वाचस्पत्यम्
गुर्ज to गृष
links:
Menu अ–ह
Prev गुण्ड–गुरू
Next गृह
गुर्ज
गुह
गू
गृ
गृध्य
UpasanaYoga
.org

गु(गू)र्जर = पु० दक्षिणदेशस्थे देशभेदे सोऽभिजनोऽस्य अण्। गौर्ज्जर तद्देशवासिनि बहुषु लुक्। महाराष्ट्राच्च त्रैलिङ्गाद्रविडा गु(गू)र्ज्जरास्तथा” दशविधव्राह्मणकथने।

गु(गू)र्द्द = कूर्दने भ्वा० आत्म० अक० सेट्। गूर्दते अगूर्द्दिष्ट। जुगूर्दे। लघुयुक्तस्य क्विपि गूः गुरौ गुरः। दीर्घान्वितस्य गूः गूरौ गूर इति भेदः।

गु(गू)र्द्द = निवासे कूर्दने च चुरा० उभ० अक० सेट्। गु(गू)र्दयति ते अजुगु(गू)र्दत्–त।

गुर्व = उद्यमे भ्वा० पर० अक० सेट्। गुर्वति अगुर्वोत्। जुगुर्व ईदित् गूर्णः।

गुर्विणी = स्त्री गुरुर्गर्मोऽस्त्यस्याः ब्रीह्यादित्वात् इनि नि० गुणाभावः, गर्व–गतौ “गर्वेरत उच्चेति” उणा० इनन् गौरा० ङीष् वा। गर्भिण्याम्। “उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे!” भा० आश्व० ६१ अ०। “गुर्विणीं नानुगच्छन्ति न स्पृशन्ति रजस्वलाम्” अनायुष्योक्तौ।

गुर्व्वादित्य = पु० गुरुणा सह आदित्यो यत्र। ज्योतिषोक्ते कालाशुद्धिहेतौ एकराश्येकनक्षत्रस्थयोर्जीवादित्ययोर्योगभेदे “गुर्वादित्ये दशाहिकम्” ज्यो० त०। “एकराशौ गतौ स्यातामेकर्क्षविषये यदि। गुर्वादित्यौ, तदा त्याज्या यज्ञोद्वाहादिकाक्रियाः” राजमा०। “गुर्वादित्ये दशाहे त्विति” नक्षत्रभेदविषयम्। अत्यन्तावश्यकत्वे भुजबलभीमः “जीवोऽर्केण युतः करोति मरणं, बालांशुको भागुरिः नक्षत्रैकगतो वदन्ति मरणं, पादस्थितो देवलः” तथा च एकराशिस्थत्वेऽकालः अत्यन्तावश्यकत्वे एकनक्षत्रपादस्थितौ दशाहं त्यक्त्वा यज्ञादि कर्त्तुं शक्यते इति व्यबस्था।

गुर्व्वी = स्त्री गुरु–ङीष्। १ गर्भवत्याम् “न हि बन्ध्या विजानाति गुर्वीप्रसववेदनाम्” हितो० २ गौरवयुक्तस्त्रीलिङ्गा र्थकपदार्थे च “गुर्वीरजसं दृषदः समन्तात्” माघः। यत्तु “अनन्यगुर्वास्तव केन केवलम् पुराणमूर्त्तेः” घ पदो अन्यगुर्व्या इति पाठं कल्पयित्वा शब्दक० उदाज हार तत् प्रामादिकं “न विद्यतेऽन्या गुरुर्यस्यास्तस्या अन्यग्यगुर्वा इत्यनीकारान्तः पाठः एव साधुः समासात् प्राङ् ङीषि “नद्यृतश्चेति” पा० कप्प्रत्ययः स्यात् पश्चात्तु अनुपसर्जनाधिकारात् “वोतो गुणवचनादिति” न प्राप्नोतीति। तद्रूपसिद्धिस्तु “ङिति ह्रस्वश्चेति” पा० वा नदीसंज्ञत्कायाम् “आण्नद्याः” पा० इत्याडागमात्” मल्लि०। समासान्तस्य विधेरनित्यकल्पनेन कबभावकल्पनस्यागतिकविषयएव स्वीकारात् अत्र तथाऽकल्पनेऽपि छन्दोदोषाप्रसङ्गात्” इति विभाव्यम्। ३ गुरुस्त्रियाञ्च।

गुल = पु० गुड + डस्थ लः। १ ऐक्षवे गुडे २ स्नुहीवृक्षे स्त्री टाप् मेदि०।

गुलञ्चकन्द = पु० गुलं गुडरसमञ्चति अन्च–अण् शक०। गुलञ्चः कन्दोऽस्य। (कुली) भाषाप्रसिद्धे कन्दभेदे राजनि०

गुलिका = स्त्री गुडः गोलाकारः अस्त्यस्य ठन्। १ गुटिकायां गोलाकारायां वटिकायां (वसन्त) २ रोगभेदे च मेदि०। “घृतेन गुडयुक्तेन गोलकुष्माण्डखण्डकान्। रन्धितान् जीरमरिचैरिमांस्तु गुलिकां विदुः” इत्युक्ते ३ पक्वकुष्माण्डभेदे च।

गुली = स्त्री गुडाकारोऽस्याः अच् गौरा० ङीष्। १ गुटिकायाम् (वसन्त) २ रोगे च मेदि०।

गुलगुधा = अव्य०। सहार्थे। उर्य्यादि० पा० ग० सू०।

गुलुच्छ = गुच्छ + पृषो०। गुच्छे स्तवके त्रिका०। “कोषातकीपुष्पगुलुच्छ(ञ्छ)कान्तिभिः” माघः।

गुलुञ्छ = पु० गुड–क्विप् गुलं गोलाकारमुञ्छति बध्नाति उछिबन्धने अण् उप० समा० डस्य लः। स्तवके हेमच० ण्वुल्। गुलुञ्छक तत्रार्थे शब्दरत्ना०। गुलुञ्च इति हारा० पाठः तत्रार्थे। तत्र ग्लुन्च–अच् पृषो० साधु

गुल्फ = पु० गुल–फक् नि० अस्योच्च। पादग्रन्थौ। “षष्ठ्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम्” याज्ञ०। “आगुल्फकीर्णापणमार्गपुष्पम्” कुमा०। “गुल्फैरति तनुभिरतिवृहद्भिर्वा” वृ० स० ६१ अ०। गुल्फस्य मूलं कर्णा० जाहच्। गुल्फजाह गुल्फमूले न०।

गुल्म = पु० गुड–रक्षणे वेष्टने वा मक् डलयोरैक्यात् डस्य लः। १ प्रधानपुरुषाधिष्ठिते रक्षके पुरुषसंघे, (गजाः ९, रथाः ९, अश्वाः २७, पदातयः ४५) एतत्संख्यान्विते २ सैन्यसमुदाये, स्वनामख्याते ३ रोगभेदे, अमरः। घट्टदेशे रक्षणार्थं स्थापिते ४ सैन्ये, ५ अप्रकाण्डे लतादौ मेदि० एक मूलेषु सङ्घातजातेषु शरेक्षुप्रभृतिषु ६ तृणभेदेषु, कुल्लू०। गुच्छगुल्ममित्यादि मनुवचनस्य गुच्छशब्दे दर्शितस्य कुल्लूभट्टव्याख्या २५९६ पृ० दृश्या। ७ प्लीहरोगे अमरः। “त्रींणि सेनामुखान्येकोंगुल्म इत्यभिधीयते १६० पृ० अनीकिनीशब्दे दर्शितम् भा० उ० वाक्यम्। “प्रच्छन्नस्तरुगहनैः स गुल्मजालैः” किरा०। “गुल्मगुच्छक्षुपलतेत्यादि” याज्ञ०। “स्थावराणां तु भूतानां जातयः षट् प्रकीर्त्तिताः। गुच्छगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः भा० आनु० ५८ अ०। रक्षणार्थं गुल्मनिवेशनप्रकारो मनुनोक्तो यथा “द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममघिष्ठितम्। तथा ग्रामशतानां च कुर्य्याद्राष्टस्य संग्रहम्”। “द्वयो र्ग्रामयोर्मध्ये त्रयाणां वा ग्रामाणां पञ्चानां वा ग्रामशतानां गुल्मं रक्षितृपुरुषसमूहं सत्वप्रधानपुरुवाधिष्ठितं राष्ट्रस्य संग्रहं रक्षास्थानं कुर्य्यात् अस्य लाघवगौरवापेक्षश्चोक्तविकल्पः” कुल्लू०। “गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः। स्थाने युद्धे च कुशलानभीरूनविकारिणः” मनुः गुल्भरोगलक्षणादि सुश्रुतोक्तं यथा “अथातो गुल्मप्रतिषेधं व्याख्यास्यामः। यथोक्तैः कौपनेर्दोषाः कुपिताः कोष्ठमागताः। जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते। हृद्वस्त्योरन्तरे ग्रन्थिः सञ्चारी यदि घाचलः। चयापचयवान् वृत्तः स गुल्म इति कीर्त्तितः। पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिवस्तयः। कुपितानिलमूलत्वाद्गूढमूलोदयादपि। गुल्मवद्वा विशालत्वात् गुल्म इत्यभिधीयते। स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः। अन्तःसरति यस्माच्च न पाकमुपयात्यतः। स व्यस्तैर्जायते दोषैः समस्तैरपि वोच्छ्रितैः। पुरुषाणां, तथा स्त्रीणां ज्ञेयो रक्तेन चापरः। सदनं मन्दता वह्नेराटोपोऽन्त्रविकूजनम्। विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा। द्वेषोऽन्ने बायुरूर्द्धञ्च पूर्वरूपेषु गुल्मिनाम्। हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्न्निरोधो विषमाग्निता च। ते ते विक्नाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसम्भवे तु। स्वेदज्वराहारविकारदाहास्तृष्णाङ्गरागः कटुवक्त्रता च। पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे। स्तैमित्यमन्नेऽरुचिरङ्गमादश्छर्दिः प्रसेको मधुरास्यता च। कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसम्भवे तु। सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः क्षतजञ्च वक्ष्ये। नवप्रसूताऽहितभोजना या याचामगर्भं विसृजेदृतौ वा। वायुर्हि तस्याः परि- गृह्य रक्तं करोति गुल्मं सरुजं सदाहम्। पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध। न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्। तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः”।

गुल्मकेतु = पु० गुल्मः केतुरस्य। अम्लवेतसे राजनि०।

गुल्ममूल = न० गुल्म इव मूलमस्य। आर्द्रके (आदा) शब्दर०।

गुल्मवल्ली = स्त्री गुल्मप्रधाना वल्ली। सोमलतायाम् राजनि०।

गुल्मशूल = न० शूलरोगभेदे शूलशब्दे विवृतिः।

गुल्मिन् = त्रि० गुल्म + अस्त्यर्थे इनि। १ गुल्मरोगयुक्ते। गुल्मशब्दे शुश्रुतः। स्त्रियां ङीप् सा च विस्तृतलतायां २ द्राक्षाताम्बूलीप्रभृतौ अमरः।

गुल्मी = स्त्री गुल्मस्तदाकारफलत्वात् गुल्मरोगहन्तृत्वाद्वा अस्तीत्यर्थे अच् गौ० ङीष्। १ आमलक्यां, २ एलायाम्, ३ वस्त्रनिर्म्मितमृहे, मेदि० ४ लवल्याम् शब्दार्थचि० ५ गृध्ननखीवृक्षे, (गुडकाओली) शब्दच०।

गुल्य = त्रि० गुडं तद्वद्रसमर्हति यत् डस्य लः। मधुरे स्वादौ हेम०।

गु(गू)वाक = पु० गु–पिनाकादित्वात् आक नि० दीर्घः। (सुपारी) क्रमुके अमरः “घोरण्टः पूगी पूगश्च गु(गू)वाकः क्रमुकीऽस्य तु। फलं पूगीफलं प्रोक्लमुद्वेगञ्च तदीरितम्। पूगङ्गरु हिमं रूक्षं कषायं कफपित्तजित्। मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम्। आर्द्रं तद्गुर्वभिष्यन्ति बह्निदृष्टिहरं स्मृतम्। स्विन्नं दोषत्रयच्छेदि दृढमध्यं तदुत्तमम्” भावप०। “प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा। निशासु चूर्णमधिकं ताम्बूले भक्षयेत् सदा” भावप्र०।

गुष्पित = न० गुन्फ भावे–क्त वेदे नि०। गुम्फने वृक्षादेः शाखानिर्गमरूपे ग्रन्थने “व्रततेरिव गुष्फितमोजो दासस्य सम्भवः” ऋ० ८। ४०। ६। “गुष्फितं निर्गता शाखा” भा०।

गुह = संवरणे भ्वा० उभ० सक० वेट्। गूहति ते अगूहीत् अघुक्षत्। अगूहिष्ट अगूढ अघुक्षत अगूहिषत अघुक्षन्त। अगूहिषि अघुक्षि। अगूहिष्वहि अगुह्वहि अघुक्षावहि। जुगूह जुगुहे “गूहिता गोढा। गुह्यात्। गूहिषीष्ट घुक्षीष्ट गूहिष्यति–ते–धोक्ष्यति–ते, गुह्यम् गोह्यम्। गूहनं गुहः गुहा। सन् जुघुक्षति “जुगूह तस्याः पथि लक्ष्मणो यत्” रघुः। “अगूहीच्छायकैर्दिशः” गूहिष्यामि क्षितिं कृत्तैः” भट्टिः “गूहेत् कूर्म इवाङ्गानि” मनुः। “जुगूहे दक्षिणे पार्श्वे” भा० वि० २३५ श्लो०। “गूहन्ति मेघा इव रश्मिवन्तम्” भा० भी० ७९२ श्लो०। “आकारो गूहितं शक्यः” भा० द्रो० ४४७ श्लो०। “अगूढसद्भावमितीङ्गितज्ञया” कुमा०। णिच् गूहयति ते अजूगुहत् त। “न देवामपि ह्रुतः सुमति न जुगुक्षतः” ऋ० ८। ३१। ७। क्विप् घुट् गुहौ गुहः। “विश्वायुरग्ने गुहा गुहं गाः” ऋ० १। ६७। ३। अप + अपनयने “अपागूहन्नमृतां मर्त्येभ्यः” ऋ० १०। १७। २। “अपागूहन् अपनीतवन्तः” भा०। संवरणे च। “मात्मानमप गूहथाः” अथ० ४। २०। ५। अव + सम्यग्संवरणे। “यूपशकलमवगूहति” शत० ब्रा० ३। ७। १। २२। “उष्णीषं संहृत्य पुरस्तादवगूहति” ५। ३। ५। २३। उद् + उत्क्षिप्य संवरणे। “नीविमुद्गूहते” शत० ब्रा० ३। २। १। १५। उप + आलिङ्गने “गाढं चोपजुगूहैनम्” भट्टिः “छायाच्छलेनोपजुगूह लक्ष्मीः” रघुः। “उपगूढानि सवेपथूनि च” कुमा०। “तरङ्गहस्तैरुपगूहतीव” रघुः आश्लेषणे च। “कश्चित् कराभ्यामुप्रगूढनालम्” रघुः। नि + अतिशयसंवरणे। “देवात्मशक्तिं स्वगुणैर्निगूढाम्” श्वेता० उप०। समादिपूर्वस्य तत्तदुपसर्गद्योत्यार्थसंयुतसंवरणे

गुह = पु० गूहति देवसेनाम् गुह–क। १ कार्त्तिकेये “सैनापत्येन देवानामभिषिक्तो गुहस्तदा” भा० व० ३८ अ०। “अथैनमभ्ययुः सर्वादेवसेनाः सहस्रशः। अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः” भा० व० २२८ अ०। “गुहोऽपि येषां प्रथमाप्तजन्मनाम्” कुमा० तस्य देवसेनारक्षकत्वेन सेनापतित्वात् तथात्वम्। भा० आनु० ८५ अ० गुहनामनिरुक्तिरन्यथोक्तो यथा “स्कन्नत्वात् स्कन्दनामायं गुहावासाद्गुहोऽभवत्”। अत्र पक्षे गुहा आवासत्वेनास्त्यस्य अच्। २ अश्वे पुंस्त्री शब्दरत्ना० एतदाशयेन “यत्राश्वा बिलयोनयः” कुमा० उक्तम्। देवखातरूपविलोत्पन्नत्वात्तथात्वम्। ३ परमेश्वरे। “करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः विष्णुस०। “गूहति संवृणोति स्वरूपं माययेति गुहः” भा० “नाहं प्रकाशः सर्वस्य योगमायासमावृतः” इति गीतोक्तेस्तस्य स्वमायया स्वात्मरूपसंवरणात्तथात्वम्। गुहारूपमायाहृदयाद्याश्रयत्वात् वा तथात्वम्। गुहाशयशब्दे दृश्यम्। रामायणप्रसिद्धे शृङ्गवेरपुराधीशे चण्डालजातीये ४ राममित्रे च पु०। आससाद महावीरः शृङ्गवेरपुरं प्रति” इत्युपक्रमे “यत्र राजा गुहो नाम रामस्यात्मसमः सखा। निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः” इत्यादिना “सहं सौमित्रिणा रामः समागच्छत् गुहेन स” इत्यन्तेन रामा० अबोध्याकाण्डे तत्सख्ययक्तम्। ५ सिंहपुच्छीलतायाम् (चाकुलया) ६ पर्वतादिगह्वरे स्त्री मेदि०। तस्य सर्वसत्वसवारकत्वात् तथात्वम्। “गुहानिबद्धप्रतिशब्ददीर्घम्” “प्रतिस्वनेनास्य गुहागतेन” रघुः ८ शालपर्ण्णीवृक्षे (शालपाण) राजनि० अकृत्रिमे ९ देवखाते, १० हृदये च स्त्री शब्दार्थचि०। हृदयस्य गुहातुल्यत्वात् तथात्वम् यथाह शत० ब्रा० ११। २। ६। ५। “तस्मादिदं गुहा हृदयम्”। “गुहां प्रविष्टौ सुकृतस्य लोके” श्रुतिः ११ मायायां च। “योन येद निहितं गुहायां परमव्योमन्” श्रुतिः गुहाहितं गह्वरेष्ठं पुराणम्” “आत्मा गुहायां निहितः” श्रुतिः। वृषा० आद्युदात्तः। १२ गुहाधिष्ठातृदेवतायाम् स्त्री। “गुहाभ्यः किरातम्” यजु० ३०। १७। पुरुषमेषे। १३ बुद्धौ। गुह–भावे भिदा० अङ्। १४ संवरणे स्त्री। गुह + अश्मा० अस्त्यर्थे र। गुहर तद्युक्ते त्रि०।

गुहराज = पु० वृ० सं० ५५। अ० लक्षिते प्रासादभेदे प्रासादशब्दे दृश्यम्।

गुहलु = पु० गोत्रप्रबर्त्तके ऋषिभेदे ततो गर्गा० अपत्ये यञ्। गोहलव्य तद्गोत्रापत्ये पुंस्त्री।

गुहषष्ठी = स्त्री गुहप्रिया षष्ठी तज्जन्मदिनत्वात् शाक० त०। “येयं मार्गशिरे मासि षष्ठी भरतसत्तम!। पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया” ति० त० भविष्योक्ते मार्गशुक्लषष्ठीतिथौ। इयं वारभेदादियोगेन चम्पेति कीर्त्त्यते यथाह नि० सि० ब्रह्मा० पु० “मार्गे भाद्रपदे शुक्ला षष्ठी वैधृतिसंयुता। रविवारेण संयुक्ता सा चम्पेतीह कीर्त्तिता” “विशाखाभौमयोगेन सा चम्पेतीह कीर्त्त्यते” इति मदनरत्ने पाठः। गुहस्य षष्ठ्यां कृतार्थतोक्ता भा० व० २२४ अ० “तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा। तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम्” इत्युपक्रमे “द्वितीयायामिति व्यक्तस्तृतीयायां शिशुर्बभौ। अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः” इत्युक्त्वा २२८ अ० “तदा तदाश्रयाल्लक्ष्मीः स्वयं देवी शरीरिणाम्। श्रीजुष्टं पञ्चमीं स्कन्दस्तस्मात् श्रीपञ्चमी स्मृता। षष्ठीं कृतार्थोऽभूद्य स्मात् तस्मात् षष्ठी महातिथिः” उक्तम्। इयमेव स्कन्द षष्ठीति नि० सि० उक्तम्। ति० त० तु चैत्रशुक्लषष्ठ्या एव स्कन्दषष्ठीत्वं व्यवस्थापितं तच्च स्कन्दषष्ठीशब्दे वक्ष्यते। देशभेदाद्व्यवस्था

गुहाचर = न० गुह्यन्ते ज्ञातृज्ञेयज्ञानपदार्था अस्याम् गुहघञर्थे क गुहा बुद्धिस्तत्र चरति विषयतया चर–ट। १ ब्रह्मणि। “मनसैवानुद्रष्टव्यम्” इति श्रुतौ तस्य मनोवृत्तिमात्रवेद्यत्वात्तथात्वम्। “आविः सन्निहितं गुहाचरं नाम महत् पदमत्रैतत् समर्पितम्” माण्डू० उ०। “आविः प्रकाशं सन्निहितं रागाद्युपाधिभिश्चरति भ्राजतीति श्रुत्यन्तराच्छब्दादीनुपलभमानवदवभासते। दर्शनश्रवणमननविज्ञानाद्युपाधिधर्मैराविर्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम्। यदेतदाविर्भूतं ब्रह्म सन्निहितं सम्यक् स्थितं हृदि तद् गुहाचरं नाम गुहायाञ्चरतीति दर्शनश्रवणादिप्रकारैर्गुहाचरसिति प्रख्यातम्” भा०

गुहातदरी = स्त्री गुहा गुह्या वदरीव। (शालपाण) वृक्षें वैद्यकम्।

गुहाशय = पु० स्त्री–गुहायां गर्त्ते शेते शी–अच्। १ मूषिके शब्दार्थचि० २ सिंहादिषु जन्तुषु भावप्र० यथा “सिंहव्याघ्र वृका ऋक्षतरक्षुद्वीपिनस्तथा। बभ्रुजम्बुकमार्ज्जार इत्याद्याः स्युर्गुहाशयाः”। तन्मांसगुणा भाब० प्र० उक्ता यथा “गुहाशया वातहरा गुरूष्णा मधुराश्च ते। स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारिणाम्”। स्त्रियामुभयत्र जातित्वेऽपि योपधत्वात् टाप्। गुहायां हृदि शेते। ३ परमात्मनि। “एवं हि यो वेद गुहाशयं प्रभुम्” भा० आश्व० ४० अ०। “सर्वभूतगुहाशयः” श्वेता० उ०। “गुहायां बुद्धौ शेते इति सर्वभूतगुहाशयः” भा० स्वापकाले हृदयेषु शायिनि ४ प्राणे “सप्त इमे लोकायेषु चरन्ति प्राणा गुहाशयानिहिताः सप्त सप्त” मुण्ड० उ०

गुहाहित = पु० गुहायां बुद्धौ हृदये वा आहितः। हृदिस्थे बुद्ध्यारूढे परमात्मनि। “गुहाहितं गह्वरेष्टं पुराणम्” कठ० उ०

गुहिन = न० गुह–बा० इनन्। वने शब्दरत्ना०

गुहिल = न० गुह–गुपा० इलच् किच्च। १ घने उज्ज्व० द०। गुहा + काशा० चतुरर्थ्याम् इलः। २ गुहासन्निकृष्टदेशादौ त्रि०

गुहेर = त्रि० गुह–एरक्। १ गोप्तरि २ लोहकारे सि० कौ०।

गुह्य = त्रि० गुह–भावादौ–क्यप् काशिका। १ गोपने २ गोप्ये अमरः “गुह्यातिगुह्यगोप्ता त्वम्” जपसमापनमन्त्रः। ३ उपस्थे स्त्रीपुंसचिह्ने न०। गुहामर्हति दण्डादि० यत्। ४ कमठे पु० स्त्री स्त्रियां योपधत्वात् टाप्। ५ दम्भे पु० मेदि०। “गुह्यो गभीरो गहनः” विष्णुस० उक्ते ६ विष्णौपु० “गूहितुं योग्यं गुह्यं वेदरहस्यं तद्वेद्यत्वात् लक्षणया गुह्यो विष्णुः गुहायां हृदाकाशे निहित इति वा गुह्यः” भा०।

गुह्यक = पु० गूहन्ति रक्षन्ति निधिं गुह–स्त्वुल् पृषो० यगागमः। “निधिं गूहन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः इति व्याडिः। गुह्यं कुत्सितं कायति कै–शब्दे कः गुह्यं गोपनीयं कं सुखं येषामिति वा अनयोः पक्षयोः “शंसिदुहिगुहिभ्योवेति” काशिकावचनात् गुहेः क्यप्। १ देवयोनिभेदे तल्लोकप्राप्तिकर्मभेदाः काशी० ख० उक्ता यथा “गुह्यकानामयं लोकस्त्वेते वैगुह्यकाः स्मृताः” “न्यायेनोपार्ज्य वित्तानि गूहयन्ति च ये भुवि। स्वमार्गगा धनाद्याश्च शूद्रप्रायाः कुटुम्बिनः। संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः। न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व च। नाधर्मञ्च न धर्मञ्च विदन्त्येते सदासुखाः। एकमेव हि जानन्ति कुलपूज्योहि यो द्विजः। तस्मै गाः संप्रयच्छन्ति मन्यन्ते तद्वचः स्फुटम्। समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः। भुञ्जते स्वर्गसौख्यानि देवत्वमकुतोभयाः”। २ पकान्नभेदे तत्पाकप्रकारो यथा “समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम्। एलालवङ्गकर्पूरमरीचपरिवासिताम्। क्षिप्त्वान्य समितालम्बपुटे वेष्ट्य घृते पचेत्। ततः खण्डे न्यसेत् पक्वे गुह्यकोऽयमुदाहृतः। गुह्यको वृंहणोहृद्यो वृष्यः पित्तानिलापहः मधुरोऽतिगुरुः पाके किञ्चित् सन्धानकृत्सरः” पाकशा०

गुह्यकाली = स्त्री नित्यक्र्म०। विश्वसारतन्त्रोक्ते देवीमूर्त्तिकाली भेदे तन्मन्त्राद्युक्तं तत्र यथा “अथ वक्ष्ये महेशानि! विद्यां सर्वफलप्रदाम्। चतुर्वर्गप्रदां साक्षात् महापातकनाशिनीम्। सर्वसिद्धिप्रदां नित्यां भक्तिमुक्तिप्रदायिनीम्। गुह्यकालीं महाविद्यां त्रैलोक्ये चातिदुर्लभाम्। इन्द्रादि(र)रूढं वर्गाद्यं रतिविन्दुविभूषितम् (क्रीं)। त्रिगुणञ्च ततः कृत्वा इशानञ्च समुद्धरेत्। षष्ठस्वरसमायुक्तं विन्दुनादकलान्वितम् (हूं)। द्विगुणञ्च ततः कृत्वा ईशवर्णं समुद्धरेत्। वामाक्षिवह्निसंयुक्तं नादविन्दुकलायुतम् (ह्रीं)। तद्गुह्ये कालिके पाक्त्वाः चाथवा दक्षिणे वदेत्। सप्तवीजं ततः पश्चात् त्रैलोक्यमोहिनी त्वियम्”। अथ वेति गुह्ये कालिके। दक्षिणे कालिके” वा

गुह्यकेश्वर = पु० ६ त०। कुवेरे।

गुह्यगुरु = पु० कर्म०। शिवे महादेवे त्रिका०

गुह्यदीपक = पु० स्वयं गुह्यः सन् दीपयति दीपि–ण्वुल्। गुह्यदीप इव कायति कै–क वा। खद्योते (जोनाकीपोका) शब्दमा०।

गुह्यनिष्यन्द = पु० गुह्यात् उपस्थात् निष्यन्दते नि + स्यन्द अच्। मूत्रे राजनि०

गुह्यपुष्प = पु० गुह्यं पुष्पमस्य। अश्वत्थवृक्षे राजनि०

गुह्यभाषित = न० गुह्यं गुप्तं भाषितम्। १ मन्त्रे जटाध० २ गुप्तबाक्ये च।

गुह्यमय = पु० गुह्यप्रचुरः प्राचुर्य्ये मयट्। कार्त्तिकेये “आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि। श्रूयते भगवान् देवो सर्वगुह्यमयोगुहः” मा० आ० १३७ अ०

गुह्यवीज = पु० गुह्यं वीजमस्य। भूतृणे राजनि०

गुह्याष्टक = न० भारभूत्यादितीर्थाष्टके। तच्च यथा “भारभूत्याषाढिडिण्डिलाकुल्यमरपुष्कराः। प्रभासनैमिषौ चेति गुह्याष्टकमिदं जले” इति मृगेन्द्र० सं०।

गू = विष्ठात्यागे तुदा० कुटा० पर० अक० सेट्। गुवति अगुवीत् जुगाव। ओदित् गूनः। गूथम्।

गू = स्त्री गच्छत्यपानेन देहात् गम–कू टिलोपश्च। १ विष्ठायां, २ मले च। गूधातोः क्विप्प्रत्ययान्तताकथनं पुंलिङ्गताकथनञ्च प्रामादिकम्।

गूढ = त्रि० गुह–क्त। १ गुप्ते २ संवृते च अमरमेदिन्यौ। “कामिनीकुचकलसवत् गूढं चमत्करोति” सा० द० “गूढाकारेङ्गितस्य च” रघुः।

गूढचारिन् = त्रि० गूढः सन् चरति चर–ट। १ गुप्तीभूयचारिणि गुप्तचरणञ्च चौर्य्यशङ्काहेतुः यथोक्तं याज्ञवल्क्येन “अन्येऽपि शङ्कया ग्राह्या ज्ञातिनामादिनिह्नवैः। द्यूत स्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः। परद्रव्यगृहाणाञ्च प्रच्छका गूढचारिणः। निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः। गृहीतः शङ्कया चौर्य्ये नात्मानं चेद्विशोधयेत्। दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत्”।

गूढज = पु० गूढ–गुप्तः सन् जायते जन–ड। पुत्रभेदे “गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतोमतः” याज्ञ०। गूढोत्पन्नशब्दे विवृतिः।

गूढनीड = पुंस्त्री गूढं नीडं वासस्थानं यस्य। खञ्जनखगे शब्दमाला तद्वासस्थानं हि केनापि न दृष्टचरम् स्त्रियां जातित्वात् ङीष्।

गूढपत्र = पु० गूढं पत्रमस्य। १ अङ्कोठे, २ करीरे च राजनि०।

गूढपथ = पु० गूढः पन्थायस्य अच् समा०। १ अन्तःकरणे शब्दार्थचि० कर्म०। २ गुप्ते मार्गे च

गूढपाद् = पुंस्त्री गूढः पादोऽस्य पृषो०। १ सर्पे अमरः

गूढपाद = पुंस्त्री गूढः पादोऽस्य। १ सर्पे शब्दरत्ना० “महीधरमिव श्वेतं गूढपादैर्विषोल्वणैः” मा० कर्ण० १३१ अ०। स्त्रियां जातित्वात् ङीषि पादः पदादेशः गूढपदी। २ गुप्तपादमात्रे त्रि० “उपानद्गूढपादश्च” हितो०।

गूढपुरुष = पु० कर्म०। गुप्तचरे, प्रणिधौ अमरः।

गूढपुष्पक = पु० गूढानि संवृतानि पुष्पाण्यस्य। वकुलवृक्षे। राजनि०।

गूढफल = पु० गूढं यथा तथा फलति अच्। वदरे शब्दार्थचि०

गूढमार्ग = पु० नि० कर्म०। भूमेरन्तर्गते सुरङ्गाख्ये पथि हेमच०

गूढमैथुन = पुंस्त्री गूढं केनाप्यदृश्यं मैथुनं यस्य। काके। स्त्रियां जातित्वात् ङीष्।

गूढवर्च्चस् = पुंस्त्री गूढवर्च्चोऽस्य। भेके त्रिका०।

गूढवल्लिका = स्त्री कर्म०। अङ्कोठवृक्षे राजनि०।

गूढव्यङ्ग्या = स्त्री गूढं काव्यार्घभावनापरिपक्वबुद्धिमात्रवेद्यम् व्यङ्ग्यं यत्र। लक्षणाभेदे “व्यङ्ग्यस्य गूढागूढत्वात् द्विधा स्यात् फललक्षणा” सा० द०। यथा “उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव अदा सखे! सुखितमास्स्व ततः शरदां शतम्”

गूढसाक्षिन् = पु० कर्म०। “अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम्। यः श्राव्यते तदा गूढं गूढसाक्षी स उच्यते” नारदोक्ते साक्षिभेदे।

गूढाङ्ग = पुंस्त्री गूढान्यङ्गान्यस्य। कच्छपे राजनि० स्त्रियां जातित्वात् ङीष् २ गुप्तदेहमात्रे त्रि० तत्र स्त्रियां स्वाङ्गत्वात् वा ङीष्।

गूढाङ्घ्रि = पुंस्त्री गूढः अङ्ग्रिरस्य। सर्पे राजनि० स्त्रियामिदन्तत्वात् वा ङीष्।

गूढोत्पन्न = पु० गूढं यथा तथोत्पन्नः। “उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः। स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः” इति मनूक्त पुत्रभेदे। “यस्य गृहे अवस्थितायां भार्य्यायां यः पुत्र उत्पद्यते सजातीयोऽयं भवतीति ज्ञातोऽपि कस्मात् पुरुषविशेषाज्जातोऽमाविति न ज्ञायते स गृहे अप्रकाशमुत्पन्नस्तस्य पुत्रः स्याद्यदीयायां भार्य्यायां जातः” कूल्लू०। “सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः” याज्ञ० उक्तेः सजातीयत्वनिश्चये एव तस्य पुत्रता। स च पूर्बषट्क पातित्वात् बन्धुदायहरः यथाह मनुः “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्च दायादबान्धवाश्च षट्”।

गूढोत्मन् = पु० गूढ आत्मा पृषो०। परमात्मनि। “भवेद्वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात्। गूढोत्मा वर्णविकृतेर्वर्णलोपे पृषोदरः” व्या० का०। “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते” श्रुतिः तस्य सर्वान्तर्यामित्वेन स्थितावपि अविदुषामगम्यत्वात् गूढत्वम्।

गूथ = पु० न०। गू–थक् अर्द्धर्चा०। विष्ठायाम् अमरः।

गूथलक्त = पुंस्त्री गूथे रक्त आसक्त रस्य लः। (गुयेसालिक) प्रसिद्धे खगे शब्दच०। स्त्रियां जातित्वात् ङीष्।

गून = त्रि० गू–क्त तस्य नः। कृतविष्ठोत्सर्गे अमरः।

गूर = उद्यमे चुरा० आत्म० अक० सेट्। गूरयते अजुगुरत। गूरणम्

गूर = बधे गतौ च दिबा० आत्म० सक० सेट्। गूर्य्यते अगूरिष्ट। जुगूरे ईदित् गूर्णः

गूर्त्त(र्ण्ण) = त्रि० गूरी उद्यमे क्त ईदित्वात् नेट् वेदे नि० नत्वाभावः। उद्युक्ते “प्रहोता गूर्त्तमना उराणाः” ऋ० ६। ६३। ४ “इदमित्था रौद्रं गूर्त्तवचाः” ऋ० १०। ६१। १। २। २ प्रशस्ते च “पुरां गूर्त्तश्रवसं दर्म्माणम्” ऋ० १। ६१। ५ “गूर्त्तश्रवसम् प्रशस्यान्नम्” भा०। लोके निष्ठातस्य नत्वे गूर्ण्ण इत्येव।

गूर्त्ति = त्रि० गृणन्ति स्तुवन्ति गृ–कर्त्तरि क्तिच् “बहुलं छन्दसि” पा० उत्त्वम्। १ स्तोतरि “गूर्त्तयो नेमानिषुः” ऋ० १। ५६। २ “गूर्त्तयः स्तोतारः” भा०। भावे क्तिन्। २ स्तुतौ स्त्री “शिशुं न यज्ञैः स्वदयन्त गूर्त्तिभिः” ऋ० ९। १५। १ “गूर्त्तिभिः स्तुतिमिः” भा० लोके तु गीर्णिरित्येव।

गूर्ह = स्तुतौ सक० चु० उभ० सेट्। गूर्द्दयति ते अजुगूर्द्दत् त। “गूर्द्दयतिः स्तुतिकर्म्मा” निघ० “तं गूर्दय स्वर्णरम्” ऋ० ७। १९। १ “गूर्दय स्तुहि” भा० क्रीडार्थे गुर्द्दवत्।

गूवाक = पु० गुवाक + पृषो०। गुवाकशब्दार्थे पूगवृक्षे राजनि०

गूषणा = स्त्री मयूरपिच्छचन्द्रे शब्दच०।

गृ = सेके भ्वा० पर० सक० अनिट्। गरति अगार्षीत्। जगार।

गृज = ध्वनौ भ्वा० पर० अक० सेट् गर्जति। अगर्जीत् जगर्ज “गर्ज गर्जक्षणं मूढ!” देवीमा० “गर्जन् हरिः साम्भसि शैलकुञ्जे” भट्टिः। भावे गृज्यते। अगर्जि

गृज = ध्वनौ भ्वा० पर० अक० सेट् इदित्। गृञ्जति अगृञ्जीत्। जभृञ्ज गृञ्जनम्। भावे गृञ्ज्यते अगृञ्जि

गृञ्जन = पु० गृञ्जति रोगभेदनाशाय ध्वनति गृजि–कर्त्तरि ल्यु। १ मूलभेदे मेदि० २ रक्तलसुने राजनि०। “गृञ्जनः पित्तलः ग्राही तीक्ष्नोष्णो रोगनाशनः। गन्धाकृति गुणैस्तुल्यः सूक्ष्मनालः पलाण्डुना” इत्युक्तलक्षणे (सलगम्) प्रसिद्धे ३ मूलभेदे पु०। “कदुष्णं कफवातघ्नं गृञ्जनं गुल्मनाशनम्। रुचिकृत् दीपनं हृद्यं दुर्गन्धि परिकीर्त्तितम् इत्युक्तगुणे (लसुन) ख्याते ४ मूलभेदे न० “लसुनं गृञ्जनं चैव पलाण्डुं कवकानि च” अभक्ष्ये मनुः। (गाजर) इति ख्यात्रे ५ मूलभेदे च ६ विषदिग्धपशुमांसे न० मेदि० स्वार्थे क। तत्रार्थे। “शोभाञ्जनः कोविदारस्तथा गृञ्जनकादयः” भा० आनु० ९१ अ० अश्राद्धीयोक्तौ।

गृञ्जिम = पु० यदुवंश्ये शूरस्य पुत्रे वसुदेवभ्रातृभेदे। “महिष्यां जज्ञिरे शूरात् भोज्यायां पुरुषत्ता दश। वसुदेवो महाबाहुः” इत्युपक्रमे “अनाधृष्टिः कनवको वत्सवानथ गृञ्जिमः” हरिव० ३५ अ०।

गृणीषन् = पु० गृ–णिक् गृणिः स्तोत्रं तस्येच्छा इष–भावे बा० कनिन् ६ त०। स्तोत्रेच्छायाम् “देवं देवं वोऽवसं इन्द्रमिन्द्रं गृणीषणि” ऋ० ८। १२। १९ “गृणीषणि स्तोत्रेच्छायाम्” भा०।

गृण्डीव = पुंस्त्री स्थूलशृगाले हेम० स्त्रियां जातित्वात् ङीष्।

गृत्स = पु० गृध्यति अनेन गृध–स। १ कामदेवे उज्ज्वलद० २ स्तोतरि ३ स्तुत्ये च त्रि० माधवः “गृत्सं कविं विश्वविदमसूरम्” ऋ० ३। १९। १ “गृत्सं गृणन्तम्” भा० “गृत्सो राजा वरुणश्च एतम्” ऋ० ७। ८७। ५ “गृत्सः स्तुत्यः” भा०। ४ मेधाबिनि त्रि० निरु०। अग्निस्तरुणश्चिदस्तु” ऋ० ७। ४। २ “गृत्सो मेधावी” भा०। ५ विषयाभिलाषुके त्रि० ६ रुद्रभेदे पु० “गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमः” यजु० १६। २५

गृत्सपति = पु० ६ त०। रुद्रभेदे गृत्सशब्दे यजुर्वाक्यं उदा० दृश्यम्।

गृत्समति = पु० वृहस्पतिवंश्ये सुहोत्रपुत्रभेदे नृपे “सुहोत्रस्य सुतद्वयम्” “काशकश्च महासत्वस्तथा गृत्समतिर्नृपः” हरिव० ३२ अ०।

गृत्समद = पु० शौनकगोत्रप्रवरे सुनहोत्रस्य १ पुत्रभेदे सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः। काशः शाल्मश्च द्वावेतौ तथा गृत्समदः प्रभुः” हरिव० २९ अ० “शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवसौनहोत्रगार्त्समदेति” आश्व० श्रौ० १२। १०। १३ “कृषिर्गृत्सम- दोनाम शक्रस्य दयितः सखा” भा० आनु० १८ अ०। स च ऋग्वेदिनां तर्पणीयर्षिभेदः “अथर्षिषयः शतर्चिनो मध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजोवशिष्ठः” इति आश्व० गृह्य० सू० ३। ४। २ “वीतहव्यो महाराज! ब्रह्मवादित्वमेव च। तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः। शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत्। ऋग्वेदे वर्त्तते चाग्र्या श्रुतिर्यस्य महात्मनः। यत्र गृत्समदो ब्रह्मन् ब्राह्मणैः स महीयते। स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत्” आनु० ३० अ० उक्ते २ वीतहव्यपुत्रे ऋषिभेदे च।

गृध = लिप्सायां दिवा० पर० सक० सेट्। गृध्यति इरित् अगृधत्–अगर्द्धीत्। जगर्द्द। गर्द्धित्वा–गृद्ध्वा गृध्नुः।

गृधु = त्रि० गृध–कु। १ अभिलाषुके २ कामे पु० उणादि०।

गृधू = स्त्री गृध–कू १ बुद्धौ २ कुत्मिते ३ अपाने च संक्षिप्तसा०

गृध्नु = त्रि० गृध–क्नु। लुब्धे अमरः “अगृध्नुराददे सोऽर्थान्” रघुः “चातकस्तोयगृध्नुः” मेघदू “मा ते गृध्नुरविशस्तातिहायच्छिद्रागात्राणि” अथ० १। १६। २०

गृध्य = त्रि० गृध–कर्मणि क्यप्। १ अभिषणीये “गृध्यमर्थमपाप्स्यसि” भट्टिः। भावे क्यप्। २ लिप्सायां न०। ततोऽस्तीत्यर्थे इनि। गृध्यिन् लिप्सावति त्रि०। “नेमां हिंस्युर्वने बालां क्रव्यदा मांसगृध्यिनः” भा० आनु० ७२ अ०। स्त्रियां ङीप्।

गृध्र = पुंस्त्री गृध–क्रन्। (शकुनि) पक्षिभेदे राजनि०। आसन्नभृत्योर्नियतं चरन्ति गृध्रादयो मूर्ध्नि गृहोर्द्धभागे” शकुनशास्त्रम्। “कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्ते” वृ० स० ४८ अ०। गृध्रस्येदम् गार्ध्र गृध्रसम्बन्धिनि त्रि० गार्ध्रपक्षशब्दे २५८५ पृ० उदा० “गृध्रच्छाये वरुथिनी” २ पक्षिमात्रे च “तौ सीतान्वेषिणौ गृध्रं (जटायुषम्) लूनपक्षमपश्यताम्” रघुः। २ लुब्धे त्रि० “प्रत्यघ्नन्निशितैः शस्त्रैर्जयगृध्राः प्रहारिणः” भा० द्री० ७ अ०। गृध्रपक्षिजातिश्च श्येनीजाता यथाह “श्येनी श्येनांश्च गृध्रांश्च तथोलूकानजायत” रामा० गृध्रीशब्दे दृश्यम्। स्त्रियां ङीष्।

गृध्रकूट = पु० गृध्रप्रधानं कूटमस्य। मगधदेशस्थपर्वतभेदे। “गोलाङ्गुलैर्महाभागी गृध्रकूटेऽभिरक्षितः” (वृहद्रथः) भा० शा० ४९ अ०। “चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे!। तावत् कीकटदेशः स्यात्तदन्तर्मगधो भवेत्” शक्ति० सङ्ग० ३०७ पट०

गृध्रनखी = स्त्री गृधस्य नखस्तदाकारोऽस्त्यस्या अच् गौरा० ङीष्। (कुलियास्वाडा) १ कुलिकवृक्षे रत्नमा०। २ कोलिवृक्षे वदर्य्याम् त्रिका० “करमर्द्दत्रिकण्ठकसौवीरकशतावरीगृध्रनख्यश्चेति कण्टकसंज्ञः। रक्तपित्तहरौ ह्येतौ वल्ली कुण्ठसंज्ञकौ। सर्वमेहहरौ चैव शुक्रदोषविनाशनौ” सुश्रुते तस्याः कण्टकसंज्ञत्वमुक्त्वा गुणा उक्ताः।

गृध्रपत्रा = स्त्री गृध्र इव धूम्रं पत्रं यस्याः। धूम्रपत्रावृक्षे राजनि०। गृध्रस्य पत्रं पत्रं पक्षोऽस्य। गृध्रपक्षि पक्षकृतपक्षे २ बाणभेदे। गृध्रवाजादयोऽप्यत्र “शतेन गृध्रवाजानां शराणां नतपर्वणाम्” भा० शल्य० २७ अ०। “येऽन्ये स्कन्दस्य सैनिका” इत्युपक्रमे “सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः” भा० श० ४६ अ०। उक्ते ३ स्कन्दसैन्यभेदे।

गृध्रयातु = पु० गृध्ररूपेण याति या–तुन्। ग्रध्ररूपे राक्षसभेदे। “सुपर्णयातुमुतगृध्रयातुम्” ऋ० ७। १०४। २२।

गृध्रराज = पु० ६ त० गृध्रोराजेवेति वा उपमितस०। गरुडात्मजे जटायुपक्षिणि। “निर्बिभेद सुतीक्ष्णाग्रैर्गृध्रराजं शिला शितैः” रामा० आर०। गृध्रपत्यादयोऽप्यत्र।

गृध्रवट = पु० गृध्रोपलक्षितो वटोऽत्र स्थाने। तीर्थभेदे “ततो गृध्रवट गच्छेत् स्थानं देवस्य धीमतः। स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्। व्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्। इतरेषां तु वर्णानां सर्वपापं प्रणश्यति” भा० व० ८४ अ०

गृध्रसी = स्त्री गृध्रमपि स्यति सो–क गौरा० ङीष् ६ त०। वातरोगभेदे यथाह सुश्रुतः “पार्ष्ण्यो प्रत्यङ्गुलीनां तु स्तम्भकृत् यानिलार्द्दिता। सकथ्नोः क्षेपं निगृह्णीयाद् गृध्रसीति हि सा स्मृता”। माधवकरोऽप्याह। “स्फिक्पूर्वोरुकटी पृष्ठजानुजङ्घापदं क्रमात्। गृध्रसीस्तम्भकृत् तोदैर्गृह्णाति स्पन्दते मुहुः। वाताद्वातः कफात्तन्द्रा गौरवाऽरोचकान्विता”। भावप्रकाशे विस्तरेणोक्तम् यथाह “स्फिक्पूर्व्वोरुकटीपृष्ठजानुजङ्घापदम् क्रमात्। गृध्रंसीस्तम्भकृत् तोदैर्गृह्णाति स्पन्दते मुहुः। वाताद्वात कफाभ्यां सा विज्ञेया द्विविधा पुनः। वातजायां भवेत्तोदो देहस्यातीव वक्रता। जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम्। वातश्लेष्मोद्भवायान्तु गौरबं वह्निनार्द्दवम्। तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च। गध्रसी वातात् केबलात् स्फिगादिपर्य्यन्तं स्तम्भकृत् तोदैर्गृह्णाति। क्रमात् वृद्धिक्रमात् तेन यथा यथा वर्द्धते तथा तथा स्फिगादीन्याक्रामति। नात्र ग्रहणे निर्द्धेशक्रमनियमः। तथा सुहुः स्पन्दते स्फिगादिषु शिराकम्पं करोतीत्यर्थः”।

गृध्राण = पु० गृध इवानिति अन–अच् गौरा० ङीष् संज्ञायां णत्वम्। धूम्रपत्रा वृक्षे वैद्यकम्।

गृध्री = स्त्री कश्यपषत्न्याः सुताभेदे। “षट्सुताश्च महासत्वास्ताम्रायाः परिकीर्त्तिताः। काकी श्येनी च भासी च सुग्रीबी शुचिगृध्रिका। श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि” हरिव० ३ अ०।

गृभ = न० गृह + वेदे हस्य भः। गृहे “न्यु भ्रियन्ते यशसो गृभादा” ऋ० ७। २२। २ गृभात् गृहात्” भा०

गृभि = पु० ग्रह–कि सम्प्र० वेदे हस्य भः। ग्रहणे। “वनस्पतीनां गृभिरोषधीनाम्” अथ० १२। १। ५७

गृभीत = त्रि० ग्रह–क्त वेदे हस्य भः। गृहीते “रात्रिं गृभीतां मुखतो नयन्ति” ऋ० १। १६२। २ “गृभीतां गृहीताम्” भा० २ गृहीतयज्ञे च “यदि गृभीततातये” ऋ० ५। ७४। ४ “गृभीततातये गृहीतयज्ञसन्तानाय” भा० क्वचित् आर्षेऽपि प्रयोगे लोके भः। “जयजय जह्यजामजितदोषगृभीतगुणाम्” भाग० १०। ८७। ११ श्लो०।

गृष्टि = स्त्री गृह्णाति सकृत् गर्भम् ग्रह–कर्त्तरि क्तिच् पृषो०। १ सकृत्प्रसूतायां गवि। “गृष्टिः ससुव स्थविरं तवागाम्” ऋ० ४। १८। १० “आपीनभारोद्वहनप्रयत्नात् गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः” रघुः। “भजमानश्च चपलो गृष्टीः स प्रचचार हं हरि० व० ७ अ०। जात्या सहास्य कर्म०। विशेषणत्वेऽपि परनिपातः गोगृष्टिः। इदन्तत्वात् वा ङीप्। “पृष्ठोहीनां पीवराणाञ्च तावदग्र्याः गृष्ट्योधेनवः सुव्रताश्च” भा० आनु० ९३ अ०। २ सकृत्प्रसूतस्त्रोमात्रे अतएव गृष्टेर्गोमात्रपरत्वे “चतुष्पादो गार्भिण्याः” पा० सूत्रान्तरमारब्धं शब्दार्थचि० गृष्टेरपत्यम् गृष्ट्यादि ढक्। गार्ष्टेय तदपत्ये पुंस्त्री। कर्मणि क्तिन्। ३ वराहक्रान्तायाम् अमरः। ४ वदरवृक्षे मेदि०। ५ काश्मर्यां राजनि०। स्वार्थे क तत्रार्थे। सप्तपर्णारग्बधेत्याद्युपक्रमे “मधुकभूनिम्ब गृष्टिका इति समभागाः कल्कः” सुश्रुतः।

गृष्ट्यादि = अपत्यार्थे ढक्प्रत्ययनिमित्ते पा० ग० सूत्रोक्ते शब्दगणे स च गणः “गृष्टि हृष्टि बलि हलि विश्रि कुद्रि अजवस्ति मित्रयु”।

***