खरा = स्त्री खमाकाशं लाति ला–क लस्य रः। देवताडवृक्षे अमरः।
खरागरी = स्त्री खरमागिरति आ + गॄ–अच् गौरा० ङीष्। देवताडवृक्षे रायमुकुटः।
खराब्दाङ्कुरक = न० खराब्दात् तीव्रगर्जनमेघात् अङ्कुरयति अङ्कुरि–ण्वुल्। वैदूर्य्यमणौ राजनि० तम्य नवमेघशब्दात् जायमानाङ्कुरत्वात्तथात्वम्।
खराश्वा = स्त्री खरेरश्यते भुज्यते अश–भोजने बा० व। मयूरशिखायाम् (रुद्रजटालता) अमरः।
खराह्वा = स्त्री खरं तीव्रं गन्धमाह्वयति आ + ह्वे–क। अजमोदायाम् राजनि०।
खरिका = स्त्री खं राति रा–क संज्ञायां कन् अत इत्त्वम्। चूर्ण्णाकृतिकस्तूरीभेदे राजनि०।
खरीजङ्घ = पु० खर्य्या गर्द्दभ्या इव जङ्घा यस्य। १ ऋषिभेदे २ शिवे पु०। ततोऽपत्ये इञ्। खारीजङ्घि तदपत्ये पुंस्त्री० ततोद्वन्द्वे अद्वन्द्वे च बहुषु तस्य लुक्। खरोजङ्घास्तमुष्यपत्येषु।
खरु = पु० खन–कु रश्चान्तादेशः। १ शिवे २ दर्पे, ३ अश्वे, ४ दत्ते, मेदि० ५ कामदेवे उणा०। ६ श्वेतवर्णे ७ श्वेतवर्णवति, ८ निषिद्धैकरुचौ, हेम०। ९ निर्बोधे, १० क्रूरे त्रि० उणा० वृ० ११ पतिं वरायां कन्यायां स्त्री। हेम० गुणवाचित्वेऽपि पर्य्युदासान्न ङीष्। १२ तीक्ष्णे त्रि० संक्षिप्तसारः।
खर्ज = व्ययायां भ्वा० अक० पर० सेट्। खर्ज्जति। अखर्ज्जीत्। चखर्ज्ज।
खर्ज्जन = न० खर्ज–ल्यु। कण्डूयने।
खर्जिका = स्त्री खर्ज्ज–ण्वुल् अत इत्त्वम्। उपदंशरोगे शब्दच०।
खर्जु = पु० खर्ज–उन्। १ कण्डूभेदे (चुलकानि) २ खर्जूरीवृक्षे ३ कीटभेदे च हेमच०।
खर्ज्जुर = न० खर्ज–उरच्। रौप्ये रत्नमा०।
खर्ज्जू = स्त्री खर्ज्ज–कू। १ कण्डूभेदे (चुलकानि) २ कीटभेदे उणादिको १०।
ख(र्जु)र्ज्जूघ्न = पु० खर्जुं(र्जूम्)कण्डूयनं हन्ति हन–टक। १ चाकमर्द्दे, (दादमर्द्दन) २ अर्कद्रुमे च राजनि०।
खर्ज्जूर = पुंस्त्री खर्ज्ज ऊरच् स्त्रीत्वे गौरा० ङीष्। (खेजुर) वृक्षे तस्य फलम् अण् तस्य लुप्। तत्फले न० उद्भेदगुणाश्च भावप्र० उक्ताः यथा “भूमिखर्ज्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा। तथा स्कन्धफला काककर्कटी स्वादुमस्तका। पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत्। खर्ज्जूरी गोस्तनाकारा शरद्वीपादिहागता। जायते पश्चिमे देशे सा छोहारेति कीर्त्त्यते। खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः। स्निग्धं रुचिकर हृद्यं क्षतक्षय हरं गुरु। तर्पणं रक्तपित्तव्नं पुष्टिकृच्चापि शुक्रदम्। कोष्ठमारुतहृद्बल्यं वान्तिवातकफापहम्। ज्वरातिसारक्षुत्तृष्णाकासश्वासनिवारकम्। मदमूर्च्छामरुत्पित्त मद्योद्भूतगदान्तकृत्। महतीभ्यां गुणैरल्पा स्वल्पखर्ज्जूरिका स्मृता। खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत्। वातश्लेष्महरं रुव्यं दीपनं बलशुक्रकृत्” “खर्जूरीस्कन्धनद्धानाम्” रघुः। २ रौप्ये ३ हरिताले न० हेमच०। ४ खले (खामार) मेदि०। ५ तृणजातिभेदे स्त्री अमरः। (वनखेजुर)।
खर्ज्जूरवेध = पु० एकार्गलापरपर्य्याये विवाहे वर्ज्जनीययोगभेदे उपयमशब्दे १२६६ पृ० विवृतिः।
खर्द्द = दंशने भ्वा० पर० सक० सेट्। खर्द्दति अखर्द्दीत्। चखर्द्द।
खर्पर = पु० कर्परशब्दवत् पृषो० खत्वम्। १ तस्करे, २ धूर्त्ते, ३ भिक्षापात्रे कपाले ४ भिन्नमृण्मयखण्डे च मेदि० ५ उपधातुभेदे, तुत्थाञ्जने (तु~ते) च न० शब्दच०।
खर्परी = स्त्री खर्परं उपधातुभेदः कारणत्वेनास्त्यस्य अच् गौरा० ङीष्। खर्परीतुत्थे अमरः। ठन् खर्परिकाप्यत्र।
खर्परीतुत्थ = न० कर्म०। तुत्थभेदे (तु~ ते) राजनि० तत्पाकप्रकार गुणाः भावप्र० उक्ता यथा। “नरमूत्रेण गोमूत्रे सप्ताहं रसकं (पारदम्) पचेत्। दोलायन्त्रेण शुद्धः स्यात् ततः कायेषु योजयेत्। खर्परं कटुकं क्षारं कषायं वामकं लघु। लेखनं भेदनं शीतं चक्षुव्यं कफपित्तहृत्। विषाम्लकुष्ठकण्डूनां नाशनं परमं मतम्”।
खर्ब(र्व) = गतौ भ्वा० पर० सक० सेट्। ख(र्ब)र्वति अखर्बी(र्वी)त्। चख(र्ब)र्व। गतिरत्र नीचतगतिः खर्बशब्ददर्शनात्। अन्त्यस्थान्त्यस्तु गर्वे इति भेदः।
खर्व(र्ब) = पु० खर्व–गर्वे अच्। १ कुवेरनिविशेषि शब्दरत्ना०। २ कुब्जक वृक्षे अन्त्यस्थमध्यः राजनि० तस्य गन्धस्योत- कटतया गर्वहेतुत्वात् तथात्वम्। खर्ब–गतौ अच्। वर्ग्यमध्यः ३ ह्रस्वे ४ वामने त्रि० अमरः “खर्बे! गर्वसमूहपूरिततनो!” तारास्तोत्रम्। ५ संख्याभेदे (सहस्रकोटौ) “अर्बुदमब्जं खर्बनिखर्ब” मिति लीलावती। ६ तत्संख्याते च
खर्ब(र्व)ट = पु० खर्ब(र्व)–अटन्। “एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम्। मिश्रं तु खर्ब(र्ब)टोनाम नदी गिरिसमाकुलः” भाग० टीकायां श्रीधरोक्ते ग्रामभेदे।
खर्बशाख = त्रि० खर्बाशाखा तत्तुल्यस्य हस्तपदादयोऽस्य। वामने हेम०।
खर्बित = त्रि० खर्ब–नीचगतौ कर्त्तरि क्त। ह्रस्वे स्त्रियां टाप्। साच अमावास्याभेदे, “संमिश्रयेच्चतुर्द्दश्या अमावास्या भवेत् क्वचित्। खर्बितां तां विदुः केचिद्गताध्वामिति चापरे” कर्मप्रदी० पूर्वदिनस्थिततिथ्यपेक्षया परदिने २ऽल्पकालस्थिततिथिमात्रे च।
खर्वुरा = स्त्री खर्ब उरच्। तरदीवृक्षे राजनि०।
खर्बु(र्वु)ज = न० खर्बु(र्व)उन् तथा भूता जायते जन–ड। (खरमुज) लताफलभेदे। तस्य गुणा भावप्र० उक्ता “खर्बु(र्वु)जंमूत्रलं बल्यं कोष्ठशुद्धिकरङ्गुरु। स्निग्धं स्वादूत्तरं शीतं वृष्यं पित्तानिलापहम्। तेषु सच्चाम्लमधुरं सक्षारञ्च रसाद्भवेत्। रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम्”।
खल = चलने स्खलने च भ्वा० पर० अक० सेट्। खलति अखालीत् खलति प्रनिखलति खलः।
खल = पुंन० खल–अच् अर्द्धर्चा०। धान्यमर्द्दनस्थाने हेम०। (खामार) धान्यखलः गोधूमखलः यवखलः। “खलात् क्षेत्रादगाराद्वा यतोवाप्युपलभ्यते” मनुः। खलयज्ञः खलेकपोतः। “खले न पर्षान् प्रतिहन्मि भूरि” ऋ० १०, १८, ७, २ धूलिराशौ च ३ भुवि ४ स्थानमात्रे च। खलश्च साद्यस्क्रेषु यज्ञेषु उत्तरवेदित्वेन विहितो यथा “साद्यस्क्रेषूर्वरा वेदिः “खल उत्तरवेदिः” आश्व० श्रौ० ७, १३, १४, तत्र खलशब्द निर्द्धारणं कातीये यथा “खल उत्तंरवेदिः धान्यखलः प्रत्ययात्” कात्या० श्रौ० २२, ३, ४३, ४४, खल इत्युक्ते धान्यखलः प्रतीयते यतः” कर्कः। “ये वेदिमभितस्तानुत्तरवेदिदेशे मृद्नन्ति” कात्या० श्रौ० ४५, “धान्यखलमभितः सन्निधानात् वेदिमभितो ये शस्यविशेषास्तानुत्तरवेदिदेशे मृद्गन्ति मर्द्दयन्ते स्तम्बेभ्यो विमोकार्थमनुडुद्भिः परितो गच्छद्भिराक्रा मयन्तीत्यर्थः कर्कः। इति पूर्वपक्षः “पांशुखलो वा प्रत्ययाविशेषात्” ४७ सू०। वाशब्दः पक्षान्तरे पांशुखलो- वोत्तरवेदिर्भवति तत्रापि खलशब्दप्रयोगप्रत्ययौ” कर्कः “पांशुखलो धूलिराशिः प्रत्येतव्यः कुतः खल इत्युक्ते धान्यखलोऽपि प्रतीयते पांशुखलोऽपि प्रतीयते” सं० व्या० इति सिद्धान्तः। ५ तिलकल्के पु० (खलि) ६ नीचे ७ अधमे ८ दुर्जने त्रि० “सर्पः क्रूरः खलःक्रूरः सर्पात् क्रूरतरः खलः। मन्त्रौषधिवशः सर्पः खलः केन निवार्य्यते” चाणक्यः। “स्वप्राणान् यः परप्राणैः सुपुष्णात्यघृणः खलः” भाग० १, ७, ३७,। ९ इतरे च त्रि० अमरः। खे लीयते ली–ड। १० सूर्य्ये। खं तद्वर्ण्णं लाति ला–क। ११ तमालवृक्षे पु० शब्दच०। १२ प्रस्तरमये औषधमर्द्दनपात्रभेदे वैद्यकम्। १३ खडे डलयोरैक्यात्। “खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः” सुश्रुतः। खलकाम्बलिकौ हृद्यौ तथा वातकफे हितौ” सुश्रुतः। खलएव अङ्गुत्या० स्वार्थे ठक्। खालिक खलशब्दार्थे।
खलक = पु० ख शून्यं मध्ये लाति ला–क संज्ञायां कन्। कुम्भे शब्दच०।
खलकुल = पु० खलकौ खलभूमौ लीयते ली–बा० ड। कुलत्थ कलाये “दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिल माषा अणुप्रियङ्गवो गोधूमाश्च खल्वाः खलकुलाश्च” वृ० उ० “खलकुलाः कुलत्थाः” भा०।
खलता = स्त्री खस्य लता। १ आकाशलतायाम्। खलस्य भावः तल्। १ दुर्जनत्वे च। “अनिवारिततापसम्पदं कुलहीनां सुमनोभिरुज्झिताम्। खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधोजनः” माघः। खलता च “अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता” इत्युक्तलक्षणा।
खलति = पु० स्खलन्ति केशाः अस्मात् भीमा० अपादाने अति पृषो०। (टाक) १ इन्द्रलुप्तरोगे तच्छब्दे विवृतिः। २ तद्वति त्रि० स्त्रियां वा ङीप्। तद्रोगयुक्तपरत्वे कडा० कर्मधा० परनि०। युवखलतिः खलतियुवा। “अवभृथेष्ट्यन्तेइत्युपक्रमे “पिङ्गलखलतिविक्लिषशुक्लस्य मूर्द्धनि जुहोति” कात्या० श्रौ० २०, ८, १८, “खलतिः खल्लाटः” कर्कः।
खलतिक = पु० खलतिरिव कायति कै–क। पर्वते “खलतिकादिषु वचनम्” वार्त्ति०। खलतिकः पर्वतस्तत्र भवानि खलतिकं वनानि” बहुत्वेऽपि एकवचनम् सि० कौ०।
खलधान = पु० खलाः खडा धीयतेऽस्मित् धा–आधारे ल्युट्। (खामार) ख्याते खलपदार्थे हेमच०।
खलपू = त्रि० खलं भूमिं पुनाति पू–क्विप्। स्थानशोधन कारिणि (फरास)। अमरः।
खलयज्ञ = पु० खले कर्त्तव्यो यज्ञः। खले कर्त्तव्ये यज्ञभेदे लाट्यायनश्रौ० सू० ४, १, २५, सूत्रादौ तस्य विवृतिः।
खलाजिन = न० खलस्थितमजिनम्। खलस्थितचर्मणि ततः उत्करा० चतुरर्थ्यां छ। खलाजिनीय तत्सन्निकृष्टदेशादौ त्रि०।
खलादि = पु० का० वार्त्तिकोक्ते समूहार्थे इनिप्रत्ययनिमित्ते शब्दसमूहे स च गणः। खल डाक कुटुम्ब द्रुम अङ्क गो रथ कुण्डल” खलिनी डाकिनीत्यादि तत्समूहे।
खलाधारा = स्त्री खल आधारो यस्याः। तेलापोका) “तैलपायिकायाम्” जटाध०।
खलि = स्त्री खल–इन्। (खलि) इति ख्याते तैलकिट्टे राजनि० वा० ङीप्। “स्थाल्यां वैदूर्य्यमय्यां पचति तिलखलीं चन्दनै रन्धनौवैः” भारतरत्ना० २ तालमूले रत्नमा०।
खलि(ली)न = पुं न० खे अश्वमुखच्छिद्रे लीनं पृषो० वा ह्रस्वः अर्द्धर्च्चादि। अश्वमुखस्थायां कविकायां (कडिआल)। ह्रस्वमध्यः इति रायमुकुटः। “उभयतः खलीन कनककटकावलग्नाभ्यां पदेपदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्” (अश्वम्) काद०। दीर्घमध्यः २ आकाशलीने त्रि०।
खलिवर्द्धन = पु० “मारुतेनाधिकोदन्तो जायते तीव्रवेदनः। खलिवर्द्धनसंज्ञोऽसौ जायते रुक् न शाम्यति” इति भावप्र० उक्ते रुग्णदन्तभेदे।
खलिश = पु० खे आकाशे जलादूर्द्धभागे लिशति लिश–क। (खल्सा) मत्स्यभेदे शब्दरत्ना०। तद्गुणाश्च “खलिशस्तु मतोग्राही कषायो वातकोपनः। रूक्षो लघुः शूलहरः किञ्चिदामविनाशनः” राजवल्लभः। पृषो० खल्लिशः खल्लीशोऽप्यत्र।
खलीकार = पु० खल + अभूततद्भावे च्वि–कृ–भावे घञ्। १ अपकारे जटाधरः। २ भर्त्सने च। खलीकृधातोस्तदर्थकताऽपि तेन “परोक्षे खलीकृतोऽयं द्यूतकरः “खलीक्रियते” मृच्छ० खलीक्रियते भर्त्स्यते इत्यर्थः।
खलु = अव्य० खल–उन्। निषेधे एतदर्थयोगे धातोःक्त्वा “निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्” माघः “खल्विति १ निषेध २ वाक्यालङ्कार ३ जिज्ञासा ४ऽनुनय ५ नियमेषु” गणरत्नोक्तेषु वाक्यालङ्कारादिषु च तत्र वाक्यालङ्कारे “खलु वाचिकम्” जिज्ञासायां “स खल्वधीते वेदम्”। अनुनये “न खलु न खलु मुग्धे! साहसं कार्य्यमेतत्”। नियमे (अवधारणे) “प्रवृत्तिसाराः खलु मादृशां धियः” प्रवृत्तिसारा एवेत्यर्थः” गणरत्नम्। जिज्ञासार्थे “न खलूग्ररुषा पिनाकिना” कुमा०। ६ निश्चये ७ वाक्यपादपूरणे ८ वीप्सायायां शब्दरत्ना०। तत्र निश्चये “न खलु प्रेम चलं सुहृज्जने” कुमा०। “न खलु वयममुष्य दानयोग्याः” माघः। “न खल्वनिर्जित्य” रघुं “कृती भवान्” रघुः। वाक्यालङ्कारे “सर्वं प्रियं खलु भवत्यनुरूपचेष्टम्” माघः। “वंश्या गुणाः खल्वपि लोककान्ताः” रघुः। वीप्सा व्याप्तिः “काले खलु समारब्धाः फलं बघ्नन्ति नीतयः” रघुः। काले समारब्धानीतयः फलजननव्यापिका इत्यर्थः।
खलुक् = पु० खमि न्द्रयं नेत्रव्यापारं लुञ्चति लुञ्च–अपनये क्विप्। अन्धकारे त्रिका०।
खलुरेष = पुंस्त्री खलु रिष्यते बध्यतेऽसौ खलु + रिष–बधे कर्मणि घञ सुप्सुपेति स०। मृगभेदे शब्दच०।
खलूरिका = स्त्री अव्युत्पन्नोऽयम्। शस्त्राभ्यासे हेमच०।
खलेकपोत = पु० ब० व० खले पतन्तः कपोताः शा० त० अलुक् स०। खलेपतत्सु कपोतेषु। तत्तुल्यः न्यायः खलेकपोत न्यायः यथा खले कपोता युगपत् पतन्ति तथा परस्परविशेष्यविशेषणभावानापन्ना एकत्रान्विताः यथा क्रियायां कर्मादिकारकाणां सर्वेषामेव युगपदन्वयः न तु विशेष्येविशेषेणमिति रीत्या “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्” जै० उक्तेः। अयमेव न्यायः एकत्रद्वयमिति संज्ञकोऽपि। यथा महानसीयवह्निर्नास्तीत्यतः एकस्मिन् अभावप्रतियोगिनि महानसीयत्वं वह्नित्वञ्चेत्युभयं प्रकारविधया भासते इति जगदीशः। गदाधरमते तु निर्द्धर्मितावच्छेदकभानास्वीकारेण वह्नित्वं घर्मितावच्छेदकीकृत्यैवात्र महानसीयत्वं भासते इति तत्र न एकत्रद्वयमिति रीत्या बोधः किन्तु क्रियाकारकान्वय एव तथा बोधः इति भेदः सएव खलेकपोतन्यायः।
खलेधानी = स्त्री खले धीयन्ते वृषभा अत्र धा–आधारे ल्युट् ङीप्। मेधिकाष्ठे जटाधरः। २ धूलौ हेम०।
खलेयव = अव्य०। खले यवोयत्र काले तिष्टद्गुप्र० स०। खलेस्थितयवकाले।
खलेवाली = स्त्री खले वाल्यन्ते चाल्यन्ते वृषभा यत्र बल–चालने आधारे घञ् गौरा० ङीष्। शस्वमर्द्दनभूमिमध्यस्थे काष्ठभेदे (मेइकाठ)। “खलेवाली यूपो लाङ्गलेषा” कात्या० श्रौ० २२, ३, ४८, खलमध्ये निखाता मेधिभूता खलेवाली” इति सं० व्या०। आश्व० श्रौ० ९, ७, १५, तु सूत्रव्याख्यायामन्या व्युत्पत्तिरुक्ता यथा खलेवाली यूपः” सू०। खलेऽनडुद्गमने तद्बन्धनार्था मेधिः खलेबालीत्युच्यते खलेऽनडुहोवारयतीति खले वाली” नारा० मेध्यां हि बन्धनेनानडुहां वारणात् तथा भवति” रलयोरैक्यात् तथात्वम्।
खलेवुस = अव्य० खले वुसमत्र काले तिष्ठद्गु० स०। खलेस्थित वुसकाले
खलेश = पु० स्त्री खे जलादूर्द्ध्वाकाशे लिशति संश्लिष्यति गतिकाले लिश–अच् ७ त०। (खलिसा) मत्स्यभेदे हारा० स्त्रियां जातित्वात् ङीष्।
खलेशय = पु० स्त्री खलेशं जलादूर्द्ध्वस्थाकाशसंसर्गं याति या–क। (खलिशा) मत्स्यभेदे शब्दरत्ना०। स्त्रियां जातित्वेऽपि योपधत्वात् टाप्।
खल्या = स्त्री खलानां समूहः यत्। खलसमूहे अमरः (खामार समूह)।
खल्ल = पु० खलति क्विप् खल् तं लाति ला–क। १ वस्त्रभेदे २ गर्त्ते ३ चर्म्मणि ४ चातकविहगे पु० स्त्री० मेदि०। स्त्रियां जातित्वात् ङीष्। ५ दृतौ चर्म्मभयपात्रे (मसक) हेम०। ६ औषधमर्द्दनपात्रे (खल) वैद्यकम्।
खल्लिका = स्त्री खल–क्विप् तं लाति–ला–क ततः संज्ञायां कन् कापि अत इत्त्रम्। ऋजीषे भर्जनपात्रे (भाजनाखोला) शब्दच०। शब्दचिन्तामणौ अयं वमध्यः पठितः तत्र वातेः क इति भेदः
खल्ली = स्त्री खल–क्विप् तं लाति ला–क गौरा० ङीष्। “खल्ली तु पादजङ्घोरुकरमूलावमोटनी” इति भावप्रकाशोक्ते रोगभेदे।
खल्लीट = पु० खल्लीव टलति टल–विक्लवे बा० ड। १ खलतिरोगे २ तद्वति त्रि० त्रिका० पृषो० ह्रस्वः खल्लिटोऽप्यत्र शब्दरत्ना०। “खल्लीटः परनिन्दावान् धेनुं दद्यात् सकाञ्चनाम्” शातातपेन तस्य परनिन्दनकर्मविपाकतोक्ता। खल्लाट इत्येव पाठः साधुः। तत्र खल्ल इवाटति अट–अच् इति व्युत्पत्तिः।
खल्व = पु० खल–क्विप् तं वाति वा–क। निष्पावे ग्राम्यधान्यभेदे “दश ग्राम्याणि धान्यानीत्युपक्रमे “खल्वाश्च खलकुलाश्च” वृ० उ०। “खल्वाः निष्पाबाः वल्वा इति प्रसिद्धाः” शङ्करमाधवौ “व्रीहयश्च मे इत्युपक्र मे “मुद्गाश्च मे खल्वाश्च मे” यजु० १८, १२, खल्वाश्चणकाः वेददीपः। तेन २ चणके च।
खल्वाट = पु० खल–क्विप् तं वटते वेष्टयते वट–वेष्टे अण् उप० स०। इन्द्रगुप्तरोगे (टाक) २ तद्रोगवति त्रि० हेमच०
खव = सम्पत्तिपवित्रतयोः प्रादुर्भावे, च क्य्रा० पर० अक० सेट। अव्नाति अखावीत् अखवीत्। चखाव। प्रनिखव्नाति।
खवल्ली = स्त्री खे शून्ये वल्ली। मूलशून्यायाम् १ आकाशवल्ल्याभ राजनि०। खवल्वरीखलतादयोऽप्यत्र २ आकाशलतायाञ्च।
खवारि = न० खात् पतितं वारि शा० त०। दिव्योदके राजनि० खजलादयोऽप्यत्र।
खवाष्प = पु० खस्य वाष्पम्। हिमजलकणे (ओस) हारा०।
खस(श) = पु० देशभेदे त्रिका०। तस्य दन्त्यमध्यता मन्वादौ दृश्यते क्वचित् तालव्यमध्यता च तेनोभयरूपता। स च देशः वृ० स० कूर्म्मविभागे १४ अ० पूर्वस्यामुक्तः “अथ पूर्वस्यामित्युपक्रमे “खशमगधशिविरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः”। सोऽभिजनोऽस्य, तद्देशस्य राजा वा अण्। खास(श)। तद्देशवासिनि तद्देश नृपे च बहुषु तु अणो लुक्। ख(शा)सास्तद्देशवासिनः तन्नृपाश्च। ते च शनकैः क्रियालोपात् वृषलत्वं गताः यथाह मनुः “शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः। वृषलत्वं गता लोके ब्राह्मणादर्शनेन च। पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः। पारदापह्नवाश्वीनाः किराता दरदाः खसाः”। “खसांस्तु खारांश्चोलांश्चमद्रान् किष्किन्धकांस्तथा हरि० १४ अ०। “खसा एकासनाह्यर्हाः प्रदरादीर्घवेणवः” भा० स० ५१ अ०। “अङ्गवङ्गखसेष्वेव नान्यदेशे कदाचन” सू० चि०। ३ मुरानामगन्धद्रव्ये शब्दच० ४ कश्यपपत्नीभेदे दक्षकन्यान्तरे स्त्री यथा गरुडपु० ६ अ० “धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम्। अदिति र्दितिर्दनुः काला क्षतायुः सिंहिका मुनिः। कद्रूः प्रधा इरा क्रोधा विनता सुरभिः खशा(सा)”। “इरा वृक्ष लतावल्लीतृणजातीश्च सर्वशः। खशा(सा) च यक्ष रक्षांसि सुषुवेऽप्सरसस्तथा” तत्रैव तत्प्रजोक्तिः।
खशीर = पु० १ देशभेदे २ तद्देशवासिनि ३ तन्नृपे च बहुव०। “खशीराश्चान्तचाराश्च पह्नवा गिरिगह्वराः” भा० आ० ९ अ० उत्तरस्थजनपदकथने।
खशेट = पुंस्त्री खं शेटति शिट–अनादरे अण्। (खलिसा) मत्स्ये त्रिका० तस्य गतिकाले खस्यानाधारत्वेन गतियोग्यत्वाभावेऽपि तस्य तथात्वानादरेण गमनात्तथात्वम्
खश्वास = पु० खस्य श्वास इव। वायौ त्रिका०।
खष = बधे भ्वा० पर० सक० सेट्। खषति अखाषीत्–अखषीत्। चखाष।
खष्प = पु० खन–प नि० नस्य षः। १ क्रोधे २ बलात्कारे च। खष्पौ क्रोधवलात्कारौ” सि० कौ० उक्तेः शब्दक- ल्पद्रुमे तस्य शब्दस्य क्लीवतोक्तिः प्रामादिकी।
खस = पु० खानि इन्द्रियाणि स्यति निश्चलीकरोति सो–क। (खोस) (पाच्डा) ख्याते १ रोगभेदे। २ देशभेदे ३ सवर्णायां व्रात्यक्षत्रियाजाते जातिभेदे “झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च” मनुः। (खसखस्) इति ख्याते वृक्षे भावप्र० खसतिलशब्दो दृश्यः।
खसकन्द = पु० खस इव कन्दोऽस्य। क्षीरकञ्चुकीवृक्षे रत्नमा०। खसगन्ध इति पाठान्तरेऽपि तथार्थता। खसस्येव गन्धोऽस्य तत्र वाक्यम्।
खसतिल = पु० खसः खसपूयैव तिलति स्निह्यते शुक्लस्नेहत्वात् तिल–स्नेहे क। (पोस्ता) अहिफेननिर्यासके (खस्खस) ख्याते वृक्षे राजनि०। तस्य तैलस्य खस पूयतुल्यशुभ्रवर्ण्णत्वात्तथात्वम्। खसतिलतत्फलतन्निर्यासादिगुणा भावप्र० उक्ता “तिलभेदः खसतिलः कासश्वासहरः स्मृतः। स्यात् खाखसफलोद्भूतं वल्कलं शीतलं लघु।। ग्राहि तिक्तं कषायञ्च वातकृच्च कफाम्लहृत्। धातूनां शोधकं रूक्षं मदकृद् वाग्विवर्द्धनम्।। मुहुर्मोहकरं रुच्यं सेवनात् पुंस्त्वनाशनम्। उक्तं खसफलक्षीरमाफूकमहिफेनकम्। आफूकं शोधनं ग्राहि श्लेष्मघ्नं वातपित्तलम्।। तथा खसफलोद्भूतवल्कलप्रायमित्यपि। उच्यन्ते खसवीजानि ते खाखसतिला अपि। खसवीजानि बल्यानि वृष्याणि सुगुरूणि च।। जनयन्ति कफम् तानि शमयन्ति समीरणम्”।
खसम = पु० खं शून्यं समं यस्य। बुद्धे त्रिका०। तस्य सर्वस्य शून्यभावनयाऽस्थिरत्वचिन्तर्नन जगतःस्थिरत्वनिराकारणात् सर्वशून्यतस्वीकारेण तस्य तथात्वम्।
खसम्भवा = स्त्री खे सम्भवति सम् + भू–अच्। आकासमांसी वृक्षे राजनि०।
खसर्पण = पु० खेबन्धच्छेदेन ऊर्द्ध्वदेशे सर्पणमस्य। बुद्धे त्रिका०। बुद्धशब्दे विवृतिः।
खसात्सज = पु० खसायाः कस्यपपत्नीभेदस्य आत्मजः। राक्षसे त्रिका० तस्य तत्पुत्रत्वकथा खसशब्दे दृश्या।
खसूचिन् = खं सूचयति सूच–णिनि। प्रश्नविस्मारणाय आकाशस्य नैर्मल्यादिसूचके निन्दिते वादिनि। वैया करणखसूचिः सि० कौ०।
खसृम = पु० सिंहिकासुते असुरभेदे “सिंहिकायां समुत् पन्ना विप्रचित्तिसुतास्तथा। व्यंशः शल्यश्च बलवान् नभश्चैव महाबलः!। वातापिर्नमुचिश्च व इल्ललः खसृमस्तथा। अन्तको नरकश्चैव कालनाभस्तथैव। निवातकवचा दैत्याः प्रह्रादस्य कुलेऽभवन्” गारुडपु० ६ अ०। “खसृमः शालवदनः करालः कौशिकः शरः हरि० ४२ अ०।
खस्खम = पु० खसप्रकारः द्वित्वम् पृषो०। खसतिले (पोस्ता) वृक्षभेदे राजनि०।
खस्खसरस = पु० ६ त०। अहिफेने राजनि०।
खस्तनी = स्त्री खमाकाशः स्तन इव यस्याः। पृथिव्यां त्रिका०
खस्फाटिक = पु० खमिव निर्मलःस्फाटिकः। १ सूर्य्यकान्तमणौ २ चन्द्रकान्तमणौ च हेमच०।
खस्वस्तिक = न० खमूर्द्धोर्द्धस्थित आकाशः स्वस्तिकमिव। समसूत्रपातेन मस्तकोपरिस्थे आकाशविभागे प्रमिताक्षरा खगोलशब्दे दृश्यम्।
खहर = पु० खं शून्यं हरोयत्र। वीजगणितोक्ते शून्यहारके राशिभेदे। “अस्मिन् विकारः खहरे न राशावपि प्रविष्टेष्वपि निःसृतेषु। बहुष्वपि स्याल्लयसृष्टिकालेऽनन्तेऽच्युते भूतगणेषु यद्वत्”।
खा = स्त्री खन–कर्मणि विट् आत्। नद्याम् निघ० खन–कर्त्तरि विट् आत्। २ खनितरि त्रि० विसखाः।
खाखस = पु० खस + प्रकारे द्वित्वम् पृषो०। खसतिले भावप्र० यद्वीजं (पोस्ता)। खसतिलशब्दे विवृतिः।
खाङ्गाह = पु० खे आकाशऽङ्गमाहन्ति गतिकाले आ + हन–ड। श्वेतपिङ्गलाश्वे शब्दचि०।
खाजिक = पु० खे ऊर्द्धदेशे आजः! क्षेपः तत्र साधुः ठन्। लाजेषु हारा०। तस्य भर्जनपात्रात् ऊर्द्धदेशे स्फोटनेन तथात्वम्
खाट = पु० खे ऊर्द्धमार्गे अटत्यनेन अट–करणे घञ्। शवरथे शवहरणशय्यायाम् शब्दरत्ना०।
खाटि = स्त्री खट–काङ्क्षायाम् बा० इञ्। १ किणे (घेटा) २ असद्ग्रहे ३ शवरथे च मेदि०। ४ शुष्कब्रणस्थाने उज्ज्व०। संज्ञायाम् कन्। खाटिका शवरथे स्त्री शब्दरत्ना०।
खाट्वाभारिक = त्रि० खट्वाभारं हरति वहति आवहति वा ठञ्। १ खट्वाभारहारके २ तद्वाहके ३ तदावाहके च। भारभूतखट्वाहारकादौ खाटिक इत्येव।
खाडव = न० भावप्रकाशोक्ते चूर्णविशेषे यथा “कोलामलकजंचूर्णं शुण्ठ्येलाशर्करान्वितम्। मातुलुङ्गरसेनाक्तं शोषितं सूर्य्यरश्मिभिः। एवन्तु बहुशोऽभ्यक्तं शोषितञ्च पुनः पुनः। ईषल्लवणसंयुक्तं चूर्णं खाडवमुच्यते। खाडवं मुखतैशद्यकारकं रुचिधारणम्। हृद्रोगशमनञ्चेति मुखवैरस्य नाशनम्। भोजनान्ते विशेषेण भोक्तव्यं खाडवं सदा”।
खाण्ड = न० खण्डस्य भावः पृथ्वा० भावे पक्षे अण्। खण्डमावे खण्डस्य विकारः अण्। २ खण्डविकारे च।
खाण्डव = त्रि० खाण्डं खण्डविकारं वाति वा० क। खण्डविकारयुक्ते मोदकादौ। “रसालापूपकांश्चित्रान् मोदकांश्च सखाण्डवान्” भा० आनु० ५३ अ०। २ वनभेदे। तच्च वनं पुरा शक्राद्यावासस्थानं तच्च छित्त्वा सोमवंश्येन सुदर्शनेन राज्ञा खाण्डवी पुरी कृता पुनः सा काशीराजेन विजयेन जित्वाशक्रनिदेशात् वनतां प्रापिता यथाह कालिकापु० ७८ अ०।
“सोमवंशेऽभवद्राजा महात्मा स महाबलः। वीरः सुदर्शनो नाम चारुरूपः प्रतापवान्। स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम्। सिंहान् व्याघ्रान् समुत्सार्य्य क्वचिच्चापि तपोधनान्। खाण्डवीं नाम नगरीमकरोत्तत्र शीभनाम्। त्रिंशद्योजनविस्तीर्णामायतां शतयोजनम्”।। “असहिष्णुर्नरपतिर्विजयस्तं सुदर्शनम्। कृतापचारं बहुधा देवानाञ्च तथा नृणाम्। वाराणसी पतिं वीरं विजयं जयशालिनम्। सन्धाय कृत्वा साचिव्यं तत्रैवैष न्ययोजयत्। विजयो विवरं प्राप्य महाबलपराक्रमः। सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत्। नासहत् सोऽप्यवस्कब्दं विजयस्य सुदर्शनः। चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत्। विजयो रथमारुह्य नियुज्य चतुरङ्गिणीम्। सेनां सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा। तदा महद्युद्धमासीद्विजयेन महात्मना। सुदर्शनस्य नृपतेर्वृत्रवासवयोरिव। ततः सुदर्शनो राजा दारितो गदयाऽपतत्। उत्फुल्लनयनो राजा विजयः परवोरहा। मेनेऽमरावतीं तान्तु पुरीं क्षितिगतामिव”। “तं वीक्षन्तं नरपतिं नगरीं तां सुरेश्वरः। समेत्य विजयं प्राह सान्त्वयन् श्लक्ष्णया गिरा। इन्द्र उवाच। राजन्! महद्वनमिदमासीद्देवगणावृतम्। नरगन्धर्व्वयक्षाणां मुनीनाञ्च मनोहरम्। सर्व्वानुत्सार्य्य देवादीन्मम चाप्यप्रिये रतः। भङ्क्त्वा वनमिदं गुह्यं समुत्सार्य्य तपोधनम्। खाण्डपीं नगरीं चक्रे हठाद्राजा सुदर्शनः। तदिदं पुनरेव त्वं वनं कुरु नृपोत्तम!। तत्राहं विहरिष्यामि तक्षकेण समं रहः। मुनीनाञ्च तपःस्थानं मण्डलं ते प्रसादतः। भविष्यति च यक्षाणां किन्नराणाञ्च पार्थिव!। मार्कण्डेय उवाच। एतत् श्रुत्वा वचस्तस्य शक्रस्य विजयस्तदा। वनमेवाकरोत्तान्तु खाण्डवीं शक्रगौरवात्। गच्छन्तु मो यथास्थानं प्रजाः सर्ब्धा यथेच्छया। येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः। वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम्।। ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजं पदम्। जग्मुर्वाराणसीं केचिद्विजयेनाभिपालिताम्”।। “अष्टाविंशतिमे प्राप्ते युगे द्वापरशेषतः। वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुमयाचत। दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै। वह्निस्वरूवमास्थाय जिष्णुं वचनमब्रवीत्। अहमग्निः पाण्डुपुत्र! यज्ञमागातिभोजनात्। व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना। खाण्डवं नाम विपिनं सपक्षिमृगराक्षसम्। यदि त्वं मां भोजयितुं शक्नोषि श्वेतवाहन तदा ममात्यसौ व्याधिरपयास्यति नोचिरात्। पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम्। भङ्क्त्वा वनं ततश्चक्रे तेन तत् खाण्डवं वनम्। यदर्थं देवविहितं वन तच्छेतवाहन!। विरोधात्तत्तु शक्रस्य न स्वयं भोक्तुमुत्सहे। तन्मां त्राहि महाभाग! वले तस्मिन्नियोजय। यथाहं सकलं भोक्तुं प्राप्तोमि त्वत्प्रसादतः। तस्य तद्वचनं श्रुत्वा सव्यसाची महावलः। दाहयामास विपिनं तत् सर्बं प्राणिसंयुतम्। देवकीतनयोपेतो वासुदेवेन पालितः। खाण्डवं दाहयामास ज्वलनस्य हिते रतः”। २ तन्नामपुर्य्यां स्त्री।
खाण्डवप्रस्थ = पु० इन्द्रप्रस्थे युधिष्ठिरवासस्थानभेदे “अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽभिचिन्तितः” भा० आ० ६१ अ०। इन्द्रप्रस्थशब्दे तत्कथा दृश्या।
खाण्डवायन = पु० ऋषिभेदे “व्यभजत तदा राजन्! प्रख्याताः खाण्डवायनाः” भा० व० ११७ अ०।
खाण्डविक = पु० खाण्डवं मोदकादि शिल्पमस्य ठञ्। मोदककारके (मयरा) “आरालिकाः सूपकाराः ये च खाण्डविकास्तथा” भा० आश्र० १ अ०।
खाण्डवीरणक = त्रि० खण्ड इव वीरणः खण्डवीरणः ततः अरीहणा० चतुरर्थ्यां वुञ्। स्वादुवीरणसन्निकृष्टदेशादौ।
खाण्डिक = स्त्री खण्डं मोदकादि शिल्पमस्य उञ्। (मयरा) मोदककारके हारा०।
खात = न० खन–भावे क्त। १ खनने कर्म्मणि क्त। २ पुष्करिण्यादौ त्रि० “पूर्त्तं खातादिकर्म्मच” अमरः। तडागशब्दे विवृतिः। खातवेतनादिदानार्थं क्षेत्रफलज्ञानोपयोगी खातव्यवहारो लीला० उक्तो यथा। “अथ खातव्यवहारे करणसूत्रं सार्द्धार्य्या। गणयि त्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या। स्थातकमित्या सममितिरेवं दैर्घ्ये च वेधे च। क्षेत्रफलं वेधगुणं खाते घनहस्तसङ्ख्या स्यात्।। उदाहरणम्। भुजवक्रतया दैर्घ्यं दशेशार्ककरैर्मितम्। त्रिषु स्थानेषु षट्पञ्चसप्तहस्ता च विस्तृतिः।। यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरः सखे!। तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व मे।।
न्यासः अत्र स मि तकरणेन विस्तारे हस्ताः। ६। दैर्घ्ये ११ वेधे। ३। तत् क्षेत्रदशनम् यथा
न्यासा यथोक्तकरञेन लब्धा घनहस्तसङ्ख्या। १९८। खातान्तरे करणसूत्रं सार्द्धवृत्तम्। मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृ तं षड्भिः।। क्षत्रफलं सममेतद्वेधगुणं घनफलं स्पष्टम्। समखातफलत्र्यंशः सूचीखाते फलं भवति।। उदाहरणम्। मुख दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यन्तु तले तदर्द्धम्। यस्याः सखे! सप्तकरश्च वेधः का खातसङ्ख्या वद तत्र वाप्याम्।।
न्यासः मुखजं क्षत्र फलम्। १२०। तलजम्। ३०। {??}दुतिजम्। त ७०। एपामैक्यम्। ४२०। षड्भिः। ६। हृतं जातं समफलम्। ७०। वेध। ७। हतं जातं खातफलं घनहस्ताः। ४९०।
द्वितीयोदाहरणम्। खातेऽथ तिग्मकरतुल्यचतुर्भुजे च किं स्यात् फलं नवमितः किल यत्र वेधः। वृत्ते तथैव दशविस्तृतिपञ्चवेधे सूचीफलं वद तयोश्च पृथक् पृखङ्मे।।
न्यासः भुजः। १२। वेधः। ९ जातं यथोक्त करणेन खातफलं घनहस्ताः। १२९६। सूचीफलम्। ४३२। वृत्तखातदर्शनाय।
न्यासः व्यासः। १०। वेधः। ५। अत्र सूक्ष्मपरिधिः ३९२७/१२५ सूक्ष्मक्षेत्रफलम् ३९२७/५ वेधगुणं जातं सूक्ष्मखातफलं ३९/१०/२७ सूक्ष्मसूचीफलं १३०९/१० यद्वा स्थूलखातफलं २७५०/७ सूची फलं स्थूलं वा २७५/२१।” कुण्डशब्दे उदा०। ३ कूपे निघ०। ४ खननकर्ममात्रे त्रि० “खातखुरैर्मुद्गभुजां विपप्रथे” माघः।
खातक = न० खात + संज्ञार्या कन्। १ परिखायाम्(खाइ) हेमच०। “उत्तमर्ण्णोधनखामी अघमर्णस्तु खातकः” इत्युक्ते २ अघमर्ण्णे ३ परसैन्यविदारके च “खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्” भा० शा० ११८ अ०। “खातकाः परसैन्यविदारकाः” नीलक०।
खातभू = स्त्री खातयुक्ता भूः। १ परिखायां २ प्रतिकूपे च हारा०
खाति = स्त्री खन–खै–वा भावे–क्तिन् आत्। खनने।
खात्र = न० खन–त्रल् किच्च आत्। १ खनित्रे २ जलाधारे च सि० कौ० ३ वने ४ सूत्रे च संक्षिप्तसारः।
खाद = भक्षणे भ्वा० पर० सक० सेट्। खादति अखादीत् चखाद। खाद्यः खादकः खादनम्। णिचि। खादयति ऋदित् अचखादत् त। “सक्तून् खादति यश्च तस्य रिपवोनाशं प्रयान्ति घ्रुवम्” ति० त० “न खादेः परशस्यानि” वृषोत्सर्गमन्त्रः। “देवान् पितन् समभ्यर्च्य खादन् मांसं न दोषभाक्” मनुः। “स हि (उशस्तिः) कुल्माषान् खादन्तं विभिक्षे” छा० उप०। “मांसानि च न खादेद्यस्तयोः पुण्यं सभं स्मृतम्” मनुः। “आशङ्कमानो वैदेहीं खादितां निहतां मृताम्” भट्टिः। “तादृशं भवति प्रेत्य वृथा मांसानि खादकः” मनुः। षष्ट्यभावश्छादसः। खादनस्य हिंसाव्यभिचरितत्वात् हिंसार्थत्वात् अकित्त्वेऽपि वा० चुरा० तेन स्वार्थे णिच् खादयति। “दुर्बलं वलवन्तो हि मत्स्यामत्स्यं विशेषतः। खादयन्ति” मत्स्यपु० “मां खादय मृगश्रेष्ठ! दुःखादस्मा द्विमोचय” भा० व० ६१ अ०। “देवराजो मया दृष्टो वारिवारणमस्तके। खादयन्नर्कपत्राणि” विदग्धमु०। अस्य भक्षणार्थत्वेऽपि आदिखाद्योर्न” वार्त्ति० णिचि प्रयोज्यकर्त्तुः न कर्मत्वम्। खादयति अन्नं वटुना” “वयोभिः खादयन्त्यन्ये” “तां श्वभिः खादयेद्राजा” मनुः। “मारयि ष्यामि वैदेहीं खादयिष्यामि राक्षसैः” भट्टिः। खादनञ्च कठिनादि द्रव्यस्य गलाधःसंयोगानुकूलव्यापारबिशेषः प्रतिषिद्धभक्षणविप्रये तु वदनमात्रप्रवेशेऽपि प्रायश्चित्तार्द्धमिति भेदः यथाह प्रा० त० “यद्यपि अन्नादीनां कण्ठादधोनयनमेव भक्षणं न तु निष्ठीवनाय शुण्ठ्यादेः कपोलधारणं, तथाविधे प्रयोगाभावात्। तथापि पापविषये तथाविधानुबन्धेऽपि प्रायश्चित्तं, ब्रह्मबधे तथा दर्शनात् यथा याज्ञवल्क्यः “चरेद्व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः”। अत्र हननप्रतिषेधेन यथा तदङ्गभूताध्यवसायादेरपि प्रतिषिद्धत्वात् प्रायश्चित्तविधानं तथाऽत्रापि भक्षणप्रतिपेधेन तदङ्गभूताव्यभिचारितान्नादिसंयोगस्यापि प्रतिषिद्धत्वेन दोषस्य विद्यमानत्वात् भवत्येव प्रायश्चित्तं, मिताक्षरायायामप्येवम्। अतएवोक्तं “जिघ्रन्नपि सुरां कश्चित् पिवतीत्यभिधीयते। यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम्” इति। अत्र वक्त्रे गण्डूषस्य प्रवेशनेन पानातिदेशवद्भक्षणोद्यमेऽपि भक्षणातिदेशः। ततश्च विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने” इति याज्ञवल्क्योक्तेः दण्डोद्यमे दण्डनिपातप्रायश्चित्तार्द्धवत् भक्षणोद्यमे कण्ठादधोनयनसम्भावनारहिते अर्द्धं प्रायश्चित्तं ज्ञेयम्”
खादक = त्रि० खाद–ण्वुल्। १ भक्षके। “वृथा मांसानि खादकः” मनुः “यदि चेत् खादको न स्यात् न तदा घातको भवेत्” भा० आनु० ५६२४ श्लो०। २ अधमर्णे च “खादको वित्तहीनः स्यात् लग्नको वित्तवान् यदि। मूलं तस्य भवेद्देयम्” नारदः “खादकोऽधमर्ण्णः” मिता०।
खादतमोदता = खादत मोदत इत्युच्यते यस्यां क्रियायाम् मयू० स०। खादनमोदनाय निदेशक्रियायाम्।
खादन = पु० खादत्यनेन खाद–करणे ल्युट्। १ दन्ते हेम०। भावे ल्यूट्। २ भक्षणे न०। “अश्वानां खादनेनाहमर्थी नान्येन केनचित्” रामा० २, ५० स० ४५ श्लोकः।
खादि = त्रि० खाद–कर्मणि इन्। भक्ष्ये “अंसेष्वा वः प्रपथेषु खादयः” ऋ० १, १६६, ९,। “खादयः भक्ष्याः” मा० खाद–धातूनामनेकार्थत्वात् त्राणे कर्त्तरि इन्। २ त्रायके। “हस्तेषु खादिश्च कृतिश्च संदधे” ऋ० १, १६८, ३। “हस्तेषु खादिः हस्तत्रायकः” भा०।
खादित = त्रि० खाद–क्त। भक्षिते अमरः। “आशङ्कमानो वैदेहीं खादितां निहतां मृताम्” भट्टिः।
खादिन् = त्रि० खाद–णिनि। भक्षके स्त्रियां ङीप्। “लोष्टमर्द्दी तृणच्छेदी नखखादी च यो नरः” मनुः।
खादुक = त्रि० खाद–उन् संज्ञायां कन्। हिंसाशीले हेम०।
खादोअर्ण्णस् = स्त्री खाद–कर्मणि असुन् खादः खाद्यमर्णं जलं यस्याः पृषो० पूर्वरूपैकादशाभावः नद्यां। निघ०।
खाद्य = त्रि० खाद–कर्मणि ण्यत्। भक्ष्ये। “मांसप्रकारै र्विविधैः खाद्यैश्चापि तथा नृप!” भा० स० ४ अ०।
खान = न० खै–धातूनामनेकार्थत्वात् भक्षणे भावे ल्युट्। भक्षणे। “सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः। इतरे खानपानेन वाक्प्रदानेन पण्डिताः” गरु० पु० १०९ अ०। “खाने पाने च दातव्यम्” दत्ता० तन्त्रम् खैखनने हिंसने च भावे ल्युट्। १ खनने २ हिंसने च।
खानक = त्रि० खन–ण्वुल्। खनके “व्याधान् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान्” मनुः।
खानि = स्त्री खनिरेव पृषो० वृद्धिः। खर्ण्णाद्युत्पत्तिस्थाने आकरे हेमच०। वा ङीप् तत्रार्थे शब्दच०।
खानिक = न० खानेनं खननेन निर्वृत्तं ठञ्। कुड्यछेद्ये गर्त्ते त्रिका०।
खानिल = पु० खानं खननं शिल्पत्वेनास्त्यस्य बा० इलच्। सन्धिचौरे भित्तिभेदनेन चोरयितरि त्रिका०।
खानिष्क = पु० दीप्ताग्नीनां सदा पथ्यः खानिष्कः कफहा गुरुः” सुश्रुतीक्ते मांसभेदे।
खानोदक = पु० खानाय भोजनाय उदकमत्र। नारिकेले त्रिका०।
खापगा = स्त्री खस्थाकाशस्थापगा। गङ्गायाम् हेम० खधुनी खनदीप्रभृतयोऽप्यत्र।
खार = पु० खमवकाशमाधिक्येन ऋच्छति ऋ–अण् उप० स०। खारीपरिमाणे उज्ज्वल०।
खारि(री) = स्त्री खं मध्यावकाशमाराति आ + रा–क गौरा० ङीष् वा ह्रस्वः। द्रोणषोडशात्मके घान्यादिमानभेदे। “पलञ्च कुडवः प्रस्थः आढको द्रोण एव च। घान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः। द्रोणैः षोडशभिः खारी विंशत्या कुम्भ उच्यते” हेमा० दा० विष्णु ध०। अर्द्धशब्दात् संख्यायाश्च परतोऽस्य समासे वा टच्। अर्द्धखारम् अर्द्धखारि। द्विखारं द्विखारि। अर्द्धखारेण क्रीतम् ठक् पूर्वपदस्य वा वृद्धिः। अ (आ) र्द्धखारिकम्। अध्यर्द्धशब्दात् संख्यायाश्च परतःखार्य्याः क्रीताद्यर्थे ईकन्। अध्यर्द्धखारीकं द्विखारीकम्। केवलाया अपि ईकन् तत्रार्थे खार्य्या क्रीतम् खारीकम्।
खारिन्धम = त्रि० खारीं धमति ध्मा–खश् घमादेशः मुम् ह्रस्वश्च। खारीध्मायके।
खारिम्पच = त्रि० खारीं तन्मितधान्यं पचति पच–खश् मुम् ह्रस्वश्च। खारीमितान्नपाचके।
खारीक = त्रि० खारीं खारीवापमर्हति ईकन्। खारीवाप योग्ये क्षेत्रे अमरः २ खारीमितघान्यादिक्रीते च।
खारीवाप = त्रि० खारी तन्मितधान्यम् उप्यतेऽत्र वप–आघारे घञ्। खारीमितधान्यवपनयोग्ये क्षेत्रादौ अमरः। खारीं वपति वप–कर्त्तरि अण् उप० स०। खारीमितधान्यादिवापके त्रि० स्त्रियां टाप् सि० कौ०। मुग्ध० मते षण् अतः स्त्रियाम् ईप् इति भेदः।
खार्कार = पु० गर्द्दभजातिशब्दे “खार्काररमसा मत्ताः पर्य्यधावन् वरूथशः” माग० ३, १७, १२ तस्य तत्रार्थतामाह श्रीघरः।
खार्बुजेय = त्रि० खर्बुजस्येदम् वा० ढक्। १ खर्बुजसम्बन्धिनि। २ रसालभेदे न०। “मघुरदधनि मध्ये शर्करां सन्नियोज्य शुचि विदलितखण्डं प्रक्षिपेत् खार्बुजेयम्। करविलुलितमैणैर्वासितं नाभिगन्धैर्जिगमिषुजठराग्निं स्थापयत्येव नूनम्। रसालं खर्वु(र्बू)जस्येदं विष्टम्भिरुचिकारकम्। हृद्यञ्च कफदं बल्यं पित्तघ्नं मूत्रकुत् सरम्” भावप्र०।
खालत्य = न० खलतेर्भावः ष्यञ्। इन्द्रलुप्तरोगे “जरा खालत्यं पालित्यं शरीरमनुप्राविशन्” अथ० ११। ८। १९। पृषो० इमध्यताप्येके यथाह सुश्रुतः “रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्। प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः। रुणद्धि रोमकूपांस्तु ततोऽन्वेषामसम्भवः। तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते”।
खिखिर = पुंस्त्री खिङ्किर–पृषो०। (ख्याक्शेआली) शिवाभेदे त्रिका०।
खिङ्किर = पु० खिमित्यव्यक्तं शब्दं किरति कॄ–क। (ख्याक्शेआली) शिवाभेदे त्रिका०।
खिट = भये भ्वा० पर० अक० सेट्। खेटति अखेटीत्। चिखेट। खेटकम्।
खिद = परितापे तुदा० पर० अक० अनिट् मुचादि। खिन्दति खिन्दतः। अखैत्सीत् चिखेद। खिन्नः।
खिद = दैन्ये दिवा० रुधा० च आत्म० अक० भीषायां सक० अनिट्। खिद्यते खिन्ते अखित्त चिखेद। खिन्नः। “खसुखनिरभिलाषः खिद्यते लोकहेतोः” शकु०। “हरिरित्यखिद्यत नितम्बिनीजनः” माघः। “खिन्ते तेष्वेव ये द्रव्यं दीयमानं न गृह्णति” कविरहस्यम्। “अखिन्दानस्य तेजसा” भट्टिः। “प्रहस्तश्चिखिदे न च” भट्टिः “खिदञ्ध्यौ दैन्यके” इत्येव वोपदेवे पाठः अतएव “रक्तं न्यष्ठीवदक्लाम्यदखिद्यद्वाजिकुञ्जरम्” भट्टिः
आ + प्रकर्षेण खेदने। “आखेदते प्रखिदते च नमः” यजु० १६। ४६। “आखेदते प्रहर्षेण खेदयति पापिनः” वेददी०। वेदे गणव्यत्यासः अन्तर्भूतण्यर्थता च।
उद् + उत्पाटने। “पजापतिरात्मनोवपामुदखिदत्” श्रुतिः। “अथ वपामुत्खिदन्ति” शतब्रा० ३। ८। २। ५। “इमां वपामुत्खिदन्ति मध्यतः” ३। ८। ३। २। “वपामुत्खिदतीत्युत्खिद्य” ४। ५। ११। २। सर्व्वत्र गणव्यत्ययः।
परि + समन्तात् खेदे। “कान्तावियोगपरिखेदितचित्तवृत्तिः। “परिखेदितविन्ध्यवीरुधः” भट्टिः। “लोकसंस्थानविज्ञान आत्मनः परिखिदातः” भाग० ३। ९। २८।
सम् + सम्यक्तापे अक० उत्पाटने सक०। “यथा सुहयः पशट्टी शङ्कून् संखिदेत् एवमितरान् समखिदत्” छा० उ०।
खिदिर = पु० खिद्यते कृष्णपक्षे खिद–किरन्। चन्द्रे उज्ज्व०।
खिद्यमान = त्रि० खिद–ताच्छील्ये चानश्। १ दैन्यशीले २ खेदयुक्ते च।
खिद्र = त्रि० खिद–दैन्ये रक्। १ रोगे १ दरिद्रे च उज्ज्वल०। “वलित्था पर्वतानां खिद्रं बिभर्षि पृथिवि!” अथ० ५। ८४। १।
खिद्वन् = त्रि० खिद–अन्तभूतण्यर्थे क्वनिप्। खेदकारके। “कस्ते किरयो दध्र खिद्वः” ऋ० ६। २२। ४। “खिद्वः! शत्रूणां खेदयितः!” भा०।
खिन्न = त्रि० खिद–क्त। १ दैन्ययुक्ते, २ अलसे, ३ खेदयुक्ते च। “खिन्नः कार्य्येक्षणे नृपः!” मनुः “तयोपचाराञ्जलिखिन्नहस्तया” रघुः।
खिरहिट्टी = स्त्री महासमङ्गायाम् राजनि०।
खिल = कणश आदाने तुदा० पर० सक० सेट्। खिलति अखेलीत्। चिखेल।
खिल = त्रि० खिल–क। हलादिना १ अकृष्टे क्षेत्रादौ २ सारतः संक्षिप्ते पूर्बत्रानुक्तपरिशिष्टे, यथा ऋग्वेदे श्रीसूक्तादि, यजुर्वेदे शिवसंकल्पादि, महाभारते हरिवंशः। खिलेषु हरिवंश इति पुष्पिकाव्याख्याने “खिलो नारायणः प्रोक्तस्तद्गुणा इषवः स्मृताः” इति नीलकण्ठेनोक्तेः ४ नारायणे पु०। ततः अभूततद्भावे भूधातुना कृधातुना च समासः। खिलीभवति खिलीकरोति त्रि०। “खिलीभूते विमानानां तदापतभयात् पथि” कुमा०। “तौ सुकेतुसुतयाखिलीकृते” रघुः। “पीडयिष्यति न मां खिली कृता खर्गपद्धतिरभोगलोलुपम्” रघुः। “विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्ल्लभाः माघः। “धर्भशास्त्राणि चैव हि। आख्यानानीतिहासाश्च पुराणानि खिलानि च” मनुः। “अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमख वः” भाग० ६। ४। १५।
खिल्य = त्रि० खिले भवः वत्। खिलभवे लवणादौ। “यथा सैन्धवखिल्यः उदके प्रास्त उदकमेवानुविलीयेत” शतब्रा० १४, ५, ४। १२। “स्यन्दशत् सिन्धुरुदकं तस्य विकारस्तत्रभवो वा सैन्धवः सचातौ खिल्योलवणशकलश्चेति सैन्धवखिल्यः” भा०। २ खिले पारशिष्टे पठिते च। “इदानीं खिल्यान्युच्यन्ते, वेददी०। तानि च “अग्निश्च पृथिवी च समेते” इत्यादीनि यजु० २६ अ० गतानि। एवमृग्वेदे खिल्यानि दशमण्डले द्रष्टव्यानि।
खिलेषु = पु० खिलस्य हरेरिषुर्गुणो यत्र। हरिवंशे। तत्र हरिगुणाधिक्यवर्ण्णनात्तथात्वम्। “खिलेषुहरिवंशे” हरिवंशस्थाध्यायसमाप्तिषु पुष्पिका।
खील = पु० कील + पृषो०। कीलके। “त्रीणि शतानि शङ्कवः षष्टिः खीला अविचाचला ये” अथ० १०। ८। ४।
खु = भ्वा० आत्म० अक० अनिट्। खवते अखोष्ट। चुखुवे।
खुङ्गाह = पु० खुमित्यव्यक्तं शब्दं कृत्वा गाहते गाह–अच्। कृष्णपिङ्गलश्वेतवर्ण्णेऽश्वे हेमच०।
खुज = स्तेये भ्वा० पर० सक० सेट्। खोजति अखोजीत्। चुखोज उदित् खीजित्वा खूक्त्वा खुग्नः।
खुज्जा(ञ्जा)क = पु० खुज–बा० आक बा० जुगागमो मुमागमो वा। देशतालवृक्षे रंत्नमा०।
खुड = खञ्जे इदित् भ्वादि० आत्म० अक० सेट्। खुण्डते अखुण्डिष्ट। चुखुण्डे। खुण्ड्यते।
खुड = भेदने चुरा० उभ० सक० सेट्। खोडयति–ते अचूखुडत्–त। खोडयाम् बभूव मास चकार चक्रे।
खुड = भेदे चुरा० इदित् उभ० सक० सेट्। खुण्डयति ते अचुखुण्डत् त।
खुडक = पु० खुलकः लस्य डः। गुल्मभागभेदे खुलकशब्दे दृश्यः “न्यस्ते तु विषमे पादे रुजः कुर्य्यात् समीरणः। वातकण्टक इत्येष विज्ञेयः खुडकाश्रितः” सुश्रु०” भावप्र० तु “रुक् पादे विषमे न्यस्ते श्रमाद्वा जायते यदा। वातेन गुल्ममाश्रित्य तमाहुर्वातकण्ठकम्” समानप्रकरणे खुडकाश्रित इत्यस्य स्थाने गुल्फाश्रयतोक्तेस्तस्य गुल्फांशार्थता।
खुद = भेदने सक० पर० अनिट्। खोदति अखोदीत् चुखोद। “चोदयत खुदत वाजसातये” ऋ० १०। १०१। १२। माघवस्तु खुर्दघातोरेव तद्रूपमुक्त्वा रलोपश्छान्दस इत्याह वोपदेवधातुपाठे त् अयं धातुर्नास्ति। “चनीखुदद् यथा सपम्” आश्व० श्रौ० २। १०। १४।
खुर = विलेखने तुदा० पर० सक० सेट्। खुरति अखोरीत् चुखोर खुरः।
खुर = पु० खुर–क। १ शफे पशूनां पादश्रोणिस्थिते नखाघारे पदार्थे २ कोलदले ३ नखीनामगन्धद्रव्ये मेदि०। करणे घञर्थे क। ४ नापितास्त्रभेदे शब्दर०। ५ खद्वापादे (खाटेर खुरा) घरणी। “उद्यत्कृशानुशकलेषु खुराभिघातात्” माघः। “रजःकणैः खुरोद्धृतैः” रघुः। खुरशब्दस्य वह्वा० ङीप् वा खुरी। तेन स्त्रीत्वमप्यस्य।
खुरक = पु० खुर इव कायति कै–क। तिलवृक्षे शब्दच०।
खुरणस्(स) = त्रि० खुर इव नासिकाऽस्य नसादेशः टच् समा० णत्वञ्च। चिपिटनासिके। अमरः।
खुरप्र = पु० खुर इव प्राति–पूरयति प्रा–क। क्षुरप्रशब्दार्थे खामी।
खुरली = स्त्री खुर इव लाति–ला–क गौरा० ङीष्। १ शराभ्यासे त्रिका०। शस्त्रप्रयोगे २ अभ्यासमात्रे च। “खुरली कलहे गणानाम्” महावीरच०।
खुराक = पु० स्त्री खुर–आकन्। पशौ उणा०।
खुरालक = पु० खुर इवालति पर्य्याप्नोति अल–ण्वुल्। लौहवयवाणे शब्दमा०।
खुरालिक = पु० खुराणामालिभिः कायति प्रकाशते कै–क। (भा~ड) १ नापितास्त्रभाण्डे, २ नाराचास्त्रे, ३ उपधाने च मे०
खुरासान = पु० “हिङ्गुपीठं समारभ्य मक्लेशान्तं महेश्वरि!। खुरासानाभिधो देशो म्लेच्छमार्गपरायणः” इत्युक्तेदेशभेदे
खु(खू)र्द्द = क्रीडायां भ्वा० आ० अक० सेट्। खु(खू)र्द्दते अखु(खू)र्द्दिष्ट चुखु(खू)र्द्दे।
खुलक = पु० खुर–क्वुन् स्वार्थे क। गुल्फाष्टमभागे “आ गुल्फकण्ठात् सुमितस्य जन्तोस्तस्याष्टभागं खुलकाद्विभज्य” सुश्रु०।
खुल्ल = न० क्षुद–संप० क्विप् तां लाति ला–क पृषो०। १ नखीनामगन्धद्रव्ये शब्दच०। २ क्षुद्रे ३ अल्पे ४ कनिष्ठे च त्रि० स्वार्थे क। तत्रार्थे निष्ठुरे दरिद्रे खले च अमरः।
खुल्लतात = पु० खुल्लः कनिष्ठस्तातस्य नि० पूर्वनि०। पितुः कनिष्ठभ्रातरि शब्दच० एवं खुल्लपितामहादयोऽपि पितामहादेः कनिष्ठभ्रातरि।
खुल्लम = पु० खुल्लेन मीयते मा वा० घञर्थे क। पथि त्रिका०।
खृगल = न० तनुत्राणे “खृगलेव विस्रसः पातमस्मान्” ऋ० २। ३९। ४। खुगला “तनुहिंसाया रक्षतः” भा० “पिशङ्गे सूत्रे खृगलं तदा बघ्नन्ति बेधसः” अथ० ३। ९। ३।
खेखीलक = पु० खे आकाशे खीलक इव लस्य रः। शब्दवत्यां यष्ट्याम् हारा०।
खेगमन = पुंस्त्री खे आकाशे गमनमस्य अलुक् स०। कालकण्ठविहगे शब्दमा०।
खेचर = पु० खे चरति चर–ट अलुक्स०। १ शिवे, शब्दर० २ विद्याधरे जटा० ३ पारदे राजनि० ४ सूर्य्यादिग्रहे, ५ आकाशगामिमात्रे त्रि०। स्त्रियां ङीप्। ६ तृणे न० रत्ना० तृणस्य वात्यया खे गतिमत्त्वात्तथात्वम्। ७ घोटके पुंस्त्री शब्दरत्ना० ८ योगाङ्गे सुद्राभेदे स्त्री यथाह काशीख० ४० अ०। “कपालकुहरे जिह्वा प्रतिष्ठा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी। न पीड्यते स रोगेणन च लिप्येत कर्म्मणा। वाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम्। चित्तं चरनि खे यस्मात् जिह्वा चरति खे गता। तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता। यावद्विन्दुः स्थिरोदेहे तावत् मृत्युभयं कुतः। यावद्बद्धा च सा मुद्रा तावद्विन्दुर्न गच्छति” ९ तन्त्रोक्ते पूजाङ्गे मुद्राभेदे यथा “सव्यन्दक्षिणदेशेषु सव्यदेशे तु दक्षिणम्। बाहुङ्कृत्वा महादेवि। हस्तौ द्वौ परिवर्त्त्य च। कनिष्ठानामिके देवि! युक्ते तेन क्रमेण च। तर्ज्जनीभ्यां समाक्रान्ते सर्वोर्द्ध्वमपि मध्यमे। अङ्गुष्ठोर्द्ध्वं महेशानि! सरलां वापि कारयेत्। इयं सा खेचरी नाम्ना पार्थिवस्थानयोजिता” तन्त्रसा०। १० मेषादिराशौ पु०। “खेचराश्च सर्वे” ज्यो० त०। सर्वे राशयः।
खेट = भोजने अद० चु० उभ० सक० सेट्। खेटयति ते अचिखेटत् त।
खेऽट = पु० खेऽटति अट–अच् खिट–अच् वा। १ सूर्य्यादिग्रहे, “यस्मिन्नृक्षे स्थिताः खेऽटाः” इति ज्यो० त०। २ सुनिन्दके त्रि० विश्वः। ३ अधमे त्रि० अमरः ४ कर्षकग्रामे पु० मेदि० “खेटखर्वटवाटीश्च वनान्युपवनानि भाग० १, ७, ११। “खेटाः कर्षकग्रामाः” श्रीधरः। ५ अस्त्रभेदे पु०। “यष्टिरूपेण खेट! त्वमरिसंहारकारकः। देवीहस्तस्थितोनित्यम्” तत्पूजा मन्त्रः। स्वार्के क। तत्रार्थे पु० न० “दिव्याम्बरधरां देवीं खङ्ग खेटकवारिणीम्” भा० वि० ६ अ०। “अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ” वृह० सं०। अनयोःशाम्वप्रद्युम्नयोः, “खेटकं पूर्ण्णचापञ्च” दुर्गाध्यानम्। “खेटकास्त्रन्तु हस्तस्थितमेवारीन् हन्ति यथाह “हस्तघ्नोविश्वावयुनानि” यजु० १९, ५१। “हस्तेस्थितोहन्ति हस्तघ्नः खेटकः” वेददी० स च यष्टिरूपः। ६ चर्मणि मेदि०। खिट भये करणे घञ्। ७ मृगयायाम् पुंन० आखेटकम्। कर्त्तरि अच्। ८ वृणे न० हेमच०। कु(क)णपास्त्रस्याधःस्थिते ९ फलकाकारे काष्ठभेदे न० तन्मानमुक्तं हेमा० परि० ख० लक्षणसमुच्चये “तत्र खेटकमपि कु(क)णपस्य त्रिविधमुत्तमं द्वादशाङ्गुलं दशाङ्गुलं मध्यममष्ठाङ्गुलं निकृष्टम् बालानामेतत् खटकमबालानान्तु विंशत्यङ्गुलमुत्तममष्टादशाङ्गुलं मध्यमं षोडशाङ्गुलं निकृष्टमिति” औशनसनीतिः। १० धनवृद्धिजीविनि त्रि० हारा० ११ बलदेवगदायामित्यन्ये, १२ कफे मेदिनिः।
खेटाङ्ग = खेऽटमङ्गं यस्य। उपद्रावकजन्तुभेदे, “डाकिनी शाकिनीभूतप्रेतवेतालराक्षसाः। ग्रहकुष्माण्डखेटाडाः कालकर्ण्णी शिशुग्रहाः। ज्वरापस्मारविस्फोटतृतीयक चतुर्थकाः। सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्” काशी० ख० ३३ अध्या०।
खेटितान = पु० खेटति खिट–इन् खेऽटति अट–इन् वा खेटिः तानोऽस्य। वैतालिके बोधकरे शब्दमा०।
खेटिन् = पु० खिट–णिनि। १ नागरे २ कामिनि शब्दमा०।
खेड = भक्षणे अद० चु० उभ० सक० सेट्। खेडयति ते खचखेडत्
खेद = पु० खिद–भावे घञ्। १ शोके हेम० २ अवसादे जटा०। खिद–णिच् कर्त्तरि अच्। ३ रोगे कैयटः। “खेदोरत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमम्” सा० द० तस्य रतिमार्गगत्यादिकार्य्यता श्वासनिद्रादिकारणता चोक्ता “रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्य्ययः” सा० द०। “नियमितपरिखेदा तच्छिरश्चन्द्रपादैः” कुमा०।
खेदि = पु० खिद–अपादाने इन्। १ किरणे निघण्टुः।
खेदिन् = त्रि० खिद–णिच्–णिनि। १ दैन्यकारके स्त्रियां ङीप् सा च २ अशनपर्ण्णीलतायाम् शब्दच०।
खेय = त्रि० खन–कर्मणि यत् टेरेत्। १ खननीये २ परिखायां न० अमरः। ३ सेतुभेदे “सेतुश्च द्विरिधोज्ञेयः खेयो वन्ध्यस्तथैव च। तोयप्रवर्त्तनात् खेयः” मिता० नारदः। सेतुशब्दे विवृतिः। “नाऽखेयः सागरोऽप्यन्यस्तस्य सद्भृत्यशालिनः” भट्टिः।
खेल = चलने अक० गत्यां सक० भ्वा० पर० सेट्। खेलति अखे लीत्। ऋदित् अचिखेलत् त। “माऽस्मिन् खलः खेलतु” नैष०। खेला खेलनम् खेलः। “लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्” रघुः “खे खेलगामी तमुवाह वाहः” कुमा०। खेलितम् “स्फुटकमलोदरखेलितखञ्जनयुग्मम्” गीतगो०।
खेलन = न० खेल–ल्युट्। १ क्रीडायाम् हलायु०। आधारे ल्युट् ङीप्। २ शारिफलके (छक) स्त्री हेम०। करणे ल्युट्। ३ क्रीडासाधने।
खेला = विलासे कण्ड्वा० प० अक० सेट्। खेलायति अखेलायीत् खेलायां बभूव आस चकार। “खेलायन्ननिशं नापि सजुःकृत्य रतिं वसेत्” भट्टिः।
खेला = स्त्री खेल–भावे अ। क्रीडायाम् अमरः।
खेऽलि = स्त्री खे आकाशे अलति अल–इन्। १ गाने २ वाणे ३ सूर्य्ये ४ विहगे च पु० ५ आकाशगामिमात्रे त्रि०।
खेव = सेवने भ्वा० आ० सक० सेट्। खेवते अखेविष्ट ऋदित् अचिखेवत् त।
खेसर = पु० स्त्री खे आकाश इव शीघ्रगामित्वात् सरति सृ–ट अलुक् स०। गर्द्दभादश्वीजाते अश्वाद्गर्द्दभीजाते वा अश्वतरे पशुभेदे राजनि०।
खै = स्थैर्य्ये अक० खनने हिंसायाञ्च सक० भ्वा० पर० अनिट्। खायति अखासीत् चखौ।
खैमख = पु० खे आकाशे कर्त्तव्यः मखः स्वार्थे अण्। आकाशकर्त्तव्ये यज्ञभेदे “खण्वखाइ खैमखाइ मध्ये तदुरिः” अथ० ४। १५। १५। खैमखे इत्यत्र स्तोभयोगात् अग्ने इत्यत्र अग्नाइ इति तद्रूपम्।
खैलायन = त्रि० खिल + चतुरर्थ्यां पक्षा० फक्। खिलनिर्वृत्तादौ।
खोङ्काह = पुंस्त्री। श्वेतपिङ्गलवर्ण्णे अश्वे हेमच०।
खोट = गतिप्रतिघाते भ्वा० पर० अक० सेट्। खोटति अखोटीत्। चुखोट खोटः खोटनम् खोटितम्। ऋदित् चङ्य ह्रस्वः। अचुखोटत् त।
खोट = क्षेपे अद० चुरा० उभ० सक० सेट्। खोटयति ते अचुखोटत् त।
खोटि(टी) = स्त्री खोट–इन् वा ङीप्। १ चतुरनार्य्यां १ पालङ्कीवृक्षे च शब्दच०।
खोड = गतिप्रतिघाते भ्वा० पर० अक० सेट्। खोडति अखोडीत् चुखोड। ऋदित् णिचि चङ्यह्रस्वः अचुखोडत् त।
खोड = क्षेपे अद० चु० उभ० सक० सेट्। खोडयति ते अचुखोडत् त
खोड = त्रि० खोड–गतिप्रतिघाते अच्। खञ्जे। (खोडा)। कडारा० कर्म्म० वा पूर्ब्बनिपातः। बालखोडः खोडबालः।
खोडकशीर्षक = न० खोड क्षेपे ल्वुल् तथाभूतं शीर्षमस्य कप्। कपिशीर्षवृक्षे त्रिका०।
खोर = गतिवैकल्ये भ्वा० पर० अक० सेट्। खोरति अखोरीत्। चुखोर। ऋदित् चङि अह्रस्वः अचुखोरत् त।
खोर = त्रि० खोर–अच्। खञ्जे हेमच० संज्ञायां कन्। खोरक हयानां ज्वरे ज्वरशब्दे विवृतिः।
खोल = गतिवैकल्ये भ्वा० पर० अक० सेट्। खोलति अखोलीत् चुखोल ऋदित् च अह्रस्वः अचुखोलत् त।
खोल = त्रि० खोल–अच्। खञ्जे शब्दसा०।
खोलक = पु० खोल–अच् संज्ञायां कन्। पाकपात्रभेदे (खोला) २ शिरसो भागभेदे (खोपडा) ३ वल्भीके ४ गुवाकवल्कले मेदि०।
खोलि = स्त्री खोल–इन्। तूणे शब्दमा०।
खोल्मुक = पु० खे आकाशे उल्मुक इव रक्तवर्ण्णत्वात्। मङ्गलग्रहे त्रिका०।
ख्या = प्रसिद्धौ दीप्तौ अक० कथने प्रकाशने ज्ञाने च सक० अद० पर० अनिट्। ख्याति अख्यत्। आर्द्धधातुके चक्षिङआदेशः ख्याधातुस्तु उभ०। अख्यत् अख्यात–अख्यास्त। चख्यौ चख्ये। ख्यातः ख्यततः ख्यानम्। ख्येयम्। ख्याता तत्र कथने “अख्यन्मुनिस्तस्य शिवं समाधेः” भट्टिः। कर्म्मणि ख्यायते अख्यायि। “हिरण्यपुरमित्येव ख्यायते नगरं परम्” भा०। खपुरशब्दे दृश्यम्। “विभीषणेन सोऽख्यायि” भट्टिः। “शुभयोगसमायुक्ता शनौ शतभिषा यदि। महामहेति सा ख्याता कुलकोटीः समुद्धरेत्” ति० त०।
अति + अतिक्रम्य कथने। “परोरुद्रावतिख्यतम्” ऋ० ८। २२। १४।
अनु + अनुकर्षणे। “अनु पूर्वाणि चख्यथुर्युगानि” ऋ० ७। ७०। ४। “अनुचख्यथुः अनुकृष्टवन्तावनुग्रहार्थम्” भा०। अनुवादे च।
अनु + आ + तात्पर्य्यावधारणार्थं व्याख्याने अन्याख्यानशब्दे २१९ पृ० वृश्यम्।
अभि + आभिमुख्येन दर्शने “मृलीकं सुमना अभिख्यम्” ऋ० ७। ८६। २। “अभिख्यमभिपश्येयम्” भा०। “अभिख्याय तं तिगितेन विध्य” ऋ० २। ३०। ९। “अभिखाय संवीक्ष्य” भा०। अभितः ख्यातौ च “पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत!” भा० आनु० ९६ अ०। दीप्तौ अक० अभिख्या। “काप्यभिख्या तयोरासीत्” रघुः।
अव + अवाक्प्रेक्षणे। “अव हि ख्यताधिकूलादिवस्पशः” ऋ०८। ४७। २। न्यक्कारेण दर्शने च “यदा वाख्यत्स मर णम्” ऋ० १०। २७। ३। “अवाख्यत् अवाक्कृतं न्यक्कृतमहं पश्यामि” भा०।
आ + कथनेः। “आख्याहि मेकोभवानुग्ररूपः” गीता। आख्यातमाख्यातेन क्रियासातत्ये” पा०। “स पृष्टः सर्वतो घार्त्तमाख्यद्राज्ञे न सन्ततिम्” रघुः। “अनाख्याया ददन् दोषं दण्ड्य उत्तमसाहमम्” याज्ञ०। “सेवा श्ववृत्तिराख्याता” मनुः।
उद् + आ + उदाहरणे। “दश वीर्य्याण्युदाख्याय” शत० ब्रा० ३। ३। ३। ४
उप + आ + पुरावृत्तकथने। उपाख्यानम्। उत्तरदानेन व्याख्याने च। “यदुताहं त्वया पृष्टो वैरजात् पुरुषादिदम्। यदासीत् तद्–उदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः” भाग० २। ९। ४५।
प्रति + आ + निवारणे “यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद!” भा० व० ५६ अ०। “अभिप्रेतमनापन्नः प्रत्याख्यातुमनीश्वरः” भाग० ३। ३१। २५।
वि + आ + विवरणे शब्दान्तरेण तदर्थकाथने। “अथातः पुत्रपरिग्रहविधिं व्याख्यास्यामः” शौन कः। “व्याख्यातुं कुशलाः केचित् ग्रन्थान् धारयितुरं परे” भा० आ० १ अ०। विशेपेण कथने च “व्याचक्षुरुच्चैश्च शुभं प्रशस्तम्”।
अनु + वि + आ +। उक्तस्य पुनः व्याख्याने “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” छा० उप०।
उप + वि + आ + उपासनादिविभूतिफलकथने “ओमित्युद्गायति तस्योपव्याख्यानं भवति” छा० उ०। “तस्याक्षरस्योपव्याख्यानमेवमुपासनम् एवं बिभूति एवं फलमित्यादि कथनमुपव्याख्यानम्” भा०। “खल्वेतस्यैवाक्षरस्योपव्याख्यानम्” छा० उ०। सम् + आ + सम्यक्कथने। “तिथवस्ताः समाख्याताः षोडशैव वरानने!” स्कन्दपु० प्रभासस्व०।
परि + परितः सर्वतो वा ख्यातौ “सूतपुत्र! यथा तस्य भार्गवस्य महात्मनः। च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः” भा० आ० ५ अ०। “अञ्जनेति परिख्याता पत्नी केशरिणः कवेः” रामा० सू० २। १४।
सम् + परि + सम्यक् सर्वतः ख्यातौ। “यथावत् संपरिख्यातो गन्धर्वाप्सरसां तथा” भा० आ० ६५ अ०।
प्र + प्रकर्षेण कथने। “यस्तु देव मनुष्येषु प्रख्यातः सहजैर्गुणैः” भा० व० ३५ अ०।
वि + विशेषेण ख्यातौ “संह्राद इति विख्यातः प्रह्लादस्यानुजस्तु यः” भा० आ० ६७ अ०।
सम् + सम्यक् कथने “दश पितामहान् सोमपान् संख्याय” शत० ब्रा० ४। ३। ३। एकादिसंख्याभेदेन गणने “संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप!” भा० व० ७ अ०।
अन्वादिपूर्वकस्य समं तदुपसर्गद्योव्यार्थसहितसंख्याने “अतः कालं प्रसंख्याय संख्यामेकत्र पिण्डयेत्” सू० सि० प्रतिसंख्या प्रत्येकसंख्या प्रतीतसंख्या वेत्यर्थः।
ख्यात = त्रि० ख्या–क्त। १ कथिते २ विश्रुते च अमरः। भावे क्त। ४ कथने ५ वोषणायाम् न०। “तथा ख्यातविधानञ्च त्योगसञ्चार एव च” भा० शा० ५९ अ०। “ख्यातमभिमन्त्रितदुन्दुभिनादेन प्रयाणकथनम्” नीलक०।
ख्यातगर्हण = त्रि० ख्याता गर्हणा निन्दाऽस्य। प्रसिद्ध निन्दे अवगीते अमरः।
ख्यातगर्हित = त्रि० गर्हितं गर्हणं भावे क्त ख्यातं गर्हित मस्य। प्रसिद्धनिन्दे जटा०।
ख्याति = स्त्री ख्या + क्तिन्। १ प्रशंसायाम्, २ प्रसिद्धौ ३ कथने च अमरः। ४ प्रकाशे ५ ज्ञाने च। “ख्यातिञ्च सत्त्वपुरुषान्यतयाऽधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम्” माघः। “सत्त्वपुरुषयोः प्रकृतिपुरुषयोरन्यतया अन्यत्वेन मियो भिन्नत्थेम ख्यातिं ज्ञानं चाधिगम्य प्रकृतिपुरुषौ भिन्नाविति ज्ञात्वेत्यर्थः प्रकृतिपुरुषयोर्विवेकाग्रहणात् संसारः विवेकात् मुक्तिरिति साङ्ख्याः। अथ तां ख्यातिमपि निरोद्धुं निवर्त्तयितुं वाञ्छन्ति वृत्तिरूपान्तां निवर्त्य स्वयम्प्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः” मल्लि०। ज्ञानरूपा ख्यातिश्चतुर्विधा असत्ख्यातिशब्दे ५३१ पृ० दर्शिता। “प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः” पात० सू०। “यदायं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किञ्चित् प्रार्थयते तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारवीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्म्ममेघनामसमाधिर्भवति” भा०। “मनोमहान् मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः” इति शा० भा० दर्शिते हिरण्यगर्भबुद्धिरूपे ६ महत्तत्त्वे च। “स्वप्ने यथात्मानः ख्यातिः संसृतिर्न तु वास्तवी” साङ्ख्यप्रवचनभाष्यधृतवाक्यम्।
ख्यापक = त्रि० ख्या–ज्ञाने प्रकाशे णिचि ण्वुल्। १ ज्ञापके २ प्रकाशके “नित्यपुरुषख्यापकान् हेतून्” सुश्रुतः।
ख्यापन = न० ख्या–प्रकाशे णिच्–भावे ल्युट्। प्रकाशने “ख्यापनेनानुतापेन तपसा धारणेन च। पापकृन्मुच्यते पापात् तथा दानेन चापदि” मनुः। इति वाचस्पत्ये खकारादिशब्दार्थ सङ्कलनम्। २४६१ पृष्ठस्य क्रोडपत्रम् खङ्गिधेनुशब्दस्यपूर्व्वमिदम्
***