गा = गतौ सक० भ्वा० आ० अनिट्। गाते अगास्त जगे।
गा = स्तुतौ सक० जन्मनि अक० जुहो० वैदिकोऽयं धातुः सार्वधातुके अभ्यासस्येत्त्वञ्च। जिगाति अगासीत्। जगौ। “सोमोजिगाति गातुविद्” ऋ० ३। ६२। १३। “जरितुः सचा यज्ञो जिगाति चेतनः” ३। १२। २। “स्वेषु क्षयेषु प्रथमोजिगाति” १०। ८। २। इङादेशस्य इणादेशस्य च गाते रूपं तत्तद्धातौ उक्तम्।
गाङ्ग = पु० गङ्गाया अपत्यम् शिवा० अण्। गङ्गापुत्रे १ भीष्म २ कार्त्तिकेये च गङ्गापुत्रशब्दे दृश्यम्। गङ्गाया इदम् अण्। ३ गङ्गासम्बन्धिनि जलादौ “गाङ्गमम्बु सितमम्बु यामुनम्” काव्यप्र० “गाङ्गं जल निर्मलम्” गङ्गास्तोत्रम्। “गाङ्गं वर्षेण जीर्य्यतिः” प्रा० त०। ४ मेघनिःसृते सुश्रुतोक्त जलभेदे तल्लक्षणादि अम्बुशब्दे ३३ पृ० उक्तम्। ५ स्वर्णे “यं गर्भं सुषुवे गङ्गा पावकाद्दीप्तते जसम्। तदुल्व पर्वते न्थस्तं हिरण्यं समपद्यत” भा० व० उक्तेस्तस्य तज्जातत्वात् तथात्वम्। अग्निरेतःशब्दे विस्तृतिः। ६ स्वर्णनामनामके धूस्तुरे अमरः ७ कशेरुणि शब्दार्थ०। ८ नर्दासम्बन्धिनि तटादौ त्रि०।
गाङ्गट = पु० गाङ्गं नदीतटमटति अट–अच् शक०। (चिङ्गिडि) १ मत्स्यभेदे शब्दरत्ना०। स्वार्थे क। तत्रैवार्थे शब्दर०।
गाङ्गटेय = पु० गाङ्गे नदीतटे अटति अट–अच् पृषो० तलीपः। (चिङिडि) मत्स्यभेदे शब्दर०।
गाङ्गायनि = पु० गङ्गाया अपत्यम तिका० फिञ्। १ भीष्मे २ कार्त्तिकेये च। प्रवरप्रवर्त्तके ३ ऋषिभेदे च प्रवराध्यायः।
गाङ्गेय = पु० गङ्गा + अपत्ये ढक्। १ भीष्मे, २ कार्त्तिकेये च। “यं गर्भं सुसुवे गङ्गा पावकाद्दीप्ततेजसम्। तदुल्वं पर्वते न्यस्तं हिरण्यं समपद्यत” इत्युक्तेः ३ स्वर्णे, ४ तन्नामनामके धुस्तूरे, ५ कशेरुणि च शब्दार्थचि०। ६ इल्लिशमत्स्ये पु० त्रिका०। ७ भद्रमुस्तके राजनि०।
गाङ्गेरुका = स्त्री गाङ्गं जलमीरयति क्षिपति ईर–कु स्वार्थे क गौरा० ङीष्। नागबल्याम अमर० गोरक्षतण्डुलायाम् शब्दार्थचि०।
गाङ्गेष्ठी = स्त्री गाङ्गे नदीतटे तिष्ठति स्था–क अम्ब० षत्वम् अलुक् स० गौरा० ङीष्। (नटा) कटशर्करालतायाम् हारा०।
गाङ्ग्य = त्रि० गाङ्गे गङ्गाकूले भवः यत्। गाङ्गसम्बन्धिनि। “उरुः कक्षो न गाङ्ग्यः” ऋ० ६। ४५। ३१। “गाङ्ग्यः गाङ्ग कूले भवः” भा०।
गाजर = न० गज–मदे घञ् “न क्वादेः” पा० न कुत्वम् गाजं मद राति रा–क। १ गृञ्जने २ गर्ज्जरे (गाजोर)। मूलभेदे गर्ज्जरमित्यत्र भावप्र० पाठान्तरम् गर्ज रशब्दे गुणाद्युक्तम्।
गाडव = पु० गडुराकारेणास्त्यस्य प्रज्ञा० अण् गडोर्भावो वा अण्। १ गवेडुधान्ये त्रिका० २ गडुभावे न०।
गाडिक = त्रि० गडिक + चतुरर्थ्यां सुतङ्ग० इञ्। गडिकनिर्वृत्तादौ।
गाडुल्य = न० गडुलस्य भावः ब्राह्म० ष्यञ्। गडुलभावे।
गाढ = न० गाह–क्त। १ अतिशये दृढे। २ तद्युते, ३ अवगाढे, ४ सेविते च त्रि०। “तपस्विगाढां तमसां प्रापेति” रघुः। “गाढकान्तदशनक्षतव्यथाम्” माघः। “सद्यःकण्ठच्युतभुजलताग्रन्थिगाढोपगूढे” मेव०।
गाढमुष्टि = पु० गाढोमुष्टिरत्र। खङ्गे मेदि०।
गाढावटी = स्त्री चतुरङ्गक्रीडाङे क्रीडाभेदे “नोकैका वटिकायस्य विद्यते खेलने यदि। गाढावटीति विख्याता पदं तस्य न दुष्यति” ति० त०।
गाणकार्य्य = त्रि० गाणकारौ भवः कुर्वादि० ण्य। गणकारिभवादौ।
गाणगारि = पु० गणगारस्यापत्यम् इञ्। मुनिभेदे। “सर्वे समानगोत्रा स्युः गाणगारिः” विश्वाद० धृतवाकाम्। “पुनर्होमञ्च गाणगारिः” आश्व० श्रौ० २। १७। १८। सूत्रे
गाणपत = त्रि० गणपतेरिदम् अश्वपत्या० अण् यकोऽपवादः। १ गणपतिसम्बन्धिनि। “मारस्वतो गाणपतः सौरश्च वेष्णवः क्रमात्” ति० त०।
गाणपत्य = त्रि० गणपतेर्भावः पत्यन्तात् यक गणपतिभावे “महादेवप्रसादेन गाणपत्यञ्च विन्दति” भा० व० ८२ अ०। “उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात्” तत्राध्याये।
गाणिक = त्रि० गणं वेत्त्यधीते वा उक्था० ठक्। १ गणसूत्रादि पाठके २ तद्वेत्तरि च। गणे गणपाठे साधुः कथा० ठक्। १ गणसूत्रकुशले त्रि०।
गाणिक्य = न० गणिकानां समूहः गणिकाया यञ्” वार्त्ति० यञ्। वेश्यासमूहे हेम०।
गाणिन = पुंस्त्री गणिनोऽपत्यादि “इन्यऽण्यनपत्ये” पा० अपत्यार्थकेनो निषेधेऽपि गाथिविदथीत्यादिना इनोनलोपः। १ गणिनोऽपत्ये २ तच्छात्रे च स्त्रियां ङीप्।
गाण्डव्य = पु० गण्डोरपत्यादि गर्गा० यञ्। गण्डोरपत्य। यूनि यञन्तत्वात् फञ्। गाण्डव्यायन यूनि तदपत्ये लोहिता० स्त्रियां युवत्यामयुवत्याञ्च ष्फ षित्त्वात् ङीष्। गाण्डव्यायनी तदपत्यस्त्रीमात्रे।
गाण्ड(ण्डी) = स्त्री गडि–इन् “गाण्ड्यजगात् संज्ञायाम” पा० दीर्धनिर्द्देशात् नि० वृद्धिः। ग्रन्थौ। कृदिकारान्तत्वात् वा ङीप्। तत्रार्थे। “एष गाण्डीमयश्चापः” भा० उ० ९७ अ०।
गाण्डि(ण्डी)व = पुंन० गाण्डिरस्त्यस्य संज्ञायाम् व १ अर्जु नस्य धनुषि। तच्च धनुर्ब्रह्मणा निर्माय सोमाय दत्तं सोमेन च वरुणाय, अग्निप्रार्थितेन च वरुणनार्जुनाय दत्तम् तत्कथा भा० आ० २२५ अ०।
“तमब्रवीद्धूमकेतुः प्रतिगृह्य जलेश्वरम्। चतुर्थं लोकपालानां देवदेवं सनातनम्। सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते। तत् प्रयच्छोभपं शीघं रथञ्च कपिलक्षणम्। कार्य्यञ्च सुमहत् पार्थो गाण्डीवेन करिष्यति। चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम्। ददानीत्येव वरुणः पावकं प्रत्यभाषत। तदद्भुतं महावीर्यं यशःकीर्त्ति विवर्धनम्। सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च। सर्वायुधमहामात्रं परसैन्यप्रधर्षणम्। एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्। चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्। देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः। प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी”। “एतद्दिव्यं धनु- श्रेष्ठं ब्रह्मणा निर्म्मितं पुरा”। “एतद्वर्षसहस्रन्तु ब्रह्मा पूर्वमधारयत्। ततोऽनन्तरमेवाथ प्रजापतिरधारयत्। त्रीणि पञ्चशतं चैव शक्रोऽशीतिं च पञ्च च। सोमः पञ्चशतं राजा तथैव वरुणः शतम्। पार्थः पञ्च च षष्टिञ्च वर्षाणि श्वेतवाहनः” भा० वि० ४३ अ०। २ धनुर्मात्रे मेदि०।
गाण्डीवधन्वन् = पु० गाण्डीवं धनुरस्य अनङ् समा०। अर्ज्जुने। “यत्र गाण्डीवधन्वा” मेघ०।
गाण्डीविन् = पु० गाण्डीवमस्त्यस्य इनि। १ अर्ज्जुने मध्यमपाण्डवे त्रिका०। “कृतवान् योऽबुधः कोपाद्धरिगाण्डीविविग्रहम्” भा० आ० १४८ अ०। २ अर्ज्जुनवृक्षे राजनि०।
गातव्य = त्रि० गै–गाने गा गतौ वा कर्मणि तव्य। १ गेये २ गन्तव्ये च।
गातागतिक = त्रि० गतागतेन निर्वृत्तम् अक्षद्यू० ठक्। गमागमनिष्पन्ने।
गातानुगतिक = त्रि० गतानुगतेन निर्वृत्तम् अक्षद्यू० ठक्। गतानुगतनिष्पन्ने।
गातु = पु० गै–गाने गाङ्–गतौ गा–स्तुतौ वा कर्त्तृभावादौ तुन्। १ कोकिले २ भ्रमरे ३ गन्धर्वे च मेदिनिः। ४ रोषणे त्रि० मेदि०। ५ गायने त्रि० उणादि०। ६ गाने “गातुं कृण्वन्नुषसो जनाय” ऋ० ४। ५१। २। “गातुं गानम्” भा०। ७ गन्तव्ये मार्गादौ “उरुं नो गातुं कृणु सोममीढ्वः” ९। ८५। ४। “गातुं मनुषे च विन्दः” १०। १०४। ८। “गातुं गन्तव्यमार्गम्” भा० ८ उपाये “क्षयाय गातुं वनते” ५, ६५। ४। “गातुमुपायम्” भा०। गच्छत्यत्र गा–गतौ आधारे तुन्। ९ पृथिव्यां निघ०। “नाकं सूर्य्यमुषसजं गातुमग्निम्” ३। ३१। १५। “गातुं पृथिवीम्” भा०। “गोभ्यो ग तुं निरेतवे” ९। ४४। ६०। “गातुं भूमिम्” भा०। १० स्तवे। “यदवतेब्रह्मणे गातुमैरत्” ४। ४। ६। “गातुं स्तवम्” भा०। गातुमिच्छति क्यच् गातूयति। “ये स्वा पुरा गातूयन्तीव देवाः” १। १६९। ५। गातुं वेत्ति विद–क्विप्र्। गातुविद् मार्गादिवेत्तरि। “सोमोजिगाति गातुविन्नैषणाम्” २। ६२। १३।
गातृ = त्रि० गै–गाने तृच्। गायके। “गाता चतुर्ण्णां वेदानां उद्गाता प्रथमर्त्विजाम्। स नारदोऽथ विप्रर्षिः” हरिवं ५५ अ०। “तस्मात्त्वेवोद्गातैतस्य हि गाता” छा० उ०
गात्र = शैथिल्ये अद० चु० आत्म० अक० सेट्। गात्रयते अजगात्रत। गात्रयाम्–बभूव आस चक्रे।
गात्र = न० गै–ष्ट्रन् गातुरिदम् वा अण्। १ अङ्गे देहे “सा मङ्गलस्नानविशुद्धग त्री” कमा० “दुःखदुःखेन गात्रम्” मेघ०। “स्पृशद्भिर्गात्रमन्तिकात्” रघुः। २ गातृस्वम्बन्धिनि त्रि० “प्रभुर्गात्राणि पर्य्येषि” ता० ब्रा० ३ हस्तिपृष्ठजङ्घादौ मेदि०। “आपस्काराल्लूनगात्रस्य भूमिम्” माघः। “लूनगात्रस्य छिन्नजङ्घस्य” मल्लि०।
गात्रगुप्त = पु० कृष्णस्य महिषीषु लक्षणायामुत्पन्ने पुत्रभेदे “लक्षणायाः प्रजाः शृणु। गात्रवान् गात्रगुप्तश्च गात्रविन्दश्च वीर्य्यवान्। जज्ञिरे गात्रवत्याथ भगिन्यानुजया सह” हरिवं० १६२ अ०।
गात्रभङ्गा = स्त्री भन्ज–घञ् गात्रस्य भङ्गोऽवसादो यस्याः। १ शूकशिम्ब्याम्। शब्दच०। ६ त०। २ अभङ्गङ्गे (गामोडा) पु०।
गात्रमार्जनी = स्त्री गात्रं मृज्यते अनया मृज–करणे ल्युट् ङीप्। (गामछा) क्षुद्रपट्याम्।
गात्ररुह = न० गात्रे रोहति रुह–क ७ त०। १ तनुरुहे लोमनि। “गात्ररुहेषु च हर्षः” भाग० २२। ३ अ०।
गात्रवत् = पु० १ लक्षणागर्भजाते कृष्णपुत्रभेदे २ तदनुजभगिन्यां स्त्री ङीप्। गात्रगुप्तशब्दे दृश्यम्। २ प्रशस्तगात्रे त्रि०। स्त्रियां ङीप्।
गात्रविन्द = पु० लक्षणागर्भजाते कृष्णपुत्रभेदे गात्रगुप्तशब्दे दृश्यम्।
गात्रसङ्कोचिन् = पु० गात्रं सङ्कोचयति सम् + कुच–णिच्–णिनि ६ त०। जाहकजन्तौ राजनि०।
गात्रसम्प्लव = पु० गात्रेण संप्लवते सम् + प्लु–अच् ३ त०। प्लवखगे हेमच०।
गात्रानुलेपनी = स्त्री गात्रमनुलिप्यतेऽनया लिप–करणे ल्युट्। अनुलेपनवर्त्तिकायाम् अमरः।
गात्रावरण = न० गात्रमावृणोति आ + वृ–ल्यु। गात्रावरके वर्म्मणि “तूणांश्च पूर्ण्णान् महतः शराणामासज्ज गात्रावरणानि चैव” भा० द्रो० २ अ०।
गात्रसम्मित = त्रि० गात्रं सम्मितं सम्पूर्णं यस्य। सम्पूर्णमात्रे त्रिमासोर्द्धगर्भस्थे प्राणिनि। “पाद उत्पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते। पादोनं व्रतमाचष्ठे हत्वा गर्भमचेतनम्” प्रा० त० धृतवाक्यम्।
गाथ = त्रि० गा–थन्। १ स्तोत्रादौ। गायद्गाथं सुतसोमो दुरायन्” ऋ० १। १६७। ६। “गाथं गातव्यं स्तोत्रम्” भा०। २ श्लोके “पादे द्वादश विषमे मात्राश्चाष्टादश द्वितीये हि। पञ्चदश चेत् तुरीये कथिता गाथा तथैवार्य्या” छन्दोम० उक्तलक्षणे २ मात्रावृत्रभेदे ३ गानमात्रे च ४ प्राकृतभाषायां मेदि०। गाथां करोति अण्। आनुलोम्यादावपि न ट। गाथाकार तत्कारके अत्राप्यु दाहरन्तोमां गाथां नित्यं क्षमावताम्” भा० व० २ अ०। पवृगाथादयः। “इतिहासश्च पुराणञ्च गाथाश्च नाराशंसीश्च” अथ० १५। ६। ४। ६ वाक्यमात्रे निघ०।
गाथक = त्रि० गै–थकन्। गायके “क्वणद्भिरलिगाथकैः” भट्टिः।
गाथगति = पु० ६ त० ङ्यापोरिति ह्रस्व०। वाक्पतौ रुद्रे। “गाथपतिं ये धमति रुद्रम्” ऋ० १। ४३। ४।
गाथिन् = त्रि० गाथा स्तोत्रादि अस्त्यस्य इनि। गाथायुक्ते गीयमानसामयुक्ते “इन्द्रामरुद्गाथिनः” १। ७। १। तस्यापत्यमण् गाथिविदधीत्यादिना अपत्येऽपि न टिलोपः गाथिन तदपत्ये तच्छात्रे च। स्त्रियां ङीप्।
गादि = पुंस्त्री गदस्यापत्यं वाह्वा० इञ्। गदरूपयादवस्यापये।
गादित्य = त्रि० गदितेन निर्वृत्तादि प्रगद्या० ञ्य। गदितेन निर्वृत्ते।
गाध = प्रतिष्ठायां अक० ग्रन्थने लिप्सायाञ्च सक० भ्वा० आत्म० सेट्। गाधते अगाधिष्ट। जगाधे। ऋदित् चङि अह्रस्वः। अजगाघत्–त। गाधः। “अगाधत तती व्योम “गाधितासे नभो भूयः” भट्टिः।
गाध = पु० गाध–भावादौ घञ्। १ स्थाने, २ लिप्सायां, च कर्मणि घञ्। ३ तलस्पर्शे हेमच०। ४ तद्वति त्रि०। “सरितः कुर्वती गाधाः” रघुः। “अशीमहि गाधमुत प्रतिष्ठाम्” ऋ० ५। ४७। ७। “अनासादितगाधं च पातालतलमव्ययम्” भा० आ० २१ अ०।
गाधि = पु० गाध–इन्। चन्द्रवंश्ये कान्यकुब्जाधिपे, विश्वामित्रपितरि नृपभेदे। “कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः। जज्ञे परमधर्म्मिष्ठो गाधिरित्येव नामतः स पिता मम काकुत्स्थ! गाधिः परमघार्मिकः” रामा० बा० १। ३४ अ०। रामं प्रति विश्वामित्रोक्तौ। “ऐलपुत्रानहं वक्ष्ये” इत्युपक्रमे “कुशपुत्रा वभूवुर्हि चत्वारो देववर्चसः”। कुशिकः कुशनाभश्च कुशाम्बो मूर्त्तिमांस्तथा” “कुशिकस्तु तपस्तेप्रे पुत्रमिन्द्रसमं विभुः। लभेयमिति “तं शक्रस्त्वासादभ्येत्य जज्ञिवान्” “पूर्णे वर्पसहस्रे वै तन्तु शक्रो ह्यपश्यत। अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः। समर्थः पुत्रजनने स्वमेवांशमवासयत्। पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः। स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्। पौरकुत्स्यऽभवद्भार्य्या गाधिस्तस्यामजायत” हरिवं० २७ अ०।
गाधिज = पु० गाधेर्जायते जन–ड। विश्वामित्रे ब्रह्मर्षौ तत्कथा हरिवं० २७ अ०। “विश्वामित्रन्तु दायादं गाधिः कुशिकनन्दनः। जनयामास पुत्रन्तु तपोविद्याशमा- त्मकम्। प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः। ऋचीकशब्दे १४१४ पृ० तदुत्पत्तिकथा। गाधिसुतादयोऽप्यत्र “ततोऽभ्यगात् गाधिसुतः क्षितीन्द्रम्” भट्टिः। “प्रजापतिसुतादासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्म्मिकः। कुशनाभसुतोह्यासीत् गाधिरित्येव विश्रुतः” “गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः” रामा० बा० ३१ अ०। २ विश्वरथादौ च।
गाधिन् = पु० गाधिनामके नृपे। “शीघ्रमाख्यात मां प्राप्तं कौशिव गाधिनः सुतम्” रामा० वा० १८ अ०।
गाधिपुर = न० ६ त०। कान्यकुब्जे महोदयाख्ये पुरे हेमच०। कान्यकुब्जशब्दे १८८६ पृ० कुशनाभशब्दे च दृश्यम्। गाधिनगरादयोऽप्यत्र।
गाधेय = पु० गाधेरपत्यम् द्व्यचः इत्यनुवृत्तौ “इतोऽनिञः” पा० ढक्। गाधिपुत्रे विश्वामित्रादौ। “विश्वामित्रस्तु गाधेयो राजा विश्वरथस्तथा। विश्वकृत् विश्वजिच्चैव तथा सत्यबती नृप!” हरिवं० ३२ अ०। “गाधेयदिष्टं विरसं रसन्तम्” भट्टिः। तस्य कन्यायां २ सत्यवत्यामृचीकपत्न्याम् स्त्री ङीप्। “उवाच भार्य्या गाधेयी भर्त्तारं भार्गवर्षभम्” भा० आनु० ४ अ०।
गान = न० गै–भावे–ल्युट्। १ गीतौ। गानं हि द्विविघं लौकिकं वैदिकञ्च। तत्र लौकिकगानस्य लक्षणादि गीतशब्दे वक्ष्यते वैदिकस्य लक्षणादि जै० ९। २। २९ सूत्रभाष्यादौ उक्तं यथा
“अर्थैकत्वात् विकल्पः स्यात्” २९ सू०। “सामवेदे सहस्रं गीत्युपायाः। आह, के इमे गीत्युपायाः नाम?”। उच्यते,–गोतिर्नाम क्रिया, सा आभ्यन्तरप्रयत्न जनितस्वरविशेषाणामभिव्यञ्जिका, सा सामशब्दाभिलप्या, सा च नियतपरिमाणायामृचि गीयते, तत्सम्पादनार्थाः ऋक्षु अक्षरविकारो विश्लेषो विकर्षणमभ्यासो विरामः स्तोभ इत्येवमादयः सर्वे समधिगताः समाम्नायन्ते। तेषु संशयः,–किं समुच्चीयन्ते उत विकल्प्यन्ते?–इति। किं तावन्नः प्रतिभाति” सर्वेषां समाम्नानात् सर्वाङ्गोपसंहारित्वाच्च प्रयोगवचनस्य समुच्चीयेरन्निति एवं प्राप्ते ब्रूमः, “अर्थैकत्वाद्विकल्पः स्यात्” इति। एकार्था हि गीत्युपायाः,–गीतिः कथ निर्वर्त्त्येतेति प्रयुज्यन्ते, तत्रान्यतरेण गीतौ निर्वृत्ताया नेतरे प्रयोगमर्हन्ति। तस्माद्विकल्प इति”। तत्र स्वराः उत्क्रुष्टादयः षष्ठान्ताः सप्त सामविधानब्रा० १। १। उक्ताः यथा “तद्योसौ क्रुष्टतमैव साम्नः स्वरस्तं देवा उपजीवन्ति येऽवरेषां प्रथमस्तं मनुष्यायो, द्वितीयस्तं गन्धर्वाप्सरसो, यस्तृतीयस्तं पशवो, यश्चतुर्थस्तं पितरो ये चाण्डेषु शेरते, यः पञ्चमस्तमसुररक्षांसि, योऽन्त्यस्तमोषधयोवनस्पतयोयच्चान्यज्जगत्, तस्मादाहुः सामैवान्नमिति साम ह्येषामुपजीवनं प्रायच्छत्। उपजीवनीयो भवति यएवं वेद तस्य ह वा एतस्थ साम्न ऋगेवास्थीति स्वरोमांसानि स्तोभा लोमानि। योह वै साम्नः स्वं यः सुवर्ण्णं वेद स्वं च ह वै साम्नः सुवर्ण्णं च भवति स्वरो वाव साम्नः स्वं तदेव सुवर्ण्णम्”। छान्दोग्ये च “का साम्नो गतिरिति स्वर इति हो वावाच” “स्वर इति स्वरात्मकत्वात् साम्नः, यो यदाष्मकः स तद्गतिस्तदाश्रयश्च भवतीति मृदाश्रय इव घटादि” भा०। सामसंहिताभाष्येऽपि तथैवोक्तं यथा
“साम–शब्द–वाच्यस्य गानस्य स्वरूपमृगक्षरेषु क्रुष्टादिभिः सप्तभिः स्वरैः, अक्षरविकारादिभिश्च निष्पाद्यते। क्रुष्टः प्रथमः द्वितीयस्तृतीयश्चतुर्थः पञ्चमः षष्ठश्च इत्येते सप्त स्वराः ते चावान्तरभेदैर्बहुधा भिन्नाः। स्वरस्य साम–निष्पादकत्वं छान्दोग्योपनिषदः प्रथमे प्रपाठके प्रश्नोत्तराभ्यामामनन्ति”। तत्राक्षरविकारविषये पूर्वोत्तरपक्षौ जै० ९। २। ३२। सूत्रादिभाष्ययोर्दर्शितौ यथा
“सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृतत्वात्” सू० ३२। “इदमाम्नायते,–‘रथन्तरमुत्तरयोर्गायति, यद्योन्यां तदुत्तरयोर्गायति कवतीषु रथन्तरं गायति, विराट्सु वामदेव्यम्” इति। तत्र सन्देहः,–किमुत्तरावर्णवशेन गातव्यं, किं योनिवर्ण्णवशेन?। कथमुत्तरावर्ण्णवशेन गीतं भवति? कथं वा योनिवर्ण्णवशेन? इति। उच्यते, किञ्चिदुदाहरणं गृहीत्वा व्याख्यास्यामः,–यदा तावत् वृद्धन्तालव्यमाई भवति इति योनौ यस्मित् भागे आईभावः क्रियते, ततो योनिवर्ण्णवशेन गीतं भवति, अथ भागान्तरे वृद्धन्तालव्यं दृष्ट्वा आईभावः क्रियते, तत उत्तरावर्णवशेन गीतं भवति। किं पुनरत्र कर्त्तव्यम्?–योनिवर्णवशेनेति। कथम्?। यावति भागे ५ एकारस्य योनौ ईभावः कृतस्तं विचारयामः,–किं तत्र कृतमिति?–एकारो नोच्चारितः, ईकाराकारौ आगामिताविति, एवञ्चेदुत्तरास्वपि तावत्येव भागे योवर्णः, स न उच्चारयितव्यः, ईकाराकारौ आगमयितव्यौ इति। एवं, यद्योन्यां तदुत्तरयेर्गीतं भवात। तस्माद्योनिवर्णवशेन गातव्यमिति। अपि चैवं गीतिर्न नङ्क्ष्यति, इतरथा क्वचित् प्रणश्येत् यत्र महती गीतिः अल्पेषु अक्षरेषु गीयते, तत्र व्यक्तं प्रणश्यति यद्युत्तराक्षरवशेन क्रियते, तस्माद्योन्यक्षरवशेन कर्त्तमिति। अपिच कचित् क्रम उपरुध्यते यत्रक्रमे आईभावभाग्वर्णः, आर्षश्च क्वचिदुपरुध्यते, यत्र प्राकृत आगमो नैव क्रियते, तत्र स्वाध्यायकाले गानेन च कर्मकालं गानमविरुद्धं कर्त्तव्यं, तस्मात् योन्यक्षरवशेन कर्त्तव्यमिति “सामप्रदेशे विकारः” आईभावादिः, “तदपेक्षः” योन्यपेक्षः, एतत् शास्त्रेण कृतः,–“यद्योन्यां तदुत्तरयोः” इति, यावति साममागे योनौ आईभावः कृतः, तावत्येवोत्तरासु कर्त्तव्यः” भा०। “वर्णे तु वादरिर्यथाद्रव्यं द्रव्यव्यतिरेकात्” ३३ सू०। “उत्तरावर्णवशेन कर्त्तव्यं वादरिर्मन्यते स्म, न योनिभागवशेन। कुतः?। योऽसौ प्रकृतौ आईभावः कृतः, नासौ आगमः, न च तत्र एकारलोपः, किन्तर्हि? एकारो नाम आवर्णम् ईवर्णञ्च आवर्ण्णं संवृतम्, ईवर्ण्णं विवृतम्, उभे अपि च दीर्घे, ताभ्यामसाधुभ्यां सन्ध्यक्षरं साधु जन्यते। तत्र प्रकृतौ आकारेकारौ विश्लेषितौ, नापूर्वावागमितौ, गुणस्तु तयोः कश्चिदपूर्वः कृतः। सर्वत्रात्र प्रसाणं प्रत्यक्षं तद्यत्र, तावति भागेऽन्यो वर्णो भवति, न सन्ध्यक्षरं, तत्र संश्लेषाभावे विश्लेषो न शक्यः कर्त्तुम्, अन्यस्मिन् भागे यत्र सन्ध्यक्षरं भवति, तत्र तद्वशाद्विश्लषः क्रियते एवं, यद्योन्यान्तदुत्तरयोः कृतं भवति, योन्यां हि संश्लिष्टयोर्विश्लेषः कृतः, इहापि संश्लिष्टयोर्विश्लेषः, इतरथा व्यतिरिक्तं कल्पितं स्यात् अथ यदुक्तंः,–गीतिः प्रनङ्क्ष्यतीति, न प्रनङ्क्ष्यतीति, विनामं कृत्वा अनक्षरं गायिष्यते। संश्लेषभावाच्चाशक्यो विश्लेषः, आर्षक्रमौ नीपरोत्स्येते” भा०। स्तोभविषये च तथैव तौ पक्षौ तत्रैव ९। २। ३४। ३९ सूत्रादौ दर्शितौ यथा
“स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत्” ३४ सू०। “कवतीषु रथन्तरं गायति, रथन्तरसुत्तरयोर्गायति यदु योन्यां तदुत्तरयार्गायति” इति। तत्रोत्तरावर्णवशेन गातव्यमित्येतत् समधिगतम्। अथेदानीम् इह संदिह्यत,–किं स्तोभाः प्रदिश्यन्ते न वा? इति। किं प्राप्तम्?–न प्रदिश्यन्ते इति। कुतः। गीतिर्हि साम, न स्तोभाः, या गीतिः, सा प्रदिश्यते, “यद्योन्यां तदुत्तरयोर्गायति” इति गायतिशब्दसम्बन्धात्। अपि च ऋकशब्दार्थैरसंबध्यमानः स्त्रोभोऽनर्थकः स्यात्, तस्मादपि न प्रदिश्येत। अपिच क्वचिद्भवति वचनम्,“ऐन्द्र्यामवभृथसाम गायति” इति, तत्रानुपत्तिर्भवेत् शीतफर्मा हीन्द्रो वाक्यशेषेभ्योऽवगम्यते। तस्य “तपति” इत्यनेन सम्बन्धो न स्यात्। तस्मात् स्तोभस्य ऋगन्तरे निवृत्तिः, यथा ऋगक्षराणामगीतित्वात् निवृत्तिरेवं स्तोभाक्षराणामपीति” भा०। “सर्व्वातिदेशस्तु सामान्याल्लोकवद्विकारः स्यात्” ३५ सू०। “नैतदस्ति,–स्तोभानां निवृत्तिरिति, सर्वातिदेशो हि भवति, ऋक्–स्तोभस्वर–कालाभ्यासविशिष्टायाः गीतेः सामशब्दो वाचकः। कथमवगम्यते?। तत्र प्रयोगात्, यदि स्तोभा निवर्त्तेरन्, तत्कृतो विशेषो नोप्रसंहितः स्यात् तत्र शब्दो घाध्येत! तस्मात् स्तोभाः पदिश्येरन् थत्तूक्तम्,ऋक्शब्दार्थैः असम्बध्यमानाः स्तोभा अनर्थका भवेयुः, षत्र ब्रूमः,–“लोकवत्” न अनर्थका भविष्यन्ति। तद्यथा, लोके गायनैरङ्गव्यञ्जकानि यानि नाम पक्षिप्यन्ते, तानि गीतिकालगणनार्थानि, नार्थसम्बन्धाय उच्चार्य्यन्ते, सुखं ह्यक्षरैः गीतिकालः परिच्छिद्यते, तद्वदिहापि कालपरिच्छेदार्थानि स्तोभाक्षराणि अनुवर्त्तेरन्निति” भा०। “अन्वयतश्चापि दर्शयति” ३६ सू०। “अन्वयतश्चापि स्तोभान् दर्शयति, यत्रार्थिकानि पदानि निवर्त्तन्ते, “स्तोभा गेह्माश्चानुयन्ति” इति, “स्तोभाः” स्तोभा एव “गेह्माः” स्वराः। तस्मादपि स्तोभाः प्रदिश्यन्ते” भा०। “निवृत्तिर्वाऽर्थलोपात्” ३७ सू०। “ताशब्दात्पक्षो विनिवर्त्त्यते। ‘निवृत्तिः’ ‘अग्निष्टपति’ इत्येवञ्जातीयकाः, शीतकर्मा हीन्द्री वाक्यशेषे उपलभ्यते, न तेनैवंजातीयकाः स्तोभाः सम्बध्येरन्निति। अन्वयात्सम्बध्यन्ते लोकवदिति यदुक्तं, तत्परिहर्त्तव्यम्” भा०। “अन्वयो वार्थवादः स्यात्” ३८ सू०। “अन्वीयुर्वा एवञ्जातीयकाः स्तोभाः, नहि वयमिन्द्ररूपं प्रत्यक्षमुपलभामहे, यच्च वाक्यशेषवचनं, सोऽर्थवादः” भा०। “अधिकञ्च विवर्णञ्च जैमिनिः स्तीभशब्दत्वात्” ३९ सू०। “अथ कः स्तोभो नाम,? तस्य लक्षणं कर्त्तव्यम्, उच्यते,–य ऋगक्षरेभ्योऽधिको न च तैः सवर्णः स स्तोभो नाम, ईदृशे हि लौकिकाः स्तोभशब्दमपचरन्तीति,–तद्यया देवदत्तेन सभायां परं प्रलपता बहुस्तोभं कथितमिति, यदर्थवचनेभ्योऽधिक विवर्णञ्च, तत् आलोच्य एवंवक्तारो भवन्ति। लक्षण प्रयोजनं न वक्तव्यं, लक्षणकर्मणो हि तदेव प्रयोजनं, यल्लक्षितो भविष्यतीति। किमर्थमुभयं सूत्रितं? नन्वन्यतरत् पर्य्याप्तम् अधिकमिति वा” इति। नेत्याह,भवति हि किञ्चित् अधिकं न सवर्णं,–यथा अभ्यास,“तोयाई, तोयाई” इति, तथा किञ्चित् विवर्णं, नाधिकं,यथा विकारः,–“ओग्नाइ” इति। तस्मादुभयं सूत्रयितव्यमिति “भा०। विवृतञ्चैतत् सामसंहिताभाष्ये यथा “समुच्चेया विकल्प्या वा विभिन्ना गीति–हेतवः। आद्यः प्रयोगग्रहणादर्थैकत्वाद् विकल्पनम्। छान्दोग्ये तवल्कारादि–शाखा–भेदेषु विलक्षणा गीति–हेतवोऽक्षरविकारादय आम्नायन्ते, ते सर्वे कर्मानुष्ठाने समुच्चेतव्याः, कुतः? प्रयोगवचने सर्वेषां परिगृहीतत्वात्मैवम्, एकैक–शाखोक्तैरेवाक्षर–विकारादिभिरध्ययन–कालएव गीति–स्वरूपनिष्पत्ते स्तन्निष्पत्ति–लक्षणस्य प्रयोजनस्यैकत्वात्, प्रयोग–वचन–परिगृहीता अपि व्रीहियव–वद् वृहद्रथन्तरवच्च विकल्प्यन्ते” इति। गीतिहेतुषु स्तोभस्यात्यन्तमप्रसिद्धत्वात्तल्लक्षणं तस्मिन्नेव पादे एकादशाधिकरणे चिन्तितम्–“स्तोभस्य लक्षणं नास्ति किं वास्ति न विवर्णता। आधिक्यमप्यतिव्याप्त विशिष्टं लक्षणं भवेत्। न तावद् विवर्णत्वं लक्षणम्, वर्णविकारस्य बिपरीत–वर्णत्वेन स्तोभत्व–प्रमङ्गात्, “अग्नआयाहि” (छ, १ प्र, १ द, १) इत्यस्यामृचि अकारस्य स्थान ओकारं कृत्वा गायन्ति “ओग्नाइ” इति (गे० प्र १ सा १)। अधिको वर्णः स्तोभ इत्युक्ते सति, अभ्यासेऽतिव्याप्तिः, “पिबासोममिन्द्रमन्दतुत्वा” इत्येतस्यामृचि दतुत्वेत्यक्षर–त्रयं गानकाले त्रिरभ्यस्तम्। अतोविकाराभ्यासयोरतिव्याप्तेर्नास्तिलक्षणम्–इति चेद्–मैवम्, अधिकत्वे सत्यृग्विलक्षण–वर्णः स्तोभः” इति विशिष्टस्य तल्लक्षणत्वात्, लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं काल–क्षेप–मात्र–हेतुं शब्दराशिं स्तोभ इत्याचक्षते, तस्मादस्ति लक्षणम्” इति। अक्षर–विकार–स्तोभादिवत् वर्ण–लोपोऽपि क्वचिद् गीति–हेतुर्भवति, तल्लोपविषयश्च विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिकरणेऽभिहितः–१० “इरा गिरा विकल्पः स्यादुतेरैवाविशेषतः। आद्यमैर बाध–पूर्वमिरायाविहितत्वतः। ज्योतिष्टोमे श्रूयते “यज्ञाशज्ञीयेन स्तुवीत”–इति। ‘यज्ञायज्ञा’–इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम्, तस्यामृचि गिराशब्दः पठ्यते ‘यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे’–इति। तत्र सामगा यीनिगानमधीयानाः सहैव गकारेण गायन्ति ‘गायिरा गिरा’–इति, ब्राह्मणे तु गकार–लोप–पूर्वकमाकार–यकारादिकगानं विधीयते ‘ऐरं कृत्वोद्गेयम्’इति, गिरा–शब्दे गकार–लोपात् इराशब्दो भवति, इरायाः सम्बन्धि गानम् ऐरम्, तादृशं कृत्वा प्रयोगकाले तद्गानं कर्त्तव्यमित्यर्थः। तत्र योनिगान–ब्राह्मणयोः समान–बलत्वेन विशेषाभावात् विकल्पेन प्रयोक्तव्यम्–इति प्राप्ते, ब्रूमः–“न गिरा गिरेति ब्रूयाद्, यद् गिरा गिरेति ब्रूयाद् आत्मानमेव तदुद्गाता गिरेत्” इति गकार–सहित–गाने बाधकमुक्त्वा गकार–रहितभिरा–पदं गेयत्वेन विधीयते, तत्पदादेरिकारस्य गानार्थमाकारोयकारैकारश्चेति त्रीन् वर्णान् प्रयुञ्जते, ततः ‘आयिरा’–इत्येव गातव्यम्” इति। तत्रैवोपरितनाधिकारणे कश्चिद् विशेषश्चिन्तितः–११ “इरापदं न गेयं स्याद् गेयं वा गोत्यनुक्तितः। न गेयं गीयमानस्य स्थाने पातात् प्रगीयते। व्राह्मणेन निहितैराशब्दो न गातव्यः, कुतः? ऐरमिति शब्देन गीतेरनुक्तत्वात्, पाणिनीयेन ‘विमुक्तादिभ्योऽण् [५, २, ६१] इति सूत्रेणेराशब्दादण्–प्रत्ययोमत्वर्थीयो विहितः, तथासतीरापदोपेतं कृत्वेत्येतावानेवार्थो भवति, यदि प्रगीतेरापद–सम्बन्धः तद्धितेन विवक्ष्येत, तदानीमाकारो यकारैकारोरेफआकारश्चैतैः पञ्चभिवर्णैर्निष्पन्नमायिरा–रूपं गीयमानैरा–शब्द–प्रातिपादिकं भवति, तादृशात् प्रातिपदिकात् पाणिनीयेन ‘वृद्धाच्छः [४, २,११४]’–इति सूत्रेण छप्रत्ययान्तरे सति, आयिरीयं कृत्वेति ब्राह्मणपाठो भवेत्, तस्मान्न गेयम्–इति प्राप्ते, व्रूमः–गीयमानस्य गिरा–पदस्य स्थाने इरापदं विधीयते–इतिपदमात्रस्य बाधः, गानन्तु न वाध्यते, किञ्च विमुक्तादिसूत्रेणाण्–प्रत्ययेऽषि, पूर्वस्मात् ‘मतौ छः मूक्त–साम्नोः [५, २, ५९]–इति सूत्रात् सामानुवृत्तेरैरं सामेत्यर्थो भवति, सामत्वं च गीति साध्यम्, यदा तु ‘तस्य विकारः [४, ३, १३४]’–इत्यर्थे अण्प्रत्ययः, तदानीमिरायाविकार इति विग्रहेयथोक्तं नानं लभ्यते, तस्माद् गातव्यम्” इति। तत्रैव ऋगक्षराणां संस्कारकत्वं गानात्सकसाम्नो व्यवस्थाप्योक्तं यथा
यथोक्तमृगक्षराणां संस्कारकं गीत्यात्मकं यत् साम तदेतदेकैकं छन्दोगा एकैकस्यामृचि ‘वेदसाम–नामके ग्रन्थेऽधीयन्त, ऊहनामके तु ग्रन्थं एकेकं साम तृचेऽधीयते सोऽयमूहग्रन्थः तस्मिन्नेव पादे प्रथमाधिकरणस्य द्वितीयवर्णके विचारितः–“ऊहग्रन्थोऽपौरुषेयः पौरुषेयोऽथवाग्रिमः। वेदसाम–समानत्वाद् विधि–सार्थत्वतोऽन्तिमः। यस्मिन् ग्रन्थे सामगास्तृचे तृचे सामैकैकं गायन्ति सोऽयमूहग्रन्थोनित्यो न तु पुरुषेण निर्मितः, कुतः? अनध्यायवर्जनेन कर्त्तुरस्मरणेनाध्यापकानां वेदत्वप्रसिद्ध्या च वेदसाम–नामक–योनि–ग्रन्थसदृशत्वात्, इति चेत्–मैवम्, अपौरुषेयत्वं विधिवैयर्थ्य–प्रसङ्गात्–‘यद्योन्यां तदुत्तरयोर्गायति’–इति विधीयते। अयमर्थः–अपौरुषेयत्वेन सम्प्रतिपन्ने वेदसाम–नामके ग्रन्थे ‘कया नश्चित्र आ भुवत्’ इत्येतस्यां योन्यामेकस्यामृचि यद्–वामदेव्य–नामकं सामोपदिष्टं तदेवोत्तरयोरृचोः ‘कस्त्वासत्योमदानाम्’ “अभी षु णः सस्वीनाम्” इत्यतयोः द्वितीयतृतीययोर्गातव्यम्–इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्थः स्यात्, “वेदसाम–वदध्ययनादेव तत् प्रसिद्धेः। उपरितनऋग्द्वये सामोहस्य पौरुषेयत्वेऽपि सामस्वरूपस्य तदाधारभूतानां तिसृणामृचां च वेदत्वादनध्याये वर्जनीयाः कर्त्तुरस्मरणं जीर्णकूपारामादिष्विव चिरकाल–व्यवधानादुपपन्नम्, अ–स्मरण–मूलिकैवाध्यापकानां वेदत्वप्रसिद्धिः यथावह्वृचानामध्यापकामहाब्रत–प्रयोग–प्रतिपादकमाश्वलायन–निर्मितं कल्पसूत्रमारण्येऽधीयमानाः पञ्चममारण्यक मिति वेदत्वेन व्यवहरन्ति तद्वत्। न च तस्यापि वेदत्वमस्त्विति वाच्यम्, प्रथमारण्यकेन पुनरुक्तत्वात्, अर्थवाद–राहित्येन ब्राह्मणसादृश्याभावाच्च। तस्मात् पञ्चमारण्यकवदूहः पौरुषेयः, पौरुषेयस्य च न्यायमूलत्वात् यत्र वक्ष्यमाणन्याय–विरोध–स्तदप्रमाणम्”। अत्रेदं दिग्मात्रमुदाह्रियते। “अग्न आयाहि वीतयं गृणानो हव्यदातये। निहोता सत्सि बर्हिषि” सा प्रथमा ऋक्। तस्या अक्षरविकारदिभिरेवं गानम् यथा “ओग्नाई आयाही ३ वीइ (यि) तोयाई तोयाई गृणानो ह, व्यदा तोयाई तोयाई नाइ हो तास ३ माइ वा औ हो वा हीषि”। तत्र अग्न इत्यत्र अ द्यस्य वर्णविकारे ऐत्यस्य स्थाने ओरूपो विकारः। एवं ए इत्येकारस्थाने आई इति विश्लेषणम्। आया इत्यत्र दीर्घता इति वर्णविकारः। वी इत्यत्र वीइ (यि) विश्लेषणम्। त इत्यस्य तो इति विकारः। गे इत्यत्र एकारस्य आई, इति विश्लेषे ताई इति। तोयाई तोयाई इत्यभ्यासः। गृणानोह, इति हव्यदातय इत्यस्यैकदेशे विरामः। व्यदातये इत्यत्र त इत्यत्र अकारस्य ओ इति विकारे ये इत्यत्र आई इति विश्लेषे च तोयाई इति तस्य चाभ्यासः। नि इत्यत्र नायि इति वर्णविकारः। हो इत्यत्र विरामः। ता इति यथास्थितम् सत्सीत्यस्य स इत्यत्र विरामः दीर्घश्चाक्षरागमः वर्णविकारः। त्सि इत्यस्य स्थाने त्साय इति तलोपविकारौ। वर्हिषि इत्यस्य व इत्यत्र विरामो दीर्घश्च। औहो वा इति स्तोभः ऋगक्षराधिकत्वात्। र्हिषि इत्यत्र दीर्घरलोपौ अक्षरविकारश्च। एवमन्यत्राप्यूह्यम्। एवंरूपेण अक्षरविकारादि तु नारदशिक्षाद्यनुसारेणो न्नयम्। सामभेदाश्च रथन्तरादयः गानविशेषा एव यथाह सामसं० भाष्ये
“यदुक्तं “गीतिषु सामाख्येति” जै० सू० तदेव विशदीकर्त्तुं सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितः“अतिदेश्यं विनिश्चेतुं कवतीषु रथन्तरम्। गायतीत्यृग् गानयुक्ता शब्दार्थोगानमेव वा। इति चिन्ता गानयुक्ता त्वभित्वेत्यृक् प्रसिद्धितः। लाघवादतिदेशस्य योग्यत्वाच्चान्तिमोभवेत्। इदमाम्नायते–“कवतीषु रथन्तरं गायति”–इति, “कया नश्चित्र आभुवदित्याद्यास्तिस्रऋचः कवत्यः, तासु वामदेव्यं सामाध्ययनतः प्राप्तम् तस्मादिदं रथन्तरं साम तास्वतिदिश्यते, तत्रातिदेशस्य स्वरूपं निश्चेतुं रथन्तर–शब्दार्थश्चिन्त्यते। गानविशेषयुक्ता
“अभि त्वा शूर नोनुम” इतीयमृग् रथन्तरमित्युच्यते, कुतः? अध्येतृ–प्रसिद्ध्वितः रथन्तरं गीयतामिति केनचिदुक्ताः अध्येतारः स्वर–स्तोभविशेषयुक्ताम् अभित्वेत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम् तस्माद् गान–विशिष्टायाऋचोरथन्तर–शब्दार्थत्वमिति प्राप्ते, ब्रूमः स्वरादिविशेषानुपूर्वीमात्रस्वरूपमृगक्षर–व्यतिरिक्तं यद् गानं तदव रयन्तरशबदार्थः, कुतः? लाघबात्, किञ्च कवतीष्वृक्षु गानमतिदेष्टु योग्यम्। नत्वृचस्तद्योग्यतास्ति, कयानोऽभित्वेत्यनयोरृचोर्युगपदाधाराधेयभावेन पठितुमशक्यत्वात्, तस्माद् गानविशेषएव रथन्तरशब्दार्थः इति। पुनरपि नवमाध्यायस्य द्वितीयपादे प्रथमाधिकरणस्य प्रथमवर्णके सामशब्दस्य गान- मात्र–वाचित्वं स्मारितम्–“सामोक्ति–वृहदाद्युक्ती गीतायामृचि केवले। गाने वा गानएवेति स्मार्यते सप्तमोदितम्। सामान्यवाची सामशब्दो विशेषवाचिनो बृहद्रथन्तरादि–शब्दाश्च गानमात्रे वर्त्तन्ते, न तु गानविशिष्टायामृचि–इत्ययं नियमः सप्तमस्य द्वितीयपादे सिद्धः”। वेदगानग्रन्थे ऊहगानग्रन्थे चास्य विस्तरः। तद्भेदाश्च सामशब्दे वक्ष्यन्ते। गा–गतौ ल्युट्। २ गमने। गा स्तुतौ ल्युट्। ३ स्तवने।
गानिन् = त्रि० गानमस्त्यस्य इनि। १ गतियुक्ते। २ गीतियुक्ते ३ स्तुतियुक्ते च स्त्रियां ङीप्। ४ वचायाम् स्त्री शब्दच०।
गान्तु = त्रि० गम–तुन् वृद्धिश्च। १ गन्तरि २ पथिके उज्ज्वल० ३ गाथके संक्षिप्तसा० वस्तुतः तत्रापि पथिक इत्येव पाठः लिपिकरप्रमादात् गाथक इति।
गान्त्री = स्त्री गन्त्र्येव गन्त्री + स्वार्थे अण् ङीप्। वृषवाह्ये शकटे रायमुकुटः। “भ्रस्जिगमिनमीत्यादिना” सूत्रेण ष्ट्रन् वृद्धिश्च गान्त्रं शकटमित्युज्ज्वलदत्तोक्तेः क्लीवत्वमपि।
गान्दिक = त्रि० गन्दिकायां भवः सिन्ध्वा० अण्। गन्दिकानदीभवे।
गान्दिनी = स्त्री काशिराजदुहितरि शफल्कभार्य्यायामक्रूरादि मातरि त्रिका० तस्या नामनिरुक्तिः हरिवं० ३५ अ० उक्ता यथा “शफल्कः काशिराजस्य सुतां भार्य्यामविन्दत। गान्दिनी नाम सा गां तु ददौ विप्रेषु नित्यशः। सा मातुरुदरस्था तु बहून् वर्षगणान् किल। निवसन्ती न वै जज्ञे गर्भस्थां तां पिताऽब्रवीत्। जायस्व शीघ्रं भद्रन्ते किमर्थमिह तिष्ठसि। प्रोवाच चैनं गर्भस्था कन्या गाञ्च दिने दिने। यदि दद्यां ततो जाये पितरं प्रत्युवाच ह। तथेत्युक्त्वा च तां चास्याः पिता काममपूरयत्। दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः। अक्रूरः सुषुवे तस्यां श्वफल्काद्भूरिदक्षिणः। उपमद्गुस्तथा मद्गुर्मुदरश्चारिमेजयः। अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्द्दनः। धर्मधृग् यतिधर्मा च गृध्रभोजान्तकस्तथा। आवाह प्रतिवाहौ च सुन्दरी च वराङ्गना”। गान्धिनीति त्रिका० पाठान्तरम्। दर्शितनिरुक्तेर्दकारयुक्ततैव युक्ता। गां भूमिं दायति शोधयति दै–णिनि पृषो०। २ गङ्गायां त्रिका०।
गान्दि(न्धि)नीसुत = पु० ६ त०। १ भीष्मे २ कार्त्तिकेये त्रिका० ३ अक्रूरादा च। गान्दिनीशब्दे तत्मलं दृश्यम्। “रिपोर्गिरा गुरुमपि गान्दिनीसुतम्” माघः। “गान्दि(न्धि)न्यास्तु श्वफल्कतः। अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः” भाग० “आसङ्गः सारमेयश्च मृदुरो मृदुरिर्गिरः। धर्म्मवृद्धः सुकर्मा च क्षेत्रोऽपेक्षोऽरिमर्दनः। शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादशः। तेषां स्वसा सुचार्व्वाख्या” भाग० ९। २४। ९। अत्र अक्रूरप्रमुखा इत्यत्रातद्गुणसंविज्ञानवहुब्रीहिणा अक्रूरं त्यक्त्वा द्वादश तेन सह त्रयोदशेत्यर्थः। तत्सुतायां ४ चार्व्यां स्त्री। गान्दिनी शब्दोक्ते हरिवं० वाक्ये तत्पुत्राणां नामान्तरमुक्तं तच्च कल्पभेदादविरुद्धम्।
गान्दी = स्त्री अक्रूरमातरि गान्दिन्याम्। “स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः” हरिवं ४० अ०।
गान्धपिङ्गलेय = पुंस्त्री गन्धपिङ्गलाया अपत्यम् शुभ्रा० ढक्। गन्धपिङ्गलायाः अपत्ये स्त्रियां ङीप्।
गान्धर्व = त्रि० गन्धर्वस्येदम् अण्। १ गन्धर्वसम्बन्धिनि गान्धर्वलोकः। “इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च। गान्धर्वः स तु विज्ञेयः” इत्युक्ते २ विवाहभेदे, गान्धर्वविवाहेऽधिकारिभेदादि नि० सि० उक्तं यथा।
“मनुः “षडानुपूर्व्या विप्रस्य। क्षत्रस्य चतुरो वरान्। विट्शूद्रयोऽस्तु तानेव विद्याद्धर्म्यानराक्षसान्”। चतुरः आसुरगान्धर्वराक्षसपैशाचान्, तान् राक्षसवर्ज्यान् वैश्यशूद्रयोः। स एव “आसुरं वैश्यशूद्रयोः” हेमाद्रौ पैठीनसिः “राक्षसो वैश्यस्य, पैशाचः शूद्रस्य” प्रचेताः “पेशाचोऽसंस्कृतप्रसूतानां प्रतिलोमजानाञ्च” मनुः “राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः” क्षत्रियादेः संकटे पैशाचमाह माधवीये वत्सः “सर्वोपायैरसाध्या स्यात् सुकन्या पुरुषस्य या। चौर्य्येणापि विवाहेन सा विवाह्या रहःस्यिता” गान्धर्वादिविवाहेष्वव्युदकपूर्वकं दानमाह तत्रैव यमः “नोदकेन न वा वाचा कन्या याः पतिरुच्यते। पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे” पराशरमाधवीये देवलोऽपि “गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः। कर्त्तव्यश्च त्रिभिर्वर्णैः समर्थै वाग्निताक्षिकः” त्रैवर्णोक्तेः गान्धर्वादौ विप्रवर्जमधिकार सक्तः। तत्रैव परिशिष्टे “गान्धर्वासुरपैशाचा विवाहा राक्षसश्च यः। पूर्वं परिग्रहस्तेषु पश्चाद्धोमो विधीयते” अतो होमादावकृते भार्य्यात्वाभावाद्वरान्तराय देया तथा च तत्रैव वसिष्ठबौधायनौ “बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता। अन्यस्मै विधिवद्देया यथा कन्या तथैव सेति” अत्र मन्त्रसंस्काराभावेऽन्यस्मै दानस्य सर्वविवाहेषु साम्याद्बलादपहारे राक्षसपैशाचयोर्विशेषवचनं व्यर्थम्। तेन तयोर्यदि न संस्कृता संस्कृता वेत्यावृत्त्य कन्यानुमत्यभावेऽन्यस्मै देयेति व्याख्येयम्” “द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः” विष्णुः। ३ भारतवर्षीयोपद्वीपभेदे “भारतस्यास्य वर्षस्य नव भेदान्निशामय। इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान्। नागद्वीपस्तथा सोम्यो गा(ग)न्धर्वस्त्वथ वारुणः। अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः” पुराणस० विष्णु पु०। तस्य द्वीपस्य गन्धर्वप्रधानत्वात् गा(ग)न्धर्वसंज्ञा। ४ सामवेदस्योपवेदे उपवेदशब्दे १३३० पृ० विवृतिः। “पदस्थस्वरसंघातस्तालेन सङ्गतस्तथा। प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते” इत्युक्ते ५ सङ्गीतभेदे, न० हेमच०। गान्धर्वचित्तता च सुश्रुते वातप्रकृतिनिमित्ततयोक्ता। सप्तप्रकृतयो भवन्तीत्युपक्रमे “वातप्रकृतिलक्षणोक्तौ “तत्र जागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्य्यनार्य्यो गान्धर्बचित्तः स्फुटितचरणः” इत्यादि। गान्धर्वशाला सङ्गीतशालायाम् गान्धर्वविद्या सङ्गीतविद्यायाम्। गान्धर्वविद् सङ्गीतवेत्तरि। गन्धर्वो देवताऽस्य अण्। ६ तद्देवताकेऽस्त्रे। “गान्धवमादत्स्व सखे! ममास्त्रम्” रघुः। स्वार्थे अण्। ६ अश्वे अमरः। “नानाविधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः। गान्धर्वभूमिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः” माघः। सामवेदपक्षे गानम् बलपक्षे अश्वः। गान्धर्वं गानं प्रियत्वेनास्त्यस्याः प्रज्ञा० अण् ङीप्। ७ दुर्गायाम् स्त्री “ह्रीं श्रीं गार्गीञ्च गान्धर्व्वीं योगिनीं योगदां सदा” हरिवं १७८ अ० दुर्गास्तुतौ। ८ वाचि स्त्री निघण्टुः। “अग्निंर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत” ऋ० १०। ८०। ६।
गान्धर्विक = त्रि० गान्धर्वे कुशलः ठक्। सङ्गीतकुशले। “याम्ये माषकुलत्थाभोज्यं गान्धर्विकै र्योगः” वृ० सं० ९९ अ०। काकशकुने उक्तम्।
गान्धार = पु० गन्ध एव स्वार्थे अण् तमृच्छति ऋ–अण् उप० स०। १ सिन्दूरे २ देशभेदे च (कान्दार) मेदि० स च देशः वृ० स० कूर्मविभागे १५ अ० उत्तरस्यामुक्तः “उत्तरतः कैलासः” इत्युपक्रमे “गान्धारयशोवतहेमताजराज- न्यखचराश्च” गन्धारोऽभिजनोऽस्य सिन्ध्वा० अण्। पित्रादिक्रमेण ३ गान्धारदेशवासिनि। ४ तन्नृपे च बहुषु तस्य लुक्। गन्धाराः तद्वासिषु तन्नृपेषु च ब० व०। “क्रमेण व्यचरत् स्फोतस्ततः पञ्चनदं ययौ” “तस्मादपि च कौरव्य! गन्धारविषयं ययौ” “ततो गन्धारराजेन युद्धमासीत् किरीटिनः” भा० आनु० ८३ अ०। “शकुनेस्तनयो वीरो गन्धाराणां महारथः। निरुध्यमानस्तैश्चापि गन्धारैः पाण्डुनन्दनः”। “बध्यमानेषु तेष्वाजौ गगन्धारेषु समन्ततः” ८४ अ०। गन्धारे भवः तस्य राजा वा कच्छा० अण्। ५ गन्धारदेशभवे मनुष्यतत्स्थभिन्ने मनुष्यतत्स्थयोस्त वुञ्। गान्धारक गान्धारदेशस्थे मनुष्ये तदीयहसितादौ च। “शकनिस्तु सहानीको माद्रीपुत्रभवारयत्। गान्धारकैः सप्तशतैश्चापशक्त्यसि पाणिभिः” भा० द्रो० ९५ अ०। “वायुः समुद्गतो नामे कण्ठशीर्षसमाहतः। नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना” भरतोक्ते “नाभेः समुद्गतो वायुर्गन्धश्रोत्रे च चालयन्। सशब्दस्तेन निर्याति गान्धारस्तेन कथ्यते” संगी० दा० उक्ते च तन्त्रीकण्ठोत्थितसप्तस्वरान्तर्गते ५ तृतीयस्वरे। “अजाविकं च गान्धारम्” इत्युक्तेः तस्याजाविकस्यरतुल्यता। “चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मताः। ऋषभे धैवते तिस्रो द्वे गान्धारनिषादयोः” संगी० दा०। ७ गन्धरसे न० त्रिका०। गान्धारेरपत्यम् “साल्वेयगान्धारिभ्याञ्च” पा० अण्। ८ गान्धारेरपत्ये पुंस्त्री स्त्रियां ङीप्।
गान्धारि = पु० गन्धमेव गान्धं सौरभमृच्छति ऋ–इन्। १ गान्धारदेशे गान्धारस्य तस्तद्देशनृपस्यापत्यम् इञ्। २ तद्देशनृपापत्ये। “गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुज्ज यैः” भा० कर्ण० ४६ अ०। “अलं द्यूतेन गान्धारे! विदूरो न प्रशंसति” भा० स० ४९ अ०। गान्धारिः शकुनिः सुवलनृपपुत्रः। “अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा भा० व० २३८।
गान्धारी = स्त्री गान्धारस्यापत्यम् स्त्री इञ् ततो ङीप्। गान्धारदेशनृपकन्यायाम् १ सा च अजमीढभार्य्याभेदः यथाह भा० आ० ९५ अ०। “अजमीढस्य चतुर्विंशं पुत्रशतं वभूव कैकय्यां गान्धार्य्यां विशालायामृक्षायां चेति”। धृतराष्ट्रभार्य्या सुवलात्मजा दुर्य्योधनादिमाता च यथाह भा० आ० ११० अ०। “अथ शुश्राव विप्रेभ्यो गान्धारीं सुवलात्मजाम्। आराध्य वरदं देवं भग- नेत्रहरं हरम्। गान्धारी किल पुत्राणां शतं लेभे वरं शुभा। इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः। ततो गन्धारराजस्य प्रेषयामास भारत!। अचक्षुरिति तत्रासीत् सुवलस्य विचारणा। कुलं ख्यातिञ्च वृत्तञ्च बुद्ध्या तु प्रसमीक्ष्य सः। ददौ तां धृतराष्ट्रस्य गान्धारीं धर्मचारिणीम्। गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्। आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत!। ततः सा पटमादाय कृत्वा बहुगुणं तदा। वबन्ध नेत्रे स्वे राजन्! पतिव्रतपरायणा। नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया। ततो गान्धारराजस्य पुत्रः शकुनिरभ्यगात्”। “इडापृष्ठे तु गान्धारी मयूरगलसन्निभा। सव्यपादादिनेत्रान्तव्यापिनी परिकीर्त्तिता” तन्त्रोक्तलक्षणे ३ नाडीभेदे। ४ जिनानां शासनदेवताभेदे हेमच०। ५ यवासे राजनि०। ६ दुरालभायां भावप्र०। ७ पार्व्वतीसहचरीभेदे “गौरी विद्याऽथ गान्धारी केशिनी मित्रमाह्वया” भा० व० २३० अ०।
गान्धारीतनय = पु० ६ त०। १ दुर्य्यधनादौ तद्भभिन्यां २ दुःशलायां स्त्री। तस्यां तदुत्पत्तिकथा “क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम्। तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ। सा वब्रे सदृशं भर्त्तुः पुत्राणां शतमात्मनः। ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत्। संवत्सरद्वयं तन्तु गान्धारी गर्भमाहितम्। अप्रजा धारतामास ततस्तां दुःखभाविशत्। श्रुत्वा कुन्तीसुतं जात बालार्कसमतेजसम्। उदरस्यात्मनः स्थैर्य्यमुपलभ्यान्वचिन्तयत् अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः। सोदरं घातयामास गान्धारी दुःखमूर्च्छिता। तती जज्ञे मांसपेशी लोहाष्ठीलेव संहता। द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे। अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्। तां स मांसमयीं पेशीं ददर्श जपतां वरः। ततोऽब्रवीत् सौवलेर्यां किमिदं ते चिकीर्षितम्। सा चात्मने मतं सत्यं शशंस परमर्षये। गान्धार्य्युवाच। ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्। दुःखेन परमेणेदमुदरं घातितं मया। शतञ्च किल पुत्राणां वितीर्णं मे त्वया पुरा। इयञ्च मे मांसपेशी जाता पुत्रशताय वै। व्यास उवाच। एवमेतत् सौवलेयि! नैतज्जात्वन्यथा भवेत्। वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यदा। घृतपूर्णं कुम्भशतं क्षिप्रमेव विधीयताम्। स्वनुगुप्तेषु देशेषु रक्षा चैव विधीयताम्। शीताभिरद्भिरष्ठीलामिमाञ्च परिषेचय। वैशम्पायन उवाच। सा सिच्यमाना त्वष्ठीला बभूव बहुधा तदा। अङ्गुष्ठपर्व्व मात्राणां गर्भाणां पृथगेव तु। एकाधिकशतं पूर्णं यथायोगं विशाम्पते!। मांसपेश्यास्तदा राजन्! क्रमशः कालपर्य्ययात्। ततस्तांस्तेषु कुम्भेषु गर्भानवदधे तदा। स्वनुगुप्तेषु देशेषु रक्षां चैवादधात्ततः। शशंस चैव भगवान् कालेनैतावता पुनः। उद्घाटनीयान्येतानि कुम्भानीति स सौवलीम्। इत्युक्त्वा भगवान् व्यासस्तथा प्रतिविधाय च। जगाम तपसे धीमान् हिमवन्तं शिलोच्चयम्। जज्ञे क्रमेण चैतेन तेषां दुर्य्योधनोनृपः!। जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः”। भा० आ० ११५ अ०। तेषां नामानि ज्यैष्ठानुज्यैष्ठानि च तत्रैव ११७ अ० पाठक्रमेणोक्तानि यथा
“दुर्य्योधनो युयुत्सुश्च राजन्! दुःशासनस्तथा। दुःसहो दुःशलश्चैव जलसन्धः समः सहः। विन्दानुविन्दौ दुर्द्धर्षःसुवाहुर्दुष्प्रधर्षणः। दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च। विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः। चित्रोपचित्रौ चित्राक्षश्चारुचित्रःशरासनः। दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः। ऊर्णनाभः सुनाभश्च तया नन्दोपनन्दकौ। चित्रबाणश्चित्रवर्म्मा सुवर्म्मा तुर्विमोचनः। अयोवाहुर्महाबाहुश्चित्राङ्गश्चित्र कुण्डलः। भीमवेगो भीमबलो बलाकी बलवर्द्धनः। उग्रायुधो भीभकर्म्मा कनकायुर्दृढायुधः। दृढवर्म्मा दृढक्षत्रः सोमकीर्त्तिरनूदरः। दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक्। उग्रश्रवा उग्रसेनः मेनानीर्दुष्पराजयः। अपराजितः कुण्डशायी विशालाक्षो दुराधरः। दृढहस्तः सुहस्तश्च वातवेगसुबर्च्चसौ। आदित्यकेतुबह्वाशी नागदत्तोऽग्रयाय्यपि। कवची निषङ्गी कुण्डी च कुण्डधारो धनुर्द्धरः। उग्रभीमरथौ वीरौ वीरबाहुरलांलुपः। अभयो रौद्रकर्मा च तथा दृढरथश्च यः। अनाधृव्यः कुण्डभेदी विरावी दीर्घलोचनः। प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्य्यवान्। दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः। कुण्डाशी विरजाश्चैव दुःशला च शताधिका”।
गान्धारेय = पु० गान्धार्य्या अपत्यम् ढक्। १ दुर्य्योधनादौ २ तद्भगिन्यां स्त्री ङीप्।
गान्धिक = पु० गन्धो गन्धद्रव्यं पण्यमस्य टक। १ सुगन्धिद्रव्य- व्यवहारिणि (गन्धवेणे) अम्बष्ठात् राजपुत्र्यां जाते सङ्कीर्णजातिभेदे। “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः। आद्यशब्दात् मालाकाररजकगान्धिकादयः” सा० द०। स्वार्थे ठक्। गन्धद्रव्यमात्रे च “पण्यानां गान्धिकं पण्यं किमुच्चैः काञ्चनादिकैः। एकैकेन च यत् क्रीतं तच्छतेन प्रदीयते” पञ्चत०। गन्धी + स्वार्थे क। ३ गान्धिका कीटविशेषे स्त्री (ग~धोपोका) शब्दर०। कृषिशब्दे २२०० पृ० दृश्यम्।
गान्धी = स्त्री गन्ध एव स्वार्थे प्रज्ञा० अण् सोऽस्या अस्ति अच् गौरा० ङीष्। कीटभेदे (ग~धोपोका) कृषिशब्दे २२०० पृ० दृश्यम्।
गामिन् = त्रि० गम + भविष्यति णिनि। भाविगमनकारके “आगामी “यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत्” छन्दोग० एतद्योगे कर्म्मणि न षष्ठी २ त०। “द्वितीयगामी न हि शब्द एष नः” रघुः। कर्त्तर्य्युपमाने उपपदे गमणिनि। तत्तुल्यगन्तरि। “हंसवारणगामिनी” मनुः। “सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः।
गामुक = त्रि० गम–उकञ्। गमनशोले।
गाम्भीर्य्य = न० गम्भीरस्य भावः ष्यञ्। १ अगाधत्वे तलस्पर्शनायोग्यत्वे २ अविकारित्वे च। “निरस्तगाम्भीर्य्यमपास्तपुष्पकम्” माधः। “गाम्भीर्य्य मविकारित्वम् अगाधत्वञ्च” मल्लि०। सा० द० उक्ते ३ पौरुषसात्विकगुणभेदे यथा “शोभा विलासोमाधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः” इति पुरुषगुणानष्टधा विभज्य “भीशोकक्रोधहर्षाद्यैर्गाम्भीर्य्यं निर्विकारता” इति लक्षितम्। “विकाराः सहजा यस्य हर्षक्राधभयादिषु। भावेषु नोपलभ्यन्ते तत् गाम्भीर्य्यमिति स्मृतम्” शाकु०। यथा “आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः”। ४ अचापल्ये च “गाम्भीर्य्यमनोहरं वपुः” रघुः “गान्धीर्य्येण अचापल्येन” मल्लि०।
गाय = पु० गै–भावे घञ्। १ गाने। “यथाविधानेन पठन्सामगायमविच्युतम्” याज्ञ०। कर्मण्युपपदे गै–कर्त्तरि अण्। तत्तत्पदार्थगायके त्रि०। “विज्ञाय तावुत्तमगायकिङ्करौ” भाग० ४। १२। १८। स्त्रियां टाप् सि० कौ०। मुग्धमते षण् ईप्।
गायक = त्रि० गै–ण्वुल्। १ गानकर्त्तरि गानोपजीविनि २ नटे। “पठन्ति पाणिस्वनिकास्तथा गायन्ति गायकाः” भा० शा० ५३ अ०। “नर्त्तकैश्चापि नृत्यद्भिर्गायकानाञ्च निःस्वनैः” भा० आश्व० ७० अ०।
गाय(त्त्री)त्री = स्त्री गायन्तं त्रायते त्रै–क, गीयतेऽनेन गै–घञ् यण् नि० ह्रस्वः गयः प्राणस्त त्रायते त्रैक वा। षडक्षरपादके छन्दोभेदे “उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका। गायत्र्युष्णिगमुष्टुप् च वृहती पङ्क्तिरेव च” वृ० र०। अस्याः पादे लघुगुरुभेदनिवेशनभेदात् चतुःषष्टिर्भेदाः। तेषां मध्ये भेदत्रयस्य विशेषनामानि तनुमध्या शशिवदना वसुमतीति तत्रोक्तानि। इतरभेदानां तु विशेषनामाभावेऽपि ऋग्वेदादौ बाहुल्येनोदाहरणात् तेषां गायत्रीछन्दस्कत्वम्। इयांस्तु भेदः लौकिकच्छन्दसि षडक्षरपादेन चतुश्चरणता वेदे अष्टाक्षरपादत्वेन त्रिपादतया समष्ट्या चतुर्विंशाक्षरता। यथा “अग्निमीले पुरोहितम् यज्ञस्य देवतमृत्विजम्। होतार रत्नधातमम्” इत्यादौ अतएव कात्या० सर्वानुक्रगणिकायां ५ अ० “अथ छन्दांसि गायत्र्युष्णिगनुष्टुब्वृहतीत्यादिना छन्दोनामान्यभिधाय चतुर्विंशात्यक्षरादीनि चतुरुत्तराणीति गायत्र्यादीनां समष्ट्यक्षरसंख्यामुक्त्वा “प्रथमं छन्दस्त्रिपदा गायत्री” इति सा लक्षिता। तेनाष्टक्षरपादतया त्रिपादत्वे चतुर्विंशाक्षरता इति। अनादेशे च सर्वासां गायत्रीच्छन्दस्कानामृचामग्निदेवता “अथात्र च्छन्दोदेवता गायत्र्या अग्निः” इति तत्रोक्तेः गायत्रीच्छन्दसश्च यथाऽष्टाक्षरपादता तथा ता० व्रा० भाष्ययोर्दर्शितम्।
“साध्या वै नाम देवा आसंस्ते सर्वे यज्ञेन सह स्वर्गलोकमायंस्ते देवाश्छन्दांस्यक्रुवन् सोममाहरतेति ते जगती प्राहिण्वन् सा त्रीण्यक्षराणि हित्वैकाक्षरा भूत्वाऽऽगच्छत्, त्रिष्टुभं प्राहिण्वन् सैकमक्षरं हित्वा त्र्यक्षरा भूत्वागच्छद् गायत्रीं प्राहिण्वंश्चतुरक्षराणि वै तर्हि छन्दांस्यासन् सा तानि चाक्षराणि हरन्त्या गच्छदष्टाक्षरा भूत्वा” ता० ब्रा० “पूर्वं साध्याख्या देवा आसन् ते सर्वे यज्ञेन सोपकरणेन सोमादिसाधनमादायैव स्वर्गं लोकमायन्नगमन् ते प्रसिद्धा वस्वादयो देवाः आदौ स्वर्गसाधनयज्ञार्थसोमहरणाय छन्दांसि गायत्र्यादीनि “यूयं सोमं द्युलोकात् आहरत” इत्युक्तवन्तः तान्यपि तथैवाङ्गीचक्रुरिति शेषः तथोक्तास्ते जगतीं प्राहिण्वन् अप्रैरयन् सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्षराणि हित्वा एकाक्षरा भूत्वा पुनर्देवानागच्छत् चतुरु- त्तराणि वै तर्हि छन्दांसि वक्ष्यति तदभिप्रायकमिदं पुनस्ते त्रिष्टुभं प्राहिण्वन् सापि पूर्ववत् सोमपालेष्येकमक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् ते पुनर्गायत्रीं प्राहिण्वन् छन्दांसि सर्वाणि चतुरुत्तराण्यासन् अतः सा गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानि जगतीत्रिष्टुभोश्चतुरक्षराणि हरन्ती अष्टाक्षरा भूत्वा आगच्छत्” भा०। २ गायत्रीछन्दस्के उपनयनाङ्गे गन्त्रभेदे च। छन्दःशास्त्रे षडक्षरपादं हि कन्दो गायत्रीशब्देनोच्यते। सर्ववेदेऽपि षडक्षरयुक्तपादकाबहवोमन्त्राः सन्ति। सर्वेऽपि ते गायत्रीरूपतया वक्तुं शक्यन्ते। किन्तु यथा, “पङ्काज्जायते” इति व्युत्पत्त्या पङ्कजशब्दः पङ्कजनिकर्तृत्वयुक्तस्य पद्मस्यैव बोधकः पङ्कजातानामन्येषां कुमुदादीनामबोधकः, एवं गायत्रीशब्दोऽपि योगरूढ्यामन्त्रभेदस्येव बोधकः। वस्तुवोऽन्यव्युत्पत्तिमत्त्वेनास्या मन्त्रमेदवोधकत्वम्। यथाह, व्यासः “गायन्तं त्रायते यस्मात् गायत्रीयं ततः स्मृता”। स्वोपासकत्राणकर्त्तृब्रह्मप्रतिपादकतयाऽपि उक्तमन्त्रविशेष एव गायत्रीरूपतयोच्यते। यद्यपि गायत्र्याः षडक्षरपादतया चतुर्षु चरणेषु २४ चतुर्विंशत्यक्षरावशक्यत्वं किन्तु, अन्यगायत्रीच्छन्दस्कानां मन्त्राणामिवास्मिन् २४ चतुर्विंशत्यक्षराभावस्तथापि द्यौरित्यत्रेव वरेण्यपदे वर्णविश्लेषेण २४ चतुर्विंशतिसंख्या परिपूर्य्या। वक्ष्यमाणवृहदारण्यकमाधवभाष्येच “द्यौरित्यत्र दिऔरिति वर्णविश्लेषे सति वरेण्यमित्यत्र वरेणीअमिति वर्णविश्लेषेण व्यक्तमुक्तम्। अस्याश्च अष्टाक्षरपादतया एकैकचरणस्य भूभ्यादिरूपता, गयनामप्राणत्रातृतया गायत्रीशब्दनिरुक्तिश्च वृहदारण्यकब्राह्मणे दर्शिता यथा, “भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि, अष्टाक्षरं ह वा एकं गायत्र्ये पदमेतदुहैवास्या एतत् स यावदेषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेत। ऋचो यजूंषि सामानीति अष्टावक्षराणि अष्टाक्षरं वा एकं गायत्र्यै पदमेतदुहैवास्य एतत् स यावतीयं त्रयी विद्या तावन्न जयति योऽस्या एवदेवं पदं वेद। प्राणोऽपानो व्यानः (विआनः) इत्यष्टावक्षराणि अष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदुहैवास्या एयत् स यावदिदं प्राणिति तद्ध जयति योऽस्या एतदेवं पदं वेद। अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृशे इव एष परोरजा इति सर्वम् ह्येष रज उपर्य्युपरि तपति एवं हैष श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद। सैषा गायत्री एतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठितेत्यादि। तद्वैतत् सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत् प्राणे प्रतिष्ठितमित्यादि। सा हैषा गयांस्तत्रे प्राणा वै गयास्तान् प्राणांस्तत्रे यस्माद् गयांस्तत्रे तस्माद् गायत्री नाम। स यामेवामुमन्वाहैषैव सा, स यस्मा अन्वाह तस्य प्राणांस्त्रायते”। “ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपासनमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्तव्यमित्यारभ्यते सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधानभूतं तत्प्रयोक्तृगयत्राणात् ग यत्रीति वक्ष्यति। न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यं प्राणात्मभूता सा, सर्वच्छन्दसां चात्मा प्राणः, “प्राणश्च क्षतः त्राणात् क्षत्त्रम्” इत्युक्तं प्राणश्च गायत्री तस्मात् तदुपासनमेवं विधित्स्यते द्विजोत्तमत्वहेतुत्वाच्च “गायत्र्या ब्राह्मणमसृजत, त्रिष्टुभा राजन्यं जगत्या वैश्यमिति” द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तं तस्मात् प्रधाना गायत्री ब्राह्मण्याद्यर्था। “यो ब्राह्मणान् अभिवदन्ति स ब्राह्मणः विपापोविरजा विचिकित्सो ब्राह्मणो भवति” इत्युक्तेन परमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति तच्च ब्राह्वणत्वं गायत्रीजन्ममूलमतो वक्तव्यं गावत्र्याः सतत्त्वं, गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवो त्तमपुरुषार्थसाधनेऽधिक्रियते ततस्तन्मूलः परमपुरुषार्थसम्बन्धस्तस्मादेतदुपासनविधानायाह भूमिः अन्तरीक्षं द्यौः (दिऔः) इत्येतानि अष्टौ अक्षराणि, अष्टाक्षरम् अष्टावक्षराणि यस्य तदिदम् अष्टाक्षरं हवै प्रसिद्धावद्योतचौ। एकं प्रथमं गायत्र्यै, गायत्र्याः पदं पादः प्रथमो भूम्यादिलक्षणः त्रैलोक्यात्माष्टाक्षरत्वसाम्यात् एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद तस्यैतत् फलम् स विद्वान् यावत् किञ्चिदेषु त्रिषु जेतव्यं तावत् सर्वं ह जयति योऽस्या एतदेवं पदं वेद। तथा ऋचः, यजूंषि, सामानि, इति त्रयीनामाक्षराणि एतान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्याः द्वितोयम् पदं एतदुहवास्या एतद् यदृग्यजुःसामल- क्षणम् अष्टाक्षरत्वसाम्यात् एवं स यावती इयं त्रयी विद्या त्रय्या विद्यया यावत् फलजातमाप्यते तावद्ध जयति योऽस्या एतत् गायत्र्यास्त्रैविद्यलक्षणं पदं वेद। तथा प्राणः, अपानः (विआनः) व्यानः एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ तच्च गायत्र्यास्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद। अथानन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते अभिधेयभूतम्। अस्याः प्रकृतायाः गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदम् परोरजा य एष तपति तुरीयमित्यादि वाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः। यद् वै चतुर्थं प्रसिद्धं लोके तदिह तुरीयशब्देनाभिघोयते। दर्शतं पदमित्यस्य कोऽर्थः? इत्युच्यते ददृश इव दृश्यत इव हि सूर्य्यमण्डलान्तर्गतः पुरुषः अतो दर्शतं पदमुच्यते। परोरजाः इत्यस्य पदस्य कोऽर्थः? इत्युच्यते सर्व्वम् समस्तम् उ हि एष मण्डलान्तर्गतः पुरुषः, रजः रजोजातं समस्तं लोकमित्यर्थः उपर्य्युपरीति वीप्सा सर्व्वलोकाधिपत्यज्ञापनार्था। ननु सर्व्वशब्देनैव सिद्धत्वात् वीप्सानर्थिका, नैष दोषः येषामुपरिष्टात् सविता दृश्यते तद्विषयः एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा “ये चामुष्मात् पराञ्चो लोकास्तेषाञ्चेष्टे देवकामानञ्चेति” श्रुत्यन्तरात् तस्मात् सर्वावबोधार्था वीप्सा। यथासौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपति एवं हैष श्रिया यशसा च तपति योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद। सैषा त्रिपादा उक्ता या त्रैलोक्यत्रैविद्यप्राणाद्यात्मिका गायत्री, एतस्मित् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्त्तामूर्त्तरसत्वादादित्यस्य, रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति यथा काष्ठादि दग्धसारं तद्वत्। तथा मूर्त्तामूर्त्तात्मकं जगत्। त्रिपदा गायत्री च आदित्यप्रतिष्ठिता तद्रूंपत्वात्। सह त्रिभिः पदैः तद्धि तुरीयं पदं सत्ये प्रतिष्ठितम् इत्यादि। तद्धि तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितं किं? पुनस्तद्बलमित्याह प्राणो वै बलम् तस्मिन् प्राणे बले, प्रतिष्ठित’ सत्यं तथाचोक्ते सूत्रे, “तदोतञ्च प्रोतञ्चेति” तस्मात् बले सत्यं प्रतिष्ठितमित्यादि। सैषा गायत्री प्राणः अतः गायत्र्यां जगत् प्रतिष्ठितम् यस्मिन् सर्वे देवाः एकीभवन्ति सर्वे- वेदाः, कर्माणि फलानि च सैषा गायत्री प्राणरूपा सती जगत आत्मा सा हैषा गयांस्तत्रे त्रातवती, के? पुनर्गयाः, एते प्राणाः वागादयो वै गयाः शब्दकरणात् ताय् तत्रे, सैषा गायत्री तत् यस्मात् गयांस्तत्रे तस्माद्गायत्री नाम गयत्राणात् गावत्रोति प्रथिता। स आचार्य्य उपनीय माणवकमष्टवर्षं यामेव अमूं सावित्रीं सवितृदेबताकाम् अन्वाह पच्छः अर्द्धशः समस्ताञ्च एषैव सा साक्षात् प्राणो जगतः आत्मा माणवकाय समर्पिता इहेदानीं नान्या सः आचार्य्यः यस्मै माणवकाय अन्वाह अनुवक्ति तस्य माणबक्तस्य गयान् प्राणान् त्रायते नरकादिपतनात्” भा० छान्दोग्योपनिषदि गायत्र्या अन्यथा निवचनपूर्वकं षडक्षरपादत्वेन चतुष्प-दत्वं वागादिरूपेण ध्यातव्यत्वम् स्वप्रतिपाद्यब्रह्मात्मद्वारा सर्व्वात्मकत्वञ्च दर्शितम्। “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च। वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च। या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पां हीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते। या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते। यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते। सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्। तावानस्य महिमा ततोज्यायांश्च पुरुषः। पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति।” छ० उप०। “यत एवमतिशयफलैषा व्रह्मविद्या अतः सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्यारभ्यते। गायत्रीद्वारेण चोच्यते ब्रह्म, सर्वविशेषरहितस्य नेति नेतीत्यादिविशेषप्रतिषेधनम्यस्य दुर्बीधत्वात् सत्स्वनेकेषु छन्दःसु गायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात्।” (इत्युपक्रम्य किञ्चिदुक्त्वोक्तम्) “गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव हित्वा गुरुतरां गायत्रीं ततोऽन्यत् गुरुतर न प्रतिपद्यते ययोक्तं ब्रह्मापीति तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् अतो गायत्रीमुखेनैव ब्रह्मोच्यते। गायत्री वै इत्यवधारणार्थो वैशब्दः। इदं सर्वं भूतं प्राणिजातं यत किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव तस्याश्छन्दोमात्रायाः सर्वभूतात्मत्वमनुपपन्नमिति गायत्री- कारणं वाचं शब्दरूपामापादयति गायत्रीं, वाग्वे गायत्रीति वाग्वा इदं सर्वं भूतम् गायति च शब्दायते (असौ गौरसाबश्वः) इति त्रायते च रक्षति “अमुष्मात् मा भैषीः किं? ते भयमुत्थितमित्यादि” सर्वतो भया न्निवर्त्त्यमानो वाचा त्रातः स्यात्। यत् वाक्, भूतं गायति च त्रायते च गायत्र्येव तद् गायति च त्रायते च वाचोऽनन्यत्वात् गायत्र्याः, गानात् त्राणाच्च गायत्रीत्वम्। या वै सैवंलक्षणा सर्वभूतरूपा गायत्री इयं वाव सा येयं पृथिवी, कथं? पुनरियं पृथिवी गायत्रीत्युच्यते? सर्वभूतसम्बन्धात् कथं सर्वभूतसम्बन्धः? तस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गतञ्च भूतं प्रतिष्ठितम् एतामेव पृथिवीं नातिशीयते, नातिवर्त्तते इत्येतत्। यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्या एवं भूतप्रतिष्ठानात् भूतसम्बन्धाद्वा पृथिवी अतो गायत्री पृथिबी। या वै सा पृथिवी गायत्रीयं वाव सा इदमेव, तत् किम्? यदिदमस्मिन् पुरुषे कार्य्यकारणसङ्घाते जीवति शरीरं, पार्थिवत्वाच्छरीरस्य गायत्रीत्वमुच्यते? अस्मिन् हीमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः। अतः पृथिवीवत् भूतशब्दवाच्य–प्राणप्रतिष्ठानात् शरीरं गायत्री एतदेब यस्माच्छरीरं नातिशीयन्ते प्राणाः। यद्धैतत् पुरुषे शरीरं गायत्री वाव तत् यदिदमस्मिन् अन्तर्मध्ये पुरुषे हृदयं पुण्डरीकाख्यमेतत् गायत्री कथम्? इत्याह अस्मिन् हीमे प्राणाः प्रतिष्ठिताः अतः शरीरवत् गायत्री हृदयम् एतदेव नातिशीयन्ते “प्राणो हि पिता प्राणो माता” “अहिंसन् सर्वाभूतानीति” श्रुतेः भूतशब्दवाच्याः प्राणाः। सैषा चतुष्पदा षडक्षरपादच्छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति। (किञ्चिदतीत्योक्तम्) तदेतस्मिन्नर्थे एतद्गायत्र्याख्य ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचापि मन्त्रेण अभ्यनूक्तं प्रकाशितम्। तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः यावान् चतुष्पाद् षड्विधश्च ब्रह्मणो विकारः, पादः गायत्रीति व्याख्यातः। अतस्तस्माद्विकारलक्षणात् गायत्र्याख्यात् ततो ज्यायान् महत्तरश्च परमार्थसत्यरूपोऽविकारः पुरुषः सर्वपूरणात पुरिशयनाच्च। तस्यास्य पादः सर्वा सर्वाणि भतानि तेजोऽबन्नादीनि सस्थावर- जङ्गमानि। त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपाद् अमृतं पुरुषाख्यं समस्तस्य गायत्रात्मकस्य द्योतनवति स्वात्मन्यवस्थितमित्यर्थः” शा० भा०। मातृतोजन्मवतामपि सावित्र्या द्वितीयजन्माधानात् द्विजानां द्विजत्वम्। यज्जन्मैव हि सकलपुरुषार्थहेतुरिति मन्वादिशास्त्रे प्रसिद्धम्। यथा, मनुः “आचार्य्यस्त्रस्य यां जातिं विधिवद्वेदपारगः। उत्पादयति सावित्री सा सत्या साऽजराऽमरा। तत्र यद् व्रह्मजन्मास्य मौर्ञ्जवन्धनचिह्नितम्। तत्रास्य माता सावित्री पिता चाचार्य्य उच्यते”। यद्यपि परमेश्वरः सर्वत्रामिन्नरूपतया वर्त्तमानस्तथापि समुपासने एव विशिष्टफलप्रदः नान्यथा इदमपि दृष्टान्ततया योगियाज्ञवल्क्येन कथितम् “गवां सर्पिः शरीरस्थं न करात्यङ्गपोषणम्। निःसूतं कर्म्मसंयुक्तं पुनस्तासां तदौषधम्। एवं सहि शरीरस्थः सर्पिर्वत् परमेश्वरः। विना चोपसनादेव न करोति हितं नृषु”। गायत्र्याश्च स्ववाच्यब्रह्मणा सहाभेदात् प्राशस्त्यमाह व्यासः “न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह। सोऽहमस्मीत्युपासीत विधिना येन केनचित्”। “गायत्रीस्थभर्गपदप्रतिपाद्य ईश्वरः अहं जीवरूपोऽस्मि भवामीति जीवेश्वरयोरहङ्कारप्रतिविम्बितत्वोपाधिरहितेन चिद्रूपेणैक्यं भावयन् उपासीत” इति रघुनन्दनः। तत्र सत्स्वपि परमव्रह्मण उपासनाया बहुषूपायेषु गायत्र्येष तदुप्रासनायाः प्रधानोपायः इति प्राग्दर्शितेषु शास्त्रेषु प्रसिद्धम्। विशेषतः, गायत्र्यर्थः परं ब्रह्म एतदर्थमपि अनेन मन्त्रेणैव उपासना श्रेयस्करी “प्रणवव्याहृतिभ्याञ्च गायत्र्या त्रितयेन च। उपास्यं परमं ब्रह्म आत्मा यत्र प्रतिष्ठितः। वाच्यः सईश्वरः प्रोक्तो वाचकः प्रणवः स्मृतः। वाचकेऽपि च विज्ञाते वाच्य एव प्रसीदति” योगीश्वरवाक्येन तथाभिधानात्।
“गायत्र्याः २४ चतुर्विंशत्यक्षराणां यथा भावना कार्य्या, तथा ब्राह्मणसर्वस्वे विष्णुधर्मोत्तरे दर्शितं यथा “कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्दियाणि च। पञ्च बुद्धीन्द्रियार्थाश्च भूतानां चैव पञ्चकम्। मनोवुद्धिस्तथैवात्मा अव्यक्तञ्च यदुत्तमम्। चतुर्विंशतिरेतानि गायत्र्या अक्षराणि च। प्रणवं पुरुषं विद्धि सर्वगं पञ्चविंशकम्।” अनेन पञ्चविंशतितत्त्वरूपतया सप्रणवगायत्र्यक्षराणां ध्येयतोक्ता। तत्र प्रत्यक्षरं देवताभेद- माह योगियाज्ञवल्क्यः। “अक्षरणान्तु दैवत्यं सम्प्रवक्ष्याम्यतः परम्। आग्नेयं (तत्) प्रथमं ज्ञेयं वायव्यञ्च (स) द्वितीयकम्। तृतीयं (वि) सूर्य्यदैवत्यं चतुर्थं (तुः) वैद्युतं तथा। पञ्चमं (व) यमदैवत्यं वारुणं (रे) षष्ठमुच्यते। बार्हस्पत्यं सप्तमन्तु (ण्) पार्ज्जन्यमष्टमं (यम्) विदुः। ऐन्द्रं तु नवमं (भ) ज्ञेयं गान्धर्वं दशमं (र्गः) तथा। पौष्णमेकादशं (दे) प्रोक्तं मैत्रावरुणं द्वादशम् (ब)। त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं वास वन्तु चतुर्द्दशम् (धी)। मारुतं पञ्चदशकं (म) सौम्यं षोडशकं (हि) स्मृतम्। सप्तदशं (धि) त्वाङ्गिरसं वैश्वदेवमतः परम्। (यः)। आश्विनञ्चैकोनविंशं (यः) प्रजापत्यन्तु विंशकम् (नः)। सर्वदेषमयं प्रोक्तमेकविंश (प्र) मतः परम्। रौद्रं द्वाविंशकं (च) प्रोक्तम् त्रयोविंशन्तु (द) ब्राह्मकम्। वैष्णवन्तु (यात्) चतुर्विंशमेता ह्यक्षरदेवताः। जप्यकाले तु संस्मृत्य तासां सायुज्यतां व्रजेत्”। “तस्याश्च वेदसारता–नानाशास्त्रे दर्शिता यथा
“अष्टादशसु विद्यासु मीमांसाऽतिगरोयसी। ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च। ततोऽपि धर्भशास्त्राणि तेभ्यो गूर्वी श्रुतिर्द्विज। ततोऽप्युपनिषच्छ्रेष्ठा गायत्री च ततोऽधिका। दुर्लभा सर्वमन्त्रेषु गायत्री प्रणवान्विता। न गायत्र्यधिकं किञ्चित्त्रयीषु परिविद्यते। न गायत्रीसमो मन्त्रो न काशी सदृशी पुरी। न विश्वेशसमं लिङ्गं सत्यं सत्यं पुनः पुनः। गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः। गायन्तं त्रायते यस्माद्गायत्रीति प्रगीयते। वाच्यवाचकसम्बन्धो गायत्र्याः सवितुर्द्वयोः। वाच्योऽसौ सविता साक्षाद्गायत्री वाचिका परा। प्रभावेनैव गायत्र्याः क्ष त्रियः कौशिको वशी। राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान्। सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने। किं किं न दद्याद्गायत्री सम्यगेवमुपासिता। न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि। देव्यास्त्रिकालमभ्यासात्ब्राह्मणः स्याद् द्विजोऽन्यथा। गायत्र्येव परो विष्णुर्गायत्र्येव परः शिवः। गायत्र्येव परो ब्रह्मा गायत्र्येव त्रयी यतः” काशी०।
इत्थं बहुविधशास्त्रे गायत्री सर्वेषां वेदानां सारांशतया सर्वाभीष्ट हेतुतया च प्रसिद्धा। यदज्ञाने ब्राह्मण्यहानिर्भवति। सेयं वेदत्रयेऽपि सुमानरूपा”। मनुः “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेदत्रयान्नि रदुहत्भूर्भुवः स्वरितीति च!। त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्”। मनुयमवृद्धवविष्ठाः “ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयस्तथा। त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम्।” जपेदित्यनुकृष्य छन्दोगपरिशिष्टम् “सर्वेषां वेदानां गुह्योपनिषत्सारभूतां ततो गायत्रींम्।” योगियाज्ञवल्क्यः “गायत्रोञ्चैव वेदांश्च तुलया समतोलयन्। वेदा एकत्र साङ्गास्तु गायत्री चैकतः स्थिता।” स एव “सारभूतास्तु वेदानां गुह्योपनिषदो मताः। ताभ्यः सारस्तु गायत्री तिस्रो व्याहतयस्तथा।” स एव “ओङ्कारपूर्विकास्तिस्रो गायत्रीं यश्च विन्दति। चरितब्रह्मचर्य्यश्च स वै श्रोत्रिय उच्यते।” स एव “एतया ज्ञातया सर्वं वाङ्मयं विदितं भवेत्। उपासितं भवेत्तेन विश्वं भुवनसप्तकम्।” स एव “एवं यस्तु विजानाति गायत्रीं ब्राह्मणस्तु सः। अन्यथा शूद्रधर्मा स्याद् वेदा नामपि पारगः।” स एव “अज्ञात्वा चैव गायत्रीं ब्राह्मण्यादेव हीयते। अपवादेन संयुक्तो भवेत् श्रुति निदर्शनात्।” कौर्मम् “क्रियाहीनस्य मूर्खस्य महारोगिण एव च। यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्।” मूर्खस्य सार्थगायत्रीरहितस्येति शुद्धितत्त्वे रघुनन्दनः। गायत्रीरहितस्येत्यन्ये। तस्याः सन्ध्यारूपतया उपस्यतापि यथाह, योगियाज्ञवल्क्यः “या सन्ध्या सैव गायत्री द्विधा भूता व्यवस्थिता। सन्ध्या उपासिता येन विष्णुस्तेन उपासितः।” व्यासः “गायत्री नाम पूर्वाह्णे सावित्री मध्यमे दिने। सरस्वती च सायाह्ने सैव सन्ध्या त्रिषु स्मृता। प्रतिग्रहान्नदोषाच्च पातकादुपपातकात्। गायत्री प्रोच्यते तस्मात् गायन्तं त्रायते सदा। सवितृद्योतनात् सैव सावित्री परिकीर्त्तिता। जगतः प्रसवितृत्वात् वागरूपत्वात् सरस्वती”। ऋष्यशृङ्गः “सर्वात्मना हि या देवी सर्वभूतेषु संस्थिता। गायत्री मोक्षहेतुर्वै मोक्षस्थानमलक्षणम्” कूर्मपुराणम् “गायत्री वेदजननी गायत्री लोकपावनी। न गायत्र्याः षरं जप्यमेतद्विज्ञानमुच्यते।” योगियाज्ञबल्क्यः “गायत्री वेदजननी गायत्री पापनाशिनी। गायत्र्यास्तु परं नास्ति दिवि चेह च पावनम्। हस्तत्राणप्रदा देवी पततां नरकार्णवे। तस्मात्तामभ्यसेन्नित्यं ब्राह्मणाऽनुदये शुचिः। गायत्रीं निरतं हव्यकव्येषु विनियोज- येत्। तस्मिन्न तिष्ठते पापमब्विन्दुरिव पुष्करे।” स एव “गायत्र्याः पदमर्द्धन्तु ऋचोऽर्द्धमृच एव वा। ब्रह्महत्यासुरापाणं गुरुदाराभिमर्षणम्। यच्चान्यत् दुष्कृतं सर्वं पुनातीत्याह वै मनुः।” स एव “यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः। गायत्रीध्यानपूतस्य कलां नार्हति षोडशीम्।” वृहद्बिष्णुः “एतयर्चा विसंयुक्ता काले च क्रियया स्वया। विप्रक्षत्रियविड्योनिर्गर्हणीया तु साधुषु।” अग्निपुराणम् “गायत्रीं जपते यस्तु द्वौकालौ ब्राह्मणः सदा। असत्प्रतिग्रहीतापि स याति परमां गतिम्।” गायत्र्याश्च सर्वछन्दसां प्रधानत्वात् “गायत्रीछन्दसामपि” गीतायां भगवद्विभूतित्वमुक्तम्। ३ खदिरवृक्षे अमरः। खदिरस्य च “सा गायत्री सोममाहरत्” इत्युपक्रमे “खदिरेण सोममाचखाद” तस्मात् खदिर इति” शत० ब्रा० ६। २। ९ गायत्र्या सोमहरणेन तत्पाने साधनत्वाद् गायत्रीत्वम्। गायत्रं गायत्रीसम्बन्धि सोमहरणमस्त्यत्र पानसाधनत्वेन गायत्र + इनि। गायत्रिन् इत्यपि तत्रार्ते वैद्यकम् “उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समानम्” सुश्रुतः। “वह्निगायत्रिणां तथेति” वैद्यकात् इनन्तोऽपि तत्रार्थे पु० भानुदीक्षितः। पुंसाहचर्य्यात् अमरवाक्यस्य पुंलिङ्गपरतौचित्यात् तथात्वम्। “गायत्री खदिरे स्त्री स्यात्” इति रभसोक्तेः “गायत्री द्रुपदादेवीछन्दोभित् खदिरेषु च” कोषान्तराच्च स्त्रीत्वम् ङीबन्तता च। गायत्र्या ऋचोपास्यायां ४ देवतायाम्। सा च एकापि प्रातरादिकालभेदेन गायत्री–स्वावित्री सरस्वतीति–नामत्रययुता तत्र प्रातरुपास्या गायत्रीति संज्ञाऽनुपदमुक्तम्। ५ दुर्गायां च “गायनाद्गमनाद्वापि गायत्री त्रि ६ शार्चिता” देवीपु० देवीनामनिरुक्ती। गायत्र्या इदम् अण्। ६ गायत्र गायत्रच्छन्दसि न० “गायत्रच्छन्दाह्यग्निः” ता० ब्रा० ८। ८। ६। गायत्रच्छन्दोऽभिमानी अग्निः” भा०। “आष्टदे गायत्रेण छन्दसा” यजु० ११। ९। गायत्र्याहृतः अण्। गायत्र्या हृते ७ सोमभेदे पु० तद्धरण कथाऽग्रे उक्तैव “गायत्रस्त्रैष्टभः पाङ्क्तो जागतः शाङ्करस्तथा” सुश्रुते सोमभेदकथने। तत्स्थानञ्च तत्रैवोक्तं “काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम्। गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा। न तान् प्रश्यन्त्यधर्म्मिष्ठाः कृतघ्नाश्चापि मानवाः। भेषज- द्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा”। गायत्र्या इदम् अण्। गायत्र ८ गायत्रीसम्बन्धिनि त्रि० ९ गायत्रीच्छन्दस्के स्तोत्रादौ न०। गायत्रीं तच्छन्दस्कामृचमधिकृत्य गीतं साम अण्। गायत्र्यामृचिगेये १० सामभेदे। “स्वादिष्ठया मदिष्ठया” इत्येकं सूक्तं तस्मिन् गायत्र्यस्तिस्र ऋचः तत्र गायत्रं संहितं चेति द्वे सामनी” सा० स० भाष्यम्। “ऋचा स्तोमं समर्द्धय गायत्रेण रथन्तरम् वृहद्गायत्रवर्त्तनि! स्वाहा” यजु० ११। ८। गायत्रेण साम्ना, गायत्रं सामं वर्त्तनिर्मार्गोस्याः वेददी० “इमां गायत्रवर्त्तनिं जुषेथां सुष्टुतिं मम” ऋ० ८। ३८। ६। “गायतवर्त्तनिं गायत्रसाममार्गां सुष्टुतिं शोभनां स्तुतिम्” भा०। “स्वाहा गायत्रवेपसे” ऋ० १। १४२। १२। गायत्रं साम वेपो रूपं यस्याः” भा०। गायत्रसदृशत्वात् ११ प्रशस्ये च “हुवे गायत्रवेपसम्” ८। १। १०। “गायत्रवेपसम् प्रशस्यवेगाम्” भा०। गायत्रसाम्न उपसना प्रकारादि छा० उ० दर्शितम् यथा “मनोहिङ्कारो वाक् प्रस्तारश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम्। स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, महामनाः स्यात्तद्व्रतम्” छा० उ०। “मनो हिङ्कारो मनसः सर्वकरणप्रवृत्तीनां प्राथम्यात्। तदानन्तर्य्याद्वाक् प्रस्तारः, चक्षुरुद्गीथः श्रैष्ठ्यात्। श्रोत्रं प्रतिहारः प्रतिहार्य्यत्वात्, प्राणो निधनं यथोक्तानां प्राणे निधानात्स्वापकाल। एतद्गायत्रं साम प्राणेषु प्रोतम् गायत्र्याः प्राणसंस्तुतत्वात्। स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति अविकलकरणो भवतीत्येतत्। सर्वमायुरेति “शतं वर्षाणि सर्वमायुः पुरुषस्येति” श्रुतेः। ज्योगुज्ज्वलं जीवति। महान् भवति प्रजादिभिर्महांश्च कीर्त्त्या। गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः” शा० भा०।
गायत्रिन् = पु० गायत्रं स्तोत्रमस्त्यास्ति इनि। १ उद्गातरि सामगायके “गायन्ति त्वा गायत्रिणः” ऋ० १। १०। १ २ खदिरवृक्षे च गायत्रीशब्दे दृश्यम्।
गायन = त्रि० गै–शिल्पिनि ञ्युट्। गानोपजीविनि त्रिका०। “स्तेनगायनयोरन्नम्” मनुना तदन्नभक्षणं निषिद्धम् “सत्यं किलैतत् सा प्राह दैत्यानामसि गायनः” भा० आ० ७८ अ०। स्त्रियां ङीप्।
***