—ग—
ग = गकारः व्यञ्जनवर्णभेदः तस्योच्चारणस्थानं जिह्वामूलरूपकण्ठदेशः, आभ्यन्तरप्रयत्नः जिह्वामूलस्पर्शः, बाह्यप्रयत्नाः संवारनादघोषाः अल्पप्राणश्च। मातृकान्यासेऽस्य दक्षिणमणिबन्धे न्यासः। अस्य ध्येयरूपदेवतादिकं कामधेनुतन्त्रे उक्तं यथा “गकारं परमेशानि! पञ्चदेवात्मकं सदा। निर्गुणं त्रिगुणातीतं निरीहं निर्मलं सदा। पञ्चप्राणमयं वर्णं सर्वशक्त्यात्मकं प्रिये!। अरुणादित्यसङ्काशं कुण्डलीं प्रणमाम्यहम्”। हृदयस्थद्वादशदलकमलस्य कादिठान्तद्वादशवर्णयुततया अस्य तन्मध्यगत्वम्। अस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा “गो गौरी गौरवं गङ्गा गणेशो गोकुलेश्वरः। शार्ङ्गी पञ्चात्मको गाथा गन्धर्वः सर्वगः स्मृतिः। सर्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः। विश्वात्मा गौः पृथग्रूपा भणिबन्धस्त्रिलोचनः। गीतं सरस्वती विद्या भोगिनी नकुलोधरा। तेजस्वती च हृदयं ज्ञान जालन्घरो लयः”। काव्यादिरचनायामस्यासंयुक्ततया प्रथमविन्यासे लक्ष्मीः फलम्। “कः खोगोघश्च लक्ष्मीम्” संयुक्तं चेह न स्यात् मुखभरणपटुर्वर्गविन्यासयोमः। पद्यादौ गद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयमिति” वृ० र० टी० सर्वशेषतयोक्तेः।
ग = न० गै–क। १ गीते २ गणेशे ३ गन्धर्वे पु० एकाक्षरको० ४ गुरुवर्णे “म्यरस्तजभ्रगैर्लान्तैरेभिर्दशभिरक्षरैः” वृत्तर०। “गुरुरेको गकारस्तु लकारो लघुरेककः” छन्दोम०। “यरामन्तगलौ सतौ” “गौ स्त्री” वृत्तर०। “सुप्युपपदे गमे र्ड। हृद्ग हृदयगामिनि कण्ठग कण्ठगामिनि इत्याद्यर्थे त्रि० “हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः” मनुः। सृप्युपपदे गै–क। सामग सामगातरि छन्दोग छन्देगातरि त्रि०।
गकार = पु० ग + स्वरूपे कार। गस्वरूपे वर्णे “गुरुरेको गकास्तु लकारो लघुरेककः” छन्दो०।
गगन = न० गम–युच् गोऽन्तादेशः। णत्वं प्रामादिकम् “फाल्गुने गगने फेने णत्वमिच्छन्ति वर्वराः” इत्युक्तेः। १ आकाशे २ शून्याङ्को। ३ लग्नापेक्षया दशमराशौ तस्य उदितराश्यपेक्षया स्वस्वस्तिकस्थितत्वात् तथात्वं तथा हि पूर्वस्यामेव राशीनामुदयेन ततः मप्तमराश्युदये तस्य अस्तम् दशमराशिस्तु तदा स्वस्वस्तिकस्थितः इति तस्य मूर्द्धस्थाकाशस्थितत्वात् तथात्वम्। तद्गुणादेः आकाशशब्दे ५९२ पृ० विवृतिः। सुश्रुते देहस्य पाञ्चभौतिकत्वाङ्गीकारेण “आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता चेति” देहस्थाकाशधर्म्मा उक्ताः “पृथिव्यप्तेजो वाय्वाकाशानां समुदायात् द्रव्याभिनिर्वृत्तिः” इत्युपक्रम्य द्रव्यगता गगनजधर्म्मास्तत्रोक्ता यथा “श्लक्ष्णसूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयम् तन्मार्द्दवशौषिर्य्यलाघवकरम्”। तथाकाशगुणभूमिष्ठंसंशमनम्” इत्युपक्रम्य भूतविशेषसाचिव्येन घातुविशेषसंशमनकारित्वं तस्य दर्शितं सुश्रुतेन यथा “खते जोऽनिलजैः श्मेष्मा शममेति शरीरिणाम्। वियत्पबनजाताभ्यां वृद्धिमाप्नोति मारुतः” “तस्याकाशगुणभूयिष्ठं मृदुत्वम्” इति च। तस्य धर्म्मविशेषाः भा० शा० उक्ता यथा “आकाशस्य गुणः शब्दोव्यापित्वम् छिद्रमेव च। अनाश्रयमनालम्बमव्यक्तमविकारिता। अप्रतीघातिता चैव भूतत्वं विकृतानि च”। “गगबं गणाधिपतिमूर्त्तिरिति” माघः। “अवोचदेनं गगनस्पृशा (स्वरेण) रघुः। “प्रेक्षिष्यन्ते गगनगतयो नूनमाव र्ज्यदृष्टीः” मेघ०।
गगनगति = पु० गगने गतिर्यस्य। १ देवे २ सूय्यांदिग्रहे ३ आकाशगामिनि त्रि०। ७ त०। ४ आकाशे गतौ स्त्री।
गगनचर = त्रि० गगने चरति चर–टच्। आकाशगामिनि देवसूर्य्यादिग्रहविहगादौ। तत्र विहगे “निसूदयन् बहुबिधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरः (गरुडः) तदा” भा० आ० २८ अ०।
गगनध्वज = पु० गगनस्य ध्वज इव। १ मेघे, हारा० २ सूर्य्ये हेमच०
गगनप्रिय = पु० दैत्थभेदे। “प्रह्णादोऽश्वशिराः कुम्भः संह्लादो गगनप्रियः” हरि० ४२ अ०।
गगनमूर्द्धन् = पु० दानवभेदे। “तथा गगनमूर्द्धा च वेगवान् केतुमांश्च यः” भा० आ० ६५ अ०। दनुवंशकथने। “तथा गगनमूर्द्धा च कुम्भनाभो महासुरः” हरि० ३ अ०।
गगनसद् = त्रि० गगने सीदति गच्छति सद–क्विप्। गगनगामिनि देवग्रहविहगादौ। “बालत्वं वृद्धता वा यदि गगनसदां जन्मकाले नराणाम् प्रज्ञामान्द्यम्” जातकाङ्कारः। “विस्मेरान् गगनसदः करोत्यमुष्मिन्” माघः। गगनविहारिन्प्रभृतयोऽप्यत्र स्त्रियां ङीप्।
गगनसिन्ध, = स्त्री ६ त०। मन्दाकिन्याम् “गगनसिन्धुफेनपटलजालान्तरस्य” काद०। गगननद्यादयोऽप्यत्र।
गगनाङ्गना = स्त्री गगनगताङ्गना। अप्सरःसु।
गगनाध्वग = पु० गगनाध्वना आकाशमार्गेण गच्छति गम–ड। सूर्य्ये हेम०।
गगनाम्बु = न० ६ त०। दिव्योदके तडागादावपतिते पात्रादौ धृते मेघनिःसृतजले। “गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने। बल्यं रसायनं मेध्यं पात्रापेक्षि ततःपरम् रक्षोघ्नं शीतलं ह्वादि जडदाहविषापहम्” सुश्रुतः।
गगनेचर = पु० गगने चरति चर–ट अलुक् स०। १ देवे २ सूर्थ्यादिग्रहे ३ राशिचक्रे च। ४ विहगादौ त्रि० स्त्रियां टाप्। “तस्मिंस्तु कथिते माता कारणे गगनेचरः” भा० आ० २७ अ०
गगनोल्मुक = पु० गनने उल्मुक इव। मङ्गलग्रहे हारा०। तस्य गगनगत्वात् लोहिताङ्गत्वाच्च तथात्वम्।
गग्घ = हासे भ्वा० पर० अक० सेट्। गग्घति अगग्षीत् जगग्ध।
गग्नु = स्त्री वाचि निषण्टौ “वग्नु इत्यत्र पाठान्तरम्।
गङ्गा = स्त्री गम–गन्। विष्णुपादं नदीभेदे २ हिमवत् कन्याभेदे च। “इमं मे गङ्गे! यमुने! सरखति। शुतुद्रि! स्तोमं सचता परुष्ण्या। असिक्न्या मरुद्वृधे! वितस्तयार्जोकीये शृणुह्यासुषोमया” ऋ० १०, ७५, ५। इमामृचमधिकृत्य दशप्रधाननदीनां निरुक्तिर्यास्केन ९, २६ दर्शितम् यथा “अथककपदनिरुक्तम् गङ्गा १ गमगात्। यमुना २ प्रयुवती गच्छतीति वा विप्रयुतं गच्छतीति वा। सरस्वती ३ सर इत्युदकनाम सर्त्तेः तद्वती। शुतुद्री ४ शुद्राविणी क्षिप्रद्राविणी आशुतुन्नेव द्रवतीति वा। इरावतीं परुष्णी ५ त्याहुः पर्ववती भास्वती कुटिलगामिनी। असिक्नी ६ अशुक्लाऽसिता सितमिति वर्णनाम तत्प्रतिषेधोऽसितम्। मरुद्वृधा ७ सर्वा नद्यः, मरुत एना बर्द्धयन्ति। वितस्ता ८ विदग्धा विवृद्धा महाकूला। आर्जीकीया ९ विपाडित्याहुः ऋजुकप्रभवा वा ऋजुगामिनी। विपाट् विपाटनाद्वा विपाशनाद्वा विप्रापणात् वा पाशा अस्यां व्यपास्यन्त वसिष्ठस्य मुमूर्षतस्तस्माद्विपाडुच्यते पूर्वमासीदुरुञ्जिरा। सुषोमा १० सिन्धुर्यदेनामभिषुवन्ति सिन्धुः स्वन्दनात्”। “अष्टाबिंशतिं” (हयान्) भरतो दौष्मन्तिर्यमनामगु। गङ्गायां वृत्रघ्नेऽबघ्नात् पञ्चपञ्चाशतं हयान्” शत० ब्रा० १३, ५, ४, ११। “न वै गावोमन्दीरस्य गङ्गाया उदकं षपुः” कात्या० श्रौ० १३, ३, २०। “तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः” मनुः। “गङ्गायाहिमवत्कन्यारूपत्वेऽपि नदीरूपतया पृथिव्यवतरणकथा रामा० आदि० यथा “भगीरथस्तु राजर्मिर्धार्म्मिको रघुनन्दनः!। अनपत्थो महाराजः प्रजाकामः स च प्रजाः। सन्त्रिष्वाघाय तद्राज्यं गङ्गावतरणे रतः। तपो दीर्षं समातिष्ठद्गोकर्णे रघुनन्दन!। ऊर्द्ध्ववाहुः पञ्चतपा मासाहारो जितेन्द्रियः!। तस्य वर्षहस्राणि घोरे तपसि तिष्ठतः। अतीतानि महावाहो! तस्य राज्ञो महात्मनः। सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः। ततः सुरगणैः सार्द्धमुपागम्य पितामहः। भगीरथं महात्मानं तपसालमथाब्रवीत्। भगीरथ! महाराज! प्रीतस्तेऽहं जनाधिप!। तपसा च सुतप्तेन, वरं वरय सुव्रत!। गमुवाच महातेजाः सर्व्वलोकपितामहम्। भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः। यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम्। सगरस्यात्मजाः सर्वे मत्तः सलिममाप्नुयुः। गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्। खर्गं गच्छेयुरत्यन्तं सर्व्वे च प्रपितामहाः। देव! याचे ह सन्तत्यै गावसीदेत् कुलञ्च नः। इक्ष्वाकूणां कुले देव! एष मेऽस्तु वरः परः। उक्तवाक्यं तु राजानं सर्वलोकपितामहः। प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्। मनोरथो महानेष भगीरथ! महारथ!। एवम्भवतु भद्रन्ते इक्ष्वाकुकुलवर्द्धन!। इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता। तां वै धारयितुं राजन्! हरस्तत्र नियुज्यताम्। गङ्गायाः पतनं राजन्! पृथिवी न सहिष्यते। तां वै धारयितुं राजन्नान्यं पश्यामि शूलिनः। तमेवमुक्त्वा राजानं गङ्गां चामाष्य लोककृत्। जगाम त्रिदिवं देवैः सर्व्वैः सह मरुद्गणै।” ४२ स०। “देवदेवे गते तस्मिन् सोऽङ्गुष्टाग्रनिपीडिताम्। कृत्वा वसुमतीं राम! वत्सरं समुपासत। अवसंवत्सरे पूर्णे सर्व्वलोकनमस्कृतः। उमापतिः पशुपतीराजानमिदमब्रवीत्। प्रीतस्तेऽहं नरश्रेष्ठ! करिष्यामि तव प्रियम्। शिरसा धारयिष्यामि शैलराजगुतामहम्। ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता। तदा सातिमहद्रूप कृत्वा वेगञ्च दुःसहम्। आकाशादपतद्राम! शिवे शिवशिरस्युत। अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा। विशाम्यहं हि पातालं स्रोतसागृह्य शङ्करम्। तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः। तिरोभावयितुं वुद्धिञ्चक्रे त्रिनयनस्तदा। सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि। हिमवत्प्रतिमे राम! जटाम- ण्डलगह्वरे। सा कथञ्चिन्महा गन्तुं नाशक्नोद्थत्नमास्थिता। नैव सा निर्गमं लेभे जटामण्डलमध्यतः। तत्रैवाबभ्रमद्देवी संवत्सरगणान् बहून्। तामपश्यन् पुनस्तत्र तपः परममास्थितः। स तेन तोषितश्चासीदत्यन्तं रधुनन्दन!। विससर्ज ततो गङ्गां हरो विन्दुसरः प्रति। तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ह्वादिनी पावनी चैव नलिनी च तथैव च। तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः। सवङ्क्षुश्चैव सीता च सिन्धुश्चैव महानदी। तिस्रश्चैता दिशं जग्मुः प्रतीचीन्तु शुभोदकाः। सप्तमी चान्वगात्तासां भगीरथरथं तदा। भगीरथोऽपि राजर्षिर्दिव्यस्यन्दनमास्थितः। प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत्।” ४३ स०। “स गत्वा सागरं राजा गङ्गयानुगतस्तदा। प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः। भस्मन्यथाप्लुते राम! गङ्गायाः सलिलेन वै। सर्व्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्। तारिता नरशाद्र्दूल! दिवं याताश्च देववत्। षष्टिः पुत्राः सहस्राणि सगरस्य महात्मनः। सागरस्य जलं लोके याबत् स्थास्यति पार्थिव!। सगरस्यात्मजाः सर्व्वे दिवि स्थास्यन्ति देववत्। इयञ्च दुहिता ज्येष्ठा तव गङ्गा भविष्यति। त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता। गङ्गा त्रिपथना नाम दिव्या भागीरथीति च। त्रीन् पथो भावथन्तीति तस्मात्त्रि पथगा स्मृता।” ४४ स०। पुराणसर्वस्वे तु तस्या अवतरणप्रकारोऽन्यथा उक्तः कल्पभेदादविरोधः। यथा महाभारते “महापुण्यां गगनतः पतन्तीं वै महेश्वरः! दधार शिरसा गङ्गां तामेव दिवि सेवते”। ब्रह्माण्डे “महादेवस्य या शम्भोरुत्तमाङ्गोत्तमाच्छुमात्। विनिर्गता महानन्दा दक्षिणेक्षणतः शुभा” स्कान्दे“त्रिविक्रमपदोद्भिन्नब्रह्माण्डशुषिरोद्भवा। परा विष्णुपदीगङ्गा समुद्रापूर्त्तिकारिणी।” वैष्णवे “ततः प्रभबति ब्रह्मन्! सर्वपापहरा सरित्। गङ्गा देवाङ्गनाङ्गाना मनुलेपनपिञ्जरा। विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दु मण्डलम्। समन्ताद्ब्रह्मणः पुर्य्यागङ्गा पतति वै दिवः। सा तत्र पतिता दिक्षु चतुद्धो प्रत्यपद्यत। सीता चालकनन्दा च वङ्क्षुर्भद्रा च वै क्रमात्।” पाद्मे “क्षितौ तारयत मत्यान्नागांस्तारयतेऽप्यषः। ढिवि तारयते देवां स्तेन त्रिपथगा स्मृता।” भविष्यं “महेश्वरस्य या शम्भोर्मूर्त्तिरेषा सनातनी। त्रैलक्यपावनार्थाय दययाधरणीङ्गता।” तत्स्वभावप्रकरणं व्रह्माण्डे “पापिष्ठानां पापहन्त्री स्वर्गमोक्षाप्तिहेतुका। स्वभाव एष गङ्गायाः शैत्यं शीतरुचो यथा” भविष्ये “पापखण्डनशीला हि सद्योगङ्गा स्वभावतः। उपपातकराशीनां सा हि हन्त्री यतः स्मृता” स्कान्दमात्स्ययोः “क्रोधलोभैक वृत्तीनां विपरीतक्रियावताम्। कामिनाञ्च तथान्यत्र तपोयज्ञादि निष्फलम्। गङ्गायान्तु कृतं सर्वं सफलं स्यान्न संशयः। परब्रह्मस्वरूपाया गङ्गायास्तु स्वभावतः”। सर्वदेवादिमयप्रकरणम् भविष्ये “शिववाक्यं “त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च। पर्वतादीनि रम्याणि पुण्यक्षेत्राणि यानि च। धर्माश्च सर्वदेवाश्च सर्वयज्ञतपांसि च। अहं ब्रह्मा च विष्णुश्च सर्वशक्तिसमन्वितः। अष्टाविंशतिकोट्यस्तु देवता व्याप्य वै सदा। गङ्गायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः। तिस्रः कोट्यर्द्धकोटी च तीर्थानां वायुरब्रवीत्। सर्वदा कलिकाले च गङ्गायां नात्र संशयः” भविष्ये “सर्वदेवमयी गङ्गा सर्ववेदस्वरूपिणी” भगवद्गीतायां “स्रोतसामस्मि जाह्नवीति” अथ तस्या विशिष्टताप्रकरणम् “देवानान्तु महादेवो यथा श्रेष्ठतमः स्मृतः। सर्वेषामेव तीर्थान। तथा गङ्गा विशिष्यते” महाभारते “सर्वतीर्थमर्या गङ्गा सर्वधर्ममयो मनुः। सर्वशास्त्रमयी गीता सर्वदेवमयोहरिः” स्कान्दे “भूतेश्वरादिह परोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति लोके। गङ्गासमं त्रिभुवने न हि तीर्थमस्ति नान्यद्व्रतं च शिवरात्रिसम तथास्ति” महाभारते “न गङ्गासदृशं तीर्थं न देवः केशवात् परः। ब्राह्मणेभ्यः परं नास्तीयेवमाह पितामहः” ब्रह्माण्डे “कलौ तु सर्वतीर्थानि स्यमहात्म्यप्रभावतः। गङ्गामभिमुखं यान्ति सा तु देवी न कुत्रचित्” नारदीये “कोटिष्वष्टासु दशसु तीर्थानां यत् फलं भवेद्। तत्सनस्तमिहैकत्र गङ्गायां लभते नरः” भविष्ये “अभिभूति प्रयाणेन भक्तिग्राह्या महेश्वरी। भावानुरूपफलदा गङ्गा सर्वजगद्धिता” ब्रह्माण्डे “प्रभासे गोसहस्रेण राहुग्रस्ते दिवाकरे। यत्फलं पाण्डवश्रेष्ठ! गङ्गायां तद्दिने दिने। महापुण्या महावेगा सद्यः शुद्ध्विकरी परा। महापुण्यप्रदा सद्यः स्वर्गमोक्षप्रदैव सा” दानधर्मे “स्वायम्भुवं यथा स्थानं सर्बेषामुत्तमं स्मृतम्। तीर्थानां सरितां श्वेष्ठा तथा गङ्गा इहोच्यते” मात्स्ये “तीर्थानां परमं तीर्थं नदीनामुत्तमा नदी। मोक्षदा मर्वभूतानां मह्यं प्राह दिवामणिः” भविष्ये “ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः। द्वापरे यज्ञमेवाहुः कङ्गौ षङ्गैव केवलम्। चिन्तामणिगणाच्चापि गङ्गायास्तोयविन्दवः। विशिष्टा यत् प्रयच्छन्ति भक्तेभ्यश्चिन्तितं फलम्” शैवे “नास्ति गङ्गासमं तीर्थं नास्ति वेद समा श्रुतिः। नास्ति मृत्युसमः शास्ता नास्ति भूति समं तपः” कौर्ममात्स्ययोः “कृते च सर्वतीर्थानि त्रेतायां पुष्करं परम्। द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव केवलम्” दानधर्मे “ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्चमाः। येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा” स्मरणप्रकरणम् हरिवंशे “दिव्या त्रिधारा दृष्टा यैः घुण्या त्रिपथगा नदी। स्मरणादेव सर्वेषामहंसां या विभेदिनी” ब्रह्माण्डे “मनसा संस्मरेद्यस्तु गङ्गां दूरस्थितो नरः। चान्द्रायणसहस्रन्तु लभते नात्र संशयः” भविष्ये “स्मरणादेव गङ्गायाः पापसंघातपिञ्जरम्। भेदं सहस्रधा याति गिरिर्वज्रहतो यथा” ब्रह्माण्डे “यत्र तत्र स्थितोवापि मरणे समुपस्थिते। “भक्त्या गङ्गां स्मरन् याति नरः शिवपुरं परम्” भविष्ये “गच्छन् तिष्ठन् स्वपन् ध्यावन् जाग्रद्भुञ्जन् वसन् वदन्। यः स्मरेत् सततं गङ्गां स च मुच्येत संकटात्” कीर्त्तन प्रकरणम् वैष्णवे “गङ्गा गङ्गेति यैर्नाम योजनानां शतैरपि। स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम्”। “गङ्गा गङ्गेति यो व्रूयात् योजनानां शतैरपि। मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति” यात्राप्रकरणम् ब्रह्माण्डे “येषां बुद्धिं शुभां देवाः प्रयच्छन्ति महात्मनाम्। तेऽपि गच्छन्ति नियता गङ्गाअभिगतां सुरैः” तत्रैव “स्नानञ्च भक्त्या गङ्गायां कर्त्तुकामस्य गच्छतः। पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः”। भविष्ये “वृथा कुलं वृथा विद्या वृथा यज्ञा वृथा तपः। वृथा दानानि तस्येह कलौ गङ्गां न याति यः”। वाराहव्रह्माण्डयोः “अर्घ्यादिकं गृहीत्वा तु सेन्द्रा देवाः समासते। आगच्छन्ति कदा मर्त्यागङ्गामभिगता नराः”। भविष्ये “अनुषङ्गेण सङ्गेन वाणिज्येनापि सेवया। कामासक्तोऽपि च नरो गङ्गां प्राप्य दिवं व्रजेत्। दानधर्मे “गङ्गाङ्गता ये त्रिदिवं गतास्ते” अथ क्षेत्रप्रकरणम् “सार्द्धहस्तशतं यावत् गर्भतस्तीर- मुच्यते। न मन्त्रो न विधिः कालो न मृदो न च गोमयम्”। अत्र ऋषयः पठन्ति “अत्र न पतिगृह्णीयात् प्राणैः कण्ठगतैरपि”। स्कान्दे “तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यते। अत्र दानं जपोहोमो गङ्गायां नात्रसंशयः”। दानधर्मे “भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमतेजलम्। तावद्गर्भं विजानीयात तदूर्द्धं तीरमुच्यते” ब्रह्माण्डे “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्। अत्रनारायणः स्वामी नान्यः स्वामी कदाचन”। स्पर्शादिप्रकरणम् वैष्णवे “श्रुताभिलषिता दृष्टा स्पृष्टा गीताऽवगाहिता। या पावयति भूतानि कीर्त्तिता सा दिनेदिने”
गतिप्रकरणम् भविष्ये “परदारपरद्रव्यवाञ्छा द्रोहः परस्य च। गतिमन्विष्यमाणस्य गङ्गेव परमा गतिः। प्लवनप्रकरणम्” महाभारते “गङ्गोर्मिभिरथोदिग्धः पुरुषः पवनो यथा। स्पृशते सोऽस्य पाप्मानं सद्य एवापकर्षति” दर्शनप्रकरणम् दानघर्मे। “जात्यन्धैरिह तुल्यास्ते स्युर्वै प्रङ्गुभिरेव वा। समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शुभाम्” ब्रह्माण्डे “ज्ञानमैश्वर्य्यमायुश्च प्रतिष्ठा सर्वमान्यता। शुभानामाश्रयत्वञ्च गङ्गादर्शनजं फलम्” अथ नमस्कारप्रकरणम् भवैष्ये “सर्वतीर्थमयीं गङ्गां परमात्मस्वरूपिणीम्। त्रैलोक्यपावनार्थाय गाङ्गतां प्रणमेत् सदा”। स्पर्शनपकरणम् ब्रह्माण्डे “सुभक्त्या हि महापापी गङ्गां स्पृष्ट्वा शुचिर्भवेत् अनिच्छयापि संस्पृष्टोदहत्येव हि पावकः” नारदीये “तथेह गङ्गां संस्पृश्य ब्रह्मरूपां सुपुण्यदाम्। शुद्धा भवन्तीह सर्वे सद्य एव न संशयः” वाराहे “ब्रह्महा गुरुहा गोघ्नः स्पृष्टो वा सर्वपातकैः। तस्यास्तोयं नरः स्पृष्ट्वा सर्वपापैः प्रमुच्यते”। अथावगाहनप्रकरणम् वनपर्वणि “यद्यकार्य्यशतं कृत्वा कृतं गङ्गावगाहनम्। सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः” स्नानप्रकरणम् वैष्णवे “स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति। अखर्वपुण्यप्राप्तिश्च सदा मैत्रेय! जायते” भविष्ये “शक्तस्य पण्डितस्यापि गुणिनः सत्यशालिनः। गङ्गास्नानविहोनस्य तस्य जन्म निरर्थकम्” तत्रैव “पितरो योगिनश्चैव गाथां गायन्ति सादराः। अपि नः स्वकुले कश्चित् गङ्गास्नायी भविष्यति। देवेभ्यश्च पितृभ्यश्च दास्यते सलिलाञ्जलिम्। गङ्गास्नानरतं मर्त्यं दृष्ट्वैव यमकिङ्कराः। दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः। यमो भीतस्त तं दृष्ट्वा प्रणिपत्य प्रपूज्य च। न शक्नोति तथा स्थातुं तस्याग्रे पुण्यकर्मणः। मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्म्मणः। गङ्गास्नानेन दग्धः स्यात्तूलराशिरिवानलैः” ब्रह्माण्डे “स्पृष्ट्वा स्वर्गमवाप्नोति पीत्वा ज्ञानमवाप्नुयात्। गङ्गास्नाने तु भक्त्या वै प्राप्तोति परमं पदम्” ब्रह्मवैवर्त्ते “गङ्गायां मौसलं स्नानं महापातकनाशनम्। अज्ञानात् स्वर्गसंप्राप्तिर्ज्ञानान्मुक्तिर्न संशयः”। पुण्यकालविशेषस्नानप्रकरणम् भविष्ये “द्वादश्यां श्रवणर्क्षेण अष्टम्यां पुष्ययोगतः। आर्द्रायाञ्च चतुर्दश्यां गङ्गास्नानं विशेषतः। वैशाखे पूर्णिमा या स्यान्माघे वै कार्त्तिके तथा। तथा माघी त्वमावास्या गङ्गास्नाने सुदुर्लभा। कृष्णाष्टम्यां सहस्रन्तु शतं स्यात् सर्वपर्वसु। अमावास्यादिने चैव सहस्रन्तु दिनक्षये। चन्द्रसूर्य्यग्रहे लक्षं व्यतीपाते त्वनन्तकम्” ब्राह्मे “चन्द्रसूर्य्यग्रहे चैव योऽवगाहति जाह्नवीम्। स स्नातः सर्वतीर्थेषु किमर्थमटते महीम्” स्मृतिः “इन्दोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं तथा। गङ्गातोये तु संप्राप्ते इन्दोः कोटीरवेर्दश” (नन्दामहाज्येष्ठीवारुणीदशहरार्द्धोदयस्नानफलं तत्तच्छव्दे दृश्यम्)। मृद्धारणप्रकरणम् दानधर्मव्रह्माण्डाग्नेयेषु। “जाह्नवीतीरसंभूतां मृदं मूर्द्भा विभर्त्तियः। विभर्त्ति रूपं सोऽर्कस्य तमोनाशाय केवलम्” तर्पणप्रकरणम् ब्रह्माण्डाग्नेयदानधर्मेषु “य इच्छेत् सफलं जन्म जीवनं श्रुतमेव च। सपितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा” अथ दानप्रकरणम् भविष्ये “वासो हिरण्यरत्नानि पत्रपुष्पफलानि च। अन्नदानादिकञ्चापि आत्मनो यदभीप्सितम्। तत्तु भक्त्या तु गङ्गायां यः प्रयच्छति मानवः। तत्तत्सुखमनन्तञ्च सम्प्राप्य चेह जन्मनि। प्रेत्थ चाप्नोति निर्वाणं परमं यन्निरञ्जनम्। यज्ञोदानं तपो ज्ञान श्राद्धञ्च सुरपूजनम्। गङ्गायान्तु कृतं सर्वं कोटिकोटिगुणं भवेत्” व्रतप्रकरणम् ब्रह्माण्डे “शाखितण्डलप्रस्थेन द्विप्रस्थपयसा तथा। पायसं पाचयित्वा तु मधुखण्डं घृतं तथा। प्रत्येकं पलमात्रन्तु तत्र निक्षिप्य भक्तितः। तत् पायसमपूपञ्च लड्डुकान् यावकानपि। तथा गुञ्जार्द्धमात्रन्तु सुवर्णं रूप्यमेव च। चन्दनागुरुकर्पूरकुङ्कुमानि च गुग्गुलुम्। विल्वपत्राणि दूर्वाश्च रोचनां सितसर्षपम्। नीलोत्पलस्य पत्राणि पत्राभावे फलानि च। यथा शक्त्या महाभक्त्या नङ्गायां यो विनिक्षिपेत्। मासि मासि पौर्णमास्यां दर्श वा प्रहरद्वये। श्रद्धयानेन मन्त्रेण यावत् संवत्सरं तथा। (ओं गङ्गायै नारायण्य ते नमो नमः)। इति मन्त्रेण सततं शतमष्टोत्तरं जपेत्। गङ्गाजलान्तर्भूत्वा तु तन्मनास्त्यक्तसंशयः। हविष्याशी मिताहारी यमी तेषु दिनेषु च। संवत्सरान्ते तस्यैषा गङ्गा दिव्य वपुर्धरा। दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपना। चारुरूपधरा देवी दिव्यरत्नविभूषिता। प्रत्यक्षरूपा पुरतस्तिष्ठत्येव वरप्रदा। एवं प्रत्यक्षतः साक्षात् गङ्गां दिव्यवपुर्धराम्। दृष्ट्वा स्वचक्षुषा मर्त्यो वरदानससुद्यताम्। यान् यान् कामयते कामांस्तांस्तान् सर्वानवाप्नुयात्। निष्कामस्तु परं मोक्षं लभते नात्र संशयः” श्राद्धप्रकरणम् भविष्ये “गयाश्राद्धं कृतं तेन उत्सृष्टश्च वृषस्तथा। येन गङ्गाम्भसा सिक्ते तीरे श्राद्धमकारि च। पितॄनुद्दिश्य यो भक्त्या पायसं मधुसंयुतम्। गुडसर्पिःसमायुक्तं गङ्गाम्भसि विनिक्षिपेत्। तृप्ताः पिबन्ति पितरस्तस्य वर्षशतत्रयम्” देवीपुराणे “अकालेऽप्यथ वा काले तीरे श्राद्धं तथा नरैः। प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं पितृतर्पणम्” अथ पिण्डप्रकरणम् देवीपुराणे “सकृद्गङ्गाभिगमनं कृत्वा पिण्डं ददाति यः। तारिताः पितरस्तेन भवाम्भोधेस्तिलोदकैः।” तत्रैव “गङ्गायाञ्च गयायाञ्च पिण्डदानं समं स्मृतम्। विशेषतः कलियुगे गङ्गापिण्डं प्रशस्यते। गङ्गायां पिण्डदानेन पितरस्तु तिलोदकैः। नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः। माहेन्द्रे विरजे चैव गयायां जाह्नवीतटे। अत्र पिण्डप्रदो याति ब्रह्मलोकमनामयम्” जलप्रकरणम् ब्राह्मे “योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्द्दनः। स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः”। लैङ्गे “ब्रह्महा गुरुहा गोघ्नस्तेयी च गुरुतल्पगः। नङ्गाम्भसा च पूयन्ते नात्र कार्य्या विचारणा”। ब्राह्मे “तिष्ठद्युगसहस्रन्तु पादेनैकेन यः पुमान्। मासमेकन्तु गङ्गाम्भः सेवते स विशिष्यते। मेरोः समुद्रस्य च रत्नरागेः संख्योपलानामुदकस्य वाचा। शक्यं वक्तुं नेह गङ्गाजलानां गुणाख्यानं परिमाणं तथैव” तोयदानप्रकरणम् भविष्ये “अन्नदानैश्च गोदानैश्च स्वर्णदानादिमिस्तथा। रथाश्वगजदानैश्च यत्फलं परिकीर्त्तितम्। ततः शतगुणं गङ्गातोयदानादवाप्नुयात्” महाभारते “चान्द्रायणसहस्रेण यश्चरेत् कायशोधनम्। यः पिवेद्वै यथेष्टञ्च गङ्गाम्भः सविशिष्यते गङ्गा- तीरे वसेन्नित्यं गङ्गातोयं पिवेत् सदा। दीक्षितः सर्व यज्ञेषु सोमपानं दिने दिने। गङ्गातोयाभिसंसिक्तां भिक्षामश्राति यो नरः। सर्पवत् कञ्चुकं मुक्त्वा पापानीह नरोत्तमः। स्वार्गापवर्गिकीं सिद्धिं प्राप्नोत्येव न संशयः स्कान्दे “गण्डूषमात्रपानैन अश्वमेधफलं लभेत्। स्वच्छन्दं यः पिबेदपस्तस्य मुक्तिः करे स्थिता” पाद्मे “त्रिभिः सारस्वतं तोयं सप्तभिश्चैव यामुनम्। नार्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्य्यति” अथ वासरूपसेवाप्रकरणम्। ब्राह्मे “तपसा ब्रह्मचर्य्येण यज्ञैस्त्यागेन वा गतिम्। न तां संलभते जन्तुर्गङ्गां संसेव्य यां लभेत्” नारदीये “किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः। वास एव हि गङ्गायां ब्रह्मज्ञानस्य कारणम्” महाभारते “पूर्वे वयस्यधर्मांश्च कृत्वा पापानि ये नराः। पश्चाद्गङ्गां समाश्रित्य तेऽपि यान्ति परां गतिम्” ब्रह्माण्डे “महापातकिनो ये च सेवन्ते यदि जाह्नवीम्। पातकेभ्योऽपि पञ्चभ्यः का कथाऽन्यस्य पाप्मनः” भविष्ये “त्रिरात्रं सप्तरात्रं वा स्थितिमात्रेण भक्तितः। गङ्गातीरे नरो यस्तु नरकं स न पश्यति”। विघ्नप्रकरणम् भविष्ये “षष्टिर्विघ्नसहस्राणि गङ्गां रक्षन्ति यत्नतः। निरासयन्त्यभक्तांश्च पापकर्मरतांस्तथा। कामक्रोधमदोत्साहलोभादिनिशितैः शरैः। प्रहरन्ति मनस्तेषां स्थितिं वै नाशयन्ति च” प्रतिग्रहप्रकरणम् मात्स्ये “यस्तत्र प्रतिगृह्णाति तीर्थेष्वायतनेषु च। हिरण्यं रजतं ताम्रं यच्चान्यद्वस्तु किञ्चन। निःफलं तस्य तत् तीर्थं यावत्तद्वस्तु चाश्नुते। वरं विक्रयणं मातुर्वरं विक्रयणं पितुः। अपि गङ्गाजलस्थन्तु न गृह्णीयात् कदाचन” स्मृतिः। “गङ्गाविक्रयणाद्राजन् विष्णोर्विक्रयणं भवेत्। जनार्दने तु विक्रीते विक्रीतं स्याज्जगत्त्रयम्” अभक्तिप्रकरणम् भविष्ये “गङ्गां प्राप्याथ ये मर्त्याः श्रद्धां भक्तिं न कुर्वते। तीर्थान्तरे रातं कुर्य्युस्ते वै निरयगामिणः”। कृतकृत्यप्रकरणम् ब्रह्माण्डे “गङ्गां संश्रित्य यस्तिष्ठेत्तस्याकार्य्यं न विद्यते। कृतकृत्यः स वै मुक्तो जीवन्मुक्तो भवेन्नरः”। मृत्युफलप्रकरणम् ब्राह्मे “ज्ञानतोऽज्ञानतो वापि कामतोऽकामतोऽपि वा। गङ्गायान्तु मृतो मर्त्यो मोक्षं स्वर्गञ्च विन्दति” भविष्ये “कृमिकीटपतङ्गाद्या ये मृता जाह्नवीजले। कूलान्निष्पतिता वृक्षास्तेऽपि यान्ति परां गतिम्” तथा “अपि योजनपर्य्यन्ते गङ्गां स्मृत्वा तनुं त्यजेत्। वैवस्व- तोऽपि तस्यार्घ्यं दत्त्वा स्वर्गं प्रयच्छति” स्कान्दे “अर्द्धोदके तु जाह्नव्या म्रियतेऽनशनेन यः। स याति न पुनर्जन्म ब्रह्मसायुज्यमेव च” अस्थिप्रक्षेपप्रकरणम् वनपर्वणि कौर्मे च “यावन्त्यस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य च। तावद्वर्षसहस्राणि ब्रह्मलोके महीयते। यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम्। तावद्वर्षसहस्राणि स्वर्गलोके महीयते” ब्रह्माण्डे “गङ्गातोये तु यस्यास्थि नीत्वा संक्षिप्यते नरैः। तत्कालमादितः कृत्वा स्वर्गे तस्य भवेत् स्थितिः। गङ्गाटोयेषु यस्यास्थि प्लाव्यते पुण्यकर्मणः। न तस्य पुनरावृत्तिर्ब्रह्मलोकात् कदाचन” केशादिप्रकरणम् ब्रह्माण्डे “केशलोमनखादीनि येषां पुंसान्तु वायुना। निक्षिप्यन्ते च गङ्गायां तेषां स्याद्वियति स्थितिः” अथ प्रकीर्णकम् ब्रह्माण्डे “दृष्ट्वा शतकृतं पापं स्पृष्ट्वा जन्मशतानि च। स्नात्वा जन्मसहस्राणि हन्ति गङ्गा कलौ युगे”। गङ्गाद्वारवाराणसीप्रयागादिप्रकरणम् मात्स्ये “सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा। गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे” वनपर्वणि “स्वर्गद्बारेण तत्तुल्यं गङ्गाद्वारं न संशयः। तत्राभिषेकं यः कुर्य्यात् सोऽश्वमेघमवाप्नुयात्” ब्रह्माण्डे वाराणस्यां विशेषेण गङ्गा नित्यं विमुक्तिदा। अनन्तकोटिकल्पोत्थं पापं पुंसां प्रणाशयेत्। वाराणस्यां विशेषेण सद्यः पापविनाशिनी। गङ्गायान्तु जले मोक्षो वाराणस्यां जले स्थले। जले स्थले चान्तरीक्षे गङ्गासागरसङ्गमे”। मोक्षप्रकरणम् स्कान्दे “ब्रह्मादिदेवलोकानां मुक्तेश्च प्राप्तये नृणाम्। गङ्गा च परमा हेतुः कलिकाले विशेषतः”। गङ्गामाहात्म्यं काशीख० विष्णुं प्रति शिवेनोक्तम् यथा
“ममैव सा परा मूर्त्तिस्तोयरूपा शिवात्मिका। ब्रह्माण्डानामनेकेषामाधारः प्रकृतिः परा। सिद्धविढ्यास्वरूपा च त्रिशक्तिः करणात्मिका। आनन्दाऽमृतरूपा च शुद्धधर्मखरूपिणी। तामेनां। जगतां धात्रीन्धारयामि खलीलया। विश्वस्य रक्षणार्थाय पर ब्रह्मस्यरूपिणीम्। त्रैलोक्ये यानि तीर्थानि पुण्यक्षेत्राणि यानि च। सर्वत्र सर्वे ये धर्म्माः सर्वे यज्ञाः सदक्षिणाः। तपांसि विष्णो! सर्वाणि श्रुतिः साङ्गा चतुर्मिता। अहञ्च त्वञ्च ब्रह्माच देवतानां गणाश्च ये। पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः। गङ्गायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः। स स्नातः सर्व- तीर्थेषु सर्वक्रतुषु दीक्षितः। चीर्ण्णसर्वव्रतः सोऽपि यस्तु गङ्गां निषेवते। तपांसि तेन तप्तानि सर्वदानप्रदः स च। स प्राप्तयोगनियमो यस्तु गङ्गां निषेवते। सर्ववर्ण्णाश्रमिभ्यश्च वेदविद्भ्यश्च वै तथा। शास्त्रार्थ पारगेभ्यश्च गङ्गास्नायी विशिष्यते। मनोवाक्कायजै र्दोषैर्दुष्टो बहुविधैरपि। वीक्ष्य गङ्गां भवेत् पूतः पुरुषो नात्र संशयः। कृते सर्वाणि तीर्थानि त्रेतायां पुष्करं परम्। द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव केवलम्। ध्यानं कृते मीक्षहेतुस्त्रेतायां तच्च वै तपः। द्वापरं तद्द्वयं यज्ञः कलौ गङ्गैव केवलम्। पूर्वजन्मान्तराभ्यासवासनावशतो हरे!। गङ्गातीरे निवासः स्यान्मदनुग्रहतः परम्। यो देहपातनाद्यावद्गङ्गातीरं न मुञ्चति। स हि वेदान्तविद्योगी व्रह्मचर्य्यव्रती सदा। कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम्। विधिहीनक्रियाणाञ्च गतिर्गङ्गां विना नहि। अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिन्तितम्। गङ्गागङ्गेति जपनात्तानि नोपविशन्ति हि। गङ्गा हि सर्वभूतानामिहामुत्र फलप्रदा। भावानुरूपतो विष्णो। सदा सर्वजगद्धिता। यज्ञदानतपोयोगजपाः सनियमा यमाः। गङ्गासेवासहस्रांशं न लभन्ते कलौ हरे!। किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः। वासएव हि गङ्गायां ब्रह्मज्ञानस्य कारणम्। अपि दूरस्थितस्यापि गङ्गामाहात्म्यवेदिनः। अयोगस्यापि गोविन्द!। भक्त्या गङ्गा प्रसीदति। श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परन्तपः। श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति। अज्ञानरागलोभाद्यैः पुंसां संमूढचेतसाम्। श्रद्धा न जायते धर्मे गङ्गायाञ्च विशेषतः। बहिःस्थितं जलं यद्वन्नारिकेलान्तरस्थितम्। तथा ब्रह्माण्डबाह्यस्थं परं ब्रह्माम्बु जाह्नवम्। गङ्गालाभात् परो लाभः क्वचिदन्यो न बिद्यते। तस्माद्गङ्गामुपासीत गङ्गैव परमः पुमान्। शक्तस्य पण्डितस्यापि गुणिनो दानशालिनः। गङ्गास्नानविहीनस्य हरे! जन्मनिरर्थकम्। वृथा कुलं वृथा विद्या वृथा यज्ञो वृथा तपः। वृथा दानानि तस्येह गङ्गाभक्तो न यो भवेत्। गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम्। यथा गङ्गाजले स्नातः पूजने विधिना फलम्। मम तेजोऽग्निगर्भेयं मम वीर्य्यातिसम्भृता। दाहिका सर्वदोषाणां सर्वपापविनाशिनी। स्मरणादव गङ्गायाः पापसङ्घातपञ्जरम्। शतधा भेदमायाति गिरिर्वज्रहतो यथा। गङ्गां गच्छति यस्त्वेको यस्तं भक्त्यानुमोदयेत्। तयोस्तुल्यं फलं प्राहुर्मक्तिरेवात्र कारणम्। गच्छंस्तिष्ठन् स्वपन् भुञ्जन् ध्यायन् जाग्रत् श्वसन् वदन्। यः स्मरेत् सततं गङ्गां स हि मुच्येत बन्धनात्। पितॄनुद्दिश्य यो भक्त्या पायसं मधुसंयुतम्। गुडसर्पिंस्तिलैः सार्द्धं गङ्गाम्भसि विनिःक्षिपेत्। तृप्ता भवन्ति पितरस्तस्य वर्षशतं हरे!। यच्छन्ति विविधान् कामान् भूरिभूतान् पितामहाः। लिङ्गेशे पूजिते सर्वमर्चितं स्याज्जगद्यथा। गङ्गास्नानेन लभते सर्वतीर्थफलं तथा। गङ्गायान्तु नरः स्नात्वा यो लिङ्गं नित्यमर्च्चति। एकेन जन्मना मुक्तिं परां प्राप्नोति स घ्रुवम्। अग्निहोहोत्राणि यज्ञाश्च तथा दानतपांसि च। गङ्गायां लिङ्गपूजायाः कोट्यंशेनापि नो समाः। गङ्गां गन्तुं विनिश्चित्य कृत्वा श्राद्धादिवं गृहे। स्थितस्य सम्यक् सङ्कल्पात् तस्यानन्दन्ति पूर्वजाः। पापानि च रुदन्त्याशु हा क्व यास्याम इत्यलम्। लोभमोहादिभिः सार्द्धं मन्त्रयन्ति पुनः पुनः। यथा गङ्गां न यात्येष तथा विघ्नं प्रकुर्महे। गङ्गां गतो यदा चैव न उच्छित्तिं विधास्यति। गृहाद्गङ्गावगाहार्थं गच्छतस्तु पदे पदे। निराशानि व्रज्रन्त्येव पापान्यस्य शरीरतः। पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे!। व्युदस्य सर्वविघ्नाघान् गङ्गां प्राप्नोति पुण्यवान्। अनुषङ्गेण शुल्केन बाणिज्येनापि सेवया। कामासक्तोऽपि वा मर्त्योर्गङ्गास्नायी दिवं व्रजेत्। अनिच्छयापि संस्पृष्टो दहनोऽपि यथा दहेत्। अनिच्छयापि संस्नाता गङ्गा पापं तथा दहेत्। तावद्भ्रमति संसारे यावदगङ्गां न सेवते। संसेव्य गङ्गां नो जन्तुर्भवक्लेशं प्रपश्यति। यो गङ्गाम्भसि संस्नातो भक्त्या संत्यक्तसंशयः। मनुष्यचर्मणा नद्धः स देवो नात्र संशयः। गङ्गास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि। गङ्गास्नानफलं सोऽपि तदाप्नोति न संशयः। महात्म्यं ये च गङ्गायाः शृण्वन्ति च पठन्तिं च। तेऽप्यशेषैर्महापापैर्मुच्यते नात्र संशयः। दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः। पश्यन्ति मोहिता विष्णी! गङ्गामन्यां नदीमिव। जन्मान्तरकृतैर्दानैस्तपोभिर्नियमैर्ब्रतैः। इह जन्मनि गङ्गायां नृणां भक्तिः प्रजायते। गङ्गाभक्तिमतामर्थे महेन्द्रादिपुरेषु च। हर्म्याणि रस्यभोगाणि निर्मितानि स्वयम्भुवा। सिद्धयः सिद्धलिङ्गानि स्पर्शलिङ्गान्यनेकशः। प्रासादा रत्न- रचिताश्चिन्तामणिगणा अपि। गङ्गाजले न तिष्ठन्ति कलिपापानि भीतितः। अतएव हि संसेव्या कलौ गङ्गेष्टसिद्धिदा। सूर्य्योदये तमांसीव वज्रिवज्रमयान्नगाः। तार्क्ष्येक्षणाद्यथा सर्पाः मेघा वाताहता यथा। तत्त्वज्ञानाद्यथा मोहाः सिंहं दृष्ट्वा यथा मृगाः। तथा सर्बाणि पापानि यान्ति गङ्गेक्षणात् क्षयम्। दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः। यथा ग्रीष्मोष्मसन्तप्तिरगाधह्रदमज्जनात्। तूलशैलाः स्फुलिङ्गेन यथा नश्यन्ति तत्क्षणोत्। तथा दोषाः प्रणश्यन्ति गङ्गाम्भःस्पर्शनाद्ध्रुवम्। क्रोधेन च तपोयद्वत् कामेन च यथा मतिः। अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा। दम्भकौटिल्यमायाभिर्यथा धर्मो विनश्यति। तथा नश्यन्ति पापानि गङ्गायादर्शनेन तु। मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम्। गङ्गां यः सेवते सोऽत्र बुद्धेः पारं परं गतः। विधूतपापाये मर्त्याः परज्योतिःस्वरूपिणीम्। सहस्रसूर्य्यप्रतिमां गङ्गां पश्यन्ति ते भुवि। साधारणाम्भसा पूर्णां साधारणनदीमिव। पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः। संसारमोचकश्चाहं जनानामनुकम्पया। गङ्गातरङ्गरूपेण सोपानं निर्ममे दिवः। सर्व एव शुभः कालः सर्वो देशस्तथा शुभः। सर्वे जना दानपात्रं श्रीमति जाह्नवीतटे। यथाश्वमेधो यज्ञानां नगानां हिमवान् यथा। व्रतानान्तु यथा सत्यं दानानामभयं यथा। प्राणायामश्च तपसां मन्त्राणां प्रणवो यथा। धर्माणामप्यहिंसा च कन्यानां श्रीर्यथा वरा। यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा। सर्वदेवगणानाञ्च यथाहं परमेश्वरः। सर्वेषामेव भक्तानां शिवमक्तो यथा वरः। तथा सर्वेषु तीर्थेषु गङ्गातीर्थं विशिश्यते। हरे! यस्त्वावयोर्भेदं न करोति महामतिः। शिवभक्तः स विज्ञेयो महापाशुपतश्च सः। पापपांशुमहावात्या पापद्रुमकुठारिका। यापेन्धनदवाग्निश्च गङ्गेयं पुण्यवाहिनी। नानारूपाश्च पितरो गाथां गायन्ति सर्वदा। अपि कश्चित् कुलेऽस्माकं गङ्गास्नायी भविष्यति। देवर्षीन् परिसन्तर्प्य दीनानाथांश्च दुःखितान्। श्रद्धया विधिना स्नात्वा दास्यते सलिलाञ्जलिम्। अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक्। तदालयकरो भक्त्या तत्र सम्मार्ज्जनादिकृत्। अकामो वा सकामो वा तिर्थ्यग्योनिगतोऽपि वा। गङ्गायां यो मृतो मर्त्यो नरकं न स पश्यति। तीर्थमन्यत् प्रशंसन्ति गङ्गातीरे स्थिताश्च ये। गङ्गां न बहु मन्यन्ते ते स्युर्निरयगामिणः। माञ्च त्वाञ्चैव गङ्गाञ्च यो द्वेष्टि पुरुषाधमः। स्वकीयैः पितृभिः सार्द्धं स घोरं नरकं व्रजेत्। षष्टिर्गणसहस्राणि गङ्गां रक्षन्ति सर्वदा। अभक्तानाञ्च पापानां वासे विघ्नं प्रकुर्बते। कामक्रोधमहामोहलोभादिनिशितैः शरैः। घ्नन्ति तेषां मनस्तत्र स्थितिञ्चापनयन्ति च। गङ्गां समाश्रयेत् यस्तु स मुनिः स च पण्डितः। कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये। गङ्गायाञ्च सकृत्स्नातो हयमेधफलं लभेत्। तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात् नैरन्तर्य्येण गङ्गायां मासं यः स्नाति पुण्यभाक्। स शक्रलोके वसति यावच्छक्रः सपूवैजः। अव्दं स्नाति च गङ्गायां नैरन्तर्य्येण पुण्यवान्। विष्णुलोकं समागत्य समुखं संवसेन्नरः!। गङ्गायां स्नाति यो मर्त्यो यावज्जीवं दिने दिने। जीवन्मुक्तः स विज्ञेयो देहान्ते मुक्त एव सः। तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवीजले। स्नानमात्रेण गङ्गायां सञ्चिताघं विनश्यति। पण्डितोऽपि स मूर्खः स्याच्छाक्तियुक्तोऽप्यशक्तिकः। यस्तु भागीरथीतीरं सुखसेव्यं न संश्रयेत्। किमायुषाप्यरोगेण विकाशिन्याथ किं श्रिया। किंवा बुद्ध्या विमलया यदि गङ्गां न सेवते। यः कारयेदायतनं गङ्गाप्रतिकृतेर्नरः। भुक्त्वा स भोगान् प्रेत्यापि याति गङ्गासलोकताम्। शृण्वन्ति महिमानं ये गङ्गाया नित्यमादरात्। गङ्गास्नानफलं तेषां वाचकप्रीणनाद्धनैः। पितॄनुद्दिश्य यो लिङ्गं स्नपयेद्गाङ्गवारिणा। तृप्ताः स्युस्तस्य पितरो महानिरयगा अपि। अष्टकृत्वो मन्त्रजप्तैर्वस्त्रपूतैः सुगन्धिभिः। प्रोचुर्गाङ्गैर्जलैः स्नानं घृतस्नानादिकं बुधाः। आपः क्षीरकुशाग्राणि घृतं दधि गवां मघु। रक्तानि करवीराणि रक्तचन्दनमित्यपि। अष्टद्रव्यविमिश्रेण गङ्गातोयेन यः सकृत्। माघव! प्रस्थमात्रेण ताम्रपात्रस्थितेन च। भानवेऽर्घं प्रदद्याच्च स्वकीयपितृभिः सह। सोऽतितेजोविमानेन सूर्य्यलोके महीयते। अष्टाङ्गोऽर्घोऽयमुद्दिष्टस्त्वतीव रवितोषणः। गाङ्गैर्वाभिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः। नङ्गातीरेषु शक्त्या यः कुर्य्याद्देवालयं सुधीः। अन्यतीर्थप्रतिष्ठातो लभेत् कोटिगुणं फलम्। कूपवापीतडागादिप्रपादानादिभिस्तथा। अन्यत्र यद्भवेत् पुण्यं तदगङ्गा- दर्शनाद्भवेत्। अश्वत्थवटवृक्षादिवृक्षारोपेण यत् फलम्। पुष्पवाट्यादिभिश्चापि गङ्गास्पर्शस्ततोऽधिकः। कन्यादानेन यत् पुण्यं यत् पुण्यं गोप्रदानतः। तत् पुण्यं स्याच्छतगुणं गङ्गागण्डूषपानतः। चान्द्रायणसहस्रेण यत् फलं स्याज्जनार्दन!। ततोऽधिकं फलं गङ्गाऽमृतपानादवाप्नुयात्। भक्त्या गङ्गावगाहस्य किमन्यत् फलमुच्यते। अक्षयः स्वर्गवासोऽपि निर्वाणमथ वा हरे!। गङ्गायाः पादुकायुग्मं नित्यमर्च्चति यो नरः। आयुः पुण्यं धनं पुत्रान् स्वर्गमोक्षौ च विन्दति। नास्ति गङ्गासमं तीर्थं कलिकल्मषनाशनम्। नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे!। गङ्गास्नानरतं मर्त्यं दृष्ट्वैव यमकिङ्करा। दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः। गङ्गाव्रजनशींलस्य गङ्गातटनिवासिनः। अर्च्चां कृत्वा यथान्यायमश्वमेधफलं लभेत्। गोभूहिरण्यदानेन भक्त्या गङ्गातटे शुभे। नरो न जायते भूयः संसारे दुःखसङ्कटे। दीर्घायुष्यञ्च वासोभिर्ज्ञानं पुस्तकदानतः। अन्नदानेन सम्पत्तिः कीर्त्तिः कन्याप्रदानतः। अन्यत्र यत् कृतं कर्म व्रतं दानं जपस्तपः। गङ्गातटे तु तत् सर्वं हरे! कोटिगुणं भवेत्। धेनुं पयस्विनीं दद्यात् गङ्गातीरे विधानतः। गोरोमसंख्यया विष्णोर्युगान् सर्वं समृद्धिदान्। गोलोके मम लोके वा कामधेनुव्रजावृतः। भुञ्जानः सर्वकामांस्तु दिव्यान् नानाविधान् बहून्। देवानामप्यलभ्यांश्च भुक्त्वा तु सह बान्धवैः। पिवृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः। जायते सुकुले पश्चाद्धनधान्यसमाकुले। रत्नकाञ्चनसम्पूर्णे शीलविद्यासमन्विते। भुक्त्वा च विपुलान् भोगान् पुत्रपौत्रसप्तन्वितः। पुनर्गङ्गां समासाद्य काश्यामुत्तरवाहिनीम्। विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात्। कालाद्देहान्तमासाद्य ब्रह्म सम्पद्यते ततः। निर्वर्त्तनद्वयमपि भूमेर्भागीरथीतटे। नरो ददाति योभक्त्या तस्य पुण्यफलं शृणु। तद्भूमित्रसरेणूनां संख्यया युगमानया। महेन्द्रचन्द्रलोकेषु भुक्त्वा भोगान् मनःप्रियान्। सप्तद्वीपपतिर्भूत्वा महाधर्मपरायणः। नरकस्थानपि पितॄन्। प्रापय्य त्रिदिवं व्रजेत्। स्वर्गस्थांश्च पितॄन् सर्वान् मोचयित्वा महाद्युतिः। अन्तेज्ञानासिना छित्त्वा हाविद्यां पाञ्चभौतिकीम्। परं वैराग्यमापन्नो युञ्जानो योगमुत्तमम्। प्राप्याथ वाऽविमुक्तञ्च परं ब्रह्माधि- गच्छति। सुवर्णमात्रमपि यः सुवर्णं वा प्रयच्छति। सुवर्णञ्च सुविप्राय हरे! भागीरथीतटे। स हेमरत्नखचिते विमाने सर्वगे शुभे। सर्वैश्वर्य्यसमायुक्तः सर्वलोकेषु पूजितः। ब्रह्माण्डान्तरसंस्थेषु भुक्त्वा भोगान् मनोरमान्। तर्वैः संपूजितो विष्णो! यावदाहूतसंप्लवम्। एकराट् च ततोभूत्वा जम्बुद्वीपे प्रतापवान्। ततोऽविमुक्तमासाद्यपरं निर्वाणमृच्छति। जन्मर्क्षे तु कृते स्नाने गङ्गायां भक्तिपूर्वकम्। जन्मप्रभृतिपापौघात् संचितात् मुच्यते क्षणात्। वैशाखे कार्त्तिके माघे गङ्गास्नानं सुदुर्लभम्। दर्शे शतगुणं पुण्यं संक्रान्तौ च सहस्रकम्। चन्द्रसूर्य्यग्रहे लक्षं व्यतीपाते त्वनन्तकम्। अयुतं विषुवे चैब नियुतन्त्वयनद्वये। सोमग्रहः सोमदिने, रविवारे रवेर्ग्रहः। तच्चूडामणिपूर्वाख्यं तत्र स्नानमसंख्यकम्। स्नानं दानं जपोहोमो यच्च चूडामणौ कृतम्। तदक्षयमिदं सर्वं विष्णो! भागीरथीतटे। श्रद्धया भक्तियुक्तस्तु गङ्गां स्नात्वा विधानतः। ब्रह्महापि विशुद्ध्येत किं पुनस्त्वन्यपातकी। कृमिकीटपतङ्गाद्या ये मृता जाह्नवीजले। कूलात् पतन्ति ये वृक्षा स्तेऽपि यान्ति परां गतिम्”। अन्यान्यपि तत्रत्य फलानि प्रा० त० उक्तानि तत्र दृश्यानि। व्रह्माण्डे “गङ्गां पुण्यजलां प्राप्य त्रयोदश विवर्जयेत्। शौचमाचमनं सेकं निर्माल्यं मलघर्षणम्। गात्रसंवाहनं क्रीडां प्रतिग्रहमथोऽरतिम्। अन्यतीर्थरतिञ्चैव अन्यतीर्थप्रशंसनम्। विण्मूत्रादिमलोत्सर्गं सन्तारञ्च विशेषतः”। तस्याश्च वैशाखशुक्लतृतीयायां ब्रह्मलोकात् हिमवति पतनं ततो भूमौ पतनञ्च दशहरायां यथा “वैशाखशुक्लपक्षे तु तृतीयायां जनार्दनः। यवानुत्पादयामास युगं चारब्धवान् कृतम्। ब्रह्मलोकात्त्रिपथगां पृथिव्यामवातारयत्” ब्रह्मपुराणम्। “ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम्” ति० त० धृतवाक्यम्। एतयोरविरोधाय तथा व्यवस्था। ३ तज्जलाधिष्ठातृदेवीभेदे। गङ्गाया इदम् नदीपरत्वे अवृद्धत्वात् अण्। गाङ्ग तत्सम्बन्धिनि। “गाङ्गमम्बुसितमम्बुयामुनम्” काव्यप्र०। “गाङ्गं जलं निर्मलम्” गङ्गा स्तीत्रम्। “गाङ्गं वर्षेण जीर्य्यति” पद्मपु०। नदीपरत्वाभावे गङ्गाया अपत्यं ढक्। गाङ्गेय गङ्गादेव्यपत्ये भीष्मे कार्त्तिकेये च। “गङ्गाप्रवाहोक्षितदेवदारु” कुमा० “गङ्गास्रोतोऽन्तरेषु सः” रघुः। ४ नदीमात्रे च। सप्तनङ्गम् सि० कौ०।
गङ्गाक्षेत्र = न० ६ त०। “तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यते” इत्युक्ते गङ्गातीरादुभयपार्श्वस्थक्रोशद्वयमितस्थाने।
गङ्गाचिल्ली = स्त्री गङ्गास्था नदीस्था चिल्ली। चिल्लभेदे (गा~गचिल) हारा०।
गङ्गाज = पु० गङ्गातो जायते जन–ड। १ भीष्मे २ कार्त्तिकेये च तत्र भीष्मस्य गङ्गातो जन्मकथा। “स राजा शान्तनुर्धीमान् देवराजसमद्युतिः। बभूव मृगयाशीलः सततं वनगोचरः। स मृगान महिषांश्चैव विनिघ्नन्राजसत्तमः। गङ्गामनुचचारैकः सिद्धचारणसेविताम्। स कदाचिन्महाराज! ददर्श परमां स्त्रियम्। जाज्वल्यमानां वपुषा साक्षाच्छियमिवापराम्। सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्। सूक्ष्माम्बरधरामेकां पद्मोदरसभप्रभाम्। तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसम्पदा। पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः। सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्। स्नेहादागतसौहार्द्दा नातृप्यत विलासिनी। तामुवाच ततो राजा सान्त्वयन् श्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी वाथ वाप्सराः। यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे!। याचे त्वां सुरगर्भाभे! भार्य्या मे भव शोभने।” भा० आ० ९७ अ०। “एतत् श्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। वसूनां समयं स्मृत्वाऽथाभ्यागच्छदनिन्दिता। उवाच चैवं राज्ञः सा ह्लादयन्ती मनो गिरा। भविष्यामि महीपाल! महिषी ते वशानुगा। यत्तु कुर्य्यामहं राजन्! शुभं वा यदि वाऽशुभम्। न तद्वारयितव्यास्मि न वक्तव्या तथाऽप्रियम्। एवं हि वर्त्तमानेऽहं त्वयि वत्स्यामि पार्थिव!। वारिता विप्रियञ्चोक्ता त्यजेयं त्वामसंशयम्। तथेति राज्ञा सा तूक्ता तदा भरतसत्तम!। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्। आसाद्य शान्तनुस्ताञ्च बुभुजे कामतो वशी। न प्रष्टव्येति मन्वानो न स तां किञ्चिदुक्तवान्। स तस्याः शीलवृत्तेन रूपौदार्य्यगुणेन च। उपचारेण च रह स्तुतोष जगतीपतिः। दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी। मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी। भाग्योपनतकामस्य भार्य्योवोपस्थिताऽभवत्। शान्तनोराजसिंहस्य देवराजसमद्युतेः। सम्भोगम्नेहचातुर्य्यैर्हावलास्यमनोहरैः। राजानं रमयामास तथा रेमे तयैव सः। स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः। संवत्सरानृतून् मासान् बुबुधे न बहून् गतान्। रममाणस्तया सार्द्धं यथाकामं नरेश्वरः अष्टावजनयत् पुत्रांस्तस्याममरसन्निभान्। जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत!। प्रीणामि च त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत्। तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा। न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः। अथैनामष्टमे पुत्रे जाते प्रहसतीमिव। उवाच राजा दुःखार्त्तः परीप्सन् सुतमात्मनः। मा वधीः कासि कस्यासि किञ्च हंसि सुतानिति। पुत्रघ्नि! सुमहत् पापं संप्राप्तं ते विगर्हिते!। स्त्र्युवाच। पुत्रकाम! न ते हन्मि पुत्रं पुत्रवतां वर!। जीर्णोऽस्तु मम वासोऽयं यथा स समयः कृतः। अर्ह गङ्गा जह्नुसुता महर्षिगणसेविता। देवकार्य्यार्थसिद्ध्यर्थमुषिताहं त्वया सह। इमेऽष्टौ वसवो देवा महाभागा महौजसः। वशिष्ठशापदोषेण मानुषत्वमुपागताः। तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते। मद्विधा मानुषी धात्री लोके नास्तीह काचन। तेषाञ्च जननीहेतोर्मानुषत्वमुपागता। जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः। देवानां समयस्त्वेष वसूनां संश्रितो मया। जातं जातं मोक्षयिष्ये जन्मतो नानुषादिति। तत्ते शापाष्ठिनिर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्। एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः। मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम्” ९८ अ०। “स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्। भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः। तां दृष्ट्वा चिन्तयाभास शान्तनुः पुरुषर्षभः। स्यन्दते किं त्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा। ततो निमित्तमन्विच्छन्ददर्श स महामनाः। कुमारं रूपसम्पन्नं वृहन्तञ्चारुदर्शनम्। दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्। कृत्स्नां गङ्गा समावृत्य शरैस्तीक्ष्णैरवस्थितम्। तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम्। जातमात्रं पुरा दृष्ट्वा तं पुत्रं शान्तनुस्तदा। नोपलेमे स्मृतिं धीमानभिज्ञातुं तमात्मजम्। स तु तं पितरं दृष्ट्वा मोहयामास मायया। संमोह्य तु ततः क्षिप्रं तत्रैवान्तर- घीयत। तदद्भुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह। दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम्। अलङ्कृतामाभरणैर्विरजोऽम्बरघारिणीम्। दृष्टपूर्वामपि स तां नाभ्यजानात् स शान्तनुः। गङ्गोवाच। यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः। स चायं पुरुषव्याघ्र! सर्वास्त्रविदनुत्तमः। गृहाणेमं महाराज! मया संवर्द्धितं सुतम्। आदाय पुरुषव्याघ्र! नयस्वैनं गृहं विभो!” भा० आ० १०० अ० “गङ्गाज। लङ्केशवनारिकेतुः” भा० वि० ३९ अ०। गङ्गाजेत्यत्र मुद्रितपुस्तके नदीजेति पाठः। कार्त्तियेस्य गङ्गातो जन्मकथा अग्निगर्भशब्दे ५५ पृ० उक्ता। गङ्गाजातगङ्गातनयादयोऽप्युभयत्र।
गङ्गाटेय = पु० गङ्गाया नद्यास्तटे याति या–क पृषो० तलोपः अलुक् स०। (चिङ्गिडी) मत्स्यभेदे त्रिका०।
गङ्गादत्त = पु० गङ्गया दत्तः। भीष्मे गङ्गाजशब्दे दृश्यम्।
गङ्गादित्य = पु० काशीस्थे विश्वेशाद्दक्षिणस्थिते आदित्यभेदे “गङ्गादित्योऽस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै। तस्य दर्शनमात्रेण नरः शुद्धिमियादिह। यदा गङ्गा समा याता भगीरथपुरस्कृता। तदा गङ्गां परिष्टोतुं रविस्तत्रैव संस्थितः। तस्याप्यहर्न्निशं गङ्गां संमुखीकृत्यभास्करः। परिष्टौति प्रसन्नात्मा गङ्गाभक्तवरप्रदः। गङ्गादित्यं समाराध्य वाराणस्यां नरोत्तमः। न जातु दुर्गतिं क्वापि लभते च न रोगभाक्” काशीख० ५१ अ०।
गङ्गाद्वार = न० गङ्गाया भूम्यवतरणद्वारम्। मायापुर्यां हरिद्वारे “ततो मायापुरीं प्राप्तः दुष्प्रापां पापकारिभिः। यत्र सा वैष्णवी माया जन्तून् पाशैर्न पाशयेत्। केचिदूवुर्हरिद्वारं मोक्षद्वारं जगुः परे। गङ्गाद्वारञ्च केऽप्याहुः केचिन्मायापुरीं पुनः। यतोविनिर्गता गङ्गा ख्याता भागीरथी भुवि। यन्नामोच्चारणात् पुंसां पापं याति सहस्रधा। वैकुण्ठस्यैकसोपानं हरिद्वारं जगुर्जनाः। तत्राप्लुता नरा यान्ति तद्विष्णोः परमं पदम्” काशीख० ७ अ०।
गङ्गाधर = पु० गङ्गां धरति मूर्द्ध्रा धृ–अच् ६ त०। १ महादेवे अमरः। गङ्गाशब्दे तद्धारणकथा दृश्या गङ्गामृदादवोऽप्यत्र। २ समुद्रे त्रिका०। लोलम्बराजोक्ते जीर्ण्णातिसारनाशके चूर्णभेदे यथा “धातक्यामलकीपयोधरवृकीकट्वङ्गयष्टीमधुश्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः। तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह- च्चूर्णंतूर्णमपाकरोति सकलं जीर्ण्णातिसारं परम्”।
गङ्गाधररस = पु० वैद्यकप्रसिद्धे औषधभेदे!
गङ्गापत्री = स्त्री गङ्गेव शुभ्रं पत्रमस्याः ङीप। सुगन्धिकायां वृक्षभेदे राजनि०।
गङ्गापुत्र = पु० ६ त०। गङ्गातनये १ भीष्मे २ कार्त्तिकेये च “लेटात् तीवरकन्यायां गङ्गापुत्र इति स्मृतः” ब्रह्मवै० पु० उक्ते सङ्कीर्णजातिभेदे (मुरदाफरास)।
गङ्गायात्रा = स्त्री० गङ्गामुद्दिश्य यात्रा। गङ्गामरणार्थं यात्रायाम्
गङ्गालहरी = स्त्री ६ त०। १ गङ्गायास्तरङ्गसन्ततौ २ जगन्नाथपण्डितरचिते गङ्गास्तोत्रभेदे च।
गङ्गावतार = पु० गङ्गाया अवतारः ब्रह्मलोकात् भूमौ पतनमत्र। गङ्गाद्वाररूपे तीर्थभेदे ६ त०। तस्या भूर्मा २ अवतरणे च। “भगीरथ इव दृष्टगङ्गावतारः” काद०
गङ्गावाक्यावली = गङ्गामाहात्म्यादिप्रतिपादकानां वाक्यानामाबली। स्मृतिनिबन्धभेदे।
गङ्गासागर = पु० गङ्गया सङ्गतः सागरः शा० त०। गङ्गासागरयोः सङ्गमरूपे तीर्थभेदे।
गङ्गासुत = पु० ६ त०। १ भीष्मे, २ कार्त्तिकेये च हम०।
गङ्गाह्रद = पु० गङ्गाया ह्रद इव। भारतप्रसिद्धे स्वस्तिपुरस्थे १ कूपरूपे तीर्थभेदे। “ततः स्वस्तिपुरं गच्छेत्” इत्युपक्रमे “गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ!। तिस्रः कोट्यश्च तीर्थानां तत्र कूपे महीपते!। तत्र स्नात्वा नरो राजन्! स्वर्गलोकं प्रपद्यते” भा० व० ८३ अ०। २ कोटितीर्थस्थे तीर्थभेदे च “कोटितीर्थे सुतपसा लभेदिह सुवर्णकम्। गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम!। तत्र स्नायीत धर्म्मज्ञ! व्रह्मचारी समाहितः। राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः”। तत्राध्याये “६ त०। ३ गङ्गायाह्रदे च।
गङ्गुक = पु० कङ्गुक + पृषो०। कङ्गुके धान्यभेदे (काङनी) सुश्रु०। “रक्तशालियष्टिकगङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादयः”।
गङ्गोद्भेद = पु० गङ्गायाः उद्भेदः प्रथमप्रकाशो यत्र। तीर्थभेदे। “गङ्गोद्भेदं समासाद्य तर्पयेत् पितृदेवताः। वाजपेयमवाप्नोति ब्रह्मभूतो भवेत् सदा” भा० वन० ८१ अ०
गङ्गोज्झ = न० गङ्गया उज्झ्यते उज्झ–कर्मणि घञ्। गङ्गा स्रोतःशून्ये जलादौ।
गङ्गोल = पु० गोमेदकनामके मणिभेदे हारावली।
गच्छ = पु० गम–सम्प० क्विप् मलोपे तुक् च गतंगतिं छ्यति छो–क। १ वृक्षे त्रिका०। लीलावत्युक्ते श्रेढीव्यवहारे प्रवृत्तगत्यादिक्रियाविरतिकारके २ पदसंज्ञे स्थाने पु०। तज्ज्ञानार्थं तत्राह “श्रेढीफलादुत्तरलोचनघ्नाच्चयार्द्ध्ववक्त्रान्तरवर्गयुक्तात्। मूलं मुखोनं चयखण्डयुक्तं चयोद्धृतं गच्छमुदाहरन्ति। उदाहरणम्। द्रम्मत्रयं यः प्रथमेऽह्नि दत्त्वा दातुं प्रवृत्तोद्विचयेन तेन। शतत्रयं षष्ट्यधिकं द्विजेभ्यो दत्तं कियद्भिर्दिवसैर्वदाशु। न्यासः आदिव०। ३। चयः। २। गच्छः। ०। सर्वधनं ३६०। लब्धो गच्छः १८। अथ द्विगुणोत्तरादिफलानयने करणसूत्रं सार्द्धवृत्तम्। विषमे गच्छे व्येके गुणकः स्थाप्यः समेऽर्द्धिते वर्गः। गच्छक्षयान्त्यमन्त्याद्व्यस्तं गुणवर्गजं फलं यत्तत्। व्येकं व्येकगुणोद्धृतमादिगुणं स्याद्गुणोत्तरे गणितम्। उदाहरणम्। पूर्बं वराटकयुगं येन द्विगुणोत्तरं प्रतिज्ञातम्। प्रत्यहमर्थिजनाय स मासे निष्कान् ददाति कति। न्यासः आदिः। २। चयोद्विगुणः २। गच्छः। ३०। लब्धावराटकाः। २१४७८६ ४६। निष्कवराटिकाभिर्भक्ताजाता निष्काः। १०४८५७। द्रम्माः। ९। पणाः। ९। काकिण्यौ। २। वराटकाः। ६। उदाहरणम्। आदिर्द्विकं सखे! वृद्धिः प्रत्यहं त्रिगुणोत्तरा। गच्छः सप्तदिनं यत्र गणितं तत्र किं वद। न्यासः। आदिः। २। चयोगुणः ३। गच्छः। ७। लब्धं गणितम्। २१८६” शब्दकल्पद्रुमे निर्विसर्गगच्छेत्यस्य विभक्त्यन्तस्य शब्दत्वकल्पनेनार्थकथनमतीव हास्यास्पदम् गच्छेत्यस्य विभक्त्यन्ततया पदत्वेन शब्दत्वाभावात् अन्यथा नानाविभक्तियोगेन नानाशब्दार्थकथनापत्तेः।
गज = मदे स्वने च भ्वा० पर० अक० सेट्। भजति अगाजीत् अजगीत्। जगाज। गजः।
गज = स्वने भ्वा० इदित् पर० अक० सेट्। गञ्जति अगञ्जीत्। जमञ्ज। गञ्ज्यते। गञ्जा।
गज = खने चुरा० उभ० अक० सेट्। गजयति ते अजग जत् त।
गज = पुंस्त्री० गज–मदे अच। १ हस्तिनि “नगजा न गजा दयिता दयिताः” भट्टिः। इभशब्दे विवृतिः। स्त्रियां जातित्वात् ङीष्। २ अष्टसंख्यायाम् गजानामैरावतादीनमष्टत्वात् तथात्वम्। “कृत्वा त्रिघ्नं गर्जर्हृत्वा” ज्यो० त० “गजभुक्तशेषम्” तन्त्रसा०। “अरत्नीनां शतान्यष्टा- वेकषष्ट्यान्वितानि च। गजप्रमाणमाख्यातं मुनिभिर्मानवेदिभिः” शब्दार्थचि० उक्ते ३ मानभेदे। “साधारणनराङ्गुल्या त्रिंशदङ्गुलको गजः” इत्युक्ते ४ मानभेदे। ५ मानमात्रे ६ वास्तुमानभेदे च मेदि०। स च ज्यो० त० उक्तः यथा “प्रस्तारदैर्घ्यमानं तु स्वहस्तेन तथा नरैः। कृत्वा त्रिघ्नं गजैर्हृत्वा वास्तुमाननिरूपणम्। ध्वजो धूमश्च सिंहश्च श्वा वृषः खर एव च। गजः काकपदं चैव मानान्यष्टौ च वास्तुनः” ज्यो० त०। “पुष्टिर्गजे काकपदे विनाशः” तत्फलम् ७ औषधपाकार्थे गर्त्तभेदे वैद्यकम् गजपुटशब्दे दृश्यम्। गजानां समूहः तल्। गजता तत्समूहे स्त्री। ततः ऊर्द्ध्वमाने दघ्नच्, गजदघ्न, द्वयसच्, गजद्वयस, गजतुल्योर्द्धपरिमाणे त्रि०। स्त्रियां ङीप्। “द्वितीयश्च तृतीयश्च ऊर्द्ध्वमाने सती मम” व्या० का० उक्तेः ऊर्द्ध्वमान एव तयोः प्रयोगः। परिमाणमात्रे तु मात्रच्। गजमात्र इत्येव त्रि०।
गजकन्द = पु० गजो गजदन्त इव कन्दोऽस्य। (हातिका~दा) हस्तिकन्दे वृक्षे राजनि
गजकर्ण = पु० गजस्य कर्ण इव कर्णोऽस्य। १ यक्षभेदे “कुस्तुम्बरुः पिशाचश्च गजकर्णो विशालकः” भा० स० १० अ०। यक्षकथने। २ औषधिभेदे स्त्री ङीप्। “गजकर्णी तु तिक्तोष्णा तथा वातकफान् जयेत्। शीतज्वरहरा स्वादुः पाके तस्यास्तु कन्दकः। पाण्डुरोगकृमिप्लीहागुल्मानाहोदरापहः। ग्रहण्यर्शोविकारघ्नो वनशूरणकन्दवत्” भावप्र०।
गजकूर्म्माशिन् = पु० गजश्च कूर्म्मश्च तौ अश्नाति अश–भोजने णिनि। १ गरुडे शब्दरत्ना० गजकच्छपभोजीत्यादयोऽप्यत्र। तौ च विभावसुप्रतीकमुनी अन्योन्यशापाद् गजंकूर्न्मतां प्राप्तौ गरुडेन भक्षितौ यथाह भा० आ० २९ अ० “आसीद्विभावसुर्नाम भहर्विः कोपनो भृशम्। भ्राता तखानुजश्चासीत् सुपतौको महावपाः। स नेच्छति धनं भ्रात्ना सहैकस्थं महामुनिः। विभागं कीर्त्तयत्येव सुप्ततीकी हि निव्यशः। अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः। विभागं बहवो मोहात् कर्त्तुमिच्छन्ति निव्यशः। ततो विभक्तास्त्वस्योऽन्यं विरुध्यस्तेऽर्थमोहिताः। ततः स्वार्थपरान् मूढान् पृथद्भूतान् स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः। विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिपमेव प्रवर्त्तते। तस्माद्विमाय भ्रातॄणां न प्रशंसन्ति साधवः। गुरुशास्त्रेऽनिवद्धानामन्योऽन्येनाभिशङ्किनाम्। नियन्तुं नहि शक्यस्त्वं भेदतो धनमिच्छसि। यस्मात्तस्मात् सुप्रतीक! हस्तित्वं समवाप्स्यसि। शप्तस्त्वेवं सुप्रतीको विभावसुमथाव्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि। एवमन्यीऽन्यशापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ। रोषदोषानुषङ्गेण तिर्य्यग्योनिगतावुभौ। परस्परद्वेषरतौ प्रमाणबलदर्पितौ। सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ। तयोरन्यतरः श्रीमान् समुपैति महागजः। यस्य वृंहितशब्देन कूर्म्मोऽप्यन्तर्ज्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन् सरः। यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्य्यवान्। विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्। कूर्म्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्य्यवान्। षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः। कूर्म्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः। तावुभौ युद्धसम्मत्तौ परस्परबधैषिणौ। उपयुज्याशु कर्मेदं साधयेहितमात्मनः। महाभ्रघनसङ्काशौ तौ भुक्त्वाऽमृतमानय”। इत्येवं पित्रानुशिष्टो गरुडस्तावभक्षयत् यथाह तत्रैव ३० अ०। “मक्षयामास गरुडस्तावुभौ गजकच्छपौ”।
गजकृष्णा = स्त्री गज इव कृष्णा। गजपिप्पल्याम् भावप्र० गजपिप्पलीशब्दे दृश्यम्।
गजचिर्भ(र्भ)टा = स्त्री गजप्रिया चिर्भ(र्भि)टा शा० त०। इन्द्रवारुण्याम् (राखालशशा) रत्नमा०।
गजचिर्भिट = पु० गजचिर्भिटाया इव आकारोऽस्त्यस्य अच्। गोडुम्बायाम् त्रिका०।
गजचिर्भिटी = स्त्री गजप्रिया चिर्भिटी। १ माहेन्द्रवारुण्याम् राजनि०।
गजच्छाया = स्त्री “यदेन्दुः पितृ (१०) दैवत्ये सूर्य्यश्चैव करे(१३)स्थितः याम्या १४ तिथिर्भवेत् सा हि गजच्छायेति कीर्त्तिता” १ इत्यक्ते, “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः। यदा तदा गजच्छाया” २ इत्युक्ते च योगभेदे “द्विगुणा ह्यात्मनश्छाया दर्शे स्यादापराह्णिकी। गजच्छायेति सा प्रोक्ता इत्युक्ते ३ दर्शापराह्णे च। “सैंहि यो यदा भानुं ग्रसते पर्वसन्धिषु। गजच्छाया तु सा प्रोक्ता श्राद्धं तत्र प्रकल्पयेत्” वराहोक्ते ४ सूर्य्यग्रहणकाले च कुञ्जरच्छायशब्दे २०६८ पृ० वि०।
गजढक्का = स्त्री गजोपरिस्था ढक्का। हस्तिमदसूचनार्थकृतशब्दायां गजोपरिस्थढक्कायाम् हारा०।
गजता = स्त्री गजानां समूहः तल्। हस्तिसमूहे अमरः।
गजदन्त = पु० गजस्य दन्ताविब दन्तावस्य। १ गणेशे। २ हस्तिदन्ततुल्यदन्तवति त्रि०। ६ त०। ३ करिदन्ते पु० गणेशस्य तथात्वं च गजाननत्वेन तत्तुल्यदन्तत्वात्। गजदन्ताकृतित्वात् भित्तौ द्रव्यादिस्थापनार्थं गजदन्तद्वयाकारे ४ नागदन्ते (दाण्डा) ५ दन्तोपरिजातदन्ते तस्याकारेण गजदन्ततुल्यत्वात्तथात्वम्।
गजदन्तफला = स्त्री गजदन्त इव फलमस्याः। १ डङ्गरीलतायाम् राजनि०।
गजदान = न० ६ त०। १ हस्तिमदे। तस्य प्रस्रवणस्थानञ्च “करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदस्रुतिः” पालकाव्ये उक्तम्। ६ त०। २ हस्तिनो विसर्गे च। “गां पुच्छे करिणं करे इत्युक्तेः तस्य करावच्छेदेन ग्राहकेण स्पर्शनेन तस्य दानं विहितम्।
गजनासा = स्त्री ६ त०। गजस्य शुण्डे। सा इव ऊरुर्यस्याः गजनासोरु (रू) करिशुण्डतुल्यनाकायां स्त्रियाम्। उपमानपूर्वकत्वात् वा ऊङ्। “धर्मस्तु गजनासोरु! सद्भिराचरितः पुरा” रामा० २, ३०, ३०।
गजपति = पु० ६ त०। १ श्रेष्ठगजे २ अत्युच्चगजे च “गजपति द्वयसीरपि हैमनः” माघः।
गजपादप = पु० गजप्रियः पादपः शा० त०। (खुलकुङि) ख्याते स्थालीवृक्षे भावप्र०।
गजपिप्पली = स्त्री गजोपपदा पिप्पली शाक० त०। स्वनामख्यातायां पिप्पल्याम्। “चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली। गजकृष्णा कटुर्वातश्लेष्मनुत् वह्निवर्द्धिनी। उष्णा निहन्त्यतीसारश्वासकण्ठामयक्रमीन्” भावप्र० हरतीति शेषः। “मूर्वा निर्दहनी गाठा त्र्यूषणं गजपिप्पली” सुश्रुतः।
गजपुट = पु० “हस्तप्रभाणो गर्त्तो यः पुटः स तु गजाह्वयः” इत्युक्ते औषधपाकार्थे हस्तमित खाते गर्त्तभेदे वैद्यकम्।
गजपुर = न० गजस्य हस्तिनामनृपस्य पुरम्। “युधिष्ठिर राजधान्याम् (दिल्ली) “स निर्ययौ गजपुराद्याजकैः परिवारितः” भा० आनु० १६७ अ०।
गजपुष्पी = स्त्री गजस्तन्मद इव गन्धयुतं पुष्पमस्याः। नागपुष्पायां लतायां शब्दार्थचि०। “गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्” रामा० कि० १। १२। ३९।
गजप्रिया = स्त्री ६ त०। शल्लकीद्रुमे हेमच०।
गजबन्धनी = स्त्री गजा बध्यन्तेऽत्र ल्युट् ङीप्। हस्तिबन्ध नशालायां (हातिशाला) अमरः।
गजबन्धिनी = स्त्री गजस्य बन्धोऽस्त्यत्र इनि ङीप्। गजशालायां जटा०।
गजभक्षक = पु० गजो भक्षकोऽस्य। अश्वत्थवृक्षे राजनि०।
गजभक्ष्या = स्त्री गजेन भक्ष्या। शल्लकीवृक्षे अमरः। गजेन भक्ष्यते कर्म्मणि घञ्। गजभक्षा तत्रार्थे स्त्री शब्दरत्ना०।
गजमण्डली = स्त्री गजानां सन्निवेशनभेदेन मण्डली परिवेशः वेष्टनाकारपरिधिः। गजानां सन्निवेशनविशेषेण परिधिरूपे वेष्टने। स्वार्थे क ह्रस्वः। तत्रार्थे। “चन्द्राकृतीनि गजमण्डलिकाभिरुच्चैः” माघः। ६ त०। २ गजसमूहे च।
गजमाचल = पुंस्त्री मच–कल्कने घञ् माचः गजस्य माचं शाठ्यं लुनाति लू–बा० ड। १ सिंहे हारा० स्त्रियां जातित्वात् ङीष्।
गजमुक्ता = स्त्री गजे तत्कुम्भे जाता मुक्ता। हस्तिकुम्भजाते मुक्ताभेदे “मुक्ताफलैः किशरिणां किराता” कुमा० व्या० मल्लिनाथधृतवाक्यम् “करीन्द्रजामूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि। मुक्ताफलानि प्रथितानि लोके देवां तु शुक्त्युद्भवमेव भूरि” मुक्तैव स्वार्थे क ठञ्। गजमौक्ति कमप्यत्र। “गजमौक्तिकावलियुतेन वक्षसा” किरा० मल्लिनाथतद्व्या० करिणां मुक्तायोनित्वे प्रमाणमाहागस्त्यः “जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः। शुक्त्युद्भवाश्चविज्ञेया अष्टौ मौक्तिकयोनयः”।
गजमुख = पु० गजस्य मुखं मुखमस्य। १ गणेशे यथा च तस्य तन्मुखमुखता तथा इभाननशब्दे ९८१ पृ० उक्ता। “प्रमथाधिपो गजमुखः” वृह० स० ५८ अ०। गजवदनादयोऽप्यत्र।
गजमोटन = पुंस्त्री० गजं मोटयति चु० मुट–क्षोदे ल्यु। १ सिंहे शब्दमा०। स्त्रियां जातित्वात् ङीष्।
गजवल्लभा = स्त्री ६ त०। १ बहुवीजायां गिरिकदल्यां, २ शल्लक्याञ्च राजनि०।
गजवीथी = स्त्री उत्तरमार्गस्थे “रोहिण्यार्द्रामृगशिरो गजवीथ्यभिधीयते” इत्युक्ते १ नक्षत्रत्रये। खगोलशब्दे २४५१ पृ० विवृतिः। ६ त०। २ गजानामावलौ च।
गजशिक्षा = स्त्री गजानां शिक्षा। गजचालनाभ्यासे “तथैव गजशिक्षायां नीतिशास्त्रेषु पारगः” भा० आ० १०९ अ०।
गजशिरस् = पु० गजस्य शिर इव शिरोऽस्य। १ दैत्यभेदे “गजोदरोगजशिरागजस्कन्धोगजेक्षणः” हरिवं० २४० अ०। गजस्य तन्नामासुरस्य वा शिरः शिरोऽस्य। २ गणेशे च। इभाननशब्दे ९८१ पृ० गजाननशब्दे च दृश्यम्।
गजसाह्वय = पु० गजेन हस्तिनामकनृपेण सहित आह्वये यस्य। हस्तिनापुरे (दिल्ली)। “निर्ययुर्गजसाह्वयात्” भा० व० १ अ०। गजाह्वयमप्यत्र न०।
गजस्कन्ध = पु० गजस्य स्कन्ध इव स्कन्धोऽस्य। दैत्यभेदे गज शिरःशब्दे उदा० दृश्यम्। गजवत् संश्लिष्टस्कन्धे उत्तमपुरुषलक्षणयुते च।
गजाख्य = पु० गजं गजकर्णमाख्याति पत्रेण आ + ख्या–क। १ चक्रमर्दवृक्षे राजनि०। तस्य पत्रस्य गजकर्ण्णतुल्याकारत्वात् तथात्वम्। २ गजतुल्यनामनि हस्तिनापुरे न०
गजाग्रणी = पु० ६ त०। ऐरावते हस्तिनि शब्दर०।
गजाजीव = पु० गजैस्तत्पालनादिभिराजीव्यते जीव–घञ्। १ हस्तिपालके हेमच०।
गजाण्ड = न० गजस्याण्डमिव मूलं यस्य। १ पिण्डमूले राजनि०
गजादिनामन्(मा) = स्त्री गज इति शब्द आदौ यस्य तादृशं नामास्य वा ङीप्। गजपिप्पल्याम् “कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः” सुश्रुतः।
गजानन = पु० गजस्याननमाननं यस्य। १ गणेशे अमरः। इभाननशब्दे ९८१ पृ० दृश्यम्। स्कन्दपु० गणेशख० ११ अ० तु अन्यथा तस्य गजाननता वर्णिता तत्र गणेशस्य मस्तकशून्यतयोत्पत्तौ पुरा शिवच्छिन्नेन कैलासे स्थापितेन गजासुरमस्तकेन मुखयोजनं तेन कृतमित्युक्तं यथा “गुरुरुवाच अबतारो यदि धृतः साधुत्राणाय भो विभो!। प्रकाशयाशु वदनं सर्वेषां शोकनाशनम्। नयस्व सर्वदेवाना मानन्दं हृदयं प्रभो!। शिव उवाच। प्रत्युवाच गुरुं पुत्रः पार्वत्या हीनमस्तकः। शिशुरुवाच। महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा। तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो! मुदा। गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता। तत्सर्वमभवत् तस्य विद्यते चारुमस्तकः। पूज्यमानं शिवेनास्ते शुण्डादण्डः शुशोभनः। अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम्। शिवौवाच आश्चर्यपूर्णहृदयो गुरुरूचे पुनः शिशुम्। गुरुरुवाच। भगवन्! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः। मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो!। अहमीशस्वरूपन्ते परिच्छेत्तुं न च क्षमः। श्रुत्वैवं ब्रह्मणः पुत्रो नारदस्तव्र चाव्रवीत्। नारद उवाच। “एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो!। अथवा बालरूपम्य छिन्नन्ते केन तच्छिरः। एतन्मे संशयं छिन्धि कृषया परमेश्वर!। शिव उवाच। निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः। शिशुरुवाच। सिन्दूरः कोऽपि दैत्यो मे वायुरूपधरोऽच्छिनत्। अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः। तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्विज!। शिवौवाच। श्रुत्वैवं नारदः प्राह शिशुरूपिणमोश्वरम्। नारदौवाच। अकिञ्चिज्ज्ञा वयं देव! योजनेऽस्य मुखस्य ते। त्वमेव च स्वभावेन मुखमेतन्नियोजय। शिवौवाच। वदतीत्थं मुनि र्यावत्तावत् स ददृशेऽखिलैः। सर्वावयवसम्पूर्णो गजाननौमासुतः। कीरीटकुण्डलधरो युगवाहुः सुलोचनः। वामदक्षिणभागे च सिद्धिवृद्धिविराजितः। दृष्ट्वा विनायकं स्कन्द! तथाभूतं निजेच्छया। हर्षेणोत्फुल्लनयना देवाः सर्वे तदाऽब्रुवन्। गजानन इति ख्यातो भवितायं जगत्त्रये” “एवं भाद्रचतुर्थ्यां स अवतीर्ण्णो गजाननः” इति च तत्राध्याये। ६ त०। हस्तिमुखे न०।
गजारि = पु० ६ त०। १ सिंहे। २ वृक्षमेदे हड्डचन्द्रः। ३ शिवे च गजासुरद्वेषिशब्दे दृश्यम्।
गजारोह = पु० गजमारोहति आ + रुह–अण्। १ हस्तिपाले (माहुत) अमरः
गजा(द)शन = पु० गजेरस्य(द्य)ते कर्मणि ल्युट्। १ अश्वत्थद्रुमे। २ शल्लक्यां स्त्री ङीप्। ३ गजभक्षायाम् (भाग शब्दच० ४ पद्ममूले न० रत्ना०।
गजासुर = पु० गजाकारोऽसुरः। असुरभेद। तस्योत्पत्तिकथा च स्कन्दपु० गणेशख० १० अ० यथा “साम्प्रतं कथयिव्यामि गजासुरकथानकम्। पुरा युगे स राजासोन्नीतिज्ञो लोकपालकः। लक्ष्मीवान् रूपसम्पन्नो वेदशास्त्रार्थकोविदः। देवद्विजार्चनरत आत्मविद्याविशारदः”। “महेश इति नाम्ना च विख्यातो भुवनत्रये” इत्युपक्रम्य “उत्पत्तिप्राप्स्यते राजन् त्वया योनौ गजस्य हेति” गुरुवाक्यमुपन्यस्य “कदाचिद्गच्छता तेन वीक्षितो नारदः पथि। अवमन्य ययौ तं तु सप्तोऽसौ मुनिना रुषा। इभास्यो भवितासि त्वमौद्धत्यादन्यजन्मनि। गजासुर इति ख्यातिं यास्यसि त्वं नराधिप!। कैलासे प्राप्स्यसे स्थानमन्ते तस्येव जन्मनि। अवमन्य यतो यातो मामिदानीं नराधम!। इयुक्तान्तर्हितो भूत्वा स स्वयं नारदी मुनिः। गुरुनारदवाक्याभ्यां महेशो विस्मयं गतः। गते बहुतिथे काले राजा पञ्चत्वमाप सः। पर्य्यलीकानने स्कन्द! करिण्यां जनिमाप सः। इभास्यो बलवान् वीरः सर्वत्रासौ नराकृतिः”
गजासुरद्वेषिन् = पु० गजासुरं द्वेष्टि द्विष–णिनि ६ त०। महादेवे कृत्तिवासःशब्दे विवृतिः। स्कन्दपु० गणेशख० १० अ० तु तं हत्वा तस्य स्वभक्तिमालक्ष्य तच्चर्म्मधारणं ताच्छरसः कैलासे स्थापनञ्च वर्णितं यथा “जघान तं त्रिशूलेन स्कन्द! कोपात् गजासुरम्” इत्युपक्रम्य “तव हस्तादभून्मृत्युरन्त ते दर्शनं यतः। उक्तञ्च गुरुणा पूर्वं भघिव्यं नारदेन च। कैलासन्तु गते तस्मित् गृह्यास्य चर्म्म चाननम्। चर्मणः परिधानञ्च मुखस्यापि प्रपूजनम्। भक्तवात्सस्यभावेन क्रियतेऽद्यापि षण्मुख!”। अस्यैव शिरसा विमस्तकस्य विनायकस्य गजाननतेति गजाननशब्दे दर्शितम्।
गजास्य = पु० गजस्यास्यमास्यमस्य। १ गणेशे हेम०। ६ त०। २ हस्तिवदने न०। गजस्यास्यमिवास्यं यस्य। ३ गजासुरे पु० गजासुरशब्दे दृश्यम्।
गजाह्व = न० गजसहिता आह्वा यस्य शाक० त०। १ हस्तिनापुरे मेदि०। गजाह्वयमयत्र। “युधिष्ठिरस्यानुमते वनवासात् गजाह्वयम्” भा० व० ६ अ०। २ तत्पुरयुक्ते देशभेदे तद्वासिषु तन्नृपेषु च पु० बहुव०, स च देशः वृहत्सं० १४ अ० कूर्मविभागे मध्यस्थतयोक्तः। “गजाह्वयाश्चेति मव्यमिदम्”।
गजाह्वा = स्त्री गजोपपदा आह्वा अस्या। १ गजपिप्पल्याम् वेदि०। २ हस्तिनापुर्य्याञ्च।
***