गर्भागार = न० गर्भ इवागारम्। १ गृहमध्यभागे वासगृहे। गर्भ एवागारम्। २ गर्भस्थाने अमरः। ३ गर्भाशये राजनि०।
गर्भाधान = न० गर्भ आधीयतेऽनेन कर्भणा आ + धाकरणे ल्युट्। गर्भरूपपात्रसस्कारकर्म्मणि तत्र विहितनक्षत्रादिकालभेदास्तद्विधानानि च स० त० उक्तानि यथा
“अथ गर्भाधानम्। गोभिलः “यदा ऋतुमती भवति उपरतशोणिता तदा सम्भवकालः” ऋतुः प्रजाजनन- योग्यकालः तन्निमित्तेन नैमित्तिकं गमनं कार्य्यम् अकुर्वतः प्रत्यवायान्नियमः “ऋतुमतीन्तु यो भार्य्यां सन्निधौ नोपसर्पति। अवाप्नोति स मन्दात्मा भ्रूणहत्यामृतावृतौ” इति स्मृतेः। ज्योतिषे “ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिकाश्विनी। उत्तरात्रितर्यत्यक्त्वा पर्ववर्जं व्रजेदृतौ” विष्णुपु० “चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा। पर्वाण्येतानि राजेन्द्र! रविसंक्रान्तिरेव च। स्त्रीतैलमांससंभोगी विण्म्त्रनरकं व्रजेत्”। याज्ञ० “षोडशर्त्तुर्निशास्त्रीणां तासु युम्मासु संविशेत्। अत्र षोडशाहोरावात्मककालस्य सावनत्वात् पुंसवननामकरणयोरपि सावनगणनायायुक्तत्वाच्च संस्कारमात्रे सावनगणना। तथा व्यवहारश्च तथा च याज्ञवल्क्यः “गर्भाधानमृतौ पुंसः सवनं स्यन्दनात् पुरा। षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च। अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः। षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम्। एवमेनः शमं याति वीजगर्भसमुद्भवम्”। चतुर्थे स्पन्दते ततः” इति वचनात् स्पन्दनात् पूर्वमासत्रयं पुंसवनकालः। अत्र चतुर्थमासस्य सौरत्वे चान्द्रत्वे वा निषेकमासस्यापि तथात्वे तदाद्यन्तदिननिषेके सति अधिकन्यूनकालयोर्गर्भस्पन्दनमनियतमापद्येत सावने तु नियतं तेनात्र सावनगणना युक्ता योषिद्व्यवहारप्रसिद्धा च। “अहन्येकादशे नाम” इत्यत्रापि “अशौचव्यपगमे नामधेयमिति” विष्णुसूत्रात् सूतकोत्तरदिनपरमेकादशदिनपदम् सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता” सूर्यसिद्धान्तवचनेन सूतकस्य सावनदिनघटितत्वात् तदुत्तरदिनस्यापि तथात्वम्। अतो दिनमासवर्षगणन सावनेनेति। शुभाशुभविवेचनन्तु सौरेण ज्योतिःशास्त्रात्। अतएव पितामहः “विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः”। अत्र द्वितीयादिशब्दात् संस्कारपरिग्रहः। “गर्भाधाने सदा ग्राह्याः वारा भौमरवीज्यकाः” इति। गोभिलः “दक्षिणेन पाणिना उषस्थमभिस्पृशेत्” विष्णुर्योनिं कल्पयत्वेतयर्च्चा “गर्भं धेहि सिनीवालीति च” समाप्यर्च्चौ सम्भवतः”। कुत्सितदेशस्य सव्येन पाणिना शौचदर्शनात् तद्वारणाय दक्षिणेनेति। उपस्थं योनिं स्पृशेत् विष्णुरिति मन्त्रेण प्रथमं, ततो “गर्भं धेहिसिनीबालीत्यादि” मन्त्रेण च। “मन्त्रान्ते कर्मादिसन्निपातः” इति न्यायात् पाठानन्तरं स्पर्शः न तु भवदेवभट्टीक्तं स्पृशन् जपतीति ऋचौ समाप्यैव संयेगं कुरुतः न मध्ये वामदेव्यजपः। देवलः “सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता”। तेन गर्प्राधानपुं सवनसीमन्तोन्नयनानि सकृदेव कर्त्तव्यानि। छन्दोगपरिशिष्टभ् “विवाहादिकभगणोय उक्ते गर्भाधानं शुश्रुम यस्य चान्ते। विवाहादावेकमेवात्र कुर्यात् श्राद्धं नादौ कर्मणः कर्मणः स्यात्”। विवाहादिगर्भाधानान्तकर्मसु एकमेव श्राद्धं न तु प्रतिकर्मादौ, एकेनैव श्राद्धेन कृतेन सर्वाणि श्राद्धवन्तीति। अन्तशब्दोऽत्रावयवार्थः दशान्तः पट इति वत् समीपार्थे उपलक्षणं स्यात्। ततश्च विशेषणोपलक्षणसन्देहे विशेषणत्वेन ग्रहणं कार्य्यान्वितत्वात्। यत्तु “निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च” इत्यनेन भविष्यपुराणे श्राद्धं कर्माङ्गत्वेन विहितं तच्छन्दोगेतरपरम्। अत एव भवदेवभर्ट्टनापि तथा लिखितम्। अत्र श्राद्धोत्तरगमनेऽपि न दोषः उक्त भविष्यपुराणात् “नित्ये नान्दीमुखश्राद्धे कृते दानाद्यवर्जनम्” इति वचनान्तराच्च”।
मु० चि० पीय० धा० विस्तरेण विहितनिषद्धकालादिकमुक्तं यथा “गण्डान्तं त्रिविधं त्यजेन्निधनजन्मर्क्षे च मूलान्तकं दास्रं पौष्णमथोपरागदिवसं पातं तथा वैधृतिम्। पित्रोः श्राद्धदिनं दिवा च परिघाद्यार्धं स्वपत्नीगमे भान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम्” मु० चि० “गण्डान्तमिति। अत्र यदि दुष्टफलतिथ्यादिषु रजोदर्शनमुद्भूतं तत्र चतुर्थदिनानन्तरं शान्तिकं विधेयं यदाह वसिष्ठः “प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शान्तिककर्म कार्यम् “विवर्ज्जयेदेव तदैकशय्यां यावद्रजो दर्शनमन्यघस्र। ईशानतो गोमयमण्डलेन परिस्तृतेऽग्नौ जुहुयात्सदूर्वाम्। युग्मां घृताक्ताञ्च समित्प्रमाणां गायत्रिकां साष्टसहस्रसंख्याम्। शतप्रमाणामथवाघहन्त्रीं शुभैर्यवैर्व्याहृतिभिस्तिलैश्च। ततः सुरान् भूमिसुरान् पितॄंश्च सन्तर्पयेदन्नसुवर्णवस्त्रैरिति”। शान्तिकप्रकारस्तु शान्तिपद्धत्यादौ द्रष्टव्यः। एवं शान्तिकं विधाय गर्भाधानं विधेयम्। तत्र स्वपत्नी गमे स्वपत्नीगमने एतान् दोषान् त्यजेदिति सर्वत्र सम्बन्धः। एतान् कान्? त्रिविधं गण्डान्तं गण्डात्तलक्षणं रत्नमालायाम् “नक्षत्रतिथिलग्नानां गण्डान्तं त्रिविधं स्मृतम्। नवपञ्चचतुर्थानां द्व्येकार्द्धघटिकामितमिति” निधनं जन्मर्क्षात् सुप्तम बधतारां, जन्मनक्ष मूलम् अन्तकं भरणीं दास्रमश्विनीम्। पौष्णं रेवतीं मघाम् उपरागदिवसं ग्रहणदिनं, पातं व्यतीपातम् महापातं च, वैधृतिं योगं, पित्रोर्मातापित्रोः श्राद्धदिनं, दिवा सूर्यावच्छिन्नकालं परिधयोगस्य पूर्वार्द्वम्। तथोत्पातैर्दित्यान्तरिक्षभौमैस्त्रिविधैरुत्पातैर्हतं दूषितं, जन्मर्क्षतः जन्मलग्नाज्जन्मराशेर्वा मृत्युभवनमष्टमं लग्नं पापभं पापग्रहयुक्तं भं नक्षत्रं लग्नं वा इति” पी० धा० “भद्राषष्ठीपर्वरिक्ताश्च सन्ध्यां भौमार्कार्कीनाद्यरात्रीश्च तस्रः। गर्भाधानं त्र्युत्तरेन्द्वर्कमैत्रब्राह्मस्वातीविष्णु वस्वम्बुपे सत्” मु० चि०। “भद्रेति भद्रा प्रसिद्धा षष्ठी तिथिश्च पर्वाणि चतुर्दश्यष्टम्यमावास्या पूर्णिमा सक्रमणानि उक्तञ्च विष्णुपुराणे “चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र! रविसंक्रान्तिरेव चेति” रिक्ताश्चतुर्थीनवमीचतुर्दशीः, सन्ध्यां प्रातःसन्ध्यां सायम् सन्ध्याञ्च। भौमं मङ्गलवारम् अर्कमादित्यवारम् आर्किं शनैश्चरवारं, चतस्रः आद्यरात्रीः रजोदर्शनदिनमारभ्य दिनचतुष्टयं त्यजेदित्यर्थः। तदनन्तरमपि पुत्रार्थी रजोदर्शनात् विषमदिवसं त्यजेत्। उक्तञ्चाधानाध्याये वसिष्ठेन निषेधजातं “पौष्णद्वये पित्र्यभयाम्यसार्पविष्णुद्वये नैधनजन्मभेषु। उत्पातधापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने। उपप्लवे वैधृतपातयोश्च विष्ट्यां दिवा पारिघपूर्वभागे। सन्ध्यासु पर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम्। दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी स्वसतीमुपेयात्। दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गण्डां स्तिथिलग्नभानामिति” वक्ष्यमाणयोगैः पुंयोगैः स्त्रीयोगैश्च। अत्र ग्रन्थकृता श्रवणधनिष्ठयोर्न निषेधः कृतः। वार्हस्पत्यसंहितायां तयोर्विशेषतो विहितत्वात्। तद्वचनमधुनैव वक्ष्यते। ननु षोडशिग्रहणाग्रहणवत् विहितप्रतिषिद्धत्वाद्विकल्पः कस्मान्न भवति? सत्यम् बहूनामनुरोधोन्याय्य इति विधिरेबोचितः। अतएवोक्तं नारदेन “शुचिर्भूत्वा युग्मतिथावनग्नां कामयेत् स्त्रियम्। पुत्रार्थी पुरुषस्त्यक्त्वा पौष्णमूलाहिपित्र्यभमिति” “त्यक्त्वा पर्वतिथिं मूलभश्लेषां पैत्रभन्त्विति” काश्यपोक्तेः। तिथ्यादयः कश्यपेन कालविधाने उक्ताः। “षष्ठ्यष्टमा पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्र हित्वा। शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशाङ्कार्यसितेन्दुजानामिति” अत्र वाक्ये चन्द्रबुधगुरुशुक्र- वारा निषेककार्ये शुभा उक्ताः। अर्थादन्ये सूर्यभौ यशनिवारा निषिद्धाः। उक्तञ्च कालनिर्णये “रिक्ता पर्वाष्टमी षष्ठी दिवा जन्मत्रयं तथा। पापग्रहाणां वाराश्च त्याज्याश्चैवानृतौ गतिरिति”। अतएव वृहस्पतिसंहितायाम् “शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणीत्युक्तं “सोमज्ञगुरुशुक्राणां वारा वर्गोदयाः शुभाः। तेषाञ्च दृष्टयश्चैव नेतरेषां कदाचनेति” अत्र केचिन्निषेके पुंवारा उत्तमाः स्त्रीवारौ मध्यमौ नपुंसकवारौ निषिद्धौ उक्तञ्च व्यासेन “पुरुषग्रहवाराः स्युः शुभाः सीमन्तकर्मणि। मध्यौ स्त्रीग्रहवारौ तु वर्ज्जयेत्तु नपुंसकाविति” अत्र सीमन्तग्रहणमुपलक्षणं गर्भाधानस्येत्याहुः। युक्तञ्चैतत् पुंस्त्रीवारेषु स्त्री गमने पुरुषाः स्त्रियो वोत्पद्यन्ते इति तावदिष्टम्। नपुंसकवारगमने तु नपुंसकस्योत्पत्तिः स्यान्न हि सा कस्यचिदिष्टा भवेदिति नपुंसकबुधवारनिषेध एवोचितः। शनिनिषेधस्तूभयवादिसिद्ध एव दाक्षिणात्यशिष्टसमाचाराच्चातो बुधशन्योरेव निषेधोऽन्येषां ग्रहणमिनि प्रतीमः। प्राच्य स्तु नैतत्सहन्ते तन्मते तु सूर्यभौमशनीनामेव निषेधः। नारदः “रजोदर्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम्। ततः शुद्धाः क्रिया स्वेताः सर्ववर्णेष्वयं विधिः”। अत्रार्थवादमाह भरद्वाजः “प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी। तृतीये रजकी प्रोक्ता चतुर्थेऽहनिं शुध्यति”। धर्मशास्त्रेऽपि “भर्त्तुः स्पृश्या चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला। पञ्चमऽहनि योग्या स्याद्देवे पित्र्ये च कर्मणि”। तस्मादेतावतो दोषांस्त्यक्त्वा स्त्रागमनं हितमिति। ऋतुकालावधिमाह याज्ञवल्क्यः “षोडशर्त्तुर्निशाः स्त्रीणां तस्मिन् युग्मासु सविशेत्। युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु” अतः षोडशदिनमध्ये गर्भाघानं विधेयम् तत्रैव गर्भसम्भवात्तत्र वाराः समीचीनाः प्रागक्ता एवाधुना नक्षत्राण्याह गर्भाधानमिति। उत्तरात्रयमृगहस्तानुराधाराहिणीस्वातिश्रवणाधणिष्ठाशततारकासु गर्भाधानं सत् शुभदम उक्तञ्च वार्हस्पत्यसंहितायाम “हरिहस्तानुराधाश्च स्वातीवारुणवासवम् उत्तरात्रितयं सौम्यं रोहिणी च शुभाः स्मृताः। आधाने मूलसार्पान्त्यमशुभं सममन्यभमिति” एवं विहितनक्षत्रे सात चन्द्रवले गर्भाधानार्थं सकृदव पत्नीगमनंकार्यमित्याह “याज्ञवल्क्यः। “एवं गच्छेत् स्त्रिय क्षामां मवां मूलं च वर्जयेत्। सुस्थिरेन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान्” चकाराद्रेवतीम्। भीमपराक्रमोऽपि “पित्र्यं पौष्णं नैरृतं चापि धिष्ण्यं त्यक्त्वा नारीं सुप्रसन्नः प्रसन्नाम्। पुष्टः क्षामां पुत्रका मोऽभिगच्छन् सल्लक्षण्यं पुत्रमाप्नोति पुण्यमिति”। तच्च गमनं मन्त्रपूर्वकम्। तदुक्तं विष्णुपुराणे “ऋतावुषगमः शस्तः स्वपत्न्यां मन्त्रतो द्विजेत्युक्तेः” इदन्त्रैवर्णिकविषयं प्रतीयते। मन्त्रास्तु “विष्णुर्योनिं कल्पयत्वित्येव मादयः। “एतैर्मन्त्रैर्दक्षिणेन पाणिना पत्न्यमभिमृशेदिति गोभिलोक्तेः” पी० धा०। “केन्द्रत्रिकोणेषु शुभैश्च पापैस्त्र्यायारिगैः पुंग्रहदृष्टलग्ने। ओजांशगेऽब्जेऽपि च युग्मरात्रौ चित्रादितीज्यातिइषु मध्यमं स्यात्” मु० चि०। अथ गर्भाधाने लग्नबलमिन्द्र वज्रयाह। केन्द्रेति अथ सामान्यतः शुभलग्नानि वसिष्ठोक्तानि वृषमिथुनकर्कसिंहकन्यातुलाधरचापझषाः शुभा भवन्ति। यदि शुभफलशालिनोऽनुकूला निधनविशुद्धियुता निषेककाले” इति। तत्र केन्द्रत्रिकोणेषु लग्नचतुर्थसप्तमदशमपञ्चमनवमस्थानेषु स्थितैः शुभग्रहैस्तथा त्र्ययारिगैस्तृतीयैकादशषष्ठस्थानस्थितैः पापग्रहैरुपलक्षिते पुंग्रहैः सूर्यभौमगुरुभिर्दृष्टे लग्ने तथौजांशगेन्दौ विषमराशिर्मेषमिथुनादिरंशोऽजादिरेव तत्र स्थिते चन्द्रे सति युग्मरात्रौ समरात्रौ गर्भाधानं कार्यम् यदाह जगन्मोहने वसिष्ठः “केन्द्रत्रिकोणेषु शुभा श्रितेषु लग्ने शशाङ्के च शुभैः समेते। पापैस्त्रिलाभारिगतैश्च यायात् पुंजन्मयागेषु च संप्रयोगम्” नारदः “आजराश्यंशगे चन्द्रे लग्ने पुंग्रहर्वा क्षत। शुचिर्भूत्वा युग्मतिथौ ह्यनग्नां कामयेत् स्त्रियमिति। पुंग्रहादीनाह नारदः “पुंग्रहाः सूर्यजीवाराः स्त्रीग्रहौ शशि भार्गवौ। नपुंसकौ सौम्यसौरी शिरोमात्रं विधुन्तुदः” इति। अत्र पुंनपुंसकादियोगावशिष्ठेनोक्ताः “आधानलग्ने विषमांशराशौ जीवेन्दुजाभ्यां युतवीक्षिते वा। नान्येः सुपुत्रस्त्वथ पापखेटैः पापी च मिश्रैर्बलिभिश्च मिश्रः। ओजक्षांशे लग्नगे वीर्युयुक्ते जीवेन्घर्कैरोजराश्यंशसंस्थैः। पुंजन्म स्याद्व्यत्यये कन्यका स्यान्मिश्रैः षण्ढोद्व्यङ्गगैर्द्वित्रिजन्म। षण्ढो नपुंसकः “ओजांशकक्षाद्विषमर्क्षसंस्थः पुंजन्मकारी रविसूनुरेकः। विचार्य वीर्यं पुरुषग्रहाणां वाच्योऽत्र पुत्रस्त्वथ पुत्रि का वा। पापैश्च शेषं सुविचिन्त्य वाच्यमिति”। एवस- न्येऽपि पुंजन्मादियोगा जातके द्रष्टव्याः। एषु यस्मिन् कस्मिंश्चित् पुंजन्मयोगे पुत्रार्थी युग्मर्तौ पत्नीं गच्छेत्। कन्याजन्मयोगे तु कन्यार्थी विषमरात्रौ पत्नीं गच्छेत् इति फलितोऽर्थः। अथ गर्भाधाने विहितनक्षत्राप्राप्तौ मध्यमनक्षत्राण्याह। चित्रेति चित्रापुनर्वसुपुष्याश्विनीषु तद्गर्भाधानं मध्यमं मध्यमफलदमित्यर्थः। यदाह वृहस्पतिः “चित्रादित्ये तथा तिष्यतुरगौ चेति मध्यमाः। शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणीति” अत्र केचित् दैवान्मानुषाद्वा प्रतिबन्धाद्भर्त्तुरसन्निधाने अनेकेषु ऋतुषु व्यतीतेषु यदि गर्भाधानाख्यः संस्कारो नाभूत्तदानीं दैवान्मध्ये भर्त्ता सुमागतश्चेत्तदा दक्षिणायने शुक्रास्तगुर्वस्तन्यूनाधिमासादिमहादोषरद्भावस्तदा गर्भाधानं नैव भवतीत्याहुः अतीतकालत्वात् यथा कालातीतेषु जातकर्म नामकर्मान्नप्राशनचौलादिसंस्काराः पूर्वोक्तदोषसद्भावे नैव भवन्ति। उक्तञ्च वसिष्ठेन “अतीतकालान्यखिलानि यानि कार्याणि सौम्यायनुगे दिनेशे। गुरौ भृगौ वाप्यथदृश्यमाने तदुक्तपञ्चाङ्गदिनेऽप्यखण्डे” इति सत्यम्। सत्यपि नॄणामतिक्रमे निमित्तानन्तरमेव नैमित्तिकमिति” न्यायेन “षोडशर्तुनिशाः स्त्रीणां तस्मित् युग्माशु संविशेत्” इति याज्ञवल्क्यवचसा षोडशदिनातिक्रमे ऋत्वन्तरमपेक्ष्य प्रागुक्तदिशा कालशुद्धिं विचार्य कार्यलेव। तदा बहुकालव्यापिनी कालशद्धिरुपेक्ष्यैव यतो विज्ञानेश्वरेण “तस्मिन् युग्मासु संविशेदिति” व्याख्यावसरे किमयं विधिर्नियमः परिसंख्या वेति त्रयः पक्षा उप्रन्यस्तास्तत्र स्त्रीगमने रागत एव प्रवृत्तेर्नियम एवायमिति सिद्धान्तितमतो गच्छेदेवेति नियमस्मरणात् ऋतावुपेयात् सर्वत्र वा प्रतिषेधवर्जमिति” गौतमस्मररणात् ऋत्वगमने प्रत्यवायोऽपि स्मर्यते “ऋतुस्नातां तु यो भार्य्यां सन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां युज्यते नात्र शंशयः” इति शातातपोक्तेः।
“अथ गर्भाधानं विघाय पुंसानिद्रासमये किं कार्यमित्याह विष्णुः। “गिद्रासमयमासाद्य ताम्बूलं वदनात् त्यजेत्। पर्य्यङ्कात् प्रमदां मालां पुण्ड्रपुष्पाणि मस्तकात्” इति”। पी० धा०। निषेकोत्तरं कार्य्यमाह आ० त०। “अत्र सम्यगाधा नहेतुतया उत्तानकरचरणामेव कुर्व्वीत नातिर्य्यगाहितकरचरणां स्त्रियं ऋत्वभिगमनानन्तरं दक्षिणपार्श्वेन स्वापयेत्। पुरुषयितें तु गर्भानुत्पत्तिरिति विशेषः। गर्भाधानञ्च गर्गस्थ- बालस्य तदाधारपात्रस्य च सीमन्तोन्नयनवत् संस्कारः “सीमन्तोन्नयनसंस्कारो गार्भपात्रसंस्कारः” इति श्रुतेः गर्भपात्रयोरयं संस्कार इति गार्भपात्रः गर्भस्य उदरस्थस्य, पात्रस्य तदाधारस्त्रियश्च। सीमन्तोनयनपदमुपलक्षणार्थम्। यदि दैवात् गर्भाधानादिसंस्कारायथाकाले न कृतास्तदा प्रसवकालोत्तरं जातकर्माद्युत्तरसंस्कारकाले “अङ्के बालकं निधाय संस्कारः कार्य्यः यथाह राजमार्त्तण्डे “यं नार्य्यकृतसीमन्ता सूयते च कथञ्चन। अङ्के निधाय तं बालं पुनः संस्कारमर्हति”। तेन संस्कारेण च तदाधारे उत्पन्नानामपि संस्कारसिद्धिः “सकृच्च कृतसंस्काराः सीमन्ते न कुलस्त्रियः। यं यं गर्भं प्रसूयन्ते स गर्भः संस्कृतो भवेत्” राजमार्त्तण्डात्। लग्नभेदेन गर्भाधाने शुभाशुभं वृहज्जातके ४ अ० निषेकाध्याये विस्तरेणोक्तं जातकपद्धतौ तु किञ्चित् संक्षिप्योक्तं यथा “आधानाङ्गात् सप्तमभे यादृशं कुरुते रतम्। करोति तादृक् पुरुषसमुत्पत्तिं बलान्विताम्। रवीन्दुशुक्रभौमाश्चेत् स्वांशे वाथ गुरौ तनौ। नवमे पञ्चमे वा स्यादपत्यं पुंस्त्वशालि तत्। वलिष्ठौ स्वगृहांशेऽर्कशुक्रावुपचयर्क्षगौ। पुंसां, स्त्रीणां कुजेन्दू चेत् तदा गर्भस्य सम्भवः। भौमार्की सप्तमेऽर्कात् स्तो रुजे पुंसः, स्त्रिया विध्रोः। भौमाकिर्मध्ये सूर्येन्दू पुंस्त्रियोर्मृत्यवे क्रमात्। भौमार्क्यन्यतयेणार्कचन्द्रौ युक्तेक्षितौ क्रमात्। पुंस्त्रियोर्मृत्युदौ प्रोक्तौ प्राक् सूतेः प्राक्तनैर्बुधैः। लग्ने वेन्दौ पापमध्ये शुभदृष्टिविवर्जिते। सगर्भस्त्रीमृतिः स्याद्वा यथा वामनभाषितम्। दिवा सूर्यशुक्रौ, शनीन्दू च रात्रौ, ४ जले तातमातृग्रहौ व्यस्ततस्तौ। तयोः सोदरस्वसृसंज्ञौ क्रमात्तु तयोरोजयुग्मर्क्षगौ सौख्यहेतू। कललं कठिनं हस्ताद्यस्थित्वग्रोमचेतनाः। अशनोद्वेगसूतिश्च मासेष्वीशाः क्रमादमी। भृग्वारेज्यार्कचन्द्रार्किज्ञाङ्गेशाब्जदिवाकराः। मासेशे पीडिते गर्भरोगः पुष्टिश्च सद्बले। (प्रथममासे कललं शुक्रशोणितमिश्रणरूपं तत्र शुक्रोऽधिपः। द्वितीये काठिन्यं तदीशः कुजः। तृतीयमासे हस्ताद्युत्पत्तिः गुरुस्तदीशः। चतुर्थेऽस्त्युत्पत्तिः सूर्य्यस्तदीशः। पञ्चममासे चर्म्मोत्पत्तिश्चन्द्रोऽधिपः। षष्ठे रोमोत्पत्तिः शनिरधीशः। सप्तमे चैतन्यं बुघोऽधिपः। अष्टमे मात्राभुक्तान्नादे र्नाडीद्वारेणाशनम्, तत्र गर्भाधानलग्नेशः स्वामी। नवमे उद्वेगः चन्द्रोऽधीशः। दशमे प्रसवः, सूर्य्यस्तदीशः आधानकाले उक्तग्रहे पीडिते तत्तुल्यमासे गर्भपातादि वलयुक्ते तत्तन्मासे पुष्टिः)। विषमर्क्षनवांशेषु गुरुचन्द्राङ्गभानुषु। पुंजन्म समभांशेषु, स्त्रियस्तेघु समादिशेत्। सूर्य्येज्यौ विषमेऽंशे चेत् सबलौ पुंजनिप्रदौ। स्त्रियाः समांशे शुक्रेन्दू, कुजाद्द्व्यङ्गांशके यमम्। भानुमन्दज्ञदृष्टाच्चेत् पुंस्त्रीयुग्मं नवांशकात्। विषमर्क्षे शनिर्लग्नाल्लग्नं त्यक्त्वा नृजन्मदः। इन्दुर्वृषे भसन्धिस्थैरशुभैर्मूकजन्मदः। व्ययेऽर्केन्दू दक्षवामनेत्रनाशकरौ मतौ। शनिभांशे तनौ, मन्दे सप्तमेऽब्दत्रयात् शवः। स्वांशे कर्कतनौ चन्द्रे द्यूने द्वादशवर्षतः। यत्संख्ये द्वादशांशे स्याच्चन्द्रः प्रश्नेततःपरम्। तत्तुल्यराशिसहिते चन्द्रे सूतिं वदेत् सुधीः” आधानाध्यायः।
गर्भावक्रान्ति = स्त्री अव + क्रम–भावे क्तिन् ६ त०। शारीरजीवस्य गर्भाशयप्रवेशनरूपे गर्भावतारे तच्च सुश्रुते शारीरस्थाने ३ अ० “अथातो गर्भावक्रान्ति शारीरं व्याख्यास्यामः” इत्युपक्रम्य दर्शितं तच्च वाक्यं कायशब्दे १९२१ पृ० दर्शितम्।
गर्भाशय = पु० आशेतेऽत्र आ + शी–आधारे अच् ६ त०। गर्भाधारस्थाने गर्भशय्यायाम् “पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः। एको गर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे” इति भावप्र० तस्य पित्तपक्वाशययोर्मध्यस्थत्वमुक्तम् “स्त्रीणां गर्भाशयोऽष्टमः”। “ततोऽग्निसोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते” “दैवसंयोगादव्ययोऽचिन्त्यः (आत्मा) भूतात्मना सहान्वक्षं सत्वरजस्तमोभिर्देवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्य्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते” इति च सुश्रुतः। तदाधारावरकत्वात् २ जरायौ अमरः।
गर्भाष्टम = पु० गर्भात् गर्भकालात् अष्टमः। गर्भावधिके अष्टमे मासवर्षादौ। “गर्भाष्टमो देवमासः” त्रिका०। “गर्भाष्टमेऽव्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः” मनुः “उत्तरत्र गर्भादिति निर्देशेन गर्भाष्टमे इत्यत्रापि अवध्यर्थकपञ्चम्या “सह सुपेति” पा० समा०।
गर्भास्पन्दन = न० गर्भस्यास्पन्दनम्। “गर्भक्षये गर्भास्पन्दनमुन्नतकुक्षिता च” सुश्रुतोक्ते गर्भक्षयचिह्ने। “गर्भास्पन्दनमावीनां (गर्भिणीनां) प्रणाशः श्यावपाण्डौता” सुश्रु०।
गर्भास्राव = पु० गर्भस्यास्रावः। गर्भस्रावे तच्छन्दे उदा०।
गर्भिणी = स्त्री गर्भोऽस्त्यस्याः इनि ङीप्। गर्गवत्यां सगमोयां स्त्रियाम् अमरः। गर्भिणीलिङ्गं गर्भवतीशब्दे उक्तम्। गर्भिणीतत्पतिकृत्याकृत्यादि नि० सि० उक्तं यथा
“गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम्। व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत्। शोकं रक्तविविमोक्षं च साध्वसं कुक्कुटाशनम्। व्यवायं च दिवास्वप्नं रात्रौ जागरणं त्थजेत्” कश्य०। मदनरत्ने स्कान्दे “हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्ज्वलं तथा। कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम्। केशसस्कारकबरोकरकर्णविभूषणम्। भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्गर्भिणी न हि” वृहस्पतिः “चतुर्थे मासि षष्ठे वाप्यष्टमे गर्भिणी यदा। यात्रा तया विवर्ज्या स्यादाषाढे तु विशेषतः” याज्ञवल्क्यः “दौहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्। वैरूप्यं मरणं वापि तस्मात् कार्य्यं प्रियं स्त्रियाः” दौहदं गर्भिणीप्रियम्। तत्रैवाश्वलायनः “वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणी पतिः। श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित्। श्राद्धं तद्भोजनमिति। प्रयोगपारिजातः। कालविधाने मूहूर्त्तदीपिकायाञ्च “क्षौरं शवानुगमनं नखकृन्तनं च युद्धादि वास्तुकरणं त्वतिदूरयानम्। उद्वाहमौपनयनं जलधेश्च गाहमायुःक्षयार्थमिति गर्भिणिकापतीनाम्” रत्नसंग्रहे गालवः “दहनं वपनञ्चैव चौलं वै गिरिरोहणम्। नाव आरोहणं चैव वर्जयेद्गर्भिणीपतिः” अन्यत्रापि “प्रव्यक्तगर्भापतिरब्धियानं मृतस्य बाहं क्षुरकर्मसङ्गम्। तस्यानुयत्नेन गयादितीर्थं यागादिकं वास्तुविधिं न कुर्य्यात्”। प्रव्यक्तगर्भा वनिता भवेन्मासत्रयात् परम्। (मासत्रयादूर्द्धम्) षण्मासात् परतः सूतिर्नवमे रिष्टवासिनी” अथ सूतिकागृहप्रवेशः “रोहिण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि। पुनर्वसौ पुष्यहस्तधनिष्ठात्र्युत्तरासु च। मैत्रे त्वाष्ट्रे तथाश्विन्यां सूतिकागारवेशनम्” एतच्च सम्भवे “प्रसूतिसमये काले सद्य एव प्रवेशयेदिति” वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्य्यम् “वारुण्यां भोजनगृहं नैरृत्यामप्यरिष्टकमिति” वसिष्ठोक्तेः विष्णुधर्मे “दशाहं सूतिकागारमायुधैश्च विशेषतः। वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः। सुयत्नेन तथा वारिवर्णक्वैश्चित्रितेन चेति”।
“गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिक (करम्) तरेः” मनुना द्विमासोर्द्धं तस्या नौशुल्काग्रहणमुक्तम्। अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा “सुवासिनीः कुमारांश्च रोगिणोगर्भिणीस्तथा। अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयत्”। “बालं सुवासिनीवृद्धगर्भिण्यातुरकांस्तथा। “संभोज्यातिथिभृत्यांश्च दम्पत्यो शेषभोजनम्” याज्ञ०। जात्या सह क्वर्म्म० अस्य परनिपातः। गोगर्भिणी।
गर्भिणीदोहद = न० ६ त०। गर्भिण्याकाङ्क्षिते द्रव्यभेदे तस्य दानावश्यकता सुश्रुते उक्ता तच्च चतुर्थे याभिप्रायमिन्द्रियार्थेषु करोतीत्यादि वाक्यं २११९ पृ० उक्तं “इन्द्रिवार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी” सुश्रुतः।
गर्भिण्यवेक्षण = न० ६ त०। कुमारभृत्यायां गर्भिणीपरिचर्य्यायाम् त्रिका०।
गर्भित = त्रि० गर्भो जातोऽस्य तार० इतच्। १ जातगर्भे २ काव्यदोषभेदे न०। दोषशब्दे विवृतिः।
ग(र्भे)र्भाङ्क = पु० गर्भे अङ्कमध्येऽङ्कः वा अलुक्स०। “अङ्कोदरप्रविष्टो यो रङ्गद्वारा मुखादिमान्। अङ्कोऽपरः स गर्भे(र्भा)ङ्कः सवीजः फलवानपि” सा० द० उक्ते नाटकाङ्गाङ्कमध्यप्रविष्टाङ्के। यथा बालरामायणे सीतास्वयंवरनामा ग(र्भे)र्भाङ्कः।
गर्भेतृप्त = त्रि० गर्भे शिशौ अन्ने वा तृप्तः अलुक् स०। १ शिशौ २ अन्ने च तृप्ते। युक्तारोह्याः आद्युदात्तताऽस्य।
गर्भोपघात = पु० गर्भस्य उपघातः। १ जातगर्भस्य नाशे मेघस्य २ जलोत्पादनशक्तिनाशे च तल्लिङ्गानि “गर्भोपघातलिङ्गन्युल्काशनिपाशुपातदिग्दाहाः” इत्यादि वृ० स० २१ अ० उक्तं तच्च गर्भ शब्दे दर्शितम्।
गर्भोपघात्रिनी = स्त्री गर्भमुपहन्ति उप + हन + णिनि। गर्भघातिन्यां स्त्रीगव्यादौ अमरः।
गर्भोपनिषद् = स्त्री गर्भस्वरूपावेदिका उपनिषद्। उपनिषदन्तर्गते गर्भस्वरूपाद्यावेदके उपनिषद्भेदे उपनिषच्छब्दे विवृतिः। तत्स्वरूपादि ऐतरेयोपनिषद्यपि संक्षेपेणोक्तं तच्च कायशब्दे १९२५ पृ० “पुरुषे हत्वा आदितो गर्भः इत्याद्युक्तम्।
गर्मुच्छद = पु० गर्म्मुतो नडस्य छद इव छदोऽस्य। (मेडुया) धान्यभेदे रत्नमाला।
गर्मुटिका = स्त्री गर्मुत इव उटं पर्णमस्व शक० टेः पररूपैकादेशः टापि अत इत्त्वम्। (मेडुया) इति ख्याते धान्यभेदे रत्नमाला।
गर्म्मुत् = स्त्री गॄ–बा० उति मुट् चं। (मेडुया) १ धान्यभेदे अमरः। २ नडे तृणभेद ३ स्वर्णे च मेदि०।
गर्व = महे भ्वा० पर० सक० सेट्। गर्वति अगर्वीत्। जगर्व। गर्वितः। गर्वः। “खर्वे! गर्वसमूहपूरिततनो!” तारास्तवः।
गर्व = पु० गर्व–घञ्। अभिमाने, “ऐश्वर्य्यरूपतारुण्यकुलविद्याबलैरपि। इष्टलाभादिनान्येषामवज्ञा गर्वः ईरितः” इन्युक्ते २ऽवज्ञाभेदे “गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः। “अवज्ञासविलासाङ्गदर्शनाऽविनयादिकृत्” सा० द० उक्ते ३ व्यभिचारिभावभेदे। अमरे अहङ्कारपर्य्यायतोक्तिः ईषद्भेदमनादृत्यैव।
गर्वाट = पु० गर्वेणाटति अट–अच् ३ त०। द्वारपाले त्रिका०।
गर्वित = त्रि० गर्व–कर्त्तरि क्त गर्वो जातोऽस्य तार० इतच् वा। १ मत्ते २ जातगर्व “यूथं तदग्रसरगर्वि(र्बि)तकृष्णसारम्” “प्रेमगर्वितविपक्षमत्सरात्” रघुः।
गर्ह = निन्दायां वा चुरा० पक्षे भ्वा० आत्म० सक० सेट्। गर्हयते गर्हते अजगर्हत अगर्हिष्ट। गर्हयाञ्चक्रे जगर्हेःगर्हहणा “न गर्हयेयुरस्मान् वै पाण्डवार्थाय कर्हिचित्” भा० आ० ५७३० श्लो०। “गर्हयन्तोऽस्य साहसम्” भा० व० १८१ अ० पदव्यत्यय आर्षः। उपसर्गपूर्वकस्तु तद्द्योत्यार्थयुक्ते निन्दने। “विगर्हितं धर्म्मधनैर्निवर्हणम्” नैष०।
गर्ह = कुत्सायां भ्वा० आ० सक० सेट्। गर्हते अगर्हिष्ट जगर्ह गर्हणम् गर्हितः गर्हा। “स एव धर्म्मो राज्ञां। तु तद्वितं किन्नु गर्हणम्” भा० आ० ११८ अ०। “केचिद्भीष्मं जगर्हिर” भा० स० ४३ अ०। “न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम्” र० २०६ अ०। “विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम्” २०८ अ०। आर्षः पदव्य ययः। “गर्हितान्नस्य जग्विः” मनुः।
गर्हा = स्त्री गर्ह–अ। १ निन्दायाम् “येन येनाचरेद्धर्मं तस्मित् गर्हा न विद्यते” भा० अ० ६०५६ श्लो०। चरा० गर्हभावे युच्। गर्हणाऽप्यत्र स्त्री।
गर्ह्य = त्रि० गर्ह–ण्यत्। १ निन्द्ये २ अधमे अमरः।
गर्ह्यवादिन् = त्रि० गर्ह्यं वदति वद–णिनि। कुत्सितवादिनि कद्वदे अमरः स्त्रियां ङीप्।
गल = भक्षणे सक० स्राव (गला) अक० भ्वा० पर० सेट्। गलति अगालीत्। “निर्गलिताम्बु गर्भम्” रघुः। “गलितं त्वराविरहितासनयाः” माघः “प्राक्शोकनिर्गलितनेत्रपयःप्रवाहान्” नैष०। “विपक्षे गलितादरौ” “पर्य्यागलदच्छविन्दुः” “मुषलाद्यगलत्ततः” भट्टिः। “प्रच्छदात्तयलितास्रविन्दुभिः”। “विगाह्यमानो गलिताङरागैः” रघुः।
गल = क्षारणे (गालान) चुरा० आत्म० सक० सेट्। गालया अजीगलत गालयाञ्चक्रे। गालः। गालितः। “पङ्क गोमूत्रगलितम्” चक्रदत्तः।
गल = पु० गल–भक्षे बा० करणे अच्। १ कण्ठे (गला) अम कर्त्तरि अच्। २ सर्ज्जरसे (धुना) ३ वाद्यभेदे, ४ गडकमत्स्ये च शब्दरत्ना०। “गले गृहीत्वा क्षिप्तोऽस्मि” भा० आनु० १५४ अ०। अस्य स्वाङ्गत्वेऽपि क्रोडा० न ङीष्। छिन्नगला। बह्वा० स्त्रियां ङीष्। गली इत्यपि तत्रैव स्त्री।
गलक = पु० गल–बा० वुन्। (गडै) १ मत्स्ये शब्दार्थचि०।
गलकम्बल = पु० गले कम्बल इव। सास्नायां गवां गलस्थिते रोमंशे मांसपिण्डे अमरः।
गलगण्ड = पु० ७ त० (गरगण्ड)। रोगभेदे। तल्लक्षणादि यथा
“निवद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले। महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत्। निबद्धो दृढः अचलो वा। मुष्कवत् अण्डवत्। गले इति हनुमन्ययोरुपलक्षणम्। तथा च भोजः “महान्तं शोथमल्पं वा हनुमन्यागलाश्रयम्। मुष्कवल्लम्बमानं तु गलगण्ड विनिर्दिशेत्” संप्राप्तिमाह वातः कफश्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः। कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः। क्रमशः शनैः शनैः स्वलिङ्गैः वातकफमेदालक्षणैः। तत्र वातिकमाह। तोदान्वितः कृष्णासरावनद्धः श्यावारुणो वा पवनात्मकस्तु। पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित्। वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः। चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः। श्लैष्मिकमाह स्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि कफात्मकस्तु। चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यते मन्दरुजः कदाचित्। माधुर्य्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगले प्रलेपः। कदाचित् प्रपच्यते वा पाकोऽपि चिराद्भवति। प्रलेषः श्लेष्मणा। मेदोज माह स्निग्धो मृदुः पाण्डुरनिष्टगन्धे मेदोऽन्धितः कण्डुयुतोऽरुजश्च प्रलम्बतेऽलाबुवदल्पमूलो देहानु रूपक्षयवृद्धियुक्तः। स्निग्धास्यता तस्य भवेच्च जन्तो र्गलेन शब्दं कुरुते च नित्यम्। देहक्षये काश्ये क्षयं, देहवृद्धौ वृद्धिं यातीत्वर्थः। असाध्यमाह “कृच्छ्राच्छ्र्वसन्तं सृदुसर्वगात्रं संवत्सरातीतमरोचकात्तेम्। क्षीणञ्च वैद्यो गलगण्डयुक्ते भिन्नस्वरं नैव नर चिकित्सेत्” भावप्र०। “यवमुद्गषटोलानि कटुरूक्षञ्च भोजनम्। छर्द्दिं सरक्तमोर्क्षा च गलगण्डे प्रयोजयेत्” चक्रद०।
गलग्रह = पु० “आरम्भानन्तरं यत्र प्रत्यारम्भो न दृश्यते। गर्गादिमुनयः सर्वे तमेबाहुर्गलग्रहम्” १ नारदोक्ते आरम्भदिनात् परं स्मृत्युक्तानध्ययदिनपातेन प्रत्यारम्भाभाववति, पदार्थे, “कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम्। त्रयोदशीचतुष्कञ्च अष्टावेते गलग्रहाः” राजमार्तण्डोक्ते २ तिथ्यष्टके च। ३ व्यञ्जनभेदे ४ मत्स्यकण्टके शब्दार्थचि०।
गलत्कुष्ठ = न० कर्म्म०। स्रवद्रुधिरादौ कुष्ठभेदे। भ्रातभार्य्यामिगमनात् गलत्कुष्ठं प्रजायते,” शातातपेन तस्य म्रातृभार्य्यागमनकर्मविपाकतोक्ता।
गलन = न० गल + भावे ल्युट्। १ क्षरणे (गला) “गलदा धमनयो भवन्ति गलनमासु धीयते” निरु० ६। २४। २ स्वयं पतने च कर्त्तरि ल्यु। ३ स्राविणि त्रि० “गलनम्लानफलानि च दन्तस्य समानि भङ्गेन” वृह० ९४ अ०।
गलन्तिका = स्त्री गल–शतृ ङीप् अल्पार्थे कन्। स्वल्पवारिधारायुतायां (झारा) कर्कर्य्याम् “प्रपा कार्या च वेशाखे देवे देया गलन्तिका” काशी० ५ अ०।
गलमेखला = स्त्री गलस्य मेखलेव। कण्ठाभरणभेदे हारा०।
गलवार्त्त = त्रि० गले गलव्यापारे यथेष्टभोजनादौ वार्त्तः निरामयः। यथष्टभोजनयोग्ये निरामये। “दृश्यन्तेचैव तीर्थेषु गलवार्त्तास्तपस्विनः” पञ्चतन्त्रम्।
गलविद्रधि = पु० “सर्वं गलं व्याप्य समुत्थितोयः शोफोरुजोयत्र वसति सर्वाः। स सर्वदोषो गलविद्रधिस्तु” सुश्रुतोक्ते कण्ठगते रोगभेदे “अमर्मस्थं सुपक्वञ्च भेदयेद्गलविद्रधिम्” सुश्रु०।
गलव्रत = स्त्री गरो गरणं सर्पभक्षणं व्रतमस्य रस्य लः। मयूरे त्रिका० स्त्रियां जातित्वात् ङीष्।
गलशुण्डिका = स्त्री अल्पा शुण्डा कन् शुण्डिका गले शुण्डिकेव। (आलजिव)। उपजिह्वायाम् हेमच०। “तालूदरं वस्तिशीर्षं चिवुके गलशुण्डिके” याज्ञ०। तालुगते कण्ठशुण्डीख्याते २ रोगभेदे कण्ठशुण्डीशब्दे १६६५ पृ० लक्षणाद्युक्तम्। “दालुगतास्तु गलशुण्डिकेत्यादि” सुश्रु०। “शल्यं जतुर्माणर्माससंघातो गलशुण्डिका सुश्रु० अधिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिका” इत्युपक्रमे ग- ण्डमाला प्रभृतयोमांसदोषजा” सुश्रुतेन तस्याः मांसदोषजत्वमुक्तम्।
गलस्तन = पु० गले स्तन इव। छागगलस्थे स्त्वनाकारे मांसपिण्डभेदे। स च दुग्धक्षरणहीनत्वात् निष्फलः यथोक्तं दृष्टान्तविधया वसिष्ठसिद्धान्ते “चलसंक्रमयुङ्मासे संक्रमोयः स संक्रमः। अजागलस्तन इव राशिसंक्रान्तिरुच्यते”।
गल(ले)स्तनी = स्त्री गले स्तनो यस्याः वा अलुक्स०। छाम्याम्। हेमच०।
गलहस्त = पु० गले न्यस्तो हस्तः। १ अपसारणार्थं गलेऽर्पिते हस्ते (गलाटिपि)। “देवलवचन गलहस्तः” दायभाग “अनिच्छन् गलहस्तेन ताभिर्निर्वासितस्तदा” कथास०। स जातोऽस्य तार० इतच्। गलहस्तित जातगलहस्ते। “अर्द्धेन्दुलीलेर्गलहस्तितेव” नैष०। तदाकृतित्वात् २ अर्द्धचन्द्राख्ये वाणभेदे पु०। ३ कृष्णत्रिवृतिस्त्री मेदि०।
गला = स्त्री गलति गल–अच्। लज्जालुलताभेदे, शब्दार्थचि
गलाङ्कुर = पु० “गलेऽनिलः पित्तकफौ च मूर्च्छतौ पुद्रष्य मांसं च तथैव शोणितम्। गलापसंरोधकरैस्तथाङ्कुरैर्निहन्त्यसून् व्याधिरयं तु रोहिणी” माधवकरोक्ते रोहिणीरूपकण्ठजातरोगाङ्गे अङ्कुराकारे पदार्थे। “गलेऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समन्ताच्च तथैव शोणितम्। प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति यान् साऽसुहरा तु रोहिणी” इति सुश्रुते रोहिणीरोगस्य गलजाताङ्कुरसर्जनकारित्वमुक्तम्।
गलानिल = पु० गलेऽनिलः प्राणवायुरस्य। (गल्ता चिङ्गिटि) मत्स्यभेदे। त्रिका०। गलाबिल इति पाठः।
गलि = पु० गडि–डस्य लः। (गडियागरु) सामर्थ्येऽपि भारावाहके १ वृषे हेमच०। गल इन्। २ लतायां स्त्री उज्ज्वल०।
गलित = त्रि० गल–क्त। १ पतिते स्रस्ते, च्युते, हस्तादितो भ्रष्टे अमरः। गलधातौ उदा० २ परिणते च। “गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्” रघुः।
गलितक = पु० गलित इव कायति कै–क। पतितवन्नाट्यभेदे नाट्यशब्दे विवृतिः। “गलितकः” विक्रमो० ५ अ०।
गलितकुष्ठ = न० कर्म्म०। गलत्कुष्ठे।
गलेगण्ड = पु० गलेगण्ड इव यस्य। पक्षिमेदे (हाडगिला) त्रिका०।
गलेचोपक = त्रि० गले चुप्यतेऽसौ चुप–नि० कर्म्मणि ण्वुल् अलुक्स०। कण्ठे कर्त्तनीये। गलेचोपकपाद हारकौ” मुग्ध०।
गलोड्य = न० गलेन लोड्यः पृषो० ललोपः। धान्यभेदे “शालिषष्टिकनलवञ्जुलतालीशशृङ्गाटकगलोड्यगौरीगिरिकशैवतपद्मकपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः” सुश्रु०।
गलोद्देश = पु० गलस्य उद्देशः समीपम्। गलसमीपस्थेऽवयवे निगाले अमरः।
गलोद्भव = पु० गले अश्वगलदेशे उद्भवति उद् + भू–अच्। अश्वगलजाते रोचमानाख्ये रोमावर्त्तभेदे त्रिका०।
गलौघ = पु० गले ओघ इव। “तस्यैव (गलविद्रधेः) तुल्यः खलु सर्वजस्य। शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता। कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ” सुश्रुतोक्ते कण्ठगतरोगभेदे।
गल्द = स्त्री गल–क्विप् गल + पृषो० वा तेन गला गलेन वा दीयते दा–कर्मणि घञर्थे क। १ वाचि निघ०। गलद इति पाठान्तरम्। गलितं गल् धीयते आसु धा–घञर्थे क पृषो० धस्य दः। धमनीभेदे “आ त्वा विशन्त्विन्दव आ गल्दा धमनीनाम्”। इमामृचमधिकृत्य गल्दा धमनयो भवन्ति गलनमासु धीयते” निरु० ६। २४।
गल्भ = धार्ष्ट्ये (प्रागल्भ्ये) भ्वा० आ० सक० सेट्। गल्भते अगल्भिष्ट जगल्भे। “या कथञ्चन सखीवचनेन प्रागभि प्रियतमं प्रजल्भे” माघः। गल्भ + च्व्यर्थे क्यङ् गल्भायते अगल्भायिष्ट।
गल्या = स्त्री गलानां कण्ठानां समूहः पाशा० यत्। १ कण्ठसमुदाये। गलो वृहत्काशस्तेषां २ समूहे शब्दार्थचि०।
गल्ल = पु० गल–ल तस्य नेत्त्वम्। (गाल) गण्डे। हेमच०।
गल्लक = पु० गलति क्विप् गल् तं लाति गृह्णाति ला–क ततः स्वार्थे क। १ चषके मद्यपानपात्रे हेमच०। २ इन्द्रनीलमणौ त्रिका०। पृषो० वमध्यता इत्येके।
गल्लचातुरी = स्त्री गल्ले चातुरी यस्य, संज्ञात्वात् न कप् न वा ह्रस्वः। (गालवालिश) ख्याते उपधानभेदे जटा०।
गल्वर्क = पु० गलति गल–उन् गलुरर्को दीप्तिस्स्य। सुसारे १ मणिभेदे त्रिका०। तत्र “गल्वर्कस्तु सुसारवत्। अश्मसारस्त्विन्द्रनीलः” इत्युक्तौ अश्मसारशब्दोत्तरं तुकारात गल्वर्कशब्दस्य न इन्द्रनोलार्थता शब्दकल्पद्रुमे तदर्थ तोक्तिः प्रामादिको। २ पद्मरागे मणौ च। “ससारगल्वर्क सुवर्णरूप्यैः” भा० द्रो० १६ अ०। “ससार इन्द्रनीलः (अश्मसारत्वात) गल्वर्कः पद्मरागः” (अर्कदीप्तिकत्वात्) नील० २ चषकपात्रेहेमच०। रक्तवर्णसुराश्लेषेण सूर्य्यकरतुल्यवर्णत्वात्तस्य तथात्वम्।
गल्ह = कुत्सने भ्वा० आ० सक० सेट्। गलहते अगल्हिष्ट जगल्हे।
गवची = स्त्री गां भूमिमञ्चति अन्च–क्विप् अवङादेशः ङीप् अचोंऽल्लोपः पृषो० न दीर्घः। इन्द्रवारुण्याम् (राखालशशा) रत्नमाला।
गवय = पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं याति या–क, नां तदवयवं सादृश्येनायते अय–अच् वा। गलकम्बलशून्ये गोसदृशे मृगभेदे अमरः “ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम्। सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम्। गवयादिपदानां तु शक्तिधीरुपमाफलम्” भाषा०। “दृष्टः कधञ्चिद् गवयैर्विविग्नैः” कुमा०। स्त्रियां योपधत्वेऽपि योपघप्रतिषेधे गवयहयादीनामप्रतिषेधात् ङीष्। अस्य म्भंसपाकविधिर्यथा। तैले संपाचिते तप्ते हिङ्गुसैन्धवसंयुतम्। मांसं गवयसम्भूतं सुस्विन्नं भूरिवारिणा”। भावप्र० तद्गुणा उक्ता यथा “गवयो मधुरो वृष्यः स्निग्धोष्णः कफपित्तलः। विदाही गुरुविष्टम्भी विपाके विरसः सदा”। २ वैवस्वतपुत्रे वानरभेदे। “पुत्रा वैवस्वतस्यासन् पञ्च कालान्तकोपमाः। गयो गवाक्षो गवयः शरभो गन्धमादनः” रामा० उत्त०।
गवराज = पु० गवेन शब्देन राजते राज–अच्। वृषे शब्दच०
गवल = पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं लाति लाक। महिषे हेमच०। “गवलाजवधस्तथा” ति० त०। “गवलालिकुलाहिनिभाविसृजन्ति पयः पयोवाहाः” वृ० सं० ३२ अ०। “बभौ तरद्भिर्गवलासितद्युतिः” माघः। स्त्रियां ङीष्।
गवल्गण = पु० सञ्जयपितरि सूतभेदे। “सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्” भा० आ० ६३ अ०।
गवाक्ष = पु० गवामक्षीव अक्षि–षच् समा० नित्यमवङ्, गाव सूर्य्यकरा जलानि वा अक्ष्णुवन्ति व्याप्नुवन्ति एतमनेन वा अक्ष–व्याप्तौ अकर्त्तरि घञ्। वातायने (जानेला) अमरः। “गवाक्षजालैरभिनिष्पतन्त्यः” भट्टिः “उत्सृष्टलीलाञ्चितमा गवाक्षात्” “विलोलनेत्रभ्रमरैर्गवाक्षाः” कुमा०। “कुवलयितगवाक्षा लोचनैरङ्गनानाम्” रघुः। २ वैवस्वतपुत्रे वानरभेदे रामा० गवयशब्दे दृश्यम्। गां भूमिमक्षति व्याप्नोति अण् गौरा० ङीष् सि० कौ० मुग्ध० षण् ईप्। ३ गोडुम्बायां (गोमुक्)। अमरः। ङीषन्तः ४ इन्द्रवारुण्याम् (राखालशशा) ५ शाखदि (शेओडा) राजनि०। ६ अपराजितायाम् रत्नमा०।
गवाची = स्त्री गवचीवत् किन्तु पूर्वाणो दीर्घः। (पा~काल) मत्स्यभेदे “गवाच्यजीर्णकारी च गुर्वी श्लेष्मप्रकोपिनी” राजब०
गवादन = न० गोभिरद्यते अद–कर्मणि ल्युट् अवङ्। १ घासे अमरः। इन्द्रवारुण्यां स्त्री ङीप् शब्दच०। ३ नीलापारिजातायाम् स्त्री राजनि०। आधारे ल्युट् ङीप्। २ गवां भक्षणाधारे पात्रे (डावा) स्त्री मेदि०।
गवादि = पु० पा० गणसूत्रोक्ते हिताद्यर्थे यत्पत्ययप्रकृतिरूपे शब्दगणे स च “गो हविस् अक्षर विष बर्हिस् अष्टका स्खदा युग मेधा स्रुच् (नाभि नभञ्च) (शुनः संप्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्)। (ऊधसोऽनङ् च) कूप खद दर स्वर असुर अध्वन् क्षर वेद वीज दीप्त। “गवादिम्यो यत्” पा० हितादौ गव्यम्
गवाधिका = स्त्री गवा किरणेनाधिकायति अधि–कै क। लाक्षायां त्रिका०। अत्र गवाषिकेति पाठः प्रामादिकः
गवानृत = न० गवि गोविषयेऽनृतम् अवङादेशः। गोविषये मिथ्याकथने। “गवानृते पञ्चशतं सहस्रं पुरुषानृते” स्मृतिः।
गवामयन = न० दशमाससाध्ये द्वादशमाससाध्ये च सत्रभेदे तद्विवृतिः ता० ब्रा० ४ अध्यायादौ। तत्र ताण्ड० ब्रा० ४ अ० भाष्ये तस्य द्वैविध्यमुक्त्वा तत्राहानि यथा कत्तव्यानि तथोक्त्वा तच्छब्दप्रवृत्तिनिमित्तज्ञानाय श्रुतिमवतारयन् व्याचख्यो यथा “स्तोमानां दशरात्रस्य प्रोक्ता विष्टुतयः क्रमात्। गायामयनिकानां च ता एवेत्यवगम्यते। शतानि त्रीणि षष्टिश्च विषुवांश्च चतुर्थके। प्रोक्तानि गव्यपत्रस्य स्तुत्याहानि क्रतादिह। तानि संगृह्य वक्ष्यत्ते बुद्धिव्युत्पत्तिसिद्धये।
द्विविधं गवामयनं दशमाससाध्यं द्वादशमाससाध्यञ्च तस्य द्वादशमासनिर्वत्यस्य प्रायणोयोऽतिरात्रः प्रथममहस्तवश्चतुर्विंशं उक्थ आरम्भणीयः ते उभे अहनी अनुष्ठाय ज्योतिर्गौरायुर्गौरायुर्ज्योतिरित्याभिप्लविकः षडहः स चतुर्यारमावर्त्तनीयः ततस्त्रिवृदादिसोमसुत्यकसाध्यः पृष्ठ्यः षडहः एवं पञ्चभिः षडहैरेको भासः पूर्य्यते एतस्यैवावर्त्तनेन पञ्च मासाः सम्पाद्याः तत्र षष्ठे मास्यादौ त्रयोऽभिप्लवाः षडहाः कार्य्याः ततः एकः पृष्ठ्यः षडहः ततोभिजिदेकमहः त्रयः स्वरसामान इत्येबमष्टाविंशत्यहानि आद्याभ्यां प्रायणीयचतुर्विंशाभ्यां षष्ठमासपूरणम्। इत्यं पूर्वपक्षे अशीत्युत्तरशतसंख्यान्यहानि सम्पन्नानि। ततो विषुवमेकमहः सोऽस्य सत्रस्य प्रधानभूतः। सप्तमे मास्यादो त्रयः स्वरसामानः प्रतिलोमाः कार्य्याः। ततो विश्वजिदावृत्तः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भस्त्रिवृदुत्तमः ततस्त्रयोऽभिप्लवाः षडहाः आवृत्ताः एवमष्टाविंशत्यहानिं स्युः अस्य च मासस्य महाव्रतातिरात्रौ च ततोभिधास्यमानौ पूरकौ स सप्तमो मासः। ततः पृष्ठ्यः षडहःपूर्वोक्तैश्चतुर्मिराभिप्लविकैः प्रतिलोमक्रमेणानुष्ठितैःरष्टमोमासः अनयावृत्त्या नवमदशमैकादशा अपि सम्पाद्याः द्वादशनासस्यादौ त्रयोभिप्लवाः, षडहः ततो गोरायुयी द्वे अहनी द्वादशाहस्य दशाहानि चेति त्रिंशाहानि स द्वादशो मासः ततो महाव्रतमुपान्त्यमहः तेन उदयनीयातिरात्रौ इत्यपि सप्तममासस्य पूरकाविति तदेतद्गवामयनसत्रं विधास्यन् तन्नामनिर्वचनप्रदर्शनाया दावाख्यायिकामाह” भा० “गवो वा एतत् सत्रमासत तासां दशसु मास्सु शृङ्गाण्यजायन्त ता अब्रुवन्नरात्स्मोत्तिष्ठामौपशा नोऽज्ञतेति ता उदतिष्ठन्” ता० ब्रा० ४। १। १। “पुरा खलु गावः एतत्संवत्सरसत्रमासत अन्वतिष्ठन् आसचोदना अपरचोदना च तत्र लिङ्गमिति मीमांसकाः। अत्रासरूपपूर्वतिथे चानुष्ठाने ये वर्त्तन्ते तदन्यैरनुष्ठितम् अत इदं गवामयनमित्याचक्षते तासां सत्रस्थितानां मध्ये कासाञ्चिद्गवां दशसु माःसु मासेषु पद्दन्मासीत्यादिना मासशब्दस्य मास्भावः तेष्वनुष्ठितेषु शृङ्गाण्यजायन्त ता जातशृङ्गा अब्रुवन् परस्परमुक्तवत्यः किमिति अरातस्म समृद्धा अभूम अतोवयमुत्तिष्ठामसत्रं ससापयाम अरात्स्मेति तदुक्तं तर्ह्याचष्टे। ओपशाः आ अभितः शिरः प्रदेशमुपेत्य शेरन्ते इत्योपशाः शृङ्गाणि अज्ञत जातान्यभूवन्निति सम्बन्धः अज्ञतेति जनी प्रादुर्भाः इत्यस्मात् लुङि बहुवचने “मन्त्रे झलीत्यादिना च्ले रङि गमहनजनेत्युपघालोपे रूपम्। एवसुक्त्वा ता गावः सत्रादुदतिष्ठन्। ताभिरेवं दशभिर्मासैः फलस्य प्राप्तेर्दशमासनिर्वर्त्यमपि गवामयनमस्तीत्युक्तं भवति” भा०। द्वादशमासनिर्वर्त्यमप्यस्तीति दर्शयति। “तासान्त्वेवाब्रुवन्नासामहा एवेमौ द्वादशौ मासौ सं संवत्सरमापयामेति तासान्द्वा दशसु माःसु शृङ्गाणि प्रावर्त्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता एतास्तूपरास्तस्मात्ताः सर्वान्धादश मासः प्रेरते सर्वं हि ता अन्नाद्यमाप्नुवन्” ता० ब्रा०। “तुशब्दो वैलक्षण्यद्योतनार्थः तासामेव गवां मध्ये काश्चिदब्रुवन् किमि त्युच्यते, यो द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेका दशद्वादशौ मासौ इमौ आसामहा एवं अनष्ठायैवं अनुष्ठाय प्रारब्धं सवत्सरसाध्यं समापयामेति व्यवहिताश्चति समित्यस्य व्यवहितेन सम्बन्धः। तासां गव जातानि शृङ्गाणि द्वादशसु माःषु मासषु पूर्णषु प्रावर्त्तन्त प्रापयन् दशभिर्मासैः शृङ्गप्राप्तिलक्षणफले सिद्धेऽपि पुनरश्रद्धया यतो मासद्वयमन्वतिष्ठन् अतो जातानामपि शृङ्गाणां पुनःपतनमित्यभिप्रायः तया चैतरेयकम् “अथ समापयिष्यामः संवत्सरमित्यासत तासामश्रद्धया शृङ्गाणि प्रावत्तन्तेति” एतास्तूपरा इति ताः पतितशृङ्गाः गावः सर्वर्त्तुभवमन्नाद्यमदनीयमन्न प्राप्नुवन् ता गाबस्तूपराः शृङ्गहीनाः दृश्यन्ते तस्मात्ताः सर्वान् द्वादश मासो मासान् प्रेरते प्रगच्छन्ति ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गा एव यथायथं गच्छन्ति शृङ्गिणो महिष्यादयस्तु कृशा भवन्ति तस्मादित्युक्तं कस्मादित्याह हि यस्मात्ता गावः सर्वमन्नाद्यमाप्नुवन् तस्मात्सर्वर्त्तुषु पुष्टाङ्गा भवन्ति तथा चैतरेयकम् “ऊर्द्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्तरमुत्तिष्ठन्तोति”। उक्तार्थं जानतः फलमाह” भा०। “सर्वमन्नाद्यमाप्नोति य एव वेद” ता० ब्रा० ३। स्पष्टोऽर्थः। तदेवं दशमासनिर्वर्त्यं द्वादशमासनिर्वर्त्यं चेति द्विविधं गवामयनं प्रतिपादितं तयोर्ज्योतिष्टोमदर्शपूर्णमासादिवदेतत्काम तत्कुर्य्यादिति कामफलसम्बन्धफलविशेषाश्रवणाद्विश्वजिन्न्यायेनान्यत्राम्नातस्य स्वर्गस्य कल्पनाया अन्याय्यत्वाद्रात्रिसत्रन्यायेनार्थवादिकस्य समृद्धिफलस्य वाक्यशेषे श्रुतत्वादश्रुताच्छ्रुतङ्गरीय इति समृद्धिकामा एतत्सत्रमासीरन्निति विधिरुन्नेतव्यः। तैत्तिरीयके समृद्धिफलकत्वं स्पष्टमाम्नातम् “य एवं विद्वान् संवत्सरमुपयान्त्र्याव्रुबन्त्येवेति” भा० ततः ४। १४ कण्डिकामारभ्य। ५ अ० ८ ख० ९ क० पर्य्यन्ते तद्विधानमुक्त्वा तत्र सत्रे दीक्षाकालविधानार्थमेकाष्टकारम्भपक्षं निरस्य चैत्रशुक्लौकादश्यां दीक्षामाह तत्रैव ५। ९। १० कण्डिकादिषु
“चित्रापूर्णमासे दीक्षेरन्” ता० व्रा० ५। ९। १०। “चित्रायुक्तः पौर्णमासः चित्रापूर्णमासः तस्मिन् दीरक्षेरन्” तदेतत् स्तौति” भा०। “चक्षुर्वा एतत् वत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मुखत एव तत् संवत्सरस्य दीक्षन्ते तस्य न निर्य्यास्ति” ता० ब्रा० ११। “चित्रापूर्णमास इति यत् एतत संवत्सरस्य चक्षुर्वै जायमानस्य हि प्रथमं मुखञ्जायते तत्रापि चक्षुरेव प्रथममाविर्भवति अतस्तत्सादृश्यादस्य चक्षुषः उक्तक्रमेण मुखतो मुखप्रदेश- एव चक्षुः, अतो मुखएव तत् संवत्सरमारभ्य गृहीत्वा दीक्षन्ते। यः फाल्गुन उक्तः सोऽप्यत्र बिद्यत इत्युक्तं भवति तस्य न निर्य्यास्ति कश्चिदपि दोषो न विद्यते” इत्थं चित्रापौर्णमास्यां दीक्षितव्यमित्युक्तम् अथ तस्मिन्नेव मासे शुक्लैकादश्यां दीक्षितव्यमित्याह” भा० “चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन्” ता ब्रा० १२। “चैत्र्याः पौर्णमास्याः पुरस्ताच्चतुरहे चतुर्ण्णामह्नां समाहारश्चतुरहस्तस्मिन्विद्यमाने गवामयनस्य दीक्षा कार्य्या एवं दीक्षणस्य गुणमाह” भा० “तेषामेकाष्टकायां क्रयः सम्पद्यते तेनैकाष्टकान्न संवट् कुर्वन्ति” ता० ब्रा० १३। “सर्वेषां सत्राणां द्वादश दीक्षा भवन्ति तत एकादशीप्रभृति द्वादशसु गतासु रात्रिषु त्रयोदशी रात्रिरष्टमी स्यात् एकाष्टका च बहुलाष्टमीति अस्यामेकाष्टकेत्युपचारः तस्याः क्रयः सम्पद्यते प्रथमे ह्युपसर्जने राजक्रयस्तस्मिन् दिने प्रातःकाले प्रायणियाद्या यज्ञावयवाः प्रक्रम्यन्ते तेन प्रक्रमेण एकाष्टकां न संवट्कुर्वन्ति क्रियानुपयोगेन व्यर्थं न कुर्वन्ति अतएव एकाष्टकाप्रारम्भकृतो गुणश्चास्मित् पक्षेऽन्तर्भवति इत्यर्थः। अत्येऽपि गुणा अस्मिन् पक्ष सन्तीत्याह” भा० “तेषां पूर्वपक्षे सुत्या सम्पद्यते पूर्वपक्षे मासाः सन्तिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः पशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवदत्यरात्सुरिमे सत्रिण इति ते राध्नुवन्ति” ता० व्रा० १४। “तेषामेकादश्यां दीक्षमाणानां सुत्या सोमयागः पूर्वपक्ष सम्पद्यते सत्राणां सर्वेषां द्वादशोपसदः तत्राष्टमीप्रभृति द्वादशसु गतासु त्रयोदशी शुक्लपक्षपञ्चमी तस्यां प्रथमोऽतिरात्र इति पूर्वपक्षे सुत्या० प्रारभ्यत इष्यर्थः। त्रिंशता त्रिंशताऽहोभिर्म्मासेषु पूर्वपक्षे एव सर्व्वमासाः सन्तिष्ठमाना यन्ति वर्त्तन्ते एवं द्वादशसु मासेषु गतेषु पूर्वपक्ष एव सत्रादुत्तिष्ठन्ति तानुत्तिष्ठतः सत्रादुत्थानं कुर्वतो यजमानाननु पश्चात् पशव ओषधयश्चोत्तिष्ठन्ति ऊर्द्ध्वं रोहन्ति तान् यजमानान् कल्पाणी शोभना वाक् यशस्करी वाक् वदति किमिति इमे सत्रिणो यजमानाः अरात्सुः समृद्वा अभवन्निति तदनन्तरन्ते सत्रिणो राध्नुवन्ति सभृद्धा भवन्ति”। ५ अध्यायसमाप्तिपर्यन्ते तस्यैव विधानभेदा उक्ताः। “गवामयनेनेयुः” कात्या० श्रौ० २४। ५। २। “गवामयनं वाऽभिगरश्रुतेः” २४। ४। ४९। इदञ्च एकपदं तेन गावामयनिकमित्यादौ ठकि पूर्वाचोवृद्धिः। “गावामयनिके पृष्ठ्यषडहे प्रत्यहं द्वयम्” जैमिनीयन्यायमाला।
गवामृत = न० गोरमृतमिव क्षीरम् अवङावेशः। गोक्षीरे “अतिथिः सर्वभूतानामग्नि सोमो गवामृतम्” भा० व० ३१२ अ०। गोक्षीरस्य सोमवत् हूयमानत्वात् चन्द्रहेतुकत्वाद्वा सोमतेति “अमायां च सदा सोम ओषधीः प्रतिपद्यते। तमोषधिगतं गावः पिबन्त्यम्बु गतञ्च यत्। तत् क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः। हुतमग्निषु यज्ञेषु पुनराप्यायते शशी” कालमा० सोमोत्पत्तिवाक्यात् सोमस्यैव गोक्षीरहेतुत्वम्। एवञ्च गोक्षीरस्य सोमप्रसुतत्वेन पुनर्यज्ञे मन्त्रेण होमात् चन्द्राप्यायनात् तद्धोमस्य सन्तत्या सनातनत्वम्। तेन “किं स्विद्धर्म्मः सनातन” इति यक्षप्रश्नस्योत्तरमिदं सङ्गच्छते।
गवाम्पति = पु० ६ त० अलुक् स०। १ वृकने “सिंहेनेन गवाम्पपतिम्” भा० व० १६० अ०। २ गोपालके “तथा दृष्ट्व यबीयांसं सहदेवं गवांपतिम्” भा० वि० वि० १९ आ०। ३ गोस्वामिनि ४ रुद्रे ५ किरणपतौ सूर्य्यवग्रप्रादौ। “प्रशान्तोऽग्निर्महाभाग! परिश्रान्तो गवांपति” भा० वि० २२० अ०। सहस्ररश्मिरादित्यस्तपनस्त्वं गवांपतिः रुद्रः” भा० व० ३ अ० सूर्य्यस्तवः। खगोलशब्ददर्शितदिशा सूर्य्यस्य चन्द्रादिग्रहदीप्तिकारित्वात् तथात्वम् रुद्रस्य तथात्वं गोपतिशब्दे वक्ष्यते। पदद्वयनित्येके।
गवालूक = पु० गवाय शब्दाय अलति अल–बा ऊकञ्। मृगभेदे गवये त्रिका०।
गवाविक = न० गौश्च अविश्च द्वयोः समाहारः गवाश्वा० नि० नित्यमतङादेशः कश्च। गोमेषेयोः समाहारे।
गवाश्व = न० समाहारद्व० अवङ्। गोहययोः समुच्चये।
गवाश्वप्रभृति = न० पा० गणसूत्रोक्ते समाहारद्वन्द्वनिमित्ते शब्दसमूहे स च गणः “गवाश्वम् गवाविकम् गवैडकम् अजाविकम् अजैडकम् कुब्जवामनम् कुब्जकिरातम् पुत्रपौत्रम् श्वचण्डालम् स्त्रीकुमारम् दासीमानवकम् शाटीपटीरम् शाटीप्रच्छदम् शाटीपट्टिउष्ट्रम्बरम् उष्ट्रशशम् मूत्रपुरोषम् यकृन्मेदः, मांसशोणितम् दर्भशरम् दर्भपूतीकम् अर्जुनशिरीषम् अर्जुनपुरुषम् तृणोलपम् दासीदासम् कुटीकुटम् भागवतीभागवतम्” “गवाश्वादीनि यथोच्चारितानि साधूनिं सि० कौ०।
गवाह्निक = न० अह्नि भवं दिनभक्षणाय पर्य्याप्तम् अहन् + ठक् आह्निकम् ६ त०। गोर्दिनभक्षणपर्य्याप्तघासादौ “निरुद्वेगस्तु यो दद्यात् मासमेकं गवाह्निकम्। एकभक्तं तथाश्नीयात् श्रूयतां तस्य यत् फलम्। इगा पापी महाभागाः पवित्रं परमं स्मृताः। त्रीन् लोकान् धारयन्ति स्म सदेवासुरमानुषान्। तासु चैव महापुण्यं शुश्रूषा च महाफला। अहन्यहनि धर्मेण युज्यते वै गवाह्निके” भा० आनु० १३२ अ०। “गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः। नाशयन्त्याशु पापानि महापातकजान्यपि” आ० त० यमः। “गवाह्निकं गोर्दिनभक्ष्यम्” आ० त० रघुनन्दनः।
गविजात = पु० गवि, गोसंज्ञायाम् पुलस्त्यकार्य्यायां वा जातः अलुक्स०। १ ऋषिभेदे स तु नहुषाये च्यवनमूल्यतया गां कल्पितवान् तत्कथा भा० आनु० ५१ अ० “तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः। नहुषस्य समापस्थो गविजातोऽमवन्मुनिः” इत्युपक्रमे “न हुषस्य वचः श्रुत्वा गविजातः प्रतापवान्। उवाच हर्षयन् सर्वानमात्यान् पार्थिवञ्च तम्। अनर्वा वै महाराज! द्विजा वर्णेषु चोत्तमाः। गावश्च, पुरुषव्याघ्र! गौर्मूल्यं परिकल्प्यताम्” पुलस्त्यस्य गोसंज्ञायां भार्य्यायां जाते २ वैश्रवणे च
पुलस्त्यो नाम तस्यासीन्मानसोदयितः सुतः। तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः” भा० व० २७ अ०। “गवि गोसंज्ञायां भार्य्यायाम् नील०। गबीत्यस्याभवदित्यनेन सम्बन्धात् तस्येत्यस्य पुत्रेणान्वयाच्च तथात्वम् एतन्मूलकं गविपुत्रशब्दकल्पनं प्रामादिकमेव।
गविनी = स्त्री गवां समूहः खला० इनि। गोसमूहे।
गविष् = त्रि० “गां स्तुतिवाचमिच्छति इष–क्विप्। स्तोत्रादिवाक्ये च्छावति। “निरस्य रसं गविषः” ऋ० १०। ७६। ७। “अगोरुधाय गविष” ८। २४। २०।
गविष = त्रि० गामिच्छति इष–क। स्तोत्रेच्छावति अश्रेद्द्रप्सं दविध्वद्गविषो सत्वा” ऋ० ४। १३। २। “सत्वा भरिषो गविषः” ४। ४०। २। “गविषो गवां प्रेप्सुः” भा०।
गविष्टि = पु० इष–अत्वेषे क्तिन् ६ त०। गवामन्वेष्टरि। “आप्रवस्व गविष्टये” ९। ६६। १५। “गविष्टये गवामन्वेष्ट्रे” भा०।
गविष्ठ = पु० दैत्यभेदे “गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः” भा० आ० ६५ अ०। सच द्वापरे द्रुमसेनतयाऽऽविर्भूतः यथाह भा० आ० ६७ अ० “गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातो पृथिव्यां समजायत”।
गविष्ठिर = पु० गवि वाचि स्थिरः ष त्वम् अलुक्स०। गोत्रप्रवर्त्तके १ ऋषिभेदे। तस्यापत्यम् अण्। गाविष्ठर तद्गोत्रापत्ये पुंस्त्री० बहुषु तस्य लुक्। “गविष्ठिराणामात्रेयगाविष्ठिरपौतिमास्येति” आश्व० श्रौ० १२। १४। १। “गविष्ठिरो नमसा स्तोममग्नौ” ऋ० ५। १। १२। २ कण्वे मुनौ च “अग्निरत्रिं भरद्वाजं गविष्ठिरम्” ऋ० १०। १५०। ५। “गविष्ठिरं कण्वम्” भा०।
गवीधुका = स्त्री गवेधुका + पृषो०। धान्यभेदे। “अनाहुति र्वै जर्त्तिलाश्च गवीधुकाश्च” तैत्ति० ५। ४। ३। २।
गवी(वे)श्वर = ६ त० वा अवङ्। गोस्वामिनि अमरः।
गवेङ्गित = न० गवामिङ्गितम् अवङ्। शुमाशुभसूचके गवां चेष्टाभेदे तच्च वृ० स० ९२ अ० उक्तं यथा। “गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान्। मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्तस्करानारुवन्त्यः। अकारणे क्रोशति चेदनर्थं भयाय रात्रौ वृषभः शिवाय। भृशं निरुद्धो यदि मक्षिकाभिस्तदाशु वृष्टिं सरमात्मजैर्वा। आगच्छन्त्यो गोष्ठवृद्ध्यै च वेश्म बम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः। आर्द्राङ्ग्यो वा हृष्टरोमण्यः प्रहृष्टा धन्या गावः स्युर्महिष्योऽपि चैवम्”।
गवेडु = स्त्री गवे दीयते दीङ् रक्षणे कु पृषो० दस्य डः अलुक् स०। (गड्गडे) धान्यभेदे अमरः।
गवेधु = पु० गवे धीयते धाञ्–धारणे कु अलुक्स०। (गड्गडे) १ धान्यभेदे तस्या गवे धारणात्तथात्वं यथोक्तम्
“अथ रुद्राय पशुपतये। रौद्रं गावेधुकं चरुं निर्वपति तदेनं रुद्र एव पशुपतिः पशुभ्यः सुवत्यथ यद् गावे धुको भवात वास्तव्यो वा एष देवो वास्तव्या गवेधुका स्तस्माद्गावेधुको भवति” शत० ब्रा० ५। ३। ३। ७। “गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम्। गवेधुः कटुका स्वाद्वी कार्श्यकृत् कफनाशिनी” भावप्र०। तेन शब्दक० गवेधुशब्दस्य पुंस्त्वोक्तिः प्रामादिकी। गवेधुश्च सुश्रुते कुधान्यवर्गे उक्ता यथा
“कोरदूषकश्यामाकनीबारशान्तनुतुवरकोद्दालकप्रियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकामरुकतोदर्पणीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः”
गवेन्द्र = पु० गौरिन्द्र इव नित्यमवङ्। श्रेष्ठे गवि।
गवेरुक = न० गां गोशोभामीरयति ईर–बा० उकन् अवङ्। गौरिके त्रिका०। गैरिकेण गोर्भूषणात्तथ त्वम्।
गवेश = पु० ६ त० अवङ्। १ गोस्वामिनि गोरक्षके तेन निर्वृत्तादि० संकला० पाठान्तरे ततोऽण्। गावेश तन्निर्वृत्तादौ त्रि०। ३ रुद्रे च गोपतिशब्दे दृश्यम्। पक्षेऽव्। गवीश उक्तार्थेषु।
गवेशकी = स्त्री। गवामीशः गीरक्षः तथाभूत इव कायति कै–क गौरा० ङीष्। (गोरक्षचाकुलिया) लता- भेदे शब्दच०। गवेशकेति केचिदिमं टाबन्तमाहुः।
गवेष = अन्वेषणे, अद० चुरा० आत्म० सेट्। गवेषयते अजगवेषत। गवेषयाञ्चक्रे। गवेषितः गवेषणं गवेषणा। “तीर्थेष्वितस्ततस्तस्याभिचचार गवेषयन्” भा० व० २६२ अ०। आर्षः पदव्यत्ययः। तस्य भ्यादित्वं तङ्वत्त्वं च क्वचित् प्रयोगे दृश्यते “गवेषमाणं महिषीकुलं जलम्” रत्ना०।
गवेष = त्रि० गवेष + अच्। १ अन्वेष्टरि भावे अच्। २ अन्वेषणे पु०। तेन निर्वृत्तादि संकला० अण्। गावेष तन्निर्वृत्तादौ त्रि०।
गवेषणा = स्त्री गवेष–भावे युच्। १ अन्वेषणे अमरः। गोरुदकस्य वा एषणा। गोरुदकस्य वा २ अन्वेषणे। इष–ल्यु ६ त०। ३ गोरन्वेषके त्रि०। गवेष–ल्यु। ४ अन्वेष्टरि त्रि० “अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः” ऋ० १। १३२। ३। “अस्तीनः सत्वा गवेषणः” ऋ० ७। २०। ५। “गवेषणः गवामन्वेष्टा उदकान्वेष्टा। यजमानफलस्य मार्गयिता वा” भा०। भाष्ये गवेष गार्गणे पूर्ववत् ल्यु इत्येव पाठः मुद्रितपुस्तके ल्युट् इति पाठः प्रामादिकस्तस्याकर्त्तर्य्येव विधानात् क्लीबत्वाच्च।
गवेषित = त्रि० गवेष–क्त। १ अन्वेषिते मार्गिते अमरः।
गवेष्ठिन् = न० दैत्यभेदे “शङ्कुकर्ण्णो विरोधश्च गवेष्ठी दुन्दुभिस्तथा” हरिवं० ३ अ०।
गवैडक = न० गौश्च एडकश्च गवाश्वा० नि० क्लीवता च। गोमेषयोः समाहारे।
गवोद्घ = पु० प्रशस्तः प्रशस्ता वा गौः “प्रशंसावचनैश्च” पा० जातेः कर्म० परनि० अवङ्। १ प्रशस्ते गवि। २ प्रशस्तायां गोजातिस्त्रियाञ्च अस्य नियतलिङ्गत्वात् स्त्रियामपि तथात्वम्।
गव्य = (आत्मनो गामिच्छति क्यच् “वान्तो यि प्रत्यये” पा० अव्) आत्मसम्बन्धित्वेन गोरिच्छायाम् अक० भ्वा० पर० सेट्। गव्यति अगव्यीत्–अगवीत् गव्या (वा)म् चकार” “गौरसि वीर! गव्यते” ऋ० ६। ४५। ८। २६।
गव्य = त्रि० गोर्विकारः गवि भवं, गोर्हितं, गोरिदं, वा सर्वत्र यत् यादौ अव्। १ गोसम्बन्धिनि, “गव्यसत्रके” जै० अधिकर० भा०। २ सरत्नमर्घ्यं मधुमच्च गव्यम्” कुमा० “संवत्सरं तु गव्येन पयसा पायसेन वा। “शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत्” मनुः। २ गोर्हितादौ च। गवि इषौ नेत्रे वा साधु यत्। ३ ज्यायां ४ रागद्रव्ये च न० मेदि०। ज्यायाः शरक्षेपणसाधनत्वान् रागद्रव्यस्य च नेत्ररागजनकत्वात्तथात्वम्। गेर्विकारे ५ गोरोचनाद्रव्ये स्त्री राजनि०। तस्य गोर्विकारत्वात्तथात्वम् तत्र ज्यायाम् “श्रवणोपान्तिकनीयमानगव्यम्” माघः। समूहे पाशा० यत्। ६ गोसमूहे, ७ गव्यूतौ क्रोशयुगे च स्त्री हेमच०।
गव्ययी = स्त्री गोरिदम् बा० अयट् युडागमश्च यादौ अब् ङीप्। गोरवयवे त्वगादौ। “गव्ययी त्वग्भवति” ऋ० ९। ७०। ७। “गव्ययी गोमयी त्वक्” भा०।
गव्ययु = त्रि० गामिच्छति गो + क्यच्–उन् यादौ वेदे दीर्घयलोपाभावौ। गोरिच्छावति “आ दिवस्पृष्टमश्वयुर्गव्ययुः” ऋ० ९। ३६। ६। “गव्ययुर्गामिच्छत्” भा०।
गव्यु = त्रि० गामिच्छति क्यच् उन् यादौ अव् दीर्घयलोपाभावौ। गामिच्छति। “अश्वयुर्गव्यूरथयुर्वसुयुः ऋ० १। ५१। १४।
गव्यूत = न० गव्यूति + पृषो० अदन्तादेशः। १ क्रोशे २ क्रोशयुगे च हेमच०।
गव्यूति = स्त्री गोर्यूतिः “गोर्यूतौ” पा० अव्। द्विसहस्रधनुर्मिते १ क्रोशं हेमच०। २ क्रोशद्वये अमरः। “गव्या गव्यूतगव्यूती इति दीर्घपाठदर्शनात् शब्दकल्प० दीर्घान्तगव्यूतिशब्दकल्पनं प्रामादिकम् तत्र गव्यूतगव्यूती इत्यस्य द्विवचनान्ततया दीर्घान्तशब्दत्वाभावात् किञ्च यूतिरित्यस्य क्तिन्नतया निपातनात् “कृदिकारादक्तिनः” पा० अक्तिन्नन्तस्यैव ङीपो विधानेन ततो ङीपोऽप्रसक्तिः।
गह = गहने अद० चुरा० उभ० सेक० सेट्। गहयति ते अजगहत् त। गहनं दुर्वोधः दुष्प्रवेशो दुर्गमश्च।
गहन = न० गाह–ल्युट्–“कृच्छ्रगहनयोरिति” पा० निर्देशात्, पृषो० वा ह्रस्वः गह–गहने ल्युट्वा। १ वने अमरः। तस्य दुर्गमत्वात् तथात्वम्। २ निविडे त्रि० “जगाम गहनं वनम्” देवीमा० ३ गह्वरे ४ दुःखे च न० मेदि०। ५ दुर्गमे ६ दुर्बोधे ७ दुष्प्रवेशे त्रि०। ८ परमेश्वरे पु०। “करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः” विष्णु स०। “स्वरूपं सामर्थ्यं चेष्टितं वा तस्य ज्ञातुं न शक्यते इति गहनः” भा० “गम्भीरो गहनो गुप्तः” विष्णुस० “दुष्प्रवेशत्वात् गहनः अवस्थात्रयसाक्षित्वाद्वा गहनः” भा०। “गहना कर्मणो गतिः” गीता। ९ उदके निघ० गाहनात्तस्य तथात्वम्। १० अलङ्कारे स्त्री शब्दार्थचि०।
गहादि = न० चतुरर्थ्यां छप्रत्ययनिमित्ते पा० ग० उक्ते शब्दगणे स च गणः
“गह अन्तस्थ सम विषम (मध्य मध्यंदिनं चरणे) उत्तम अङ्ग वङ्ग मगध पूर्ब्बपक्ष अपरपक्ष अधमशाख उत्तमशाख एकशाख समानशाख समानग्राम एकग्राम एकवृक्ष एकपकाश इष्वग्र इष्वनीक अव- स्यन्दन कामप्रस्थ खाडायन काढरणि लावेरणि सौमित्रि शैशिरि आसुत् दैवशर्म्मि श्रौति आहिंसि आमित्रि व्याडि वैजि आध्यश्वि आनृशंमि शोङ्गि आग्निशर्म्मि भौजि वाराटकि वाल्मीकि क्षैमवृद्धि आश्वत्थि औद्गाहमानि ऐकविन्दवि दन्ताग्र हंस तन्त्वग्र उत्तर अनन्तर (मुखपाश्वतसोर्लोपः) (जनपरयोः कुक् च) (स्वस्य च) (देवस्य) (वेणुकादिभ्यश्छण्। गहादिराकृतिगणः”। “गहादिभ्यच्छः” पा०। गहीयः।
गह्व = न० गह–कर्म्मणि भावे वा बा० व। १ गाम्भीर्य्ये २ दुष्प्रवेशे च ततः अश्मादि० चतुरर्थ्यां र। गह्वर तद्युक्तादौ त्रि०।
गह्वर = न० गुह–वरच् पृषो० नि०। १ दम्भे अमरः। २ वने, ३ निकुञ्जे पु० मेदि०। ४ रोदने, हेमच०। ५ विषमस्थाने, ६ अनेकार्थसङ्कुले च न० शब्दार्थचि०। “अथान्धकारं गिरिगह्वरस्थम्” रघुः। ८ गुहायां ग० स्त्री स्त्रीत्वपक्षे ङीप्। “गौरीगुरोर्गह्वरमावेशः” रघु। “गुहाहितं गह्वरेष्ठ पुराणम्” कटो० अम्बष्ठा०० षत्वम्। १ “काट्याय च गह्वरेष्ठाय च” यजु० १६। २।
***