गुण्ड = पु० गुडि–वेष्टने अच्। १ असिपत्रे तृणभेदे राजनि० यस्य कन्दः कशेरु। कशेरुशब्दे विवृतिः। भावे अच्। २ चूर्णने पेषणे (गु~डाकरा) पु०। कर्मणि अच्। ३ चूर्ण्णीकृते त्रि०।

गुण्डक = त्रि० गुडि–ण्वुल्। १ मलिने। २ धूलौ ३ कलोक्तौ ४ स्नेहपात्रे च पु० मेदि०।

गुण्डकन्द = पु० ६ त०। कशेरुणि (केशुर)। राजनि०।

गुण्डारोचनिका = स्त्री गुण्डा सती रोचना हरिद्रेव इवार्थे कन् (कमलागु~डि) वृक्षभेदे रत्नमा०।

गुण्डाला = स्त्री गुण्डं चूर्णनमालाति आ + ला–णिनि। जलोद्भवायां क्षुपभेदे राजनि०।

गुण्डासिनी = गुण्डा सती आस्ते आस–णिनि। चिपितालतायाम् राजनि०।

गुण्डिक = पु० गुण्ड + अस्त्यर्थे ठन्। चूर्ण्णीकृते तण्डुलादौ। (गु~डि) “गुण्डिकैः सितपीतैश्च मण्डयेच्च गृहाङ्गनम्” अनन्तव्रतकथा।

गुण्डिचा = स्त्री जगन्नाथक्षेत्रस्थे तस्य रथयात्रानन्तरं सप्ताहं वासार्थे मण्डपभेदे “मण्डपे बासयेत् देवान् गुण्डिचाख्ये मनोहरे” इत्युपक्रमे “विन्दुतीर्थतटे तस्मिन् सप्ताहानि जनार्द्दनः। तिष्ठेत् पुरा स्वयं राज्ञे वरमेतत् समादिशत्। तत्तीर्थतीरे राजेन्द्र! स्थास्यामि सप्तवासरम्। सर्वतीर्थानि तत्रापि स्थास्यन्ति मयि तिष्ठति। तत्र स्नात्वा विधानेन तीर्थे तीर्थोपपावने। सप्ताहं ये प्रपश्यन्ति गुण्डिचामण्डपे स्थितम्। माञ्च रामं सुभद्राञ्च मम सायुज्यमाप्नुयुः”। तन्नामनिरुक्तिरपि तत्रोक्ता यथा “सर्वपापनियन्तृत्वात् पूज्यत्वात् सर्वदैवतैः। गुण्डिचाख्यापि सा प्रोक्ता ब्रह्मतेजोऽवगुण्ठनात्” स्क० पु० उत्ख०।

गुण्डित = त्रि० गुडि–वेष्टने क्त। रजसाकीर्ण्णे, रूषिते अमरः

गुण्य = त्रि० गुण–कर्म्मणि यत्। १ गुणनीये पूर्य्ये। “गुण्यस्त्वधोऽधो गुणखण्डतुल्यः”। “गुण्यान्त्यमङ्कं गुणकेन हन्यात्” लीला०। पशस्तो गुणोऽस्यास्ति “अन्येभ्योऽपि दृश्यते” वार्त्ति० यत्। २ प्रशस्तगुणयुक्ते च। “गुण्याः ब्राह्मणाः” सि० कौ०।

गुत्थ = पु० गुत्स + पृषो०। गवेधुकाधान्ये (गडगडे) रत्नमा०

गुत्थक = न० गुच्छेन कायति कै–क पृषो०। ग्रन्थिपर्णे वृक्षे रत्नमा०।

गुत्स = पु० गुध–स किच्च नि० इट्न्। ग्रन्थिपर्णवृक्षे मेदि०। गुच्छशब्दे २५९६ पृ० विवृतिः।

गुत्सक = पु० गुत्स + स्वार्थादौ क। १ स्तवके शब्दरत्ना०। गुच्छकशब्देदृश्यम्। २ ग्रन्थपरिच्छेदे त्रिका०। “अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा। आख्यायिका परिकथा कलापकविशेषकौ। सन्धानमनिरुद्धं च प्रकीर्ण्णं गुत्स कादि च। सर्गोवर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलं काण्डमस्त्रियाम्। स्थानं प्रकरणं पर्वाह्निकञ्च ग्रन्थसन्धयः” त्रिका०। अत्र गुत्सकादौत्यादिपदात् स्तवकोल्लासादीनां ग्रहणम्। तत्र कुसुमाञ्जलौ स्तवकः, काव्यप्रकाशे उल्लासः। एवमन्यत्रापि यथायथं ग्रन्थनामानुसारेण तदवयववाचकशब्दविशेषेण ग्रन्थसन्धिकरणम् दृश्यते तेषां सर्वेषामादिपदग्राह्यता।

गुद = खेले भ्वा० आत्म० अक० सेट्। गोदते अगोदिष्ट। जुगुदे। गुदम्।

गुद = न० गुद–क। मलत्यागद्वारे अपानवायुनिःसारणद्वारे “तत्र स्थूलान्त्रप्रतिबद्धमर्द्धपञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तरभूताः प्रवाहणी १ विसर्ज्जनी २ संवरणी चेति। “चतुरङ्गुलायताः सर्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः। शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः। गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः। रोमान्तेभ्यो यवाध्यर्द्धो गुदौष्ठः परिकीर्त्तितः” सुश्रु०। तस्य स्वरूपादिकमुक्तम्।

अस्य प्राणायतनता याज्ञ० उक्ता यथा “नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा। मूर्द्धां सकण्ठहृदयं प्राणस्यायतनानि च”। अस्य उपसर्ज्जनत्वे क्रोडादौ शुकेत्यत्र गुद इति पाठान्तरं तेन स्त्रियां ङीष्। भ्रष्टगुदा इत्येव। २ नाडीभेदे स्त्री बह्वादि० वा ङीष्टापौ। “आन्त्रेभ्यस्ते गुदाभ्यः” ऋ० १०। १६३। ३। “गुदाभ्यः याभिर्नाडीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो नाडीभ्यः” भा०। ३ बलयाकारे गुदस्थाने पु०। “उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयमथो शृणु” याज्ञ० “बाह्याद्गुदबलयात् अन्तरे गुदवलये द्वे, तौ च गुदौ कौष्ठ्ये कोष्ठौ नाभेरधोदेशे भवौ” मिता०। वस्तुतः गुदमस्त्यत्र अर्श० अच्। गुदाधारस्थानपरतायामेव त्रिलिङ्गत्वम्। अतएव “गुदाः पात्राणि भृदुकामधेनुः” यजु० १८। ८६। व्याख्यायाम् वेददी०। “गुदाः गुदस्थानानि” इत्युक्तम् “स्थूलगुदया सर्पान् गुदाभिः” यजु० २५। ७ मन्त्रव्याख्यायां च तेन गुदपरत्वे स्त्रीत्वं छान्दसमित्युक्तञ्च सङ्गच्छते “सिन्धवो गुदाः” शत० ब्रा० ६। ४। ततः अश्मा० अस्त्यर्थे र। गुदर तद्युक्ते त्रि०।

गुदकील = पु० गुदे कील इव। अर्शोरोगे राजनि०। अर्शःशब्दे विवृतिः। “स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा” सुश्रु० “आनाहमेदोगुदकीलहिक्काश्वासापहो वन्यकुलत्थ एषः” सुश्रु०। स्वार्थे क। तत्रार्थे हला०।

गुदग्रह = पु० गुदं तद्व्यापारं गृह्णाति ग्रह–अच् ६ त०। उदावर्त्तरोगे हेम०। उदावर्त्तशब्दे ११६३ पृ० दृश्यम्।

गुदपरिणद्ध = पु० ऋषिभेदे तस्यापत्यम् इञ्। गौदपरिणद्धि तदपत्ये तस्य वकनस्वेन द्वन्द्वे इञो लुक् बहुत्वे। वकनखगुदपरिणद्धाः।

गुदपाक = पु० ६ त०। अतिसारादिजनिते गुदस्थानस्य पूयादिनिःस्रावहेतौ पाके। “असंवृतगुदं क्षीणोदराध्मानादुपद्रुतम्। गुदे पक्वे गतोष्माणञ्चातीसारकिणं त्यजेत्” सुश्रु०। “मांसपाकेन बध्यन्ते गुदपाके च दारुणे” “गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्” “गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः” सुश्रु०।

गुदभ्रंश = पु० “प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः। रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत्” शुदभ्रंशमिमं कृच्छ्रंपानाभ्यङ्गात् प्रसाधयेत्” सुश्रुतोक्ते रोगभेदे।

गुदरोग = पु० ६ त०। गुदस्थानभवे भगन्दरार्शोभिन्ने रोगे तस्य च शातातपेन “सुरालये जले वाऽपि शकृन्मूत्रं करोति यः। गुदरोगो भवेत्तस्य पापरूपः सुदारुणः” इति कर्म्मविपाकविशेषमुक्त्वा “मासं सुरार्चनेनैव गोदानद्वितयेन च। प्राजापत्येन चैकेन शाम्यन्ति गुदजा रुजा” भगन्दरार्शसोः पृथगुक्तत्वात्तद्भिन्नता ज्ञेया

गुदवर्त्मन् = न० गुदरूपं वर्त्म। गुदरूपे मलद्वारे जटा०।

गुदस्तम्भ = पु० ६ त०। गुदव्यापारस्य मलनिःसारणस्य प्रतिरोधे रोगभेदे। “अश्वयोनौ च गमनाद् गुदस्तम्भः प्रजायते। सहस्रकमलैः स्नानं मासं कुर्य्यात् शिवस्य च” शातातपः।

गुदाङ्कुर = पु० गुदेऽङ्कुर इव। अर्शोरोगे हेमच०।

गुदौष्ठ = पु० गुदस्य ओष्ठ इव। गुदावयवभेदे गुदशब्दे दर्शिते सुश्रुतवाक्ये तत्स्वरूपादि।

गुद्र = मिथ्याकथने चुरा० उभ० सक० सेट् इदित्। गुन्द्रयति अजुगुन्द्रत्–त। गुन्द्रयां–बभूव आस चक्रे। गुन्द्रा।

गुध = रोषणे क्य्रा० पर० सक० सेट्। गुध्नाति अगोधीत्। जुगोध। सेट्कत्वेऽपि न गुणः गुधित्वा। गुत्सः।

गुध = क्रीडे भ्वा० आत्म० अक० सेट्। गोधते अगोधिष्ट। जुगुधे

गुध = वेष्टने दिवा० पर० सक० सेट्। गुध्यति अगोधीत्। जुगोध गुधित्वा।

गुधेर = त्रि० गुध वेष्टने एरक्। गोप्तरि उज्ज्वलदत्तः।

गुन्दल = पु० गुमित्यक्तशब्देन दल्यतेऽसौ दल–णिच्–कर्मणि अच। मर्दलशब्दे हेमच०।

गुन्द्र = पु० गुद्रि–कर्म्मणि अच्। १ शरतृणे (गोपठेर) वृक्षे अमरः। “गुन्द्रः कषायो मधुरः शिशिरः पित्तरक्तजित्। स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रजित्” भावप्र०। २ भद्रमुस्तके ३ प्रियङ्गुवृक्षे च स्त्री अमरः। ४ गवेधुकायां स्त्री रत्नमाला ५ एरकायां स्त्री भावप्र०।

गुन्द्रमूला = स्त्री गुन्द्रस्य मूलमिव मूलमस्याः। एरकातृणे भावप्र०।

गुन्द्रला = स्त्री गुन्द्रं मिथ्यावचनं लाति ला–क। जीवञ्जीवखगे चकोरके हेमच०।

गुन्फ = ग्रन्थे तु० प० सक० सेट्। गुम्फति अगुम्फीत्। जुजुम्फ। गुम्भन् गुफितः गुम्भित्वा–गुफित्वा। नोपध त्वात् क्विपि गुन् गुनौ इत्यादि।

गुप = गोपने सक० आत्म० सेत् कुत्सने स्वार्थे सन् अनिट् कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अक० निन्दनञ्च तत्र सक०। पापात् जुगुप्ससते अगुप्सीष्ट। जुगुपसां बभूव आस चक्रे जुगुप्सितः। गोपने गोपते अगो पिष्ट जुगुपे। “आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितः ऋ० १०। ८५। १। “तथा राष्ट्रं गुपितं क्षत्रियस्य” १०। १०९। ३। तत्र निन्दार्थत्वे “जुगुप्सेरन्न चाप्येनम् संवसेयुश्च सर्वशः” मनुः “यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते” भा० व० ३११ अ०।

गुप = रक्षणे भ्वा० सक० पर० वेट् स्वार्थे सार्वधातुके नित्यमायः आर्द्धधातुके वा। गोपायति अगोपायीत् अगोपीत् अगौप्सीत्। गोपायाम्–बभूव आस चकार जुगोप। गोपायितः गुप्तः। गुप्तिः गोपायनम् गोपनम्। “जु गोपात्मानमत्रस्नुः” रघुः। “आत्मानं सततं गोपायीत” श्रुतिः “जुगोप गोरूपधरामिवोर्वीम्” रपुः। “नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया” भा० भी० ३८६३ श्लो० “अगोपिष्टां पुरोलङ्कामगौप्तां रक्षसां बलम्” भट्टिः। “यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा” मनुः।

गुप = व्याकुलत्वे दिवा० अक० पर० सेट् इरित्। गुप्यति अगुपत् अगोपीत् जुगोप। गुपितः।

गुप = भासने चुरा० उभ० अक० सेट्। गोपयति ते अजुगुपत् त। गोपयाम् बभूव आस चकार चक्रे। चतुर्ण्णा गुपधातूनामुदाहरण कविरहस्ये यथा “गोपायति क्षिति मिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः सदैव। वित्तं न गोपयति यस्तु बणीयकेभ्यो धीरो न गुप्यति महत्यपि कार्य्यजाते”।

गुपिल = पु० गुप इलच् किच्च। १ नृपे उज्ज्वल० २ रक्षके त्रि०।

गुप्त = त्रि० गुप–कर्म्मणि क्त। १ त्राते रक्षिते २ गूढे संवृते च अमरः। “स गुप्तमूलप्रत्यन्तः” रघुः। ३ सङ्गरे पु० शब्दरत्ना०। “गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः” उद्वा० त० उक्ते ४ वैश्योपनामभेदे पु०। ५ कपिकच्छ्वां स्त्री राजनि०। ६ परकीयायां नायिकायां स्त्री। “गुप्ताविदग्धा लक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामेवान्तर्भावः तत्र गुप्ता त्रिविधा वृत्तसुरतगोपना वर्त्तिष्य माणसुरतगोपना वर्त्तमानसुरतगोपना चेति विभज्य रसमञ्जर्य्यां तिसृणामेकत्र पद्ये उदाहृतिः यथा “श्वश्रूः क्रुध्यतु निर्दहन्तु सुहृदो निन्दन्तु वा यातरस्तस्मिन्नद्य न मन्दिरे सखि! पुनः स्वापो विधेयो मया”। आखो राक्रमणाय कोणकुहरादुत्कालमातन्वती मार्ज्जारी नखरैः खरैः कृतवतो कां कां न मे दुर्दशाम्”। ७ रक्षितायां स्त्रियाञ्च (राखनी) स्त्री “ब्राह्मणीं यद्यगुप्तां तु सेवेतां वेश्यपार्थिवौ” मनुः ८ परमेश्वरे पु० “गुप्तश्चक्रगदाधरः” विष्णुस० “वाङ्मनसमोरगोचरत्वात् गुप्तः “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते” इति श्रुतेः” भा०।

गुप्तक = पु० जयद्रथसेनानीभेदे। “अङ्गारकः कुञ्जरो गुप्तकश्च शत्रुञ्जयः सृञ्जयसंप्रवृद्धौ” भा० आ० २६४ अ०। स्वार्थे क। २ गुप्तार्थे त्रि०।

गुप्तगति = पु० गुप्ता गतिर्यस्य। अपसर्पे १ गुप्तचरे शब्दार्थचि०। २ गूढगमने त्रि०।

गुप्तचर = त्रि० गुप्तश्चरो यस्य। १ गूढभावेन चरपेरके। २ बलभद्राख्ये यदुवंश्ये पु० त्रिका०। कर्म्म०। ३ गूढे दूतभेदे पु०

गुप्तस्नेह = पु० गुप्तः स्नेहोऽत्र। १ अङ्कोटकवृक्षे राजनि०। कर्म्म०। २ गूढे स्नेहे “गुप्तस्नेहकरी(दृष्टिः)तृतीयभवने” नीलकण्ठताजकम्।

गुप्ति = स्त्री गुप–भावे क्तिन्। १ गोपने “भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था” सा० द०। २ संवरणे “वृहन्मणिशिलासालं गुप्तावपि मनोरमम्” कुमा०। “असिधारासु कोषगुप्तिः” काद०। “स्थानं समुदयं गुप्तिं लब्धप्रशभनादिकम्” मनुः। ३ रक्षणे “सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः” (ईश्वरः) मनुः। ४ ग्राह्यमन्त्रसंस्कारभेदे तन्त्रसा० “गौतमीये “जननं जीवनं पश्चात् ताडनं बोधनं तथा। तथाभिषेको विमलीकरणाप्यायने पुनः। तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः” इति विभज्य “जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम्” इति लक्षितम्। आधारे क्तिन्। ५ अवस्करस्थाने ६ कारागारस्थाने मेदि०। “चिरमतिरसलौख्यात् बन्धनं लम्भिवानां पुनरयमुदयाय प्राप्य धाम स्वमेव। दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति” माघः ७ भूगर्त्ते। करणे क्तित्। ८ अहिंसादौ योगाङ्गे यमे च हेमच०। ९ गर्त्तार्थं क्षितेरुत्खनने १० नौकाछिद्रे भरतः।

गुफ = ग्रन्थे तुदा० पर० सक० सेट् मुचा०। गुम्फति अगोफीत् जुगोफ।

गुफित = त्रि० गुफ–गुन्फ–वा कर्म्मणि क्त। ग्रथिते अमरः।

गुम्फ = ग्रन्थने तुदा० पर० सक० सेट्। गुम्फति अगुम्फीत्। जुगुम्फ गुम्फितः। मोपधत्वात् गुम्फित्वा क्विपि गुन् गुमौ गुम इति।

गुम्फ = पु० गुम्फ–घञ्। १ ग्रन्थने, २ बाहोर्भूषणे मेदि० ३ श्मश्रुणि च शब्दरत्ना०।

गुम्फना = स्त्री गुम्फ–युच्। “वाक्ये शब्दार्थयोः सम्यग्रचना गुम्फना स्मृता” इत्युक्तायां १ वाक्यस्य चारुरचनायाम्। २ ग्रन्थने च (गा~था) भावे ल्युट्। २ ग्रन्थने न०।

गुम्फित = त्रि० गुम्फ–क्त। सुभ्रादिना ग्रथिते, अमरः।

गुर = बधे गत्याञ्च दिवा० आत्म० सक० सेट्। गूर्य्यते अगोरिष्ट। जुगोर। ईदित् गूर्ण्णः। गोरणम्।

गुर = उद्यमे तुदा० कुटा० आत्म० अक० सेट्। गुरते अगुरिष्ट जुगोर गुरणम् ईदित् गूर्णः। वेदे तु नि० गूर्त्त इत्येव। “इषो हवो गूर्त्ततमाः” ऋ० १। १६७। १। “गूर्वी रुषसः शरदश्च गूर्त्ताः” ऋ० ४। १९। ८। “अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने” स्मृतिः। “यो ब्राह्मणायावगुरेत् तं शतेन यातायात्” श्रुतिः छान्दसः पदव्यत्ययः। एवं “न कदाचिद् द्विजे तस्माद्विद्वानवगुरेदपि” मनुः।

गुरण = न० कुटा० गुर–भावे ल्युट्। हननाद्यर्थभुद्यमे अमरः। दैवादिकस्य गोरणमित्येव। तच्च बधे गत्याञ्च। अव + गोरणं हननार्थमुद्यमे इति भेदः।

गुरु = पु० गिरत्यज्ञानं गृणात्युपदिशति धर्म्मं गॄ–गिरणे गॄ–शब्दे कर्त्तरि, गीर्य्यते स्तूयते वा कर्मणि वा कु उच्च १ वृहस्पतौ देवाचार्य्ये अमरः। “गुरुकाव्यानुगां बिभ्रत्” माघः। “गुरोर्भृगोरस्तबाल्ये” नीचस्थे सिंहगे गुरौ” ज्यो० त०। २ प्रभाकराख्ये मीमांसकभेदे तस्य तन्नामता यथा “अत्र तु नोक्तम् तत्रापिनोक्तम् अतः पौनरुक्त्यम्” इत्यत्र स्वगुरोः संशये जाते प्रभाकरेण तदसन्निधाने तत्पुस्तके तुना, अपिना, इति पदच्छेदः कृतः उत्तरकाले गुरुणा तद्दृष्ट्या केनेदृशः पदच्छेदः कृतः इति पृष्टे अन्यशिष्ट्ये द्वारा प्रभाकरकृतत्वं निश्चित्य तस्य संशयापनोदकत्वात् गुरुरिति संज्ञा कृतेति अख्यायिका “गुरोर्गिरः पञ्चदिनान्यधीत्य” सा० द०। “अर्थापत्तिर्गुरूणाम्” शब्द० प्र०। “निषेकादीनि कर्म्माणि यः करोति यथाविधि। सम्भावयति चान्नेन स विप्रो गुरुरुच्यते” मनूक्ते “स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति” याज्ञ० उक्ते च निषेकादिक्रियाकर्त्तरि ३ पितरि प्रायश्चित्तविवे०। “न केबलं तद्गुरुरेकपार्थिवः” रघुः गुरुतल्पगशब्दे विवृतिः। “अल्पं वा बहु वा यस्य श्रतस्योपकपरोति यः। तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया” मनूक्ते शास्त्रोपदेशके ४ आचार्य्यादौ तद्विषये “पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी” इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्। गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते” मनुः। “तै गुरुर्गुरुपत्नी च” रघुः। “आचार्य्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः” देबलोक्तेषु ५ एकादशसु आचार्य्यादिषु “अनेनैकादशगुरवः सङ्केतिताः” प्रा० वि०। गुरुतल्पपगशब्दे विवृतिः।

“उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। वर्ण्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः। मातामही मातुलानी माता मातुश्च सोदराः। श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु। इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः!। अनुवर्त्तनमेतेषां मनो वाक्कायकर्मभिः। गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः। नैतैरुपविशेत् साद्धं विवदेन्नात्मकारणात्। जीवितार्थमपि द्वेषाद्गुरुभिर्न्नैव भाषणम्। उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः। गुरूणाञ्चैव सर्वेषां पूज्याः पञ्च विशेषतः। तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता। यो भावयति या सूते येन विद्योपदिश्यते। ज्येष्ठ भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः। आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः। पूजनीया विशेषेण पञ्चैते भूतिमिच्छता कूर्म० पु० ११ अ०। उक्ते पुंस्त्रीभेदेन ६ उपाध्यायादौ यथायथं पुंस्त्री०। “तथापि तन्मय्यपि ते गुरुरित्यस्ति गौरवम्” माघः। कृष्णं प्रति तत्पितृव्योद्धवोक्तिः “गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः” माघे ज्येष्ठभ्रातृपितृव्यपरता। ७ सम्प्रदायप्रवर्त्तके ८ धर्म्मोपदेशके ९ कपिकच्छूवृक्षे राजनि०। “सानुस्वारो विसर्गान्तो दीर्घोयुक्तपरश्च यः। वा पादान्ते त्वसौ” वृ० र० उक्ते १० दीर्घवर्णादौ। “अगुरुचतुष्कं भवति गुरूद्वौ घनकुचयुग्मे शशिवदनासौ” श्रुतबोध० “गुरुमतोऽनृच्छेत्यादि” “गुरोश्च हलः” पा० ११ महति त्रि० शापे गुरुणि गुरूणि” प्रा० त०। १२ दुर्ज्जरं १३ दुष्पाके त्रि० “तत्फलं (प्रियङ्गुफलम्) मधुरं रूक्षं कषायं शीतलं गुरु” भावप्र०। १४ अलघनि गुरुत्वति त्रि० मेदि०। “कार्ये गुरुण्यात्मसमं नियोक्ष्ये” कुमा०। “नारदस्तु जगतो गुरुरुच्चैर्बिस्मयाय गगनं विललङ्घे” नैष० “गुरुणीद्वे रसवती” भाषा० स्त्रियां ङीप्। “अलाबूर्भेदिका गुर्वी” वैद्यकम्। “इयमतिजरठा प्रकाम गुर्वी” माघः। गुरुत्वं च गुरुत्वशब्दे दृश्यम् १५ तान्त्रिकमन्त्रोपदेष्टरि पु० तल्लक्षणादि शा० ति० “मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः। सर्वागमाणां तत्त्वज्ञः सर्वशास्त्रार्थतत्त्वविद्। परोपकारनिरतो जपपूजादितत्परः। अमोघवचनः शान्तो वेदवेदार्थपारगः। योगमार्गानुसन्धाता देवताहृदयङ्गमः। इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः” वर्ज्यागुरवोराववभट्टधृतवचनैरुक्ताः यथा

“नातिबालोन वृद्धश्च न खञ्जो न कृशस्तथा। नाधिकाङ्गोन हीनाङ्गो न खल्वाटोन दन्तुरः”। वीरमित्रोदयधृतकल्पचिन्तामणौ “क्षयरोगी च दुश्चर्मा कुनखी श्यावदन्तकः। काणोऽन्धः कुसुमाक्षश्च खल्वाटः खञ्जरीटकः”

“अङ्गहीनोऽतिरिक्ताङ्गः पिङ्गाक्षः पूतिनासिकः। वृद्धाण्डोवामनः कुब्जः श्वित्री चैव नपुंसकः”। पूतिना सिकोदुर्गान्धिनासिकः। “संस्काररहितोमूर्खो वेदशास्त्रविवर्ज्जितः। श्रौतस्मार्त्तक्रियाशून्यः शुष्कभाषः सुकुत्सितः। पुरयाजनजीवी च नरो वैद्यश्च कामुकः। क्रूरो दम्भी मत्सरी च व्यसनी कृपणः खलः कुसङ्गी नास्तिको भीतो महापातकचिह्नितः। देवाग्निगुरुविद्यादिपूजाविधिपराङ्मुखः। सन्ध्यातर्पणपूजादिमन्त्रज्ञानविवर्ज्जितः। आलस्योपहतो भोगी धर्म हीन उपश्रुतः। इत्याद्यैर्बहुभिर्दोषैरागमोक्तैश्च यत्नतः। वर्जनीयोगुरुः प्राज्ञैर्दीक्षासु स्थापनादिषु” मत्स्यसूक्ते त्रयोदशपटले “अपुत्त्रश्चासपत्नीकः शक्तिहीनंऽथ वामनः। कुब्जः कुष्ठः श्यावदन्तो वृषलीपतिरेव च” तन्त्रसारे रामार्च० च० सदसद्गुरुलक्षणे यथा

“शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान्। शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान्। अध्यात्मध्याननिष्ठश्च मन्त्रतन्त्रविशारदः। निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते। आगमसंहितायाम् “उद्धर्त्तुञ्चैव संहर्त्तुं समर्घो ब्राह्मणोत्तमः। तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते” इति। गुरुरपि गृहस्थ एव यथाह ज्ञानार्णवे। “सर्वशास्त्रार्थवेत्ता च गृहस्थो गुरुरुच्यते” गृहस्थेषु पुत्रवतामेवाधिकारः यथा यामले “कलत्रपुत्रवान् विप्रो दयालः सर्वंसम्मतः। दैवे पित्रेऽरिमित्रे च गृहस्थो देशिको भवेदिति” मुण्डमालायाम् “मध्यमो वैष्णवः प्रोक्तो मध्यमशैवदीक्षितः। परमादीक्षितो यो वै स एव परमो गुरुः”

आगमसारे “गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः। उकारःशम्भुरित्युक्तस्त्रितयात्मा गुरुः स्मृतः। गकारो ज्ञानसम्पत्त्यै रेफस्तत्त्वप्रकाशकः। उकारात् शिवतादात्म्यं दद्यादिति गुरुः स्मृतः”। निन्द्यगुरुमाह क्रियासारसमुच्चये “श्वित्री चैव गलत्- कुष्ठी नेत्ररोगी च वामनः। कुमखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः। हीनाङ्गः कपटी रोगी वह्वाशी बहुवल्गकः। एतैर्दोर्षैर्विहीनो यः स गुरुः शिष्यसम्मतः” यामले “अभिशस्तमपुत्रञ्च कदर्य्यं कितवं तथा। क्रियाहीनं शठञ्चापि वामनं गुरुनिन्दकम्। जलरक्त विकारं च वर्ज्जयेन्मतिमान् सदा। सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्ज्जयेत्”। वैशम्पायनसंहितायाम् “अपुत्रो मृतपुत्रश्च कुब्जश्च रोषणस्तथा”। सम्बन्धभेदाद्बर्ज्यतामाह योगिनीतन्त्रे “पितुर्मन्त्रं न गृह्णीयात् तथा मातामहस्य च। सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च” तथा गणेशविमर्षिण्याम् “यतेर्दीक्षा पितुर्दीक्षा दीक्षा च वनवासिनः। विविक्ताश्रमिणो दीक्षा न सा कल्याणदायिका” अस्यापवादः शक्तियामले “तीर्थाचारव्रतो मन्त्री ज्ञानवान् सुसमाहितः। नित्यनिष्ठो यतिः ख्यातो गुरुः स्याद्भौतिकोऽपि च” रुद्रयामले “न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम्। न पुत्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत्। सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत्। शक्तित्वेन वरारोहे! न च सा पुत्रिका भवेत्”। इत्यादिनिषेधवचनात् एभ्यो मन्त्रं न गृह्णीयात्। इदन्तु सिद्धमन्त्रेतरविषयं “सिद्धमन्त्रो न दुष्यतीति” वचनात् तथा च सिद्धयामले “यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये!। तदैव तान्तु दीक्षेत त्यक्त्वा गुरुविचारणाम्” गणेशविमर्षिण्याम् “प्रमादाच्च तथाऽज्ञानात् पितुर्दीक्षां समाचरन्। प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत्”। पितुरित्युपलक्षणं मातामहादीनामपि। प्रायश्चित्तन्तु अयुतसावित्रीजपः सर्वत्र तथा दर्शनात् तथा च शङ्खः “दशसाहस्रजप्येन सर्वकषल्मनाशिनी”। मत्स्मसूक्ते “निर्वीर्यञ्च पितुर्मन्त्रं शैवे शाक्ते न दुष्यति” इति वचन कौलिकमन्त्रदीक्षापरम् योगिनीतन्त्रे “शक्तिविद्यामधिकृत्य ततो दीक्षा निषेधात्। यद्वाशाक्ते तारादिविद्यायां न दोषः मत्स्यसूक्ते “निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात्” इति तारामधिकृत्य तथा प्रतिपादनात्। श्रीक्रमेऽपि “मनुर्विमृष्य दातव्यो ज्येष्ठपुत्राय धीमते” उत्तरषट्के च “अयोग्याय ग दातव्यमित्याज्ञा परमेश्वरि!। सुशीलाय विनीताय ज्येष्ठपुत्राय धीमते। अनन्तदायिशिष्याय देव्या मन्त्रं प्रदीयते”। तदुक्तं “कथमपि मनुमेनं प्राप्य शिन्याय तस्मै निजकुलतिलकाय ज्येष्ठपुत्राय दद्यादिति” ताराविषयं मत्स्यसूक्ते ताराप्रकरणे तथा दृष्टेः महातीर्थे उपरागे सति सर्वत्र न दोषभाक् तथा च विष्णुमन्त्रमधिकृत्य “साधु पृष्टं त्वया व्रह्मन् वक्ष्यामि सकलन्तव। ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने। वशिष्ठोऽपि स्वपौत्राय मत्पित्रे दत्तवान् स्वयम्। प्रसन्नहृदयः स्वच्छः पिता मे करुणानिधिः। कुरुक्षत्रे महातीर्थे सूर्यपर्वणि दत्तवान्” इत्यादि वैशम्पायनसंहितायां शौनकं प्रति व्यासवाक्यम्। योगिनीतन्त्रे “निर्वीर्य्यञ्च पितुर्मन्त्रं तथा मातामहस्य च। स्वप्नलब्धं स्त्रिया दत्तं संस्कारेणैव शुध्यति”। यत्तु “साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया। सर्वतन्त्रार्थतल्वज्ञा सुशीला पूजनेरता। गुरुयोग्या भवेत् साहि विधवा परिवर्ज्जिंता। स्त्रियोदीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता”। तत्तु गुरोरुपासितमन्त्रपरम्। तथा च भैरवीतन्त्रे “स्वीयमन्त्रोपदेशे तु न कुर्य्यात् गुरुचिन्तनम्”। मातुरिति उपासितेऽष्टगुणं अनुपासिते शुभफलदमित्यर्थः। सिद्धमन्त्र विषयं वेति केचित्। वस्तुतस्तु योगिनीतन्त्रे स्त्रीपदं विधवापरं एकवाक्यताबलात्। अत्र विधवापदम् अवीरापरम्। “विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया। नाधिकारोयतोनार्य्या भार्य्याया भर्त्तुराज्ञया” इत्यूर्द्ध्वा म्रायवचनात् नाधिकार इति स्वातन्त्र्येण नाधिकारः। यीगिनीतन्त्रे “स्वप्नलब्धे तु कलसे गुरोर्मूर्त्तिं निवेशयेत्। वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम्। ततः शुद्धिमवाप्नोति अन्यथा विफलं भवेत्”। इदन्तु सद्गुरोरभावे तत्सम्भवे तस्मादेव गृह्णीयात् “स्वप्ने तु नियमोनहीति” नारदवचनात्। तथा विद्याधराचार्य्यधृतवचनम् “मध्यदेशे कुरुक्षेत्रनाटकोङ्कणसम्भावाः। अन्तर्वेदिप्रतिष्ठानाः आवन्त्याश्च गुरूत्तमाः। मध्यदेश आर्य्यावर्त्तः। “गोडाः शाल्वोद्भवाः सौराः मागधाः केरलास्तथा। कोशलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः। कर्णाटनर्म्मदाराष्ट्रकच्छातीरोद्भवास्तथा। कालिङ्गाश्च कलिङ्गाश्च काम्बोजाश्चाधमा मताः। वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके। शैवः शाक्तोऽपि सर्वत्र दीक्षास्वामी न संशयः” नित्यातन्त्रे “गुरु न मर्त्यं ध्यायेत यदि बुध्येत तस्य तु। न कदाचिद्धवेत् सिद्धिर्न मन्त्रैर्देवपूजनैः” १६ परमेश्वरे पु०। “गुरुर्गुरुतमोधाम” विष्णुसं० सर्वविद्यानामुपदेष्टृत्वात् सर्वेषां जनकत्वाद्वा गुरुः” भा०। “पूर्वेषामपि गुरुः कालेनानवच्छेदात्” पात० सू०। १७ गम्भीरार्थे १८ बलबति १९ पूज्येच त्रि० २० द्रोणाचार्य्ये पु० शब्दार्थचि० २१ पुष्यनक्षत्रे तस्य गुर्वधिष्ठातृकत्वात् “ध्रुवगुरुकरमूलापौष्णभान्यर्कवारे” ज्यो० त०। स्वार्थे क। भारातिशययुक्ताद्यर्थे। “ततो युधिष्ठिरस्तस्य गुरुकः समपद्यत। स तु भाराभिभूतात्मा न तथाशीघ्रगोऽभवत्” भा० व० १५ ७ अ०। “अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि च”। “गुरुकावस्थिरावूरू न स्वाविव च मन्यते” सुश्रुतः। गुरोर्भावः इमनिच् गरादेशः गरिमन् पु० अण् गौरव न० तल् गुरुता स्त्री त्व गुरुत्व न०। गुरुभावे पतनासमवायिकारणतावति गुणभेदे। अतिशयेन गुरु इष्ठन्, ईयसुन् गरादेशः। गरिष्ठ गरीयस् अतिगुरौ त्रि० ईयसूनि स्त्रियां ङीप्। गुरुं करीति णिच् गरादेशः गरयति।

गुरुकुण्डली = स्त्री गुरुर्जीवः प्रधानभत्र तादृशी कुण्डली चक्रभेदः। जन्मनक्षत्रभदेन जन्मावध्येकैकवषाधिपज्ञाषके चक्रभेदे तत्र हि चक्रे गुरोर्सध्यस्थित्या इतरेषामष्टानां ग्रहाणामष्टदिक्षु स्थित्या च गुरप्रधानत्वं तत्स्वरूपफलाद्युक्तं पञ्चस्वरायां यथा “रविश्चन्द्रकुजः सौम्यो गुरुः शुक्रः शनैश्चरः। राहुः केतुश्च विज्ञेया सर्वथा गुरुकुण्डली। कृत्तिकादीनि ऋक्षाणि त्रिरावृत्ति क्रमान्न्यसेत्। जन्मर्क्षं खेचरे यत्र जन्माद्यव्दास्ततः क्रमात्”। कुण्डलीद्वयस्य फलमाह। शुभं विधौ बुधे च स्यात् मरणं राहुमन्दयोः। गुरुद्वये महासौख्यं दुःखं स्याद्गोमसूर्य्ययोः”। “पताकी कुण्डली केतोः कुण्डली च वृहस्पतेः। सर्वत्र पापसंयोगे संशयो जायते महान्”।

गुरुक्रम = पु० गुरुरेव क्रमो यत्र। पारम्पर्य्योपदेशे हला०

गुरुगीता = स्त्री गुरुस्तवनभूता गीता। गीताभेदे।

गुरुघ्न = पु० गुरुं गुरुतां हन्ति हन–ढक्। १ गौरसर्षपे राजनि० २ गुरुहन्तार त्रि० स्त्रियां ङीप्।

गुरुण्यक = पु० गुरुं गुरुतां दुजरतां रुण्टति रुटि–स्तेये ण्वुल् पृषो०। तिलमयूरे त्रि०।

गुरुतम = त्रि० तशयेन गुरुः। अतिगुरौ “त्रयः पुरु षस्यातिगुरवो भवन्ति माता पिता चार्य्यश्चेति” विष्णुक्ते २ मात्रादौ ३ अतिग रुत्ववति च। ४ परमेश्वरे पु०। “गुरुर्गुरुतमो धामसत्यः सत्यपराक्रमः” विष्णुस०। “विरिञ्च्यादीनामपि ब्रह्मविद्याप्रवर्त्तकत्वात् गुरुतमः। “यो वै ब्रह्माणं विदधाति पूर्वं यश्चास्मै प्रहिणोति वेदम्” इति श्रुतेः भा०। “पूर्वेषामपि गुरुः कालनानवच्छेदात्” पात० सू०। तस्य सर्वेषां गुरूणामुपद्देष्टृत्वात् गुरुतमत्वमुक्तम्।

गुरुतल्प = पु० गुरोः पितुस्तल्पं तल्प भार्य्या यस्य। १ विमातृ गन्तरि। स च महापातको तत्प्रायश्चित्तमाह स्म मनुः। “गुरुतल्पोऽभिभाष्यैनस्तप्ते सुप्यादयोमये। शूर्म्भीं ज्वलन्तीं वाश्लिष्येन् मृत्युना स विशुध्यति” “मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानीति विष्णुहारीताभ्यां स्वमातृगमनस्यातिपातकत्वेनाभिधानात् परिशेषात् गुरुतल्पपदं विमातृपरम् यथा च गुरुशब्दस्यात्र पितृमात्रपरता तथा गुरुतल्पगशब्दे वक्ष्यते। ६ त०। २ गुरुभार्य्यायाम् “गत्वैतदेव कुर्वीत गुरुतल्पमकामतः” प्रा० वि० व्यासः। “ब्रह्महत्या सुरापानं गुरुतल्पगमनं ब्राह्मणस्वर्ण्णाहरणं द्विजातीनां महापातकम्” च्यवनः।

गुरुतल्पग = पु० गुरोः पितुस्तल्पं भार्य्यां गच्छति गम–ड। विमातृगन्तरि स च महापातकी। महापातकमध्ये गुरुतल्पगमनमुक्तं तत्र गुरुतल्पशब्दार्थनिर्ण्णये बहूनि मतानि सन्ति तानि च पूर्वपक्षीकृत्य निरस्य विमातृगमनपरत्वं प्रा० विवेके गिर्ण्णीतं यथा

“तत्र को गुरुः का चाङ्गना। तत्र कश्चित् पितैव गुरुः तथा च मनुः “निषेकादीनि कर्म्माणि यः करोति यथाविधि। सम्भावयति चान्नेन स विप्रो गुरुरुच्यते। याज्ञवलक्यः “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति। उपनीय ददद्वेदमाचार्य्यः स उदाहृतः”। क्रियानिषेकादिकाः। आभ्यां गर्भाधानादिक्रियाकर्त्तरि गुरुशब्दस्य सङ्केतितत्वात् पिता गुरुस्तस्याङ्गना स्त्री माता तत्सपत्नी च सा च सवर्णा चोत्तमवर्णा च न हीनवर्णा तद्गमने गुरुतल्पगमनसमानत्वस्य वक्ष्यमाणत्वात् तदगमनं न महापातकमिति। तदसङ्गतम् आचार्य्यादेरपि गुरुत्वश्रवणात् एतयोर्वचनयोरन्यनिषेधार्थत्वाभावात्। तथा च मनुरेवान्यं गुरुमाह “पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी। इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्। गुरुशुश्रूषया त्ववं ब्रह्मलोकं समश्नुते। अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः। तमपीह गुरु विद्यात् श्रुतोपक्रियया तया”। तथा गोतमः “आचार्य्यः श्रेष्ठो गुरूणां मतः” इत्येके। पितरि सङ्केति तत्वादाचार्य्ये गौणं गुरुपदामति चेन्न आचार्य्यादावपि सङ्केतदर्शनात् यथा विष्णुः “त्रयः पुरुषस्यातिगुरवो भवन्ति माता पिता आचार्य्यश्चेति”। तथा देवलः “आचार्य्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः”। त्राता प्राणरक्षकः वर्णश्रेष्ठः क्षत्रियादीनां ब्राह्मणः। अनेनैकादश गुरवः सङ्केतिताः। कथमनेकेषामेकगुरुशब्दवाच्यत्वमेकस्य प्रवृत्तिनिमित्तस्याभावादिति “चेन्न गुरुरनुगन्तव्यः” इत्यादि श्रुत्या सदापरितोषणीयत्वादिधर्मस्यैकस्योपाधित्वात् यद्यप्याचार्य्यस्यैव परितोषणीयत्वं श्रूयते तथाप्यन्येष्वति दिश्यते ततोऽतिदिष्टघर्माऽप्येकपदप्रवृत्तावुपाधिर्भवति इष्टिपदप्रवृत्ताविव तद्धर्मसम्बन्धः। शास्त्रीयगुरुशब्दप्रवृत्तिविषयत्वं वोपाधिः। भवतु वा विशेषाग्रहात् अक्षादिशब्दवदनेकार्थत्वे को दोषः। अथाचार्य्यपरत्वे गुरुशब्दस्य कथमाचार्य्यपत्न्यभिगमने गुरुतल्पातिदेशः तथा च गोतमः “आचार्य्यपुत्रशिष्यभार्य्यासु चैवमिति” तथा याज्ञवल्क्यः “मातुःसपत्नीं भगिनीमाचार्य्यतनयान्तथा। आचार्य्याणीं स्वाञ्च सुतां गच्छंस्तु गुरुतल्पगः” इति, न एतस्य हीनजातीयपत्न्यभिप्रावेणाप्युपपत्तेः अतिदेशस्योपदेशसापेक्षत्वात् प्रथमावगतोपजीव्यगुरुशब्दसङ्कोचे हे त्वभावात्। न च “पितृभार्य्यां समारुह्य मातृवर्ज्जं नराधमः। भगिनीञ्च निजां गत्वा निष्कृतिर्न विधीयते” इति संवर्त्तवचने पितृशब्ददर्शनात् सामान्यवाचिगुरुशब्दे सङ्कोचोऽस्त्विति वाच्यम् एतस्य प्रायश्चित्तविधिपरत्वेनाचार्य्यादिव्य दासपरत्वाभावात् अन्यथोभयपरत्वे वाक्यभेदापत्तेः। पितृपदस्य गुरोर्विशेषणरूपत्वाभावात् न सामान्यवचनसङ्कोचकत्वम् किञ्च याज्ञवल्क्यस्वरसात् निषेकादिवेददानान्तकर्मकर्त्तुरेवाङ्गना गुर्वङ्गना तद्गमने महापातकं क्षत्रियादीनां न भवत्तेषां वेदाध्यापकत्वाभावात् किञ्चैवमवेददातुर्ब्राह्मणस्य पितुर्गुरुत्वाभावात् तदङ्गनागसनं महापातकं न स्यात्। किञ्चैवं मातृगमनस्य महापातकत्वे “मातृगमनं दुहितृगमनं स्नुषागधनमित्यतिपातकानीति” विष्णुहारीतवचनविरोधश्च स्यात् तस्मान्मातृव्यतिरेक्तैकादशगुर्वङ्गनागमनमेव महापातकमिति युज्यते देवलवचनादिति। अत्र भवदेवेनोक्तं नात्र गुरोरङ्गना गुर्वङ्गनेति” षष्ठीसमासः षष्ठीतत्पुरुषसमासस्याश्रयणे निषादस्थपतिवत् षष्ठ्यर्थलक्षणापत्तेः। अतो गुरुश्चासावङ्गना चेति कर्म्मधारयः। गुरुत्वञ्च मा तुरेव न मातुः सपत्न्याः शरीरीत्पादकत्वेनोपाधिना मातापित्रोरेव गुरुशब्दाभिधेयत्वात्। अतएवाचार्य्यादि- षु गुरुशब्दो गौणस्तद्धर्म्मप्रतिपत्त्यर्थः। ग गच्छदित्यत्रागत्या षष्ठीसमासः पत्नीशब्दस्य स्वपरिणीतावचनत्वात्। गुरुश्चासौ पत्नी चेतिं यदपेक्षया गुरुत्वं तदपेक्षया पत्नीत्वायोगात् न कर्म्मधारयः। इहत्वङ्गनाशब्दस्य स्त्रीमात्रवचनत्वात् युज्यत एवेति। अतोऽत्र गुरुशब्दस्य मातृपरत्वे गुरुपत्नीं न गच्छेदित्यत्रापि मातृपरत्वमेव सामानाधिकरण्याभावात्। “गुरुतल्पोऽभिभाष्यैनः” इत्यत्र गुरुः तल्पं तल्पं कलत्रं यस्येति मातुरेव ग्रहः। अतएव मातुः सपत्नीमिति याज्ञवल्क्यवचने मातुः सपत्न्यामाचार्य्यपत्न्याञ्च गुरुतल्पातिदेशो घटते एवेति, तदसङ्गतम् “मातृमगनं दुहितृगमनं स्नुषागमनमित्यतिपातकानीति” विष्णुहा रीताभ्यां मातृगमनस्यातिपातकत्वाभिधानात्। न चा त्र मावृसपत्नीपरत्वं मातृशब्दस्य मुख्यार्थत्यागापत्ते जननीवचनत्वात्। न च षष्ठीसमासे लक्षणायामपि मुख्यार्थत्यागः किञ्च कर्म्मधारयसमासे अङ्गनापदवैयर्थ्यापत्तिः गुरुगमनमित्येतावतैवार्थसिद्धेः। दुहितुश्च पितृगमनमतिपातकमेव यथा पितुर्दुहितृगमनेऽतिपातक पितृनिष्ठं, तथा दुहितुरपि पितृगमनेऽतिपातकं दुहितृनिष्ठम् एवं सर्वत्र उभयनिष्ठमेव। किञ्च गुरुपत्नीं न गच्छेदित्यादिषु बहुषु वचनेषु गुरुपत्नी गुरुतल्पगुरुभार्य्यादिपदस्थपत्न्यादिपदानामनर्थकता स्यात् गुरुपदेनैव मातुः प्राप्तेः किञ्च निःसन्दिग्धार्थम् मातृपदमेव प्रयोक्तु मुचितं मुनीनां न तु गुरुपत्न्यादिपदं सन्दिग्धार्थम्। एवं गौरवातिशयोऽपि वक्ष्यते। अतएव “सहस्रेण पितुर्माता गौरवेणातिरिच्यते” इति। जिकनस्तु आचार्य्य पितृमहीपतीनामत्र गुरुशब्देनोपादानम् यथा देवलः “उपाध्यायराजपितृभार्य्यागमनानि गुरुतल्पगमने कष्टतमानि”। पापातिशययुक्तार्नात्यर्थः। उपाध्यायोऽत्राचार्य्यः यथा बौधायनः “पितुर्गुरोर्नरेन्द्रस्य भार्य्यां गत्वा प्रमादतः। गुरुतल्पी भवेत्तेन पूर्वोक्ता तत्र निष्कृतिः” पूर्वोक्ता निष्कृतिः तप्तलौहशय्याशयनादिः। गुरुरत्राचार्य्यः “नरेन्द्रग्रहणाद्राजाऽत्राभिषिक्तक्षत्रियः। अतएव “राज्ञी प्रव्रजिता धात्री” इत्यादिषु राक्षीपदं वैश्यनृपतिपत्नीपरम् “आचार्य्याणीं स्वाञ्च सुतामित्याचार्य्याणीपदं हीनवर्णतत्पत्नी परमिति तच्चिन्त्यम्। उच्यते यद्यपि देवलवचनेनैकादश गुरवो दर्शिताः तथाप्यत्र पितैव गुरुर्ग्राह्यो नाचार्य्यादिः ततपत्नीगमनस्य गुरुतल्पगमनसमत्वानुपपत्तेः अनुपा- तकत्वश्रुतेश्च। तथा च विष्णुः “पितृपितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमं पितृस्वसृमातृस्वसृश्रोत्रियर्त्विगुपध्यायमित्रपत्न्यभिगमनञ्चेत्यभिधाय “अनुपातकिनस्त्वेते महापातकिनो यथा। अश्वमेधेन शुद्ध्यन्ति तीर्थानुसरणेन वा”। न चात्राचार्य्यादिपत्नीनां हीनवर्णानां ग्रहणं नृपस्य क्षत्रियेतरस्य पत्न्या इति युज्यते आचार्य्यभार्य्यादेर्विशेषत्वात् गुर्वङ्गनाशब्दस्य सामान्यत्वात् सामान्यविशेषन्यायेन गुर्वङ्गनाशब्दएव सङ्कोचस्य युक्तत्वात् पितृपत्न्यास्तु हीनवर्णाया युक्तमेव मातृगमनस्यातिपातकत्वात् सपत्नीमातृगमनस्य गुर्वङ्गनीगमनत्वेन महापातकत्वात् अर्थादनुपातके लघुनि हीनवर्णायाः पितृपत्न्याग्रहणं तथा च याज्ञबल्क्यः “मातुः सपत्नीं भगिनीमाचार्य्यतनयां तथा। आचार्य्याणीं स्वाञ्च सुतां गच्छंस्तु गुरुतल्पगः”। गुरुतल्पगो गुरुतल्पगवदित्यर्थः। भगिन्यादिषु गुरुतल्पगत्वानुपपत्तेः। अत्र सुताऽसवर्णा ग्राह्या सवर्णासुतागमनस्यातिपातकत्वात् संवर्त्तः “पितृव्यदारगमने भ्रातृमार्य्यागमे तथा। गुरुतल्पव्रतं कुर्य्यान्नान्या निष्कृतिरुच्यते”। अत्र गुरुतल्पव्रतातिदेशात् पितृव्यादिभार्य्यागमनं न गुरुतल्पगमनमित्यवगम्यते अतएव विष्णुवचने नृपाचार्य्यपत्नीगमनस्यानुपातकत्वश्रुतेः पितुर्गुरोर्नरेन्द्रस्य” इति बौधायनवचनेऽपि गुरुतल्पपदं गौणम्। अत्रापि पितृभार्य्या हीनवर्णा ग्राह्या विष्णुवचनैकवाक्यत्वात् अतः पितैव गुरुर्मनुवचनात् तत्पत्न्येव गुर्वङ्गना सा तु न माता किन्तु सपत्नीमाता सा च सवर्णोत्तमवर्णा च न तु हीनवर्णा विष्णुवचनेऽनुपातकत्वश्रुतेः एतेनैकादशानामेव गुरूणां मुख्यपत्नीगमनं महापातकं विष्णुवचने तु पत्नीपदममुख्यस्त्रीपरमिति कल्पतरूक्तं निरस्तमेव। यद्यपि पञ्चानां पितृत्वं श्रूयते यथा “जनकश्चोपनेता च यश्च विद्यां (कन्यां) प्रयच्छति। अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः” इति तथापि जनकव्यतिरिक्ते तद्गौणं लोके जनक एवाभिधानात् एकस्य प्रवृत्तिनिमित्तस्याभावात् ननु जनकस्यापि संस्कारकर्त्तुरेव मनुना गुरुत्वमुक्तं याज्ञवल्क्येन च “वेददातृत्वेनेति कर्थ संस्काराकर्त्तुः पितुरवेददातॄणां क्षत्रियादीनाञ्च गुरुत्वमिति न देवलवचनेन पितृमात्रेण गुरुत्वावगतेः संस्कारकर्तृत्वं वेददातृत्वञ्चातिशयार्थमिति” प्रा० वि०

गुरुतल्पिन् = पु० गुरोस्तल्पं गम्यत्वेनास्त्यस्य इति। विमातृगन्तरि गुरुतल्पगशब्दे उदा०।

गुरुताल = पु० “एकएव गुरुर्यत्र गुरुतालः स कथ्यते” संगी० दा० उक्ते अन्यवर्णरहिते गुरुतालवति तालभेदे।

गुरुत्व = न० गुरोर्भावः त्वण्। वैशेषिकादिमतसिद्धे पतनहेतौ द्रव्यनिष्ठे गुणभेदे “अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादि द्वये तु तत्। अमित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्। तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि” भाषा० “पतने आद्यपतने” मुक्ताव०। तस्याप्रत्यक्षत्वे कारणं कणा० सू० वृत्त्योर्दर्शितं यथा

ननु गुरुत्वमप्यनेकद्रव्यसमवेतं रूपमहत्त्वसमानाधिकरणञ्चेति कथं न प्रत्यक्षमत आह” उप० वृ० “तस्य भावादव्यभिचारः” सू०।

“तस्य रूपत्वादेः सामान्यस्य उद्भवस्य च गुरुत्वेऽभावान्न गुरुत्वं प्रत्यक्षम्। ननु मा भूत् तत्र रूपत्वादिकं तथापि तत्प्रत्यक्षं स्यादत आह अव्यभिचार इति एकैकेन्द्रियग्राह्यत्वं प्रति रूपत्वादीनां पञ्चानां जातीनाम् अव्यभिचारो नियम एव यत्रैव रूपत्वादिपञ्चकान्यतमत् तत्रैव बाह्यैकैकेन्द्रियग्राह्यत्वं तद्व्यतिरेकादित्यर्थः, सूत्रे तु गुरुत्वाधिकारस्यास्प टत्वात् प्रशस्तदेवैरतीन्द्रियेषु मध्ये परिगणितमपि वल्लभाचार्य्यैः स्पार्शनमुक्तं गुरुत्वे।” उप० वृ०।

गुरुत्वञ्च प्रतिबन्धकाभावे एव यथा पतनेऽसमवायिकारणं तथा “संयोगाभावे गुरुत्वात् पतनमित्यादि“संस्काराभावे गुरुत्वात् पतनमित्यन्तं कणादसूत्रवृत्तिवाक्यं ५४३ पृ० दर्शितम्। तच्च गुरुत्वं पृथ्वीसलिलयो र्धर्मः इति नैयायिकादयः सांख्यास्तु “गुरु वरणकमेव तमः इत्युक्तेः तमोगुणस्यैव धर्म इत्याहुः तच्च वाक्यं गुणवृत्तिशब्दे २६०८ पृ० दर्शितम् “गृष्टिर्गुरुत्वाद्वपुषोनरेन्द्रः” “मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः” रघुः। तल्। गुरुताप्यत्र स्त्री “नाकृतिगुरुता गुरुता विक्रम गुरुता गरीयसी ख्याता” उद्भटः। “अवधार्य्य काय्य गुरुताम्” माघः। “गुरुता मण्डलेश” त्वम्नील० ता उक्ते मण्डलैश्चर्य्ये च।

गुरुदैवत = पु० गुरुर्दैवतमस्य। पुष्यनक्षत्रे हेमच० अश्लेषाशब्दे ४९८ पृ० दृश्यम्।

गुरुपत्नी = स्त्री ६ त०। गुरुः आचार्य्यः पतिर्यस्या वा नुङ् ङीष्। गुरोः मवर्णावामसमवर्णायाञ्च स्त्रियाम्। तयोर्वृत्तिभेदो मनुनोक्तो यथा

“गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः। असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः। अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च। गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम्। गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः। पूर्णविंशतिवर्षेण गुणदोषौ विजानता” “कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि। विधिवद् वन्दनीकुर्य्यादसावहमिति ब्रुवन्। विप्रोष्य पादग्रहणमन्वहं चाभिवादनम्”। “गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरत्” मनुः। ग्ररोः पितुः स्त्री। २ मातरि ३ विमातरि च।

गुरुपत्रा = स्त्री गुरुपाके दुर्ज्जरं पत्रमस्याः। १ तिन्तिडीवृक्षे शब्दरत्ना० २ वङ्गे धातौ न० हेम०।

गुरुपुत्र = पु० ६ त०। आचार्य्यादिगुरूणां पुत्रे। तत्र वृत्तिभेदो मनुना दर्शितो यथा

“श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत्। गुरुपुत्रेषु चार्य्येषु गुरोश्चैव स्वबन्धुषु” मनुः “गुरुपुत्रश्चात्राऽशिष्योऽधिकवयाश्च बोद्धव्यः शिष्यबालसमवयसामनन्तरं विशेषस्य वक्ष्यमाणत्वात्” कुल्लू०। “बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि। अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति। उत्सादनञ्च गात्राणां स्नापनीच्छिष्टभोजने। न कुर्य्यात् गुरुपुत्रस्य पादयोश्चावनेजनम्” मनुः

गुरुभ = न० ६ त०। १ पुष्यनक्षत्रे “गुरुभं श्रवणस्तथाश्विनीहस्तम्।” वृह० सं० ५५ अ०। २ धनुषि ३ मीने च राशौ।

गुरुमर्दल = पु० नित्यकर्म्म०। डिण्डिमवाद्ये शब्दर०।

गुरुरत्न = न० गुरोः प्रियं रत्नम्। १ पुष्परागे मणौ राजनि०। २ गोमेदे च तस्य तत्प्रियत्वं नवरत्नशब्दे दृश्यम् गुरुमण्यादयोप्युमयत्र।

गुरुराहु = पु० गुरुणा सह राहुर्यत्र। कालाशुद्धिहेतौ राहुजीवयोर्योगे “व्रतदीक्षे न कुर्वीत तमोयुक्ते वृहस्पतौ” व्रतदीक्षे इति नित्येतरकर्म्मोपपलक्षणपरम् “एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती। विवाहव्रतयज्ञादि सर्वं तत्र विवर्ज्जयेत्” स्मृतिसारे ज्यो० वचनात्। “ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः। गुरुराह्वोरपि तदा त्यजेद्विद्वान्न संशयः” भविष्यपु०। अत्र गुरोर्लज्जितत्वं हेतुः। “यत्र यत्र स्थितो जीव स्तमोयोगेन लज्जते। उपहासाय किन्न स्यादसत्सङ्गो मनीषिणाम्”। गुरुचण्डालादयोऽप्यत्र।

गुरुवर्च्चोघ्न = पु० गुरुवर्च्चो विष्ठाविबन्धस्तं हन्ति हन–टक्। (पातिलेवु) लिम्पाके शब्दच०।

गुरुवर्त्तिन् = पु० गुरौ गुरुकूले वर्त्तते वृत–णिनि। १ गुरुकुलवासिनि ब्रह्मचारिणि गुरुवासिन्प्रभृतयोऽप्यत्र। “अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम्। स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम्” शब्दाथचि० धृतवाक्यम्। गुरौ वर्त्तते णिनि। २ गुरुशुश्रूषके च।

गुरुवर्ष = न० पु० ६ त० ज्योतिषोक्ते गुरुओर्मध्यगत्या राशिभोगकालात्मके वर्षभेदे वृह० सं० ८ अ० वृहस्पतिचाराध्याये तद्वर्षमध्ये गुरोरस्तोदयात् तत्संज्ञाभेद उक्तो यथा “नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री। तत्सञ्ज्ञं वक्तव्यं वर्षं मासक्रमेणेव। वर्षाणि कार्त्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि। क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च तद्वर्षम्”। “सहोदयमस्तं वा येन यातीति” पाठं प्रकल्प्य

“नक्षत्रेण गुरुभुज्यमाननक्षत्रेण आग्नेयं कृत्तिका। पञ्चमं फाल्गुनम् अन्त्यमाश्विनं उपान्त्यं भाद्रपदम्। “अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभोमतः। शेषामासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया, इति वचनात्। “द्वे द्वे चित्रादिताराणां पूर्णपर्वेन्दुसङ्गते। मासाश्चैत्रादयोज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः इति सङ्कर्षणवाक्यात् पर्वेन्दुसङ्गते पौर्णमासीसंयुते। तदेकवाक्यतया पूर्ववचने पौर्णभासीलाभः। तथा च यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्तिकादित्वं तथावर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिकादित्वं तेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तोदयैकतरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि। यत्र वर्षद्वयघटकयोर्नक्षत्रयोरेकतरस्मिन्नस्तं गतो गुरुरन्यस्मिन्नुदेति तत्र का गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षं तदुत्तरं पौषमित्यादिक्रमाद् गतिः” मल० त० व्याख्यातम्। “नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः। कार्त्तिक्यादिषु संयोगे कृत्तिकादिद्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्। वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ। कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा” सू० सि० तस्य रङ्ग० व्याख्या अव्दशब्दे २७१ पृ० दर्शितापि स्मरणार्थं दिग्मात्रमत्रोच्यते “वृहस्पतेः सूर्य्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथो अमायामित्यर्थः चकारः पौर्णमासीसम्बन्धसमुच्चयार्थकः। योगो दिननक्षत्रसम्बन्धः। कार्त्तिकादीनि द्वादश वर्षाणि। वैशाखकृष्णपक्षामायां मुरोरस्ते तस्य (पौर्ण्णमास्यां वा) उदये जाते सति तदादि गुरुवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्त्तिकसंज्ञं भवति। अमेत्यत्युपलक्षणम् तेन यद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम्” संक्षेपः। अत्र चन्द्राक्रान्तनक्षत्रवशेन गुरुवर्षसंज्ञायाः कार्त्तिकादि शब्दस्य योगरूढत्वमाश्रित्य रङ्गनाथेनोक्तिः। तथाहि “नक्षत्रेण युक्तः कालः” पा० सूत्रे नक्षत्रपदस्य चन्द्राधिष्ठिततत्समीस्थनक्षत्रपरत्वमन्यथाराशिचक्रान्तर्गततत्तन्नक्षत्राणां कालभेदेनोदयात्तद्योगस्य प्रतिदिनं सत्त्वेन नक्षत्रयोगमात्रस्याव्यावर्त्तकत्वम्। तस्य च “लुबविशेषे” पा० लुप् लुप्ताऽणा प्रत्ययेन च चन्द्राधिष्ठितकृत्तिकादिनक्षत्रयुक्तस्य तत्समीपस्थरोहिण्यादियुक्तस्य च कालस्य बोधनम् न तु गुरुभुज्यमाननक्षत्रयुक्तकालस्य बोधनम्। स च कालः यत्रास्ति अर्श० अचि कार्त्तिकादेर्वर्षस्य बोधः। रघु मते तु कार्त्तिकशब्दे १९४९ पृ० दर्शितजयादित्यव्याख्यानुसारेण “सास्मिन् पौर्णमासीति संज्ञायामिति” पा० सूत्रे अस्मिन्निति पदस्यार्द्धमासमासवर्षपरत्वेऽपि वर्षपरत्वपक्षे अनेकपूर्णिमाणां वर्षघटकत्वेन तद्योगेन सज्ञाविशेषानाधायकत्वेन योगार्थाभावात् केवलरूढत्वं पारिभाषिकत्वं वाश्रित्य गुरुभुज्यमाननक्षत्रे गुरोरस्तोदयवशात् तन्नामोक्तिरिति मतभेदः। उभयमतेऽपि उदयशब्दस्य सूर्य्यसान्निध्यविशेषोत्तरमुदयपरता न तु प्रत्यहं कालभेदेन जायमानोदयगिरिसम्बन्धमात्रपरता तस्य सदातनत्वेनाविशेषात्। तत्राप्ययं विशेषः यद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षमिति रङ्गनाथोक्तिः अमायामस्तोदययोरेव बोध्या। अमायां हि सूर्यचन्द्रयोरेकराशिस्थत्वेन गुरोरपि तत्रस्थितत्वेनास्तत्वात्। पूर्णिमायान्तु नैतत्सम्भवः तदा चन्द्रस्य सूर्य्यात् सप्तमराशिस्थत्वेन गुरोश्चन्द्राधिष्ठितनक्षत्रस्थत्वेऽस्तत्वासम्भवात्। अत्र पूर्णिमायां गुरोरस्तोदययोश्चन्द्राधिष्ठितनक्षत्रं विनाऽपि सम्भवात् तत्र जीवभुज्यमाननक्षत्रनाम्नैव वर्षसंज्ञा तदभिप्रायेणैव “ज्येष्ठामूलोपगे जीवे” इति वक्ष्यमाणवचनं द्रष्टव्यम् नक्षत्रेण सहोदयमित्यस्य “तक्षत्रेण गुरुभुजामाननक्षत्रेणेति” रघु० व्याख्या च बोध्या। रङ्गनाथमते तु नक्षत्रेण चन्द्राक्रान्तनक्षत्रेण सह चन्द्रार्काभ्यां सममित्येव व्याख्या अमायाञ्च तयोरेकराशिस्थत्वात् धथोक्तिः अस्मिन् पक्षे च सह शब्दस्य सार्थक्यं रघु० मते तु सहशब्दवैयर्थ्यां बोध्यम्। वस्तुतः चान्द्रमाससंज्ञाभेदे चन्द्राक्रान्तनक्षत्रस्य प्रयोजकत्ववत् गुरुवर्षसंज्ञाभेदे गुरुभुज्यमाननक्षत्रस्यैव प्रयोजकत्वं युक्तमन्यवर्षसंज्ञाभेदेऽन्याक्रान्तनक्षत्रस्य प्रयोजकत्वानौचित्यात्। अत्रेदं बोध्यम् “द्वासप्ततिर्महत्यस्ते इत्युक्तेः” ७२ द्वासप्ततिसावनदिनैर्वार्द्धक्यास्तत्ववाल्यसम्भवेन वार्द्धक्यवाल्यकालपरित्यागेन अस्तकालस्य त्रिपक्षात्मकत्वेनामायामस्तत्वे पूर्णिमायामुदयः पूर्णिमायामस्तत्वेऽमायामुदयः। अमाया अपि द्वादशभागात्मकम्बेन सूर्य्याक्रान्तांशात् “एकादशामरेज्यस्य” सू० सि० उक्तैकादशांशातिक्रमे गुरोरुदयसम्भवः। रङ्गनाथेन “सोहताग्रन्थेऽस्तोदयसम्बन्धात् वर्षोक्तिः परन्त्विदानीमुदयादवर्षव्यवहारो गणकैर्गण्यते इत्युक्तत्वात् गुरोरुदयवशादेव तद्वर्षगणना कार्य्या। अतएव “अस्तोदयात्तथा” सू० सि० वाक्यस्य अस्तोत्तरं सूर्य्यसान्निध्यविशेषाधीनास्तकालादुत्तरम् उदय इति व्याख्या अतएवैकवचनप्रयोगः अतएव च वृ० स० “नक्षत्रेण सहोदयमुपगच्छति येनेति” उदयमात्रस्य वर्षनामप्रयोजकतोक्तिः। तत्र “नक्षत्रेण सहोदयमस्तं वा येन यातीति रघुनन्दनधृतपाठश्छन्दाभङ्गदोषादनादेयः। अत्रेदं बोध्यं ग्रहगतन्यूनाधिकसम्भावनया ततोऽर्वाक् पश्चाद्वा उदयः सम्भाव्यते इत्यतोऽमेत्युपलक्षणमित्युक्तम्। चन्द्राधिष्ठितनक्षत्रद्योतनायैव सू० सि० “वैशाखादिषुकृष्णे च योगे पञ्चदशे तिथावित्युक्तं “सा वैशाखस्यामावास्या था रोहिण्या संबध्यते” इत्युक्तेः प्रायेण तस्या रोहिणीसम्बन्धः सम्भाव्यते रोहिणीसम्बन्धे च वर्षस्य कार्त्तिकत्वं रोहिण्याश्चन्द्राधिष्ठितकृत्तिकासमीपस्थत्वात् अतएव नक्षत्रद्वयसम्बन्धेन कात्तिकत्वादित्वकथनम्। तथा चायमर्थः। ३। ४। नक्षत्रयोः कार्त्तिकम्। ५। ६। मार्गशीर्षम्। ७। ८। पौषम्। ९। १०। माघम्। ११। १२। १३। फाल्गुनम्। १४। १५। चैत्रम्। १६। १७। वैशाखम्। १८। १९। ज्यैष्ठम्। २०। २१। आषाढम् २२। २३। श्रावणम्। २४। २५। २६। भाद्रम्। २७। १। २। नक्षत्रेषु आश्विनं वर्षम्। एवं द्वादश वर्षाणि भवन्ति। तेन चन्द्राधिष्ठितशब्दस्य तदाक्रान्ततत्समीपर्क्षपरत्वम् “नक्षत्रेण युक्तः कालः” पा० नक्षत्रशब्दस्य तादृशार्थकत्वेन तत्प्रत्ययार्थरूपयोगेन तदर्थत्वौचित्यात् अतः कार्त्तिकवर्षस्य रोहिणीनक्षत्रसम्बन्धेऽपि सम्भवः। अतएव “ज्यैष्ठे संवत्सरे चैव ज्यैष्ठमासस्य पूर्णिमः” इति “ज्येष्ठा मूलोपगे जीवे वर्षं स्यात् शक्रदैवतम्” इत्युक्तिर्द्रष्टव्या। एवं कार्त्तिकादिगुरुवर्षनिमित्तेऽवधारिते इतलिदानीं चिन्त्यते यथा चान्द्रमासस्य तत्तन्नक्षत्रयुक्तपौर्णमासीयुक्तत्वेऽपि तद्घटितत्वेन शुक्लप्रतिपदादिदर्शान्तस्य “साऽस्मिन् पौर्णमासीति संज्ञायाम्” पा० इत्यण्प्रत्ययान्तार्थतया ग्राह्यता तथा “वैशाखादिष्वित्यादिना गुरोरस्तोदयसम्बन्धात् गुरुवर्षत्वेऽपि तस्य कतम आद्यन्तकाल इति सन्देहे अविशेषात् चान्द्रवर्षस्य सौरवर्षस्य वा आद्यन्तकाल एव तस्याद्यन्तकाल इति केचित्। तन्न नक्षत्रसम्बन्धेन चान्द्रमासस्य ग्रहणे “साऽस्मिन् पौर्णमासीति” पा० विहिताणा तत्तन्नक्षत्रयुक्तपौर्णमासीघटितकालस्य बोधनात् तदादित्वौचित्यात्। गुरुवर्षग्रहणे तु तथाभूतपौर्णमासीमात्रस्याप्रयोजकत्वात् न चान्द्रादिवर्षादित्वकल्पनं किन्तु गुरोर्मध्यगत्या राशिभोगारम्भान्तकाल एव कार्त्तिकादिगुरुवर्षाद्यन्तकालः वक्ष्यमाणबचनजातेभ्यः। रङ्ग० ना० मते तदादीत्युक्तेः सावनादिवत् गुरोरस्तोदयादिकालाद्यन्तकाल एव आश्विनादेर्गुरुवर्षतया तदाद्यन्तकालो युक्त इतरस्यासन्निहितत्वात् इति भेदः। तच्च वर्षं तदीयोदयादियुक्ततदीयमध्यमराशिभोगावच्छिन्नकालः, अव्दशब्दे २७१ पृष्ठे दर्शितायाः “वृहस्पतेरस्त उदये वा जाते सति तदादि वृहस्पतिवर्षमिति” सूर्य्यसिद्धान्तटीकायां रङ्गनाथेन तदादीत्युक्तेः तदादिर्वेति भेदः। तन्मते मध्यमराशिपदं च राशिचक्रान्तर्गतत्रिशांशपरं तेन यतमांशे उदयः पुनः राश्यन्तरे ततमेऽंशे उदयकालपर्य्यन्तः राशिशब्दार्थः। अन्यमते तु राशिपदं मेषादिराशिपरं तेन तदीयराशिभोगारम्भकालावधि तदवसानपर्य्यन्त एवाश्विनादिवर्षाणामाद्यन्तकालः। इदमेव ज्यायः “वृहस्पतेर्मध्यमराशिभोगात् संवत्सरं सांहितिका वदन्ति” सि० शि० उक्तेः “कल्पादितो मध्यमजीवभुक्ता ये राशयः षष्टिहृतावशेषाः। संवत्सरास्ते विजयाश्विनाद्या इतीज्यमाने किल संहितोक्तमिति” तत्रत्यपाटान्तरात् “कल्पाव्दभक्ता गुरुराशयो ये संवत्सराः स्युर्विजयादयस्ते। बभाषिरे सांहितिका हि पूर्वे वर्षाणि तस्याश्विनपूर्वकाणि” श्रीपतिसमुच्चयोक्तेश्च। तेन मध्यमराशिभोगकालस्य गुरोरस्तोदयादाश्विनादिवर्षसंज्ञा। तथा च गुरोरेकैकमध्यमराशिभोगकालावच्छिन्नं गुरवर्षमिति स्थिते यस्मिन् वर्षे गुरोरुदयास्तकाले अश्विन्यादियोगस्तस्य वर्षस्याश्विनादिसंज्ञा एवं गुरुवर्षस्यैव चान्द्रवर्षसौरवर्षयोरप्रवेशद्विप्रवेशाभ्यां तदीयाधिमासलुप्तवर्षोत्कीर्त्तनञ्च सङ्गच्छते यथाह मुहूर्त्तकल्पद्रुमे “चेत् स्पष्टया वाप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे। गुरुर्न यायादधिवत्सरोऽधिमासेन तुल्यः स शुभेषु वर्ज्यः”। यशोधरतन्त्रे “एकस्मिन् रविवर्षे गौरववर्षद्वयावसानं चेत्। त्र्यव्दस्पृगेनमेवं विलुप्तसंवसरं प्राहुः”। ज्योतिर्विदाभरणे “गुरुसंक्रमयुग्मवत्समा गदिता सा ननु लुप्तसंज्ञिता। न बुधैर्गदिता शुभेहिताऽधिसमा गीष्यति संक्रमोज्झिता”। अतः सौरचान्द्रवर्षातिरिक्त एव आश्विनादिगुरुवर्षः गुरोः उदयकालावधिः पुनरुदयकालपर्यन्तः, तदीयेकैकभध्यमराशिभोगकालावच्छिन्नो वा स्वीकार्यः इति तदादित्वमेव तस्येत्येवमवसीयते। एवञ्च महाज्यैष्ठ्यादियोगेऽपि तदाद्यन्त एव ज्यैष्ठोग्राह्यः।

कार्त्तिकादिगुरुवर्षफलं तद्वर्षेणैव विष्ण्वादिद्वादशवर्षरूपयुगानि प्रत्येकतदन्तर्गतसंवत्सरादिवर्षपञ्चकस्य विशेष संज्ञा इत्येवं षष्टिवर्षास्तत्फलञ्च वृ० सं० उक्तं यथा “शकटानलोपजीवकगोपीडाव्याधिशस्त्रकोपश्च। वृद्धिस्तु रक्तपीतककुसुमानां कार्त्तिके १ वर्षे। सौम्ये २ (मार्गे)ऽव्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यबधः। व्याधिभयं मित्रैरपि भूपानां जायते वैरम्। शुभकृज्जगतः पौषो ३ निवृत्तवैराः परस्परं क्षितिपाः। द्वित्रिगुणो धान्यार्धः पौष्टिककर्मप्रसिद्धिश्च। पितृपूजापरिवृद्ध्विर्माघे ४ महर्द्धिः सर्वभूतानाम्। आरोग्यवृष्टिधान्यार्धसम्पदो मित्रलाभश्च। फाल्गुनवर्षे ५ विद्यात् क्वचित् क्वचित् क्षेमवृद्धिसस्यानि। दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः। चैत्रे ६ मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः। वृद्धिस्तु कोशधान्यस्य भवति पीडा च रूपवताम्। वैशाखे ७ धर्मपरा विगतभयाः प्रमुदिताः प्रजाः सनृपाः। यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्वसस्यानाम्। ज्यैष्ठे ८ जातिकुलधनश्रेणीश्रंष्ठा नृपाः सधर्मज्ञाः। पीड्यन्ते धान्यानि च हित्वा कङ्गु शमीजातिम्। आषाढे ९ जायन्ते सस्यानि क्वचिदवृष्टिरन्यत्र। योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः। श्रावणवर्षे १० क्षेमं सम्यक् सस्यानि पाकमुपयान्ति। क्षुद्रा योपाषण्डाः पीड्यन्ते ये च तद्भक्ताः। भाद्रपदे ११ वल्लीजं निष्पत्तिं याति पूर्वसस्यं च। न भवत्यपरं सस्य क्वचित् सुभिक्षं कचिच्च भयम्। आश्वयुजे १२ऽव्देऽजस्रं पतति जलं प्रसुदिताः प्रजाः क्षेमम्। प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम्। उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम्। याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी। विचरन् भद्वयमिष्टस्तत्सार्धं वत्सरेण मध्यफलः। सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित्। अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे। हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रमयम्। धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपबधो दिवा दृष्टे। विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः। रोहिण्योऽनलभं ३ च वत्सरतनुर्नाभिस्त्वषाढाद्वयं सार्पं ९ हृत् पितृदैवतं १० च कुसुमं शुद्धैः शुभं तैः फलम्। देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतम्, पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम्। गतानि वर्षाणि शकेन्द्रकालाद्धतानि रुद्रै ११ र्गुणयेच्चतुर्भिः। नवाष्टपञ्चाष्टयुतानि कृत्वा विभाजयेच्छून्यशरागरामैः ३७५०। फलेन युक्तं शकभूपकालं संशोध्य षष्ट्या विषयै ५ र्विभज्य। युगानि नारायणपूर्वकाणि लब्धानि शेषाः क्रमशः समाः स्युः। एकैकमब्देषु नवाहतेषु दत्त्वा पृथग्द्वादशकं क्रमेण। हृत्वा चतुर्भिर्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम्। विष्णुः १ सुरेज्यो २ वलभिद् ३ हुताश ४ स्त्वष्टो ५ त्तरप्रोष्ठपदाधिपश्च ६। क्रमाद्युगेशाः पितृ ७ विश्व ८ सोमाः ९ शक्रऽनलाख्या १०ऽश्वि ११ भगाः १२ प्रदिष्टाः। संवत्सरोऽग्निः परि० त्सरोऽर्क इदादिकः शीतमयूखमाली। प्रजापतिश्चाप्यनुवत्सरः स्या दुद्वत्सरः शैलसुतापतिश्च। वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये। पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममव्दमुक्तम्। चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रजीवानलदैवतानि। चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विद्यात्। आद्यं धनिष्ठांशमभिप्रपन्नो माघेयदा यात्युदयं सुरेज्यः। षष्ट्यव्दपूर्वः प्रभवः स नाम्ना प्रवर्त्तते भूतहितस्तदाव्दः। क्वचित्त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः। संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि। तस्माद्द्वितीयो विभवः २ प्रदिष्टः शुक्ल ३ स्तृतीयः परतः प्रमोदः ४। प्रजापतिश्चेति ५ यथोत्तराणि शस्तानि वर्षाणि फलानि चैषाम्। निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम्। संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम्। आद्योऽङ्गिराः १ श्रीमुख २ मान- साह्वौ ३ युवाथ ४ धातेति ५ युगे द्वितीये। वर्षाणि पञ्चैव यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे। त्रिष्वङ्गिराद्येषु निकामवर्षी देवो निरातङ्कभयाश्च लोकाः। अव्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश्च। शाक्रे युगे पूर्वमथेश्वराख्यं १ वर्षं द्वितीयं बहुधान्य २ माहुः। प्रमाथिनं ३ विक्रम ४ मप्यतोऽन्यद्वृषं ५ च विद्याद्गुरुचारयोगात्। आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम्। पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च। श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं १ कथयन्ति वर्षम्। मध्यं द्वितीयं तु सुभानु २ संज्ञं रोगप्रदं मृत्युकरं न तच्च। तारणं ३ तदनु भूरिवारिदं सस्यवृद्धिमुदितं च पार्थिवम्। पञ्चमं व्ययमुशन्ति शोभनं ५ मन्मथप्रबलमुत्सवाकुलम् ४। त्वाष्ट्रे युगे सर्वजि १ दाद्य २ उक्तः संवत्सरोऽन्यः खलु सर्वधारी ३। तस्माद्विरोधी ३ विकृतः ४ खरश्च ५ शस्तो द्वितीयोऽत्र भयाय शेषाः। नन्दनो १ऽथ विजयो २ जय ३ स्तथा मन्मथो ४ऽस्य परतश्च दुर्मुखः ५। कान्तमन्त्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः। हेमलम्ब १ इति सप्तमे युगे स्याद्विलम्बि २ परतो विकारि ३ च। शर्वरीति ४ तदनु प्लवः ५ स्मृतो वत्सरो गुरुवशेन पञ्चमः। ईतिप्रायः प्रचुरपवनो वृष्टिरव्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये। अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः। वैश्वे युगे क्षोभकृ १ दित्यथाद्यः संवत्सरोऽतः शुभकृद् २ द्वितीयः। क्रोधी ३ तृतीयः परतः क्रमेण विश्वावसु ४ श्चेति पराभव ५ श्च। पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽव्दः। अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगोभयं च। आद्यः प्लवङ्गो १ नवमे युगे अव्दः स्यात्कीलको २ऽन्यः परतश्च सौम्यः ३। साधारणो ४ रोधकृ ५ दित्यथाव्दः शुभप्रदौ कीलकसौम्यसंज्ञौ। कष्टः प्लवङ्गो बहुशः प्रजानां साधारणेऽल्पं जलमीतयश्च। यः पञ्चमो रोधकृदित्यथाव्दश्चित्रं जलं तत्र च सस्यसम्पत्। इन्द्राग्निदैवं दशमं युगं यत् तत्राद्यमव्दं परिधावि १ संज्ञम्। प्रमाद्य २थानन्द ३ मतः परं यत् स्याद्राक्षसं ४ चानल ५ संज्ञितं च। परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः। अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पवीजनाशः। तत्परः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा। ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः। एकादशे पिङ्गल १ कालयुक्त २ सिद्धार्थ ३ रौद्राः ४ खलु दुर्मतिश्च ५। आद्ये तु वृष्टिर्महती सचौरा श्वासो हनूकम्पयुतश्च कासः। यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च। रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः। भाग्ये युगे दुन्द्वुभि १ संज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति। उद्गारि २ संज्ञं तदनु क्षयाय नरेश्वराणां, विषमा च वृष्टिः। रक्ताक्ष ३ मव्दं कथितं तृतीयं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च। क्रोधं ४ बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः। क्षयमिति ५ युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम्। उपचयकरं विट्शूद्राणां परस्वहृतां तथा कथितमखिलं षष्ट्यव्दे यत्तदत्र समासतः। अकलुषांशुजटिलः पृथुमूर्त्तिः कुमुदकुन्दकुसुमस्फटिकाभः। ग्रहहतो न यदि सत्पथवर्त्ती क्षतिकरोऽमरगुरुर्मनुजानाम्”। “वार्हस्पत्येन षष्ट्यव्दम्” सू० सि०।

गुरुवृत्ति = स्त्री गुरौ वृत्तिः। आचार्य्यादिगुरौ शिष्यैण कर्त्तव्ये आचारभेदे सा च मनुनोक्ता यथा

“नोदितोगुरुणा नित्यमप्रचोदित एव वा। कुर्य्यादध्ययने यत्नमाचार्य्यस्य हितेषु च। शरीरञ्चैब वाचं च बुद्धीन्द्रियमनांसि च। नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणी गुरोर्मुखम्। नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंयतः। आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः। हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ। उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत्। प्रतिश्रवणसम्भाषे शयानो न समाचरेत्। नासीनो न च मुञ्जानी न तिष्ठन्न पराङ्मुखः। आसीनस्य स्थितः कुर्य्यादभिगच्छंस्तु तिष्ठतः। प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः। पराङ्मुखस्याभिमुखीदूरस्थस्येत्य चान्तिकम्। प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः। नीचं शय्यासनञ्चास्य सर्वदा गुरुसन्निधौ। गुरोस्तु चक्षुर्विषये न यथेष्टासनोभवेत्। नोदाहरेदस्य नाम परोक्षमपि केवलम् (अश्रीपूर्वम्)। न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम्। गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते। कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः। परीवादात् खरोभवति श्वा वै भवति निन्दकः। परिभीक्ता कृमिर्भवति कीटो भवति मत्सरी। दूरस्थो नार्च्चयेदेनं न क्नुद्धं नान्तिके स्त्रियाः। यानासने न चैवैनमवरुह्याभिवादयेत्। प्रतिवातेऽनुवाते च नासीत गुरुणा सह। असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत्। गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च। नासीत गुरुणा सार्द्धं शिलाफलकनौषु च। गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्। न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत्। विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु। प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि।”

तान्त्रिकगुरौ वृत्तिभेदः तन्त्रसारे उक्तो यथा “गुरौ सन्निहिते यस्तु पूजयेदग्रतो न तम्। स दुर्गतिमवा प्नोति पूजा च विफला भवेत्” क्रियासारे। “एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम्। क्रीशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत्। अर्द्ध योजनतः शिष्यः प्रणमेत् पञ्चपर्वसु। एकयोजनमारभ्य योजनद्वादशावधि। दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः। तत्र योजनसंख्योक्तमानेन प्रणमेद्गुरुम्”। ज्ञानार्णवे “गुरौ मनुष्यबुद्धिन्तु मन्त्रे चाक्षरभावनाम्। प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत्। जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः। गुरुर्विशेषतः पूज्यो धर्म्माधर्मप्रदर्शकः। गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः। शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन। गुरोर्हितं प्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः। अहिताचरणाद्देवि! विष्ठायां जायते कृमिः। मन्त्रत्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता। गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत्। गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम्। स याति नरकं घोरं पूजा च विफला भवेत्। एकत्र गुरुणा सार्द्धं गच्छेद्वोपविशेत्तु यः। स याति नरकं घोरं यावदिन्द्राश्चतुर्दश। गुरुवाक्यं हतं कृत्वा आत्मवाक्यं तु योजयेत्। गुरूक्तं लङ्घयेद्यस्तु पतेत् स नरकाय वै”। श्रीक्रमे “उत्पादकव्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता। तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम्। गुरुवद्गुरुपुत्रेषु गुरुवत्तत्सुतादिषु। अविद्यो वा सविद्यो वा गुरुरेव च दैवतम्। अमार्गस्थोऽपि मार्गस्थो गुरुरेव सदा गतिः। आयान्तमग्रतो गच्छेद् गच्छन्तं तमनुब्रजेत्। आसने शयने वापि न तिष्ठेदग्रतो गुरोः। अनुज्ञां प्राप्य तिष्ठेच्च नैवं पापमवाप्नुयात्”। क्रियासारे “गुरुर्माता पिता स्वामी बान्धवः सुहृदः शिवः। इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम्”

गुरुशिंशपा = स्त्री नित्यकर्म्म०। शिंशपाभेदे शब्दार्थचि०।

गुरुसारा = स्त्री गुरुः गुरुत्ववान् सारी यस्याः। (शिशु) १ शिंशपायाम्। शब्दार्थचि०। २ महासारे वन्तुमात्रेत्रि०

गुरुस्कन्ध = पु० गुरुः स्कन्धोऽस्य। १ श्रेष्ठपर्वतभेदे। “गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा। एते पर्वतराजानः” भा० आश्व० ४३ अ०। २ श्लष्मातकवृक्षे शब्दार्थचि०।

गुरुहन् = पु० गुरुं गुरुपाकं हन्ति हन–क्विप्। १ दुर्जरघ्ने गौरसर्षपे हेमच० २ गुरुहन्तरि त्रि०।

गुरूत्तम = त्रि० गुरूषु गुरूणां वा उत्तमः। १ पूज्यतमे २ परमेश्वरे पु०। “तस्मै पूर्वगुरूत्तमाय जगतामीशाय पित्रे नमः” आत्म० वि०। अत्र “न निर्द्धारणे” पा० षष्ठीसमासनिषेधात् सप्तमीतत्पुरुष इति बहवः। कैयटस्तु “यस्मान्निर्द्धार्य्यते यश्च निर्द्धार्प्यते यश्च निर्द्धारणहेतुरेतत्त्रितयसन्निधाने सत्येवायं निषेधः इति “द्विवचने विभज्योपपदे” पा० सूत्रे भाष्यकार आह स्म। पुरुषोत्तम इत्यादौ त्रितयसन्निधानाभावात् न निर्द्धारणविभक्तिः किन्तु सम्बन्धसामान्ये षष्ठीति तया समासः। अतएव “हलादिः शेषः” पा० सूत्रे “हलामादिरिति षष्ठीसमास” इत्युक्तं भाष्ये इत्युवाच “न निर्द्धारणे इति” सूत्रवृत्तौ नॄणां द्विजः श्रेष्ठः इत्युदाहरता च कौमुदीकारेण त्रितयसन्निधान एव समासाभावः सूचितः। यत्तु गदाधरेण एतदनालोच्य, षष्ठीसप्तमीसमासयोः स्वरकृतवैलक्षण्यञ्चानालोच्य “न निर्द्धारणे” इत्यस्य षष्ठीसमासप्रकरणञ्चानवेक्ष्य निर्द्धारणषष्ठ्या समासनिषेधे तदर्थकसप्तमीसमासोऽपि निषिद्धः अन्यथा प्रयोगसाम्यात् सूत्रवैयर्थ्यमतो गुरूत्तम इत्यत्र पञ्चमीतत्पुरुषोऽङ्गीकृतः, तत्तु साहलमात्रम् तथा हि “पञ्चमी विभक्ते” पा० सूत्रे निर्द्धार्य्यमाणस्य भेद एव पञ्चमीविधानात् तयोः सामान्यधर्माक्रान्तत्वाभावे एव तस्याः प्रवृत्तेः। यथा माथुराः पाटलिपुत्रेभ्य आढ्यतभाः अत्र पाटलिपुत्रस्थलोकानां माथुराणां च केनापि रूपेण सामान्यधर्मत्वाभावेन उभयोर्भेद एव इति तत्र पञ्चमीप्रवृत्तिः। गुरूत्तम इत्यादौ तु ईशस्यान्यगुरुनिष्ठगुरुत्वरूपसामान्यधर्म्माक्रान्तत्वात्तदप्रवृत्तेर्न पञ्चमीसमासः

“अक्षरादपि चोत्तमः” (गीता) इत्यादौ तु अक्षराच्चेतनवर्गात् तमपेक्ष्येति व्याख्या न्यायमते जीवेश्वरयोर्भेदेऽपि चेतनत्वसामान्यधर्म्माक्रान्तत्वेन तयोर्भेदाभावात् न पञ्चमीप्रसक्तिः। वेदान्तिमते अक्षरशब्दस्य मायापरत्वात् ईशमाययोर्भेदसम्भवात् पञ्चमीप्रसक्तिसम्भावनायामपि तया पञ्चम्या न समासप्रसक्तिः पञ्चमीतत्पुरुषस्य वक्ष्यमाणसूत्रभ्यो विषयविशेषनियतत्वेनात्र तदप्रसक्तेः। अक्षरशब्दस्य मायापरत्वञ्च गीताव्याख्यायां मधुसूदनेन दर्शितं यथा

“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” गीता। “द्वौ इमौ पृथग्राशीभूतौ पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ लोके संसारे, कौ तावित्याह क्षरश्चाक्षर एव च। क्षरतीति क्षरो विनाशी कार्य्यराशिरेकश्च पुरुषः, न क्षरतीत्यक्षरो विनाशरहितः। क्षरस्य पुरुषस्योत्पत्तिवीजं भगवतो मायाशक्तिर्द्वितीयः पुरुषः। तौ पुरुषौ, व्याचष्टे स्वयमेव भगवान्, क्षरः सर्वाणि भूतानि समस्तं कार्य्यजातमित्यर्थः कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरं तेनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः भगवन्मायाशक्तिरूपः कारणोपाधिः संसारवीजत्वेनानन्त्यादक्षर उच्यते। केचित्तु क्षरशब्देनाचेतनवर्गमुक्त्वा कूटस्थो क्षर उच्यत इत्यनेन जीवमाहुः तन्न सम्यक्, क्षत्रज्ञ स्यैवेह पुरुषोतमत्वेन प्रतिपाद्यत्वात् तस्मात् क्षराक्षरशब्दाभ्यां कार्य्यकारणोपाधी उभावपि जडावेवोच्येते इत्येव युक्तम्। आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधिद्वयदोषेणोऽस्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः “उत्तमः पुरुषस्त्वन्यः परमात्म्येत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः” (गीता)। उत्तम उत्कृष्टतमः पुरुषस्त्वन्यः अन्य एव अत्यन्तविलक्षण आभ्यां जडराशिभ्याम्, उभयभासकस्तृतीयश्चेतनराशिरित्यर्थः। परमात्म्येत्युदाहृतः अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमः प्रकृष्टोऽकल्पितः “ब्रह्म पुच्छं प्रतिष्ठा” इत्त्युक्त आत्म्म च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मेत्युक्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूभुवःस्वराख्यं सर्वं जगदिति यावत् आविश्य स्वकीयया मायया शक्त्याधिष्ठाय बिभर्त्ति सत्तास्फूर्त्तिप्रदानेन धारयति पोषयति च कीदृशः अव्ययः सर्वविकारशून्यः ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्युदाहृत इत्यन्वयः”। अतः “यस्मात् क्षरमतीतोऽक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” गीतावाक्ये अक्षरादितिल्यब्लोपे पञ्चमी मध्यपदलोपः अक्षरमतीत्य उत्तम इत्यर्थः। पुरुषोत्तम इत्यत्र पुरुषपदार्थानां पुरुषोपाधिद्वयतद्विलक्षणसुख्यपुरुषाणां मध्ये उत्तम इत्यर्थः द्वाविमावितिक्षराक्षरपुरुषयोः “उत्तमः पुरुष स्त्वन्य” इति त्रयाणामेव पूर्वं प्रक्रान्तत्वात्तेषां मध्ये एव परमात्मन उत्तमत्वेन निर्द्धार्य्यमाणत्वात् अतो न तत्रापि पञ्चमीसमासः। तथाहि “पञ्चमी भयेन” पा० “अपतापोढमुक्तपतितापत्रस्तैरल्पशः” “स्तोकान्तिकदूरार्थकृच्छ्रणि क्तेन” पा० सूत्रैः पञ्चमीतत्पुरुषस्य विधानात् तन्मध्ये च एतत्पञ्चम्याः पाठाभावात् नात्र पञ्चमीतत्पुरुषः किन्तु सप्तमीसमासः षष्ठोसमासो वेत्येवेति ज्यायः।

***