वाचस्पत्यम्
गार to गुञ्ज
links:
Menu अ–ह
Prev गा–गाय
Next गुट–गुण्ठ
गार
गार्भ
गि
गिरित
गिरी
गीता
गु
UpasanaYoga
.org

गारित्र = न० गीर्य्यते गॄ–कर्म्मणि णित्रन्। आदने उज्ज्वल०।

गारुड = न० गरुडायोक्तं भगवता, तस्येदम् वा अण्। १ गरुडपुराणे २ विषहरमन्त्रभेदे जटाधरः। गरुडाकृतित्वात् ३ व्यूहभेदे। “गारुडं च महाव्यूहं चक्रे शान्त नवस्तदा” भ० भी० ५६ अ०। तस्य च गरुडाकृतित्वं तदुत्तरश्लोकानां पर्य्यालोचनयाऽवसेयम्। ४ मरकतमणौ राजनि० तस्य च नीलवर्णतया गरुडवर्णता तच्च गारुत्मतशब्दे वक्ष्यते। “सोऽयं वटः श्याम इति प्रतीतो राशिर्मणीनामिव गारुडानाम्” रघुः। ५ स्वर्णे हेम० तल्लोमतुल्यवर्णत्वात्तथा। ६ पातालगरुडलतायाम् स्त्री राजनि० ङीप्। गरुडो देवताऽंस्य अण्। ७ अस्त्रभेदे। “अलं विषादेन अर्जुनेन प्रयुक्तं गारुडमस्त्रम्। पश्य पश्य। पक्षाघातनिपातमारुतभरोत्प्रोत्क्षिप्तपृथ्वीधराश्चञ्चूदष्टविशालभोगभुजगाः सूर्य्योपकण्ठस्पृशः। सन्तोषं जनयन्त्यमी कुलगुरोस्तीक्ष्णास्तथा सारथेर्मन्ये वैरिनृपप्रमाथविकसद्विक्रान्तयः पक्षिणः”। धनञ्जयवि० तत्प्रयोगकृत्यमुक्तम्।

गारुडिक = पु० गारुडेन विषमन्त्रेण जीवति ठक्। विषवैद्ये शब्दरत्न०।

गारुत्मत = न० गरुत्मान् देवतास्य अण्, गरुत्मान् तद्वर्णः अस्त्यस्य सादृश्येन प्रज्ञा० अण् वा। १ गरुडदेवताके अस्त्रभेदे। “गारत्मतं तीरगतस्तरस्वी भुजङ्गनाशाय समादनेऽस्त्रम्” रघुः। २ मरकतमणौ अमरः गरुत्मत इव श्यामवर्णत्वात्तथात्वम्। “तस्वील्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा” माघः। “शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम्। सुरपितृकार्य्ये मरकतमतीव शुभदं नृणां विधत्ते” वृ० स० ८३ अ०। तल्लक्षणवर्णादिकमुक्तम्।

गारुत्मतपत्रिका = स्त्री गारुत्मतमिव वर्णेन पतमस्याः कप् कापि अत इत्त्वम्। पाठालतायाम् राजनि०।

गार्ग = पुंस्त्री गार्ग्याः कुत्सितमपयम् “गीत्रस्त्रियाः कुत्सने ण च” पा० ण पक्षे ठक्। गार्ग्याः कुत्सितेऽपत्ये पक्षे ठकि गार्गिकोऽप्यत्र। उभयत्र स्त्रियां टाप्। गार्ग्यस्य अङ्कंः संघः लक्षणं वा यञन्तत्वात् अण् यलोपः। गार्ग्यसंघे ३ तदङ्के च पु०। ४ तल्लक्षणे न० परम्परासम्बद्धोऽङ्कः साक्षात्तु लक्षणमिति भेदः सि० कौ०। गार्ग्यादागतः “गोत्रादङ्कवत्” पा० अण् यलोपः। गार्ग्यादागते त्रि० वा वुञि गार्गकोऽपि तदर्थे त्रि०।

गार्गिका = स्त्री “गोत्रचरणाच्छावात्याकारतदवेतेषु” पा० गर्ग + वुञ् वैरमैथुनिकादिवुञः स्त्रीत्वम्। गाग्यत्वेन १ श्लाघायां २ तथात्याकारे ३ तदवेते च।

गार्गी = स्त्री गर्गस्य गोत्रापत्यं स्त्री यञ् ङीपि यलीपः। गर्गगोत्रापत्ये १ स्त्रीमात्रे तत्र वचक्नोर्दुहिता गार्गी ब्रह्मविदुत्तमा तच्च वृ० उ० गार्गीब्राह्मणे स्पष्टम् तच्च ब्राह्मणम् “अथैनं गार्गी वाचक्रवी पप्रच्छ याज्ञवल्क्येति होवाचेत्यादि “ततोह गार्गी वाचक्नव्यु पररामेत्यन्तम्” षष्ठव्राह्मणम्। सैव च अष्टमव्राह्मणे इतरप्रश्नद्वयकरणेन याज्ञवल्क्यात्तदुत्तरप्राप्त्या याज्ञवल्क्यस्य जेतृत्वमन्वेषां निषिध्य तस्य ब्रह्मज्ञश्रेष्ठत्वं व्यवस्थापित यथा तत्रैवोक्तं ८ म ब्राह्मणे “साहोवाच ब्राह्मणा भवन्तस्तदेव बहु मत्येध्वम् यदस्मान्नमस्कारेण मुच्येध्वम् न वै जातु युष्माकमिमं कश्चिद् ब्रह्मोद्यं जेतेति” “ततोह वाचक्नव्युपरराम”। २ दुर्गायां गान्धर्वीशब्दे उदा०। तस्या अपत्यम् ढक्।। गार्गेस्थ तदपत्ये पुंस्त्री।

गार्गीपुत्र = पु० ६ त०। गार्ग्याः पुत्रे शुक्लयजुर्वेदवंशान्तर्गते मुनिभेदे “गार्गीपुत्रात् गार्गीपुत्रः” शत० ब्रा० १४। ९। ४। ३०। ततः अपत्ये “पुत्रान्तादन्यतरस्याम्” वा फिञ् वा कुक्च् पक्षे इञ्। गार्गीपुत्रकायणि गार्गीपुत्रायणि गार्गीपुत्रि गार्गीपुत्रस्यापत्ये पुंस्त्री।

गार्गीभू = अगार्ग्यो गार्ग्यो भवति अभूततद्भावे च्वि। “क्यच्व्योश्च” पा० च्वौ अपत्यार्थयलोपश्च। अगार्ग्यस्य गार्ग्य भवने भ्वा० प० अक० सेट्। गार्गीभवति गार्गीभूतः।

गार्गीय = आत्मनो गार्ग्यमिच्छति क्यचि यलोपे गार्ग्येच्छायाम् पर० अक० सेट्। गार्गीयति अगार्गीयीत्।

गार्गीय = त्रि० गार्म्यस्येदम्, “वृद्धाच्छः” पा० छ यलोपश्च। १ गार्ग्य सम्बन्धिनि २ तत्प्रोक्ते च। “गार्गीयं शिखिचारं पाराशरमसितदेवलकृतञ्च” वृ० स०।

गार्ग्य = पुंस्त्री गर्गस्यापत्यं गर्गा० यञ्। गर्गगोत्रापत्ये स्त्रियां ङीप् यलोपे गार्गो। विशेषोऽत्र गर्गशब्दे दृश्यः

गार्त्तक = त्रि० गर्त्तदेशे भवः धूमा० वुञ्। गर्त्तदेशभवे।

गार्त्समद = पु० गृत्समदस्यापत्यम् शिवा० अण्। ग्रत्समदापत्ये स च शुनकानां त्रिप्रवरान्तर्गत ऋषिभेदः। यथाह आश्व० श्रौ० १२। १०। १३ सू० “शुनकानां गृत्समदेति, त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति”।

गार्द्दभ = त्रि० गर्दभस्येदम् अण्। गर्दभमूत्रादौ ३५४७ पृ० गर्दभशब्दे विवृतिः।

गार्द्दभरथिक = त्रि० गर्द्दभयुक्तं रथमर्हति ठक्। गर्दभयुक्तरथगमनयोग्ये।

गार्द्ध्य = न० गृध–गर्द्ध–वा भावे घञ् गर्द्ध एव चतुर्वर्ण्णा० स्वार्थे ष्यञ्। लोभे। “पीत्वा जलानां निधिनातिर्गार्द्ध्यात्” माघः। “लभ्ये गार्द्ध्येङ् वलज संभक्तौ” कविक०।

गार्ध्रपक्ष = पु० गृध्रस्यायम्–अण् गार्ध्रः पक्षः पक्षो यस्य। गृध्रपक्षयुक्ते बाणे हेमच०। गार्ध्र पत्रादयोऽप्युक्तार्थे। “विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः” भा० वि० ४२ अ०। “न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः” भा० वि० ५३ अ०। गार्ध्रवाजोऽप्यत्र। गार्ध्रवाजः कृतः गार्ध्रवाज + करोत्यर्थे णिच् कर्म्मणि क्त। गार्ध्रवाजित कृतगृध्रपक्षे वाणे। “इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः” भा० वि० ४८ अ०। “तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः” भा० व० १७३ अ० मुद्रित पु० वाजितेरित्यत्र राजितैरित्यपपाठः।

गार्ध्रवासस् = पु० गार्ध्रः पक्षः वास इव यस्य। गृध्रपक्षयुक्ते बाणे “नहि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम” मा० व० ३० अ०।

गार्भ = त्रि० गर्भे गर्भवृद्धौ साधृ अण्। गर्भवृद्धये कर्त्तव्ये १ गर्भाधानकर्म्मणि। “गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिबन्धनैः,’ मनुः। होमैरित्युपलक्षणणं गर्भाधानादेरहोमरूपत्वात्” कुल्लू०। गर्भस्येदम् अण्। २ गर्भसम्बन्धिनि त्रि०। “संस्कारैर्विविधैस्तद्वत् गार्भमेनो व्यपो हति” स्मृतिः। तत्रार्थे ठक्। गार्त्तिकमप्यत्र। “वैजिकं गार्भिकं चैनो द्विजानामपमृज्यते” मनुः। तच्च “एनः अशुचिमातृगर्भवासजम्” कुल्लू०।

गार्भिण = न० गर्भिणीनां समूहः भिक्षा० अण्। गर्भिणीसमूहे अमरः। भिक्षादिगणे गर्भिणीशब्दपाठात् अण एव विधानेन अत्रार्थे गार्भिण्यशब्दकल्पनं प्रामादिकमेव

गार्मुत = त्रि० गर्मुत इदम् अण्। गर्मुद्धान्यविशेषसम्बन्धिनि “प्राजापत्यं गार्मुतं चरुं निर्वपेत्” तैत्ति० २। ४। ४। ७।

गार्ष्टेय = पुंस्त्री गृष्टेरपत्यम् गृष्ट्या० ढक्। गृष्टेरपत्ये। “गार्ष्टेयो वृषभो गोभिरानट्” ऋ० १०। १११। २। “सकृत्प्रसूता गौः गृष्टिः तस्या अपत्यम्” भा०।

गार्हपत = त्रि० गृहपतेरिदम् तस्य भावो वा अश्वपत्या० अण्। १ गृहपतिसम्बन्धिनि त्रि०। २ गृहपतिभावे न०। “वैश्यराजन्ययोः गार्हपते” कात्या० श्रौ० १। ६। १६। “नेत्यनुवर्त्तते वैश्यराजन्ययोर्गृहपतित्वेऽपि नाधिकारः” कर्कः। “अपेतप्रजननाः स्थविरास्तदाख्यास्तेषां यो नृशंसतमः स्याद्द्रव्यवत्तमो वाऽनूचानतनो वा तस्य गार्हषते दीक्षेरन्” कात्या० श्रौ० २२। ४। ७। “स गृहपतिः कर्त्तव्यः” कर्कः। चतुर्थब्रात्ये स्तोमे इति शेषः

गार्हपत्य = पु० गृहपतिना नित्यं संयुक्तः संज्ञायां ञ्य। यजमानरूपगृहपतिसंयुक्तेऽग्निभेदे स च कृतविवाहाग्निपरिग्रहस्याग्निहोत्रादिसाधनाधानाङ्गतया प्राक् आधेयः यथाह आश्व० श्रौ० २। २। १।

“उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्नि मानीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रियमाणं वा प्रज्वाल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत्” १ सू० “अत्रापराह्णशब्देन अह्नश्चतुर्थभागो गृह्यते। विहरणकाले गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षिणाग्निं वैश्यगृहादानयेत्। चतुर्णां वर्णानामन्यतमस्य द्रव्यवतो वा गृहात्, गार्हपत्याद्वा धार्य्यश्चेत् प्रज्वालयेत्। काले काले यदि निर्मन्थ्यः तदा मन्थेत् एषां प्रकाराणामुत्पत्तिवैशेष्याद्व्यवस्था। तेषामन्यतमप्रकारेण दक्षिणाग्नि साधयित्वा ततो गार्हपत्यात् ज्वलन्तमग्निमाहवनीयार्थ मुद्धरेत्। पात्रान्तरेण पृथक् कुर्यादित्यर्थः” नारा० “गार्हपत्ये संस्काराः” कात्या० श्रौ० १। ८। ३४ ‘अधिश्रयणपर्य्याग्निकरणपात्रप्रतपनादयः संस्काराः वचनाभावे गार्हपत्याग्नौ भवन्ति तद्यथा शूर्पाग्निहोत्रहवण्योः प्रतपनम् स्रुक्स्रुवादीनाम् वरुणप्रघासे करम्भपात्रयवानां दक्षिणाग्नौ श्रपणेऽपि पर्यग्निकरणं गार्हपत्यादेव, पितृयज्ञे च धानानाम् पर्णकषायोदकस्य तु दक्षिणाग्नावेव पाकः इष्टकाषाकार्थत्वात् तत्पाकस्य दक्षिणाग्निना विधानात्” कर्कः

“श्रपणं वाहवनीये” ३५ सू० हविषां श्रपण माहवनीये वा स्यात् गार्हपत्ये वा उभयथा श्रुतत्वात् “तदाहुराहवनीये हवींषि श्रपयेयुरिति अतो गार्हपत्य एव श्रपयन्तीति च”। आदिविकल्पोऽयम् नेच्छाविकल्पः तच्छ्रापिण इति तच्छ्रापित्वस्य नियतत्वेनानुवादात्। तदुक्तम्। “रूपं कालेऽनुनिर्वाप्यः श्रपणं देवतास्तथा। आदौ ये विधृताः पक्षास्त इमे सर्व्वदा स्मृताः” इति रूपं कर्मस्वरूपम् दाक्षायणदर्शपूर्णमासादिकम् काल कदितानुदितादिः अनुनिर्वाप्पो वैमृधादित्यौ, श्रपणं हविःश्रपणम् गार्हपत्ये वाहवनीये वेति। देवता ऐन्द्र भवति माहेन्द्रं वेति एतेषां विकल्पानां मध्ये यः प्रथमं स्वीकृतः स एव यावज्जीवं कर्त्तव्यः न पक्षान्वरम्। एवमेवैते पञ्चैबादिविकल्पाः अन्ये सर्वेऽपीच्छाविकल्पाः” कर्कः। तस्य प्रतियज्ञविधानञ्च शत० ब्रा० ३। ६। १। २९। यथा “तस्मादेनान्त्सवने सवने एव प्रतिसमिन्धते” “एनान् गार्हपत्यादीन्”। त्रेताग्नेश्च च षोडशसंस्कारान्तर्गतत्वं व्यासआस्म यथा “गर्भाधानं पुंसवनं सीमन्तोजातकर्म च। नामक्रिया निष्क्रमोऽन्नप्राशनं वपनक्रिया। कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः। केशान्तस्नानमुद्वाहोविवाहाग्निपरिग्रहः। त्रेताग्निसंग्रहश्चैव संस्काराः षोडश स्मृताः” “गार्हपत्यागारे वा देवान् वा एष उपावर्त्तते” शत० व्रा० १। १। १। ११। तत्करणप्रकारः कात्या० श्रौ० ४। ७। ८। सूत्रादौ उक्तो यथा “अग्न्यगारे कुर्वन्ति” “पूर्वं गार्हपत्यगृहं पश्चादाहवनीयगृहम् कुर्वन्ति” कर्कः। “उतग्वंशं वाऽपरम्” ९ सू० “अपरं गार्हपत्यागारं उदग्वंशं वा प्राम्बंशम् आहवनीयागारं तु प्राग्वंशमेव” कर्कः। “दक्षिणपूर्वे द्वारे” १० सू० “उत्पत्तिक्रमेण गार्हपत्यागारस्य दक्षिणद्वारमाहवनीयागारस्य प्राच्याम्। अर्थात् गार्हपत्यागारे पूर्वद्वारम् आहबनीयागारे अपरद्वारम्” कर्कः “गार्हपत्यागारे निर्मथ्याभ्यादधातिं तत्रैव १५ सूत्रम्।

गार्हमेध = पु० गृहस्येदं अण् कर्म०। गृहसम्बन्धियज्ञे गृहस्थकर्त्तव्ये पञ्चयज्ञरूपे कर्म्मणि। “तथैव राजन्नुरु गार्हमेधवितानविद्योरुविजृम्भितेषु” भाग० ५। ११। २।

गार्हस्थ्य = न० गृहस्थस्य भावः कर्म वा। गृहस्थकर्त्तव्ये पञ्चयज्ञादौ कर्मणि। “गार्हस्थ्यञ्चैव याज्याश्च सर्वा गृह्याश्च देवताः” भा० आश्व० ७ अ०। “गार्हस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा” भा० शल्य० ५१ अ०।

गालन = न० चु० गल–क्षारणे भावे ल्युट्। निःस्रावणे (गालान) “मा चुक्र धं त्वां सोमस्य गालनेन” निरु० ६। २४। “तथा पचेत् यथा दाहकाठिन्यातिशैथिल्यमण्डगालनरहितोऽन्तरूष्मपक्वश्चरुर्भवति” भवदेवः।

गालव = पु० गल–घञ् तं वाति वा–क। १ लोध्रवृक्षे मेदि० २ केन्दुकवृक्ष शब्दच० ३ मुनिभेदे, स च विश्वामित्रपुत्रभेदः। यथाह हरिवं २७ अ०। “विश्वामित्रस्य च सुता देवरातादयः स्मृताः” इत्युपक्रमे “साङ्कृतिर्गालवश्चेति मुद्गलश्चेति विश्रुताः”। तस्य शिष्यभेदश्च यथाह भा० उ० १०५ अ०। “विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः! शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह” इत्युपक्रमे तस्यातिनिर्बन्धनेन रुष्टविश्वामित्रादिष्टगुरुदक्षिणात्वेन एकतः श्यामकर्णाश्वशताष्टकस्य दानकथा भा० उ० १०६ अ० ११८ अ० पर्य्यन्ते उक्ता। तत्रेयमाख्यायिका गुरुणा तथाऽनुशिष्टस्य तस्य उपासनादितः प्रमन्नेन गरुडेन सह तथाभूताश्वध्राप्त्यर्थं ययातिनृपसमीपे गतिः। तत्प्रार्थनया तेन च तथाभूताश्वलाभद्वारभूतां माधवीनामककन्यां ददे। तर्स्या कन्यायाञ्चैकैकपुत्रजनने तथाभूतश्वशतद्वयं शुल्कत्वेन च कल्पित, तत्रादौ हर्य्यश्वनृपेण द्वे तथाविधाश्वशते शुल्कत्वेन दत्त्वा एकपुत्रस्तस्यामुत्पादितः। ततो दिवोदासेन तथैब द्वेशते शुक्लं दत्त्रा एकः पुत्र उदपादि। तत उशीनरेण तथैव द्वे शते शुल्कं दत्त्वा एकः पुत्र उदपादि। एवं षट् तथाभूताश्वशतानि द्विशताश्वशुल्कदानेनैकपुत्रोत्पादनयोग्यां ताञ्च कन्यां गुरवे विश्वामित्राय गुरुदक्षिणात्वेन ददौ तेन च तस्यामेकः पुत्रः उदपादीति।

गालवि = पु० गालवस्यापत्यम् इञ्। गालवर्षेः पुत्रे प्राक्शृङ्गवदाख्ये मुनिभेदे। स हि कुणिगर्गस्यातिवृद्धां कन्यामुपयेमे तत्कथा च वृद्धकन्यामुपवर्ण्य “वार्द्धक्येन च राजेन्द्र! तपसा चैव कर्शिता। सा नाशकद्यदा गन्तुं पदात् पदमपिस्वयम्। चकार गमने बुद्धिं परलोकाय वै तदा। मोक्तुकामान्तु तां दृष्ट्वा शरीरं नारदोऽव्रवीत्। असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे!। एवन्तु श्रुतमस्माभिर्द्देवलोके महाव्रते!। तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः। तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि। तपसोऽर्द्धं प्रयच्छामि पाणिग्राहस्य सत्तम!। इत्युक्तेऽथास्य जग्राह पाणिं गालवसम्भवः। ऋषिः प्राक्शृङ्गवान्नाम समयञ्चेदमब्रवीत्। समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने!। यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह। तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा। यथादृष्टेग विधिना हुत्वा चाग्निं विधानतः। चक्रे च पाणिग्रहणं तस्योद्वाहञ्च गालविः” भा० शल्य० ५३ अ०।

गालि = पु० चु० गल–क्षारण इन्। आक्रोशे शापे त्रिका०। “ददतु ददतु गालिं गालिमन्तोभवन्तो वयमिह तदभावाद्गालिदानेऽप्यशक्ताः” उद्भटः।

गालित = त्रि० चु० गल–क्षारणे (गालान) कर्भणि क्त। कृतद्रवे “गालितस्य सुवर्णस्य षोडशांशेन सीसकम्” वैद्य। “तथा पचेत् यथाऽगालितमण्डश्चरुर्भवति” लालेसी पद्धतिः।

गालिनी = स्त्री “कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम्। तर्ज्जनीमध्यमानामाः संगताः भुग्नवर्ज्जिताः। मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता” तन्त्रसा० उक्ते मुद्राभेदे।

गालोडि = गालोडितमाचष्टे ञि इतलोपः मुग्ध० उन्मत्ताद्याख्याने अक० उभ० सट्। गालोडयति ते।

गालोडित = त्रि० “उन्मादशीलो रोगार्त्तो मूर्खो गालोडितः स्मृतः” कलापवृत्तावुक्ते १ उन्मत्ते २ रोगार्त्ते ३ मूर्खे च गोलो हित इति वा पाठस्तत्रार्थेषु।

गालोड्य = न० गलोड्य + स्वार्थे प्रज्ञा० अण्। १ धान्यभेदे २ पद्मवीजे राजनि०।

गावल्गणि = पु० गवल्गणस्याषत्यम् इञ्। गवल्गणेरपत्ये सञ्जये गवल्गणशब्दे दृश्यम्। “गावल्गाणरिदं धीमान्” भा० आ० १० अ०। “सञ्जयश्च सहामात्यो विद्वान् गावल्गणिर्वशी” २ अ०।

गाविष्ठिर = पुंस्त्री गविष्ठिरस्यापत्यम् विदा० अञ्। गविष्ठिरर्षेरपत्ये। ततः हरिता० युवापत्ये फञ्। गाविष्ठिरायण तदीययुवापत्ये पुंस्त्री।

गावेधुक = त्रि० गवेधुकाया विकारः विल्वा० अण्। गवेधुकावयवे चर्वादौ। गवेधुशब्दे उदा०।

गाह = विलोडने भ्वा० आत्म० सक० ऊदित् वेट्। गाहते अगाहिष्ट–अगाढ जगाहे। “मनस्तु मे संशयमेव गाहते” कुमा०। “अगाहताष्टादशतो जिगीषवा” नेष०। “जगाहिरेऽम्बुधिं नागाः”। “समगाहिष्ट चांम्बुधिम्” “जगाहे द्यां निशाचरः” “जगाहे च दिशो दश” भट्टिः। “ब्रह्मावर्त्तं जनपदमधश्छायया गाहमानः” मेघ०। “पूर्वापरौ तोयनिधी वगाह्य” कुमा० अवाऽल्लोपः। पक्षे अवगाह्य। “तपस्विगाढां तमसाम्” (प्राप) रघुः। अब + विषयीकरणे च। “पक्षे साध्यावगाहि ज्ञानम्” गदा०

गाह = पु० गह–गहने भावे कर्म्मणि वा घञ्। १ गहने। “गाहाद्दिव आ निरधुक्षत” ऋ० ९। ११०। ८। “गाहात् गहनात्” भा०। गाह–कर्त्तरि अच्। २ गाहकर्त्तरि त्रि०

गिद = पु० रथपालके देवभेदे “गिदैष ते रथ एष वामश्विना” ता० ब्रा० १। ७। ७। “गिदा नाम रथपालकः कश्चि- द्देवः” भा०।

गिध्र = त्रि० गिरिं धारयति धृ–मूलविभ० क नि० रिलोपः। गिरिधारके।

गिन्दक = पु० गेन्दुक + पृषो०। गेन्दुके (केन्द) वृक्षे हेमच०।

गि(र्)रा = स्त्री गॄ–क्विप् वा टाप्। वाक्ये। “रवेः कवेः किं समरस्य सारं इति” प्रश्ने “भागीरथीतीरसमाश्रितानाम्” विदग्धमु० उत्तरम्। “गिरा मुखाम्भोजमियं युयोज” “गरोगिरः पल्ललनार्थलाघवे” नैषधम् “भवद्गिरामवसरप्रदानाय वचांसि नः” “गिरमुत्तरपक्षताम्” माघः। “गीर्भिष्ट्वा वयं वर्द्धयामो वचोविदः” ऋ० १। ९१। ९। अस्य पत्यादौ परे समासे अहरा० रूपत्रयम् गीष्पतिः गीर्पतिः गीःपतिः। २ स्तुतौ च “पवमानो गिरावृधम्” ऋ० ९। २६। ६। “गिरा स्तुत्या वर्द्धमानम्” भा०।

गिरि = पु० गॄ–इ किच्च। १ पर्वते। “कुचरो गिरिष्ठा इत्यृचो निरुक्तौ १। २०। “गिरिः पर्वतः समुद्गीर्ण्णो भवति” इत्युक्तम्। “सदोर्द्ध्वबाहुर्योवीरो मुक्तकेशो दिगम्बरः। सर्वत्र समभावेन भावयेद्यां नरोत्तमः। इष्टदेवीधिया नारीं स गिरिः परिकीर्त्तित” इत्युक्तलक्षणे २ तान्त्रिकसंन्यासिभेदे, ३ परिव्राजकोपाधिभेदे च। यथा आनन्दगिरिः। गि(र)लति स्तोकम् गॄ अच्। ४ बालमूषिकायां स्त्री वा ङीप् रमानाथः। ५ नेत्ररोगे मेदि०। गिरिकाणः ३ त० प्रकृतिस्वरः। ६ गेन्दुके विश्वः। ७ पूज्ये त्रि० मेदि०। ८ निगरणे स्त्री अमरः। “अथान्धकारं गिरिगह्वरस्थम्” रघुः। “गिरेस्तडित्त्वानिव तावदुच्चकैः” माघः। ९ मेघे निघ०। “गिरयो नाप उग्रा अस्पृध्रन्” ऋ० ६। ६७। ११। “गिरयो मेघाः” भा०। “गिरिभ्रजो नोर्मयो मदन्तः” ऋ० १०। ६८। १। “गिरिभ्यो मेघेभ्यो भ्रष्टा निर्गताः” भा०। “मेघोऽपि गिरिरेतस्मादेव जलादेः संगरणं भवति” निरु० १२०। १० पारददोषभेदे “मलं विषं वह्निगिरी च चापलन्नैसर्गिकं दोषमुशन्ति पारदे। उपांधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथिता सुनीश्वरैः। मलेन मूर्च्छा, मरणं विषेण, दाहोऽग्निना कष्टतरः शरीरे। देहस्य जाड्यङ्गिरिणा सदा स्यात्, चाञ्चल्यतो वीर्य्यहृतिश्च पुंसाम्। वङ्गेन कुष्ठं भुजगेन षण्डो भवेदतोऽसौ परिशोधनीयः। वह्निर्विष मलञ्चेति मुख्या दोषास्त्रयो रसे। एते कुर्दन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात्। अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि। तथाप्येते त्रयो दोषाः शोधनीया विशेषतः” भावप्र०। ततःपरस्य नदीनखादीनां गिरिनद्यादि० पूर्वपदस्थनिमित्तत्रात् वा णत्वम्। गिरिण(न)दी गिरिण(न)खः गिरिण(न)द्धः गिरिणि(नि)तम्बः।

गिरिक = पु० गिरौ कैलासे कायति कै–क। १ शिवे। “गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च” भा० शा० ३६८ अ० दक्षोक्तशिवनामसु। नीलकण्ठानान्याव्युत्पत्तिरुक्ता। गिरिं गिरिवदचेतनं देहादिकं कायति शब्दति अन्तर्भूतण्यर्थे कै–क। अचेतनमपि देहादि चेतनं करोतीत्यर्थः”। गिरि + स्वार्थे क। २ बालमूषिकायाम् स्त्री अमरः। गिरौ भवः कन्। ३ पर्वतजाते त्रि०। ४ उपरिचरवसुनृपमहिष्यां स्त्री तस्या गिरितो जन्मकथा भा० आ० ६३ अ० यथा

“राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्। पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः। अरौत्सं च्चेतनायुक्तः कामात् कोलाहलः किल। गिरिं कोलाहलं तन्तु पदा वसुरताडयत्। निश्चक्राम ततस्तेन प्रहारविवरेण सा। तस्यां नद्यामजनयन् मिथुनं पर्वतः स्वयम्। तस्मात् विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत्। यः पुमानभवत् तत्र तं स र जर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः। चकार पत्नीं कन्थान्तु तथा तां गिरिकां नृपः। वसोः पत्नी च गिरिका कामकालं न्यवेदयत्। ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः। तदहः पितरश्चैनमूचुर्जहि मृगानिति। तं राजसत्तमं प्रीतास्तदा मतिमतां वर!। स पितॄणां नियोगन्तमनतिक्रम्य पार्थिवः। चचार मृगयां कामी गिरिकार्मेव संस्मरन्। अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम्”। “चैद्योपरिचरं वीरं वसुं नामान्तरिक्षगम्। चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान्। महारथो मगवराट् विश्रुतो यो वृहद्रथः। प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्। मारुतश्च यदुश्चैव मत्स्यकालो च सत्तम!” हरिवं ३२ अ०।

गिरिकच्छप = गिरौ पर्वतस्थदर्य्यां कच्छपः। पर्वतदरीस्थशायिनि स्थलकच्छपे। स च प्रमथाद्युपद्रवराहित्याय गृहे गृहस्थेन स्थापनीयः यथाह भा० आनु० १२१ अ० “गोरचना सभालम्भी वचाहस्तश्च यो भवेत्। घृताक्षतं च यो दध्यात् मस्तके तत्परायणः। ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम्। यस्य चाग्निर्गृहे नित्यं दिवा रात्रौ च दीप्यते। तरक्षोश्चर्म दंष्ट्रा च तथैव गिरिकच्छपः। आज्यधूमोविडालश्च छागः कृष्णोऽथ पिङ्गलः। येषामेतानि तिष्ठन्ति गृहषु गृहमेधिनाम्। तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः” पिशाचोक्तौ।

गिरिकण्टक = पु० गिरेः कण्टक इव भेदकत्वात्। वज्रे त्रिका०

गिरिकदम्ब = पु० गिरौ भवः कदम्बः। धाराकदम्बे राजनि० स्वार्थे क। तत्रार्थे “देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः सुश्रुतः।

गिरिकदली = स्त्री ७ त०। बहुवीजायाम् वनरम्भायाम् राजनि० “गिरिरम्भातु मधुरा हिमा बल्या च दुर्ज्जरा। तृष्णापित्तदाहशोषशमनी वीर्य्यकृद्गुरुः” राजनि०।

गिरिकर्ण्णिका = स्त्री गिरिः कर्ण इव यस्याः कप् कापि अत इत्त्वम्। १ पृथिव्यां त्रिका०। गिरेर्बालमूषिकायाः कर्णः अस्त्यस्याः तदाकारपत्त्रत्वात् ठन्। २ अपराजिता लतायां ३ श्वेतकिणिहीवृक्षे च राजनि०।

गिरिकर्ण्णी = स्त्री गिरेर्बालमूषिकायाः कर्ण इव कर्णः पत्रमस्याः ङीप्। १ अपराजितालतायाम् अमरः। “त्रिफला गिरिकर्णी च हंसपादी च चित्रकम्” भावप्र०। २ यवासे शब्दच०।

गिरिका = स्त्री गिरिरेव स्वार्थे क। बालमूघिकायाम् अमरः। गिरिशब्दे गिरिकशब्दे च दृश्यम्।

गिरिकाण = त्रि० गिरिणा नेत्ररोगभेदेन काणः। नेत्ररोगभेदेन एकनेत्रहीने। अस्य ३ त० प्रकृतिस्वरता।

गिरिक्षित् = पु० गिरि वाचि क्षियति क्षि–वासे क्विप् अलुक्स०। स्तुतिरूपवाक्यस्थे परमेश्वरे “प्र विष्णवे शूषमेतु मन्मगिरिक्षित उरुगायाय वृष्णे” ऋ० १। १५४। ३। “गिरिक्षिते गिरि वाचि, गिरिवदुन्नतप्रदेशे वा तिष्ठते” भा०।

गिरिक्षिप = त्रि० गिरिं क्षिपति क्षिप–क। १ गिरेरुत्क्षेपण सामर्थ्यवति २ अक्रूरभ्रातरि पु० गान्दिनीजशब्दे दृश्यम्

गिरिगुड = पु० गिरौ गुड इव। गेन्द के (केन्द) हेमच०।

गिरिचर = त्रि० गिरौ चरति चर–ट०। १ पर्वतचारिणि। “गिरि चर इव नागं प्राणसारं बिभर्त्ति” शकु० स्त्रियां ङीप्। २ चौरे तदीशे ३ रुद्रभेदे पु० “नम उष्णीषिले गिरिचराय” यजु० १६। २१। गिरिचरश्चौरः अध्यन्यानां वस्त्राद्यपहर्त्तुं पर्वतादिविषमस्थानचरत्वात् तदधिपत्वाद् रुद्रोपि गिरिवरः इत्युपचारः।

गिरिज = न० गिरौ जायते जन–ड। १ शैलजे शिलाजतुनि २ लोर्ध्रे ३ अभ्रके च मेदि०। ४ गेरिके राजनि० ५ मधुक वृक्षे ६ गौरशाके पु० रत्नमा०। ७ हिमाद्रिजातायां पार्वत्यां स्त्री “आगतं शिवबक्त्रेभ्यो गतश्च गिरिजानने” यामलम्। “यदा यदा स गिरिजामृदुनामाक्षरागतम्” काशी० ६६ अ० ८ मातुलाङ्ग्यां स्त्री मेदि० ९ श्वेतवुह्नायां रत्नमा०। १० क्षुद्रपाषाणभेदलतायां ११ त्रायमाणलतायां १२ कारी वृक्षे १३ मल्लिकायां १४ गिरिकदल्यां च स्त्री राजनि०। १५ पर्वतजातमात्रे त्रि०। गिरि वाचि जायते जन–ड अलुक्स०। १६ स्तुतिरूपवाक्यनिष्पन्ने च “मरुत्वते गिरिजा एवया मरुत्” ऋ० ५। ८७। २। गिरिजा वाचिनिष्पन्नाः” भा०। पार्वत्या हिमालयरूपगिरेर्जन्मकथा शिवपुराणे १३ अ० हिमालयस्य मेनकानाम्नी पत्नी बभूवेत्युक्त्वा “प्रसूतिरभव० त्तस्याः मेनायाः कन्यका शुभा” इत्युपक्रमे “तां पार्वतीत्याभिजनाच्च नामतो जुहाव तद्बन्धुजनः स्वभावतः। मात्रा निषिद्धा तपसे यदा तु सा ययावुमाख्यां भवभक्ति भाविनी”। कालिकापुराणे तु तस्याः कालीतिनाम तत्कथा ४१। ४२ अ० दृश्या। १७ गङ्गायाञ्च स्त्री तस्या अपि तत उत्पत्तिकथा कालिकापु० ४७ अ० दृश्या।

गिरिजातनय = पु० ६ त०। कार्तिकेये तस्य च यथोत्पत्तिस्तथा कार्त्तिकेयप्रसूशब्दे १९५६ पृ० उक्तप्राया कालिकापु० ४७ अ० विस्तरेण दृश्या। गिरिजानन्दनादयोऽप्यत्र।

गिरिजापति = पु० ६ त०। १ शिवे, गिरिजेशादयोऽप्यत्र।

गिरिजामल = न० गिरौ पर्वते मेघे घनरवे वा जायते जनड, तेषु अमलम्, तथाभूतञ्च तदमलञ्च, गिरिजायाः पार्वत्या वीजरूपं मलं वा। १ अभ्रके तस्य यथा च पार्वतीवीजजातत्वं तथा अभ्रकशब्दे ३१५ पृ० उक्तम् भावप्र० तस्यान्यथोत्पत्तिभेदादिकमक्तं यथा

“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम्। विस्फु लिङ्गास्ततस्तस्य गगने परिसर्पिताः। त निपेतुर्घनध्वानाच्छिखरेषु महीभृताम्। तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम्। तद्वज्रं वज्रजातत्प दभ्रमभ्ररवोद्भवात्। गगनान् स्खलितं यस्माद् गगनञ्च ततो मतम्। विप्रक्षत्रियविट्शूद्रभेदात्तत् स्याच्चतुर्विवम्। क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः। प्रशस्यते सितन्तारे रक्तं तत्तु रसायने। पीतं हेमनिकृष्णन्तु गदेषु द्रुतयेऽपि च। पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम्। भुञ्चत्यग्नौ विनिक्षिप्तं पिनाकन्दलसञ्चयम्। अज्ञानाद्भक्षणं तस्य महाकुष्ठ प्रदायकम्। दर्दुरं त्वग्निनिःक्षिप्तं कुरुते दर्दुरंध्वनिम। गोलकान् बहुशः कृत्वां स खान्मृत्यु प्रदायकः। नागन्तु नागवद् वह्नौ फुत्कारं परिमुञ्चति। तद्भक्षितमवश्यन्तु विदधाति भगन्दरम्। वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत्। सर्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत्। अभ्रमुत्तरशैलोत्थं बहुसत्वं गुणाधिकम्। दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुणपदम्। अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनञ्च। हन्यात् त्रिदोषं ब्रणमेहकुष्ठप्लीहोदरग्रन्थिविषक्रमींश्च। रोगान् हन्ति द्रढयति वपु र्वीर्य्यवृद्धिं विधत्ते तारुण्याद्यं रमयति शतं योषतां नित्यमेव। दीर्घायुष्कान् जनयति सुतान् विक्रमैः सिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम्”। अभ्रशब्दे अनुक्तास्तद्गुणादिभेदा इहोक्ताः।

गिरिज्वर = पु० गिरि जृरयति ज्वर–णिच्–अच्। वज्रे शब्दर०।

गिरि(लि)त = त्रि० गिल–क्त वा रः। भक्षिते रायमुकु०।

गिरित्र = पु० गिरौ कैलासे स्थितस्त्रायते त्रै–क। रुद्रं। “शिवां गिरित्र तां कुरु” यजु० १६। ३।

गिरिदुर्ग = न० गिरिरेव दुर्गम् राज्ञां शत्रुभ्यो निःशङ्क–, तया वासस्थानम्। पर्वतरूपे तादृशे स्थाने (गड)। “धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा। नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम्। सर्वेण तु प्रयत्नेन गिरिवुर्गं समाश्रयेत्। एषां हि बहुगुण्येन गिरिदुर्गं विशिष्यते”। त्रीण्याद्यान्याश्रितास्तेषां मृगगर्त्ताश्रयाप्चराः”। त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः” मनुः। एषां मध्ये गिरिदुर्गं बहुगुणत्वात् विशिष्टं तस्य गुणाश्च सुदुरारोहत्वं महाप्रदेशादल्पप्राणप्रेरितशिलादिना बहुशत्रुसंन्यविनाशनमित्यादयः” कूल्लु० “वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः” भा० वि० ५ अ०।

गिरिधातु = पु० ६ त०। गैरिके उपधातुभेदे राजनि०।

गिरिनगर = न० वृ० स० कूर्मविभागे १४ अ० दक्षिणस्यामुक्ते अथ दक्षिणेन लङ्केत्युपक्रमे “कालाजिनसौरिकीर्ण्णतालिकटाः गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यमरुकच्छाः” इत्युक्ते देशभेदे। अस्य च संज्ञात्वेऽपि पूर्वपदस्थनिमित्तात् क्षुभ्रादित्वात् न णत्वम्।

गिरिनद्यादि = पु० वार्त्ति० ग० उक्ते पूर्वपदस्थनिमित्तात् वा णत्वनिमित्ते शब्दगणे स च गणः “गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्य्यमाण- माषोण आर्गयन” आकृत्तिगणः। “गिरिनद्यादीनां वा” वार्त्ति०।

गिरिनन्दिनी = स्त्री ६ त०। हिमालयसुतायां १ पार्वत्यां २ गङ्गायाञ्च, गिरेर्नन्दिनीव। ३ नदीमात्रे तासां गिरिप्रभवत्वात्तथात्वम् “अन्याश्च सरितो बह्व्यः” इत्युर्पक्रमे “शुभाश्च गिरिनन्दिन्यः” हरिवं० १३६ अ०। “कलिन्दगिरिनन्दिनीतटसुरदुमालम्बिनी” रसरङ्गाधरः।

गिरिनिम्ब = पु० ७ त०। महानिम्बवृक्षे राजनि०।

गिरिपीलु = पु० ६ त०। (फालसा) इति वृक्षभेदे राजनि०।

गिरिपुर = न० आनर्त्तदेशान्तर्गते पुरभेदे आनर्त्तशब्दे ७२७ पृ० उदा०।

गिरिपुष्पक = न० गिरेः पुष्पमिव कायति कै–क। शिलाजतुनि राजनि०।

गिरिप्रिया = स्त्री गिरिः प्रियोऽस्याः। चमर्य्यां मृगभेदे राजनि०।

गिरिबुध्ना = स्त्री गिरिर्वुध्न इव यस्याः। अप्सु। गिरिबुध्ना उवाचापः” शत० ब्रा० ७। ४। २। १८।

गिरिभिद् = पु० गिरिं भिनत्ति भिद–क्विप्। १ पाषाणभेदके वृक्षे भावप्र०। २ इन्द्रे च। ३ नद्यन्तरे। ४ नदीभेदके “नद्यन्तरेऽसंसवो गिरिभिच्चेत्” कात्या० श्रौ० २५। १४। २३। “गिरिं भित्त्वा या नद्यागता तदनन्तरे संसवो न भवति” कर्कः।

गिरिभू = त्रि० गिरौ भवति भू–क्विप्। १ पर्वतप्रभवे क्षुद्रपाषाणभेदे २ पार्वत्यां ३ गङ्गायां च स्त्री ६ त०। ४ पर्वतभूमौ स्त्री।

गिरिमल्लिका = स्त्री गिरौ मल्लीव इवार्थे कन्। कुटजवृक्षे। अमरः।

गिरिमान = पु० गिरेरिव मानमस्य। गजे शब्दरत्ना०। तस्य उच्चत्वात्तथात्वम्।

गिरिमाल = पु० गिरौ मालः सम्बन्धोऽस्य। बाधके स्वनामख्याते यज्ञिययूपकाष्ठसाधने वृक्षभेदे “तेल्यको बाधको वा” कात्या० श्रौ० २३। ३। ९। “यूपो भवति तैल्यकस्तिणिशः बाधको गिरिमालः” कर्कः।

गिरिमृद् = स्त्री ६ त०। १ गैरिके (गेरिमाटि) त्रिका०। २ पर्वतमृत्तिकायाञ्च।

गिरिमृद्भव = न० गिरेर्मृदो भवति भू–अच्। गैरिके राजनिं०

गिरिमेद = पु० गिरिर्मेद इव सारोऽस्य विट्खदिरे रत्नमा०

गिरियक = पु० गिरिं याति या–क संज्ञायां कन्। गेन्दुके (केन्द) वृक्षे हेमच०।

गिरियाक = पु० गिरिं याति–या क्विप् संज्ञायां कन् न हृस्वः। केन्दुके शब्दरत्ना०।

गिरिराज् = पु० गिरिषु राजते राज–क्विप् ७ त०। १ पर्वतश्रष्ठे “स तयाभिहतो राजन् ताचलत् गिरिराडिव” भा० भी० ७८ अ०। “गिरिराट्पादचारीव” भाग० ६। १२। २५। २ हिमाचले च।

गिरिराज = पु० ६ त०। हिमालये। यथा च तस्य नगराजत्वं तथा अचलराजशब्दे ८३ पृ० उक्तम्। “सोऽपि कार्पाटिकस्तस्य गिरिराजस्य भाषितम्”। “गिरिराजाङ्गजासखः” काशी०। “गिरिराजराजसुतान्वितवामतनुम्” शिवस्तवः।

गिरिवासिन् = त्रि० गिरिं वासयति सुरभीकरोति वासिणिनि, गिरौ वसति वस–णिनि वा। हस्तिकन्दे वृक्षे राजनि०।

गिरिव्रज = न० गिरीणां पञ्चानां व्रजो यत्र। मगधदेशान्तर्गते जरासन्धपुर “सोऽभिजनोऽस्य अण्। गैरिव्रज तद्देशवासिनि त्रि० बहुषु तस्य लुक्। “गिरिव्रजाः मगधपुण्ड्रमिथिलाश्च” वृ० स० १० अ०। गिरिव्रजवर्णनं भा० स० २१ अ०। यथा

“एष पार्थ! महान् भाति पशुमान्नित्यमम्बुमान्। निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः। वैहारो १ विपुलः शैलो वराहः २ वृषभ ३ स्तथा। तथा ऋषिगिरि ४ स्तात! शुभश्चैत्यक ५ पञ्चमाः। एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः। रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्” इत्युपक्रमे।

“अङ्गवङ्गादयश्चेव राजानः सुमहाबलाः। गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्ज्जुन!। वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः। लोध्राणाञ्च शुभाः पार्थ! गौतमौकःसमीपजाः। अर्व्वुदः शक्रवापी च पन्नगौ शत्रुतापनौ। स्वस्तिकस्यालयश्चात्न मणिनागस्य चोत्तमः। अपरिहार्य्या मेघाना मागधा मनुना कृताः। कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्। एवं प्राप्य पुर रम्य दुराधर्षं समन्ततः। अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते”।

गिरिश = पु० गिरौ शेते शी–बा० लोकेऽपि ड, गिरिरस्त्यस्य लामा० श वा। १ शिवे अमरः। “गिरिशमुपचचार प्रत्यहं सा सुकुशी” कुमा०। “गिरिशरमणी कालि! सततम्” कालास्तवः। “शिवेन वचसा त्वा गिरिशाच्छा वदामसि” यजु० १६। ४।

गिरिशन्त = पु० महादेवे। “गिरिशन्ताभिचाकशीहि” यजु० १६। २। “गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनांति विस्तारयति, गिरि वाचि स्थितः शं तनोतीति वा गिरौ–मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा वेददी०। सर्वत्र तन–बा० ड। गिरि वाचीति पक्षे अलुक्स०।

गिरिशय = पु० गिरौ कैलासे शेते शी–अच्। महादेवे। “नमो गिरिशयाय च गिरिष्ठाय च” यजु० १६। ९।

गिरिशाल = पु० गिरिं शलति आश्रयत्वेन गच्छति शलगतौ अण् उप० स०। सुश्रुतोक्ते प्रतुदे पक्षिभेदे। कपोतपारावतेत्युपक्रमे गिरिशालह्वानदूषकेत्यादयः प्रतुदाः” सुश्रुतः।

गिरिशालिनी = स्त्री गिरिं बालमुषिकाकर्ण्णं शलते श्लाघते स्वपत्रेण शल–श्लाघायां णिनि ङीप्। गिरिकर्ण्णिकायामपराजितायाम् “पारिभद्रं पाटला च बकुलं गिरिशालिनी” वामनपु०। तत्तुल्यपत्रत्वेन गिरेः श्लाघनात् तस्यास्तथात्वम्।

गिरिशृङ्ग = पु० गिरेः शृङ्गमाकारेणास्त्यस्य अच्। १ गणेशे शब्दरत्ना० शुण्डादण्डस्योत्तलने गिरिशृङ्गाकारत्वात् तस्य तथात्वम्। ६ त०। २ पर्वतशिखरे न०।

गिरिषद् = पु० गिरौ सीदति सद–क्विप् षत्वम्। महादेवे।

गिरिष्ठा = स्त्री गिरौ तिष्ठति स्था क्विप् अम्ब० षत्वम्। १ महादेवे २ पर्वतस्थायिमात्रे त्रि०। “मृगो न भीमः कुचरो गिरिष्ठाः” ऋ० १। १४४। २। “गिरिष्ठा गिरिस्थायी” निरु०

गिरिसर्प = पु० नित्यः ७ त०। दर्वीकरसर्पभेदे सुश्रुतः। अहिशब्दे ५८१ पृ० विवृतिः।

गिरिसार = पु० ६ त०। १ लौहे २ रङ्गे घातुभेदे च “द्रोणाय प्रेषयामास गिरिसारसयीं वली” भा० भी० ५३ अ० गिरिसु सारः चन्दनादिसुरभिद्रव्यवत्त्वात् श्रेष्ठः। ३ मलयपर्वते मेदिनिः।

गिरिसुत = पु० ६ त०। १ मैनाकपर्वते। २ पार्वत्याम् स्त्री। “अवतु वो गिरिसुता शशिभृतः प्रियतमा” उद्भटः। “शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमप्यूर्ध्वम्। शूलं धनुः पिनाकं वामार्धे वा गिरिसतार्धम” वृ० स० ५८ अ०।

गिरिस्रवा = स्त्री गिरेः स्रवति स्रु–अच् ५ त०। पर्वसनद्यां “गिरिस्रवाभि! सर्वाभिः पृष्ठतोऽनुगता शुभा” भा० आनु० १४ अ०।

गिरिह्वा = स्त्री गिरिं बालमूषिकाकर्ण्णं ह्वयति स्पर्द्धते तदाकारेण ह्वे–क। गिरिकर्णिकायाम् अपराजितायाम् तत्कर्णतुल्यपत्रत्वास्तस्यास्तथात्वम्। “श्वेता गिरिह्वा किणिही सिता च” सुश्रु०। आ + ह्वे–क। गिर्य्याह्वा- प्यत्र। “शिरीषः किणीहिः शेलः गिर्य्याह्वा रजनीद्वयम्” सुश्रु०।

गिरीन्द्र = पु० गिरिरिन्द्र इव श्रेष्ठत्वात् ६ त० वा। हिमालये पर्वते अचलराजशब्दे ८३ पृ० विवृतिः। १ महादेवे च कैलासेश्वरत्वत्तस्य तथात्वम्। “माधवञ्च गिरीन्द्रोऽसौ सम्भावयति चेतसि” काशी० ६६ अ०।

गिरीश = पु० गिरेः कैलासस्य ईशः। महादेवे अमरः। “सुतां गिरीशप्रतिषक्तमानसाम्” कुमा०। गिरीणामीशः। २ हिमालये। गिरां वाचामीशः। ३ वाचस्पतौ च मेदि०।

गिर्वणस् = पु० गिरा स्तुत्या वन्यते बन–कर्म्मणि असुन् संज्ञात्वात् णत्वं पृषो० नोपपददीर्घः। १ स्तवनीये देवभेदे। “गिर्वणादेवो भवति गीर्भिरेनं वनयन्ति” निरु० ६। १४। “सोमास इन्द्र! गिर्वणः” ऋ० १। ५। ७। “गीर्भिः स्तुतिभिः संभजनीयो देवविशेषः” भा०। कर्त्तरि असुन्। २ स्तोतरि च। “धीरो गिर्वणस्युर्विदानः” ऋ० १०। १११। १। “गोर्भिर्वनन्ति भजन्ते इति गिर्वणसः स्तोतारः वनतेरसुनि रूपम् उपपददीर्घाभावश्छान्दसः। तदन्तात् क्यप्। “क्याच्छन्दसि” पा० उप्रत्ययः स्तोतॄन् कामयमानः” धा०। “परि त्वा गिर्वणो! गिर इमा भवन्तु विश्वतः” शत० ब्रा० ३। ६। १। २४।

गिर्वन् = पु० गिरा वन्यते वन–विच् नि० उपपददीर्घाभावः। इन्द्रादौ देवे “इन्द्रो वै गिर्वा” शत० ब्रा० ३। ६। १। २४।

गिर्वाहस् = पु० गिरा स्तुतिवाचा उह्यते नि० उपपददीर्घाभावः। “स्तुतिवाक्यवाहनीये इन्द्रादौ देवे। “न जग्मुर्गिर्वाहो! अश्वाः” ऋ० ६। २४। ६।

गिल = गिल गिलने सक० तु० पर० सेट्। गिलति गिलन् सार्वधातुकविषयोऽयम्। गिरतेः रस्य लः इत्येके। किन्तु गिलन इति निर्द्देशात् सौत्रोऽयं धातुरित्येव ज्यायः

गिल = त्रि० गिल–क। १ भक्षके। “गिलेगिलस्व” वार्त्ति० एतत्परे पूर्वस्य मुम्! तिमिङ्गिलः। “तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघव!” गिलस्म तु न गिलगिलः “गेलगिले च” वा०। तिमिङ्गिलगिलः इत्यादौ मुम्। २ कुम्भीरे पु० शब्दच०। तस्य सर्वपदार्थस्य चर्वणाभावेन गिलनात् तथात्वम्। कर्म्मणि मूल० क। ३ जम्बीरे शब्दच० तस्य दन्तशठत्वेन चर्वणन्तरेण गिलनात्तथात्वम्।

गिलगिल = पु० गिलं कुम्भीरं गिलति गिल–क। अगिलस्येत्युक्तेः न मुर्म्। गिलग्राहे नक्रे (हा~गर)।

गिलग्राह = पु० गिलं कुम्भीरं गृह्णाति ग्रह–अण् उप० स०। नक्रे राजनि०।

गिलन = न० सौ० गिल–ल्युट् गिलन इति निर्द्देशात् न गुणः। चर्वणमन्तरेण भक्षणे(गेला) अमरः।

गिलायु = “ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः। संलक्ष्यते सक्तमिवाशनञ्च स शस्त्र साध्यस्तु गिलायुसंज्ञः” सुश्रुतोक्ते कण्ठरोगभेदे।

गिलि = स्त्री गिल–भावे इन्। गिलने अमरटी०।

गिलित = त्रि० गिल–क्त। भक्षिते अमरः।

गिलोड्य = पु० मधुरफले वृक्षभेदे। “कतकड्यिगलोपियालेत्याद्युपक्रमे “समासेन मधुरो वर्गः” सुश्रुतः।

गि(गे)ष्णु = त्रि० “गै–गादाभ्यामिष्णुच्” उणा० इष्णुच् आद्गुणः। इष्णुगिति केचित् पठन्ति तन्मते आतो लोपः। १ गायने २ सामादिगायके पु०। उज्ज्वलदत्तीये तु इष्णुजित्येव पाठः मतान्तरे एष्णुक् इति पाठान्तरमुक्त्वा आतो लोपे रूपसामान्यमुक्त्वा चित्स्वराभावात् स्वरे भेद इत्युक्तं तेनं शब्दकल्पद्रुमे गिष्ण इत्यदन्तशब्दकल्पनं प्रामादिकम्। तथा च गिष्णुरिति, गेष्णुरिति वा शब्दरूपद्वयम्।

गीत = न० गे–गाने भावे क्त। गाने स्वरविशेषनिष्पाद्ये शब्दभेदे। तच्च द्विविधं लौकिकं वैदिकञ्च तत्र गानशब्द वदिकगानलक्षणादिकमुक्तं लौकिमधुनोच्यते।

“धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः। तत्र नादात्मकोधातुर्मात्रा ह्यक्षरसञ्चयः”। तद्धिविधं यया “गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः। यन्त्रं स्याद्वेणुवीणादि गात्रन्तु मुखजं मतम्। निवन्धमनिवन्धञ्च गीतं द्विविधमुच्यते। अनिवन्धं भवेद्गीतं वर्णादिनियमं विना। तद्वा गमकधात्वाद्यै रनिवन्धं विनाकृतम्। निवन्धञ्च भनेद्गीतं तालमान रसाञ्चितम्। छन्दोगमकधात्वाद्यैर्वर्णादिनियमैः कृतम्। ऋग्भिः पाठ्यमभूद्गीतं सामभ्यः समपद्यत। यजुर्भ्योऽभिनया जाता रसाश्चाथर्वणः स्मृताः। अथ संगीतलक्षणम् “तालवाद्यानुगं गीतं नटीभिर्यत्र गीयते नृत्यस्यानुग तं रङ्गे तत्सङ्गीतकमुच्यते। सङ्गीतकेन रम्येण सुखं यस्य न चेतसि। मनुष्यवृषभो लोके विधिनैव स वञ्चितः। संसारदुःख दग्धानामुत्तमानामनुग्रहात्। प्रभुणा शङ्करेणात्र गीतवाद्यं प्रकाशितम्। गीतं वाद्यं तथा नृत्यं तौर्य्यत्रिकमिदं मतम्। तूर्य्यशब्दोमृदङ्गे स्यात् मुर- जेऽपि च दृश्यते। गीतज्ञो यदि गीतेन नाप्नोति परमं पदम्। रुद्रत्यानुचरो भूत्वा तेनैव सह मोदते। गीतेन हरिणा रङ्गं प्राप्नुवन्त्यपि पक्षिणः। वनादायान्ति फणिनः शिशवो न रुदन्ति च। हृदि चमत्कृतये किमतः परं फणिवरोऽश्वतरो वत पञ्चमः। अपि मृता यदवाप मदालसां मधुरगीतवशीकृतशङ्करः। परमानन्दविबर्द्धनमभिमतफल वशीकरणम्। सकलजनचित्तहरणं विमुक्तिवीजं परं गीतम्”। “शुद्धशालगसङ्कीणभेदाद्गीतं त्रिधा मतम्। एला साद्यभवा सपाठकर तत् पञ्चतानेश्वरः कैराते स्वरचक्रपालविजया पत्रं त्रिभङ्गितया। टेङ्कावर्णसरःपुटौ द्विपदिका सुक्तावलीमाहकालम्बोदण्डकवर्त्तनीति कथिताः शुद्धासु ते विंशतिः” सङ्गीतदा०। एलादीनामेतेषां विंशति संख्यकानां प्रबन्धगीतानामङ्गानि षट् भवन्ति यथा “पदं तानो विरुदश्च तालः पाठः स्वरस्तथा। एलादीनां षडङ्गानि कथितानि विरिञ्चिना। पौनरुक्त्यं न देशीये गीते दोषोऽभिजायते। शीघ्रोच्चारेण वर्णानां तथा चैव प्रसारणे। लिङ्गान्यत्वे विसन्धौ च संयुक्ताक्षरमोक्षणे। परिवर्त्तेऽक्षराणाञ्च ह्रस्वदोर्घव्यतिक्रमे”। शालगसूत्रं यथा “ध्रुवकोमण्डकश्चैव प्रतिमण्डोनिसारुकः। वासकः प्रतिलाभश्च तथान्या चैकतालिका। यतिश्च झुमरि श्चेति शालगं सूत्रमीरितम्”। सङ्कीर्णसूत्रं यथा “चैत्रोमङ्गलकस्तथा न गणिका चर्च्चातिनाटोन्नवी दोहा स्याद्वहुलस्तथागुरुबलो गीता च गोविस्तथा। हेम्नोफोप्यथ कारिका त्रिपदिकेत्येतानि कामद्विषा संक्षेपेण चतुर्द्दश प्रकृटितान्यत्राधमानि क्रमात्” सङ्गीतदा०। अधिकम् उल्लोप्यशब्दे १३७३ पृ० दृश्यम्। स्वार्थे क तत्रार्थे “काव्यालापाश्च ये केचित् गीतकान्यखिलानि च। शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः” अग्निपु०। कर्म्मणि क्त। २ शब्दिते मेदि०। ३ स्तुते ४ गानकर्म्मणि कृतगाने त्रि०। “गीता सुगीता कर्त्तव्या” गानशब्दे उदा०।

गीतगोविन्द = पु० गीतोगोविन्दोऽत्र। जयदेवकृते श्रीकृष्णचरितख्यापके द्वादशसर्गात्मके ग्रन्थभेदे। “यच्छृङ्गार विवेकतत्त्वमपि सत्काव्येषु लीलायितम् तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः। सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दितः” गीतगो०।

गीतप्रिय = त्रि० गीतं प्रियमस्य। १ गानरक्ते २ महादेबे पु० ३ कुमारानुगतमातृकामेदे स्त्री। “गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना” भा० शल्य० ५ अ० मातृगणोक्तौ।

गीतमोदिन् = त्रि० गीतेन मोदते मुद–णिनि। १ गीतेनामोदकर्त्तरि स्त्रियां ङीप्। २ किन्नरे पु० शब्दर०।

गीता = स्त्री गै–कर्मणि क्त। १ गुरुशिष्यकल्पनया आत्मविद्योपदेशात्मके कथाविशेषे सा च भनवद्गीतारामगीतादिभेदात् बहुला किन्तु भगवद्गीतायामेव प्रसिद्धिः। “गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्मात् विनिःसृतेति” श्रीधरस्वामिधृतवचनम्। प्रसिद्ध गीतायास्तात्पर्य्यादि नीलकण्ठेन समग्राहि यथा “भारत सर्ववेदार्थो, भारतार्थश्च कृत्स्नशः। गीतायामस्ति, तेनेयं सर्वशास्त्रमयी मता। कर्मोपास्तिज्ञानभेदैः शास्त्रं काण्डत्रयात्मकम् भक्तिस्तूपासनाकाण्डात्तृतीयान्नातिरिच्यते। तदेव ब्रह्म त्वं विद्धि नेदं यत्तदुपासते। इति श्रुत्यैव वेद्यस्य ह्युपास्यादन्यतेरिता। इयमष्टादशाध्यायी क्रमात् षट्कत्रिकेण हि। कर्मोपास्तिज्ञानकाण्डत्रितयात्मा निगद्यते”। मधुसूदनसरस्वतीभिस्तु गीतागूढार्थदीपिन्यां तत्प्रयोजनादिकं विस्तरेण दर्शितं यथा

सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम्। परं निश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम्। सच्चिदानन्दरूपन्तत् पूर्णं विष्णोः परं पदम्। यत्प्राप्तये समारब्धाः वेदाः काण्डत्रयात्मकाः। कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात्। तद्रूपाष्टादशाध्यायी गीता काण्डत्रयात्मिका। एकमेकेन षट्केन काण्डमत्रोपलक्षयेत्। कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययोः। यतः समुच्चये नास्ति तयोरतिविरोधतः। भगवद्भक्तिनिष्ठा तु मध्यमे परिकांर्त्तिता। उभयानुगता सा हि सर्वविघ्नापनोदिनी। कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा। तत्र तु प्रथमे काण्डे कर्म्मतत्त्यागवर्ण्णनात्। त्वंपदार्थो विशुद्धात्मा सोपपत्तिर्निरूप्यते। द्वितीये भगवद्भक्तिनिष्ठावर्णनया ततः। भगवान् परमानन्दस्तत्पदार्थोऽवधार्य्यते। तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम्। एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम्। प्रत्यध्यायं विशेषन्तु तत्रतत्रैव वक्ष्यते। मुक्तिसाधनपर्वेदं शास्त्रार्थत्वेन कथ्यते। निष्कामकर्मानुष्ठानं त्यागात् काम्यनिषिद्धयोः। तत्रापि परमोधर्मो जपस्तुत्यादिकं हरेः। क्षीणपापस्य चित्तस्य विवेके योग्यता यदा। नित्यानित्यविवेकस्तु जायते सुदृढस्तदा। इहामूत्रार्थ वैराग्यं वशीकाराभिधं क्रमात्। ततः शमादिसंपत्त्या संन्यासनिष्ठता भवेत्। एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा। ततो गुरूपसदनमुपदेशग्रहस्ततः। ततः सन्देहहानाय वेदान्तश्रवणादिकम्। सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते। ततस्तत्परिपाकेण निदिध्यासननिष्ठता। योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह। क्षीणदोषे ततश्चित्ते वाक्यात्तत्त्वमतिर्भवेत्। साक्षात्कारो निर्विकल्पः शब्दादेवोपजायते। अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत्। तत आवरणे क्षीणे क्षीयेते भ्रमसंशयौ। अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः। न चागामीनि जायन्ते तत्त्वज्ञानप्रभावतः। प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति। सा सर्वतो बलवतो संयमेगोपशाम्यति। संयमो धारणा ध्यानं समाधिरिति यत् त्रिकम्। यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते। ईश्वरो प्रणिधानात्तु समाधिः सिध्यति द्रुतम्। ततोभवेन्मनोनाशवासनाक्षय एव च। तत्त्वज्ञानं मनोनाशोवासनाक्षय इत्यपि। युगपत्त्रितयाभ्यासाब्जीवन्मुक्तिर्दृढा भवेत्। विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम्। प्रागसिद्धो यएवांशो यत्नः स्यात्तस्य साधने। निरुद्धे चेतसि पुरा सविकल्पसमाधिना। निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः। व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परवोधितः। अन्त्येतूत्तिष्टने नैव सदा भवति तन्मयः। एवम्भूतोब्राह्मणः स्याद्वरिष्ठो ब्रह्मवादिनाम्। गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते। अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तदा। एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्त्तते। यस्य देवे परा मक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मतः। इत्यादिश्रुतिमानेन कायेन मनसा गिरा। सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते। पूर्वभूमौकृता भक्तिरुत्तरां भूमिमानयेत्। अन्यथा विघ्नबाहुल्यात् फलसिद्धिः सुदुर्लभा। पूर्वाभ्यासेम तेनैव क्रियते ह्यवशोऽपि सः। तानेकजन्मसंसिद्ध इत्यादि च वचो हरेः। याश्च प्रागभवसंस्कारैरचिन्त्यत्वात्तु कश्चन। प्रागेव कृतकृत्यः ग्यादकस्मात् फलपातवत्। न तं प्रतिकृतार्थत्वाच्छास्त्रमारब्धमिष्यते। प्राक्सिद्धसाधमाभ्यासाद्दुर्ज्ञोया भगवत्लपा। एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये। विधेया मयवद्भक्तिस्तां विना सा न सिद्ध्यति। जीवन्मुक्तदशायां त न भक्तेः फलकल्पना। अद्वेष्टृत्वादिवत्तेषां स्वभावो लजनं हरेः। अत्मारागाश्च मुनयो निर्ग्रन्या अप्यरु- क्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः। तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। इत्यादिवचनात् प्रेमभक्तोऽयं सुख्य उच्यते। एतत् सर्वं भगवता गीताशास्त्रे प्रकाशितम्। अतो व्याख्यातुमेतन्म मम उत्सहते भृशम्। निष्कामकर्मानुष्ठानं मूलं मोक्षस्ये कीर्त्तितम्। शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः। यतः स्वधर्भविभ्रंशः प्रतिषिद्धस्य सेवनात्। फलाभिमन्धि पूर्वा वा साहङ्कोरा क्रिया भवेत्। आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः। पुमर्थलाभायोग्यः सन् लभते दुःखसन्ततिम्। दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह। अतस्तत्साधनं त्याज्यं शोकमोहादिकं विदा। अनादिभवसन्ताननिरूढं दुःखकारणम्। दुस्त्यजं शोकमोहादि केनोपायेन हीयताम्। एवमाकाङ्क्षयाविष्टं पुरुषार्थोन्मुखं नरम्। बुबोधयिषुराहेदं भगवान् शास्त्रमुत्तमम्”। व्यासप्रणीताध्यात्मरामायणान्तर्गता रामगीता भारताश्वमेविकोक्ते ब्राह्मणगीतानुगीते देवीभागवतोक्ता देवीगीता वैष्णवभागवतोक्ता गोपीगीता तन्त्रोक्ता शिवगीता इत्यादयो वह्व्यो गीताः सन्ति। ताश्च सर्वा एव अध्यात्मविद्याप्रकाशिकाः। अपराधशब्दे २२३ पृ० उक्तवाक्ये प्रत्यहं गीताध्यायपाठफलमुक्तम्।

गीतायन = न० ६ त०। गानसाधने वेणुमृदङ्गादौ “गीतायनैः दुन्दुभिशङ्खवेणुभिः” भाग० ४। ४। ६।

गीतासार = पु० गीताया भगवद्गीताया सारः संक्षेपेणार्थकथनमत्र। गरुडपुराणान्तर्गते २३५ अध्यायादित्रये भगवद्गीतार्थोक्तिसंक्षेपरूपग्रन्थे।

गीति = स्त्री गै–भावे क्तिन्। १ गाने। “तवास्मि गीतिरागेण हारिणा प्रसभं हृतः”। “अहोरागपरिवाहिणी गीतिः” शकु०। “श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्” कुमा०। “आर्य्याप्रथमदलोक्तं कथमपि लक्षणं भवेदुभयोः। दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः” वृ० र० उक्ते २ मात्रावृत्तभेदे।

गीतिका = स्त्री गीतिरिव कायति कै–क। १ गीतितुल्यगाथायां “गायत्रीं पठते यस्तु वर्णशङ्करजस्तथा। गाथा च गीतिका चापि तस्य सम्पद्यते नृप!” भा० व० ८५ अ०। “गाथा स्वरनियमहीना, गद्यवन्मुखान्निः सरात। गाथैव ग्राम्यगोतिवत् स्वरवर्णविकृता गीतिका” गीलक०। “सगणो जयुग्मभरैः स्लगैः कथिता युधैरिह गीतिका” वृ० र० टी० उक्ते २ विंशत्यक्षरपादके समचतुष्पादवर्णवृत्त- भेदे च। स्वार्थे क। गीतिका ३ गीतौ गाने।

गीथा = स्त्री गै–थक्। वाचि। “एष उ वा उद्गीथः प्राणो वा उत् प्राणेन हीदं सर्वमुत्तब्धं, वागेव गीथा उच्च गीथा चेति स उद्गीथः” शत० ब्रा० १४। ४। १। २५। “वागेव गीथा उद्गीथाभिव्यक्तिरूपा गायतेः शब्दार्थत्वात्” भा०

गीरथ = पु० गीः रथ इवास्य। १ गीष्पतौ त्रिका०। २ जीवात्मनि शब्दार्थचि०।

गीर्ण्ण = त्रि० गॄ–निगरणे शब्दे कर्म्मणि क्त। १ वर्णिते २ स्तुते ३ गिलिते च अमरः।

गीर्ण्णि = स्त्री गॄ–भावे क्तिन्। १ स्तुतौ २ वर्णने ३ गिलने च अमरः।

गीर्देवी = स्त्री गिरोऽधिष्ठात्री देवी। १ सरस्वत्याम् शब्दरत्ना०।

गीर्पति = पु० ६ त० अहरा० वा रः। १ वृहस्पतौ। २ पण्डिते च पक्षे षविर्गौ गीष्पतिः गीःपतिशब्दावप्यत्र अमरः।

गीर्बा(र्वा)ण = पु० गीरेव बाणः कार्य्यसाधनत्वादस्त्रं यस्य १ देवे सुरे। अन्तःस्थमध्यत्वे निरं स्तुतिरूपां वनुत बनयाचने अण् “पूर्वपदात् संज्ञायामिति” पा० णत्वम् उप० स०। देवानां स्तुतिप्रियत्वात् तथात्वमिति भेदः।

गीर्बा(र्वा)णकुसुम = न० गीर्बा(र्वा)णप्रियं कुसुमम्। देवकुसुमे लवङ्गे राजनि० गीर्वाणपुष्पादयोऽप्यत्र।

गीर्लता = स्त्री गीरिव विस्तीर्णा लता। महाज्योतिष्मतीलतायाम् राजनि०।

गीर्वत् = त्रि० गीरस्त्यस्य मतुप् “छन्दसीरः” पा० मस्य वः। वाक्ययुक्ते छब्दसीत्युक्तेः लोके न वः। गीर्मत् इति।

गु = ध्वनौ अव्यक्तशब्दे भ्वा० आत्म० अक० अनिट्। गवते अगोष्ट। जुगुवे। “उपो वेनस्य जोगुवानः” ऋ० १। ६१। १४। गुङ् अव्यक्ते शब्दे अस्मात् यङ्लुकि पदव्यत्ययेन शानच” भा०। “विश्वासूक्ष्मासु जोगुवे” ऋ० ५। ६ ४। २। “जोगुवे शब्दयामीति” भा० पूर्ववत् पदव्यत्ययः।

गु = विष्ठोत्सर्गे तुदा० कुटा० पर० अक० अनिट्। गुवति अगुत ओदित् क्त तस्य नः “दुग्वोर्दीर्घश्च” पा० दीर्घः गूनः।

गुग्गु(ल)लु = पु० गुज–क्विप् गुक् व्याधिः ततो गुडति रक्षति गुड–क कु वा डलवोरेकत्वम्। स्वनामख्याते वृक्षभेदे, अमरः। भरतस्तु इममदन्तमप्याह स्म। २ रक्तशोभाञ्जनष्ठक्षे शब्दच०।

“श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूक्षसर्जरसैः” “लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थविल्वमध्यानि” वृ० स० ५७ अ०। तस्य पर्य्यायमदगुणादि भावप्र० उक्तं यथा

“गुग्गुलु र्देवधूपश्च जटायुः कौशिकःपुरः। कुम्भा- लु खलकं क्लीवे महिषाक्षः पलङ्कषः। महिषाक्ष १ महानीलः २ कुमुदः ३ पद्म ४ इत्यपि। हिरण्यः ५ पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः। भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः। गहानीलस्तु विज्ञेयः स्वनामसमलक्षणः। कुमुदः कुमुदागः स्यात् पद्मो माणिक्यसन्निभः। हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्ग मीरितम्। महिषाक्षो महानीलो गजेन्द्राणां हिता वुभौ। हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ। विशेषेण मनुष्याणां कनकः परिकीर्त्तितः। कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि। गुग्गुलु र्विशदस्तिक्तो वीर्य्योष्णः पित्तलः सरः। कषायः कटुकः पाके कटू रूक्षो लघुः परः। भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः। दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः। मेदोमेहाश्मवातांश्च क्लेद कुष्ठाममारुतान्। पिडिकाग्रन्थिशोफार्शःगण्डमाला कृमीन् जयेत्। माधुर्य्याच्छमयेद्वातं कषायत्वाच्च पित्तहा। तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्व्वदोषहा। स नवो वृंहणो वृष्यः पुराणस्त्वतिलेखनः। स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः। नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्य्यस्तु पिच्छिलः। शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः। पुराणः स तु विज्ञेयः गुग्गुलुर्वीर्य्यवर्ज्जितः। अम्लं तीक्ष्णामजीर्णञ्च व्यवायं श्रममातपम्। मद्यं रोषन्त्यजेत् सम्यग्गुणाथी पुरसेवकः” पुरः गुग्गुलुः। अस्य स्थानविशेषे जन्मादिकथनं यथा “जायन्ते पुरपादपा मरुभुवि ग्रीष्मेऽर्कसन्तापिताः शीतर्कौ शिशिरेऽपि गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा। हेमाभं महिषाक्षितुल्यमपरं सत् पद्मरागोपमं भृङ्गाभं कुमुदद्युतिञ्चे विधिना ग्राह्या परीक्षा ततः। वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसः समानाः। ग्राह्या शुभाः परिहरेच्चिरकालजातान् अङ्गारवर्णसमपूयबिगन्धवर्णानिति” प्रयोगामृतम्। अस्य वह्निपु० उत्पश्विस्थानमुक्तम् यथा

“गोरचना या सङ्गल्या संजाता सर्वकामिका। गुग्गुलुस्तु ततो जातो गोमूत्राच्छुभदर्शनः”।

गुग्गुलुक = त्रि० गुग्लुः पण्यमस्य किशरा० ष्ठन्। गुग्गुलुविक्रेतरि स्त्रियां षित्त्वात् ङीष्।

गुग्गुलुगन्धि = पुंस्त्री गुग्गुलुर्गन्धो लेशोऽस्य अल्पार्धग- न्धस्येत् समा०। गवि “गावो गुग्गुलुगन्धयः” प्रा० त० यमः गुग्गुलोर्गोमूत्रभवत्वात् गोस्तथात्वम् गुग्गुलुशब्दे तत्कथा। गुग्गुलोर्गन्ध इव गन्धोऽस्य वा इत् समा०। २ गुग्गुलुगन्धयुक्ते त्रि०।

गुङ्गू = स्त्री कुहू + पृषो०। कुहूतिथौ। “या गुङ्गूर्य्या सिनीवाली या राका या सरस्वती” ऋ० २। ३२। ८। “अत्र गुङ्गूशब्देन राकासिनीबाल्योः साहचय्यांत् कुहूरुच्यते” भा०।

गुच्छ(त्स) = पु० गु–संप० क्विप् गुतं छ्यति स्यति वा छो–सो–वा क। कलिकाकुसुमादिसमूहवति १ स्तवके, काण्डशून्ये मूलत एव शाखाप्रधानसंधात्मके धान्यमल्लिकादेः २ स्तम्बे, द्वात्रिंशद्यष्टिके ३ हारभेदे, ४ मयूरपुच्छे च मेदि०। ५ मल्लिकादौ च “गुच्छगुल्मं तु विविधं तथैव तृणजातयः। वीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च। तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना। अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः” मनुनां तेषां कर्म्महेतुतोक्ता। “मूलतएव यत्र लतासमूहो भवति न प्रकाण्डानि ते गुच्छा मल्लिकादयः, गुल्मा एकमूलाः संघातजाताः शरेक्षुप्रभृतयः” कुल्लू०। ६ गुच्छकरञ्जे मेदि०। स्तवके पु० स्त्री राजनि० स्त्रियां ङीप्। “ववुख्युक्छदगुच्छसुगन्धयः” माघः। स्वार्थे क। गुच्छक उक्तेष्वर्थेषु। संज्ञायां कन्। रीठाकरञ्जे ग्रन्थिपर्णे न० भाव०।

गुच्छ(त्स)कणिश = पु० गुच्छः कणिशोऽस्य। धान्यभेदे राजनि०

गुच्छ(त्स)करञ्ज = पु० गुच्छाकरः करञ्जः। करञ्जभेदे राजनि०। “कटुर्गुच्छकरञ्जस्तु तिक्तोष्णो विषवातहृत्। कण्डूविचर्चिकाकुष्ठस्पर्शत्वग् दोषनाशनः” राजनि०।

गुच्छ(त्स)दन्तिका = स्त्री गुच्छीभूता दन्ताः पुष्परूपाःसन्त्यस्याः ठन्। कदल्याम् राजनि०। तस्या हि माचकरूपे पुष्पे गुच्छाकृतिदन्तरूपत्वात्तथात्वम्।

गुच्छ(त्स)पत्र = पु० गुच्छाकृतीनि पत्राण्यस्य। तालवृक्षे राजनि०। तस्य हि प्रत्येकपत्रस्य गुच्छात्मकत्वात्तथात्वम्।

गुच्छ(त्स)पुष्प = पु० गु(त्सा)च्छाकृतीनि पुष्पाण्यस्य। सप्तच्छदवृक्षे २ रीठाकरञ्जे ३ धातक्यां स्त्री राजनि० ङीष्।

गुच्छ(त्स)फल = पु० गु(त्सा)च्छाकृतीनि फलान्यस्य। १ रीठाकरञ्जे, २ राजादन्यां, ३ कतके च। ४ अग्निदमन्यां, ५ काकमाच्यां, ६ द्राक्षायां ७ कदल्याञ्च स्त्री राजनि० टाप्।

गुच्छ(त्स)बध्रा = स्त्री गुच्छेन बध्यते बन्ध–बा० रक्। गुण्डालावृक्षे राजनि०।

गुच्छ(त्स)मूलिका = गुच्छाकृति मूलमस्या कप् अतैत्त्वम्। गुण्डालिनीतृणे राजनि०।

गुच्छा(त्सा)र्द्ध = पु० गु(त्स)च्छ इव ऋघ्नोति ऋध–अच्। चतुर्वंशतियष्टिके हारभेदे। ६ त०। गुच्छ(त्स)स्यार्द्धे पु० न०। अमरः।

गुच्छा(त्सा)ल = पु० गुच्छाय अलति अल–अच् गुच्छमालाति आ + ला–क वा। भूतृणे राजनि०।

गुच्छा(त्सा)ह्वकन्द = पु० गुच्छमाह्वयति आ + ह्वे–क गुच्छाह्वः कन्दीऽस्य। गुलुञ्चकन्दे राजनि०।

गुज = ध्वनौ तुदा० कुटा० पर० अक० सेट्। गुजति अगुजिष्ट जुगोज। प्रनिगुजति।

गुज = कूजने भ्वा० पर० अक० सेट्। जोजति अगोजीत्। जुगेज।

गुज = कूजने भ्वा० पर० सक० सेट् इदित्। गुञ्जति अगुञ्जीत् जुगुञ्ज गुञ्जितम् गुञ्जः गुञ्जन्। (गुनगुन) इति ध्वनितमिह कूजनम्। “न जुगुञ्ज यः कलमिति”। “न गुञ्जितं तन्न जहार यन्मनः”। “रेणून् पुपूरिरे गुञ्जा” जुगुञ्जुः करघट्टिताः” भट्टिः। “लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” “गुञ्जन् मत्तमधुव्रतः” सा० द०।

गुज्ज(र्ज)री = स्त्री १ रागिणीभेदे। तत्स्वरूपं सङ्गीतदा० उक्तं यथा “श्यामा सुकेशी मलयद्रुमाणां मृदूल्लसत्पल्लवतल्पयाता। श्रुतेः स्वराणां दधती विभागं तन्त्रीमुखात् दक्षिणगुर्ज्ज(ज्ज)रींयम्” कालभदे तस्या गानं निषिद्धं तत्रैव “नाटी गौडी वराटी च गुज्ज(र्ज्ज)री देशिरेव च। पूर्वाह्णे गानमेतेषा निषिद्धमिति तद्विदः” २ रागभेदे च “गुज्ज(र्जरीरागैकतालीतालेन गीयते” गीतगो०।

गुञ्ज = पु० गुजि–अच्। १ पुष्पस्तवके शब्दर०। भावे घञ्। गुञ्जने (गुनगुन) इति २ ध्वनौ च। भावे ल्युट्। गुञ्जनमप्यत्र ध्वनौ।

गुञ्जकृत् = पु० गुञ्जं ध्वनिभेदं करोति कृ–क्विप्। १ भ्रमरे शब्दच०।

गुञ्जा = स्त्री गुजि–अच्। १ लताभेदे (कु~च) तत्फलेऽपि हक्यादिरितत्वादणो लुक्। “तुल्या यवाभ्यां कथितात्र गुञ्जेति” लीलावती। २ गोधूमद्वयनाने, राजनि० ३ चतुर्धान्यमाने, वैद्यकम् “श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता। रक्ता सा काकचिञ्ची स्यात् काकणन्ती च रत्तिका। काकादनी काकपीलुः सा स्मृता काकवल्लरी” “श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जाद्वयं बुधैः। गुञ्जाद्वयं तु केश्य स्यात् वातपित्त- ज्वरापहम्। मुखशोषश्रमश्वासवृष्णामदविनाशनम्। नेत्रामयहरं वृष्यं बल्यं कण्डव्रणं हरेत्। कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलाऽपि च” भावप्र० तद्गुणा उक्ताः। सितगुञ्जा चाभिचारकर्म्मभेदे विहिता। “जपित्वा सितगुञ्जानां कुडवं कुलिकोदये” शा० ति० नवदुर्गामन्त्राभिचारे। तत्र स्मार्त्तवैदिकपौराणिककृत्येषु त्रियवमिता गुञ्जा वैद्यके तु चतुर्यवमितेति भेदः। कर्षशब्दे १७७४ पृ० दृश्यम्। “सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम्” माघः। “अन्तर्विषमयाह्येता बहिश्चैव मनोरमाः गुञ्जाफलसमाकाराः स्वभावादेव योषितः” पञ्चत०। “तेनेयं मधुगन्धलुब्धमनसा गुञ्जालता सेव्यते” भ्रमरा०। कर्त्तरि अच्। ४ पटहे। भावे अ। ५ कलध्वनौ मेदि० ६ चर्च्चायां त्रिका०। आधारे अ। ७ मदिरागृहे शब्दरत्ना०। तत्र सुरासवगन्धेन भ्रमरगुञ्जाबाहुल्यात् तथात्वम्।

गुञ्जिका = स्त्री गुञ्जा + संज्ञायां कन्। त्रियवपरिमाणे शब्दच०।

***