रास्तिष्ठन्ति हबिरेकत्र तिष्ठति”। अन्यापि गोमती, महाभारतोक्ता तिलधेनुदाने दर्शिता। “ततश्चानयोर्विकल्पानुष्ठानमिति। सर्वगोदानसाधारणं मन्त्रमाह वशिष्ठः। “घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः। घृतनद्यो घृतावर्त्तास्ता मे सन्तु सदा गृहे। वृतं मे हृदवे नित्यं घृतं नाभ्यां प्रतिष्ठितम्। घृतं मे सर्वतश्चैव वृतं मे मनसि स्थितम्। गावोममाग्रतोनित्थं गावः पृष्ठतः एव च। गावोमे सर्वतश्चैव गवां मध्ये वसाम्यहम्”। “इत्याचस्य जपन् सायं प्रातश्च पुरुषः सदा। यदह्ना कुरुते पापं तस्मात् स परिमुच्यते”। दक्षिणा चात्र सुवर्णम् यदाह वशिष्ठः “सुवर्णं दक्षिणामाहुर्गोप्रदाने महाफले। सुवर्णं परमं ह्यायुर्दक्षिणार्थे न संशयः। गोप्रदानन्तारयते सप्त पूर्वान् नरांस्तथा। सुवर्णं दक्षिणां दत्त्वा तावद्धिगुणमुच्यते। सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सुवर्णं पावनं प्राहुः परिमाणं परन्तथा” अत्र सुवर्णशब्दस्य हिरण्यपर्य्यायत्वे यथाशक्त्यनुष्ठानम्। अपरे त्वाहुः सकृदुच्चरितसुवर्णशब्दावगतपरिमाणार्थपरित्यागानुपपत्तेः सुवर्णशब्दस्य प्राहुरित्यादिक्रियाकर्मभूततया द्वितीयान्तत्वेन लिङ्गविशेषनिर्द्धारणाच्च परिमाणार्थतैव न्याय्येति। एवं च सत्यनियतानुष्ठानप्रसङ्ग- भङ्गः तथा परिमाणपरन्तथेत्येतदपि समञ्जसं स्यात्”। वर्ण्णभेदेन गोदानफलादि तत्रोक्तं यथा “कृष्णाङ्गान्ददते यस्तु पट्टच्छन्नां स्वलङ्कृताम्। घण्टामालाकुलां कृत्वा पुष्पैश्चैवाप्यलङ्कृताम्। विधिवच्च द्विजातिभ्यो यमलोकं न पश्यति। आयुरारोग्यमैश्वर्यं दाता कामांश्च मानसान्। श्वेताङ्गान्ददते यस्तु दिव्यरत्नैरलङ्कृताम्। घण्टामालाकुलां कृत्वा पुष्पैश्चैवाप्यलङ्कृताम्। मुखे धूपः प्रदातव्यो घृतेनास्यञ्च पूरयेत्। सुवर्णशृङ्गाभरणा तथा रौप्यखुरा शुभा। पट्टच्छन्ना शुभा चैव दातव्या ध्यानयोगिने। यस्तु दद्याच्च गां श्वेतां तस्य पुण्यफलं शृणु। जन्मप्रभृति यत् पापं मातृकं पैतृकं च यत्। कुलोद्धतस्य धूर्त्तस्य तत्क्षणा देव नश्यति। गान्ददानीह इत्येव वाचा पूयेत सर्वशः। पिता पितामहश्चैव तथैव प्रपितामहः। नरकस्थाः प्रमुच्यन्ते सोमलोकं व्रजन्ति ते। गौरीं चैव प्रयच्छेत्तु यस्तु गां वै नरः शुचिः। अहोरात्रोषितश्चैव कृतशौचोनरः सदा। स्वर्णशृङ्गीं रौप्यखुरां सुक्तालाङ्गूलभूषिताम्। घण्टामालाकुलां चैव गन्धपुष्पैरलङ्कृताम्। कुतपञ्चास्तरेत् प्राज्ञो मुखे धूपं प्रदापयेत्। भक्ष्यभोज्यान्नपानेन ब्राह्मणान् भोजयेत् पुमान्। गान्ददानीह इत्येव वाचा पूयेत सर्व्वशः। मातृकं पैतृकं चैव यच्चान्यद्दुष्कृतं भवेत्। पापञ्च तस्य तत् सर्व्वं दहत्यग्निरिवेन्धनम्। वर्षकोटिसहस्रन्तु पुमान् स दिवि मोदते। दासीदासैरलङ्कारैस्तूयते सर्व्वजन्तुभिः। अरोगश्चैव जायेत तेजस्वी च भवेन्नरः। नीलबर्णाञ्च गान्दद्याद्दोग्ध्रीं शीलगुणान्विताम्। स्वर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम्। पट्टच्छन्नां शुभां सौम्यां घण्टादामैरलङ्कृताम्। पञ्चरङ्गेण सूत्रेण गलवेष्टनशोभिताम्। रुद्रस्य प्रमुखे देया विष्णोश्च ब्रह्मणश्च ह। गां ददानीह इत्येव वाचा पूयेत सर्व्वशः। पिता पितामहश्चैव तथैव प्रपितामहः। नरकस्थाः प्रमुच्यन्ते नीलां गां ददते तु यः। वर्षकोटिसहस्राणि लोके तिष्ठति वारुणे। दधिक्षीरवहा नद्यो वर्त्तन्ते सर्व्वतः सदा। घृतशैलाः प्रपद्यन्ते नवनीतस्य पर्व्वताः। कृषिभागी बहुधनो दुर्भक्ष्यञ्च न पश्यति”।
सवर्णवत्ससंहितायाः कपिलादिकायागोर्दानविधिस्तत्रैव महाभारते।
“समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसम्पन्नां ब्रह्मलोके महीयते”। समानवत्सां समानवर्णवत्साम्। “रोहिणीं तुल्यवत्सां च धेनुं दद्यात्पयस्विनीम्। सुव्रतां वस्त्रसंवीतां इन्द्रलोके महीयते। समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां सोमलोके महीयते”। शवलां कर्वुराम्। “समानवत्सां कृष्णान्तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतामग्निलोके महीयते। वातरेणुसवर्णान्तु सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतां वायुलोके महीयते। समानवत्सां धूम्रान्तु घेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंयुक्तां यमलोके महीयते। अर्घ्यां हेमसवर्ण्णान्तु सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते। अर्घ्या, गौः। कामदोहनां अनायासदोहाम्। “हिरण्यवर्ण्णां पिङ्गाक्षीं सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतां कौवेरं लोकमाप्नुयात्”। पलालधूमवर्ण्णान्तु सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतां पितृलोके महीयते। सवत्सां पीवरीन्दत्त्वा सितकण्ठीमलङ्कृताम्। वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते। सितकण्ठीं कृष्णगलाम्। “समानवत्सां गौरीन्तु धेनुन्दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते। सुव्रता सुखदोह्या। “पाण्डुकम्बलवर्ण्णान्तु सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते। वत्सोपपन्नान्नीलाङ्गीं सर्व्वरत्नसमन्विताम्। गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोति मानबः। गोप्रदानरतोयाति भित्त्वा जलदसञ्चयान्। विमानेनार्कवर्णेन दिवि राजन्! विराजते। तञ्चारुयेशाः सुश्रोण्यः सहस्रं वरयोषितः। रमयन्ति नरश्रेष्ठं गोप्रदानरतन्नरम्”। देवतोद्देशेन गोदानविधिस्तत्रैव लिङ्गपुराणे
“देवदक्षिणदिग्भागे धेनुः कार्य्या उदङ्मुखी। प्राङ्मुखं वत्सलं कृत्वा ब्राह्मणं च उदङ्मुखम्। प्राङ्मुखो यजमानस्तु पूजयेद्ब्राह्मणं ततः। कोऽदादिति च मन्त्रेण गृह्णीयाद्बाह्मणः स्वयम्”। देवोऽत्र महेश्वरः। “एवंविधानतो दत्त्वा याति दाता शिवालयम्। तत्र भुक्त्वाक्षयान् भोगानन्ते ब्रह्मैति शाश्वतम्”। देवीपुराणे “नीलां वा यदि वा श्वेतां पाटलां कपिलामपि। सदुग्धां बत्सलाञ्चैव सुखदोहां सुगान्नृपः”। “आदाय विधिवद्देवीं पूजयेच्छुभपङ्कजैः। धूपन्तु पञ्चनिर्य्यासन्तुरुष्कागुरुचन्दनम्। दत्त्वा तु मन्त्रपूर्व्वन्तु नैवेद्यमुपकल्पयेत्। पायसं घृतसंयुक्तं क्षामयेच्च तथा तु ताम्। द्विजाय शिवभक्ताय सवत्साङ्गां निवेदयेत्। सहेमवस्त्रकांस्याञ्च महापुण्यमवाप्नुयात्। यावत्तद्रोमसंख्यानं तावद्देव्याः पुरं वसेत्। इहैव गतपापोऽसौ जायते नृपसत्तम!।” विष्णुधर्म्मे “मान्धाता उवाच। व्रह्मणः प्रीणनार्थाय केशवस्य शिवस्य च। यानि दानानि देयानि तान्याचक्ष्व द्विजोत्तम!। येन चैव विधानेन दानं पुंसः सुखावहम्। ऐहिकामुष्मिकाप्तिञ्च करोति न विहन्यते। वसिष्ठ उवाच। गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः। “येन चैव विधानेन धेनुं नाधिकविस्तरम्। पुण्यन्दिनमथासाद्य स्नात्वाऽऽतर्प्य पितॄंस्तथा। कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर!। घृतक्षीराभिषेकञ्च कृत्वा विष्णोः शिवस्य च। तमभ्यर्च्च्य यथान्यायं पुष्पादिभिरनुक्रमात्। उदङ्मुखीं प्राङ्मुखीं वा गॄष्टिं कृत्वा पयस्विनीम्”। गृष्टिः सकृत्प्रसूतेत्यर्थः। “सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्। स्वर्णशृङ्गीं रौप्यखुरां सुवर्ण्णोपरिसंस्थितान्। शक्तितोदक्षिणायुक्तां ब्राह्मणाय निवेदयेत्। गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्। प्रदक्षिणं ततः कृत्वा धेनुं द्विजवरञ्च तम्। इमां नः प्रतिग्रह्णीष्व घेनुर्दत्ता मया तव। स मे पापापनोदाय गोविन्दः प्रीयतामिति”। वह्निपुराणे तु अयमधिको मन्त्रः। “या धेनुः काश्यपस्यासीदत्रेर्वा गोतमस्य च। साभिकामफला देवी इह लोके परत्र चेति। एवमुच्चार्य्य तं विप्रं गोविन्दं नृप। कल्पयेत्। अनुव्रजेत्तु गच्छन्तं पदान्यष्टौ नराधिप!। अनेन विधिना धेनुं यो विप्राय प्रयच्छति। सर्वकामसमृद्धात्मा विष्णुलोकं स गच्छति। सप्तावरान् सप्तपरानात्मानञ्चैव मानवः। सप्तजन्मकृतात् पापान्मोचयत्यवनीपते!। पदेपदेऽश्वमेधस्य गोसवस्यं च मानबः। फलमाप्नोति राजेन्द्र दक्षायैवञ्जगौ हरिः। सर्वकामदुघा सम्यक्सर्वकालेषु पार्थिव!। भवत्यथो पापहरा यावदिन्द्राश्चतुर्द्दश। सर्वेषामेव पापानां कृतानामविजानता। प्रायश्चित्तमिदं प्रोक्तमनुतापोपवृंहितम्। सर्वेषामेव देवानामेकजन्मानुगं फलम्। हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम्। ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः। लोकाः कामदुषाः प्राप्ता दत्त्वैतद्विधिना नृप!। गोभ्योऽ- धिकं जगति नापरमस्ति किञ्चिद्दानम् पवित्रमिति शास्त्रविदोवदन्ति। ताः सम्पदः सुरसदश्च समीहमानैर्देया मदैव विधिना द्विजपुङ्गवेभ्यः।” “अतः परन्तु गोदानं कीर्त्तयिष्यामि तेऽनघ!। गावोऽधिकास्तपस्विभ्यो यस्मात् सर्वेभ्य एव च। तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः। ब्रह्मलोके वसन्त्येताः सोमेन सह भारत!। यान्तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्। पयसा हविषा दघ्ना शकृता चाथ चर्मणा। अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्बालैश्च भारत!। नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते। न वर्षविषयं वापि दुःखमासां भवत्युत। ब्राह्मणैः सहिता यान्ति तस्मात् पारमकं पदम्। एकं गोब्राह्मणं तस्मात् प्रवदन्ति मनीषिणः। रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः। अतश्चर्मण्वती राजन्। गोचर्मभ्यः प्रवर्त्तिता। पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः। ता इमा विप्रमुख्येभ्यो यो ददाति महीपते!। निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव!। गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते। सर्वत्र विजयञ्चापि लभते मनुजाधिप!। अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः। तस्माद्ददाति यो धेनुममृतं स प्रयच्छति। अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः। तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति। स्वर्गो वा मूर्त्तिमानेष, वृषभं यो गवां पतिम्। विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते। प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ!। तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति। गावः शरण्या भूतानामिति वेदविदो विदुः। तस्माद्ददाति यो धेनुं शरणं स प्रयच्छति। न बधार्थं प्रदातव्या न कीनाशे न नास्तिके। गोजीविने न दातव्या तथा गौर्भरतर्षभ!। ददत् स तादृशानां वै नरो गां पापकर्मणाम्। अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः। न कृशां नापवत्सां वा बन्ध्यां रोगान्वितां तथा। न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय च। दशगोसहस्रदो हि शक्रेण सह मोदते। अक्षयान् लभते लोकान्नरः शतसहस्रदः।। भा० आनु० ६६ अ०
गोदारण = न० गां भूमिं दारयति वृ–णिच्–ल्यु। १ लाङ्गले अमरः। २ कुद्दाले हेमच०।
गोदावरी = गां स्वर्गं ददाति स्नानात् दा–वनिप् ङीप् रश्चान्तादेशः। स्वगामख्याते नदीभेदे सा च नदी दक्षिणस्तु दण्डकारण्यसमीपस्था यथाह “सतकृत्य शरभङ्गं स दण्डकारण्यमाश्रितः। नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा” भा० व० २७६ अ०। “ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्। गवामयमवाप्नोति वासुकेर्लोकमुत्तमम् भा० व० ८५ अ०। “गङ्गे! च यमुने! चैव गोदावरि! सरस्वति!। नर्म्मदे! सिन्धु! कावेरि! जलेऽस्मिन् सन्निधिं कुरु”। जले तीर्थावाहनमन्त्रः।
गोदुग्ध = न० ६ त०। गोः क्षीरे। भावप्र० तद्गुणा उक्तास्तच्च वाक्यं गोशब्दे दर्शितम्। वर्णभेदेन गोर्दुग्धस्य गुणास्तत्रैव “कृष्णाया गोर्भवं दुग्धं वातहारि गुणाधिकम्। पीताया हरते पित्तं तथा वातहरं भवेत्। श्लेष्मलं गुरु शुक्लाया रक्तायाश्चापि वातहृत्। बालवत्सविवत्सानां गवां दुग्धं त्रिदोषकृत्। वष्कयिण्यास्त्रिदोषघ्नं तर्पणं बलकृत् पयः। जाङ्गलानूपशैलेषु चरन्तीनां यथोत्तरम्। पयो गुरुतरं स्नेहो यथाहारं प्रवर्त्तते। खल्यन्नभक्षणाज्जातं क्षीरं गुरु कफप्रदम्। तत्तु बल्यं परं वृष्यं स्वस्थानां गुणदायकम्। पलालतृणकार्पासवीजजं रोगिणो हितम्” राजनि० तु “गवां प्रत्यूषसिक्षीरं गुरु विष्टम्भि दुर्जरम्। तस्मादभ्युदिते सूर्ये यामं यामार्द्धमेव वा। समुत्तार्य पयोग्राह्यं तत्पथ्यं दीपनं लघु। विवत्साबालवत्सानां पयो दोषलमीरितम्। शस्तं वत्सैकवर्णायाघवलीकृष्णायोरपि” इक्ष्वादा मासपर्णादा ऊर्द्धशृङ्गो च या भवेत्। तासां गवां हितं क्षीरं शृतं वाऽशृतमेव वा। गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम्। श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः” राजनि०।
गोदुग्धदा = स्त्री गोर्दुग्धं ददाति सम्पादयति दा–क। चणिकातृणे राजनि०। तस्याभोजनाद्गोर्दुग्धवृद्धेस्तस्यास्तथात्वम्।
गोदुह् = त्रि० गां दोग्धि दुह–क्विप् ६ त०। १ गोदोहके (दोयाल) “चिरं निदध्यौ दुहतः स गोदुहः” माघः। १ गोपे च “चेतोऽस्माकं गुणवदगुणं गोदुहां देहमेतत्” उद्धवदू० दुह–क। गोदुहोऽप्यत्र पु०।
गोदोह = पु० भावे घञ्। ६ त०। “१ गोर्दोहने।” “रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च” वृ० स० ३६ अ०। कर्मणि घञ्। “अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञ इति वाच्यम्” वार्त्ति० अस्यार्थः मासमास्ते गोदोहमास्ते इत्यादौ सर्वत्राकर्मकधातूनां व्याप्तिगर्भितस्वार्थपरतायां तात्पर्यग्राहकमिदं वार्त्तिकं यथाह हरिः “कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकर्भकैर्योगे कर्मत्वमुपजायते। अतस्तैः कर्मभिर्युक्तो धातुर्द्रव्यैरकर्मकः। लस्य कर्मणि भावे च निमित्तत्वाय कल्पते” इति। अस्यायं भावः मासमास्ते गोदोहमास्ते इत्यादौ धातोरेव सम्बन्धपूर्वकासनादौ आसनादिकरणक सम्बन्धे वा निरूढलक्षणाया ज्ञापकमेतद्वार्त्तिकम्। तत्र धातोराद्यार्थलक्षणायां प्रधानक्रियाया अकर्मकत्वात् दुहादिषु पाठाभावाच्च गौणकर्मणि लकारासम्भवेनं भाव एव लकारस्तेन मासमास्यत इत्येव प्रयोगः। द्वितीयार्थलक्षणायान्तु प्रधानक्रियायाः सकर्मकतया कालादेश्च तत्कर्मत्वेन मुख्यकर्मण्येव लकारस्तेन मास आस्यते गोदोह आस्यते इति प्रयोग इति विवेकः। अत्र लस्येत्यभिधानात् कृद्योगे न तेभ्यः षष्ठीति द्योतितमिति मगोरमायां स्पष्टम्। २ गोदुग्धे च “ह्यो गोदोहोद्भवं वृतम्” अमरः। आधारे घञ्। ३ गोदहनकाले च तत्कालश्च मुहूर्त्ताष्टमभागात्मकः यथाह आ० त० विष्णु पु० “ततो गोदोहमात्रं वै कालं तिष्ठेत् गृहाङ्गने। अतिथिग्रहयणार्थाय तदूर्द्ध्वं वा यथेच्छया” गोदोहनकालश्च मुहूर्त्ताष्टमभागात्मकः “आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम्। सुहूर्त्तस्याष्टमं भागमुद्वीक्ष्योह्यतिथिर्भवेत्” मार्क० पु० एक वाक्यत्वात्” आ० त० रघु०।
गोदोहन = न० भावे ल्युट् ६ त०। १ गोर्दोहने। आधारे ल्युट्। २ गोदोहनकाले। “न लक्ष्यतेऽह्यवस्थानमपि गोदोहनं क्वचित्” भाग०१। १९। ३७। आधारे ल्युट् ङीप्। गोदोहनी गोदोहनाधारपात्रे गार्य्याम् स्त्री जटाधरः।
गोद्रव = पु० द्रवति द्रु–अच् ५ त०। गोमूत्रे राजनि०।
गोधन = न० गवां धनं समूहः। १ गोसमूहे गौरेव धनमस्य। २ गोरूपधनवति त्रि०। गौरेव धनम्। ३ गोरूपे धने न०। “अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः” हरिवं० ६६ अ० “गोधनेषु प्रतोलीषु वरद्वारमुखेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः” भा० वि० ४७ अ० धन–रवे भावे अच् गोर्वज्रस्य रव इव रवोऽस्य। ४ स्थूलाग्रवाणे पु० शब्दक० हरिव० मूलं दृश्यम्।
गोधर = पु० गां पृथिवीं विष्टम्भकतया धरति धर–अच्। महीधरे पर्वते शब्दार्थचि०
गोधर्म्म = पु० गोरिव धर्मः। मैथुनेऽविचाररूपे गोसदृशे धर्मे “गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः (वृहस्पतिः) भा० आ० १०४ अ० उतथ्यशब्दे १०७५ पृ० दृश्यम्।
गोधा = कौटिल्ये कण्ड्वादेराकृतिगणः नामधातुः पर० अक० सेट्। गोधायति अगोधायीत्।
गोधा = स्त्री गुध्यते वेष्ट्यते बाहुरनया करणे घञ्। घनुर्गुणा घातवारणाय प्रकोष्ठे १ बध्यमाने चर्मणि। “बद्धगोधाङ्गुलित्रवान्” भा० व० १७ अ० “गोधाश्लिष्टभुजा शाखैरभूद्भोमा रणाटवी” माघः। “ततश्चटचटाशब्दो गोधाघातादभूत्तयोः” भा० द्रो० १३९ अ०। कर्त्तरि अच्। (गोसाप) इति ख्याते २ सर्पभेदे स्त्री अमरः “श्वाविधं शल्लकं गोधां खड्गकूर्मशशांस्तथा। भक्ष्यान् पञ्चनखेष्वेताननुष्ट्रांश्चैकतोदतः” मनुना तन्मांसं पञ्चनखेषु भक्ष्यतयाऽभिहितम्। तन्मांसपाकगुणादि भावप्र० उक्तं यथा “गोधाञ्चोष्णजलैर्भूयः क्षालितां खण्डशः कृताम्। स्विन्नाञ्च तक्रतोयाभ्यां क्षालितां सूक्ष्मखण्डिताम्। तलयेद् वेसवाराम्लैः प्रलेहो वा विधानतः। विपाके मघुरा गोधा वातपित्तप्रणाशिनी। कषाया कटुका प्रोक्ता कफघ्नी बलवर्द्धिनी।” सा तु स्थलजजलभेदाद्द्विधा। स्वार्थे क। अत्रैवार्थे। गोधायाः अपत्यम् वा ढ्रक्। गौधेर पक्षे शुभ्रा० ढक्। गौधेय उदीचा० मते आरक्। गौधार तदपत्ये पुंस्त्री ढकि स्त्रीत्वे ङीप् इति भेदः।
गोधापदी = स्त्री गोधाया इव पादी मूलमस्याः स्वाङ्गत्वात् जातित्वाद्वा कुम्भपद्या० ङीषि पद्भावः। (गोयालिया) लताभेदे। स्वार्थे क। अत्रैवार्थे रत्नमाला।
गोधायम् = त्रि० गां दधाति धा–बा० असुण् ६ त०। गोधारके “गोधायसं वि धनसैरदर्दः” ऋ० १०६९। ७।
गोधावीणाका = स्त्री गोधायाश्चर्मणा नद्धा वीणा ह्रस्वा सा कन्। ह्रस्वगोधाचर्मनद्धवीणायाम्। “गोधावीणाका काण्डवीणाश्च पत्न्योवादयन्त्युपगायन्ति” कात्या० श्रौ० १३। ३। १७
गोधास्कन्ध = पु० गोधेव स्कन्धोऽस्य। विट्खदिरे। राजनि०
गोधि = पु० गौर्नेत्रं धीयते यस्मिन् आधारे इन्। १ ललाटे अमरः गुध–इन्। २ गोधायां सर्पभेदे शब्दचि० गोधिस्वार्थे क, गोधेव क अत इत्त्वं वा। गोधिका (गोसाप) गोधायाम् अमरः।
गोधिकापुत्र = पु०६ त०। १ गोधाशावके सर्पात् गोधायामुत्पन्ने (सोना गोसाप) इति ख्याते २ सर्पेभेदे पुंस्त्री शब्दार्थचि०।
गोधिनी = स्त्री गुध–णिनि। वृहतीभेदे राजनि०।
गोधुम = पु० गुध–बा० उम। गोधूमे शब्दच०।
गोधूम = त्रि० गुध–ऊम। १ नागरङ्गे २ व्रीहिभेदे च (गोहुम) च मेदिनिः तद्भेदादि भावप्र० उक्तं यथा “गोधूमः सुमनोऽपि स्यात् त्रिविधः स च कीर्त्तितः। महागोधूम इत्याख्यः पश्चाद्देशात् समागतः। मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा। निःशूको दीर्घगोधूमः क्वचिन्नन्दोमुखाभिधः। गोधूमो मधुरः शीतो वातपित्तहरो गुरुः। कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्सरः। जीवनो वृंहणो वर्ण्योरुच्यो वीर्यस्थिरत्वकृत्। कफप्रदः नवीनो न च पुराणः पुराणयवगोघूम क्षौद्रजाङ्गलशूल्यभुगिति” वाग्भटेन वसन्ते गृहीतत्वात्। मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः। शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखा स्मृता” तस्य कृतान्नशब्दे २१८१ पृ० पाकविशेषो दृश्यः।
गोधूमक = पुंस्त्री गोधूम इव कं शिरोऽस्य। राजिमत् सर्पभेदे अहिशब्दे ५८१ पृ० सुश्रुतवाक्यं दृश्यम्।
गोधूमचूर्ण = ६ त०। (मयदा) इति ख्याते पदार्थे “शुष्कगोधूमचूर्णेन किञ्चित् पुष्टां तु रोटिकाम्” भाव० प्र०। कृतान्नशब्दे दृश्यम्।
गोधूमसम्भव = न० सम्भवत्यस्मात् सम् + भू–अपादाने अप् गोधूमः सम्भवोऽस्य! सौवीरे काञ्जिकभेदे राजनि०।
गोधूमसार = पु० ६ त०। (गोहमेरपालो) इति ख्याते गोधूमस्य सारांशे तत्करणप्रकारः पाकराजेश्वरे “निस्तुषान् गोधूमानुदूखले कण्डयित्वा सायङ्काले मृत्तिकादिपात्रे जले मग्नं कृत्वा परदिने प्रभातसमये उपरिस्थं जलं क्रमेण दूरीकृत्याऽधःस्थं सारमातपे शुष्कं कृत्वा पात्रान्तरे स्थापयेदिति”।
गोधूमी = स्त्री गां धूमयति धूम + णिच्–अण् गौरा० ङीष्। गोलोमिकायां राजनि०।
गोधूलि = स्त्री गवां खुरोत्थितो धूलिरत्र काले। गवां प्रचारदेशात् गृहागमनकाले गोखुरोद्धृतधूलियुक्ते समयभेदे सच कालो यथा “सन्ध्यातपारुणितपश्चिमदिग्विभागे व्योम्नि स्फुरद्विरलतारकसन्निवेशे। रुद्धे गवां खुरपुटोद्गलितैरजोभिर्गोधूलिरेव कथितो भृगुजेन योगः” पी० धा० धृतवाक्योक्तः उपयमशब्दे १२७५। ७६ पृ० अस्य विवृतिर्दृश्या “तिथ्यादिषु निषिद्धेषु चन्द्रताराविलोमतः। ऊषां गाधूलियोगं वा स्वीकृत्य गमनं चरेत्। प्राच्यामूषां प्रतीच्याञ्च गोधूलिं वर्जयेन्नृपुः। दक्षिणे चाभि- जिच्चैवमुत्तरे च निशां तथा”। ज्यो० त० वराहः गोरजमु शब्दोऽप्यत्र उपयमशब्दे २५७५। ७६ पृ० उदा०
गोधेनु = स्त्री गोर्धेनुः जात्या समासे परनिपातः। दुग्धव्रत्यां सवत्सायां गवि
गोधेर = त्रि० गुध–एरच्। गोप्तरि ऊणादिकोषः
गोध्र = पु० गां भूमि धरति धृ–मूलवि० क। महीधरे पर्वते
गोनन्दी = स्त्री गवि जले नन्दति नन्द–अच् गौरा० ङीष्। १ सारसपक्षिणि हारा० स्कन्दस्य २ गणभेदे पु० “प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्” भा० शल्य०४६ अ०
गोनर्द्द = पु० गवि जले नर्द्दति नर्द्द–अच्। १ सारसखगे मेदि० गवा जलेन नर्दति। २ कैवर्त्तीमुस्तके न० मेदि०। गवा वाचा नर्दते अच्। ३ देशभेदे पु० स च कूर्मविभागे वृ० स० १४ अ० दक्षिणस्यामुक्तः “अथ दक्षिणेन लङ्का” इत्युपक्रमे “दशपुरगोनर्दकेरलाः”। सोऽभिजनोऽस्य अण्। गौनर्द तद्देशवासिनि बहुषु अणो लुक्। तद्देशवासिषु ब० व०। गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति” वृ० स० ९ अ०। “तद्राजेऽपि अण्। गौनर्द तन्नृपे “काश्मीरराजो गोनर्दोदरदाधिपतिर्नृपः” काश्मीर राजो गोनर्दः करूषाधिपतिस्तथा” हरि० ९१ अ० बहुषु तस्य लुप्। गवि वृषे नर्दते नर्द–अच्। ४ महादेवे पु० “गोनर्दो गोप्रभावश्च गोवृषेश्वरवाहनः” भा० शा० २८६ अ०। दक्षकृत शिवस्तुतौ। गोनर्दे देशे भवः “एङ् प्राचां देशे” पा० वृद्धसंज्ञत्वात् छः। गोनर्दीय तद्देशभवे त्रि० प्राचोऽन्यमते अण्। गौनर्द तत्रार्थे त्रि०।
गोनर्द्दीय = पु० गोनर्द्दे देशे भवः एङादित्वेन वृद्धसंज्ञत्वात् छ। पतञ्जलिमुनौ हेमच०। तस्य गोनर्ददेशोद्भवकथा वृहत् कथायां दृश्या सरलोपोद्घातेऽस्माभि दिङ्मात्रमुक्ता।
गोन(ना)स = पु० स्त्री० गोरिव नासा अस्य वा नसादेशः। मण्डलि सर्पभेदे (गोखुरासाप) अमरः स्त्रियां जातित्वात् ङीष्। दीर्घमध्य इति हेमचन्द्रः। अहिशब्दे ५१८ पृ० सुश्रुतवाक्यं दृश्यम्। गोनसस्तुदाकरोऽस्त्यास्या अच् गौरा० ङीष्। २ ओषधिभेदे स्त्री। सुश्रुते तल्लक्षणादि तच्च १५६३ पृ० उक्तम्। दीर्घमध्यश्च ३ वैक्रान्तमणौ हेमच०।
गोनाथ = पु० ६ त०। १ वृषे राजनि०। २ भूमिनाथे ३ गोस्वामिनि च।
गोनाय = पु० गां नयति नी–अण्। १ गोपे शब्दार्थचि०। “तद्यथा गोनायोऽश्वनायः पुरुषनायः” इति छा० उप०। “गोनायः गोपालकः” भा०।
गोनिष्यन्द = पु० गोर्निष्यन्दते निस्यन्द–अच् ५ त०। गोसूत्रे राजनि०। तस्य गोतोनिष्यन्दमानत्वात्तथात्वम्।
गोप = पु० स्त्री गां भूमिं वा पाति रक्षति पा–क। (गोयाणा) १ जातिभेदे स्त्रियां ङीष्। “व्याधांच्छाकुनिकान्” गोपान् मनुः। “मणिवन्द्यां तन्तुवायात् गोपजातेश्च सम्भवः” पराशरः “सच्छूद्रौ गोपनापितौ” इत्युक्तेः तस्य सच्छूद्रत्वम् २ ग्रामाधिकृते ३ भूरक्षके, च पु०। ४ गोष्ठाध्यक्षे च मेदि०। गोरक्षकमात्रे च। “गोपः क्षीरभृतोयस्तु स दुह्याद्दशतो वराम्। गोस्वाप्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः” मनुः। “नन्दगोपगृहे जाता यशोदा गर्भसम्भवा” देवी भा०। “गोपवधूटी दुकूलचौराय” भाषां० “तद्वनं तापसानित्यं गोपाश्च वनचारिणः” भा० व० १२ अ०। गोपयति गुप–अच्। ६ रक्षके। “सर्वे देवाभुवनस्यास्य गोपाः” भा० आनु० १० अ०। कस्मिंचिकर्म्मण्युपपदे गुप–अण्। भूगोपादि तत्तद्वस्तु पालके। “दिव्यास्त्रविन्महातेजाः कर्णो वैकर्तनो वृषः। सेनागोपश्च स कथम्” भा० कर्ण० ८ अ०। “पृष्ठगोपे वृकोदरे” भा० आ० २०। अ०। स्त्रियां पणन्तत्वात् ईप्। मुग्धबो० गौरा० ङीष् पा०। “शालि गोप्योजगुर्गुणान्” रघुः। ७ उपकारके त्रि० शब्दर०। गां जलं पिबौ पा–क। ८ वोले शब्दार्थचि०।
गोपक = त्रि० गोप वा स्वार्थे क गुप–ण्वुल्। १ गोपे २ बहुग्रामाध्यक्षे। ३ रक्षके टाप् स्त्रियां ङीष्। ततः शिवा० अपत्ये अण्। गौपिक गोपिकापत्ये पु० स्त्री।
गोपकन्या = स्त्री गोपस्य कन्येव प्रियतया। १ शारिवोषधौ राजनि०। ६ त०। गोपजातिकन्यायां च “वल्लवीर्गोपकन्याश्च रार्त्रा संकाल्य कालवित्” नाम दामोदरेत्येवं गोपकन्यास्तुदाऽब्रुवन्” हरिव०७७ अ०
गोपकर्कटिका = स्त्री गोपप्रिया कर्कटिका शाक० त०। (राखालशसा) ख्याते वृक्षे राजनि०।
गोपघोण्टा = स्त्री० गोपप्रिया घोण्टा शा० त०। “वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत्। अटव्यामेव सा घोण्टा गोपघोण्टेति कीर्त्तिता” शब्दर० उक्ते १ वृक्षे। २ हस्तिकोलौ, रत्नमा०। ३ विकङ्कतवृक्षे (वै~ची) राजनि०।
गोपति = पु० ६ त०। गवां पशूनां पत्यौ १ शिवे, २ वृषे, (सांड) “रक्षसां वशमापन्नं सिंहानामिव गोपतिम्” रामा०। भूमिपतौ ३ नृपे ४ श्रीकृष्णे, किरणपतौ ५ सूर्य्ये, ६ स्वर्ग- पतौ शक्रे, मेदिनिः। ७ ऋषभनामौषधौ राजनि०। “गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरः” भा० आनु० १७ अ० शिवसहनासोक्तौ। “उत्तरो गोपतिर्गोप्ता” विष्णुस० “गवां पालनात् गोपवेशधारणात् गौर्महीतस्याः पालनाद्वा गोपतिः” भा० “सिंहेन निहतं गोष्ठे गौः सवत्सेय गोपतिम्” कि० ४। २२। गोस्वामिनि च हारा०। “ध्रुवा अस्मिन् गोपतौ स्यात् वह्वीः” यजु० ९। ११ “गोपतौ गवां गत्यावस्मिन् यजमाने” वेददी०। सूर्य्यस्य किरणपतित्वात् तथात्वम् “मार्त्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापषान्”। आदित्यहृदयम् “तपसाराध्य वरदं देवं गोपतिमीश्वरम्” भा० आ० १७३ अ० सूर्य्यकन्यातपती विवाहोक्तौ” ९ असुरभेदे “गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना” हरिवं० १६१ अ०। तस्य भावः त्व–गोपतित्व पत्यन्तत्वात् यत्। गोपत्य गोपतिभावे न० “येनांशेन हृता गावः कश्यपेन महात्मना। स तेनांशेन जगतीं गत्वा गोपत्यमेष्यति” हरिवं० ५६ अ०।
गोपथ = पु० अथर्ववेदीयब्राह्मणभेदे।
गोप(ष्प)पद = न० गोः पदं पदस्थानयोग्यस्थानम्। “गोष्पदं सेवितासेवितप्रमाणेषु पा० उक्तार्थे सुट्षत्वे। गवामसेविते वनादौ। १ गोसेविते गोर्गतिगोचरे स्थाने २ गोपदमात्रप्रमाणे क्षेत्रे न० तद्भिन्नार्थे न सुट्। ४ गोश्चरणे।
गोपदल = पु० गोपदं गोचरणन्थासयोग्यं स्थानं तदाकारं वा लाति ला–क। गुवाकवृक्षे तस्य गोचरणन्थासयोग्यस्थानस्थत्वात् तदाकार मूसकाण्डत्वाद्वा तथात्वम्।
गोपन = न० गुप–गोपने रक्षणे भावे ल्युट्। १ अपह्नवे कृतस्य कर्मणोऽप्रकाशने २ रक्षणे च “सैन्येन महता युक्तं भरद्वाजस्य गोपने” भा० भी० ५३ अ०। “क्षान्त्या मह्याधारणे गोपने च” भा० आनु० २६ अ०। चु० गुपदीप्तौ भावे ल्युट्। ३ दीप्तौ। गुप्य–ईर्ष्याकुलत्वयोः मावे ल्युट्। ४ ईर्ष्यायाम् ६ आकुलत्वे च। चु० गुप दीप्तौ गावे मुच् गोपना ६ दीप्तौ स्त्री।
गोपनीय = त्रि० गुप–गोपने रक्षणे वा कर्मणि अनीयर्। १ अप्रकाश्ये २ रक्षणीये च। “गोपनीयमिदं दुःखमिति मे निश्चिता मतिः” भा० शान्ति० १४६ अ०। “गोपनीयं प्रयत्नेन न वाच्यं यस्य कस्यचित्” तन्त्रसा०
गोपब(व)धू = स्त्री ६ त० गोपस्य बधूरिव प्रियत्वात्। १ शारिवोषधौ भावप्र० २ गोपजातिस्त्रियां “गोपबधूटी दुकूलचौराय” भाषा०। “प्रकृतिमगमन् किल यस्य गोपवध्वः” भाग०१। ९। ३८। अत्र मुकुटः बधूशब्दस्य वर्ग्यबादित्वमाह स्म वध्नात्यविद्ययेति बन्धधातोरूप्रत्ययेन निष्पन्नत्वादिति। वस्तुतः ऊप्रत्ययस्याकित्त्वान्नलोपाभावप्रसङ्गः। किन्तु “वहोधश्च” उणा० ऊप्रत्यये धश्चान्तादेशेन सिद्धस्तेन अन्त्यस्थवादित्वमेव ज्यायः।
गोपभद्र = न० गोपे भद्रमिव। १ शालूके शब्दर० गोपे भद्रा। २ काश्मीरीवृक्षे स्त्री राजनि०। संज्ञायां कन्। ३ गम्भारीवृक्षे रत्नमाला शालूकादीनां गोपप्रियत्वात् तथात्वम्।
गोपरस = पु० गां जलं पिबति पा–क गोपः रसोऽस्य। वौले शब्दरत्ना०।
गोपराष्ट्र = पु० ब० व० गोपप्रधानाः राष्ट्राः शा० त०। भारतवर्षस्थे आभीरप्रधाने जनपदभेदे। “अत ऊर्द्ध्वं जनपदान्निबोध गदतो मम” इत्युपक्रमे “अश्मकाः पांशुराष्ट्राश्च गोपराष्ट्राः करीतयः” भा० आ० ९ अ०।
गोपरिचर्य्या = स्त्री ६ त०। गोसेवायां तत् प्रकारो हेमा० दा० उक्तस्तत्रादौ ब्रह्मपुराणे
“वन्दनीयाश्च पूज्याश्च गावः सेव्यास्तु नित्यशः। तथा। “गवाङ्गोष्ठे स्थितानान्तु यः करोति प्रदक्षिणम्। प्रदक्षिणीकृतं तेन जगत् सदसदात्मकम्।” विष्णुः “गावः पवित्रा माङ्गल्या गवि लोकाः प्रतिष्ठिताः। गावो वितन्वते यज्ञान् गावः सर्वाघसूदनाः। गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना। षडङ्गमेतत्परमं माङ्गल्यं सर्वदा गवाम्। शृङ्गोदकं गवां पुण्यं सर्वाघविनिसूदनम्। गवां कण्डूयनञ्चैव सर्वकल्मषनाशनम्। गवां ग्रासप्रदानेन स्वर्गलोके महीयते।” पद्मपराणे “सदा गावः प्रणम्यास्तु मन्त्रेणानेन पार्थिव!। नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। नमो ब्रह्मसुताभ्यश्च भूयो भूयो नमो नमः। मन्त्रस्य स्मरणादेव गोदानफलमाप्नुयात्”। आदित्यपुराणे “लवणं च यथाशक्त्या गवां येंवै ददत्युत। तेषां पुण्यकृतां लोका, गवां लोकं व्रजन्ति ते। योऽग्रं भक्त्या किञ्चिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादो। शान्तो बुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयाद्धर्मशीलः”। देवीपुराणे “गोपालको गवां गोष्ठे यस्तु धूमं न कारयेत्। मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते। मृतवतमान्त गां यस्तु दमित्वा पिबते नरः। वाहि- ताऽस्याश्चिरं तिष्ठेत् क्षुधार्त्तो वै नराधमः”। महाभारते “गोकुलस्य तृषार्त्तस्य जलान्ते वसुधाधिप!। उत्पादयति यो विघ्नं तमाहुर्व्रह्मघातकम्। कृत्वा गवार्थे शरणं शीत–वात–क्षमं महत्। आसप्तमन्तारयति कुलं भरतसत्तम!। ब्रह्मपुराणे “सदोषा गौर्गृहे जाता परिपाल्या सदा स्वयम्। दुःशीलोऽपि द्विजः पूज्यो न तु शूद्रः सुसंयतः। अनाथानां गवां यत्नात्कार्यस्तु शिशिरे मठः। पुण्यार्थं यत्र दीयन्ते तृण-तोये-न्धनानि च”। हारीतः “द्वौ मासौ पाययेद्वत्सं तृतीये द्विस्तनं दुहेत्। चतुर्थे त्रिस्तनञ्चैव यथान्यायं यथा बलम्”। ब्रह्मपुराणे “आषाद्यामाश्वयुज्याञ्च पौष्यां माध्यां च सर्वदा। न गृह्लीयाद्गवां क्षीरं सर्वं वत्साय निक्षिपेत्। न षण्डान्वाहयेच्चैव न गां भारेण पीडयेत्। युगादिषु युगान्तेषु षडशीतिमुखेषु च। दक्षिणोत्तरगे सूर्ये तथा विषुवतोर्द्वयोः। संक्रान्तिषु च सर्वासु ग्रहणे चन्द्रसूर्ययोः। पञ्चदश्याञ्चतुर्दश्यां द्वादश्यामष्टमीषु च। उपचारो गवां कार्यो मासि मासि यथाक्रमम्। लवणस्य तु चत्वारि पलान्यष्टौ घृतस्य च। परकीयस्य दुग्धस्य तथा देयानि षोडश। द्वात्रिंशत् शीतलस्यापि जलस्य च पलानि च। आदौ विचार्य पयसः परिमाणं बलं रुचि। आकस्मिकन्तु दातव्यं पुण्यार्थन्तु गवाह्निकम्। प्रभाते लवणं यत्र दीयते च ततो जलम्। ततस्तृणानि भोज्यञ्च पोषणं मांसवर्जितम्। निशि दीपः सतन्त्रीको दिव्या पौराणिकी कथा। एवं कृते महीं पूर्णां रत्नैर्दत्त्वा भवेत् फलम्। गोप्रदानात्तु यत्पुण्यं गवां संरक्षणाद्भवेत्। मनुष्यैस्तृणतोयाद्यैर्गावः पाल्याः प्रयत्नतः। देयाः पूज्याश्च पोष्याश्च प्रतिपाल्याश्च सर्वदा”। तथा “तृणोदकाद्येषु वनेषु मत्ताः क्रीडन्तु गावः सवृषाः सवत्साः। क्षीरं प्रमुञ्चन्तु सुखं स्वपन्तु शीतातपव्याधिभयैर्विमुक्ताः। इमं मन्त्रं स शुद्धात्मा जपेन्नित्यं समाहितः। गच्छन् तिष्ठन् जपन् जिघ्रन् भुञ्जन् क्रीडन् समुत्सृजन्। महाभयेषु सर्वेषु समेषु विषमेषु च। प्रयाणकाले च तथा श्रोतव्यमभयप्रदम्”। तथा “घासग्रासादिकं देयं निशि दीपः सुमास्वरः। इतिहासपुराणानां व्याख्यानं सोपवीणनम्। अन्तस्तुष्ठैर्ययाशक्त्या परिचर्या यथाक्रमम्। ताडनाक्रोशखेदाश्च स्वप्नेऽपि न कदाचन। तासां मूत्रपुरीषे तु नोद्वेगः क्रियते क्वचित्। शोधनीयश्च गोवाटः शुष्कक्षारादिकैः सदा। ग्रीष्मे वृक्षाकुलं वेश्म शीते तप्तं विकर्दमम्। बर्षासु चाथ शिशिरे सुखोष्णं वातवर्जितम्। उच्छिष्टं मूत्रविट्श्लेष्ममलं जह्यान्न तत्र च। रजस्वला न प्रवेश्या नान्त्यजातिर्न पुंश्चली। न लङ्घयेद्वत्सतरीं न क्रीडेद्गोष्ठसन्निधौ। न गन्तव्यं गवां मध्ये सोपानत्कः सपादुकैः। हस्त्यश्वरथयानैश्च सवितानैः कदाचन। दक्षिणोत्तरगैः प्रह्वैर्गन्तव्यञ्च पदातिभिः। गावःकृशातुराः पाल्याः श्रद्धया पितृमातृवत्। गिरिप्रपातसिंहर्क्षशीतातपभयातुराः। महाकोलाहले घोरे दुर्दिने देशविप्लवे। गवां तृणानि देयानि शीतलं च तथा जलम्”। विष्णुधर्मोत्तरे “पुष्कर उवाच गवां हि पालनं राज्ञा कर्त्तव्यं भृगुनन्दन। गावः षवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः। गावो वितन्वते यज्ञं गावो विश्वस्य मातरः। शकृन्मूत्रं परं तासामलक्ष्मीतापनं परम्। तद्धि मेध्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता। उद्वेगश्च न गन्तव्यः शकृष्मूत्रे विजानता। गवां मूत्रपुरीषे तु ष्ठीवनाद्यं न संत्यजेत्। गोरजः परमं पुण्यमलक्ष्मीविघ्ननाशनम्। गवां कण्डूयनञ्चैव सर्वकल्मषनाशनम्। गवां शृङ्गोदकं राम! जाह्नवीजलसन्निभम्। गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव!। रक्षोघ्नमेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम्। रोचना च तथा धन्या रक्षोगदगरापहा। यस्तु कल्यं समुत्थाय मुखमाज्ये निरीक्षते। तस्याऽलक्ष्मीः क्षयं याति वर्द्धते न च किल्विषम्। गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते। यावतीः शक्नुयाद्गास्तु सुखं धारयितुं गृहे। धारयेत्तावतीर्नित्यं क्षुधार्त्तास्ता न धारयेत्। दुःखिता धेनवे। यत्र वसन्ति द्विजमन्दिरे। नरकं समवाप्नोति नात्र कार्या विचारणा। दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते। शिशिरं सकलं कालं ग्रासं परगवे तथा। दत्त्वा स्वर्गमवाप्नोति संवत्सरशतानि षट्। अग्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम्। समाष्टकेन लभते नाकलोकं समायुतम्। सायं प्रातर्मनुष्याणामशनं वेदनिर्मितम्। तथैकमशनं दत्त्वा गवां नित्यमतन्त्रितः। द्वितीयं यः समश्नाति तेन संवत्सरान्नरः। गवां लोकमवाप्नोति यावन्मन्वन्तर द्विज!। शीतत्राणं गवां कृत्वा गृहे पुरुषसत्तम!। गवां प्रपाणे पानीयं कृत्वा पुरुषसत्तम!। वारुणं लोकमाप्नोति क्रीडत्यप्सरसां गणैः। गवां पानप्रवृत्तानां यस्तु विघ्नं समाचरेत्। ब्रह्महत्या कृता तेन घोरा भवति भार्गव!। परां तृप्तिं नचाप्नोति यत्र तत्राभिजायते। गवां प्रचारभूमिन्तु वाहयित्वा हलादिना। नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश। सिंहव्याध्रमयत्रस्तां पङ्कलग्नां जले गताम्। गामुद्धृत्य नरः स्वर्गे कल्पमोगानुपाश्नुते। गवां लवणदानेन रूपवानभिजायते। सौभाग्यं महदाप्नोति लावण्यञ्च द्विजोत्तम!। औषधञ्च तथा दत्त्वा विरोगस्त्वभिजायते। औषधं लवणं तोयमाहारञ्च प्रयच्छति। तासाञ्चेदवरुद्धानाञ्चरन्तीनां मिथो वने। यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्विषी। गोबधेन नरो याति नरकानेकविंशतिम्। तस्मात्सर्वप्रयत्नेन कार्यं तासान्तु पालनम्। विक्रयाच्च गवां राम! नरकं प्रतिपद्यते। तासान्तु कीर्त्तनादेव नरः पापाग् प्रमुच्यते। तासां संस्पर्शनं धन्यं सर्वकलमषनाशनम्। दानेन च तथा तासां कुल्यान्यपि समुद्धरेत्। उदक्यासूतिकादोषो नैव तत्र गृहे भवेत्। भूमिदोषस्तथान्योऽपि यत्रैका वसते च गौः। गवां निःश्वासवातेन परा शान्तिर्गृहे भवेत्। नीराजनं तत्परमं सर्वस्थानेषु कीर्त्त्यते। गवां संस्पर्शनाद्राम! कल्मषं क्षोयते नृणाम्। गोमूत्रं गोमयं क्षीर दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च श्वपाकमपि शोधयेत्। पृथक् च प्रत्ययाभ्यस्तमिति सान्तपनं स्मृतम्। सर्वकामप्रदं राम! सर्वाशुभविनाशनम्। कृत्वातिकृच्छ्रं पयसा दिवसानेकविंशतिम्। निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः। त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत्। त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम्। तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम्। शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः प्रकीर्त्तितः। सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम्। गोमूत्रेणाचरेत् स्नानं वृत्तिं कुर्याच्च गोरसैः। उत्थितासूत्थितस्तिष्ठेदुपविष्टासु च स्थितः। अभुक्तवत्यां नाश्नोयादपीतासु च नो पिबेत्। त्रार्णं चैवात्मना कार्यं भयार्त्ताश्च समुद्धरेत्। आत्मानमपि सन्त्यज्य गोव्रतं तत् प्रकीर्त्तितम्। सर्वपापप्रशमन मासेनैकेन भार्गव!। व्रतेनानेन पूर्णेन गोलोकं पुरुषोव्रजेत्। अभीष्टमथ वा राम! यावदिन्द्राश्चतुर्दश। शवा माहारनिर्मुक्तानश्नन् प्रतिदिनं यवान्। मासेन तदवाप्नोति यत्किञ्चिन्मनसेच्छति। गोमतीञ्च तथा विद्यां सायं प्रातस्तथा जपेत्। गोलोकमाप्नोति नरोनात्र कार्या विचारणा। उपर्युपरि सर्वेषां गवां लोकः प्रकीर्त्तितः। निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि। विमानेषु विचित्रेषु वृतेष्वप्सरसाङ्गणैः। किङ्किणीजालचित्रेषु वीणासु रचनादिषु। सदा कामफला नद्यः क्षीरपायसकर्दमाः। शीतलामलपानीयाः सुवर्णसिकतास्तथा। पुंष्करिण्यः शुभास्तत्र वैदूर्यकमलोत्पलाः। मानसी च तथा सिद्धिस्तत्र लोके भृगूत्तम!। तन्तु लोकं नरा यान्ति गवां भक्त्या न संशयः। गोमतीं कीर्त्तयिष्यामि सर्वपापप्रणाशिनीम्। तान्तु मे गदतो विप्र! शृणुष्व सुसमाहितः। गावः सुरभयो नित्यं गावो गुम्गुलुगन्धिकाः। गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम्। अन्नमेव परं गावो देवानां हविरुत्तमम्। पावनं सर्वदेवानां रक्षन्ति च वहन्ति च। हविषा मन्त्रपूतेन तर्पयन्त्यमरान् दिवि। ऋषीणामग्निहोत्रेषु गावो होमनियोजिताः। सर्वेषामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो मङ्गलमुत्तमम्। गावः स्वर्गस्य सोपानं गावोधन्याः सनातनाः। नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। नमो व्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः। ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्। एकत्र मन्त्रास्तिष्ठन्ति हबिरेकत्र तिष्ठति। देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत्। धार्यते वै सदा तस्मात् सर्वे पूज्यतमा मताः। यत्र तीर्थे सदा गावः पिवन्ति तृषिता जलम्। उत्तरन्त्यथ वा येन, स्थिता तत्र सरस्वती। गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा। लक्ष्मीः करीषे प्रणतौ च घर्मस्तासां प्रणामं सततञ्च कुर्यात्”। भविष्यत्पुराणे “व्रह्मोवाच गामालभ्य नमस्तृत्य कुर्याद्यस्तु प्रदक्षिणम्। प्रदक्षिणी कृता तेन सप्तद्वीपा वसुन्धरा। गवां हुङ्कारशब्देन दृष्टिपातेन सत्तम!। पापं प्रणश्यते यस्मात्तस्मात्पश्येत् स्पृशेच्च ताः। कुतस्तस्य भवेत्पापं गृहं यस्य विभूषितम्। सततं बालवत्साभिरर्जुनीभिरलङ्कृतम्। यावत्तीर्थानि मेदिन्यामासमुद्रं सरांसि च। गवां शृङ्गोदकस्नानकलां नार्हन्ति षोडशीम्। गवामस्थि न लङ्गेत मृते गन्धं न वर्जयेत्। यावदाघ्राति तद्गन्धं तावत् पुण्येन यज्यते। गवां कण्डूयनं धन्यं गोप्रदानफलप्रदम्। तुल्यं गोशतदानस्य भयरोगादिपालनम्। तृणोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम्। कपिलाशतदानस्य फलं विद्यान्न संशयः। पञ्चभूते! शिवे! पुण्ये! पवित्रे! सूर्यसम्भवे!। प्रतीच्छेदं मया दत्तं सौरभेयि! नमोऽस्तु ते। बहुना च किमुक्तेन गावः पाल्याः प्रयत्नतः। गावोदेयास्तथा रक्ष्याः पूज्या ग्राह्याश्च सर्वशः। गां वै ये ताडयन्तीह सर्वलोकस्य मातरम्। ते यान्ति रौरवं नाम नरकं नात्र संशयः। ताडयेद्यस्तु वै मोहात् यो वा कश्चिन्नराधमः। स गच्छेन्नरकं घोरं सम्पीडकमिति श्रुतिः। आयान्तीं हन्तुकामां यः सौरभेयीं विभावरीम्। क्षम मातरिति ब्रूयात् स याति परमं पदम्”। वराहपुराणे “यमौवाच गावः पवित्रं मङ्गल्या देवानामपि देवता। यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते। यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति। लाङ्गूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति यो नरः। शरत्सु ह्युपजातेभ्यः स पापेभ्यः प्रमुच्यते। प्रस्नवे यो गवां स्नायात् रोहिण्यां मानवो भुवि। सर्वपापकृतान् दोषान् दहत्याशु न संशयः। घेनोस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य यो नरः। शिरसा प्रतिगृह्णीयात्स पापेभ्यः प्रमुच्यते”। आधिकं कृषिशब्दे २२०१। २ पृ० दर्शिते वृहत्पराशरवाक्ये दृश्यम्।
गोपवन = न० गोपप्रधानं वनं शाक० त०। गोपभूयिष्ठे वने तत्र भवः विदा० अञ्। गौपवन तत्र भवे त्रि० “सकृच्छेषमहालेयमबालेयमकाद्रवेयमशौभ्रेयमवामरथ्यमगौपवनम्” कात्या० १०। २। २१ सोऽभिजनोऽस्य विदा० अञ्। गौपवन पित्रादिक्रमेण तत्र वासिजने तस्य गोत्रापत्यम् अनृष्यानन्तर्य्ये विदा० अञ्। तद्गोत्रापत्ये बहुषु तस्य लुक्। गोपवना गोपवनस्थपुरुषापत्येषु।
गोपवनादि = बहुत्वे गोत्रप्रत्ययस्य लुग्निमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा। गोपवन शिग्रु विन्दु भाजन अश्वावतान श्यामाक श्यामक श्यापर्ण विदाद्यन्तर्गणोऽयम्। गोपवन शिग्रु विन्दु भोगक भाजन शमिक अश्वावतान श्यामाक श्यामक श्यावलि श्यापर्ण हरितादिश्च। हरित किन्दास वह्यस्क अर्कलूष बध्योग विष्णु वृद्ध प्रतिबोध रथीतर रथन्तर। गविष्ठिर निषाद शवर अलस मठर मृडाकु सृपाकु मृदु पुनर्भू पुत्र दुहितृ ननान्दृ परस्त्री परशु च”।
गोपवल्ली = स्त्री गां पाति पा–क कर्म०। १ मूर्वालतायां राजनि०। २ श्यामालतायां (श्यामाघास)। शब्दर०।
गोपस् = त्रि० गुप–असुन् आर्द्धधातुकत्वाद्वाऽऽयाभावः। १ गोप्तरि २ रक्षितरि। “स जगार भुवनस्य गोपास्त कापेयं नाभिपश्यन्ति” छा० उ० ‘गोपाः रक्षिता’ भाष्यम्। अस्य गोपाशब्दोदाहरणतया कस्यचिदुक्तिः ग्रामादिकी। गोपूर्य्य कक्विबन्तपाधातुसिद्धगोपाशब्दस्य पोपालनकर्त्रर्थकत्वेन तत्र भुवनस्येतिकर्म्मणोनन्वयापत्तेः आयपक्षे गोपायस् गोप्तरि त्रि०।
***