गुटिका = स्त्री वट्येव स्वार्थे क पृषो०। वटिकायाम् वर्त्तुलाकारे पदार्थे। “समुद्रे गुटिकापातः” ज्यो०। “गुटिकापातादिना व्यञ्जनं वा विभागः” दायभागः। “निर्द्धौतहारगुटिकाविशदं हिमाम्भः” रघुः। कबभावे ङीप् गुटीत्यपि तत्रार्थे।
गुटिकाञ्जन = न० “गैरिकं सैन्धवं कृष्णां नागरञ्च यथोत्तरम्। द्विगुणं पिष्टमद्भिस्तुगुटिकाञ्जनमिष्यते” सुश्रुतोक्ते १ अञ्जनभेदे। गुटिका वटिका तथाभूतमञ्जनमित्यर्थः। “अञ्जनं क्रियते येन तद्द्रव्यमञ्जनं मतम्। रसो वटी तथा चूर्णमिति त्रिविधमञ्जनम्” भावप्र०। सुश्रुतेऽपि “वटिकारसचूर्ण्णानि त्रिविधान्यञ्जनानि च”।
गुठ = वेष्टने चुरा० उभ० इदित् सक० सेट्। गुण्ठयति–ते अजुगुण्ठत्–त। गुण्ठितः गुण्ठनम्। “प्रतिपद्य पदा सूनुर्धरणीरेणुगुण्ठितः” भा० आ० ७४ अ०। “अग्निहोत्रं त्रयोवेदास्त्रिदण्डं भस्मगुण्ठनम्। बुद्धिपौरुषहोनानां जीविकेति वृहस्पतिः” सर्वद०। अव + समन्तात्वेष्टने। “रजनीतिमिरावगुण्ठिते पुरमार्गे” कुमा०।
गुड = वेष्टने रक्षणे चूर्णने च चुरा० उभ० इदित सक० सेट्। गुण्डयति–ते अजुगुण्डत्–त। गुण्डः गुण्डिता। गुण्डनं गुण्डा।
गुड = रक्षणे व्याषात च तुदा० कटा० पर० सक० सेट्। गुडति। अगुडोत। जुगोड।
गुड = पु० गु–ड कित्। १ इक्षुविकारे इक्षुशब्दे ९०९ पृ० विवृतिः। “ऐक्षवं गुडवर्जितम्” ति० त०। गुडेन निर्वृत्तादि गुड + अश्मा० र। गुडर गुडनिर्वृत्ते त्रि०। गुडायसाधु गुडा० ठञ्। गौडिक गुडसाधने इक्षौ। भक्ष्येण मिश्रणे स० गुडधाना गुडौदन गुडमिश्रितधानादौ। “सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः” वैद्यकम्। २ गोले वर्त्तुलाकारपदार्थे “प्रादुरासन् महीपाल! कार्ष्णायसमया गुडाः” भा० द्रो० २०० अ० ३ हस्तिसन्नाहे मेदि०। ४ ग्रासे हेमच०। ५ कार्पास्यां स्त्री राजनि०। ६ स्नुहीवृक्षे स्त्री गुडाप्रायाः केशा यस्य। गुडाकेशः अर्ज्जुनः। उज्ज्वलद०।
गुडक = त्रि० गुडेन पक्वः वा० कन्। १ गुडपक्वे औषधादौ गुड + स्वार्थे क। २ गोलाकारे पदार्थे। “सभुगुण्ड्यश्मगुडकाः” भा० ब० १५ अ०। अश्मगुडकाः वर्तुलीकृताः फाषाणाः” नील०। “नीतौ च तद्युक्तात्” पा० परम्परया अनुकम्पायाम् कन्। अनुकल्प्यपुत्रादौ दीयमाने ३ गुडद्रव्ये च। हन्त ते धानकाः गुडका एहकि” सि० कौ०।
गुडकरी = स्त्री रागिणीभेदे हलायु०।
गुडकुष्माण्डक = न० चक्रदत्तोक्ते औषधभेदे यथा।
“कुष्माण्डस्य पलशतं सुखिन्नं निष्फुलीकृतम्। प्रस्थं वृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत्। त्वक्पत्रधन्याकव्योषजीरकैलाद्वयानलम्। ग्रन्थिकं चव्यमानङ्गपिप्पलीविश्वभेषजम्। शृङ्गाटकं कशेरुञ्च प्रलम्बं तालमन्तकम्। चूर्णीकृतं पलांशञ्च गुडस्य च तुलां पकेत्। शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत्। कफपित्तानिलहरं मन्दाग्नीनाञ्च शस्यते। कृशानां वृंहणं श्रेष्टं वाजीकरणमुत्तमम्। प्रमदासु प्रसक्तान ये च स्युः क्षीणरेतसः। क्षयेण च गृहीतानां परमेतद् भिषग् जितम्। कासं श्वासं ज्वरं हिक्कां हन्ति छर्दिमरोचम्। गुडकुष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम्। खण्डकुष्माण्डवत् पात्रं स्विन्नकुष्माण्डकद्रवः।”
गुडची = स्त्री गुडेन चीयते ची–ड गौ० ङीष्। गुडूच्याभ् भरतः
गुडतृण = न० गुडसाधनं तत्प्रधानं वा तृणम् शा० त०। १ इक्षौ राजनि० पृषो०। गुडत्रिणमप्यत्र शब्दरत्ना०।
गुडत्वच् = स्त्री गुड इव मधुरा त्वग् यस्याः। (दारचिनि) ख्याते पदार्थे शब्दरत्न। “त्वक् स्वाद्वी तु गुडत्वक् स्यात् तथा दारुसिता मता। उक्ता दारुसित स्वाद्वी तिक्ता चानिलपित्तहृत्। सुरभिः शुक्रदा वर्ण्ण्या मुखशोषतृषापहा” भाबप्र०।
गुडत्वचा = स्त्री गुड इव मषुरा त्वचा यस्याः। १ गुडत्वचि (दारचिनि) ख्याते पदार्थे २ राजभोग्ये (जयत्री) न० शब्दच०।
गुडदारु = न० गुडप्रधानं दारु शाक० त०। इक्षौ त्रिका०।
गुडधेनु = स्त्री दानार्थं नुडनिर्भिते धेनुभेदे। तद्विधिश्च हेमा० दा० यथा “प्रथमा गुडनेनुः स्यात् घृतघेनुस्तथाऽपरा। तिलधेनुस्तृतीया तु चतुर्थी जलसंज्ञिता। क्षीरधेनुश्च विख्याता मधुधेनुस्तथाऽपरा। सप्तमी शर्कराधेनुर्दधिधेनुस्तथाऽष्टमी। रसधेनुर्नवमी स्वाद्दशमी स्यात् स्वरूपतः” इत्युपक्रमे “एतासां तु विधानञ्च समाचक्ष्व जगत्पते!। किंरूपं केन मन्त्रेण दातव्या तदिहोच्यताम्। मत्स्य उवाच। गुडधेनुविधनास्य यद्रूपमिह यत्फलम्। तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्। कृष्णाजिनं चतुर्हस्तं प्रागग्रीवं विन्यमेद्भुवि। गोमयेनोपलिप्तायां दर्भानास्तीर्य्य सर्वतः। लघ्वेणकाजिनन्तद्वद्वत्सस्य परिकल्पयेत्। प्राङ्मुखीं स्थापयेद्धेनुमुदक्पादां सवत्सकाम्”। एणकाजिनं कृष्णाजिनं प्राङ्मुखीं प्राक्शिरसमित्यर्थः। “तदुत्तरेण वत्सोऽपि तथैव परिकल्पनीयः। “उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयम्। वत्सम्भारेण कुर्वीते भाराभ्यां मध्यमा स्मृता। अर्द्धभारेण वत्सः! स्यात् निजवित्तानुसारतः”। निजवित्तानुसारत इति इयमुत्तममध्यमादिकल्पना निजवित्तानुसारतः कर्त्तव्येत्यर्थः। “धेनुवत्सौ घृतास्यौ तौ सितसूक्ष्माम्बरावृतौ। शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ। सितसूत्रसिरालौ तौ सितकम्बलकम्बलौ। ताम्रकद्रूकपृष्ठौ तौ सितचामररोमकौ”। कद्रूकं ककुत्प्रदेशः। “विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ। क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ। सुवर्णशृङ्गाभरणौ राजतक्षुरसंयुतौ। नानाफलमयैर्दन्तैर्घ्राणगन्धकरण्डकौ”। अत्र च सारतः परिमाणतश्च फलविशेष इति यथाशक्ति सुबर्णशृङ्गादित्वमवधेयम्। “इत्येवं रचयित्वा तु धूपदीपैरथार्च्चयेत्”। “विधानमेतद्धेनूनां सर्वासामिह पठ्यते”। सर्वासाम्प्रत्यक्षधेनुव्यतिरक्तानामित्यवगन्तव्यम्। तथा “एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः। मन्त्राघाहनसंयुक्ताः सदा पर्यणिपर्वणि। यथाश्रद्धं प्रदातव्या भुक्तिसुक्तिफलप्रदाः। अशेषयज्ञफलदाः सर्वपापहराः शुभाः। अयने विषुवे पुस्थे व्यतीपातेऽथ वा पुनः। गुडधेन्वादयो देया उपरागादिपर्वसु” मत्सपु०। अत्र घृतादिधेनुद्रव्यपरिमाणमपि गुडधेनूक्तमेव। “विधानमेतद्धेनूनां सर्वासामपि पठ्यते इत्यतिदेशात् “कुम्भाः, स्युर्द्रवधेनूनामितरासान्तु राशय्नः” इति तु भारचतुष्टयादिपरिमितस्य द्रवद्रव्यस्य कुम्भाधारतयावस्थापनम्” हेमाद्रिदानखण्डम्। अन्यत् क्षीरधेनुशब्दे २३७३ पृ० दर्शितरीत्या कार्य्यम्” “धेनुवत्सौ तदा तौ तु सितसूक्ष्माम्बरावृतौ। शक्तिकर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ। सितसूत्रसिरासौ तु सितकम्बलकम्बलौ। ताम्रककुदपृष्ठौ तु सितचामररोमकौ। विद्रुमभ्रूयुगयुतौ नवनीतस्तनान्वितौ। क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ। इत्येवं रचयित्वा तु धूपदीपैः समर्च्चयेत्” पद्मपु०।
गुडपाक = पु० ६ त०। गुडस्य पाके वैद्यकोक्ते औषधपाकभेदे तत्पाकप्रकारः चक्रदत्तेनोक्तो यथा “तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः। क्षिप्तश्च निश्चलस्तिष्ठेम् परितस्तु न शीर्य्यते। यदा दर्वीविलेपः स्याद्यावद्वा तन्तुलीभवेत्। एष पाको गुडादीनां सर्वेषां परिकीर्त्तितः”। “सुखनद्धःसुखस्पर्शो गुडः पाकमुपागतः। पीडितो भजते तन्तु गन्धवर्णरसान्वितम्”।
गुडपिप्पलीवृत = न० चक्रदत्तोक्ते औषधभेदे।
“सपिप्पलीगुडं सर्पिः पचेत् क्षीरचतुर्गुणे। विनिहन्त्यम्लपित्तञ्च शूलञ्च परिणामजम्”।
गुडपुष्प = पु० गुड इव मधुर पुष्पमस्य। मधुकवृक्षे (मौल) (महुया) अमरः।
गुडफल = पु० गुड इव मधुरं फलमस्य। पीलुवृक्षे अमरः।
गुडभल्लातक = पु० गुडेन पक्वः भल्लातकः। पाकविशेषेण गुडपक्वे भल्लातकादिरूपे औषधभेदे चक्र० तत्पाको यथा “भल्लातकसहस्रे द्वे जलद्रोर्णे विपाचयेत्। पादशेषे रसे तस्मिन् पचेद्गुडतुलां भिषक्। भल्लातकसहस्रार्द्धं छित्त्वा तत्रैव तापयेत्। सिद्धेऽस्मिंस्त्रिफलाव्योषयमानीमुस्तसैन्धवम्। कर्षांशसम्मित दद्यात् त्वगेलापत्रकेशरम्। खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः!। कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डताः। हन्यात् प्लीहोदरं कासक्रिमिरोगभगन्दरान्। गुङभल्लातकोह्येष श्रेष्ठश्चार्शोविकारिणाम्”। प्रकान्तरं यथा “दशमूल्यमृता भार्गी श्वदंष्ट्रा चित्रकं शटी। भल्लातकसहस्रञ्च पलाशं क्वाथवेद् बुधः। पादशेषे जलद्रोणे रसे तस्निन् विपाचयेत्। दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत्। माक्षिकं पिप्पलीतैलं मारुवकञ्च दापयेत्। कुडवं कुडवञ्चात्र त्वगेलामरिचन्तथा। अर्शःकासमुदावर्त्तं पाण्डुत्वं शोथमेव च। नाशयेद्वह्निसादञ्च गुडभल्लातकः स्मृतः”।
गुडभा = स्त्री गुड इव भाति भा–क। यावनालशर्करायाम्। राजनि०
गुडमूल = पु० गुड इव मधुरं मूलमस्य। क्षुद्रमारिषशाके (कन्कानटे। शब्दच०।
गुडल = न० गुडं कारणतया लाति ला–क। १ गौड्यां मदिरायां शब्दच०। २ गुडोत्पन्ने त्रि०।
गुडवीज = पु० गुड इव मधुरं वीजमस्य। १ मसूरे राजनि०।
गुडशर्करा = स्त्री गुडजाता शर्करा। गुडजातशर्करायाम् त्रिका०।
गुडशिग्रु = पु० गुड इव मधुरः शिग्रुः। रक्तशोभाञ्जने शब्दच०
गुडा = स्त्री गु–ड किच्च। १ स्नुहीवृक्षे २ वटिकायां गुटिकायां मेदि०। ३ उशीर्य्यां राजनि०।
गुडाका = स्त्री गुडि वेष्टने बा० आकन् उपघालोपश्च। १ आलस्ये २ निद्रायाञ्च।
गुडाकेश = पु० गुडा स्नुहीव केशा अस्य उज्ज्व० गुडाकाया निद्राया आलस्यस्य वा ईशः। २ गुडावत्केशयुक्ते अर्जुने। “गुडाकेशः अर्ज्जुनः” उज्वल०। २ जितालस्ये “एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः” गीता। “गुडाकेशो जितालस्यः” मघुसूदनः ३ शिवे जटा०।
गुडाचल = पु० दानार्थं कल्पिते गुडनिर्मिते मेरुरूपे पर्वते “प्रथमो धान्यशैलः स्यात् द्वितीयो लवणाचलः। गुडाचलस्तृतीयस्तु” पद्मपु० दश मेरूक्तौ। गुडपर्वतादयोऽप्यत्र। तद्विधिः हेमा० दा० ब्रह्मपु०।
“पुलस्त्य उवाच। “अथात संप्रवक्ष्यामि गुडपर्वतमुत्तमम्। यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितम्। उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः। त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पवित्तवान्”। भारः, परिभाषाय व्याख्यातः। “तद्वदामन्त्रणं पूजाहैमवृक्षसुरार्चनम्। विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः। होमं जागरणं तद्वल्लोकपालाधिवासनम्। धान्यपर्वतवत् कुर्य्यातृमं मन्त्रमुदीरयेत्। यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः। सामवेदस्तु वेदानां महादेवस्तु योगिनाम्। गुणवः सर्वमन्त्राणां नारीणां पार्वती यथा। तथा रसानां प्रवरः सदैवेक्षुरसो मतः। मम तस्मात् परां लक्ष्मीं ददस्व गुडपर्वत!। यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत!। निवासश्चापि पार्वत्यास्तस्मान्मां पाहि सर्वदा। अनेन विधिना यस्तु दद्यात् गुडमयं गिरिम्। पूज्यमानः स गन्धर्वैर्गौरीलोके महीयते। पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्। आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः” इति पद्मपुराणोक्तो गुडपर्वत दानविधिः। “श्रीभगवानुवाच। अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम्। सर्वपापहरं पुण्यं सौभाग्यजननं परम्। पुष्टिदं शान्तिदञ्चैव सुखदं दिव्यभोगदम्। भारैस्तं दशभिः कुर्य्याद्यथाशक्त्यापि वा भवेत्। पूर्ववत् मण्डपं कृत्वा सर्वोपकरणानि च”। पूर्ववदिति, ब्रह्माण्डपुराणोक्तधान्यपर्वतवदित्यर्थः। लोकपालसमोपेतं तथा काञ्चनशृङ्गिणम्। मुक्ताफलविचित्राङ्गं वस्त्रालङ्कृतविग्रहम्। प्रबालकलतोपेतं इक्षुखण्डोपवेणुकम्। नितम्बं राजतन्तस्य मेखलाकारसंस्कृतम्। कुर्य्यात्ताम्रमयं स्कन्धं नानाधातुविभूषितम्। कृत्वा तमीदृशं शैलं सर्वधान्यसमावृतम्। सर्वौषधिसमोपेत सशृङ्गं समहाद्रुमम्। कल्पयित्वा विधानेन सवितानं विचक्षणैः। कुण्डमेक ततः कृत्वा चतुःकोणं स्वलङ्कृतम्। नियोज्यास्तत्र विद्वांसो व्राह्मणाः शंसितव्रताः। पञ्चमो गुरुरत्रोक्तस्तान् सर्वान् पूजयेत्ततः। पूजितास्ते यथान्यायं होमं कुर्य्युरतन्द्रिताः। लोकपालान् ग्रहांश्चैव व्रह्मादींश्च विधानतः। स्वलिङ्गोक्तेश्च मन्त्रैश्च होमयेयुर्द्विजोत्तमाः। महाव्याहृतिभिश्चैव अयुतं तत्र होमयेत्। आचार्य्यः सह विप्रैस्तैर्मौनेन सुसम हितः। ब्रह्मघोषरतस्तस्मिन् कारयित्वा महोत्सवम्। एवं विधिं तदा कृत्वा पूर्वेद्युः श्रद्धयान्वितः। दद्यात्तं माघमासस्य तृतीयायां विशेषतः। चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत्। अन्येष्वपि च कालेषु ग्रहणादिषु कारयेत्। त्वं रसानां वरो नित्यं देवानाञ्च सदा प्रियः। सुखं प्रयच्छ मे नित्यं नमस्ते पर्वतोत्तम!। यावद्भूः सागरा नद्यो याच्चन्द्रार्कतारकाः। तावन्मे त्वं सुखं यच्छ सौभाग्यमतुलं तथा। एवं संपूजयित्वा तं ब्राह्मणानां निवेदयेत्। आचार्य्यं पूजयेतपाश्चाद्दीनान्थकृपणानपि। विसृज्य ब्राह्मणास्तांस्त कृत्वा चैव प्रदक्षिणम्। तस्मिन् दिने च भोक्तव्य मधुर क्षारवर्ज्जितम्। अनग्नालेपनञ्चैव कृतकृत्यो भद्धरः। तस्मादेवमिदं दानं फलमुत्तममिच्छता। गतिञ्च शास्वर्त लोके सौभाग्यं रूपमेव च। अनेन विधिना चैव दातव्यो गुडपर्वतः। विंशद्भारस्तु कर्तव्यः शेषं पूर्वदाचरेत्। दानमेतत् प्रशस्तं स्यात् स्त्रीणां राजन् विशेषतः। सौभाग्यराज्यकामस्य “सर्वस्यापि विधीयते। पूर्वोक्तञ्च फलं प्राप्य कृतकृत्यो हि जायते” इति ब्रह्माण्डपुराणोक्तो गुडपर्वतदानविधिः”।
गुडादि = पु० पा० गण० उक्ते साध्वर्थे ठञ्निमित्ते शब्दगणे स च गण “गुड कुल्माष सक्तु अपूप मांसौदन इक्षु वेणु संग्राम सङ्घात संक्राम संवाह प्रवास निवास उपवास” “गुडादिभ्यष्यञ्” पा० गुडाय साधु गोडिक इक्षुः।
गुडापूप = पु० गुडेन मिश्रितः अपूपः। गुडमिश्रिते पिष्टके “तदस्मिन्नन्नं प्रायेण संज्ञायाम्” पा० कन् टाप्। गुडापूपका पौर्णमास्यां सि० कौ०।
गुडाशय = पु० गुड इव मधुररसआशेतेऽस्मित् आ + शी आधारे अच् ६ त०। आंखोटवृक्षे (आस्वरोट) राजनि०।
गुडुगुडायन = न० “रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः। संनिरुद्धः करोत्याशु ध्वानं गुडुगुडायनम्” सुश्रुतोक्ते श्लेष्मरुद्धवायुजनिते शब्दभेदे।
गुडु(डू)ची = स्त्री गुड–रक्षणे बा० उ (ऊ) चट् ङीप्। स्वनामख्यातायां लतायाम्। तस्या उत्पत्तिगुणादिकं भावप्र० उक्तं यथा
“हते तस्मित् सुरारातौ रावणे बलगर्विते। देवराजः सहस्राक्षः परितुष्टोऽति राघवे। तत्र ये वानराः केचिद्राक्षसैर्निहिता रणे। तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः। ततो येषु प्रदेशेषु कपिगात्रात् परिच्युताः। पीयूंषविन्दवः पेतुस्तेभ्यो जाता गुडूचिका। गुडूची मधुपर्णी स्यादमृताऽमृतबल्लरी। छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च। जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली। चक्रलक्षणिका धीरा विशल्या च रसायनी। चन्द्रहासी वयस्था च मण्डली देवनिर्मिता। गुडूची कटुका तिक्ता स्वादुपाका रसायनी। संग्राहिणी कषायोष्णा लघ्वी बल्याऽग्निदीपनी। दोषत्रयामवृड्दाहमेहकासांश्च पाण्डुताम्। कामलाकुष्ठवातास्रज्वरक्रिमिवमीन् हरेत्। प्रमेहश्वासकासोर्शःकृच्छ्रहृद्रोग्वातनुत्।” तत्कल्कगुणाः
“अमृतायाः कृतं चूर्णं वाससा परिशोधितम्। पृथक् षोडश भागा स्युर्गुडमाक्षिकसर्पिषाम्। यथाग्नि भक्षवेदेतन्नरो हितमिताशनः। नास्य कश्चित्भवेद्ध्याधिर्न जरा पलित न च। न ज्वरा विषमा नैव मेहोनानिलरक्तकम्। न च नेत्रगता रोगाः परमेतद्रसायनम्। मेधाकरं त्रिदोषघ्नं प्रयोगा दस्य बुद्धिमान्। जीवेद्वर्षशतं साग्रं यथैवादितिजा स्तथेति”। तत् पत्रगुणाः
“गुडूचीपत्रमाग्नेयं सर्वज्वरहरं लघु। कषायं कटुतिक्तञ्च स्वादुपाकं रसायनम्। बल्यमुष्णञ्च सङ्ग्राहि हन्याद् दोषत्रयं तृषाम्। दाहप्रमेहवातास्रकामलाकुष्ठपाण्डुताः”। “गुडूची कटुका लघ्वो स्वादुपाका रसायनी। संग्राहिणी कषायाष्णा बल्या तिक्ताग्निदोपिनी। कामला कुष्ठवातास्रज्वरपित्तक्रिमीन् जयेत्। घृतेन वातं सहसाविवन्धं पित्तं सिताढ्या मधुना कफञ्च। वातास्रमेरण्डक तैलमिश्रा शुण्ठ्यामवातं शमयेद्गुडूची” वैद्यकम्।
गुडूच्यादि = पु० “गुडूची निम्बधन्याकं पद्मकं चन्दनानि च। एष सर्वज्वरान् हन्ति गुडुच्यादिस्तु दीपनः। हृल्लासारोचकच्छर्द्दिपिपासादाहनाशनः” इति चक्रद० त्तोक्ते गुडूच्यादिद्रव्यगणे। “आरग्बधादिगुर्डूण्यादिरित्यादिना सुश्रुतेऽसौ तिक्तवर्गे उक्तः तिक्तशब्दे विवृतिः।
गुडूच्यादिकषाय = पु० “गुडुच्यतिविषाधान्यशुण्ठीविल्वाब्दबालकैः। पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः। कषायः शोतलः पेयो ज्वरातीसारशान्तये। हृल्लासारोचकच्छर्द्दिपिपासादाहनाशनः” चक्रदत्तोक्ते पाचनभेदे।
गुडूच्यादिघृत = न० “गुडुच्याः क्लाथकल्काभ्यां त्रिफलाया वृषस्य च। मृद्विकाया बलायाश्च सिद्ध्वाः स्नेहा ज्वरार्त्तिहाः” चक्रदत्तोक्ते घृतभेदे।
गुडूच्यादितैल = न० “गुडूचीक्वाथदुग्धाभ्यां तैलं लाक्षारसेन च। सिद्धमभ्वककाश्मर्य्यरसैर्वा वातरक्तनुत् “चक्रदत्तोक्ते तैलभेदे।
गुडेर = पु० गुडि–एरक् नलोपश्च। १ गुडके (गुली) वर्त्तुलाकारे पदार्थे उज्ज्वल० २ ग्रासे हेमच०। स्वार्थे क। तत्रार्थे।
गुडोद्भवा = स्त्री उद्भवत्यस्मात् उद् + भू–अपादाने अप् गुड उद्भवोऽस्याः। १ शर्करायाम् राजनि०। २ गुडजातमात्रे त्रि०
गुण = आमन्त्रणे आम्रेडने आवृत्ता इत्येकं अद० चु० उभ० सक० सेट्। गुणयति–ते अजुगुणत्–त। “गुण्यान्त्यमङ्कं गुणकेन हन्यात्”। “विषमे गच्छे व्येके गुणकः स्थाप्यः समेऽर्द्धिते वर्गः” “गुण्यः पृथग्वा गुणितसमेतः” लीला०। “वर्गेण वर्गं गुणयेत् भजेच्च” वीजग०
गुण = पु० गुण–भावे कर्त्तरि वा अच्। १ धनुषोमौर्व्याम् धनुराकर्षणदामनि, २ रज्जुमात्रे, “गुणवन्तीऽपि सीदन्ति न गणग्राहको यदि। सगुणीऽपि पूणकुम्भो यथा कूपे निभज्जति” उद्भटः। ३ शौर्य्यादिधर्मे, राज्ञां ४ सन्धिविग्रहादिषु षट्सु साधनेषु, “षड्गुणाः शक्तयान्तिस्रः” अमर। “षाड्गुण्यनुपयुञ्जते” इति मावः। ५ ज्ञानविद्यादिषु, “गुणा गुणानुबन्धिचादिति” रघुः। सांख्यतते पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्वरजस्तमआदिषु ६ पदार्थेषु। “प्रकृतेर्गुणसमूढाः सज्जन्ते गुणकर्मसु” गीता। ७ अप्रधाने, “षष्ठीं कुर्य्यात्तदा गुणे” भर्त्तृहरिः। तद्म णसंविज्ञानबहुयोहिः। न्यायमते ८ रूपादिषु चतुर्विंशतिपार्थेषु “सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः” भाव्योक्ते द्रव्यसात्राश्रिते द्रव्यभिन्ने उत्पाद्यानुपाद्यतासमानाधिंकरणे सिद्धरूपे ९ वस्तुधर्मे, “अदेङ्गुणः” पा० परिभाषिते १० अकारे ११ एकारे १२ ओकारे च “दुषधातोरिवास्माकं दोषसम्पत्तये गुणः” उद्भटः। अलङ्कारोक्तेषु १३ माधुर्य्यादिषु, “तददोषौ शब्दार्थौ सगुणावनल ङ्कृतो पुनः क्वापि” काव्यप०। “निर्दोषं गुणवत् काव्यमलङ्कारैरलङ्कृतम्” सा० द०। १४ आवृत्तौ, “विधियज्ञाज्जपयज्ञो विशिष्टो दशमिर्गुणेः” मनुः। १५ उत्कर्षे,। १६ विशेषणे “समासतद्धितकृतां यत्किञ्चिदुपदर्शकम्। प्रधानगुणभावे च तत्र दृष्टो विपर्ष्ययः” साकाङ्क्षापयवं भेदे, परानाकाङ्क्षशब्दकम्। क्रियाप्रधानमेकार्थं सगुणं वाक्यमुच्यते” हरिः। सगुणं सविशेषणं क्रियान्वयिकरणादिविशेषणसहितमित्यर्थः। १७ अप्रधानधर्मभेदे तेजोबलवीर्य्यैश्वर्यवैराग्यादिशक्त्यादौसं हि पराश्रितत्वादप्रधानभूतः “उपैत्यन्यज्जहात्यन्यत् दृष्टोद्रव्यान्तएष्वपि। वाचकः सर्वलिङ्गानां द्रव्यादन्योगुणः स्मृतः” इत्युक्तलक्षणे १८ धर्मभेदे च देशकालज्ञतादिषु चतुर्दसु १९ धर्मभेदेषु ते च “देशकालज्ञता १ दार्द्यं २ सर्वक्लेशसहिष्णुता ३। सर्वविज्ञानता ४ दाक्ष्य ५ मोजः ६ संवृतमन्त्रता ७। अविसंवादिता ८ शौर्य ९ शक्तिज्ञत्वं १० कृतज्ञता ११। शरणागतवात्सल्य १२ ममर्षित्व १३ मचापलम् १४। एते चतुर्दशगुणाः प्रोक्ताः शास्त्रेषु सूरिभिः” इत्युक्ताः। “दया सर्वभूतेषु १, क्षान्तिः २ अनसूया ३ शौचम् ४ अनायासः ५ मङ्गलम् ६ अकार्पण्यम् ७ अस्पृहा ८ इति”। २० गौतमोक्तधर्मभेदे। २१ सूदे २२ इन्द्रिये २३ त्यागे २४ वट्याम् मेदि०। दोषान्यधर्मे २५ विद्यादौ मुमुक्षासाधने २६ विवेकवैराग्यसुश्रूषादौ च। “प्रक्षीणदोषाय गुणान्विताय” वेदान्तसा०। प्रधाननिर्वाहके २७ अङ्गे। “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्” जैमि०। तिथिनक्षत्रवारादिसाधनं पुण्यपापयोः प्रधानगुणभावेन सातन्त्र्येण न ते क्षमाः” “शब्दात्तु तदुवस्थानमुपादेये गुणो भवेत्” भट्टका०। २८ सादृस्यादिवस्तुधर्म च। “लक्ष्यमाणगुणैर्योगात् वृत्तोरष्टा तु गौणता” काव्यप्र०। २९ वस्तुधर्ममात्रे “गुणः प्रधानसंस्कारः प्रधानं प्रतिपद्यते” काव्यप०। “सतो गुणान्तराधनं प्रतियत्नः” सि० कौ०। “गन्धं स्पर्शोरसो रूपं शब्दश्चेति गुणाः स्मृताः। तस्य गन्धस्य वक्ष्यामि विस्तरामिहितान् गुणान्” भा शा० १८४ अ०। गन्धरूपगुणस्य “गुणादिर्निर्गुणक्रिय” इत्युक्तेः प्रसिद्धगुणशून्यत्वात् धर्ममात्रपरता “निर्गुणं निष्क्रियं शान्तं निरवद्यं निरञ्जनत्वं इत्यादिश्रुतौ गुणशब्दस्य धर्ममात्रपरत्वम्। “ब्रह्मत् ब्रह्मण्यनिर्दिश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः” माग० १०। ८७ अ०। ३० दूर्वायाम् स्त्री राजनि० तस्या बहुतन्तुमत्त्वात्तथावर्ण्णोत्पत्त्यनन्तरभाविषु शिक्षोक्तेषु ३१ विवारादिषु बाह्यप्रयत्नेषुपु० “वर्णाभिव्यक्त्यनन्तरभाविनस्तु आन्तरतम्यपरीक्षोपयुक्ताः कण्ठविवरविकाशादेरास्यबहिर्भागावच्छिन्नस्य कार्य्यस्य जनका यत्ना गुणशब्देनोच्यत्ते” शब्देन्दुशेखरः। बाह्यप्रयत्नाश्च एकादशघा विवारसवारश्वासतादघोषाघोषाल्पप्राणमहाप्राणाः उदात्तादयश्च त्रयःस्वराः। “स्थानेऽन्तरतमः” पा०। “तुल्यास्यप्रयत्नं सवर्णमिति” पा०। “सादृश्यञ्च स्थानतो वर्णतः गुणतः प्रमाणतश्च” तत्र गुणतः (बाह्यप्रयत्नात्) यथा। नादवतो घोषवतो महाप्राणस्य संवृतकण्ठस्थस्य हकारस्य सदृशस्तादृश एव थकारः”। सुश्रुतोक्ते ३२ अष्टविधवीर्य्ये च। “केचिदाहुरष्टविधं वीर्य्यम् उष्णं शीतं स्निग्धं रूक्षं विशदं पिच्छितं मृदु तीक्ष्णञ्च” सुश्रुते विभज्य “वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः” इति तेषां गुणत्वमुक्तम्। गुण–कर्मणि अच्। ३३ गुणिते। “आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा। षड्गुणोव्यवसायश्च कामश्चाष्टगुणः स्मृतः चाण०। वैद्यकोक्तद्रव्यगुणाश्चभावप्र० गुणग्रन्थे दृश्यास्तच्छवदे व ते प्रायेण उक्ता वक्ष्यन्ते च ३४ भीमसेने हेम० ३५ त्रित्वसंख्यायाञ्च सत्वे निविशते इत्यस्यायमर्थः। सत्वं द्रव्यम्। सत्व एव निविशते इति सावधारणम्। तेन स त्ता व्यावर्त्त्यते। सत्ता हि न केवलं द्रव्ये वर्त्तते किन्तु द्रव्यगुणकर्मसु। ननु द्रव्य एव द्रव्यत्वं वर्त्तते इति तत्रातिव्याप्तिरतआह अपैतीति असम्बन्धो भवतीत्यर्थः अर्थात् द्रव्ये यथा पीततायां जातायां फलादेर्नीलतापैति नैवं द्रव्यत्वं द्रव्यादपैति। एवमपि गोत्वं गोषु वर्त्तते अश्वादावसम्बद्धम् तत्रातिव्याप्तिरतआह पृथग्जातिषु दृश्यत इति। गोत्रं हि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते गुणस्तु दृश्यते यथा अभ्रे नीलता दृष्टा तृणादिष्वपि सा दृश्यते। तेन पूर्व्वार्द्धेन सकलजातेर्व्यवच्छेदः। एवं तर्हि कर्म द्रव्ये वर्त्तते ततोऽपैति, पृथग् जातिषु दृश्यते चेति तत्रातिव्याप्तिरतआह आधेयश्चाक्रियाजश्चेति। उत्पाद्यानुत्पाद्यतासमानाधिकरणजातिमान् इत्यर्थः। तत्रोत्पाद्यो यथा घटादेः पाकजो रूपादिः। अक्रियाजः अनुत्पाद्यो यथा आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाप्युत्पाद्यैव न क्वापि नित्येति तस्या नित्यत्वसामानाधिकरण्याभावात् गुणत्वामावः। एवमपि द्रव्यस्य गुणत्वापत्तिः अवयविद्रव्यं हि अवयवद्रव्येषु निविशते, असमवायिकारणसंयोगनिवृत्तौ च स्वयं विनाशात्ततोऽपैति भिन्नजातीयेषु च हस्तपादादिषु दृश्यते। तच्च द्विविधं भवति नित्यानित्यभेदेन निरवयवस्यात्मपरमाण्वादेर्नित्यत्वादवयविद्रव्यस्य तु घटादेरनित्त्यत्वादतआह असत्वप्रकृतिरिति। अद्रव्यस्बभावः द्रव्यभिन्न इति यावत्। वैशेषिकमतप्रसिद्धगुणभेदलक्षणादिकं कणादसूत्रवृत्त्योरुक्तं यथा “रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथकत्वं सयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः” १। ७ सू०। “गुणत्येन रूपेण गुणानां सर्वद्रव्याश्रितत्वं द्रव्याभिव्यङ्ग्यत्वं द्रव्याभिव्यञ्जकत्वञ्चेति द्रव्यानन्तरं गुणानामुद्देशं विभागञ्चाह रूपेत्यादि चकारेण गुरुत्वद्रवत्वस्नेहसंस्कारधर्म्माधर्मशब्दान् समुच्चिनोति ते हि प्रसिद्धगुणभावा एवेति कण्ठतो नोक्ताः। गुणत्वञ्चामीषां यथास्थानं लक्षणतः स्वरूपतश्च वक्ष्यति तत्र रूपरसगन्धस्पर्शानां समानकालीन रूपरसगन्धस्पर्शसामानाधिकरण्यं नास्तीति सूचनार्थं समासः। सङ्ख्यापरिमाणयोस्तु समानकालीनसङ्ख्य परिमाणसामानाधिकरण्यसूचनायासमासो बहुवचननिर्देशश्च यद्यप्येकत्वसमाधिकरणं नैकत्वान्तरं न वा महत्त्वदीर्घत्वसमानाधिकरणं महत्त्वदीर्घत्वान्तरं तथापि द्वित्वादीनामन्योऽन्यं सामानाधिकरण्यं महत्त्वदीर्घत्वादी नाञ्च विजातीयपरिमाणयोः सामानाधिकरण्यमस्त्येव। पृथक्त्वञ्च यद्यपि द्विपृथक्त्वादिसमानाधिकरणं, तेन सङ्ख्यावद्बहुत्वेनैव निर्द्देष्टुमर्हति तथाप्यवधिव्यङ्ग्यत्वलक्षणं सङ्ख्यातो वैधर्म्यं सूचयितुमेकवचननिर्द्देशः। संयोगविभागयोर्द्वयोरप्येककर्मजन्यत्वसूचनाय द्विवचनं, परत्वापरत्वयोरन्योन्याश्रयनिरूप्यतया दिक्काललिङ्गत्वविशेषसूचनाय च द्विवचनं, बुद्धीनां विद्यादिभेदेन साङ्ख्याभिमतैकमात्रबुद्धिनिराकरणसूचनाय बहुवचनं, सुखदुःखयोर्द्वयोरपि भोगत्वावच्छेद्यैककार्य्यजनकत्वम् अविशेषेण चादृष्टोन्नायकत्वं सुखस्यापि दुःखत्वेन भावनञ्च ख्यापयितुं द्विवचनम्। इच्छाद्वेषयोर्द्वयोरपि प्रवृत्तिं प्रति कारणत्वसूचनाय द्विवचनं प्रयत्नानां विहितनिषिद्धगोचराणां दशविधानां पुण्यहेतुत्वं, दशविधानाञ्च पापहेतुत्वमभिसन्धाय बहुवचनमित्युन्नेयम्। यद्वा रूपरसगन्धस्पर्शानां मौतिकेन्द्रियव्यवस्थाहेतुत्वज्ञापनार्थं पाकजप्रक्रियाव्यवस्थापनार्थं वा ते समस्योक्ताः सङ्ख्यायां द्वित्वबहुत्वादौ विप्रतिपत्तिरिति तन्निराकरणसूचनार्थं बहुत्वेनाभिधानं पृथक्त्वे तु सङ्ख्याबहुत्वेनैवास्यापि बहुत्वमिति सूचनायावधिज्ञानव्यञ्जनीयत्वं सङ्ख्यातो वैधर्म्म्यमिति सूचनाय च पृथगभिधानम्। परिमाणे तु दीर्घत्वह्रस्वत्वादिविप्रतिपत्तिनिरासाय बहुवचनम्। संयोग विभागयोरन्योन्यविरोधज्ञापनाय द्विवचनं, परत्वापरत्वयोर्दैशिककालिकभेदेन भिन्नजातीत्वसम्भवेन चतुष्ट्वापत्तौ गुणविभागो न्यूनः स्यात् इति तत्रापि द्विवचनमित्याद्युन्नेयम्” उप० वृत्तिः। “द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्” १। ८ सू० “द्रव्यमाश्रयितुं शीलमस्येति द्रव्याश्रयी एतच्च द्रव्येऽपि गतमत आह अगुणवानिति तथापि कर्मण्यतिव्याप्तिरित्यत आह संयोगविभागेष्वकारणं तथापि संयोगविभागधर्माधर्मेश्वरज्ञानादीनामसङ्ग्रहःस्यादत उक्तमनपेक्ष इति अत्रानपेक्ष इत्यनन्तरं गुण इति पूरणीयं संयोगविभागेष्वनपेक्षः सन् कांरणं यो न भवति स गुण इत्यर्थः। संयोगविभागादीनां संयोगविभागौ प्रति सापेक्षत्वात् नित्यवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वं संयोगविभागौ मिलितौ प्रति समवायिकारणत्वासमवायिकारणत्वरहिते सामान्यवति यत् कारणत्वं तद्गुणत्वाभिव्यञ्जकं, संयोगविभागयोः प्रत्येकमेव संयोगविभागकारणकत्वं न मिलितयोः, धर्माधर्मेश्वरज्ञानादोनां द्वयोर्निमित्तकारणत्वमात्रं न समवायिकारणत्वं नाप्यसमवायिकारणत्वमिति तेषां संग्रहः, यद्वा संयोगविभागसमवायित्वासमवायिकारणत्वशून्यत्वं सामान्यसमानाधिकरणं गुणत्वव्यञ्जकं सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्वमेव वा गुणलक्षणम्।।” उप० वृत्तिः “नित्यवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वं समवायिकारणावृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं वा असमवायिकारणवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं वा कार्य्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं वा” तत्रेवीक्तम्। कर्म्मत्वजातेः सत्तासाक्षाद्व्याप्यत्वेऽपि नित्यवृत्तित्वाभावात् द्रव्यत्वजातेस्तथात्वेऽपि नित्यवृत्ति नित्यवृत्तित्वाभावान्नातिव्याप्तिः गुणत्वजातेस्तु नित्येष्वात्मादिषु वर्त्तमाने नित्ये महत्त्वादौ सत्त्वात् तामादाय लक्षणसमन्वयः। व्याप्तिश्च भेदगर्भा बोध्या। तेन सत्ताव्याप्यत्वस्य स्वस्मिन्नपि सत्त्वेन तामादाय न द्रव्य कर्मणोरतिव्याप्तिः। “तेषां मूर्त्तामूर्त्तगुणत्वादिभेदः भाषायामुक्तो यथा।
“रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम्। द्रवो गुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अमी। धर्म्माधर्म्मौ भावना च शब्दो बुद्ध्यादयोऽपि च। एतेऽमूर्त्तगुणाः सर्वे विद्वद्भिः परिकीर्त्तिताः। संख्यादिश्च विभागान्त उभयेषां गुणी मतः। संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा। द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः। अतः शेषा गुणाः सर्व्वे मता एकैकवृत्तयः। बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः। अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः। संख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा। गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्त्तिताः। संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च। एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः। बाह्यैकैकेन्द्रियग्राह्या, गुरुत्वादृष्टभावनाः। अतीन्द्रिया, विभूनान्तु ये स्युर्वैशेषिका गुणाः। अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः। अपाकजास्तु स्पर्शान्ता द्रवत्वञ्च तथःविधम्। स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम्। स्थितिस्थापक इत्येते स्युःकारणगुणोद्भवाः। सयोगश्च विभागश्च वेगश्चैते तु कर्म्मजाः। स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके। भवेदसमवायित्व, मथ वैशेषिके गुणे। आत्मनः स्यान्निमित्तत्व, मुष्णस्पर्शगुरुत्वयोः। वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा। द्विधैव कारणत्वं, स्यादथ प्रादेशिको भवेत्। वैशेषिको विभुगुणः संयोगादिद्वयं तथा”। एते च गुणाः द्रव्यभिन्ना गन्धशब्दे २५२४ पृ० दर्शिते उपस्करवृत्तिवाक्ये स्पष्टमुक्ताः। तद्भिन्ना अपि ते द्रव्याधीना इति वैशेषिकादय आहुः। वैदान्तिकादयस्तु द्रव्याभिन्ना एव गुणा इति मन्यन्ते यथाह शा० भा० “वैशेषिकास्तन्त्रार्थभूतान् षट् पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान् भिन्नलक्षणानभ्युपगच्छन्ति यथा मनुष्योऽश्वः शश इति। तथात्वमभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति। तन्नोपपद्यते कथं यथाहि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नैवेतरेतराधीनत्वं भवति एवं द्रव्यादीनामप्यत्यन्तभिन्नानां नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति। अथ च भवति द्रव्याधीनत्वं गुणादीनाम्। ततो द्रव्यभावे भावात् द्रव्याभावे चाभावात् द्रव्यमेव सेस्थानादिभेदादनेकशब्दप्रत्ययभाग् भवति। यथा देवदत्त एकएव सन्नबस्थान्तरयोगादनेकशब्दप्रत्ययभाग् भवति तद्वत् तथासति साङ्ख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम्। नन्व्यग्नेरन्यस्यापि सतीधूमस्याग्न्यधीनत्वं दृश्यते, सत्यं दृश्यते भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते इह तु शुक्लःकम्बलोरोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति।” इतःपरं भाष्यम् अयुतसिद्धशब्दे ३४५ पृ० दर्शितम्। तत्र च द्रव्याभिन्नत्वं गुणादीनामुक्तम्। सां० प्रव० भा० समवायनिराकरणेणैव गुणादीनां द्रव्याभिन्नत्वमुक्तं यथा
“कादाचित्कविभागे सत्येव सम्बन्धः सिध्यति अन्यथा वक्ष्यमाणरीत्या स्वरूपेणैवोपपत्तौ सम्बन्धकल्पनानवकाशात्। स च कादाचित्को विभागो न सम्बन्धनित्यत्वे सम्भवति। अतः सम्बन्धग्राहकप्रमाणे- नैव बाधान्न नित्यः सम्बन्धः। नन्वेवं नित्ययोर्गुणगुणिनोर्नित्यः समवायो नोपपद्येत तत्राह” सा० भा० “न समवायोऽस्ति प्रमाणाभावात्” सा० सू०।” ननु वैशिष्ट्यप्रत्यक्षं विशिष्टबुद्ध्यन्यथानुपपत्तिश्च प्रमाणं तत्राह” भा०। “उभयत्राप्यन्यथासिद्धेर्नप्रत्यक्षमनुमानं वा” सू०। “उभयत्रापि वैशिष्ट्यप्रत्यक्षे तदनुमाने च स्वरूपेणैवान्यथासिद्धेर्न तदुभयं समवाये प्रमाणमित्यर्थः। अयं भावः। यथा समवायवैशिष्ट्यबुद्धिः तत्स्वरूपेणैवेष्यतेऽनवस्थामयादिति तत्र प्रत्यक्षानुमाने अन्यथासिद्धे। एवं गुणगुणिप्रभृतीनां विशिष्टबुद्धिरपि गुणादिस्वरूपेणैवेष्यताम्। अतस्तत्रापि प्रत्यक्षानुमाने अन्यथासिद्धे इति। नन्वेवं संयोगोऽपि न सिद्ध्यति भूतलादौ घटादिप्रत्ययस्यापि स्वरूपेणैवान्यथासिद्धेरिति चेन्न वियोगकालेऽपि भूतलघटयोः स्वरूपतादवस्थ्येन विशिष्टबुद्धिप्रसङ्गात्। समवायस्थले च समवेतस्य कदापि स्वाश्रयवियोगी नास्तीति नायं दोषः। कश्चित् तु तादात्म्यसम्बन्धेनात्र समवायस्यान्यथासिद्धिमाह तन्न शब्दमात्रभेदात्। तादात्म्यं ह्यत्र नानन्यत्वं वक्तव्यम् गुणवियोगेऽपि गुणिसत्त्वात् वैशिष्ट्याप्रत्ययाच्च। किन्तु भेदाभेदबुद्धिनियामकः सम्बन्धविशेष एवागत्या वक्तव्यः। तथाच तस्य समवाय इति वा तादात्म्यमिति वा नाममात्रं भिन्नम् सम्बन्धिद्वयातिरिक्तः सम्बन्धस्तु सिद्ध एवेति। यदि च तादात्म्यं स्वरूपमेवोच्यते तदास्माभिरपि तदेवोक्तमिति शब्दमात्रभेद इति”। “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” इत्युक्तेः शुक्लादिशब्दानां शुक्लादयो गुणा शक्यताबच्छेदका भवन्ति शुक्लादयो हि सिद्धवस्तुधर्मा गवादिकं सजातीयेभ्यो व्यवच्छिन्दन्ति इति तेषां तत्पदप्रवृत्तिनिमित्तत्वम्। साङ्ख्यमते सत्वादयो गुणाद्रव्यात्मकाः सूक्ष्मभूतोपादानत्वात् तेषाञ्च पुरुषभोगसाधनत्वेनाङ्गत्वात् तथात्वं यथाह शा० प्र० भा०।
“सत्वादीनि द्रव्याणि न वैशेषिकादिमतसिद्धा गुणाः संयोगविभागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च। तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धनत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्रयुज्यते”। राज्ञां नीत्यङ्गानि सन्ध्यादयश्च षट् यथा “सन्धिविग्रहयानानि स्थानमासनमेव च। द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनामिति”। रसाङ्गगुणाश्च “ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत् कर्षहेतवस्ते स्युरचलस्थितयी गुणाः इत्युपक्रमे “श्लेषः १ प्रसादः २ समता ३ माधुर्य्यं ४ सुकुमारता ५। अर्थव्यक्ति ६ रुदारत्व ७ मोजः ८ कान्ति ९ समाधयः १०। इति वैदर्भीमार्गस्य प्राणा दश गुणाः स्मृताः” अन्यमतप्रसिद्धान् दश गुणानुक्त्वा तेषां त्रिष्वेवान्तर्भावात् गुणत्रैविध्यमाह स्म काव्यप० “माधुर्य्यौजः प्रसादाख्यास्त्रयस्ते न पुनर्दश। केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः। अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश”। काव्यप्र०।
गुणक = त्रि० गुणयति आबर्त्तयति गुण–ण्वुल्। गुणनकारके। “गुण्यान्त्यमङ्कं गुणकेन हन्यात्”। “विषमे गच्छे व्येके गुणकः स्थाप्यः समेऽर्द्धिते वर्गः” लीला०।
गुणकथन = न० ६ त०। १ गुणवर्णने “मम त्वेतां वाणीं गुण कथनपुण्येन भवतः” शिवस्तवः। २ कामकृते नायकदशाभेदे। “अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेगसंप्रलापाश्च। उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामकृता” सा० द०। रसमञ्जर्य्यान्तु गुणकथनभित्यत्र गुणकीर्त्तनमिति पठित्वा “विरहकालीनकान्ताविषयक प्रशंसाकथनं गुणकीर्त्तनमिति लक्षयित्वा “संस्पर्शः स्तनसंस्पर्शो वीक्षणम् रत्नवीक्षणम्। तस्याः केलिकलालापसमयः समयः सखे!” इत्युदाहृतं तेन गुणकीर्त्तनमप्यत्र।
गुणकर्मन् = न० कर्म्म०। १ अप्रधाने कर्म्मणि कर्म्मणोऽप्रधानत्वञ्च द्विकर्म्मकधात्वर्थघटकाप्रधानक्रियान्वितत्वम्। “कर्त्तृकर्म्मणोः कृति” पा० “गुणकर्म्मणि वेष्यते” वार्त्ति०। “नेताश्वस्य स्रुघ्नं स्नुघ्नस्य वा” अत्र गमनानुकूलव्यापारोनयत्यर्थस्तद्विशेषणीभूतगतौ स्रुघ्नस्यान्वितत्वेन गुणकर्म्मत्वम्। “गुणानां सत्वादिद्रव्यरूपाणाम् कर्म्म। सत्वादिद्रव्यरूपजन्ये २ कर्मभेदे च तानि च कर्माणि सा० का० उक्ताणि यथा।
“सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः। गुरु वरणकमेव तमः प्रदीपवच्चार्थतोवृत्तिः।” सत्वमेव लघु प्रकाशकमिष्टं सांख्याचार्य्यैः, तत्र कार्य्योद्गमने हेतुर्धर्म्मोलाघवं गौरवप्रतिद्वन्द्वि यतोऽग्नेरूर्द्ध्वज्वलनं भवति तदेव लाघवं कस्यचित्तिर्यग्ममने हेतुर्यथा वायोः। एवं करणानां वृत्तिपटुत्वहेतु- र्लाघवं गुरुत्वे हि मन्दानि स्युरिति सत्वस्य प्रकाशकत्वत्वमुक्तम्। सत्वतमसी स्वयमक्रियतया स्वस्वकार्य्यंप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्या व्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिदमुक्तमुपष्टम्भकं रजैति। कस्मादित्यत उक्तं चलमिति। तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम्। रजस्तु चलतया परितस्त्रैगुण्यं चालयद्गुरुणावृण्वता च तमसा यत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्तते इति ततस्ततो व्यावर्त्त्य तमोनियामकमुक्तं गुरु वरणकमेव तमैति। एवकारः प्रत्येकं गिन्नक्रमः सम्बध्यते सत्वमेव रजएव तमएव। ननु परस्परविरोधशीलागुणाः मुन्दो पसुन्दवत्परस्परं ध्वंसयन्ते इत्येव युक्तं प्रागेव तेषामेकक्रियाकर्तृतायाः, इत्यत आह “प्रदीपवच्चार्थतो वृत्तिः, दृष्टमेतत् यथा वर्त्तितैले अनलविरोधिनी अथच मिलिते सहानलेन रूपप्रकाशलक्षणं कार्य्यं कुरुतः यथा च वातपित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणलक्षणकार्य्यकारिणः एवं सत्वरजस्तमांसि मिथोविरुद्धान्यपि अनुवर्त्स्यन्ति च स्वस्वकार्य्यं करिव्यन्ति च अर्थतः पुरुषार्थत इति यावत्। वक्ष्यति च “पुरुषार्थ एव हेतुर्न केनचित्कार्य्यते करणम्” इति। अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति। तेषाञ्च परस्परमभिभाव्याभिभावकभावान्नानात्वम्। तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात्। सैव स्त्री सपत्नीः दुःखाकरोतितत्कस्य हेतोः? ताः प्रति तस्या दुःखरूपसमुद्भवात्। एवं पुरुषान्तरं तामविन्दत् सैव मोहयति तत्कस्य हेतोः? तत् प्रति तस्या मोहरूपसमुद्भवात्। अनया च स्त्रिया सर्वे भावा व्याखाताः। तत्र यत्मुखहेतुस्तत्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः, सुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात्। तस्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नोयन्ते एवं दुःखोपष्टम्भकत्वप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति।” विस्तरेण गुणकर्म्मविभागश्च गीतायां दर्शितो यथा।
“सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निब ध्नन्ति महावाहो! देहे देहिनमव्ययम्। तत्र सत्वं निर्म्मलत्वात् प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ!। रजोरागात्मकं विद्धि तृष्णासङ्गम मुद्भवम्। तन्निबध्नाति कौन्तेय! कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेदिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत!। सत्वं सुखे सञ्जयति रजः कर्म्मणि भारत!। ज्ञाममावृत्य तु तु तमः प्रमादे सञ्जयत्युत। रजस्तमश्चाभिभूय सत्वे भवति भारत!। रजः सत्वं तमश्चैव तमः सत्त्वं रजस्तथा। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्वमित्युत। लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्तृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ!। अप्रकाशोऽप्रवृत्तिश्च प्रमादोमोहएव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन!। यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोका नमलान् प्रतिपद्यते। रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि, मूढयोनिषु जायते। कर्मणः सुकृतस्याहुः सात्विकं निर्म्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम्। सत्वात् संजायते ज्ञानं रजसोलोभएव च। प्रमादमोहौ तमसोभवतोऽज्ञानमेव च। ऊर्द्ध्वं गच्छन्ति सत्त्वस्थामध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्थाअधोगच्छन्ति तामसाः।”
गुणकार = त्रि० गुणं पाकभेदेनान्नरसरूपं गुणं करोति कृअण्। १ सूपकारे २ भीमसेने पु० त्रिका०। स हि विराटनगरे छद्मवेशेन सूपकारितां जग्राहेति तस्य तथात्वं तत्कथा भा० वि० २ अ०
“पौरोगवो ब्रुवाणोऽहं वल्लवो नाम नामतः। उपस्थास्यामि राजानं विराटमिति मे मतिः। सूपानस्य करिष्यामि कुशलोऽस्मि महानसे। कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः। तानप्यभिमविष्यामि प्रीतिं संजनयन्नहम्। आहरिष्यामि दारूणां निचयान् महतोऽपि च। तत्प्रेक्ष्य विपुलं कर्म्म राजा प्रीतो भविष्यति। अमानुषाणि कुर्वाणं तानि कर्माणि भारत!। राज्ञस्तस्य परिप्रेष्या मंस्यन्ते मां यथा नृपम्। भक्ष्यान्नरसपानानां भविष्यामि तथेश्वरः”। तस्य पाकशास्त्रकर्तृत्वेन रसकारकारित्वात् तथात्वमिति तु ज्यायः।
गुणकेशी = स्त्री मातलिकन्यायाम् “मतस्तिदशराजस्य मातलिर्नाम सारथिः। तस्य चैका कुले कन्या रूपतो लोकविश्रुता। गुणकेशीति विख्याता नाम्ना सा देवसन्निभा” भा० उ० ९६ अ०। तस्याश्चार्य्यकनागपौत्रेण सुमुखनागेन विवाहकथा च १०३ अ० उक्ता तत एवावसेया।
गुणगृह्य = त्रि० ग्रह–पक्ष्यार्थे क्यप् ६ त०। गुणपक्षपातिनि।
गुणगौरी = स्त्री गुणेन गौरी शुद्धा गौरीव वा। १ गुणैः शुद्धायां २ गुणः पार्वतीतुल्यायां च। “अनृतगिरं गुणगौरि! मा कृथा माम्” माघः।
गुणग्राहिन् = त्रि० गुणं गृह्णाति ग्रह–णिनि। गुणग्रहीतरि स्त्रियां ङीप्। ण्वुल् गुणग्राहकोऽप्यत्र। “गुणवन्तोऽपि सीदन्ति न गुणग्राहको यदि” उद्भटः।
गुणज्ञ = त्रि० गुणं जानाति ज्ञा–क ६ त०। गुणज्ञातरि “गुणिनि गुणज्ञो रमते” हितो०।
गुणधर्म्म = पु० “यो गुणेन प्रवर्त्तेत गुणधर्मः स उच्यते” इत्युक्ते मूर्द्धाभिक्तस्य प्रजापालनादिधर्मे।
गुणनिका = स्त्री गुण–आम्रेडने भावे युच् स्वार्थे क। १ अभ्यासे निश्चयार्थं पाठ्यग्रन्थस्य पुनःपुनरनुशीलने, “हेतुः परिचयस्थैर्य्ये वक्तुर्गुणनिकैव सा” माघः। २ शून्ये, ३ नृत्ये, मदि०। ४ मानायाञ्च “दरिद्राणां चिन्तामणिगुणनिका” आनन्दलहरी।
गुणनिधि = पु० गुणानिधीयन्ते अस्मिन् नि + धा–आधारे कि ६ त०। १ गुणाधारे कम्पिल्लनगरवासियज्ञदत्तदीक्षितद्विजपुत्रे “आसीत् काम्पिल्लनगरे सोमराजिकुलोद्भवः। दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः। तस्य पुत्रो गुणनिधिश्चन्द्रविम्बसमाकृतिः” काशी० १३ अ०। स चात्यन्तद्यूताद्यासङ्गेन दुर्वृत्ततया पित्रा त्यक्तः इतस्ततोऽटन् अन्नालाभेन शिवचतुर्दश्यामुपोष्य रात्रौ शैवकृतशिवलिङ्गार्चनादिकं दृष्ट्वा सुप्तेषु तदर्चकेषु शिवनिर्माल्यहरणायोप चक्राम तत्र काले च शिवगृहे पूर्वप्रज्वलितप्रदीपे निर्वाणपायतां प्राप्ते अपहर्त्तव्यद्रव्य सम्यग् दर्शनार्थं स्ववस्त्रखण्डेन तस्य दीपस्योद्दीपनं कृत्वा शिवनैवेद्यान्नं हर्त्तु मारेभे अस्मिन्नेव काले शिवोपासकानां निद्रापगमेतैस्ताड्यमानो गुणनिधिर्मृतः तत्र प्रसङ्गेन शिवरात्रिदिनोपवासजेन शिर्वार्चादर्शनजेन शिवगृहदीपोद्दीपनजेन च पुण्येन कैलासं जगाम भोगावसाने कलिङ्गदेशाधिपत्यं लेभे पूर्वसंस्कारवशात् शिवभक्तेः प्रादुर्भावे शिवाराधनेण कुवेरपदवीं प्राण इति तत्रत्यकथासंक्षेपः। विस्वरस्तु तत्र दृश्यः।
गुणनी = स्त्री गुण्यतेऽनया गुण–ल्युट् ङीप्। गुणनिकायामनुशीलने त्रिकाः।
गुणनीय = पु० गुण–करणे अनीयर्। १ अभ्यासे हारा०। कर्म्मणि अनीयर्। २ गुणितव्ये त्रि०।
गुणपदी = स्त्री गुणौ गुणितौ पादावस्याः कुम्भपद्या० अन्त्यलोबो ङीप् च। गुणितपादायां स्त्रियाम्।
गुणप्रवृद्ध = पु० गुणैः सत्वादिभिः प्रवृद्धः। संसाररूपवृक्षशाखादौ “अधश्चोर्द्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धाविषयप्रबालाः” गीता।
गुणभृत् = त्रि० गुणं बिभर्त्ति, अधिष्ठातृत्वेन वा विभर्त्ति आश्रयति भृ–क्विप्। १ गुणधारिणि २ गुणाधिष्ठातरि परमेश्वरे पु०। “गुणभृन्निर्गुणो महान्” विष्णु स०। “सृष्टिस्थितिप्रलयकर्म्मस्वधिष्ठातृत्वात् गुणभृत्” भा०।
गुणभ्रंश = पु० ६ त०। गुणनाशे हारा०।
गुणमय = त्रि० गुणात्मकः गुणप्रचुरो वा गुण + तादात्म्ये प्राचुर्य्ये वा मयट्। १ गुणात्मके “तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा” भा० आ० १७१ अ०। एतैर्गुणमयैभावैः” गीता। स्त्रियां ङीप् “दैवी ह्येषा गुणमयी मम माया दुरत्यया” गीता। २ गुणाढ्ये च।
गुणलयनी = स्त्री गुणा गुणनिर्म्मिताः पटा लीयन्तेऽस्याम् ली–आधारे ल्युट् ङीप्। १ पटमण्डपे (तांवु) हलायुधः। स्वार्थे क। अत इत्त्वम्। गुणलयलिका। तत्रार्थे हेम०
गुणवचन = पु० गुणमुक्तवान् वच–कर्त्तरि भूते ल्यु। गुणवद्द्रव्य वाचके शुक्लादौ शब्दे। “वोतो गुणवचनस्य” पा०। अत्र विशेषणतया गुणवचनानामेव तथात्वं तेन गुणिवाचकत्वे सति गुणवाचकत्वं गुणवचनत्वम्। ततो मृद्वादिपदानामेव तथात्वम् रूपादिपदानान्तु केवलगुणवाचकत्वात् न गुणवचनत्वमिति बोध्यम्। गुणमुक्तवान् इति भूत एव ल्युट् तेन यदा कदाचिद्गुणवाचकत्वे सति इदानीं गुणवचनत्वमिति शेख “तृतीया तत् कृतार्थेन गुणवचनेन” पा०। “गुणश्चात्र धर्ममात्रं तेन शङ्कुलाखण्ड इत्याद्युदाहृतौ खण्डनस्य क्रियारूपत्वेऽपि नासङ्गतिः” “गुणवचनब्राह्मणादिभ्यः ष्यञ्” पा०। अत्र विशेषणमात्रपरम् गुणवचनं ग्राह्यम् तेन जडस्य भावः जाड्यम् इति वैशिष्ट्यमित्यादिसिद्धिः “अजादी गुणवचनादेव” पा० अत्रापि विशेषणतयैव गुणवाचिनां द्रव्यपरत्वे इष्ठनीयसुनौ न गुणपरत्वे इत्याकरे स्थितम् “प्रकारे गुणवचनस्य” पा० द्वित्वम्। पटुप्रकारः पटुपटुः इत्यादि। गुणवचनशब्दे परे विस्पष्टादीनामाद्युदात्तता विस्पष्टकटुकम्” सि० कौ० ण्वुल्। गुणवाचकोऽप्यत्र।
गुणवत् = त्रि० गुणोऽस्त्यस्य मतुप् मस्य वः। १ गुणाढ्ये “गुणवन्तोऽपि सीदन्ति न गुणग्राहको यदि” उद्भटः। “सर्वत्र गुणवद्दानम्” स्मृतिः स्त्रियां ङीप्। यदुवंश्यसुनाभस्य २ दोहित्रे पु० ३ तत्कन्यायां स्त्री। “वज्रनाभस्य तनयः सुनाभो नाम विश्रुतः। द्रहितृद्वयञ्च नृपते! तस्य रूपगुणान्वितम्। एका चन्द्रवती नाम्ना गुणवत्यथ चापरा” हरिव० १५३ अ०। “गुणवत्यपि पुत्रञ्च गुणवन्तमजीजनत्” हरिवं० १५५ अ० ४ अप्सरोभेदे स्त्री। “अलम्बुषा गुणवती स्थूलकेशी कलावती” काशी० ९ अ०।
गुणवाद = पु० गुणस्य अङ्गस्य वादः। अर्थवादभेदे तथाहि अर्थवादो विध्यसमभिव्याहृतवाक्यरूपः सोऽपि त्रिविधः “गुणवादी विरोधे स्यादनुवादीऽवधारिते। भूतार्थवादस्तद्धाना वर्थवादस्त्रिधा मतः” इति भट्टका०। अयमर्थः विरोधे विशेष्यविशेषणयोः सामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्गकथनरूपत्वात् यथा यजनानः प्रस्तर इति अत्र हि प्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वयबाधात् यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः। अवधारिते प्रमाणान्तरसिद्धेऽर्थे यो वादः सोऽनुवादः यथा “अन्तरीक्षे नाग्निश्चेतव्यः” “अग्निर्हिमस्य भेषजम्” इत्यादि च, अन्तरीक्षे अग्निचयनस्यासम्भवेन तदभावस्य, अग्नेर्हिमनाशकत्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः। तद्धानौ तयोर्विरोधावधारणयोरभावे भूतार्थवादः। “इन्द्रो वृत्रमहन्नित्यादि” सोऽपि द्विविधः स्तुत्यर्थवादो निन्दार्थवादश्च। “सन्ध्यामुपासते ये तु सततं संशितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकबनामयमित्यादौ” स्तुत्यर्थवादः। “तैलस्त्रीमांसमम्भोगी पर्वस्वेतेषु वै पुमान्। विण्मूत्रभोजनं नाम प्रयाति नरकं ध्रुवम्” इत्यादौ निन्दार्थवाद इति।
गुणविधि = पु० गुणस्याङ्गस्य द्रव्यादेर्विधिः। प्राप्तस्याऽप्राप्तस्य वा कर्मणोऽङ्गद्रव्यविधाने। यथा “अग्निहोत्रं जुहोति स्वर्गकामः” इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादेरङ्गं “दध्ना जुहोतीति” वाक्यन दधिद्रव्यं विदधत् गुणविधिः। यत्र च कर्म अङ्गं च मानान्तरेणाप्राप्तं तत्रोभयविधानं यथाहि तस्य अङ्गरूपगुणविधानेन गुणविधित्वं तथा कर्मस्वरूपप्रापकत्वेन उत्पत्तिविधित्वं चेत्युभयरूपत्वम् तदेतत् गौगाक्षिग्रन्थे विवृतं यथा “अज्ञातार्थज्ञापको लेदभागो विधिः। स च प्रयोजन वदर्थविधानेनाऽर्थवान्। तादृशञ्चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते। यथा “अग्निहोत्रं जुहुयाम् स्वगकामः इति विधिः प्रमाणान्तरेणाप्राप्तस्वर्गप्रयोजनवद्धोमं विधत्ते अग्निहोत्रेण स्वर्ग भावयेदिति वाक्यार्थवोधः। यत्र कर्म प्रमाणान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते। यथा “दध्ना जुहोति” इत्यत्र होमस्य “अग्निहोत्रं जुहुयात्” इत्यनेन प्राप्तत्वाद्धोमीद्देशेन दधिमात्रविधानं दध्ना होमं भावयेदिति। यत्र तूभयमप्राप्तं, तत्र विशिष्टं विधत्ते। यथा “सोमेन यजेत” इत्यत्र सोमद्रव्ययागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम्। सोमपदे मत्यर्थलक्षणया सोमवता यागेनेष्टं भावगेदिति वाक्यार्थबोधः। न चोभयविधाने वाक्यभेदः, प्रत्येकमुभयस्याविधानात् किन्तु विशिष्टस्यैकस्यैव विधानात्। न च “ज्योतिष्टोमेन स्वर्गकामोयजेतेति” प्राप्तयागोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति वाच्यम्। तस्याधिकारविधित्वेनोत्पत्तिविधित्वासम्भवात्। ननु “उद्भिदा यजेत पशुलाम” इत्यस्येव ज्योतिष्टोमेन इत्यस्याप्युत्पत्त्यधिकारविघित्वमस्त्विति चेन्न दृष्टान्ते उत्पत्तिवाक्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात्। किञ्च ज्योतिष्टोमेनेत्यत्रोभयविधित्वे तेनैव यागस्तस्य फलसम्बन्धश्च बोधनीय इति सुदृढोवाक्य भेदस्तद्वरं सोमपदे मत्वर्थलक्षणया विशिष्टविधानम्”। अधिकं विधिशब्दे वक्ष्यते। उभयविधाने अन्यदुदाहरणं तत्त्ववोथिन्यां दर्शितं यथा
“प्रथमस्य चतुर्थे “वाजपेयेन स्वाराज्यकामोयजेतेति” तत्र वाजपेयशब्देन वाजमन्नं पेयं सुरादीति। तत्र तत्तद्यागमनूद्य वाजपेयद्रव्यरूपोगुणो विधीयते, किं वा वाजपेयनामा यागविशेषोऽनेन विधीयत इति संशयः तत्र विशिष्टयागान्तरकल्पने गौरवादन्नसुरात्मकं द्रव्यद्वयं गुणो विधीयते नच गुणविधित्वे वाजपेयकरणक यागेन स्वाराज्यं कुर्य्यादिति यागे वाजपेयकरणत्वेन वाजपेयसाध्यत्वस्त्राराज्यसाधनत्वयोर्विरुद्धयोरेक ज्ञानविषयत्वानभ्युपगमात् वाजपेयगुणवता यागेन स्वाराज्यं भावयेदिति मत्वर्थलक्षणा प्रसज्येतेतिवाच्यं सकृदुच्चरितस्य यजेतेत्यस्य तन्त्रेणोभयत्रान्वयाङ्गीकारात् बाजपेयेन द्रव्येण स्वाराज्याय यागं कुर्य्यादित्यर्थलाभान्न मत्वर्थलक्षणा। तथाच सूत्रं “नामधेये गुणाश्रुतेः स्याद्विधानमिति चेदिति” (जैमि० १। ४। ८।) प्राप्ते ब्रूमः यजेः फले द्रव्ये च उभयत्र सम्बन्धाङ्गीकारे विरुद्धं त्रिकद्वय मापद्येत। तथा हि उपादेयत्वं गुणत्वं विधेयत्वञ्चेत्येकं त्रिकम् उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वञ्चेत्यपरं त्रिकं तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः। उपादेयत्वादयस्त्रयः साधनीमूतयागनिष्ठा धर्माः फलमुद्दिश्य यागस्योपादानात् फलमनूद्य यागस्य विधानात् फलस्य च साध्यतया मुख्यत्वात् यागस्य साधनत्वेनोपसर्ज्जनत्वात् तदेव च गुणत्वम्। अत्र चोपादेयत्वोद्देश्यत्वयोः, गुणत्वमुख्यत्वयोरनुवाद्यत्वविधेयत्वयोर्विरोध इति त्रिकद्वयं विरुद्धम्। तथाचैकेनैकदा तादृश विरुद्धोभययोर्वोधकत्वं नाङ्गीक्रियत इति भावः। अथ मा भूत्तन्त्रेण सम्बन्धः यजेतेनुषङ्गेण पृथक् फले द्रव्येचान्वयः स्वीक्रियतामिति चेन्न अनुषङ्गकल्पने वाजपेय द्रव्येण यजेत यागं कुर्य्यात् स्वाराज्याय यजेत यागेन स्वाराज्यं भावयेदिति वाक्यभेदापत्तेः तस्माद्वाजपेय शब्दो न द्रव्यवाचकः अपि तु यागनामधेयमिति। इत्थञ्चानुषङ्गकल्पने वाक्यभेदरूपगौरवं दोष इत्यनुषङ्गाधिकरणसिद्धान्तः। यत्र चानुषङ्गकल्पने विशेषप्रमाणमस्ति तत्र प्रामाणिकत्वात् तत्कल्पने गौरवं न दोषायेति ध्येयम्”। उभयत्र च द्रव्यमात्रगुणविधाननिराकरणम् प्रयोजनम्। क्वचित्तु गुणमात्रविधानं जै० १। ४। ९ सूत्रभाष्ययोर्दर्शितं यथा
“तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः” ९ सू०। “यथा “आग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति” इत्येवमादयः श्रूयन्ते तत्र सन्देहः, किम् ‘आग्नेयोऽग्नीषोमीयः’ इत्येवमादयो गुणविधयः, कर्मनामधेयानि वा? इति। किं तावत् प्राप्तम्? गुणविधी सत्यनेको गुणो विधीयेत, अग्निपुरोडाशाष्टाकपालाः इति, तस्मान्न गुणविधयः इत्येवं प्राप्ते ब्रूमः, तच्च कर्म, गुणाश्चास्य विधीयेरन्, अविभक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे, तत्र हि अष्टाकपालस्याग्नेयता विधीयते, स एष एवमाग्नेयो भवति, यद्यग्नये संकल्प्य दीयते, तेनायम् अनेन प्रकारेण यागो विहिती भवति, स एवं विधीयमानो न शक्यते सम्बन्धिनावविधाय विहित इति वक्तुम्। तस्मात् गुणविधयः, अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो वा पुरोडाश एव भवति, सोऽनुवादः सिद्धश्चात्राष्टाकपाल उच्यते, ‘कपालेषु श्रपयति’ इति वचनात् नान्येन श्रपितं गृह्णन्ति, तेनास्मिन्पक्षे वाक्यभेदो भवति, ‘न चेदन्येन शिष्टाः’ यत्र पुनरन्ये वचनेन शिष्टा गुणा भवन्ति तत्र नामधेयं, यथ ‘अग्निहोत्रं जुहोति।’
गुणवृक्ष = पु० गुणानां नौकाकर्षणरज्जूना वन्धनाधारः वृक्षैव। नौकाकर्षकदामाद्याधारे काष्ठे। (मास्तुल)। स्वार्थे क, स इव कायति कै–क वा। तत्रार्थे अमरः।
गुणवृत्ति = स्त्री गुणेन वृत्तिः। १ लक्ष्यमाणसादृश्यादिगुणावलम्बनेन शब्दस्य अर्थप्रकाशनरूपशक्तौ लक्षणावृत्तौ, “यस्याक्षिसमीपे पौण्ड्राणि स गुणवृत्त्या चतुरक्षः” कात्या० श्रौ० २०। १। ३८ सूत्रे कर्कः। गुणे वृत्तिर्यस्य। २ गुणसामर्थ्यवति त्रि० “ब्रह्मन् ब्रह्मण्यनिर्द्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति? श्रुतयः साक्षात् सदसतः परे” भाग० १०८७ अ०। गुणानां सत्वादीनां वृत्तिः। सत्वादीनां ३ परिणामभेदेषु स्त्री “परिणामतापसंस्कारदुःखैर्गुणविवरोधाच्च दुःखमेव सर्वं विवेकिनः” पात० सू०। तासाञ्च यथाऽन्योन्यविरोधस्तथा तत्सूत्रभाष्यादिषु दर्शितम्।
“प्रख्याप्रवृत्तिस्थितिरूपा बुद्विगुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवारभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामान्यानि तु अतिशयैः सह प्रवर्त्तन्ते एवमेते गुणा इतरेतराश्रयेणोपार्ज्जितसुस्वदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषु विशेष इति तस्मात् दुःखमेव सर्व्वं विवेकिन” व्यासभा०।
“प्रख्याप्रवृत्तिस्थितिरूपबुद्धिरूपेण परिणता गुणाः सत्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तंसुखात्मक, घोरं दुखात्मकं, मूढं विषादात्मकमेव प्रत्ययं सुखोपभोगरूपमपि त्रिगुणं प्रारभन्ते नच सोऽपिं तादृशरूपोऽस्य परिणामः स्थिरः इत्याह चलञ्च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं नान्वेकप्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यते? इत्यत आह रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सरूपास्त्वष्टा भावा धर्म्मादयो वृत्तयः सुखाद्यास्तदिह धर्म्मेण विपच्यमानेनाधर्म्मस्तादृशो विरुध्यते एवं ज्ञानवैराग्यैश्वर्य्यैः सुखादिभिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते, सामान्यानि त्वसमुदाचरद्रू पाणि अतिशयैः समुदाचरद्निः सहाविरोधात् प्रवर्त्तन्ते इति। ननु गृह्णीमएतत्तथापि विषयसुखस्य कुतः स्वाभाविकी दुःखतेत्यत आह एवमेव इति उपादानाभेदादुपादानात्मकत्वाच्चोपादेयस्याप्यभेद इत्यर्थः। तत्किमिदानीमात्यन्तिकमेव तादात्म्यं तथा च बुद्धिव्यपदेशभेदी न कल्पते इत्यत आह गुणप्रधानेति सामान्यात्मना गुणभावोऽतिशयात्मना च प्राधान्यं तस्मादुपाधितः स्वभावतश्व दुःखभेव सर्व्वं विवेकिन इति” वाच० विवरणम्
गुणसङ्ग = पु० गुणेषु गुणकार्य्येषु सुखदुःखादिषु सङ्गः। सुखाद्यासक्तौ “कारणं गुणसङ्गोऽस्य” गीता।
गुणसंख्यान = न० गुणाः संख्यायन्तेऽनेन सम्–ख्या करणे ल्युट् ६ त०। सांख्यप्रातञ्जलशास्त्रे।
गुणसम्मूढ = त्रि० गुणैः सम्मूढः। गुणकार्य्यदेहादिष्वात्माभिमानवति। “प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु” गीता।
गुणसागर = पु० गुणानां सागर इवाधारः। चतुर्मुखे १ ब्रह्मणि शब्दच०। २ बुद्धभेदे त्रिका० ३ गुणाधारे च। शब्दक० अस्य अत्रार्थे त्रिलिङ्गतोक्तिः प्रामादिकी सागरशब्दस्य नियतलिङ्गत्वात् “द्वन्द्वतत्पुरुषयोः” पा० सूत्रेण विशेषं विना उत्तरपदलिङ्गस्य नियमनात्।
गुणा = स्त्री गुणोऽस्त्यस्याः अच्। १ दूर्वायां २ मांसरोहिण्याञ्च राजनि०। तयोर्बहुतन्तुमत्त्वात्तथात्वम्।
गुणाकर = पु० ६ त०। १ बुद्धभेदे शब्दर० २ गुणयुक्ते च “तपस्यभिरतस्याथ तस्य पुत्रो गुणाकरः। सत्यवान् नाम देवर्षे!” भा० व० सावित्र्युपाख्याने। गुणसागरशब्दोक्तहेतुना शब्दक० अस्य त्रिलिङ्गतोक्तिः प्रामादिकी।
गुणाढ्य = त्रि० गुणैराढ्यः। सद्गुणयुक्ते।
गुणातीत = पु० गुणान् सत्वादिगुणधर्म्मात् सुखदुःखादीनतीतः। १ परमेश्वरे स्थितप्रज्ञे २ आत्मज्ञे च। गुणातीतताकारणसहितं तल्लक्षणमुक्तं गीतायां यथा
“गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतश्नुते। अर्ज्जुन उवाच। कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो!। किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्त्तते। श्रीभगवानुवाच। प्रकाशञ्च प्रवृत्तिञ्च मोहमेव च पाण्डव!। न द्वेष्टि संप्रवृत्तानि निवृत्तानि न काङ्क्षति। उदासीनवदासीनोगुणैर्योन विचाल्यते। गुणा वर्त्तन्त इत्येवं योऽवतिष्ठति नेङ्गते। समदुःखसुखः स्वस्थः समलोष्ट्राश्मकाञ्चनः। तुल्यप्रियाऽप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः। मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः स उच्यते। माञ्च योऽभ्यभिचारेण भक्तियोगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते”।
गुणादि = “गुणादयोऽवयवाः”। (“अवयववाचिनः परे गुणादयोनान्तोदात्ताः”) पा० सूत्रविहितान्तोदात्ततानिषेधनिमित्ते १ शब्दगणे। स च गुण “गुण अक्षर, अध्याय सूक्तछन्दस् मान”। २ गुणकर्म्मजातिसमवायविशेषाभावेषु “गुणादिर्निगुणक्रियः” भाषा०।
गुणान्वित = त्रि० ३ त०। १ विवेकवैराग्योपरमादिभिर्मोक्षो“पायैरन्विते” “प्रक्षीणदोषाय गुणान्विताय” वेदा० सा० २ गुणयुक्ते च।
गुणिका = स्त्री गुण इन् स्वार्थे क। शूनाङ्गे उच्छूनदेहे हारा०।
गुणित = त्रि० गुण–आम्रेडने कर्मणि क्त। १ आहते ताडिते पूरिते अमरः। “इष्टकृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन” लीला०।
गुणिन् = त्रि० गुण + अस्त्यर्थे इनि। गुणयुक्ते “गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमा यस्य” हितो०।
गुणीभूत = त्रि० अगुणः भूतः गुण + च्वि + भू–क्त। अप्रधानीभूते “गुणीभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे” भा० स० १५ अ०। च्व्यर्थे कृतादित्वात् समासे उक्तार्थत्वात् ततो न च्विः। तेन गुणभूतोऽप्यत्र। “गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते” हरिः।
गुणीभूतव्यङ्ग्य = न० गुणीभूतं व्यङ्ग्यं यत्र। काव्यभेदे तल्लक्षणाभेदादि सा० द० उक्तं यथा “अपरन्तु गुणीभूतव्यङ्ग्य वाच्यादनुत्तमे व्यङ्ग्ये। अपरं काव्यं अनुत्तमत्वम् न्यूनतया साम्येन च संभवति। तत्र स्यादितराङ्गं १ काक्वाक्षिप्त २ ञ्च वाच्यसिद्ध्यङ्गम् ३ संदिग्धप्राधान्यं ४ तुल्यप्राधान्य ५ मस्फुट ६ मगूढम् ७। व्यङ्ग्यासुन्दर ८ मेवं मेदास्तस्योदिता अष्टौ। इतरस्य रसादेरङ्गं रसादि व्यङ्गं १ यथा। “अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः। नाभ्यूरुजधनस्पर्शी नीवीविश्रंसनः करः”। अत्र शृङ्गारः करुणस्याङ्गम्। “मानोन्नतां प्रणयिनी मनुनेतुकामस्त्वत्सैन्यसागररवोद्गतकर्ण्णतापः। हाहा कथं नु भवतोरिपुराजधानीप्रासादसन्ततिषु तिष्ठति कामिलोकः”। अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः। “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृता लङ्काभर्त्तुर्वदनपरिपाटीष्रघटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता”। अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते वचनेन तु सादृश्य हेतुकतादात्म्यारोषणमाविष्कृत्य तद्गोपनमपाकृतं तेन व्यङ्ग्यं सादृश्य वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम्। काक्वाक्षिप्तं २ यथा। “मथ्नामि कौरवशतं समरे न कोपाद्दःशासनस्य रुधिरं न पिबाम्युरस्तः। संचूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन”। अत्र मथ्नाम्ये वेत्यादि व्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम्। “दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः। प्रतापस्तव राजेन्द्र! वैरिवंशदवानलः”। अत्रान्वयस्य वेणुत्वारोपणरूपोव्यङ्ग्यः प्रतापस्य दवानलत्वारोपसिद्ध्यङ्गम् ३। “हरस्तु किञ्चित् परिवृत्तेत्यादौ”। विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः ४। “ब्राह्मणातिक्रमत्यागोमवतामेव भूयते। जामदग्न्यश्च योमित्रमन्यथा दुर्मनायते”। अत्र वाच्यस्य परशुरामोरक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य च समं प्राधान्यम् ५। “सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः। अश्वपदीननृपतौ न सन्धिर्न च विग्रहः”। अत्राश्वपदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् ६। “अनेन लोकगुरुणा सतां धर्मोपदेशिना। अहं व्रतवती स्वैरमुक्तेन किमतः परम्”। अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक्योषिति बलात्कारोपभोगः स्थुटतया वाच्यायमानैत्यगूढम् ७। “वाणीरकुडुङ्गुड्डीणसौणिकोलाहलं सुणन्तीए। वर कम्मव्वाबडाए सीअन्ति अङ्गाइम्”। अत्र दत्तसंकेतः कश्चिल्लतागृहं प्रविष्टैति व्यङ्ग्यात् शृण्वन्त्याः सीदन्त्यङ्गानि इति वाक्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ८। किञ्च योदीपकतुल्ययोगितादिषु उपमाद्यलङ्कारोव्यङ्ग्यः म गुणीभूतव्यङ्ग्य एव काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् तदुक्तं ध्वनिकृता “अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते। तत्परत्वं तु काव्यस्य नासौ मार्गोध्वनेर्म्मतः”। यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्य्यासः यथा “दृष्ट्या केशवगोपरागहृतया किञ्चिन्नवृष्टं मया तेनात्र स्खलितास्मि नाथ! पतितां किं नाम नालम्बसे। एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गतिर्मोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम्”। अत्र गोपरागादिशव्दानां गीपे रागैत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयाऽवभासः। सलेशमिति पदस्य परित्यागे ध्वनिरेव। किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसान्तरे गुणीभावः तत्र प्रधानकृतएव काव्यव्यवहारः तदुक्तं तेनैव “प्रकारोऽयं गणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम्। धत्ते रसादितात्पर्य्यपर्य्यालोचनया पृथक्” यत्र च “यत्रोन्मदानां प्रमदाजनानामब्भ्रंलिहः शोणमणीमयूखः। सन्ध्याभ्रमं प्राप्नुवतामकाण्डेऽप्यनङ्गनेपथ्यविधिं व्यधत्त” इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वं तत्र तेषामतात्पर्य्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्य व्यवहारः”। अस्य भेदसंख्याविस्तरभयात् नाक्तास्तत एवावासेयाः।
गुणेश्वर = पु० ६ त०। १ चित्रकूटपर्वते २ सत्त्वादिगुणानां नियामके परमेश्वरे शब्दरत्ना०। गुणेशोऽपि परमेश्वरे।
गुणोत्कर्ष = पु० ६ त०। गुणातिशये हेमच०। “भूयस्तव गुणोत्कर्षमेते विद्ये करिष्यतः” रामा० वाल० २६ अ०।
गुण्ठित = त्रि० गुठि–क्त। १ आवृते। २ गुण्डिते ३ कृतधूलिधूसरे च रमानाथः।
***