क्रिमि = पु० क्रम–इन् अतैच्च। १ कृमौ क्षुद्रजन्तौ उज्ज्वल० २ रोगभेदे कृमिशब्दे २१९४ पृ० विवृतिः। “क्रमयस्तु द्विधाप्रोक्ताः वाह्याभ्यन्तरभेदतः। बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्वधाः। नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः” “तिलप्रमाणसंस्थानवर्ण्णाः केशाम्बराश्रयाः। बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः” माधवः। “क्रिमयः क्रभिलं यथा” भाग० ३, ३१, २८,

क्रिमिकण्टक = न० क्रिमौ कण्टकमिव। कृमिकण्टकशब्दार्थे मेदि०

क्रिमिघ = पु० क्रिमिं हन्ति हन–टक्। १ विडङ्गे रमानाथः। २ क्रमिनाशके त्रि० स्त्रियां ङीप्। सा च ३ सोमराज्यां स्त्री शब्दच०।

क्रिमिज = न० क्रिमेर्जायते जन–ड ५ त०। १ अगुरुचन्दने अमरः २ लाक्षायां स्त्री रत्नमाला।

क्रिमिशत्रु = पु० क्रिमेः शत्रुरिव नाशकत्वात्। रक्तपुष्पके (पालदाभा~दार) शब्दच०।

क्रिमिशात्रव = पु० क्रिमेः शात्रवैव नाशकत्वात्। विट् खदिरे शब्दच०।

क्रिमिशैल = पू० क्रिमिनिर्म्मितः शैलः। वल्मीके (रुइडिपि) त्रिकाण्ड०

क्रिय = पु० क्रिया ग्रहाणामाद्यगतिक्रिया विद्यतेऽत्र अच्। मेषराशौ दीपिका कौर्पशब्दे २२७८ पृ० प्रमाणं दृश्यम्। “क्रियैणतौलीन्दुभतोनवांशाः” नील० ता०।

क्रिया = स्त्री कृ–भावे करणादौ वा यथायथं श। १ आरम्भे २ निष्कृतौ (प्रायश्चित्ते) ३ शिक्षायां ४ पूजायां ५ संप्रधारणे (विवादविचाराङ्गे साधने) ६ सामाद्युपाये। ७ न्यायादिमतसिद्धे उत्क्षपणादी कर्म्मणि व्याकरणमतसिद्धे ८ धात्वर्थे ९ चेष्टायां (परिस्पन्दे) १० चिकित्सायां च अमरः। ११ करणे (अनुष्ठाने) हेम०। १२ श्राद्धे क्षीरस्वामी। १३ शौचे शब्दरत्ना०। १४ प्रयोगे च तत्र न्यायमतसिद्धा क्रिया कर्म्मशब्दे १७५५ पृ० दर्शिता। कर्म्मत्वलक्षणन्तु औलूक्यशब्दे सर्व्व० द० वाक्ये १५८६ पृ० उक्तम् तत्र अनित्यमात्रसमवेतत्वे सतीतिशुद्धम् नित्यमात्रसमवेतत्वाभावादित्यशुद्धम् अनित्यमात्रसमवेतत्वाभावादिति शुद्धम्। वैयाकरणमते तु धात्वर्थः क्रिया तत्स्वरूपशाब्दबोधप्रकारादि शब्दार्थरत्नेऽस्माभिर्निरूपितं यथा “क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिधीयमानेति बोध्यम्। “व्यापारो भावना सैवौत्पादना सैव च क्रियेति” हर्य्युक्तेः “यावत्सिद्धमसिद्धं वा साध्यत्वनाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते” इति “साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते” इति च वाक्यपदीयाच्च। “यावदिति सर्व्वमित्यर्थः तदेव विवृणीति सिद्धमसिद्धं वेति। सिद्धं वर्त्तमानध्वंसप्रतियोगि, तद्भिन्नमसिद्धं तच्च वर्त्तमानं भविष्यच्चेति द्विविधं तेनापचत् पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्वरूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शितेति भावः। यौगिकत्वमप्याह आश्रितक्रमरूपत्वादिति। आश्रितःक्रमो रूपं यस्यास्तत्त्वात् पूर्वापरीभूतावयवकत्वादित्यर्थः। तदीयावयवानामधिश्रयणाद्यधःश्रयणपर्य्यन्तानां क्रमेणोतपत्तेः क्रियापदेन तत्समुदायोऽभिधीयते यत्र च न क्रमिको व्यापारोऽस्ति तत्र रूढिरादरणीयेति पौर्वापर्य्यारोपेण वा सर्वत्र फलस्य स्वजन- कव्यापारगतपौर्वापर्य्यारोपवत् यौगिकत्वम्। अतएव फलमात्रबोधकस्यापि क्वचित् धातुत्वसिद्धिरिति फलितार्थः। इयांस्तु विशेषः पाकैत्यादौ धातुना साध्यत्वेनो पस्थाप्यायाः क्रियायाःसिद्धक्रियारूपे घञर्थे विशेषणत्वं पचतीत्यादौ तु नैवमिति। अतएव “साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते” इति वाक्यपदीयकारिकाव्याख्यायां भूषणसारदर्पणे तिङ्पदैरित्यतदगुणसंविज्ञानबहुव्रीहिणा तिङन्तपदैर्धातुभिरित्यभिरितम्। तेन सर्वत्र धातोः साध्यरूपकियाबोधकत्वम्। किञ्चक्रमिकावयवानामेकदाऽ सत्त्वेऽपि यत्किञ्चिदवयवसत्त्वकाले वर्त्तमानत्वव्यवहारः अवयवावयविनोरभेदारोपात्। भूतभविष्यत्त्वव्यवहारस्तु सर्वेषामवयवानां भूतभविप्यत्त्वयोरेव नतु यत्किञ्चित्क्रियाव्यक्तिभूतत्वादौ। उक्तञ्च वाक्यपदीये “गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रिपेति व्यपदिश्यते” इति। अस्यार्थः क्रमिकतत्तद्व्यापारं प्रति गुणभूतैर्गुणभावेन भासमानैरवयवैरुपलक्षितः बुद्ध्या एकत्वबुद्ध्यः प्रकल्पितोऽभेदो यस्मिन् तद्रूपः क्रमजन्मनां व्यापाराणां समूहः क्रियेति। अत्र क्षणनश्वराणां व्यापाराणां मेलनासिद्ध्या बुद्ध्येत्युक्तम् तथा च वुद्धिजन्यसंस्कारद्वारा तेषां मेलनसम्भवैतिं भावः। अतएव भाष्ये “क्रिया हि नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्यते पिण्डीभूता निदर्शयितुमिति” व्यापारसमुदायात्मिकायाः कि यायादर्शनायोग्यत्वोक्त्या तदवयवानां तद्विषयत्वं व्यतिरेकमुखेन दर्शितम्। तस्याश्चाभिन्नैकबुद्धिविषयतया एकत्वव्यवहारैत्यपि बोध्यम्। अथपाऽनेकव्यापारव्यकिवृत्तिर्जातिरेव क्रियेति सिद्धान्तवल्प आदरणीयः। तस्याश्च व्यक्तिद्वारैव साध्यत्वम् अस्ति च पचित्वादिकं जातिः पचतीत्याद्यनुगतव्यवहारात् तज्जातेश्चैक्यादेकत्वव्यवहार इति मन्तव्यम्। तदुक्तं वाक्य पदीये “जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीम्। असाध्यां, व्यक्तिरूपेण सा साध्येत्यभिधीयते” इति। युक्तञ्चैतत् सवेत्रैव लाघवाज्जातिशक्तिस्वीकारेण पच्यादिधातूनामपि तत्रैव शक्तिरुचितेति दिक्। सा च क्रिया धातुवाच्या फलव्यापारोभयरूपा, तद्वि शष्टस्यपा वा “फलव्याफारयोर्धातुः” इत्यग्रिमवचनात्। व्यवस्थापयिष्यते च मतभेदेव फलव्यापारयोः पृथक्शक्त्या विशिष्टशक्त्या वा धातुवाच्यता। अत्र फलांशस्य कर्त्तुरुद्देश्यत्वेऽपि प्राधान्याभावात् व्यापारस्यैवं पाधान्यं समुचितं तस्य च साध्यतया कर्मातिरिक्तसर्वकारकाणां तत्रैव स्वस्वव्यापा रद्वारा साधकत्वेनान्वयः कर्मणस्तु फल एव, क्रियाजन्यफलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः। उक्तञ्च वाक्यपदीये “प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते। साध्यप्रयुक्तान्यङ्गानि फलं तस्याः प्रयोजकमिति”। अर्थस्य फलस्य तदपेक्षयेत्यर्थः। प्राधान्यात् विशेष्यत्वात् साध्यं प्रयुक्तं यैः तानि साध्यसाधकानि अङ्गानि कारकाणीत्यर्थः। अत्र फलस्य क्रियाप्रयोजकत्वाभिधानं तदुद्देशेनैव क्रियायां प्रवृत्तिरित्येव सिन्धाय। तथा च सर्वो लोकः स्वाभीष्टफलमभिप्रेप्सुस्तत्साधानाय यतते लभते च ततस्तत्तत्फलमुपायसंसाधनेन। एवं च क्रियाफलं विक्लित्त्यादिकमभीप्सुः पाकाय यतमानो जनः पाकसंसाधनेन फलं लभते। ततश्च फलसाधनतया पाकादेरपीष्टत्वात् साध्यत्वम्। फलावशिष्टक्रियायाधात्वर्थत्वमते तु विशिष्टत्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमिति विशेषः। कारकान्वयस्त्वेतन्मते पूर्वोक्तदिशावसेयः एकदेशान्वयस्वीकाराच्च न कर्म्मणोऽनन्वय इति बोध्यम्। तथाचैवं रीत्या साध्यत्वेन क्रियां जानता जनेन तस्याः प्राधान्यबुबोधयिषयैवाख्यातान्ततय धातुः प्रयुज्यते अन्यथा कृदन्ततयेति। एवञ्च मावकृदन्तस्थले धातुना साध्यरूपक्रियावबोधनेऽपि तस्याः प्रत्ययार्यसिद्धरूप क्रियाविशेषणत्वेन न प्राधान्यम् “भावप्रधानमाख्यातमित्यादि” निरुक्तवचनस्य, “प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यमिति” न्यायस्य च परस्परं विरोधपरीहाराय न्यायस्य आख्यात तिरिक्तविषयत्वव्यवस्थापनम्। हरिणापि धातुभावकृतोः क्रियावाचित्वाविशेषेऽपि धातुना साध्यत्वेन, कृता तु सिद्धत्वेन क्रियाया बोधनमिति व्यवस्थापितं यथा “साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः” इति “आख्यातशब्दे भागाभ्यां साध्यसाधनवर्त्तिता। प्रकल्पिता यघा शास्त्रे स घञादिष्वपि क्रमः” इत्येताभ्याम्। भागाभ्यां पश्य मृगोधावतीत्यादौ तिङन्ताम्यां साध्यसाधनवर्त्तितेति मृगोधावतीत्येतस्य साधनत्वमपरस्य साध्यत्वं क्रियाकारकभावेन तयोरन्वयात् घञर्थक्रियायास्तु इतरक्रियायामेव साधनत्वसिति विवेकः। साध्यत्वञ्च लिङ्गसंख्यानन्वयित्वं तद्विपरीतं सिद्धत्वं तथाच घञाद्युपस्थाप्यक्रियायाः लिङ्गसंख्यान्वयित्वेनापरक्रियायां साधनत्वम्। युक्तञ्चैतत् यत् घञन्तादौ द्विवि- धक्रियायाभानं कारकाणां साध्यक्रियायामेवान्वयोपगमात् कृदन्तस्थले कारकविभक्तिप्रयोगस्य सर्व्वजनीतया साध्यत्वेन तदुपस्थितावेव कारकान्वयोपपत्तिः। “साध्यस्य साधनाकाङ्क्षेति” “नियतं साधने साध्यं क्रिया नियतसाधनेति” “साध्यत्वेन निमित्तानि क्रिया परमपेक्षते” इति चाभियुक्तोक्तेः। अतएव स्तोकं पाक इत्यादौ द्वितीयान्ततोपपद्यते साध्यक्रियाफलस्य विशेषणेऽपि द्वितीयानुशासनात्। घञाद्युपस्थाप्यक्रियाविशेषणस्य तु विशिष्यलिङ्गतया प्रथमाद्यन्तता “कृदभिहितो भावो द्रव्यवत् प्रकाशत” इतिभाव्योक्तेः। कृदभिहितः कृता बोधितः। भावो भावना धात्वर्थस्वरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यधर्म्मान् लिङ्गसंख्याकारकत्वानि भजते इति यावत्। अत्र द्रव्यत्वं लिङ्गसंख्यान्वयित्वमेव योग्यत्वात् न तु पृथिव्याद्यात्मकत्वं ज्ञानपाकादौ तदभावात्। नापि “वस्तूपलक्षण यत्र सर्व्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः” इति पारिभाषिकसर्वनामपरामर्शयो ग्यत्वादिरूपं, साध्यक्रियाया अपि तथात्वेनाविशेषापत्तेः। किन्तु सत्वपधानानि नामानीत्येकवाक्यतया सत्वद्रव्ययोः पर्य्यायत्वस्य बहुषुस्थलेषु दशनात् सत्वभूतत्वमेव द्रव्यत्वमिति फलितार्थः “क्रिया न युज्यते” इत्यादिना लिङ्गाद्ययोगस्यासत्वलक्षणत्वाभिधानात् तद्योगस्यैव सत्वलक्षणत्वौचित्यादिति तु तत्त्वम्। वैयाकरणादिमते चल इत्यादौ क्रियायां शक्तिः “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” काव्यप० उक्तेः। “असम्पादयतः कञ्चिज्जातिद्रव्यक्रियागुणैः” माघः। प्रयोगे “तस्मिन्नु पायाः सर्व्वे नः क्रूरे प्रतिप्रहतक्रियाः” कमा० “प्रतिहतक्रियाः विफलप्रयोगाः” मल्लि० करणे (अनुष्ठाने) “वचसस्तस्य सपदि क्रिया केवलमुत्तरम्” मावः। “यथाक्रमं पुंसतनादिकाः क्रियाः” रघुः। “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” “तद्भूतानां क्रियार्थेन समाम्नायः” जै० सू०। शिक्षायाम् “क्रिया हि वस्तूपहिता प्रसीदति” रघुः “चिकित्साया “क्रियाः (मोघाः) सर्व्वा गतायुषः” सुश्रु०। कर्म्मणि (स्पन्दे) “क्षितिर्जलं तथा तेजः पवनीमन एव च। परापरत्वमूर्त्तत्वक्रियावेगाश्रया अमी” भाषा०। “यदाश्रया क्रिया तमविकुर्व्वती नैवात्मानं लभते” शा० भा०। “क्रियैव कालः इति मते सुतरां नाधिकरणता” ति० त० रघु०। संयोग विभागयोरसमवायिकारणतावच्छेदकतया क्रियात्वजातिसिद्धिः। “क्रियां जातिं योग्यवृत्ति समवायं च तादृशम्। गृह्णाति चक्षुःसम्बन्धादालोको द्भूतरूपयोः” भाषा० तेन योग्यवृत्तेस्तस्याः प्रत्यक्षता” धात्वर्थे व्यापारे “तेन तुल्यं क्रिया चेद्वतिः” क्रियासमभिहारे यङ्” “स्वरितञितः कर्त्तृभिप्राये क्रियाफले” पा०। “क्रियया यमभिप्रैति” वार्त्ति० “क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्” “कर्त्तृकर्म्मव्यवहितामसाक्षाद्धारयत् क्रियाम्। उपकुर्व्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्” “क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते। दर्शनादनुमानाद्वा तत् प्राप्यमिह कथ्यते”। “निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा। अपेक्षितक्रियञ्चेति त्रिधाऽपादानमिष्यते” “धातूपात्तक्रिये नित्यं कारके कर्त्तृतेष्यते” इति च भर्तृहरिः। “क्रियासमभिहारेण विराध्यन्तं क्षमेत कः” माघः। धात्वर्थे फले। “कर्म्मवत् कर्म्मणा तुल्यक्रियः” पा० कर्म्मणा कर्म्मस्थक्रियया तुल्यक्रियः समानाधिकरणक्रियः कर्म्मस्थमात्रस्थक्रियारूपफलकैत्यर्थः। क्रियाविशेषणम्। अत्र च यथा फलस्य विशेषणत्वेऽपि द्वितीया तथा क्रियाविशेषणशब्दे वक्ष्यते। क्रियान्वयिनश्च हरिणा दर्शिता यथा

“संबोधनान्तं कृत्वोऽर्थः कारकं प्रथमोवतिः। धातुसम्बन्धाधिकारविहितमसमस्तनञ्। तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम्। संम्बन्धश्चाष्टकस्यास्य क्रिययैवावधार्य्यताम्”। व्यवहाराङ्गक्रियायाम् उदा० क्रियापादशब्दे वक्ष्यते। श्राद्धे “चतुर्द्दश्यां क्रियाः कार्य्या अन्येषान्तुविगर्हिताः” म० त० मरीचिः। “मृते पितरि पुत्रेण क्रिया कार्य्या विधानतः” शु० त० मरीचिः। “सपिण्डसन्ततिर्वापि क्रियार्हा नृप! जायते” तत्रैव विष्णुपु०। “ये सपिण्डीकृताः प्रेता न तेषां च पृथक्क्रिया” ति० त० शाता०

क्रियाकल्प = पु० क्रियायां चिकित्सायां कल्पोविधिः। सुश्रुतोक्ते उत्तरतन्त्रे अष्टादशाध्यायप्रतिपाद्ये क्रियाभेदे। “अथातः क्रियाकल्पं व्याख्यामः” इत्युपक्रमात् तस्योक्तेस्तथात्वम्

क्रियाकार = पु० क्रियां शिक्षारम्भं करोति कृ–अण् उप० स०। १ नवच्छात्रे त्रिका० २ कार्य्यकारकमात्रे त्रि० स्त्रियां टाप् सि० कौ०। मुग्ध० मते ईप् इति भेदः।

क्रियाद्वेषिन् = त्रि० क्रिया व्यवहाराङ्गसाधन साक्षिलेख्यादिकं द्वेष्टि द्विष–णिनि ६ त०। विवादे–पञ्चबिधहीनार्गतहीनप्रतिबादिनि “अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” मिता० नारदः तल्लक्षणं यथा “लेख्यं च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः। तां क्रियां द्वेष्टि योमोहात् क्रियाद्वेषी स उच्यते” वीरमि० कात्या०।

क्रियापाद = पु० क्रिया विवादसाधनं पादैव। चतुष्पादव्यवहारे साध्यार्थसाधनरूपे तृतीये पादे। १ पूर्व्वपक्षः स्मृतः पादोद्वितीयोश्चोत्तरः स्मृतः। ३ क्रियापादस्तथान्यश्च तृतीयो ४ निर्ण्णयस्ततः” वृह०। तस्य व्यवहारपादत्वं तद्विशेषादि वीरमित्रोदये निर्ण्णीतं यथा “अथ क्रियापादः। तत्र तदुपयोगिप्रत्याकलितं प्रथमं निरूप्यते। विज्ञानयोगिना तस्य व्यवहारपादत्वानभ्युप गमेऽपि क्रियादानोपयोगित्वाभ्युपगमात्। अन्यैस्तु व्यवहारपादत्वस्यैव खीकारात् क्रियापादप्रागभावस्तूभयसम्मतः। प्रत्याकलितन्नाम भाषोत्तरयोरर्थिप्रत्यर्थिभ्यां लिखितयोः क्रियोपन्यसनमनयोर्मध्ये कस्य स्यात्का चास्मिन् वादे क्रिया स्याद्धीनवादी वानयोर्मध्येक इत्यादिः ससभ्यप्राड्विवाकस्य सभापतेः सभ्यस्य प्राड्विवाकस्य वा परामर्श उच्यते। तथा च वृहस्पतिः “ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना। कलयित्वोत्तरं सभ्यैर्द्दातव्यैकस्य वादिनः”। करणे धर्माधिकरणे ये तिष्ठन्ति वादिनः प्रतिवादिनश्च तेषामुत्तरं मिथ्यादिचतुर्भेदं कलयित्वा विचार्य्य एतदुत्तरे कस्य क्रियोपन्यास उचित इति निर्धार्य्य विभाव्यते साध्यमनयेति विभाबना क्रियाप्रमाणमिति यावत्। एकस्य वादिनोऽर्थिप्रत्यर्थ्यन्यतरस्य सभ्यैर्दातव्या उपन्यसनीयत्वेनाज्ञापयितव्येत्यर्थः। कात्यायनोऽपि “लिखिते शोधिते सम्यक् सति निर्दोष उत्तरे। अर्थिप्रत्यर्थिनोर्वापि क्रियाकरणमिष्यते”। क्रियाकरणं क्रियोपन्यासः। पृनर्वृक्षस्पतिः “श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्द्दिष्टा यस्य भावना। विभावयेत् प्रतिज्ञातं सोऽखिलं लिखितादिना”। विभाव्यते साध्यते साध्यमनयेति विभावना क्रियैव। पूर्वोत्तरं पूर्वपक्षमुत्तरञ्चेत्यर्थः। द्वन्द्वैकबद्भावः। निर्दिष्टा ब्रूहीत्युपदिष्टा। कस्मिन्नुत्तरे कस्य क्रिया क्रियारहिंतञ्च किमुत्तरमित्यपेक्षयामाह व्यासः “प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्द्दिशेत् क्रियाम्। मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्”। प्राङ्ग्यायकारणोत्तरयोः प्राङ्ग्याये कारणे च साधितेऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्व्यर्थं साधनं ग्रयर्थिनाऽव्य पगमाच्चेति तत्रैव साध्यत्वाविर्भावात्तदुप- न्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यासस्तत्साधनायोचितः। अर्थिसम्बन्धविरहप्रत्यर्थिसम्बन्धयोर्द्वयोरषि तेनैव निर्णयात्। मिथ्योत्तरे तु वादिनः प्रमाणमपेक्ष्यं यदि प्रतिज्ञातेऽर्थे प्रमाणाभाव एव प्रत्यर्थ्यभिमतोऽर्थिप्रतिज्ञातसाध्यहैत्वभावः सिध्यतीति तत्परिहाराय भावाभावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एव क्रिया। सम्प्रतिपत्तौ तु नैकस्यापि साध्यमस्तीति निरर्थकत्वात् क्रियैव नास्तीत्यर्थः। वृहस्पतिः “प्रतिज्ञाम्भावयेद्वादी प्रत्यर्थी कारणन्तथा। प्राग्वृत्तं वादविजयं जयपत्रेण भावयेत्” प्रतिज्ञाम्प्रतिज्ञातार्थम्। इदञ्च परिशेषान्मिथ्योत्तरविषयम्। प्राग्वृत्तं प्राङ्ग्यायं जयपत्रेणेति प्राङ्ग्यायदर्शि भृत्योपलक्षणम्। मनुः “अपह्नवेऽघमर्णस्य देहीत्युक्तस्य संसदि। अभियोक्ता दिशेद्देशं कारणं वान्यदुद्दिशेत्”। दिशति कथयति यथादृष्टमर्थमिति देश साक्षी। मेधातिथिस्तु ऋणादिप्रयोगदेशवर्त्तिनः साक्षिणो देशशब्देन लक्ष्यन्व इत्याह। अन्यत्कारणं प्रमाणं साक्षिभिन्नं लेख्यादि। मेधातिधिना तु “करणं वा समुद्दिशेदिति” पठित्वा करणशब्दः प्रमाणसामान्यवाचकोऽपि गावलोवर्दन्यायेन साक्षिभिन्नकरणमाचष्टे पृथगुपादानात्। कारणं वा समुद्दिशेदिति पाठेऽप्ययमेवार्थः” इत्युक्तम्।। यत्र मिथ्याप्रत्यवस्कन्दनयोः कृत्स्नपक्षव्यापिता। यथा कश्चिच्छृङ्गग्राहिकया कञ्चिदभियुक्ते मदीयेयङ्गौरमुकस्मिन् काले नष्टास्य गृहे दृष्टा यतः। तत्राभियुक्त उत्तरयति मिथ्यैतत्। एतत्प्रदर्शितनाशकालात प्रागेवास्या मद्गृहेऽवस्थितत्वादिति। इदन्तावत्पक्षपतिक्षेपक्षमतममित्यनुत्तरत्वानर्हम्। कारणोपन्यासान्न शुद्धं मिथ्योत्तरम्। एकदेशाभ्युपगमाभावाच्चार्थिना लिखितोऽर्थ इत्यादि प्रागुक्तप्रत्यवस्कन्दनलक्षणं नास्कन्दति। साध्यभेदाय प्रतिज्ञाभेदापादकत्वाभावाच्च न पक्षैकदेरम् यत्सत्यमित्युत्तरं युगपद्व्यवहारासम्भवकृतं युगपदनुत्तरम्। तस्मात्सकारणं मिथ्योत्तरमेवेदम् अन्यतरसाधनेनापि विवादपर्यवसानात्। अत्र “मिथ्याक्रियापूर्ववादे” इति वचनात् “कारणे प्रतिवादिनीति” वचनाच्चान्यतरस्य यथारुचिक्रियोपन्यास इति भाति यद्यपि, तथापि मिथ्याक्रियेत्यादेः शुद्धमिथ्याविषयत्वेनैतद्विषयत्वाभावात् “कारणे प्रतिवादिनीति” वचनात् प्रतिवादिन एवात्र क्रिया। नचास्यापि शुद्धप्रत्यवस्कन्दनविषयत्वादेतद्विषयुत्वाऽभावप्रसङ्गेन न कस्यापि क्रिया प्राप्नोतीतिनिर्णय- मतिबन्ध एषेति वाच्यम्। यतः प्रसिद्धप्रत्यवस्कन्दनेऽपि ग्रहणाद्यभ्युपगमेन प्रतिद नादिकारणोत्तरतैवास्यासम्भाबिनीति वाच्यम् एकदेशाभ्युपगमस्य प्रायिकत्वात्। कार णोपन्यासस्यैवोत्तरान्तरासङ्कीर्णतया तल्लक्षणत्वावश्यम्भावात्। एवं च कृत्स्नपक्षव्यापि सप्राङ्ग्यायं मिथ्योत्तरमपि द्रष्टव्यम्। यथा प्राक्तनाभियोग एव। यद्येवं प्रतिपदति मिथ्यैतत्। यतः प्रागयमस्मिन्नभियोगे मया व्यवहारमार्गेण पराजित इति। अत्रापि प्राङ्ग्यायकारणोक्त्रौ” इत्यादिप्राक् प्रदर्शितवचनात् प्रत्यर्थिन एव क्रियोपन्यासः। प्राङ्ग्यायसिद्धौ प्रतिज्ञायाः प्रकटमेव मिथ्यात्वपर्यवसानादस्य शुद्धप्राङ्ग्यायविषयत्वासम्भवादेतादृशप्राङ्ग्यायविषयताया अप्यवर्जनीयत्वात्। पक्षप्रतिक्षेपक्षमस्यास्य प्राग्वदेवानुत्तरत्वानर्हत्वात्। यत्र तु क्वारणप्राङ्ग्याययोः कृत्स्नपक्षव्यापितयैकोत्तरत्वन्तत्र पत्यर्थिना प्राङ्ग्याय एव साधनीयः। कारणसाधनस्य तदन्तर्भूतत्वात्। यथा रूपकशतमनेन मामकं गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तत्वादिदानीमस्मै न धारयामि। अस्मिन्नेवार्थे प्रागमुनाहमभियुक्तश्चतुष्पाद्ध्यवहाररीत्यामुम्पराजितवानिति। इदानीं हीनपरिज्ञानोपायः तत्र मनुः। “बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्। स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन ह”। स्वरो विकृतो गद्गदत्वादिः। वर्णोऽप्यस्वाभाविकः कृष्णत्वादिः। इङ्गितं स्वेदवेपथुरोमाञ्चादि। आकारो विकृतो भ्रुवः क्रियादिः। चक्षुः कातरम्। त्वेष्टितं वृथास्थानात् स्थानान्तरगमनादि। याज्ञवल्क्यः “देशाद्देशान्तरं याति सृक्वणी परिलेढि च। ललाटं स्विद्यते चास्य मुखं वैबर्ण्यमेति च। परिशुष्यत्स्खलद्वाक्यो विरुद्धम्बहु भाषते। वाक्चक्षुः पूजयति नो तयोष्ठौ निर्भुजत्यपि। स्वभावाद्विकृतिं गच्छेन्मनो वाक्कायकर्मभिः। अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्त्तितः।” मनोवाक्कायकर्मभिर्य्यः स्वभावाद्विकृतिङ्गच्छेत् न भया दिनिमित्तमसावभियोगे साक्ष्ये वा दुष्टः परिकीर्त्तितः। मन आदि विकृतीरेव विविच्य दर्शयति। देशान्तरं याति नचैकत्रावतिष्ठते। सृक्वणी ओष्ठप्रान्तौ परिलेढि जिह्वया पुनः पुनः परिघटयतीति। कर्मणो विकृतिः। अस्य ललाटं स्विद्यते स्वेदविन्दुवृन्दाङ्कितम्भवति। सुखं वैवर्ण्यं वर्णान्यत्वं पाण्डुत्वकृष्णत्वादि एनि प्राप्नोतीति कायस्य। परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्त- पदवर्णं वाक्यं यस्य सः। बहु अनुपयुक्तं विरुद्धं पूर्वापरविरोधवद्भाषते। परोक्तां वाचम्प्रतिवचनदानेन, इति बाचः। चक्षुश्च परस्य प्रतिवीक्षणेन न पूजयति नाभिनन्दतीति चक्षुषः। मनोविकृतेर्ल्लिङ्गम्परकीयमनोविकृतेरप्रत्यक्षत्वात्। तथा ओष्ठौ निर्भुजति वक्रयत्युपर्यधो भावेन चालयतीति कायस्यैव विकृतिः। मनुरेव “आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः” कात्यायनः “आकारेङ्गितचेष्टाभिस्तस्य भावं विभावयेत्। प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते। कम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशोषाभिमर्षणम्। भूलेखनं स्थानहानिस्तिर्य्यगूर्द्ध्वनिरीक्षणम्। स्वरभेदश्च दुष्टस्य चिह्नप्राहुर्मनीषिणः”। प्रतिवादिशब्देन परस्परप्रतिपक्षवादित्वादुभयोर्ग्रहणम्। अभिमर्षणञ्जिह्वयोष्ठप्रान्तावलेहनं द्वन्द्वैकवद्भावः। श्रीरामायणे “आकारं छाद्यमानोऽपि न शक्यो विनिगूहितुम्। बलाद्धि विवृणोत्येष भावमन्तर्गतं नृणाम्”। अनेन च पराजसम्भावनामात्रम्प्रतिपाद्यते तस्य च फलं क्रियादिपरामर्शे सभ्यादीनामत्यवधानेन व्यवहारशेषविचारः। नत्वेतावता पराजयनिश्चयो साक्ष्यनिर्णयो वा, नैसर्मिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवेक्तुमशक्यत्वात्। यद्यपि कोऽपि निपुणतममतिर्विवेक्तुं शक्नुयात् तथापि न पराजयनिमित्तमसाक्षित्वनिबन्धनं वा दण्डादिकार्यं सम्भवति। न हि निपुणभिषगभियोगमूलकमरणनिश्चयेऽपि मृतकार्य्यमार्याः समाचरन्ति। योगीश्वरः “सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत्। नचाहूतो वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः”। सन्दिग्धमधमर्णादिभिरनभ्युपगतमेवार्थं यः स्वतन्त्रः प्रमाणनिरपेक्ष एव साधयेदासेधादिना राजादिभ्योऽनिवेद्यैव तस्माज्जिघृक्षति तदुपरि दण्डाद्यापादयति वा स हीनो दण्ड्योभवति। न परं प्रकृतार्थहानिमाप्तो त प्रत्युत स्वातन्त्र्यमिबन्धनं राजदण्डमपि दातुमर्हति। यश्च स्वयमभ्युपे नेतंसाधन वा साधितंयाच्यमानो निष्पतेत् पलायेत। सोऽपि तथा दण्ड्यः साधितं धनञ्च दाप्यः। यश्चाहूतोऽभियुक्तोराज्ञा चाहूतः सदसि न किञ्चिद्वदति स प्रकृतार्थहानिं दण्डञ्च प्राप्नोति। प्रकरणात् दुष्टपरिज्ञानमेव मा मूदिनि दण्डग्रहणं दण्ड्योऽपि शास्योऽ यर्थान्न हीयत इति स्वार्थान्न हीयत इत्यर्थादहीनत्वदर्श नादत्र तन्माभदिति हीन ब्रहणम् नारदोऽपि। “अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः। अन्यवादी तथा हीनः स एव विकृताननः। पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः। वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः”। कात्या यनेनापि “श्रावथित्वा यदा कार्यं त्यजेदन्यद्वदेदसौ। अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते”। यश्च कञ्चिदभियुज्य नाहमेनमभियुञ्जे इत्येवंविरुद्धमभिदधीत सोऽ प्यन्यवादी तथा हीन इत्याह स एव “न मयाभिहितं कार्यमभियुज्य परं वदेत्। विब्रुवंश्च भवेदेव हीनन्तमपि निर्दिशेत्”। तथा पत्रे लिखितं पूर्वपक्षमप्यन्यथा कुर्वन्नन्यवादी तथा हीन इत्याह स एव “लेखयित्वा तु यो वाक्यमूनं वाऽभ्यधिकं पुनः। वदेद्वादी स हीयेत नाभियोगन्तु सोऽर्हति”। अभियोगं पर्वपक्षं नार्हति वादित्वयोग्यो न भवतीत्यर्थः। क्रियाद्वेषिणोऽनुपस्थातुश्च हीनतायास्तेनैव विवरणं कृतम् “लेख्यं च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः। तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते। आह्वानादनुपस्थानात् सद्य एव स हीयते”। निरुत्तरतयां हीनमप्याह स एव “ब्रूहीत्युक्तोऽपि न ब्रूयात् सद्यस्तद्धनमर्हति। द्वितीयेऽहनि दुर्षुद्धेर्विद्यात्तस्य पराजयम्”। पराजयं तच्चिह्नं हीनताम्। अतएव हारीतः “सापदेशं हरेत्कालमब्रुवंश्चापिसंसदि। उक्त्वा वची विब्रुवंश्च हीयमानस्य लक्षणम्”। मापदेशं सव्याजम्। यथाह कात्यायनः “व्याजेनैव तु यत्रासौ दीर्घकालमतिक्रमेत्। सापदेशं तु तद्विद्याद्वादहातिकरं स्मृतमिति”। आहूतप्रपलायी अभियोगपरिहारार्थमाह्वानबुद्ध्या प्रच्छन्नचारी। एतेषामुत्तरोत्तरस्य हीनता गुर्पी त ज्ञापयितुं “हीनः पञ्चविध” इत्युक्तं न परिसंख्यार्थमन्येपामपि हीनत्वस्मरणात्। हीनतागुरुत्वज्ञापनंदण्डभूयस्त्वार्थम्। यथोक्तङ्कात्यायनेन “अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान्दश। नोपस्थाता दश द्वे च पोडशैव निरुत्तरः। आहूतप्रपलायी च पणान्दाप्यस्तु विंशतिम्”। अत्रापि विशेष उक्तस्तेनैव “त्रिराहूतमनायातमाहूतप्रपलायिनम्। पञ्चरात्रम तक्रान्तं विनयेत्तं महीपतिः” कात्यायनेनैव प्रकारान्तरेणापि हीनः उक्तः। “श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत्। वादिनं लोभयेच्चैव हीनन्तमपि निर्द्दिशेत्”। श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपि शः प्रभेदवेत् अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थ। वृहस्पतिरपि “मयं करोति भेदं वा भीषणं वा निरोधनम्। एतानि वादिनो यस्य व्यवहारे स हीयते”। भयादीनि व्यस्तसमस्तानि येन कृतानि स हीयत इत्यर्थः। भयं करोति भीषणामन्यमुखेन भयोत्त्पादनमिति शेषः। मनुरपि “अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः। यश्चाधरोत्तरानर्थान् विगतान्नावबुध्यते। अपदिश्यापदेशञ्च पुनर्य्यस्त्वपधावति। सम्यक् प्रणिहितञ्चार्थं पृष्टः सन्नाभिनन्दति। असम्भाष्ये साक्षिभिश्च देशे सम्भाषते मिथः निरुच्यमानं प्रश्नञ्च नेच्छेद्यश्चापि निष्यतेत्। व्रूहीत्युक्तश्च न ब्रूयात् उक्तञ्च न विभावयेत्। न च पूर्वापरं विद्यत्तस्मादर्थात् स हीयते। ज्ञातारः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः। धर्मस्थकारणैरेतैर्हीनन्तमपि निर्दिशेत्”। अदेश्यमनुपयोगासत्यत्वादिना निर्देशानर्हं दिशति कथयति यः। यश्च कथितमपि न मयेदमुक्तमित्यपलपति। यश्चाधरोत्तरानर्थान् पूर्बापराभिहितान्विगीतान्विरुद्धांस्तत्त्वेन नावबुध्यते। यश्चापदेशं व्याजं पोडादिकमपदिश्योद्भ्यव्यापधावति अपसरति सभातः। यश्च सम्यक् प्रणिहितं सम्यक् प्रणिधानेनाकलितमपि परोक्तमर्थं पृष्टः सन्नाभिनन्दति अनुवादप्रत्युत्तरदानादिना ना द्रयते। मेधातिथिस्त्वदेशमिति पठित्वा भाषावादिलिखितदेशभिन्नमसम्भाविपं वा देशम्। यद्वाऽभियोक्ता दिशेद्देशमित्यत्रेव देशशब्देन साक्षिणो व्याख्याय साक्षिनिर्देशः। अकाले सम्भावितसाक्षिणो निर्दिशती त” व्याचख्यौ। यश्च ज्ञातारः साक्षिणो ममोक्तेर्थे सन्तीति सभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान्। अत्र मा मां ज्ञातारः। यथार्थवाद्यहमिति जानानाः साक्षिण इति यावत्। द्वितीयैकवचनान्तस्यास्मच्छब्दस्य द्वितीयाया इत्यनेन माम् इत्यस्य मा इत्यादेशः। नतु मे इति षष्ठ्यन्तमेतत्। “खलर्थतृनामिति” तन्निषेधात्। तेन मेति सन्धिरपि समाहित इति मेधातिथिः। आचार्यास्तु व्याकरणाधिकरणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसङ्गेन वदन्तः षष्ठ्यन्ततामेवास्य मन्यन्ते मे सन्तीति सम्बन्धान्न तृतीयासम्बन्धप्रयुक्तषष्ठीप्रतिषेधावकाश इति तेषामभिसन्धिः। सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकर एवाचार्य्यमेधातिथिभ्यामवृतत्वादति ध्येयम्। सिद्धान्ते त्वाचार्य्याणां छान्दसत्वमत्र समाधिरभिमतः। एतैः कारणैर्व्यस्तैः समस्तैर्वा बादिप्रतिवादिनोरन्यतरं हीनन्निर्दिशेदित्यर्थः हीनवादितया दण्डार्हतामात्रन्न प्रकृ- तार्थहानिरिति प्रमादपरिहारार्थमेवायं प्रपञ्चः “छलन्निरस्येत्यादि” वचनात्। अतएव नारदोऽपि “सर्वेष्वर्थविवादेषु वाक्छले नावसीदति। परस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते”। अस्यार्थः अर्थविवादेषु सर्वेषु वाक्छले प्रमादाभिधाने पूर्व्वप्रपञ्चितेऽपि नावसीदति प्रकृतादयोन्न हीयते। अत्रोदाहरणमात्रं परस्त्रीत्यादि। एतेषु प्रमादाभिधानेऽपि शास्योदण्ड्योऽपि यथा न प्रकृतार्थाद्धीयते इति एवं सर्वेष्वर्थविवादेष्वित्यर्थः। अन्यथा परस्त्रीत्यादेरानर्थक्यमेव भवेत्। अर्थविवादोपादनान्मन्युकृतेषु प्रकृतार्थादपि हीयतैत्यर्थादुक्तं भवति। यथाऽहमनेन शिरसि ताडित इत्यावेद्य भाषादिसमये हस्तेन पादे ताडित इति वदन् दण्ड्यः पराजितश्च भवति। मन्युकृतावेशादसदेव ताडनादिकमयमस्मिन्नारोप्यावेदितवान् धर्म्माधिकरण इति प्रतीतेः। अतएव “दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते” इति वार्हस्पत्यः पुनर्वादनिवेधोऽपि मन्युकृतव्यवहारविषय एव। संग्राह्योदण्डमित्यर्थात्। असम्भाव्ये सम्भाषणानर्हे बिजन इति यावत्। नेच्छेत् श्रुतमप्यश्रुतवत्कुर्य्यात्। राजकार्य्यादिव्याजमुत्पाद्य ग्रामान्तरङ्गच्छेत्। ब्रूहीत्यादि गतार्थम्। अन्यादेशमित्यादौ व्रूहीत्यादौ च बहुकृत्वोऽपि तथ्यं वदितव्यमिति शावरभाष्योक्तरीत्यास्मिन् प्रकरणे पुनरुक्ति र्नदोष इति भगवान्मेधातिथिराह। क्वचिदर्थविवादेऽप्यर्थहानिः सन्दिग्धार्थमित्यनेन दर्शिता। नारदोऽप्याह “अनिवेद्य तु यो राज्ञे सन्दिगधेऽर्थे प्रवर्तते। प्रसह्य स विनेयः स्यात्स चाप्यर्थे न सिध्यति”। प्रवर्त्तते साधयति बलादिनेत्यर्थः। वृहस्पतिरपि “आहूतप्रपलायी च मौनी साक्षिपराजितः। स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः”। साक्षिपराजितः साक्षिवचनाद्यः पराजितः, स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता, अनयोर्दृष्टान्तत्वेनोपादानम्। यथाऽनयोरविप्रतिपन्नार्थहानि स्तथान्ययोरपीत्यर्थः। अत्राप्युत्तरोत्तरहीनताधिक्य तिपादनार्थं चतुर्विघग्रहणन्न पर्तिसङ्ख्यार्थमन्यथान्येषान्तत्कथनं विरुध्येत। कस्मिन् कदा हीनकार्य्यमित्यत्र कालावधिरुक्तस्तेनैव “प्रपलायी त्रिपक्षेण मौनकृत् सप्तभि र्दिनैः। साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते” इति साक्षिभिन्नस्तत्पराजितः यश्च सामान्यान् साक्षिणो विर्दिश्य पश्चाद्विशिष्य निर्दिशेत् मनुना ज्ञातारः इत्यनेन हीनतयोक्तेः तत्रापि कालाबधिं वृहस्पतिरेवाह “साक्षिणस्तु समुद्दिश्य यस्तु तान्न विवादयेत्। त्रिंशद्रात्रात्त्रिपक्षाद्वा तस्य हानिः प्रजायते” इति। दैविकराजिकान्तराये त्ववध्यतिक्रमेऽपि न दोष इत्यप्याह स एव “आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम्। नोपस्थितो यदा कश्चिच्छलन्तत्र न कारयेत्। दैवराजकृतो दोषस्तस्मिन् काले यदा भवेत्। अवघित्यागमात्रेण न भवेत् स पराजितः”। इति आचारकरणे व्यवहारकरणे। छल न्तत्रन कारयेदिति वदता यत्र वचनेनार्थहानिः प्रतिपादिता तत्रैव पुनर्विवादाभावोऽन्यत्र तु हीनतानिमित्तं दण्डं कृत्वा पुनर्वादः प्रवर्त्तनीय एवेति सूचितम्। यत आह कात्यायनः “पलायनानुत्तरत्वादन्यपक्षाश्रयेण वा। हीनस्य गृह्यते वादो न स्वबाक्यजितस्य च”। स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोपलक्षणन्तेनैव विवृतमिदम् “यो हीनचिह्नेन जित तस्योद्धारं विदर्बुधाः। स्ववाक्यहीनोयस्तु स्यात् तस्योद्धारो न विद्यते” इति। उद्धारः पुनर्व्यबहारः। अत्रापि स्ववाक्यहीन इति प्रकृतार्थहानिनिमित्तोपलक्षणम्। विवादमुपक्रम्य राजानं वञ्चयित्वाऽन्योन्यं यौ वादिपतिवादिनौ स्वयमेव विवादान्निवर्तेते तयोरुभयोरपि दण्ड्यत्वमाह वृहस्पतिः “पूर्वोत्तरे सन्निविष्टे विचारे सम्प्रवर्त्तिते। प्रशमं ये मिथो यान्ति दाप्यास्ते द्विगुणन्दमम्”। मिथ इत्यनेन राज्ञो निवेदनमकृत्वैबाऽन्योन्यशमयानोक्तेः राज्ञेऽनिवेदनमवगम्यते। कात्यायनस्तु स्पष्टमाह “आवेद्याप्रगृहीताज्ञं प्रशमं यान्ति ये मिथः। सर्वे द्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते” इति। द्विगुणो दण्डस्तु पराजयनिमित्तदण्डापेक्षया न तु विवादास्पदीभूतद्रव्यापेक्षया अद्रव्यविवादेष्यव्याप्तेः। राज्ञे निवेद्याऽन्योन्यरुच्या राजानुरोधेनैव वा सन्धिकरणे तु न दण्डैत्यर्थसिद्धं स्पुटीकृतं वृहस्पतिना “पूर्बोत्तरेऽभिलिखिते प्रक्रान्तो कार्य्यनिर्णये। द्वयोरुत्तरयोः सन्धिः स्याद् दुःखण्डयोरिव। साक्षिसमभविकल्पस्तु भवेत्तत्रोभयोरपि। दोलायमानौ यौ सन्धिं कर्यातान्तौ विचक्षणौ। प्रमाणसमता यत्र भेदः शास्त्रचरित्रयाः। तत्र राजाज्ञया सन्धिरुभयोरपि शस्यते। धर्मार्थोपग्रहः कीर्त्तिर्भवेत्साम्येन भूभृतः। न क्लिश्यन्ते साक्षिसभ्या वैरञ्च विनिवर्त्तते। निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशोऽयशः। विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च। तस्मात्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः। अद्वेषलोभाद्यद्ब्रूयु- स्तत्कर्तव्यं विजानतेति”। साक्षिसभ्यविकल्प इति उभयोरप्यर्थिप्रत्यर्थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यविषयको विकल्पो भवेत् तत्र कार्य्यनिर्णये दोलायमानौ सन्देहदोलारूढौ यावर्थिप्रत्यर्थिनौ सन्धिं कुर्य्यातान्तौ विचक्षणौ चतुरौ पराजयजनिताऽप्रतिष्ठादितिरोधानादित्यर्थ इति कल्पतरुः। रत्नाकरस्तु “साक्षिणां सभ्यानाञ्च विकल्पः परस्परविरोधः इत्याह। प्रमाणसमतेति। यत्र सभ्यानां वादिद्वयपक्षे प्रमाणं साम्यं प्रतिभाति। यत्र च शास्त्रचरित्रयोर्भेदः शास्त्रे शास्त्रान्तरेण चरित्रे व्यवहारे चरित्रान्तरेण भेदो विप्रतिपत्तिर्नतु शास्त्रव्यवाहारयोः परस्परम्भेदः धर्मशास्त्राविरोधे व्यवहारस्यार्थशास्त्रत्वेन दुर्बलत्वात्” इति व्याचख्यौ। तत्र राजाज्ञया सन्धिः कार्य्यत्वेन प्रशस्यते धर्म्मार्थोपग्रहादिहेतुत्वात् निग्रहानुग्रहाद्यव्यवस्थानिवर्त्तकत्वाञ्च। तस्मादित्यादिना राजाज्ञैव केवलं न सन्धिहेतुः कुलगणाध्यक्षादिवचोऽपि राजवचनसममिति प्रतिपाद्यते। एतच्च प्रत्याकलितं सभ्यैरवश्यमादर्त्तव्यमित्याह नारदः “प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः। सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः”। अस्यार्थः स्मृतिचन्द्रिकाकारेणैवमुक्तः “अब्धवस्थितैः प्रमाणेः प्रमाणानि प्रमाणकर्त्तारः प्रमाणशब्देन लक्ष्यन्ते। ते सीदन्ति विनश्यन्ति निर्णयं नाप्नुवन्ति। अतः प्रत्याकलनकौशलेन प्रमाणज्ञैः सभ्यैर्यत्नतस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्थादुःस्थितानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति”। वयन्तुअव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः प्रमाणैः प्रमाणानुग्राहकैस्तर्कैः प्रमाणानि साक्ष्यादीनि सोदन्ति निर्णयाक्षमाणि भवन्ति, हि यतोऽतः प्रमाणज्ञैः प्रमाणानि यत्नतः परिपाल्यानि सत्तर्कपरिशुद्ध्यनुग्रहेण तत्त्वनिर्णयफलानि कार्य्याणीति व्याचक्ष्महे। अनयोश्च व्याख्यानयोस्तारतम्यन्तत्त्वविद्भि र्धवेचनीयम्। इदञ्च प्रत्याकलितं व्यवहर्त्तृसम्बन्धाभावात् व्यवहारदर्शिमात्रकर्त्तृकत्वाच्च व्यवहारपादचतुष्टायान्तुर्भूतमिति मिताक्षराकारस्य सम्भतम् नत्वनुपादेयम्, एतदन्तरेण तृतीयक्रियापादानव तारात्। तथाहि उत्तराभिधानानन्तरमर्थिप्रत्यर्थिनोः कस्य क्रिया का वा क्रियेति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद्व्यवहर्त्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति। अपरार्कस्तु “साध्यसिद्धिपदेन जयपराजयावधारणलक्षणं प्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति वदन् क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रियमाणस्य प्रत्याकलितरूपतामभिप्रैति”। “सम्प्रतिपत्त्युत्तरेण क्रियापादे नापि जयपरजयावधारणलक्षणप्रत्याकलितपाद इति द्विपा त्त्वमेवेति” व्रुवाणो वाचस्पतिरपि तदेवानुबध्नाति। कल्पतरुस्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तरलेखनान्तरभावितानां हीनपरिज्ञानसन्धिकरणक्रियादानानां क्रियापाद प्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ। व्यवहारोपयोगित्वाद् वृहस्पत्यादिवचनानां प्रागस्मल्लिखितानामनुरोधाच्च व्यवहारपादत्वं परन्तदनभ्युपगतवन्तौ क्रियापादप्राग्भावितत्वमेव तु तस्य युक्तम्। यै तु तिष्ठन्ति करण इत्यादिवचनात् व्यवहारपादत्वमस्तु नवेत्यन्यदेतत्। यत्तु साध्यसिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमिति तन्न व्यवहारभावनया फलापवर्गिण्याः फलनिरूप्यत्वेन फलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात्। अतएव त्र्यं शा भावनेति मीमांसकानामुद्घोषः। तात्पर्य्यपरिशुद्धावुदयनाचार्यस्तु प्रमाणोपन्यासमेव प्रत्याकलितमभिमन्यते यथाह “यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः। पृच्छोपक्रममात्रेण द्वितोयोपयोगात्। सम्भवेऽपि तयोर्विषयोपस्थापनमात्रपर्यवसानात् स्थेयस्यैव परीक्षकत्वम्। तथापि पूर्वपक्षोत्तरपक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पाद्व्यवहारप्रवर्त्तनात् फलतो न कश्चिद्विशेषः। एककर्त्तृ कत्वेऽपि ताबत एव व्य पारकलापस्य विचारे विद्यमानत्वात् तस्मादप्यनिपुणो देशकस्तथाषि देश्यं सावगममेवं ति”। वस्तुतस्तु न प्रमाणोपन्यासस्तस्य प्रत्याकलितत्वेनाभिप्रोतः। किन्तु सभिककृतः प्रमाणोपष्टम्भककृत्तर्कादिपरामर्श एव। यतो न शास्त्रीयकथायां व्यवहारवत्पूर्वपक्षोत्तरपक्षौ स्वामिमतसहेतुकसाध्यनिर्देशमात्रपरौ। किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं स्वपक्षे स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्षसाधकप्रमाणप्रख्यापन प्रथमं क्रियते। ततः स्थेयैस्तदुभयविवेकाख्यप्रत्याकलितेन निष्कर्ष एकतरपक्षनिर्द्धारणरूपः क्रियते। तावता कथासमाप्तिर्वादे, जल्पवितण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत इत्यादि लक्षणमाकरे। अत्र तु साक्ष्यादिविलक्षणं मानमुत्तरभेदेन नियत प्रागुपन्यासानर्हमिति न पूर्वोत्तरपादान्तरर्गतिस्तस्य। अतएव प्रत्याकलितस्यात्रोत्तरे कस्य क्रियेत्यादिविमर्शस्य स्थेयकृतस्य पत्याकलितस्य प्राच्यत्वं प्रमाणोपन्यासात्तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसाध्वसाधुतां विनैकरूपता चेत्यस्तु विस्तरः। एवं प्रत्याकलितमाकलितम्। अधुना क्रियापादो विविच्यते। तत्र कात्यायनः। वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम्। तत्साध्यं साधनं येन तत्साव्यं साध्यतेऽखिलम्। सारभूतं पदं मुक्त्वा निःसाराणि बहून्यपि। संसाधयेत् क्रियायान्तु ताञ्जह्यात् सारवर्जिताम्। पक्षद्वयं साधयेद्या ताञ्जज्याद्दूरतः क्रियाम्। क्रियां बलवतीमुक्त्वा दुर्बलां योऽवलम्बते। स जयेऽवधृते सभ्यैः पुनस्तान्नाप्नुयात् क्रियामिति”। ताम्बलवतीम्। तेन प्रागेव प्रबलं प्रमाण मुद्भाव्यं दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात्प्रबल प्रमाणोपन्यासावसरो नास्तीत्यर्थः। अतएवाह नारदः “निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्। लिखितं साक्षिणो वापि पूर्वमावेदितं नचेति”। निर्णिक्ते शोधिते अन्यतरजयपराजयान्यतरावधारणं प्रापित इति यावत्। पूर्वमेव दुर्बलप्रबलसकलप्रमाणोपन्यासे कृते तु सर्वप्रमाणानुसारेण छलं निरस्येत्यभिधानात् निर्णयः। पश्चादुद्भावितन्तु कृत्रिम वादिशङ्काकलङ्कितमित्यनुपादेयमेवेत्यर्थः। अतएव पूर्ववाक्येऽपि मुक्त्वेति पुनरिति चोक्तम्। सएव “यथा पक्वेसु धान्येषु निष्फलाः प्रावृषो गुणाः। निर्णिक्तव्यवहाराणां प्रमाणमफलं तथति”। उत्तरे पत्रनिवेशिते साध्यसिद्धेः साधनाय तत्साधननिर्देशङ्कः कुर्य्यादित्यपेक्षिते याज्ञवल्क्य आह “ततोऽर्थी लेखयेत्सद्यः प्रति ज्ञातार्थमाधनम्”। तत उत्तरलिखनानन्तरमर्थी अर्थ्यत इत्यर्थः साध्यं सोऽस्याऽस्तीत्यर्थी साध्यवान् सद्य एवाविलम्बेन प्रतिज्ञातस्य प्रतिज्ञाविषयस्यार्थस्य साध्यस्य साधनम् साध्यतेऽनेनेति साधनं प्रमाणम्। साधनादि लौकिकमलौकिकं वा लेखयेत् लेखकद्वारा। स्वयं वा लिखेदित्यपि द्रष्टव्यम् दृष्टार्थत्वात् अत्र सद्य इति वदन्नु त्तराभिधाने कालबिम्बनमप्यनुमन्यते। तच्च विशेषपरिभाषायां विवक्ष्यते। अर्थी लेखयेदित्यनेन सम्प्रतिपत्तौ न कस्याप्यर्थित्वमिति न कोऽपि साधनं लेखयेदिति पादद्वयेनैव व्यवहारनिर्वाहः तथाचोक्तम् “द्विपात्सम्प्रतिपत्तिस्तिष्ठति मिथ्योत्तरे पूर्ववादिन एवार्थित्वात् सएव साधनं लेखयेत्। कारणोत्तरप्राङ्ग्यायोत्तरयोस्तुं प्रत्यर्थ्येव साध्यवान् कारणप्राङ्न्याययोस्तस्यैव साध्यत्वादिति स एव लेखयेदित्युक्तं भवति। तेन “प्राङ्ग्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम्। मिथ्योक्तौ पूर्ववादी तु प्र- तिपत्तौ न सा भवेत्। मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि। प्राङ्ग्यायेऽपि तथैव स्यात् प्रतिपत्तौ न सा भवेदिति” व्यासादिस्मुत्युक्तोऽर्थिपदेन सङ्क्षेपतः सर्व एवोक्तो भवति। अत्र चण्डेश्वरः “साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम्। विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः”। इत्यत्र सद्यो विवादयेदुत्तरन्दापयेदित्यनेन प्रत्यर्थिपक्षस्य लिखने विलम्बप्राप्तौ साहसादिषु तत्पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्भाषावादिपक्षलिखने विलम्बोक्त्यार्थप्राप्तः प्रत्यर्थिपक्षलिखनविलम्बः स्यात् तदैव घटते नान्यथेत्येतद्वा क्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्ग्याययोः प्रत्यर्थ्येवाऽर्थी जात इति स एव साधनं लेखयेदिति। प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारव्याख्यानं तत्पूर्वापरविरोधान्मन्दमित्याह”। तदतिसाहसम् भाषोत्तरवादिपक्षमात्रलेस्वनपरत्वं यद्यनयोर्वाक्ययोस्तर्हि साधनपदान्वये समासानुपपत्तेः सन्दर्भविरोधाच्च साधनलेखनस्यैवोत्तरलिखनोत्तरमाकाङ्क्षितत्वात् साहसादिष्वप्युत्तरभेदव्यवस्थया द्वयोरपि पूर्ववाक्योपात्तसाधनलेखने सद्यस्त्वर्थाक्षिप्तोत्तरलेखनविलम्बापवादोपपत्तेः। नचोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेति तद्विलम्बानुमतिविमत्योस्तं प्रत्येव प्रतिपादनार्हमिति वाच्यम् एतावतापि क्रियोपन्यासप्रतिपालवचनस्यार्थिपदेन भाषावादिमात्रग्रहणाग्रहे नियामकाभावात्। प्रत्युत मिथ्याक्रियेत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रहणमर्थिपदेनेत्यस्यैव युक्तत्वात्। एवं सति मिताक्षरायां पूर्वापरविरोधापादनमज्ञानविलसितमेवेत्यास्तां तावत्। वृहस्पतिः “द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा। एकैकानेकधा भिन्ना मुनिभिस्तत्त्ववादिभिः। साक्षिलेख्यानुमानञ्च त्रिविधा मानुषी क्रिया”। साक्षिलेख्यानुमानमिति द्वन्द्वैकवद्भावः। “साक्षी द्वादशभेदस्तु लिखितं दशधा स्मृतम्। अनुमानन्तु द्विविधन्नवधा दैविकी क्रिया”। इदं संख्याभिधानन्न नियमाय भेदान्तराणामपि प्रमाणप्रकरणे वक्ष्यमाणत्वात्। कात्यायनः “लिखितं साक्षिणोभुक्तिः प्रमाणन्त्रिविधं विदुः। लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः”। लेशोऽन्यथानुपपन्नो धर्मस्तस्योद्देशोविमर्शो युक्तिरित्यर्थः। “पूर्ववादेऽपि लिखिते यथाऽक्षरमशेषतः। अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत्”। पूर्ववादो भाषालिखितं पूर्व- पक्षतया लिखितं उत्तरमिति यावत्। तृतीयपादः प्रत्याकलिताख्यः तस्मिन् सति क्रियया प्रमाणेन प्रतिपादयेत् साध्यमिति शेषः। भाषोत्तरप्रत्याकलिताख्यपादत्रये सति क्रियया स्वकार्य्यमर्थी साधयेदिति तात्पर्थ्यार्थः। कार्य्यक्रियाशब्दौ व्याचष्टे व्यासः “कार्य्यं हि साध्यमित्युक्तं साधनन्तु क्रियोच्यते। द्विभेदा सा पुनर्ज्ञेया मानुषी दैविकी तथेति”। साधनं प्रमाणं प्रत्याकलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृतिचन्द्रिकाकारेणैवमिदं वचो व्याख्यातम्। मिताक्षराकारमते तु तृतीयपादक्रिययेति स एवार्थः। साक्षीद्वादशभेद इत्यादिप्रमाणप्रकरणे प्रपञ्चयिष्यामः। याज्ञवल्क्यः “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम्। एषामन्यतमाभावे दिव्यान्यतममुच्यते” इति। दिव्येष्वन्यतममित्यर्थः। कात्यायनः “यद्येकी मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम्। मानुषीं तत्र गृह्णीया न्नतु दैवीं क्रियां नृपः। यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी। सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम्”। एकदेशप्राप्ता साध्यैकदेशविषया। अत्र यद्येको वादी मानुषीं साक्ष्याद्यन्यतमां क्रियां स्वपक्षसाधकतयोपन्यसत्यन्यस्तु तत्प्रतिपक्षतया दैविकीन्तदर्थादितरवादि–पक्षसिध्यसिध्योः सुलभत्वेन न दिव्यापेक्षेति प्रथमवचनार्थः। एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदि प्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तरस्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर इति द्वितीययाक्यार्थः। दिव्यस्वरूपप्रमाणयोरागमैकगम्यत्वान्मानुष प्रमाणसम्भव एव दिव्यस्य प्रामाण्यमिति मुनिवचननिचयपर्य्यालोचनयावगम्यते। अन्यान्यपि क्वचित् क्वचित्केषाञ्चित् प्रमाणानां प्राधान्यामिप्रायेण व्यवस्थापकानि वचनान्यृषीणां यथा “क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु। लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः” इति कात्यायनः। पितामहः “स्यावरेषु विवादेषु दिव्यानि परिवर्ज्जयेत्। साक्षिभिर्लिखितेनाथ भुक्त्या चैतान् प्रसाधयेत्”। इदमपि साक्ष्यादिसमक्षं स्थावरविषयविवादेषु सुलभमतस्तत्सम्भवान्वेषणमेव कार्यमित्येवम्परन्न सर्वथा दिव्यपरिहारपरम्। सर्वथा साक्षाद्यसम्भवेऽपि दिव्याग्रहणे निर्णयाभावप्रसङ्गात्। कात्यायनः “दत्तादत्तेषु भृत्यानां स्वामिनां निर्णये सति। विक्रीयादानसम्बन्धे क्रीत्या धनमनिच्छति। द्यूते समाह्वये चैव विवादे समुपस्थिते। साक्षिणः साधनं प्रोक्तन्न दिव्यं नच लेख्यकम्। पूगश्रेणीगणादीनां या स्थितिः परिकीर्त्तिता। तस्यास्तु साधनं लेख्यन्न दिव्यन्न च साक्षिणः। द्वारमार्गक्रियाभोग जलवाहादिषु क्रिया। भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं नच साक्षिणः”। दत्तादत्ते प्रतिश्रुत्याप्रदाने दत्त्वा पुनः प्रत्यावृत्य ग्रहणे वा दत्ताप्रदानिके विवादपद इति यावत्। भृत्यानामित्यादिना वेतनादाने। विक्रीयादानेत्यादिना क्रयविक्रयानुशये इतरद्व्यक्तम्। दत्तादत्तादिषु वृद्धानां लिखितकरणाप्रसिद्धेर्भुक्तेश्चासम्भवात् साक्षिणश्च तादृशविषये सुलभत्वान्मानुषप्रमाणसम्भवे च दिव्यासम्भवान्न दिव्यं नच लेख्यकमित्युक्तम्। पूगादीनां संविदि तु बहुकर्तृकायां लिखितं विना न निर्वाहः सर्वेषां व्यवहर्तृत्वान्नोदासीनसाक्षिसम्भवो मानुषसत्त्वे च दिव्यानवकाश इत्यभिसन्धायामिहितन्न दिव्यं च साक्षिण इति। द्वारनार्गादिष्वपि गमनागमनादिरूपभोगस्यैव परं भावाल्लेख्यस्य चाप्रसिद्धेर्मानुषाभाव एव च दिव्यावकाशान्न दिव्यमित्यादि भुक्तिरेव तु गुर्व्वी त चोक्तम्। एवं सर्ववचनानि विवेचनीयानि। अतएव “अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे। न्यासापह्नवने चैव दिव्या सम्भवति क्रियेति” नारदेन सम्भवतीत्युक्तम्। स एव “यदा साक्षी न विद्येत विवादे वदतां नृणाम्। तदा दिब्यैः परीक्षेत शपथैश्च वृथग्विधैः। स्त्रीणां शीलामियोगे च स्तेयसाहसयोरपि। एष एव विधिर्दृष्टः सर्वार्थापह्नवेषु चेति”। कात्यायनः “गूढसाहसिकानान्तु प्राप्तं दिव्यैः परीक्षणम्। युक्तिलेशेङ्गिताकारवाक्चक्षुश्चेष्टितैर्नृणाम्। अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्। दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत्”। वृहस्पतिः “मणिमुक्तप्रबालानां कूटकृन्न्यासहारकः। हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा। महापापाभिशापेषु निःक्षेपहरणे तथा। दिव्यैः कार्य्यं परीक्षेत राजा सत्स्वपि साक्षिषु। चिरन्तनोपांशुकृतचिरनष्टेषु साक्षिषु। पदुष्टेषु समानेषु दिव्यैः कार्य्यं विशोधयेत्”। अत्र सत्स्वपि साक्षिष्वित्यनेनैतादृशि विषये साक्षिण एव तावन्न सम्भवन्ति। सम्भवन्तोऽपि वा कथञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं न तु यथाश्रुतम्। चिरन्तनकृते उपांशुकृते रहसि कृते इत्यनेन लेख्याद्यसम्भवमेवोपलक्षयति। अतएवाग्रे चिरनष्टषु प्रदुष्टेषु समानेष्वित्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान्। व्यासः “प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथाऽपरे। परेव्यश्च तथाचान्ये तं वादं शपथैर्नयेत्”। भिद्यन्ते प्रभेदं प्रतिपद्यन्ते। कात्यायनः “समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत्। प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु। दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः”। साक्षिषु विद्यमानेष्वपि तत्र दोषावष्टम्भेन दिव्यमालम्बत इत्यर्थः। समत्वं साक्षिणां यत्रेति। यत्रोभाम्यां भाषावादिभ्यामुपन्यस्तानां साक्षिणां गुणतः सङ्ख्यातश्च तुल्यत्वमित्यर्थः। व्यासः “न मयैतत्कृतं लेख्यं कूटमेतेन कारितम्। अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्ण्णयः”। लेख्यदोषोद्भावने लेख्ये निर्णयाक्षमे तदारूढसाक्षिषु सुतरां दण्डापूपकन्यायेन दोषोद्भावनान्मानुषासम्भवे दिव्येन निर्णयः कार्य्य इत्यर्थः। प्रजापतिः “यन्नामगोत्रैर्य्यल्लेख्यं तुल्यं लेख्यं क्वचिद्भवेत्। अगृहीतधने तत्र कार्य्यो दिव्येन निर्णयः”। मूललेख्येन नामगोत्रैस्तुल्यं लेख्यान्तरविपरीतार्थं यदा तदा तदप्रमाणीकृत्य दिव्येन निर्णयः कार्य्य इत्यर्थः। कात्यायनः “यत्र स्यात्सोपधं लेख्यं तद्राज्ञे श्रावितं यदि। शोधयेत्तत्तु दिव्येन राजा धर्मासनस्थितः”। सोपधं यत्र छलकृतं यच्च मिथ्योत्तरे पूर्बवादिनः क्रियादानं नोत्तरवावादिन इति प्रागुक्तं तत्र भाषावादिनो मानुषप्रमाणसम्भवादुत्तरवादिनश्च तदसम्भवान्मानुषसम्भवे च दिव्यानवसरादिति न्यायमूलमिति। यदि तत्रापि भाषावादिनो दिव्यभिन्नप्रमाणाभावस्तदा “न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत्। अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैरिति” कात्यायनीयादुत्तरवादिन एव दिव्यं देयम्। पूर्वार्द्धेनार्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्थात्सिद्धौ पुनः परार्द्धेन तद्विधाने सिद्धे सत्यारम्भो नियमायेति न्यायेन निषेधदार्ढ्यार्थत्वम्। प्राङ्ग्यायकारणोत्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमात्रपरं कात्यायनीयानुरोधात्। नचैवमनुषङ्गानुपपत्तिः तदर्थकतयोभयान्वयस्यानुषङ्गहेतुत्वन्न यावदर्थकत्वस्य विरुद्धार्थकत्वे व्यवायवत्सन्निधिबाधेनानुषङ्गस्य तुल्ययोगितानिबन्धनस्य भङ्गः किञ्चिदर्थानन्वयेऽपि तुल्ययोग्यतायाः सत्त्वात्तदभङ्गात्। थदा तु प्रत्यर्थी सन्दिहान स्तदा तस्याधिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि न दिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येवम्। नच “न कश्चिदिति” कात्यायनवचनविरोधः अधिकारानिश्चये तत्प्रवृत्त्यसम्भवात्। ‘धनं धनी साधयतीति’ लोकप्रवादोऽपीदृग्विषयाभिप्रायक एव। यत्र विवादविषये प्रत्यर्थी स न्दिहानस्तत्र तस्योत्तरानर्हतयेति व्यवहारतत्त्वलिखनन्त्वतत्त्वमेव अज्ञानरूपमिय्योत्तरार्हत्वात्। अज्ञानस्य निश्चयाभावरूपस्य सन्देहेऽपि सम्भवात् प्रत्यर्थिन एव सर्वत्रोत्तरकर्त्तृत्वाच्च। यदा तु द्वयोरपि मानुषप्रमाणाभावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह पितामहः “लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः। न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः। निश्चेतुं येन शक्याः स्युर्वादाः सन्दिग्धरूपिणः। तेषां नृपः प्रमाणं स्यात्सर्वस्य प्रभुरिष्यते” इति। तादृग्व्यवहारे नृपेणैवोभयापीडया स्वेच्छया काञ्चन व्यवस्थां कृत्वा देया सोभाभ्यान्नातिक्रमर्णायेत्यर्थः। दिव्यावान्तरभेदादि सर्वदिव्यप्रकरणे वक्ष्यामः।

क्रियाफल = न० ६ त०। “उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्च चतुर्विधम्। क्रियाफलं प्राहुरार्य्या” कैवल्ये तन्न विद्यते” वेदा० प्र० उक्ते १ कर्म्मफके उत्पत्त्यादौ, २ यागादिजन्ये पुण्यापुण्यादौ च। क्रियाजन्ये तृप्तिस्वर्गादिरूपे प्रयोजनापरपर्य्यायरूपे ३ फले “स्वरितञितः कर्त्त्रभिप्राये क्रियाफले” पा०। विवृत्तञ्चैतदस्माभिः शब्दार्थरत्ने यथा “स्वरितञिद्धातूत्तरतङः कर्त्तृगामिन्येव सति क्रियाफले कर्त्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं, जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्त्तृनिष्ठतया सर्वदैव जानीतेऽत्येव प्रयोगापत्तेः जानातीत्यादेरपलापापत्तेश्च नेष्यते तु तथा शास्त्रकारैः। नापि क्रियाजन्यवेतनदक्षिणारूपलाभादि गौणं फलमिह विवक्षितं तथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजोयजन्ते इत्यादिप्रयोगापत्तेः। किन्तु फलतीति व्युत्पत्त्या प्रयोजनापरनाम क्रियाजन्यं तृप्तिस्वर्गादिरूपमेव मुख्यं फलं ग्राह्यं यथोक्तं हरिणा “यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः। तत् प्रधानं फलं तासां न लाभादि प्रयोजनमिति”। प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयः। तत् तासां पचादीनां प्रधानं फलमित्यर्थः। फलस्य प्राधान्यञ्चेतरापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य तस्य सुखादिष्वेव सत्त्वेऽपि क्वचित्साक्षात्सुखादिरूप प्रयोजनालाभे तत्साधनरूपेपरफख्स्यापि ग्रहणमिति द्रष्टव्यम्। तेन अपाद्वदैत्यादिसूत्रविहिततङः सुखादि- रूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम्। क्रियोद्देश्ये संयोगविभागादिरूपे फलविशिष्टष्यापारस्य धात्वर्थतावादिमते धात्वर्थतावच्छेदकरूपे ४ फले पृथक्शक्तिवादिमते कर्त्त्राख्यातस्थले तद्धातूपस्थाप्ये धात्वर्थाऽंशे विशेषणतया भासमाने तद्धातुजन्ये ५ संयोगादिके फले च। इत्थमेव शब्दार्थरत्नेऽस्माभिर्दर्शितं यथा “तत्र फलतीतिव्युत्पत्त्या फलं नाम तद्धात्वर्थजन्यं संयोग विभागादि, गम्यादौ विभागस्य फलत्ववारणाय तद्ध्वातूपस्थाप्यत्वेन विशेषणेऽपि विभागाजन्यसंयोगस्य पतनफलत्वमते विभागस्य तद्धात्वर्थजन्यत्वात् तद्धातूपस्थाप्यत्वादतिव्याप्तिरतस्तद्धात्वर्थे विशेषणतया भासमानत्वेनैब विशेषणीयं गम्यादौ च विभास्य तद्धात्वर्थे विशेषणतया भासमानत्वाभावात् न फलत्वप्रसङ्गः। मञ्जूषाकृन्मते तु कर्त्तृप्रत्ययस्थले तथाभासमानत्वमिति विवेकः। क्रियाविशेषणादेर्धात्वर्थे विशेषणत्वेऽपि तज्जन्यत्वाभावान्न फलत्वप्रसङ्गः। विशेषणत्वञ्च साक्षादेव विवक्षितं तेन घटं करोतीत्यादौ घटादेः धात्वर्थक्रियाजन्यस्य विभक्त्यर्थद्वारा तद्विशेषणत्वेऽपि न फलत्वापत्तिः” इति।

क्रियाभ्युपगम = पु० क्रियायाः कर्षणादिक्रियार्थमभ्युपगमः चतुर्थ्यर्थे ६ त०। अत्र क्षेत्रे उत्पन्नस्य शस्यस्य उभयोः फलभागितेतिनियमेन कर्षणाद्यर्थमन्यक्षेत्रस्वीकारे। “क्रियाभ्युपगमात्त्वेतद्वीजार्थं यत् पदीयते। तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिक एव च” मनुः।

क्रियाभ्यावृत्ति = स्त्री क्रियाया अभ्यावृत्तिः। क्रियायाः पौनपुन्ये। “क्रियाभ्यावृत्तिगणने कृत्वसुच्” पा०। विवृतमेतदस्माभिः शब्दार्थरत्ने यथा “क्रियायाएव पौनःपुन्यसम्भवेनाभ्यावृत्तिपदेनैव क्रियाप्राप्तौ पुनः क्रियाग्रहणेन इतराशे विशेषणतानापन्नसाध्यक्रियाया एवाभ्यावृत्तौ तेषां साधुत्वज्ञापनात् पञ्चकृत्वःपचतीत्येव प्रयोगः नतु पञ्चकृत्वःपाकैत्यपि। केचित्तु “द्विर्ब्बचनेऽचीति” पा० निर्द्देशात् साध्यरूपकियान्वये एव तेषां साधुत्वं तेन भावघञत्तादावपि धातुना साध्यक्रियाया अभिधानात् पञ्चकृत्वः पाक इत्यपि भवत्येव। सिद्धरूपक्रियायां तदन्वयविवक्षायां तु नैवं तेन तत्र पञ्च इत्येव स्यादिति प्राहुः”

क्रियायोग = पु० क्रियैव योगः योगोपायः। “तपःस्वाध्यायेश्वर प्रणिधानानि क्रियायोगाः” इति पातञ्जलसूत्रमाष्याद्युक्ते योगोपायभूते क्रियाभेदे। तस्य योगोपायत्वादिदर्शकं तद्वाक्यं कर्म्मयोगशब्दे ४७११ पृ० दर्शितम्। “ज्ञानयोगस्तु योगस्य यस्तु साधनमात्मना। यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते। प्रधानं कारणं योगोमुक्तेर्मुनिवरोत्तम!। क्रियायोगस्तु योगस्य परमं तच्च साधनम्” अग्निपु०। मत्स्यपु० ५२ अ० विस्तरेणोक्तं यथा

“कर्म्मयोगञ्च वक्ष्यामि यथा विष्णुविभाषितम्। ज्ञानयोगसहस्राद्धि कर्म्मयोगः प्रशस्यते। कर्म्मयोगोद्भवं ज्ञानं तस्मात्तत्परमम्पदम्। कर्म्मज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्म्मणः। तस्मात कर्म्मणि युक्तात्मा तत्त्वमाप्नोति शाश्वतम्। वेदोऽखिलो धर्म्ममूलमाचारश्चैव तद्विदाम्। अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः। दया सर्वेषु भूतेषु क्षान्तीरक्षाऽऽरतुस्य तु। अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः!। अनायासेषु कार्येषु माङ्गल्याचाससेवनम्। न च द्रव्येषु कार्पण्यमार्तेषूपार्जितेषु च। तथाऽस्पृहा परद्रव्ये परस्त्रीषु च सर्व्वदा। अष्ठावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः। अयमेव क्रियायोगो ज्ञानयोगस्य साधकः। कर्म्मयोगं विना ज्ञानं वस्यचिन्नेह दृश्यते। श्रुतिस्मृत्युदितं धर्ममुपतिष्ठेत् प्रयत्नतः। देवतानां पितॄणाञ्च मनुष्याणाञ्च सर्व्वदा। कुर्यादहरहर्यज्ञैर्भूतर्षिगणतर्पणम्। स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान् यथाविधि। पितॄन् श्राद्धैरन्नदानैर्भूतानि वलिकर्म्मभिः। पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये। कण्डनी पेषणी चूल्ली जलकुम्भी प्रमार्जनी। पञ्च सूना गृहस्थस्य तेन स्वर्गे न गच्छति। तत्पापनाशनायामी पञ्चं यज्ञाः प्रकीर्तिताः। द्वाविंशति स्तथाष्टौ च ये संस्काराः प्रकीर्त्तिताः। तद्युक्तोऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः। तस्मादात्मगुणोपेतः श्रुतिकर्म्म समाचरेत्। गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत्। गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च। पूजयेद् ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम्। व्रतोपवासै र्विधिवत् श्रद्धया च विमत्सरः। योऽसावतीन्द्रियः शान्तः सूक्ष्मोऽव्यक्तः सनातनः। वासुदेवो जगन्मूर्त्तिस्तस्य सम्भूतयो ह्यमो। ब्रह्मा विष्णुश्च भगवान् मार्त्तण्डो वृषवाहनः। अष्टौ च वसवस्तद्वदेकादशगणाधिपाः। लोकपालाधिपाश्चैव पितरो मातरस्तथा। इमा विभूतयः प्रोक्ताश्चराचरसमन्विताः। ब्रह्माद्याश्चतुरो मूलमव्यक्ताधिपतिः स्मृतः। ब्रह्मणा चार्थ सूर्येण विष्णुनाथ शिवेन वा। अभेदात् पूजितेन स्यात् पूजितं सचराचरम। ब्रह्मादीनां परन्धाम त्रयाणामपि संस्थितिः। वेदमूर्तावतः पूषा पूजनीयः प्रयत्नतः। तस्मादग्निद्विजमुखान् कृत्वा सपूजयेदिमान्। दानैर्व्रतोपवासैश्च जपहोमादिना नरः। इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य। विकर्म्मभीतस्य सदा न किञ्चित् प्राप्तव्यमस्तीह परे च लोके”। २ क्रियासम्बन्धे “उपसर्गाः क्रियायोगे” पा० पद्मपुराणे क्रियायोगसारे विवृतिः।

क्रियार्थ = त्रि० क्रिया अनुष्ठानमर्थोऽभिधेयोयस्य। कर्त्तव्यविधिबोधके वेदादिवाक्यभेदे तादृशवाक्यखौव प्रामाण्यम् मीमांसायां स्थापितं यथा “आम्नायस्य क्रियार्थत्वादानार्थक्यमतदार्थानाम्” जै० सू०। “क्रिया कथमनुष्ठेया इति तां वदितुं समाम्नातारो वाक्यानि समासनन्ति यानि क्रियां नावगमयन्ति क्रियासम्बद्धं वा किञ्चित् तान्येव भूतमर्थमन्वाचक्षते” “अतस्तेषामानर्थक्यम् (अप्रामाण्यम्)” इति च शवरमा०। “चोदनालक्षणोऽर्थो धर्म्मः” जै० सू०। “चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुः। चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येव्रंजातीयकमर्थं शक्नोत्यवगमयितुं नान्यत् किञ्चनेन्द्रियमिति” भा०। तेन क्रियाप्रवर्त्तकवेदभागानामेव प्रामाण्यम् अर्थवादानां भूतार्थानां तु क्रियार्थेन सहैक वाक्यत्वाद् प्रामाण्यं यथाह तत्रैव “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” जै० सू०। “वायव्यं श्वेतमालभेत भूतिकामः” “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागेनोपधावतीति सएवैनं नूतिं गमयतीति” वायुर्वैक्षेपिष्ठा देवतेत्यत्र यद्यपि क्रिया नावगम्यते क्रियासम्बद्धं किञ्चित्, तथापि विध्युद्देशैनैकवाक्यत्वात् प्रमाणं भूतिकामैत्येवमन्तोविध्युद्देशः तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः”। “पदानां साकाङ्क्षत्वात् विधेः स्तुतेश्चैकवाक्यत्वं भवति भूतिकाम आलभेत, कस्मात्? यतो वायुःक्षेपिष्ठेति”। “स्तुत्यर्थेम विधीनां स्युः स्तुतिशब्दाः स्तुवन्तः क्रियां, प्ररोचयमानाः अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः” इति च भा०। “तद्भूतार्थानां तु क्रियार्थेन समाम्नायः” जै० सू० तेन सहैकवाक्यात् प्रामाण्यमिति स्थितम्। तदेतन्मतं विशदीकृत्य पूर्बपक्षीकृत्य शा० सू० भाष्याभ्यां निराकृतं यथा “कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते? यावता ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” इति क्रियाबरत्वं शास्त्रस्य प्रदर्शितम्, अतोवेदान्तानामानर्थक्यम्, अ- क्रियार्थत्वात्। कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वमुपासनादिक्रियान्तरविधानार्थत्वं वा। न हि परिनिष्ठितवस्तुस्वरूपप्रतिपादनं सम्भवति प्रत्यक्षादिवि षयत्वात् परिनिष्ठितवस्तुनः। तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात्। अत एव “सीऽरोदीत्” इत्यादीनामानर्थक्यं मा भूदिति “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” इति स्तावकत्वेनार्थवत्त्वमुक्तम्। मन्त्राणाञ्च “इषे त्वा” इत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मममबायित्वमुक्तम्। न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा। न च परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वाद्विधेः। तस्मात् कर्म्मापेक्षितकर्त्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम्। अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम्। तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते” भाष्यम्। “तत्तु समन्वयात्” शारीरकसूत्रम्। “तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः। तद् ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते। कथम्? समन्वयात्। सर्वेषु हि वेदान्तेषु वाक्यानि तात्र्य्येणैव तस्यार्थस्य प्रतिपादकत्वेन समनुगतानि “सदेव सौम्येदमग्र आसीत्” “एकमेवाद्वितीयं ब्रह्म” “आत्मा वा इदमेक एवाग्र आसीत्” “तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्” “अयमात्मा ब्रह्म सर्व्वानुभूः” “ब्रह्मवेदमृतं पुरस्ताद्” इत्यादीनिं। न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमानेऽर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्। न च तेषां कर्त्तृदेवतादिस्वरूपप्रतिपादनपरतावसीयते। “तत् केन कं पश्येद्” इत्यादिक्रियाकारकफलनिराकरणश्रुतेः। न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वम्। “तत्त्वमसि” इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात्। यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति नैष दोषः हेयोपादेयशून्यब्रह्मात्मावगमादेव सर्वक्लेशप्रहाणात् पुरुशार्थसिद्धेः”। तत्रैव सूत्रे व्याख्यानशेषे “यदपि शास्त्रतात्पर्य्यबिदामनुक्रमणम्। “दृष्टो हि तस्यार्थः कर्मावबोधनमित्येवमादिः” तद्धर्म्मजिज्ञामाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्ठव्यम्। अपि च आम्रायस्य क्रियार्थत्वादानाथक्यमतदर्थानाम्” इत्येतदेकान्तेनाम्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः प्रवृत्तिनिवृत्ति- विधितच्छेषव्यतिरेकेण भूतञ्चेद्वस्तूपदिशति भव्यार्थत्वेन„ कूटस्थनित्यं भूतं नोपदिशतीत्यत्र को हेतुः। न हि भूतमुपदिश्यमानं क्रिया भवति। अक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेश इति चेत्, नैष दोषः क्रियार्थत्वेऽपि क्रियानिर्वर्त्तनशक्तिमद्वस्तूपदिष्टमेव। क्रियार्थन्तु प्रयोजनं तस्य। न चैतावता वस्त्वनुपदिष्टं भवति। यदि नामोपदिष्टं किं तवं तेन स्यादिति? उच्यते, अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्क्षति, तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजन क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन। अपि च “ब्राह्मणो न हन्तव्यः” इति चैवमाद्या निवृत्तिरुपदिश्यते। न च सा क्रिया नापि क्रियासाधनम्। अक्रियार्थानामुपदेशोऽनर्थकश्चेत् ब्राह्मणो न हन्तव्यः” इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तं, तच्चानिष्टम्। न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीनव्यतिरेकेण। नञश्चैष स्वभावी यत् स्वसम्बन्धिनोऽभावं बोधयति, अभावबुद्धिश्चौदासीन्यकारणं सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति, तस्मात् प्रसक्तक्रियाया निवृत्त्यौदासीन्यगेव “ब्राह्मणो न हन्तव्यः” इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजापतिव्रतादिभ्यः। तस्मात् पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवाक्यानामानर्थक्याभिधानं द्रष्टव्यम्। यदप्युक्तं कर्त्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात् (सप्तद्वीपा वसुमतीत्यादिवदिति) तत् परिहृतं रज्जुरियं नायं सर्प इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात्” भा०। क्रिया अर्थः प्रयोजनं यस्य। २ क्रियानिमित्ते त्रि०। “तुमुण्ण्वुलौ क्रियार्थायां क्रियायाम्” पा०।

क्रियावत् = त्रि० क्रियाऽस्त्यस्य मतुप् मस्य वः। १ क्रियाविशिष्टे २ क्रियानिरते अमरः “यः क्रियावान् सपण्डितः” चाण०। “त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्” भा० व० ३ अ०। ३ क्रियाश्रये कर्त्तरि च “पश्चात् क्रियावता कर्त्त्रा योगोभवति कर्म्मणा” हरिः। कृतपूर्व्विशब्दे दृश्यम्।

क्रियावसन्न = त्रि० क्रिययाऽवसन्नः। साक्ष्यादिप्रमाणेनावसन्ने पराजिते वादिनि प्रतिवादिनि च। “यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयो भवेत्” इत्युपक्रम्य “स्वयमभ्युपन्नोऽपि स्वचर्य्यावसितोऽपि सन्। क्रियावसन्निऽप्यर्हेत परं सभ्यावधारणम्” व्य० त० नारदः। क्रियावसन्नः साक्ष्यादिना प्राप्तपराजयः” रघुनन्दनः।

क्रियावादिन् = त्रि० क्रियां क्रियासाध्यं वदति वद–णिनि। व्यवहारे साक्ष्यादिप्रमाणरूपक्रियासाध्ययुक्ते वादिनि (फैरादी) मिता०।

क्रियाविशेषण = न० ६ त०। धात्वर्थसाध्यरूपक्रियायाः शाब्दबोधे विशेषणत्वेन भासमाने पदार्थे। शब्दार्थरत्ने विवृतिः “आख्यातं सकारकविशेषणमिति” भाष्योक्तवाक्यलक्षणे विशेषणपदस्य कारकविशेषणक्रियाविशेषणोभयपरतया कारकविशेषणानां क्रियाविशेषणानां कारकभिन्नसम्बोधनादीनां च वाक्यघटकत्वम्। तानि च वाक्यपदीये कतिचित् संगृह्य प्रदर्शितानि यथा “संबोधनान्तं कृत्वोऽर्थः कारकं प्रथमोवतिः। धातुसम्बन्धाधिकारनिष्पन्नमनमस्तनञ्। तथा यस्य च भावेन षष्ठी चेत्यु दितं द्वयम्। सम्बन्धश्चाष्टकस्यास्य क्रिययैवावधार्य्यताम्”। अत्र यद्यपि सम्बोधनस्य सर्व्वत्र प्रकृतक्रियान्वयित्वं न सम्भवति तथापि जानीहीत्यध्याहृतक्रियान्वयितया तस्याश्च प्रकृतक्रियायामन्वयात् परम्परया भवत्येव प्रकृतक्रियान्वयित्वम्। तथाहि “सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताभिमुख्यः सम्बोध्यः क्रियासु विनियुज्यते” इति वाक्यपदीये क्रियासु नियोज्यस्यैव संबोध्यतोक्त्या विनियोगविषयक्रियायामेव तस्य माधुत्वात् ब्रजानि देवदत्तेत्यादौ तु देवदत्तस्य गमनक्रियायां विनियोगाभावेनाध्याहर्त्तव्यायां जानीहीत्यादिक्रियायामेवान्वयौचित्यात् तत्क्रियायाञ्च व्रजानीत्यादिक्रियाया विषयत्पादिसम्बन्धेन विशेषणत्वादेकवाक्यत्वम्। अन्यथा व्रजानि देवदत्तेत्यनयोरुभयवाक्यघटकत्वे तयोश्च परस्परनन्वयेनैकवाक्यत्वाभावेन समानवाक्यमात्रविषयनिघातानुपपत्तेः। तथाहि पदादित्यधिकृत्य सर्व्वमनुदात्तमपदादाविति” चोपक्रम्य आमन्त्रितस्य चेति” सूत्रेण अष्टमाध्याये पदादुत्तरवर्त्तिनोऽपादादिस्थितस्यामन्त्रितस्य षष्ठाध्यायविहिताद्युदात्तत्वं निहत्य सर्व्वामुदात्तत्वं विहितं वार्त्तिककारेण च “समानवाक्ये निघातयुष्मदस्मदादेशाः” इत्यनेन आद्युदात्तत्वनिवातः एकवाक्यएव ध्यवस्थापितोऽतः ब्रजानि देवदत्तेत्यनयोरुक्तरीत्येकवाक्यत्वएव निघातो नान्यथेति। उक्तञ्ज वाक्यपदीये “संबोधनपदं यच्च तत् क्रियायाविशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र तथासतीति”। अत्रेदं बोध्यम् विशेष्यतेऽनेनेति व्युत्पत्त्या विशेषणपदं भेदाभेदान्यतरसम्बन्धेनान्वयिविशेषणपरं तत्र कारकादीनां भेदसम्बन्धेन क्रियायामन्वयात् भेदविशेषणत्वम् स्त्रोकं पचतीत्यादौ तु विक्रित्तिरूपधात्वर्थफले, द्रुतं गच्छतीत्यादौ धत्वर्थव्यापारे गत्यादौ च अभेदेनान्वयात्स्तोवादेरभेदविशषणत्वम्। अत्रायं भेदः साध्यरूपक्रियाया विशेषणत्वे तस्याश्च लिङ्गसंख्यान्वयित्वाभावेन तद्विशेषणस्य साममान्यत्वात् क्लीवता उत्सर्गतोभावाख्यातवदेकवचनान्तता च तेन स्तोकं पच्यते इत्यादि साधु। घञद्यान्ते तु साष्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्यां बोधनस्य क्रियाशब्दे दर्शितत्वेन धातुबोध्यसाध्यरूपक्रियाविशेषणत्वविवक्षायामेकवचनक्लीवता घञ्वाच्यसिद्धक्रियान्वयविवक्षायां तु विशेष्यस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणस्य द्विवचनपुंस्त्वत्वादि। अतएव “सञ्चारो रतिमन्दिरावधि सखी कर्ण्णावधि व्याहृतमिति” “आगमीनिष्फलस्तत्रभुक्तिः स्तोकापि यत्र नो” इति च प्रयोगः संगच्छते। फलविशिष्टस्य कर्मणः कर्म्मसंज्ञाविधानेन व्यपदेशिवद्भावपरिभाषया साध्यक्रियाविशेषणस्य कर्म्मत्वम् तेन स्तोकभीशब्दस्य कारकपर्ब्बकत्वात् यण्। तत्र पदसाधुतामात्रार्थं द्वितीयामात्रविधाने तन्न स्यात् इति बोध्यम्। अस्य च एकवचनान्ततेत्युक्तिरप्यौत्सर्गिकी क्वचित् द्विवचनादिप्रयोगोभवत्येव उक्तञ्च हरिणा “एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया। भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रय इति”। उत्सर्गतएकत्वे सत्यपि साधनाश्रयसंख्ययाख्याते क्रिया भिद्यते इत्यर्थः। अत्राख्यात इत्युपादानात् आख्यातार्थाश्रयसंख्ययैव क्रियाभेदो नतु तृतीयाद्युपस्थाप्याश्रयसंख्ययापि तेन चैत्राभ्यां सुप्यते इत्यादौ न द्विवचनादि नवा नामार्थलिङ्गेन क्रियाभेदो लिङ्गस्ये तरपदोपात्तत्वात्। एवञ्च लिङ्गसंख्यानन्वयित्वरूपासत्वलक्षणे संख्याविशेषस्य साक्षादनन्वयित्वयिवक्षणाल्लिङ्गमात्रस्य वा तथात्वविवक्षणान्न दोषैत्यनुसन्धेयम्। उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यादि भाव्योदाहरणे च उपमानोष्ट्रासनादिबाहुल्येनोपमेयासनादेर्बाहु त्यस्य विवक्षणाष्ट्रवेऽपि बहुवचनादीत्याकरे स्पष्टम्। उष्ट्रासिकापदञ्च द्वितीयाबहुवचनान्तं क्रियाविशेषणतया द्वितोयोत्पत्तेर्बाहुत्येनैवोपमानविवक्षणात् बहुबवचनम्” अत्र मतभेदेन शब्दशक्ति प्र० विशेषोदर्शितो यथा “भावविहितानामपि घञादीनामुक्तैव गतिः तत्रापि भावपदस्य धत्वर्थस्वरूपपरत्यात्। अन्यथा पाकं पश्येत्यादौ धत्वर्थस्य पचनादेः कर्म्मत्वादावन्वयापत्तेः सुबर्ये धात्वर्थस्यान्वयस्याव्युत्पन्नत्वात् इत्यमेव च स्तोकः पाक इत्यादिप्रयोगस्य परिशिष्टाद्युक्तस्य प्रामाण्यम् अन्यथा स्तोकादीनां धत्वर्थे विशेषणत्वे नियमतो द्वितीयापत्तेः अतएव “सञ्चारोरतिमन्दिरावधि सखीकर्णावधिव्याहृतम्” इत्यादिकं काव्यम् “आगमोनिष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो” इत्यादिः स्मतिश्च सङ्गच्छतैति नव्याः। स्वोत्तरप्रत्ययार्थसाकाङ्क्षस्यैव धातोरर्थे विशेषणतापन्नस्य बोधने तदर्थकनाम्नोद्वितीयाद्यपेक्षा नतु धातुमात्रस्य तथाच स्तोकः पाक इत्यादिरेव प्रमाणं नतु स्तोकं पाकैत्यादिः। पृथग्रूपक्रियाया विशेषणं कर्म्मेत्याद्यनुशिष्टेरपि तत्रैव तात्पर्य्यात्। अतएव स्तोकं स्थीयते साधु गतं चकितं द्रष्टव्यमित्यादौ धात्वर्थस्य तिङाद्यर्थकालादिसाकाङ्क्षत्वान्न तद्विशेषणस्य द्वितीयाद्यनुपपत्तिरिति तु शाब्दिकसम्प्रदायः”। भेदसम्बन्धेन क्रियायामन्वयिविशेषणे तु पौनःपुन्येन गच्छति अतिशयेन पचति समेनैति विषमेनैतीत्यादिषु प्रकृत्यादि० तृतीया। क्वचित् धात्वर्थस्य करणत्वेनान्वये तद्विशेषणोभूतात् तृतीयादि यथा स्वर्गकामोऽश्वमेधेन यजेत” इत्यादौ यागेनेष्टं भावयेदिति भाट्टमते यागस्य करणतया भावनायामन्वयात् अश्वमेधस्य तत्राभेदविशेषणत्वेन तद्वद्विभक्तिकत्वम्। अन्यमते तु नाम्ना शिव इत्यादिवत् अभेदे तृतीयेति भेदः। मुग्धबोधे “कर्मक्रियाविशेषणेत्यादि” कर्मसंज्ञाद्वितोयाविधानञ्च अभेदान्वयिविशेषणपरम्। भेदविशेषणे तु तृतीयैष। तत्रायं विशेषः क्रियायाम् अभेदसम्बन्धेनान्वयविवक्षायां द्वितीया। अभेदप्रकारकान्वयविवक्षयां तु तृतीया।

क्रियाशक्ति = स्त्री क्रियैव शक्तिः। जगदुत्पपत्तिसाधने परमश्वेरस्य शक्तिभेदे। सा च ब्राह्मीरूपा यथोक्तं शा० ति० पदार्थादर्शे च “सच्चिदानन्दविभवात् सकलात् परमेश्वरात्। आसीच्छक्तिस्ततोनादोनादाद्विन्दुसमुद्भवः। परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यते पुनः। विन्द र्नादोवीजमिति तस्य भेदाः समीरिताः। विन्दुः शिवात्मको वीजं शक्तिर्नादस्तयोर्मिथः। समवायः समाख्यातः सर्व्वागमविशारदैः। रौद्री विन्दोस्ततोनादाज्ज्येष्ठा वीजादजायत। वामा, ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः। ते ज्ञानेच्छाक्रिवात्मानो वह्नीन्द्व- र्कन्वस्वरूपिणः” शा० ति०। व्याख्यातमेतत् पदार्थादर्शे “अविद्याशवलितत्येन जडत्वे कथं तस्य सूष्टिकर्त्तृत्वमिति? शङ्कां वारयति सच्चिदानन्दविभवादिति अनेनाविद्योपहितत्वेऽपि तस्य न स्वरूपहानिरित्यर्थः। सकलाच्छक्तिरासीदिति योजना। शक्तिसहितोदेवः पुनः शक्तिस्तस्मात् सा कथमासीदिति? चेत् सत्यं या अनादिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मा स्थिता तस्यागुणवैषम्यानुगुणतया सात्विकराजसतामसस्रष्टव्यप्रपञ्चकार्य्यसाधने उच्छूनरूपत्वमेवोपचारादुत्पत्तिः। इदं सांख्यमतेनोक्तम्। प्रयोगसारे “तस्माद्विनिर्गता शक्तिः सर्वगा विश्वसम्भवा”। वायुसहि० “शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता। ततः परिस्फुरत्यादौ सर्गे तैलं तिनादिवेति”। पञ्चरात्रेऽपि “एवमालोच्य सर्गादौ सच्चिदानन्दरूपिणीम्। समस्ततत्त्वसंबन्धत्वात् स्फर्त्त्यधि ष्ठातृरूपिणीम्। व्यक्तां करोति तां नित्यां प्रकृतिं परमः पुमान्” तस्या एव नादविन्दू सृष्ट्य पयोम्यवस्था रूपौ तदुक्तं प्रयोगसारे “नादात्मना पबुद्धा सा निरामय पदोन्मुखी। शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता। सैव सर्गक्षमा” अन्यत्रापि “अभिव्यक्ता परा शक्ति रविनाभावलक्षणा। अखण्डा परचिच्छक्तिर्मता चिद्रुपिणी विभुः। समस्ततत्त्वभावेन विवर्त्तेच्छासमन्विता। प्रयाति विन्दुभावं च क्रियाप्राधान्यलक्षणम्”। इच्छाशक्त्यादिरूपतया विन्दीस्त्रैविध्यमाह परेति साक्षात् परशक्तिमयः अतः पश्चात्तदवस्थात्मकत्वमेवोक्तम् अमौ त्रिधा भिद्यते। एतौ नादबिन्दू प्रथमोक्तनादविन्दभ्यामन्यौ तदुक्तं “स विन्दुर्भवति त्रिधा”। विन्द्वादेर्भेदत्रयस्वरूपमाह विन्दुरिति। ततस्तस्मात् विन्दोः रौद्री यतस्तस्याः शिवमयत्वम् अतोऽन्वर्थताऽपि। नादाज्ज्येष्ठेति। सर्वश्रेष्ठत्वेनावस्थितत्वेनार्न्वर्थता ज्ञेया। वीजाद्वामा अजायतेति सम्बन्धः तस्याः सुन्दरत्वादन्वर्थत्वम्। तदुक्तं प्रयोगसारे “विन्दुः शिवात्मकस्तत्र वीजं शक्त्यात्मकं स्मृतम्। तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः। रौद्री विन्दोः समुद्भूता ज्येष्ठा नादादजायत। वामा वीजादभूच्छक्तिस्ताभ्यो देवास्त्रयोऽभवन्”। ते इति ज्ञानमिच्छा क्रिया च तदात्मानस्ते रुद्रब्रह्मरमाधिपाः क्रमेणच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपाः। अतएव रुद्रादयः निरोधकाले वह्नीन्द्वर्क स्वरूपिणः शक्तेरेवावस्थाविशेषा ज्ञेयाः एषामिच्छाक्रियाज्ञानित्मकशक्तित उत्पन्न त्वात्। वक्ष्यते च “इच्छाज्ञानक्रियात्मानः” इति। ईश्वरप्रत्यभिज्ञायाम् “यतैच्छति तज्ज्ञातुं कर्त्तुं वा स्वेच्छया क्रियाम्। अनन्तरं हि तत् कार्य्यज्ञानं दर्शनशक्तितः। ज्ञानशक्तिस्तया ज्ञेयोयोऽसौ स्थूलसमुद्यमः। सा क्रियाशक्तिरुदिता यतः सर्व्वं जगत् सृजेत्” गोरक्षसंहितायाम् “इच्छा क्रिया तथा ज्ञानं रौद्री व्राह्मी तु वैष्णवी। त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति”

क्रियासमभिहार = पु० सम् + अभि + हृ–वञ् ६ त०। क्रियायाः पौनःपुन्ये। “क्रियासमभिहारे घञ्” पा० “क्रियासमभिहारेण विराष्यन्तं क्षमेत कः?” इति माघः।

क्रियास्नान = न० क्रियाङ्गं स्नानम्। शङ्खोक्ते स्नानविधिभेदे तत्प्रकारो यथा “क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्व्वकम्। मृद्भिरद्भिश्च कर्त्तव्यं शैचमादौ यथाविधि। जले निमज्य उन्मज्य उपस्पृश्य यथाविधि। तीर्थस्यावाहनं कुर्य्यातत् प्रवक्ष्याम्यशेषतः। प्रपद्ये वरुणं देवमम्भसां पतिमर्च्चितम्। याचेत देहि मे तीर्थं सर्वपापापनुत्तये। तीर्थमावाहयिस्यामि सर्व्वाधविनिसूदनम्। सान्निध्यमस्मिन् तोवे च क्रियतां मदनुग्रहात्। रुद्रान् प्रपद्ये वरदान् सर्वानप्सु सदस्तथा। सर्वानप्सुसदश्चैव प्रपद्ये प्रयतः स्थितः। देवमंशुसदं वह्निं प्रपद्येऽघनिसूदनम्। आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा। रुद्राश्चाग्निश्च सर्पश्च वरुणस्त्वाप एव च। शमयन्त्याशु मे पापं माञ्च रक्षन्तु सर्वशः। हिरण्यवर्णातिसृभिर्ज्जगतीति चतसृभिः। शन्नोदेवीति च तथा शन्नआपस्तथैव च। इदमापः प्रवहते द्वृप्रचञ्च समुदीरयेत्। एवं सम्मार्जनं कृत्वा च्छन्दआर्षञ्च देवताः। अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा। छन्दोऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः। देवता भाववृत्तश्च पापक्षवे प्रकीर्त्तितः। ततोऽम्भसि निमग्नः स्यान्त्रिः पठेदघमर्षणम्। प्रदद्यान्मूर्द्धनि तथा महाव्याहृतिभिर्जलम्। यथाश्वमेघः क्रतुराट् सर्वपापापनोदनः। तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम्। अनेन विधिना स्नात्वा स्नातवान् धौतवाससा। परिवर्तितवासास्तु तीर्थनामानि संजपेत्। उदकस्यापदानात्तु स्नानशाटीं न पीडयेत्। अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते”।

क्रियेन्द्रिय = न० क्रियायाः साधनमिन्द्रियम्। वाक्पादादौ कर्म्मोन्द्रिये हेम०।

क्रिवि = पु० कृवि–इन् नि०। १ कूपे निघण्टुः २ कर्त्तरि ३ हिंसके त्रि० “रुद्र! यत्ते क्रिविपरं नाम” यजु० १०। २०। ४ असुरभेदे “अभ्योजसा क्रिविं युधाः” ऋ० २, २३, २, “क्रिविं नामासुरम्” भा०। ५ पञ्चालदेशे पु० व० व०। “आप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैय्यः पञ्चालो राजा” “क्रिवय इति ह वै पुरा पञ्चालानाचक्षते” शत० व्रा० १३, ५, ४, ७,

क्रिविस् = त्रि० कृवि–इसु नि०। हिंसके “यत्रा वोदिद्युद्रदति क्रिविर्दती” ऋ० १, १६६, ६,

***