क्षी = हिंसायां भ्वा० उभ० सक० अनिट्। क्षयति ते अक्षेषीत् अक्षेष्ट। चिक्षाय चिक्षिये
क्षीज = अव्यक्तशब्दे भ्वा० पर० अक० सेट्। क्षीजति अक्षीजित् चिक्षीज
क्षीजन = न० क्षीज–भावे ल्युट्। कीचकवंशशब्दे हेम०।
क्षीण = त्रि० क्षि–क्त। १ दुर्बले, २ क्षामे च “अष्टमांशे चतुर्द्दश्याः क्षीणोभवति चन्द्रमाः” छन्दो०। “क्षीणे पुण्ये मर्त्यलोकं विशन्ति” श्रुतिः भावप्र० वातादिक्षयभेदेन क्षीणभेदास्तल्लक्षणादिकमुक्तम् “वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता। पित्तक्षयेऽधिकः श्लेष्मा वह्निमान्द्यं प्रभाक्षयः। सन्धयः शिथिलमूर्च्छा रौक्ष्मन्दाहः कफक्षये। हृत्पीडा कण्ठशोथोऽथ त्वक् शून्या तृड् रसक्षये। सिराः श्लथा हिमाम्लेच्छा त्वक्पारुष्यं क्षयेऽसृजः। गण्डौष्ठकन्धरास्कन्धवक्षोजौरः सन्धिषु। उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता। मेदीधमन्यः शिथिलाः भवेयुर्माससंक्षये। प्लीहाभिवृद्धिः सन्धीनां शून्यता तनुरूक्षता। प्रार्थना स्निग्धमांसस्य लिङ्गं स्यान्मेदसः क्षये। अस्थिशूलन्तनौ रौक्ष्यं नखदन्तत्रुटिस्तथा। अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्व्वैरुदाहृतम्। शुक्राल्पत्यं पूर्व्वभेदस्तोदः शून्यं त्वनस्थिनि। लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये। शुक्रक्षये रतेऽशक्तिर्व्यथा शेफसि सुष्कयोः। चिरेण शुक्रसेकः स्यात्सेके रक्ताल्पशुक्रता। अथौजःक्षयस्य निदानमाह “ग्रोजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः। रूक्षती क्ष्णोष्णकटुकैः कर्षणैरपरैरपि। अथ क्षीणौज आदीनां लक्षणमाह। “बिभेति दुर्बलोऽभीक्ष्णंचिन्तयेद्व्यथितेन्द्रियः। अभ्युत्थानोन्मना रूक्षः क्षामः स्यादोजसः क्षये। पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत्। सशब्दस्यानिलस्यीर्द्धगमनं कुक्षिसंवृतिः”। कुक्षिसंवृतिः उदरसङ्कोचः “मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते। स्वेदनाशे त्वचो रौक्ष्यञ्चक्षुषोरपि रूक्षता। स्तब्धाश्च रोमकूपाः स्युर्लिङ्गं स्वेदक्षये भवेत्। आर्त्तवस्य स्वकाले चाभावस्तस्याल्पताथ वा। जायते वेदना योनौ लिङ्गं स्यादार्त्तवक्षये। अभावः स्वल्पता वा स्यात् स्वप्नस्य भवतस्तथा। म्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये। अनुन्नतो भवेत्कुक्षिर्गर्भस्यास्पन्दनन्तथा। इति गर्भक्षये प्राज्ञैर्लक्षणं समुदाहृतम्”। अथ क्षीणानां धातुदोषमलानां वर्द्धनमाह। “तत्तत्संवर्द्धनाहारविहारातिनिषेवणात्। तत्तत् प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति। ओजस्तु वर्द्धते नॄणां सुस्निग्धस्वादुभिस्तथा। वृष्यैरन्यैर्विशेषात्तु क्षीरमांसरसादिभिः”। अन्यच्च “दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः। तत्तत्संवर्द्धनं यत्तदन्नपानं प्रकाज्ञति। यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः। तस्य तस्य स लाभेन तत्तत्क्षयमपोहति”। तत्र केन क्षीणः किङ्खाङ्क्षतीत्याकाङ्क्षायामाह “कषायकटुतिक्तानि रूक्षशीतलघूनि च। यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्षति”। पित्तक्षीणः किं काङ्खतीत्याकाङ्क्षायामाह “तिलमाषकुलत्थादिपिष्टान्नविकृतिन्तथा। मस्तुशुक्लाम्लतक्राणि काञ्जिकञ्च तथा दधि। कट्वम्ललवणोष्णानि तीक्ष्णं क्रोधं विदाहि च। समयं देशमुष्णञ्च पित्तक्षीणोऽभिकाङ्क्षाति। मधुरस्निग्धशीतानि लवणाम्लगुरूणि च। दधि क्षीरं दिवास्वप्नं कफक्षीणोभिकाङ्क्षति। रसक्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः। रात्रि निद्रां हिमं चन्द्रं भोक्तुञ्च मधुरं रसम्। इक्षुं मांस रसं मन्थं मधुसर्पिर्गुडौदनम्। द्राक्षादाडिमशुक्तानि सस्नेहलवणानि च। रक्तसिद्धानि मांसानि रक्तक्षीणोऽभिकाङ्क्षति। अन्नानि दधिसिद्धानि षाडवांश्च बहूनपि। स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्क्षति”। षाडवा मधुराम्लादिरससंयोगपाचिताः गुड प्रभृतयः। “मेदःसिद्धानि मांसानि ग्राम्यानूपौदकानि च। सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति। अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्। स्वा- द्वम्लसंयुतं द्रव्यं मज्जाक्षीणोऽभिकाङ्क्षति। शिखिनः कुक्वुटस्याण्डं हंससारसयोस्तथा। ग्राम्यानूपौदकानाञ्च शुक्रक्षीणोऽभिकाङ्क्षति। यवान्नं यावकान्नञ्च शाकानि विविधानि च। मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति। पेयमिक्षुरसं क्षीरं समुडं वदरोदकम्। मूत्रक्षीणोऽभिलषति त्रपुसेर्वारुकाणि च। अभ्यङ्गोद्वर्त्तने मद्यं निवातशयनासने। गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्षति। कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च। फलशाकानि पानानि स्त्री काङ्खत्यार्त्तवक्षये। सुराशाल्यन्नमांसानि गोक्षीरं शर्करान्तथा। आसवं दधि हृद्यानि स्तन्यक्षीणाऽभिवाञ्छति। मृगाजाविवराहाणां गर्भान्वाञ्छति संस्कतान्। वसाशूल्यप्रकारादीन् भोक्तु गर्भपरिक्षये”।
क्षीणचन्द्र = पु० कर्म्म०। उभयपक्षयोरष्टमीमध्यस्थे चन्द्रे “कृष्टाष्टमीदलादूर्द्ध्वं यावच्छुक्लाष्टमीदलम्। तावत्कालं शशी क्षीणः पूर्ण्णस्तत्रोपरि स्मृतः” ज्यो०।
क्षीणाष्टकर्म्मन् = पु० क्षीणान्यष्ट कर्म्माण्यस्य। जिने हेम० अर्हच्छब्दे ३८६ पृ० विवृतिः “अष्टकर्म्मक्षयान्मोक्षः” “क्षीणाष्टकर्म्मणोमुक्तिः” इति तत्रत्यवाक्यम्
क्षीब(व) = मदे भ्वा० आत्म० अक० सेट् क्षीब(व)ति अक्षीबी(वी)त्। चिक्षीब(व)
क्षीब(व) = त्रि० क्षीब(व)–क्त नि०। मत्ते। “क्षीबाः(वाः) कुर्वन्ति हास्यञ्च कलहं च तथाऽपरे” रामा० सु० ६० स०।
क्षीर = पु० न० क्षि–क्रन् दीर्घश्च, धस–अदने ईरन् किच्च उपधालोपे चर् वा अर्द्धर्चा०। १ दुग्धे २ जले अमरः ३ सरलद्रव्ये शब्दच०। “आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते। परतो मोरटं विद्यादप्रसन्नं कफात्मकम्” रत्नमा०। क्षीरवर्गशब्दे विवृतिः “शाकाम्लपलपिण्याकंकुलत्थलवणा मिषैः। करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते। स्निग्धं शीतं गुरु क्षीरं सवेकालं न सेवयेत्। दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च। क्षीरं न भुञ्जीत कदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्द्धम्। पिष्टान्नसन्धायकमाषमुद्गकोषातकीकन्दफलादिकैश्च”। “मत्स्यमांसगुडमुद्गमूलकैः कुष्ठितां वहति सेवितं पयः। शाकजाम्बवरसादिसेवितं मारयत्यबुधमाशु सर्पवत्” वैद्यके द्रव्यान्तरसंयोगे तस्यवर्ज्यतोक्ता। “धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य योनरः। शिरसा प्रतिगृह्लाति स पापेभ्यः प्रमुच्यते” वरा० पु० “येषु क्षीरवहा नद्योह्रदाः पायसकर्दमाः। तान् लोकान् पुरुषा यान्ति क्षीरस्नपनका हरेः। आह्लादं निर्वृतिं स्वाम्यमारोग्यं चानुरूपताम्। सप्तजन्मस्ववाप्नोति क्षीरस्नानपरोहरेः। दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा। तथैवाशेषकामानां क्षीरस्नपनमुत्तमम्। यथा च विमलं क्षीरं यथा निर्वृतिकारकम्। तयास्य विमलं ज्ञानं भविष्यति फलपदम्। ग्रहानुकूलतां पुष्टिं प्रियत्वञ्चाखिले जने। करोति भगवान् विष्णुः क्षीरस्नपनतोषितः। सर्शोऽस्य स्रिग्धतामेति दृष्टिमात्रे प्रसीदति। शृतक्षीरेण देवेशे स्नपिते मधुसूदने”। वह्नि० पु० क्रियायोगनामाध्याये। तत्पाकविधिः भावप्र०। “क्षीरमष्टगुण द्रव्यात् क्षीरान्नीरं चतुर्गुणम्। क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत्”
क्षीरक = पु० क्षीरमिव कायति कै–क। क्षीरमोरटलतायाम् रत्नमा०।
क्षीरकञ्चुकी = स्त्री क्षीरं कञ्चुक मिव त्वगस्य। क्षीरीश वृक्षे रत्नमा०।
क्षीरकण्ठ = पु० क्षीरं कण्ठे यस्य। स्तनन्धये बालके।
क्षीरकन्द = पु० क्षीरमिव कन्दोयस्य। १ क्षीरविदार्य्याम्, जटाधरः २ क्षीरवल्ल्यां स्त्री राजनि०। “क्षीरकन्दोद्विधा प्रोक्तो विनालश्च सनालकः” राजनि०।
क्षीरकाकोलिका = क्षी क्षीरमिव शुभ्रा काकोली। क्षीरविदार्य्यां भावप्र० काकोलीशब्दे १८५४ दृश्यम्।
क्षीरकाण्डक = पु० क्षीरान्वितं काण्डं यस्य कप्। १ स्नुहीवृक्षे, २ अर्कवृक्ष च अमरः।
क्षीरकाष्ठा = स्त्री क्षीरप्रधानं काष्ठमस्याः। वटीवृक्ष राजनि०
क्षीरकीट = पु० ६ त०। दुग्धजाते कीटभेदे हारा०
क्षीरक्षव = पु० क्षीरं क्षवति क्षु–अच्। दुग्धपाषाणे राजनि०
क्षीरखर्ज्जूर = पु० क्षीरवत् स्वादुः खज्र्जूरः। पिण्डखज्र्जूरे
क्षीरघृत = न० क्षीरावस्थात उड्भूत घृतम्। मथितदुग्धजाते घृते “क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितञ्च” सुश्रुते तद्गुणा उक्ताः “द्राक्षारसं क्षीरवृतं पिबेद्वा” सुश्रुतः
क्षीरज = न० क्षीराज्जायते जन–ड। १ दध्नि हेम० २ दुग्धजातमात्रे त्रि०
क्षीरतेल = न० क्षीरपक्वं तैलम्। सुश्रुतोक्ते तैलभेदे “द्रोणेनक्वाथ्य पादांशशिष्टमवतार्य्य परिस्राव्य तैलेनोन्मिश्र्य पुनरग्नावधिश्रयेत् ततस्तैलं क्षीरानुगतमवताय्य शीतीभूतमभिमथनी यात्तत्र यः म्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेदेतत् क्षीरतैलमर्दितातुरागां पानाभ्यङ्गादिषूपयोज्यम्। तैलहीनं वा क्षीरसपिर क्षतर्पणमिति”।
क्षीरदल = पु० क्षीरं दले यस्य। अर्कवृक्षे (आकन्द) राजनि०
क्षीरद्रुम = पु० क्षीरप्रधानोद्रुमः शा० त०। अश्वत्यवृक्षे राजनि०
क्षीरधि = पु० क्षीरं धीयतेऽस्मिन् धा–आधारे कि। क्षीरसमुद्रे क्षीरनिधिरप्यत्र। “इन्दुः क्षीरनिधाविव” रघुः
क्षीरधेनु = स्त्री क्षीरनिर्म्मिता धेनुः। दानार्थकल्पितक्षीरविहितधेन्वाम् तद्विधानादि हेमा० दा० ख० स्क पु० यथा “क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिय!। अनुलिप्ते महीपृष्ठे गोमयेन नरोत्तम!। गोचर्म्ममात्रमानेन कुशानास्तीर्य्य सर्वतः। तत्रोपरि महाराज! न्यसेत् कृष्णाजिनं बुधः। तत्रोपरि कुण्डलीकां गोमयेन कृतामपि। क्षीरकुम्भं ततः स्थाप्य चनुर्थांशेन वत्सकम्। सुवर्णमुखशृङ्गाणि चन्दनामुरुकाणि च। प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत्। मुखं गुडमयं तस्या जिह्वा शर्करया तथा। फलपशस्तदन्ताञ्च मुक्ताफलमयेक्षणाम्। इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम्। ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयं तथा। पुच्छञ्च, नृपशार्दूल! नवनीतमयस्तनीम्। स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नमयीं भुवि। चत्वारि तिलपात्राणि चतुर्द्दिक्षपि स्थापयेत्। सप्तव्रीहिसमायुक्तां दिक्षु सर्वासु प्रक्षिपेत्। एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत्। आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्च्चयेत्। धूपन्दीपादिकं कृत्वा ब्राह्मणाय निवेदयेत्। आच्छाद्यालङ्कृतं कृत्वा मुद्रिकाकर्णपत्रकैः। पादुकोपानहं छत्रं दत्त्वा दानं समर्पयेत्। अनेनैव तु मन्त्रेण क्षीरधेनुं प्रकल्पयेत्। या लक्ष्मीः सर्वभूतानामित्यादि नरपुङ्कव!। आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रदापयेत्। गृह्णामि त्वां देवि! भक्त्याग्राहको मन्त्रमुच्चरेत्। एवं धेनुं प्रादायाथ क्षीराहारोदिनं चरेत्। त्रिरात्रन्तु पयोभक्षो ब्राह्मणो राजसत्तम!। दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम्। एतां हेमसहस्रेण शतेनाथ स्वशक्तितः। शतार्द्धमथ वाप्यर्द्धं, तथैवार्द्धं यथेच्छया। दत्त्वा धनु महाराज! शृणु तस्यापि तत्फलम्। दिव्यं वर्षसहस्रन्तु रुद्रलोके महीयते। पितृपितामहैः सार्द्धं ब्रह्मणोभवनं व्रजेत्। दिव्यं विमानमारूढो दिव्यगन्धानुलेपनः। क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति। द्वादशादित्यसङ्काशैर्विमानैर्वरमण्डितैः। गीतवादित्रनिर्घोषैरप्सरोगणमेवितैः। तत्रोपविष्टोऽसौ राजा विष्णुसायुज्यतां व्रजेत्। य इदं शृणुयाद्राजन्। पठेद्वा भक्तिभा वितः। सर्वपापविनिर्म्मुक्तो विष्णुलोकं स गच्छति”
क्षीरनाश = पु० क्षीरं नाशयति नश–णिच् अण् उप० स०। शाखोटकवृक्ष राजनि०। तद्दलदुग्धयोगादन्यदुग्धस्य श्रन्थनं लोकसिद्धम्।
क्षीरनीर = न० क्षीराक्तं नीरमिव। १ आलिङ्गने शब्दमा० आलिङ्गने हि क्षीरनीरयोविव संसर्गोभवति। समा० द्व०। २ क्षीरनीरसमाहारे न० “क्षीरनीरसमंमित्रं प्रशंसन्ति विचक्षणाः। तत्र नीरं क्षीरयति” वेता०। क्षीरमिव नीरम्। ३ क्षीरतुल्ये जले न० क्षीरनीरं धीयतेऽत्र धा–आधारे कि। क्षीरधि दुग्धसमुद्रे पु०।
क्षीरप = त्रि० क्षीरं षिबति पा–क। दुग्धपायिनि बालक भेदे पु० “तत्रोनषोडशवर्षा वालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादा इति तेषु सम्वत्सरपराः क्षीरपाः द्विसंवत्सरपराः क्षीरान्नादाः परतोऽन्नादाः” सुश्रु० “क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः। न तेषां क्षीरपाः केचित् भवन्ति कुलवर्द्धनाः” भा० आनु० १२५ अ०
क्षीरपर्ण्णिन् = पु० क्षीरयुक्तं पर्ण्णमस्त्यस्य इनि। अर्कवृक्षे राजनि०
क्षीरपर्णी = स्त्री क्षीरं पर्णेऽस्या गौ० ङीष्। अर्कवृक्षे शब्दचि०
क्षीरपलाण्डु = पु० स्थिरमिव शुभ्रः पलाण्डुः। श्वेतपलाण्डौ स्निग्धोरुचिष्यः स्थिरधातुकर्त्ता वल्योऽस्रमेधाकर पुष्टिदश्च। स्वादुर्गुरुः स्वादितपित्तशस्तः सपिच्छलः क्षीरपलाण्डुरुक्तः” सुश्रुते तद्गुणा उक्ताः।
क्षीरपाण = पु० पीयते पा–कर्म्मणि ल्युट् क्षीरं पानंयस्य “पानं देशे” पाणत्वम् अत्र देशः देशस्थायिजनपरः। १ उशीनरवासिजने सि० कौ० “वा भावकरणयोः” पा० भावे करणे च ल्युटि वा णत्वम् ६ त०। २ तत्पानकरणे त्रि०। ३ तत्पानपात्र्यां स्त्री ङीष्। ४ दुग्धस्य पाने न०।
क्षीरभृत = पु० क्षीरेण भृतः। दुग्धमात्रभृतिके गोपाले भृय्तभेदे। “गोपः क्षीरभृतोयस्तु स दुह्याद्दशतो वराम्। गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः” मनुः “यो गोपालख्यो भृत्यः क्षीरेण भृतो न भक्तादिना स स्वाम्यनुज्ञया दशभ्योगोभ्यः श्रेष्ठामेकां गां भृत्यर्थं दुह्यात् सा प्रक्तादिरहिते गोपाले भृतिः स्यात्। एवञ्चैकगवीक्षीरदानेन दश गाः पालयेदित्युक्तम्” कुल्लू०
क्षीरवर्ग = पु० ६ त० सुश्रुतोक्ते क्षीरभेदसंघे यथा “गव्यमाजन्तथा चौष्ट्रमाविकं माहिषञ्च यत्। अश्वायाश्चैव नर्य्याश्च करेणूनाञ्च यत्पयः। तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु। मधुरं पिच्छ्विलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु। सर्वप्राणभृतां तस्मात्स्यत्म्यं क्षीरमि- होच्यते। तत्र सर्व्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात्। वातपित्तशोणितमानसविकारेष्वविरुद्धम्। जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्वस्तिपाण्डुरोगग्रहणीदोषार्शःशूलोदावर्त्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं सन्धानमास्थापनं वयःस्थापनमायुष्यं जीवनं वृंहणंवमनं विरेचनञ्च तुल्यगुणत्वाच्चौजसो वर्द्धनमिति बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानाञ्च पथ्यतमम्। गोक्षीरमनभिस्यन्दि स्निग्धं गुरु रसायनम्। रक्तपित्तहरं शीतं मधुरं रसपाकयोः। जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम्। गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम्। दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत्। अजानामल्पकायत्वात् कटुतिक्तनिषेवणात्। नात्यम्बुपानाद्व्यायामात्सर्व्वव्याधिहरं पयः। रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु। शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम्। आविकं मधुरं स्निग्धं गुरु पित्तकफावहम्। पथ्यं केवलवातेषु कासे चानिलसम्भवे। महाभिस्यन्दि मधुरं माहिषं वह्निनाशनम्। निद्राकरं शीतकरं गव्यात् स्निग्धतरंगुरु। उष्णं चैकशफं बल्यं शाखावातहरं लघु। नार्य्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम्। नस्याश्च्येतनयोः पथ्यंजीवनंलघु दीपनम्। हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु। स्निग्धं स्थैर्य्यकरं शीतंचक्षुष्यं बलवर्द्धनम्। प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम्। रात्रौ सोमगुणत्वाञ्च व्यायामाभावतस्तथा। दिवाकराभितप्तानां व्यायामानिलसेवनात्। वातानुलोमि श्रान्तिघ्नं चक्षुष्यंचापराह्णिकम्। पयोऽभिस्यन्दि गुर्व्वामंप्रायशः परिकीर्त्तितम्। तदेवोक्तं लघुतरमनभिस्यन्ति वै शृतम्। वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम्। धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा। तदेवातिशृतंसर्वं गुरु वृंहणमुच्यते। अनिष्टगन्धमम्लञ्च विवर्णं विरसञ्च यत्। वर्ज्यं सलवणं क्षीरं यच्च विश्रथितं भवेत्”। भावप्र० अत्रविशेष उक्तस्तत्रैव दृश्य।
क्षीरमोरट = पु० क्षीरवत् स्वादुः मोरटः। मोरटभेदे मोरटशब्दे विवृतिः। “क्षीरमोरटमधूलिकाकुष्माण्डप्रभृतीनि समासेव मधुरोवर्गः” सुश्रु० सा च पीलुपर्णीत्येके।
क्षीरलता = स्त्री क्षीरप्रधाना लता। क्षीरविदार्य्याम रालनि०
क्षीरवत् = पु० क्षीरमिव निर्यासोऽस्त्यस्य मतप् मस्य वः १ अश्वत्थादौ श्वेतनिर्य्यासयुक्ते वृक्षे। २ दुग्धयुक्ते त्रि० “अपूपवान् क्षीरचांश्चरुमेहसादतु” अथ० १८। ४। १६ स्त्रियां ङीप्। सा च ७ नदीभेदे “ततः क्षीरवतीं गच्छेत् पुण्यां पुण्यतमैर्वृताम्। पितृदेवार्चनपरो वाजपेयमवाप्नुयात्” भा० व० ८४ अ०
क्षीरवल्ली = स्त्री क्षीरा क्षीरवती वल्ली। क्षीरविदार्य्याम् राजनि०
क्षीरवारि = पु० क्षीरमिव वारि यस्य। क्षीरसमुद्रे
क्षीरवारिधि = पु० क्षीरमिव वारि धीयतेऽस्मिन् धा–आघारे कि! क्षीरसमुद्रे क्षीरसिन्धुपभृतयोऽप्यत्र
क्षीरविकृति = स्त्री ६ त० (क्षीरसा) कूर्चिकायाम् अमरः
क्षीरविदारी = स्त्री क्षीरमिव शुभ्रा विदारी। १ श्वेतभूमिकुष्माण्डे शब्दाचि०। क्षीरप्रधाना विदारी। २ शुक्लकृष्णयोर्भूमिकुष्माण्डयोः राजनि०
क्षीरविषाणिका = स्त्री क्षीरमिव विषाणमग्रमस्त्यस्य ठन्। १ वृश्चिकालीवृक्षे (विछाटि) जटाध०। २ क्षीरकाकोल्याम् राजनि०
क्षीरवृक्ष = पु० क्षीरप्रधानोवृक्षः। १ उदुम्बरे जटा० २ क्षीरिकायां भरतः। ३ राजादन्याम् राजनि० ४ न्यग्रोधे ५ अश्वत्थे ६ मधूके (मौल) च सुश्रुतः। “चतुर्णां वा क्षीरवृक्षाणां न्यग्रोधोदुम्बराश्वत्थमधूकानाम्” सुश्रु० “पत्राणि क्षीरवृक्षाणाम्” सुश्रु०।
क्षीरशर = पु० क्षीरं शीर्य्यतेऽत्र शॄ–आधारे अण्। आभिक्षायां हेमच० दधियोगात्तप्तोष्णपयसः श्रन्थनेन जायमानत्वात् तथात्वम्।
क्षीरशाक = न० “पक्वमेव हि यन्नष्टं क्षीरशाकं हि तत् पयः” भावप्र० उक्ते नष्टे दुग्धे (छे~डा दुध)
क्षीरशीर्ष = पु० क्षीरमिव शीर्षमस्य। श्रीवासे चन्दनभेदे राजनि०
क्षीरशुक्ल = पु० क्षीरमिव शुक्लः। ङ्गाटके (प नीयफल) शब्दच०। २ राजादन्यां राजनि०। ३ शुक्लभूकुष्माण्डे स्त्री अम०
क्षीरशुक्रा = स्त्री क्षीरवत् शुक्रा। क्षीरकाकल्यां राजनि०
क्षीरश्री = त्रि० क्षीरेण श्रीयते मिश्रीक्रियते श्री–कर्म्मणि क्विप्। क्षीरमिश्रिते सीमादौ “शुक्रः क्षीरश्रीः” यजु० ८। ५७। “क्षीरमिश्रितः सोमः शुक्र एव भवति” वेददी० क्षीरस्य श्रीरिव श्रीरस्य। २ दुगधतुल्यशोभाके त्रि०। ६ त०। ३ दुग्धशोभायां स्त्री
क्षीरषट्पलक = न० क्षीरेण षण्णां पञ्चकोलानां पलमत्र कप्। चक्र० उक्ते पक्वे घृते “पञ्चकोलैः ससिन्धूत्थैः पलिकैः पयसा समम्। सर्पिः प्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत्”
क्षीरषष्टिक = न० क्षीरेण पक्वं षष्टिकम्। क्षीरपक्वे षष्टिक धान्यान्ने। तच्च ग्रहयज्ञे बुधबलौ देयं यथाह याज्ञ० “गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम्। दध्योदनं हविश्चूर्ण्णं मांसं चित्रान्नमेव च। दद्यात् ग्रहक्र तं तत्”।
क्षीरस = पु० क्षीरं स्यति सो–क। क्षीरशरे राजनि०
क्षीरसन्तानिका = स्त्री० क्षीरस्य सन्तानोऽस्त्यस्य ठन्। आमिक्षायां (छाना) राजनि० “क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा” राजनि०
क्षीरसमुद्र = पु० क्षीरतुल्यः स्वादुरसः समुद्रः। क्षीराम्बुधौ क्षीरसागरादयोऽप्यत्र। “मथितःक्षीरसागरः” भाग० ८। ८। ४
क्षीरसर्पिस् = न० क्षीरेण पक्वं सर्पिः। सुश्रुतीक्ते क्षीरतैलपाकविधिना क्षीरेण पक्वे घृतभेदे। क्षीरतैलपाकविधिः क्षीरतैलशब्दे उक्तः। “तैलहीनं वा क्षीरसर्पिरक्षितर्पणम्” सुश्रु०। “क्षीरसर्पिषा चैनमनुवासयेत्” सुश्रु०
क्षीरसार = पु० क्षीरं सरति गच्छति कारणत्वेन सृ–अण्। क्षीरजाते शृङ्गाटकादिचूर्ण्णमिश्रणेन (पालजात) ख्याते १ पदार्थे! ६ त०। २ नवनीते च “क्षीरसारमपनीय शङ्कया स्वीकृतं यदि पलायनं त्वया” उद्भटः।
क्षीरस्फटिक = पु० क्षीरमिव शुभ्रः स्फटिकः। क्षीरवर्ण्णे स्फटिकमणिभेदे हेम०।
क्षीरस्वामिन् = पु० अमरटीकाकारे शाब्दिके पण्डितभेदे
क्षीरहिण्डीर = पु० ६ त०। दुग्धफेने शब्दचिन्ता०।
क्षीरह्रद = पु० क्षीरपूर्ण्णोह्रदः। क्षीरपूर्ण्णे ह्रदे। तत्रभवादौ शिवा०–अण्। क्षैरह्रद तद्भवादौ त्रि०
क्षीरा = स्त्री क्षीरं तद्वर्ण्णोऽस्त्यस्य अच्। काकोल्याम् राजनि०
क्षीराब्धि = पु० क्षीरस्य दुग्धरसस्याब्धिः। क्षीरसमुद्रे एवं क्षीरसागराद्रयोऽप्यत्र।
क्षीराब्धिज = पु० क्षीराब्धौ जायते जन–ड। १ चन्द्रे। २ लक्ष्म्यां स्त्री ३ अमृतादौ यथायोग्यलिङ्गता। ४ मौक्तिके ५ सामुद्रलवणे न० मेदि०। “यथा भगवता व्रह्मन्! मथितः क्षीरसागरः” इत्युपक्रमे भाग० ८, ८, अ० तेषामुम्पत्तिर्दर्शिता यथा “तन्नागा जगृहुः सर्वे तच्छेषं शङ्करोऽग्रहीत्। नारायणाज्ञया तेन नालकण्ठत्वमाप्नुवान्। ऐरावतश्च नागेन्द्रो हयश्चोञ्चैःश्रवाः पुनः। द्वितीयावर्त्तनाद्राजन्नुत्पन्नाविति नः श्रुतम्। तृतीयावर्त्तनेऽप्सरोगणो जातः सुशोभनः। चतुर्थात् पारिजातश्च उत्पन्नः स महातरुः। पञ्चमात् हिमगुस्तस्मात् उत्थितः क्षीरसागरात्। तं भवः शिरसा धत्ते नारीव स्वस्तिकं नृप!। नाना- नाविधानि रत्नानि दिव्यान्याभरणानि च। क्षीरोदधेस्तूत्थितानि गन्धर्वाश्च सहस्रशः। एतान् दृष्ट्वा तदोत्पन्ना नत्याश्चर्य्यसमन्विताः। अभवन् जातहर्षास्ते तत्र सर्वे सुरासुराः। दैवपक्षे ततो मेघाः सम्यग्वर्षन्ति संस्थिताः। कृष्णाज्ञया तु वायुस्तु सुखं वाति सुरान् प्रति। विष निःश्वासवातेन वासुकेश्चार्कतापनात्। निस्तेजसोऽभवन् दैत्यानिर्वीर्याश्च महामते!। ततःश्रीरुत्यिता तस्मात् क्षीरोदाद्धृतपङ्कजा। विभ्राजमाना राजेन्द्र दिशः सर्वाः स्वतेजसा। ततस्तीर्थोदकैःस्नाता दिव्यव त्रैरलङ्कृता। दिव्यगग्धानुलेपैस्तु सुमनोभिः सुपजिता। देवपक्षं समासाद्य स्थिता क्षणमरिन्दम!। हरिवक्ष थलं प्राप्ताततः सा कमलालया। ततोऽमृतधटं पूर्णं गृहीत्वा पयसोनिधेः। धन्वन्तरिः समुत्तस्थौ”।
क्षीराब्धितनय = स्त्री ६ त०। लक्ष्म्यां १ तस्यास्तज्जातत्वात्तथात्वम् २ चन्द्रे पु० क्षीराब्धिजशब्दे दृश्यम्।
क्षीरावी = स्त्री क्षीरमवति अव–अण् ङीप्। दुग्धिकायाम् (दुधी) अमरः स्वार्थे क। तत्रार्थे। अस्याः पत्रच्छेदने दुग्धवन्निर्यासबहिर्भावात्तथात्वम्। सा च “वकुलतुल्यपत्रा” सुभूतिः।
क्षीराह्व = पु० क्षीरमाह्वयते स्पर्द्धते आ + ह्वे–क। सरलद्रुमे त्रिका०
क्षीरिका = स्त्री क्षीरं तत्तुल्यस्वादोऽस्त्यस्य ठन्। १ राजादने २ पिण्डखर्ज्जूरे अमरः। “क्षीरिकायाः फलं पक्वं गुरु विष्ठम्भि शीतलम्” राजनि०। “क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु। तृष्णामूर्च्छामदभ्रान्तिक्षयदो यत्रयास्रजित्” भावप्र०। ३ परमान्ने भावप्र० कृतान्नशब्दे २१८० पृ० दृश्यम्
क्षीरिद्रमाद्य = न० “क्षीरिद्रुमाद्योत्थरसे विपक्वं तज्जैश्च कल्कैः पयसा च सर्पिः। सितोपलार्द्धं मधुपादयुक्तं रक्तातिसारं शमयत्युदीर्णम्” चक्रदत्तोक्ते घृतभेदे
क्षीरिन् = पु० क्षीरं तत्तुल्यनिर्यासोऽस्त्यस्य इनि। क्षीरतुल्य निर्यासयुक्ते १ वृक्षभेदे स च भावप० उक्तो यथा “न्यग्रीधोदुम्बराश्वत्थपारीषप्लक्षपादपाः। पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक् पञ्चवल्कलम्। केचित्तु पारीषस्थाने शिरीषं वेतसं परे” वदन्तीति शेषः। “क्षीरवृक्षा हिमा वण्या योनिरोगव्रणापहाः। रूक्षाः कषायामेदोघ्न विसर्पामयनाशनाः। शोथपित्तकफास्रघ्नाः स्तन्याभग्नात्यियोजकाः। त्वक्पञ्चकं हिमं ग्राहि व्रणशोथ विसर्पजित् तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघु। विष्टम्भाध्मानजित् तिक्तं कषायं लघुलेखनम्” तद्गुणाः। २ हिमजायां तिक्तदुग्धायां पीतदुग्धायां क्षीरिकायां स्त्री ङीप् जटा० “क्षीरिणी तिक्तपीता च रेचना शोकतापनुत्। क्रमिदोषकफघ्नी च पित्तज्वरहरी परा” राजनि०। ३ वराहक्रान्तायां शब्दचि० ४ कुटुम्बिन्यां ५ काश्मर्य्यां ६ दुग्धिकायां च राजनि० दुग्धिकायां पुंस्त्री शब्दच० ७ स्नुहीवृक्षे ८ अर्कवृक्ष ९ राजादन्याम् १० दुग्धपाषाणे ११ प्लक्षे १२ सोमलतायां १३ स्थालीवृक्षे च पु० राजनि०
क्षीरी = स्त्री० क्षीर + अस्त्यर्थे अच् गौरा० ङीष्। (शिरखोला) ख्याते वृक्षभेदे शब्दर०।
क्षीरीश = पु० क्षीरिणां वृक्षाणामीशः प्रधानत्वात्। वरपर्णे स्रुक्छदे मूलकाकारमूले खसगन्धे वृक्षभेदे रत्नमा०।
क्षीरेयी = स्त्री० क्षीरेण ईं शोभां याति या–क गौ० ङीष्, क्षीर + वा० भवार्थे ढञ् वा ङीप्। परमान्ने हला०
क्षीरोद = पु० क्षीरमिव स्वादु उदकं यस्य उदादेशः। दुग्धसमुदे “ततः श्रीरुत्थिता तस्मात् क्षीरोदात् धृतपङ्कजा” नृसिंहपु०। क्षीरोदमन्थनकथा यथा “मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्। दानवैः सहिता भूत्वा मथध्वं क्षीरसागरम्। अहञ्च तत्र साहाय्यं करिष्यामि दिवौकसः!। भविष्यत्यमृतं तत्र तत्पानाद्बलवत्तराः। भविष्यथ क्षणादेव अमृतस्य प्रमावतः। यूयं सर्व्वे महाबीर्य्या भुञ्जिष्ठा रणविक्रमाः। इन्द्राद्यास्तु महोत्साहाः स्थानलब्धिसहानरीन्। ततो हि दानवान् जेतुं समर्था नात्र संशयः। इत्युक्ता देवदेवेन देवाः सर्व्वे जगत्पतिम्। प्रणम्यागत्य निलयं सन्धिं कृत्वाथ दानवैः। क्षीराब्धिमथने सर्व्वे चक्रुरुद्योगमुत्तमम्। बलिना चोद्धृतो राजन्! मन्दराख्यो महागिरिः। क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम!। सर्व्वौषधिश्च प्रक्षिप्ता देवैर्दैत्यैः पयोदधौ। वासुकिश्च ततस्तत्र राजन्। नारायणाज्ञया। सर्वदेवहितार्थाय वि ष्णुश्च स्वयमागतः। तती विष्णुसमादेशात्तत्र सर्वे सुरासुराः। समेत्य मित्रभावेन क्षीराब्धेस्तटमाश्रिताः। मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाऽथ वासुकिम्। ततो मथितुमारब्धा नृपते! तरसाऽमृतम्। विष्णुना मुखभागे तु वासुकेर्दानवाः कृताः। देवाश्च पुच्छभागे तु मन्थनार्थं नियोजिताः। एवन्तु मन्थनात्तत्र मन्दराधः प्रविश्य वै। आधारेण विना राजंस्तं दृष्ट्वा सहसा हरिः। सर्वलोकहितार्थाय कूर्म्मरूपमधारयत्। आत्मानं सं- प्रवेश्याथ मन्दरस्य गिरेरधः। प्रविश्य धृतवान् शैलं पृथग्रूपेण केशवः। उपर्य्याक्रान्तवान् शैलं पृथग्रूपेण केशवः। चकर्ष नागराजानं देवैः सार्द्धं जनार्द्दनः। असुरादृश्यरूपेण दैत्यमध्ये च केशवः। ततस्ते तु त्वरायुक्ता ममन्थुः क्षीरसागरम्। यावच्छक्त्या नृपश्रेष्ठ! बलवन्तः सुरासुराः। मय्यमाने ततस्तस्मात् क्षीराब्धे रभवन्नप!। कालकूटमिति ख्यातं विषभत्यन्ततःसहम्”
क्षीरोदतनय = पु० ६ त०। १ चन्द्रे २ लक्ष्म्यां स्त्री क्षीरोदसुतादयोऽप्यत्र पुंस्त्री।
क्षीरौदन = पु० क्षीरेणोपसिक्त ओदनः “अन्नेन व्यञ्जनम्” पा० स०। दुग्धीपसिक्ते भक्ते “क्षीरौदनं भुक्तमथानुवासीत्” सुश्रु०
क्षीव = निरासे भ्वा० प० सक० सेट्। क्षीवति अक्षीवीत् चिक्षीव। निरासः फुत्कारः तत्र अक०। मुखेन श्लेष्मादेर्वमनञ्च तत्र सक० इति भेदः।
क्षु = क्षुतौ पु०(हा~चि) अदा० अक० सेट्। क्षौति क्षुतः क्षुवन्ति अक्षावीत् चुक्षाय क्षविष्यति। उगन्तत्वात् किति कृति अनिट्क्षुतम्। क्षुतिः क्षुत्वा। क्षयथुः “पुरांचुक्षाव चाशुभम्” भट्टिः। “कृतकं कामिनि चुक्षुवे मृगाक्ष्या” माघः “सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः। पीत्वापोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन्”। “क्षुवतीं जृम्भमाणां वा” मनुः। “क्षतोत्पतनजृम्भसु” ति० त० पुरा०। “रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या” चोरप०।
अव + अधःस्थस्य क्षवथुना दूषणे “अवक्षुतं केशपतङ्गकीटैः” यमः। अवक्षुतं उपरिकृतक्षुतेन दूषितम्। “पतितान्नमवक्षुतम्” मनुः “अवक्षुतम् उपरिकृवक्षुतम्” कुल्लू० अन्योपसर्गपूर्व्वस्तु तत्तद्द्योत्यार्थयुक्तक्षुतौ।
क्षु = पु० क्षुद–बा० डु। १ अन्ने निघण्टुः “तक्षद्यदी मनसोवेनता वाग्ज्येष्ठाय व धर्म्मणि क्षोरनीके” ऋ० ९। ५। ७। २२ क्षण–हिंसायां डु। २ सिंहे एकाक्ष रकोषः ३ स्तवादिशब्दे क्षुमत्
क्षुण = पु० क्षु–नक्। अरिष्टवृक्षे शब्दच०
क्षुण्ण = त्रि० क्षुद–क्त। १ अभ्यस्ते, २ विहते ३ चूर्णीकृते च जटा०। “अभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्” “क्षुण्णं यदन्तःकरणेन वृक्षाः” “क्षुण्णं क्षणं यदुबलैर्दिवमातितांसुः” इति च माघः। “रेखामात्रमपि क्षुण्णात्” रघुः। “क्षुण्णभिन्नविपन्नकैः” भट्टिः
क्षुत् = स्त्री क्षु–संप० भावे क्विप्। क्षुते (हा~चि) अमरः।
क्षुत = न० क्षु–भावेक्त। क्षवथौ (हा~चि) अमरः क्षवथुशब्दे वि- वृतिः। क्षुतस्य शुभाशुभसूचकत्वं, वसत्तराजशाकुने ३ प्र० “अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं प्रविभावयामः। नश्यन्ति यस्माच्छकुनाः समस्ता मृगाधिनाथादिव वन्यसत्वाः। सर्व्वस्य सर्व्वत्र च सर्व्वकालं क्षुतं न कार्य्यं क्वचिदेव शस्तम्। यातुः क्षुते तेन न किञ्चिदेव कुर्य्यात् क्षुतं प्राणहरञ्च गन्तुः। निषेधमग्रेऽक्षिणि दक्षिशे च धनक्षयं दक्षिणकर्णदेशे। तत्पृष्ठभागे कुरुतेऽर्थवृद्धिं क्षतं कदाचित् शुभमादध नि। भोगाय वामश्रवणस्य, पृष्ठे कर्णे च वामे कथितं जयाय। सर्व्वार्थलाभाय च वामनेत्रे जातं क्षुतं स्यात् क्रमशोऽष्टधैव। क्रमान्निषेधं गमनस्य विघ्नं कलिं समृद्धिं क्षुतमुग्ररोगम्। करेति रोगक्षयमर्थनाभं दीप्त्यादिनाशञ्च क्षुतं करेति। प्रागास्यपुंसः परतोऽपरा स्यात् पुनः पुनर्व्वातत एव जातम्। वृद्धाच्छिशोर्व्वा कफतो हठाद्वा जातं क्षुतं केऽपि वदन्ति शस्तम्। आद्यलयोर्न स्वजने प्रशस्तं क्षुतं प्रशंसन्ति न भोजनादौ। भवेत् कथञ्चिद्यदि भोजनान्ते भवेत्तदाग्रे न हि भोज्यलाभः। आदौ क्षुतञ्चेत् शकुनैस्ततः किं जातानजातान् शकुनान्निहन्ति। क्षुतं क्षणेनात्र न संशयोऽस्मिन् प्रयोजने यत्नकृतेऽपि जातम्। क्षुतं क्षणात्तद्विनिहन्त्यवश्यं वार्य्यात्मकेनापि मनागदोषम्। तस्मादपेक्ष्यं न विचक्षणेन क्षुतं यतश्चाशु फलं विधत्ते”। इति। “छिक्काया लक्षणं वक्ष्ये लभेत् पूर्वे महाफलम्। आग्नेषे शोकसन्तापौ, दक्षिणे हानिमाप्नुयात्। नैरृते शोकसन्तापौ, मिष्टान्नञ्चैव पश्चिमे। अन्नं प्राप्नोति वायव्ये, उत्तरे कलहो भवेत्। ईशाने मरणं प्रोक्तं, प्रोक्तं छिक्काफलाफलम्” गारुडपु० ६० अ० तिथित० वर्षकृत्यवाक्यम “वित्तं ब्रह्मणि, कार्यसिद्धिरतुला शक्रे, हुताशे भयं, याम्यामग्निभयं, सुरद्विषि कलि, र्लाभः समुदालये। वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे, एशान्यां मरणं ध्रुवं निगदितं दिग् लक्षणं खञ्जने। ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” इति। क्वचित्तस्य शुभसूचकता यथा “आसने शयने दाने भोजने व त्रसंग्रहे। विवाहे च विवाहे च क्षुतं सप्तसु शोभनम्” क्षतनिमित्तं शुद्ध्यर्थमाचमनं कर्त्तव्यम् यथाह याज्ञ० “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा वस्त्रोपसर्पणे। आचान्तः पुनराचामेत् वासोविपरिधाय च”। अशक्तौ स्मृतिः “क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने। कर्म्मस्थ एषु नाचामेत् दक्षिणं श्रवणं स्पृशेत्”। अन्यक्षुते जीवश्बदः प्रयोज्यः यथा मदनपरिजातधृतम् “जीवेति क्षवतो ब्रूयात् जीवेत्युक्ते त्वया सहेति” “क्षुतोत्पतनजृम्भासु जीवोत्तिष्ठाक्षुलिध्वनिः। शत्रोरपि च कर्त्तव्योह्यन्यथा ब्रह्महा भवेत्” ति० त०। “दीर्घायुष्कृत् क्षुतं दीर्घं युगपद्द्वि त्रिपिण्डितम्” काशीख० स्त्रीलक्षणे। असंयुतमुखस्य क्षुतकरणंनिषिद्धं यथा विष्णुध० “नासंवृत्तमुखः कुर्य्याद्धास्यं जृम्भां तथा क्षुतम्”। “स्वनितं प्रतिक्षुतमिवोपशुश्रुवे” माघः ताजकोक्तायाम् २ अरिदृष्टौ अरिशब्दे ३५५ पृ० विवृतिः “क्षुताख्यदृष्ट्या न शुभंतदापि”। “क्षुतदृष्ट्या रिपोर्भयम्” नीलक०।
क्षुतक = पु० क्षुताय साधु कन्। राजिकायाम् राजनि०।
क्षुताभिजनन = पु० क्षुतमभिजनयति अभि + जन–णिच्–ल्यु। (राइ) कृष्णसर्षपभेदे अमरटीकायां स्वामी
क्षुत्करी = स्त्री क्षुतं करोति कृ–ट ङीप्। सर्पाक्षी क्ष शब्दच०
क्षुद = गतौ निघ० भ्वा० प० सक० सेट्। क्षोदति अक्षोदीत् चुक्षोद। “उत क्षोदन्ति रोदसी महित्वा” ७, ८५, १, क्षोदन्त आपो रिणते, वनानि” ऋ०५, ५८, ६०
क्षुद = पेषणे रुधा० उभ० सक० अनिट् इरित्। क्षुणस्ति च क्षुदत् अक्षौत्सीत् अक्षुत्त। चुक्षोद चुक्षुदे। क्षुण्णक्षुन्दन् क्षुन्दानः। क्षोदः। “क्षुण्णभिन्नविपन्नकैः” क्षुनद्मि सर्पान पाताले” भट्टिः। “ते त व्याशिषुरक्षौत्सुः” “अक्षुणद्वाजिकुञ्जरम्” भट्टिः “षष्ठः खण्डनखण्डखाद्यसहजक्षोदक्षमे” नैषधक्। उपसर्गपूर्ब्बस्तु तत्तद्धोत्यार्थ युक्ते प्रेषणे।
क्षुद्र = स्त्री क्षुद्र–सम्प० भावे क्विप्। चूर्ण्णने “क्षुदिर क्षदि” कविक०
क्षुद्र = त्रि० क्षुद–कर्त्तरि रक्। १ कृपणे २ अधमे ३ क्रूरे ४ अल्पे च मेदि०। ५ दरिद्रे हेम०। ६ तण्डुलीयशाके पु० संक्षिप्तसा०। “क्षुद्रेऽपि नूनं शरणं प्रपन्न” कुमा० “क्षुद्राः संत्रासमेते विजहतु हरयः” सा० द०। “कामात्मा विषयः क्षुद्रः” मनुः। ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः। क्षोदिष्ठ क्षोदीयस् अतिशयकृपणादौ त्रि०। “वृहत्सहायः कार्य्यान्तं क्षोदीयानपि गच्छति” माघः
क्षुद्रकण्टकारी = स्त्री नि० क०। अग्निदमनी क्षे राजनि०
क्षुद्रकण्टकी = स्त्री क्षुद्रं कण्ठकं यस्याः गौ० ङीष्। १ वृहत्याम् भावप्र० क्षुद्रभण्टाकीति वा पाठः
क्षुद्रकण्ठिका = क्षुद्रं कण्टकं यस्याः टाप् अत इत्त्वम्। कण्टकारिकायाम् शब्दचि०।
क्षुद्रकमानस = न० काश्मीरदेशस्थे कुङ्कुमोत्पत्तिस्थानभेदे। “काश्मीरेषु सरोनाम्ना दिव्यं क्षुद्रकमानसम्” सुश्रु०
क्षुद्रकम्बु = पु० कर्म्म०। शम्बूके (शामुक)। हेमच०
क्षुद्रकारवेल्ली = स्त्री कर्म्म०। वनकारवेल्लीभेदे राजनि० पृषो० क्षुद्रकारलिकाप्यत्र राजनि०
क्षुद्रकुलिश = पु० नि० कर्म्म०। वैक्रान्तमणौ राजनि०
क्षुद्रकुष्ठ = न० कर्म्म० सुश्रुताद्युक्तेषु एककुष्ठादिषु एकादश कुष्ठभेदेषु कुष्ठशब्दे विवृतिः
क्षुद्रक्षुर = पु० क्षुद्रक्षुरस्येवाकारोऽस्त्यस्य अच्। क्षुद्रगोक्षुरं राजनि०
क्षुद्रगोक्षुरक = क्षुद्रगोक्षुरमिव कायति के–क (छोटगोक्षुरी) गोक्षुरभेदे राजनि०
क्षुद्रघण्टिका = स्त्री० घण्टा + अल्पार्थे कन् घण्टिका कर्म्म०। किड्किण्याम् (घुङुर) अमरः
क्षुद्रघोली = स्त्री नि० कर्म्म०। १ चिरिल्लिकाक्षुपे राजनि०
क्षुद्रचञ्चु = पु० क्षुद्र चञ्चुरिवाकारोऽस्य। क्षुपभेदे राजनि०
क्षुद्रचन्दन = पु० नित्य कर्म्म०। रक्तचन्दने राजनि०
क्षुद्रचिर्भटी = स्त्री नि० कर्म्म०। गोपालकर्कट्यां राजनि०
क्षुद्रचूड = पुंस्त्री क्षुद्रा चूडा यस्य (गुएसालिक) खगभेदे शब्दच०
क्षुद्रजन्तु = पु० कर्म्म०। “क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्रएव वा। शतं वा प्रसृतौ येषां केचिदान कुलादपि” इत्युक्ते स्वल्पे १ जन्तौ। २ शतपद्यां शब्दमाला
क्षुद्रजम्बू = स्त्री कर्म्म०। भूमिजम्ब्याम् शब्दचि०।
क्षुद्रजातीफल = पु० कर्म्म०। अमलके राजनि०
क्षुद्रजीरक = न० कर्म्म०। कणजीरके, सुगन्धे शब्दच०
क्षुद्रजीवा = स्त्री कर्म्म०। जीवन्तीवृक्षे राजनि०
क्षुद्रतुलसी = स्त्री नि० कर्म्म०। वर्वरीभेदे राजनि०
क्षुद्रदंशिका = स्त्री नि० कर्म०। (छोटडा~श) दंशभेदे जटा०।
क्षुद्रदुरालभा = स्त्री नि० कर्म्म०। स्वल्पदुरालभाभेदे राजनि०
क्षुद्रदुस्पर्शा = स्त्री नि० कर्म्म०। अग्निदमनीवृक्षे राजनि०
क्षुद्रधात्री = स्त्री नित्य कर्म्म०। कर्कटवृक्षे राजनि०।
क्षुद्रधान्य = न० कर्म्म०। तृणधान्ये कङ्कुप्रभृतौ भावप्र० “क्षुद्रधान्यं कुधान्यञ्च णधान्यमिति स्मृतम्। क्षुद्रधान्य मनुष्णं म्यात् कषाय लघु लेखनम्। मधुरं कटुकं पाके रूक्षञ्च क्लेदशोषकम् वातकृत् बद्धविट्कञ्च प्रितरक्त कफापहम्” तद्गुणा उक्ताः।
क्षुद्रनासिक = त्रि० क्षु सिकाऽस्य। ह्रस्वनासिके (खा~दा)
क्षुद्रपत्रा = स्त्री क्षुद्रं पत्रं यस्याः टाप्। चाङ्गेर्य्याञ्च (चुको पालङ्ग)। हारा०। २ खल्पपत्रान्विते त्रि०। गौरा० ङीष्। ३ वचायां स्त्री राजनि०।
क्षुद्रपनस = पु० नि० कर्म्म०। नकुचे (मा~दार) राजनि०।
क्षुद्रपर्ण्ण = पु० क्षुद्रं पर्णमस्य। १ अर्जके वर्वरीभेदे राजनि०। २ स्वल्पपत्रयुक्ते त्रि०।
क्षुद्रपाषाणभेदा = स्त्री नि० कर्म्म०। गिरिभवे कन्दरोत्थे क्षुपभेदे राजनि०।
क्षुद्रपिप्पली = स्त्री नित्य० कर्म्म०। वनपिप्पल्याम् राजनि०
क्षुद्रपृषती = स्त्री नित्यं कर्म्म०। सूक्ष्मविचित्रविन्द युक्तायां पृ षत्यां मृगीभेदे “पृषती क्षुद्रपृषती स्थूलपृषतो मैत्रावरुण्यः” यजु० २४, २, अत्रत्यवेददीपे उक्तार्थकता दृश्या
क्षुद्रपोतिका = स्त्री नि० कर्म्म०। मूलपोतिकायां रान्तनि०।
क्षुद्रफल(क) = क्षुद्रं फलमस्य वा कप्। १ जीवनवृक्षे शब्दच०। २ भूमिजम्बुदृक्षे शब्दमा०। कबभावे। ३ इन्द्रवारुण्यां ४ गोपालकर्कट्याम् ५ अग्निदमन्यां ६ कण्टकारिकायां च स्त्री राजनि० टाप्।
क्षुद्रभण्डाकी = स्त्री नि० कर्म०। वृहत्याम् राजनि०।
क्षुद्रमत्स्य = पु० कर्म्म०। स्वल्पमत्स्ये (छोटभा~छ) “क्षद्रमत्स्याः स्वादुरसा दोषत्रयविनाशनाः। लघुपाका रुचिकराः सर्वदा ते हिता मताः। अतिसूक्ष्माः पुंस्त्वहराः रुच्याः कासानिलापहाः” भावप्र० तद्गुणा उक्ताः।
क्षुद्रमुस्त = स्त्री नि० कर्म्म०। कसेरुक्षुपे राजनि०।
क्षुद्ररोग = पु० कर्म०। सुश्रुतोक्ते चतुश्चत्वांरिंशत्स्वल्परोगभेदे यथा “अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः। समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति। तद्यथा अजगल्लिका यवप्रख्याऽन्धालजी विवृता कच्छपिका वल्मीक मिन्द्रवृद्धा पनसिका पाषाणगर्द्दभो जालगर्द्दभः कक्षा विस्फोटकोऽग्निरोहिणी चिप्पं कुनखोऽनुशयी विदारिका शर्कराऽर्बुदं पामा विचर्च्चिका रकसा पाददारिका कदरमलसेन्द्रलुप्ते दारुणकोऽसंषिका पलितं मसूरिका यौवनपिडका पद्मिनीकण्टको जतुमणिर्म्मशकश्चर्म्म कीलस्तिलकालको न्यच्छं व्यङ्गः परिवर्त्तिकाऽवपाटिका निरुद्धप्रकसो निरुद्धगुदोऽहिपूतनं वृषणकच्छूर्गुदभ्रंशश्चेति। स्मिग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा। कफवातोत्थिता ज्ञेया बालानामजगल्लिका १। यबाकारा सुकठिना ग्रथिता मांससंभृता। पिडका श्लेष्मवाताभ्यां यवप्रख्येति २ सोच्यते। वनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् अन्धालजी३ मल्पपूयां तां विद्यात् कफवातजाम्। विवृतास्यां महादाहां पक्वोडुम्बरसन्निभाम्। विवृतामिति४ तां विद्यात्पित्तोत्थां परिमण्डलाम्। ग्रन्थयः पञ्च वा षडवा दारुणाः कच्छपोन्नताः। कफानिलाभ्यामुद्भूतां विद्यात्तां कच्छपी ५ मिति। पाणिपादतले सन्धौ ग्रीवायामूर्द्धजत्रुणि। ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते। तोदल्लेदपरीदाहकण्डूमद्भिर्व्रणैर्वृतः। व्याधिर्वल्मीक ६ इत्येव कफपित्तानिलीद्भवः। पद्मपुष्करवन्मध्ये पिडकाभिः समासिताम्। इन्द्रवृद्धान्तु ७ तां विद्याद्वात पत्तोत्थितां भिषक्। कर्णोपरि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक्। शालूकवत्पनसिकां ८ तां विद्यात् श्लेष्मवातजाम्। हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम्। पाषाणगर्द्दभं ९ विद्याद्बलासपवनात्मकम्। विसप्र्पवत्मर्प्पति यो दाहज्वरकरस्तनुः। अपाकः श्वयथुः पित्तात्स ज्ञेयो जालगर्दभः १०। वाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम्। पित्तप्रकोपात्सम्भूतां कक्षामिति ११ विनिर्दिशेत्। अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्ततः। क्वचित्सर्वत्र वा देहे स्मृता विस्फोटका१२ इति। कक्षाभागेषु ये स्फोटा जायन्ते मांसदारणाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः। सप्ताहाद्द्वादशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्। तामग्निरोहिणीं १३ विद्यादसाध्यां सन्निपाततः। नखमांसमधिष्ठाय पित्तं वायुश्च वेदनाम्। करोति दाहपाकौ च तं व्याधिं चिप्प १४ मादिशेत्। तदेव क्षतरोगाख्यं तथोपनखमित्यपि। अभिघातात्प्रदुष्टो यो नखी रूक्षोऽसितः खरः। भवेत्तु कुनखं १५ विद्यात्कुलीनमिति संज्ञितम्। गम्भीरामल्यसंरम्भां सवर्ण्णामुपरिस्थिताम्। कफादन्तःप्रपाकान्तां विद्यादनुशयीं १६ भिषक्। विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु। रक्तां विदारिकां १७ विद्यात् सर्वजां सर्वलक्षणाम्। प्राप्य मांससिरास्नायुश्लेष्म मेदस्तथाऽनिलः। ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्प्पि र्व्वसानिभम्। स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः। मांसं विशोष्य ग्रथितां शर्करां जनयेत्पुनः। दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः। स्रवन्ति सहसा रक्तं तद्विद्याच्छर्क्वरार्त्रुदम् १८। पामाविचर्च्च्यौ १९ २० कुष्ठेषु रकसा २१ च प्रकीर्त्तिता। परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः। पादयोः कुरुते दारीं २२ सरुजां तलसंश्रिताम्। शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः। मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम्। स कीलः कठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा। कोलमात्रः सरुक्स्रावो जायते कदरस्तु २३ सः। क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ। दुष्टकर्द्दमसंस्पर्शादलसं २४ तं विनिर्दिशेत्। रोमकूपानगं पित्तं वातेन सह मूर्च्छितम्। प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः। रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः। तदिन्द्रलुप्तं २५ खालित्यं रुज्येति च विभाव्यते। दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते। कफवातप्रकोपेण विद्याद्दारुणकन्तु २६ तम्। अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्द्दनि। कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् २७। क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः। पित्तञ्च केशान् पचति पलितं २८ तेन जायते। दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः। गात्रेषु वदवेचान्तर्व्विज्ञेयास्ता मसूरिकाः २९। शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः। जायन्ते पिडका यूनां ३० वक्त्रे या मुखदूषिकाः। कण्टकैराचितं वृत्तं कण्डु मत्पाण्डुमण्डलम्। पद्मिनीकण्टकप्रख्यैस्तदाख्यं ३१ कफवातजम्। नीरुजं सममुत्पन्नं मण्डलं कफरक्तजम्। सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं ३२ विदुः। अवेदनं स्थिरञ्चैव यस्य गात्रेषु दृश्यते। माषवत्कृष्णमुत्पन्नमनिलान्मशकं ३३ दिणेत्। समुत्थानतिदानाभ्यां चर्मकील ३४ प्रकीर्त्तितम्। कृष्णानि तिलमात्राणि नीरुजानि समानि च। वातपित्तकफोद्रेकात्तान्विद्यात्तिलकालकान् ३६। मण्ड्लं महदल्पं वा श्यामं वा यदि वा सितम्। सहजं नीरुजं गात्रे न्यच्छ३५ मित्यभिधीयते। क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः। सहसा मुखमागम्य मण्डलं विसृजेत्ततः। नीरुजं तनुकं श्यावं मुखे व्यङ्गं ३७ तमादिशेत्। मर्द्दनात्पीडनाच्चापि तथैवात्यभिघाततः। मेढ्रचर्म्म यदा वायुर्भजते सर्वतश्चरः। तदा वातोपसृष्टन्तु चर्म्म प्रतिनिवर्त्तते। मणेरधस्तात्कोशश्च ग्रन्थिरूपेण लम्बते। सवेदनः सदाहश्च पाकञ्च व्रजति क्वचित्। मारुतागन्तुसम्भूतां विद्यात्तां परिवर्त्तिकाम् ३८। सकण्डूः कठिना चैव सैव श्लेष्मसमुत्थिता। अल्पीयसीं यदा हर्षाद्वालां गच्छेत्स्त्रियं नरः। हस्ताभिघातादथ वा चर्म्मण्युद्वर्त्तिते बलात्। मर्द्दनात्पीडनाद्वापि शुक्रवेगधेवाततः। यस्यावपाट्यते चर्म्म तां विद्यादवपाटिकाम् ३९। वातोपसृष्टमेवन्तु चर्म्म संश्रयते मणिम्। मणिश्चर्म्मोपनद्धस्तु मूत्रस्रोतोरुणद्धि च। निरुद्धप्रकमे तस्मिन्मन्दधारमवेदनम्। मूत्रं प्रवर्त्तते जन्तोर्म्मणिर्न्नच विदीर्थते। निरुद्धप्रकसं ४० विद्यादरूढां चावपाटिकाम्। वेगसन्धारणाद्वायुर्विहतो गुटसाश्रितः। निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च। मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति। सन्निरुद्धगुदं ४१ व्याधिमेनं विद्यात्सु दुस्तरम्। शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्। स्निन्नस्य स्नाप्यमानस्य कण्डूरक्तकफोद्भवा। कण्डूयनात्ततः क्षिप्रं स्फोटास्राबश्च जायते। एकीभूतं व्रणेर्घोरं तं विद्यादहिपूननम् ४२। स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः। प्रक्लिद्यते यदा स्वेदात्स कण्डू जनयेत्तदा। तत्र कण्डूयनात् क्षिप्रं स्फोटास्रावश्च जायते। प्राहुर्वृषणकच्छूं ४३ तां श्लेष्मरक्तप्रकोपजाम्। प्रवाहणातिसाराभ्यां निर्गच्छति गुदं वहिः। रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत्।
क्षुद्रल = त्रि० क्षुद्राःक्षुद्ररोगाः सन्त्यस्य सिध्मा० लच्। क्षुद्ररोगयुक्ते
क्षुद्रवर्वरा = स्त्री नित्यकर्म्म०। वरटायां राजनि०
क्षुद्रवल्ली = स्त्री नित्यकर्म्म०। मूलपोतिकायाम् राजनि०
क्षुद्रवार्त्ताकिनी = स्त्री नि० कर्म्म०। श्वेतकण्ठकार्य्यां राजनि०
क्षुद्रवार्त्ताकी = स्त्री नि० कर्म्म०। वृहत्याम् अमरः
क्षुद्रशङ्ख = पु० नित्य कर्म्म०। शङ्खनखे(जोङडा) अमरटीका
क्षुद्रशर्करा = स्त्री नि० कर्म्म०। यावनालशर्करायाम् राजनि०
क्षुद्रशार्द्दूल = पुंस्त्री नि० कर्म्म०। क्षुद्रव्याघ्रे (चितावाग) राजनि०
क्षुद्रशीर्ष = पु० क्षुद्रं शीर्षमस्य। १ मयूरशिखावृक्षे, २ स्वल्पशीर्षवति त्रि०
क्षुद्रशुक्ति = स्त्री नि० कर्म्म०। जलशुक्तिकायाम्। स्वार्थे क तत्रैवार्थे राजनि०
क्षुद्रश्यामा = स्त्री नि० कर्म्म०। कटभीवृक्षे राजनि०
क्षुद्रश्लेष्मातक = पु० नि० कर्म्म०। भूकर्वुदारकवृक्षे राजनि०
क्षुद्रश्वास = पु० कर्म्म०। श्वासरोगभेदे “क्षुद्रकस्तमकश्छिन्नो महानूर्द्ध्वश्च पञ्चधा भिद्यते स महाव्याधिः श्वासएकोविशेषतः। प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा। आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च। किञ्चिदारभमाणस्य यख श्वासः प्रवर्त्तते। निषण्णस्यैति शान्तिञ्च स क्षुद्र इतिसंज्ञितः” सुश्रु० “रूक्षायासोद्भवः कोष्ठे क्षुद्रवातमुदीरयन्। क्षुद्रश्वासो न सोऽत्यर्थदुःखेनाङ्गप्रबाधकः। हिनस्ति न च गात्राणि न च दुःखं यथेतरे। न च भोजनपानानां निरुणद्ध्युचितां गतिम्। निन्द्रियाणां व्यथाञ्चापि काञ्चिदुत्पादवेद्रुजम्। स साध्य उक्तो बलिनः सर्वे चाब्यक्तलक्षणाः” भावप०
क्षुद्रश्वेता = स्त्री सुश्रुतोक्ते अर्कादिगणोक्ते ओषधिभेदे आम्रेन्द्र पुष्पी क्षुद्रश्वेतेता महाश्वेत्यादि” सुश्रुतः
क्षुद्रसहा = स्त्री सह–अच क्षुद्रस्य सहा ६ त०। १ मुद्गपर्ण्याम् २ मार्ज्जारगन्धायाञ्च राजनि०
क्षुद्रसुवर्ण्ण = न० नि० कर्म्म०। पित्तले राजनि०
क्षुद्रहिङ्गुली = स्त्री कर्म्म०। १ कण्टकार्य्याम्। स्वार्थे क अणो ह्रस्वे टाप्। अत्रैवार्थे शब्दच०।
क्षुद्रा = स्त्री क्षुद–रक्। १ वेश्यायाम्, “क्षुद्राधिष्ठितभवनाः” काद० २ कण्टाकार्य्याम्, ३ सरघायाम्, अमरः ४ मक्षिकामात्रे, ५ चाङ्गेर्य्याम्, ६ हिंस्रायाम्, हेमच० ७ गवेधुकायां (गडगडेधान) रत्नमा० ८ वादरतायाम्, शब्दर० “क्षुद्राभिरक्षुद्रतराभिराकुलम्” माघः “क्षुद्राभिः सरघाभिः” मल्लि० ९ व्यङ्गायाञ्च। क्षुद्राभिः निर्वृत्तम् अण्। क्षौद्र मधुनि “स क्षौद्रपटलैरिव” रघुः
क्षुद्राग्निमन्थ = पु० कर्म्म० (छोटगणिआरी) स्वल्पगणिकारिकायाम् राजनि०
क्षुद्राञ्जन = न० सुश्रुतोक्ते अञ्जनभेदे “गोमूत्रपित्तमदिरा शकृद्धात्रीरसे पचेत्। क्षुद्राञ्जनं रसे चान्यतयकृत् स्त्रैफलेऽपि वा। गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलं सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे। मेदो यकृद्घृतञ्चाजं पिप्पल्यः सैन्धवं मधु। रसमामलकञ्चापि पक्वं सम्यग्निधापयेत् कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम्”।
क्षुद्राण्डमत्स्यसंघात = पु० क्षुद्राणामण्डमत्स्यानामण्डा भितवजातानां मत्स्यानां मंवातः। (पोनार झा~क) पोताधाने अमरः
क्षुद्रादिकषाय = पु० चक्रदत्तोक्ते कषायभेदे “क्षुद्रामृता नागरपुष्कराह्वयैः कृतः कषायः कफमारुतोद्भवे। सश्वासकासारुचिपार्श्वरुग्भवे ज्वरे त्रिदोषप्रभवे च शस्यते”
क्षुद्रापामार्ग = पु० नि० कर्म्म०। रक्तापामार्गे राजनि०
क्षुद्रामलसंज्ञ = पु० क्षुद्रामलकस्य संज्ञेव संज्ञा यस्य। कर्कटवृक्षे राजनि०
क्षुद्राम्र = पु० नि० कर्म्म०। कोषाम्रे राजनि०
क्षुद्राम्रपनस = पु० नि० कर्म्म०। नकुच त्रिका०
क्षुद्राम्ला = स्त्री अम्ला अम्लरसा कर्म्म०। १ चाङ्गेर्य्याम् हारा० (चुकोपालङ्ग) स्वार्थे क। तत्रैवार्थे। २ शशाण्डुल्याम् राजनि०
क्षुद्रिका = स्त्री क्षुद्रैव क। दंशे(डा~शा) राजनि०
क्षुद्रीय = त्रि० क्षुप + उत्करा० चतुरर्थ्याम् छ। क्षुद्रनिर्वृत्तादौ
क्षुद्रेङ्गुदी = स्त्री नित्यकर्म०। यवासे राजनि०
क्षुद्रेर्वारु = पु० कर्म०। गोप्यलकर्कट्याम् राजनि०
क्षुदोदुम्बरिका = स्त्री कर्म०। काकोडुम्बरिकायाम् राजनि०
क्षुदोपोदिका = स्त्री नि० कर्म०। मूलषोतिकायाम् राजनि०
क्षुद्रोलूक = पुंस्त्री कर्म०। उलूके राजनि०
क्षुध् = बुभुक्षायां दिवा० पर० सक० अनिट् ऌदित्। क्षुध्यति अक्षुधत्। चुक्षोध क्षुत्। क्षुधा क्षुधितः। क्षुधित्वा। “क्षुध्यद्भ्योवय आसुतिदाः ऋ० १, १०४, ७, मा क्षुधन्मारुषत्” अथ० २, २९, ४, क्षुध्यन्तोऽप्यघसन् व्याला”। “क्षुधित्वा पत्रिभिर्वनम्” भट्टिः। क्षुधाजातास्य तारका० इतच्। क्षुधित संजातक्षुधे त्रि०
क्षुध् = स्त्री क्षुध–भावे संप० क्विप्। १ बुभुक्षायाम्। कर्म्मणि क्विप्। २ अन्ने निघ० पाठान्तरम्। “यस्य राज्ञस्त विषये श्रोत्रियः सीदति क्षुधा” मनुः हलन्तत्वात् वा टाष्। क्षुधाप्यत्र स्त्री क्षुधार्त्तः। “या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता” देवीमा०। क्षुधा च प्राणिनां स्वाभाविकदुःखहेतुर्यथोक्तं सुश्रुते “खाभाविकाः क्षुत्पिपासाजरामृत्युनिद्रा प्रभृतयः”। इयञ्च पाणधर्म्मः यथाह शा० ति० “बुभुक्षा च पिपासा च प्राणस्य, मनसः स्मृतौ। शोकमोहौ, शरीरस्य जरामृत्यू षडूर्म्मयः”। क्षुध कार्य्याणि यथा “व्याधयो निर्जिताः सर्वे क्षुधया नृपसत्तम!। कुण्डली मुकुटी स्रग्वी तथैवालङ्कृतो नरः। क्षुधार्त्तो न विराजेत प्रेतवत्तृषितो नृणाम्। स्त्रीरत्नं विविधान् भोगान् वस्त्राण्याभरणानि च। न चेच्छति नरः किञ्चित् क्षुधया कलुषीकृतः। यथा भूमिगतं तोयं रविरश्मिभिः शुष्यति। शरीरस्थस्तथा धातुः शुष्यते जाठराग्निना। न शृणोति न चाघ्राति चक्षुषा न च पश्यति। दह्यते वेपते मूढः शुष्यते च क्षुधार्दितः। मूकत्वं बधिरत्वञ्च जडान्धत्वन्तु पङ्गुताम्। रौद्रं मर्य्यादहीनत्वं क्षुधा सर्वं प्रयच्छति। भगिनीं जननीं पुत्त्रं भार्य्यां दुहिरतं तथा। भ्रातरं स्वजनं वापि क्षुधाविष्टो न विन्दति”।
क्षुधाकुशल = पु० ७ त०। विल्वान्तरवृक्षे राजनि०
क्षुधाभिजनन = पु० क्षुधामभिजनयति अभि + जन + णिच् ल्यु। १ राजिकायां अमरः। २ क्षुधाजननमात्रे त्रि०
क्षुधालु = त्रि० क्षुध–वा० आलुच्। क्षुधायुक्ते
क्षुधावत् = त्रि० क्षुधा–अस्त्यस्य क्षुधा साध्यतयाऽस्त्यस्याः वा मतुप् मस्य वः। १ क्षुधायुक्ते स्त्रियां ङीप्। भैषज्यरत्रावल्युक्ते २ गुटिकाभेदे स्त्री “रमाद्योगन्धकाभ्राणि त्र्युषण त्रिफला वचा। यमानी शतपुष्पा च चविका जीरकद्वयम्। प्रत्येकं पलमेषान्तु घण्टाकर्णा पुनर्णवा। माणकं ग्रन्थिकञ्चेन्द्रकेशराजसुदर्शनाः। दण्डोत्पला त्रिवृद्दन्ती जामावृरक्तचन्दनम्। भृङ्गापामार्गकुलका मण्डूकञ्च पलार्द्धकम्। वृर्द्रकस्य रसेनाथ गुडिकां संप्रकल्पयेत्। वदरास्थिसमाञ्चैतां भक्षयित्वा पिबेदनु। वारि भक्तं जलञ्चैव प्रातरुत्थाय मानवः। वटी क्षुधावती नाम सर्वाजीर्णविनाशिनी। अग्निञ्च कुरुते दीप्तं भस्मकञ्च नियच्छति। अम्लपित्तञ्च शूलञ्च परिणामकृतञ्च यत्। तत् सर्वं शमयत्याशु भास्करस्तिमिरं यथा। मसूरं वर्ज्जयेदत्र विशेषात् क्षीरशर्क्करे”।
क्षुधासागररस = पु० भेषज्यरत्नावल्यक्ते औषधभेदे “त्रिकटु त्रिफला चैव तथा लवणपञ्चकम्। क्षारत्रयं रसं गन्धं भागैकं पूर्ब्बवद्भिषक्। गुञ्जामात्रां वटीं कुर्य्याल्लवङ्गैः पञ्चभिः सह। क्षुधासागरनामायं रसः सूर्य्येण निर्म्मितः”।
क्षुधित = त्रि० क्षुधा + जाताऽस्य तार० इतच्। क्षुधायुक्ते अमरः। “अन्नस्य क्षधितः पात्रम्”
क्षुधुन = पुंस्त्री क्षुध–उन किच्च। म्लेच्छजातौ उज्ज्वल०।
क्षुप = मदे सौ० प० अक० सेट्। क्षोपति अक्षोपीत् चुक्षोप “स सवृक्षक्षुपलतः” भा० आ० १७१ अ०
क्षुप = पु० क्षुप–क क्षु–पक् वा। ह्रस्वशाखाशिफे वृक्षे अमरः। वासुदेवस्य सत्यभामाया गर्भजातपुत्रभेदे। “जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः” हरिब० १६ अ०। इक्ष्वाकुपितरि ३ राजभेदे च पु०। “आसीत् कृतयुगे तात! मनुर्दण्डधरः प्रभुः। तस्य पुत्रो महाबाहुः प्रसन्धिरिति विश्रुतः। प्रसन्धेरभवत् पुत्रः क्षुप इत्येव संज्ञितः। क्षुपस्य पुत्र इक्ष्वाकुः” भा० आश्व० ३ अ०। ४ द्वारकापश्चिमस्थे ४ पर्वतभेदे। “बभौ रैवतकः शैलो रम्यसानुगुहाजिरः। पूर्वस्यां दिशि लक्ष्मीवान् मणिकाञ्चनतोरणः। दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते। इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः” हरि० १५७ अ०।
क्षुपडोडमुष्टि = पु० दोलयति दुल–उत्क्षेपे अच् तादृशोमुष्टि रस्य पृषो० कर्म्म०। विषमुष्टिक्षुपे राजनि०
क्षुब्ध = पु० क्षुभ नि० करणे क्तः। १ मन्यानदण्डे हेम०। “मुधैव मन्दरक्षुब्ध क्षोभिताम्भोधिवर्णना” माघः २ क्षोभयुक्ते त्रि०। “पार्श्वोपरि पदे कृत्वा योनिंलिङ्गेन ताडयेत्। बाहुभ्यां धारणं गाढं बन्धोऽयं क्षुब्धसंज्ञकः” रतिम० उक्ते ३ रतिबन्धभेदे पु०
क्षुभ = सङ्कोचने भ्वा० आत्म० सक० हेट् ऌदित्। क्षोभते अक्षुभत् चुक्षुभेक्षोभ्यम्। क्षोभः क्षोभणम् क्षोभी “तानसौ नापि- चाक्षुभत्” नाक्षुभद्राक्षसोभ्रातुः” भट्टिः क्षुब्धः क्षुभितः। “क्षुब्धतोया महावेगाः श्वममानाइवाशुगाः” भा० व० ८ अ०। “क्षुभिताः सागराः सर्व्वे” रामा० बा० ६५ स०। “चुक्षुभे द्विषतां मनः” रघुः “यदेतदादित्यस्य मध्ये क्षोभत इव” छा० उ०। क्षोभमाणः।
क्षुभ = अङ्ग चालने वा दिवा० क्य्रा० अक० सेट्। क्षुभ्यति क्षुभ्राति अक्षोभीत्। क्षुभितः। “क्षुभ्यन्ति प्रसभमहोवि नापि हेतोः” माघः। क्षुभ्रातीत्यत्र क्षुभ्रा० न णत्वम्। प्राद्युपसर्गपूर्व्वकस्तत्तद्वोत्यार्थयुक्ते क्षोभे
क्षुभ = त्रि० क्षुभ–क। १ क्षोभके २ प्रवर्त्तके च “मठरारुणदण्डाद्यांस्तांस्तान् वन्देऽशनिक्षु भान्” भा० व० ३ अ० “अशनिक्षुभान् तत्प्रवर्त्तकान्” नीलक०। ३ सूर्य्यपारिषदभेदे स्त्री। “क्षुभया सहिता मैत्री याश्चान्याभूतमातरः” तत्रैव “क्षुभानिग्रहानुप्रकर्त्त्री देवता” लीलक०
क्षुभित = त्रि० क्षुभ–क्त। १ आलोडिते, २ व्याकुले, ३ भीते च हला०। “क्षुभितसैन्यपरागविपाण्डुरे” माघः “महाप्रलयमारुतक्षुभितपुष्करावर्त्तकेति वेणी०
क्षुभ्नादि = पा० उक्ते निमित्ते सत्यपि णत्वनिवृत्तिनिमित्ते शब्दगणे सच गणः “क्षुम्ना नृनमन नन्दिन् नन्दन नगर। एतान्युत्तरपदानि संज्ञायाम्प्रयोजयन्ति। हरिनन्दी हरिनन्दनः गिरिनगरम्। नृतिर्यङि प्रयोजयति। नरीनृत्यते। नर्त्तन गहन नन्दन निवेश निवास अग्नि अनूप एतान्युत्तरपदानि प्रयोजयन्ति। परिनर्त्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्भानूपः। आचार्य्यादणत्वञ्च। आचार्य्यभोगीनः। आकृतिगणोयम् क्षुभ्रादिः। “अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्रादिषु द्रष्टव्य “इति भाष्यम्” न भाभूपूकमीत्यादयस्त्वस्यैव प्रपञ्चः” इति कैयठः। पाठान्तरम्” क्षुभ्रा तृप्नु नृनमन नर नगर नन्दन यङ्नृति गिरिनदी गृह, नमन निवेश निवास अग्नि अनूप आचार्य्यभोगीन चतुर्हायन इरिकादीनि वनोत्तरपदानि (संज्ञायाम्) इरिका तिमिर समीर कुवेर हरि कर्म्मार क्षुभ्रादिः”।
क्षुमत् = त्रि० क्षु + अस्त्यर्थे मतुप्। १ अन्नयुक्ते उपचारात् २ अन्नवत्स्तुत्ये च। “आ तू इन्द्र! क्षुमन्तम्” ऋ० ८, ८१, १, “क्षुमन्तं स्तुत्यम्” भा०
क्षुमा = स्त्री क्षु–मक्। (मसिना) (तिसी) १ अतस्याम् अमरः। “क्ष्मायी विधूनने क्ष्मायति शत्रून कम्पयति पृषो०। क्षुमा २ शत्रुकम्पके त्रि० “क्षुमासि पातयै- नम्” यजु० १०, ८ वेददीपे उक्तैव व्युत्पत्तिर्दर्शिताः २ शणे सारसुन्दरी ३ नीलिकायाम् सताभेदे शब्दमा०। क्षुमाया इदम् अण्। क्षौम वस्त्रभेदे “क्षौमं शाणं वा व्राह्मणस्य” शाता०
क्षुम्प = गतौ भ्वा० प० सक० सेट्। क्षुम्पति अक्षुम्पीत् चुक्षुम्प
***