क्रमक = त्रि० क्रमं वेदपाठभेदमधीते वेद वा क्रमा० वुन्। १ वेदपाठविशेषरूपक्रमाध्यायिनि २ तद्वेत्तरि च।

क्रमजित् = पु० नृपभेदे “अनूपराजोदुर्द्धर्षः क्रमजिच्च सुदर्शनः” भा० स० ४ अ०।

क्रमज्या = स्त्री ग्रहाणां स्पष्टाधिकारे सि० शि० उक्ते घतुर्विंशत्यर्द्धजीवाभेदे तन्मानं तत्रोक्तं यथा “तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाः पञ्चाभ्ररुद्रास्तिथिविश्वतुल्या आद्यैर्निरुक्ता नखवाणचन्द्राः। नन्दावनीशैलभुवो दिगङ्कचन्द्रा हुताशग्रहपूर्णदस्राः। तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाः क्रमेण। गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसप्तग्रहलोचनानि। अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभूतदन्ताः। कुदन्तलोका द्वितुरङ्गदेवा गोऽभ्राब्धिलोकाः कुगुणाब्धिरामाः। भुजङ्गलोकाब्धिगुणाः क्रमज्या” मू० “इह हि स्पष्टीकरणप्रभृति सर्वकर्मार्घज्याभिः प्रतिपाद्यते। यतो ग्रहवलये कोऽप्यवधिभूतः प्रदेशोमध्यशब्देनोच्यते। तस्मान्मध्यसूत्रात् तिर्यक्स्थोग्रहो वलयेऽर्धज्याग्रे भवति। अतोऽर्धज्याभिः सर्वं कर्म। तत्र भगणकलाङ्कितवृत्तचतुर्थांशे ईदृशान्येव चतुर्विंशतिर्ज्यार्धानि भवन्ति” प्रमिता०। २४ क्रमज्याङ्काश्च यथा २२५। ४४९। ६७१। ८९०। ११०५। १३१५। १५२०। १७१९। १९१०। २०९३। २२६७। २४३१। २५८५। २७२८। २८५९। २९७७। ३०८४। ३१७७। ३२५६। ३३२१। ३३७२। ३४०९। ३४३१। ३४३८। तासां तथामानं समर्थितं सू० सि० रङ्गनाथाभ्यां यथा “राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते। तत्तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम्। आदोनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः। खण्डकाः स्युश्चतुर्विंशज्ज्यार्धपिण्डाः क्रमादमी” सू० सि०। “एकराशिकलानामष्टादशशतानामष्टमोंऽशस्तत्त्वाश्विमितः २२५ प्रथममाद्यं ज्यार्धं सम्पूर्णजीवार्धपिण्डकः कथ्यते तदभिज्ञैः। ततः प्रथमज्यार्धात् तेन प्रथमज्यार्धेन भक्ताल्लब्धेन हीनमन्यस्याप्रसङ्गात् प्रथमज्यार्धमनेन युक्तं तत् प्रथमज्यार्धं द्वितीयकं ज्यार्धं भवति द्विगुणप्रथममेकोनम्। तृतीयादीनामानयनार्थमुक्तप्रकारमतिदिशति आद्येनेति। प्रथमज्यार्द्धपिण्डेन। एवमुक्तरीत्या क्रमात् सिद्धपिण्डान् भक्त्वा लब्धैरूनमाद्यं खण्डमनेन युताः खण्डका असिद्धाव्यवहितसिद्धज्यार्धपिण्डा असिद्धपिण्डा भवन्ति। यथा प्रथमखण्डं २२५ प्रथमभक्तं फलं १ तेन हीमं खण्डं २२४ तेन युक्तं द्वितीयखण्डं ४४९। तच्च प्रथमभक्तं फलम् २ अर्धाधिकावयवस्यैकाधिकत्वेन ग्रहणस्य साम्प्रदायिकत्वात्। फलैक्येन ३ रीनं प्रथमम् २२२ अनेन द्वितीयखण्डो ४४९ युतस्तृतीयम् ६७१। एवमिदं प्रथमखण्डभक्तं फलम् ३ अनेन पूर्वफलैक्येन ३ युतं जातं सर्व्वफलैक्यम् ६ अनेन प्रथमं खण्डं हीनम् २१९ अनेन तृतीय ६७१ युतं चतुर्थम् ८९०। एवमिदं प्रथमखण्डभक्तं फलं ४ पूर्व्वलब्धैक्येन ५ रीनं प्रथमखण्डरूपं २१९ ज्यान्तररूपखण्डकमतेन ४ हीनं २१५ चतुर्थ ८९० युतं पञ्चमं ११०५ एवमग्रेऽपि। अथोक्तरोत्याऽसङ्ख्यखण्डानां सम्भवात् खण्डनियममाह स्युरिति। एवं चतुर्वंशत्सङ्ख्याका ज्यार्धपिण्डाः कार्या न तदधिकाः। “एकविंशाच्च विंशाच्च षष्ठात् पञ्चदशादपि। सप्तमाद्द्वादशात् सप्तदशान्नार्धोत्तरं मतम्” इति ब्रह्मसिद्धान्तोक्तस्थलेऽर्धाधिकावयवस्यैकाधिकत्वेन न ग्रहणम् इतिध्येयम्। गणितस्याविकृतत्वात् सिद्धाः पिण्डाः कथं नोक्ताः? इत्यत आह क्रमादिति। अमी सिद्धाः पिण्डाः क्रमात् समनन्तरमेवोच्यन्ते। अत्रोपपत्तिः। समायां भूमौ वृत्तं भगणकलाङ्कितं तिर्यगूर्ध्वाधरव्यासमितरेखाभ्यां चतुर्भागं कार्यं तत्रोर्द्ध्वरेखासक्तपरिधिप्रदेशादुभयत्र समविभागं विगणय तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागमितसम्पूर्णचापस्य सम्पूर्णज्या। अत्र गणिते ऊर्द्ध्वरेखातोऽर्द्धज्याया एव प्रयोजनात् तदर्घचापस्यज्यार्धमर्धज्या। एवं वृत्तचतुर्थांश ऊर्द्ध्वरेखातोऽभीष्टांशानां चापार्धाकाराणामर्धज्या अमीष्टा गण्याः। तत्र भगवता स्वेच्छया वृत्तचतुर्धांशे त्रिराशिमिते चतुर्विंशज्ज्याः कल्पितास्तज्ज्ञानं तु वृत्ते चक्रकलानामङ्कितत्वात् तत्परिधिव्यासार्धं त्रिराशिज्यान्तिमा ३४३८। यदा भनन्दाग्निमितपरिधौ ३९२७ खवाणसूर्य १२५० मितो व्यासस्तदा चक्रकलापरिधौ क इत्यनुपातेन व्यासानयनम्। यथा चक्रकलाः २१६०० खवाणसूर्य १२५० पुणाः २७०००००० भनन्दाग्नि ३९२७ भक्ता व्यासः ६८७६ एतदर्धमन्तिमा ज्या ३४३८। अथ वृत्ते चापज्ययोर्विवेके तयोरतुल्यत्वमपि भगवता कोऽपि वृत्तभागः समोऽस्त्यन्यथामलकादौ सर्षपाद्यवस्थानं न स्यादिति मत्वा तद्भागस्यज्या तत्तुल्यैवेत्युक्तम्। “वृत्तस्य षण्णवत्यंशो दण्डवद्दृश्यते तु सः” इति शाकल्योक्तेः प्रथमज्या चक्रकलाद्वादशांशरूपैकराशिकलानामष्टमोऽंशस्तत्त्वाश्विमितः २२५ एतन्मितमेव प्रथमचापमत एतदन्तरेणाभीष्टा ज्याश्चतुर्वंशत्। अथ चतुर्विंशति जीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां यथोत्तरमपचयस्य वृत्ते ज्याङ्कनेन प्रत्यक्षत्वाज्ज्यान्तररूपखण्डानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयोविंशतिचतुर्विंशतिज्यानामन्तरयोरन्तरमिदं परमं खण्डान्तरं सूक्ष्मज्योत्पत्तिप्रकारेणावगतं १५। १६। ४८। अथ यदि त्रिज्ययेदं खण्डकान्तरं तदा प्रथमज्यया किमित्य नुपातेन फलप्रमाणयोः फलेनापवर्त्त्य प्रमाणस्थाने तत्त्वाश्विनोऽनेन भक्तः प्रथमर्ज्या फलं पूर्व्वद्वितीयखण्डयोरन्तरम्। अनेन पूर्ब्बखण्डं हीनं द्वितीयं खण्डं भवति। तत्र पूर्ब्बखण्डं प्रथमज्यातुल्यमेव। द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या। एवमस्यास्तत्वाश्विभागलन्धं द्वितीयतृतीयखण्डकयोरन्तरमनेन द्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीयज्या युता तृतीयज्या। एवं चतुर्थ्याद्याः। तत्र पूर्बमर्धाभ्यधिकग्रहणेनोत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्धाभ्यधिकावयवस्यैकाधिकत्वेन ग्रहणम् इत्युपपन्नं श्लोक- द्वयम्” रङ्ग०। उत्क्रमज्याङ्कास्तु ज्याशब्दे वक्ष्यन्ते

क्रमण = पु० क्रामत्यनेन करणे ल्युट्। १ चरणे हेम०। २ यदुवंश्ये नृपभेदे “कृमिश्च क्रमणश्चैव धृष्णः शूरः पुरञ्जयः” हरिवं० ३८ अ०। भावे ल्युट्। ३ पादन्यासे न०। “पृष्ठे त्वधर्म्मं क्रमणेषु यज्ञम्” भाग० ८, १०, २१, “पदैश्चतुर्भिः क्रमणेऽपि तस्य नः” नैष०।

क्रमजटा = स्त्री ऋग्वेदशब्दे १ ११ पृ० दर्शिते वेदपाठप्रकारभेदे।

क्रमदण्डक = पु० ऋग्वेदशब्दे १४११ पृ० दर्शिते वेदपाठप्रकारभेदे

क्रमदीश्वर = पु० संक्षिप्तसारव्यारणकारके विद्वद्भेदे “संक्षिप्तसारमाचष्टे पण्डितः क्रमदीश्वरः” संक्षिप्रसारव्या०।

क्रमपद = पु० ऋग्वेदशब्दे १४११ पृ० दर्शिते “क्रमपारः क्रमपदः क्रमजटा क्रमदण्डकश्चेति चतुष्पारायणमित्युक्ते वेदपाठप्रकारभेदे।

क्रमपार = पु० ऋग्वेदशब्दे १४११ पृ० दर्शिते वेदपाठप्रकारभेदे

क्रमपूरक = पु० क्रमेण पूरयति वीजम् पूरि–ण्वुल्। वकवृक्षे राजनि० तस्य पुष्पवृन्ते क्रमेण वीजपूरकत्वात्तथात्वम्।

क्रमशस् = अव्य० कारकार्थवृत्तेः क्रमात् + वोप्सायां शस्। क्रमं क्रमम्, क्रमेण क्रमेणेत्यादिकेऽर्थे “कामतस्तु प्रवृत्तानामिमाःस्यु क्रमशोवराः” मनुः।

क्रमसंग्रह = पु० श्रीकृष्णतर्कालङ्कारकृते दायाधिकारिक्रम ज्ञापके ग्रन्थभेदे।

क्रमसन्दर्भ = पु० अनुष्ठानज्ञानज्ञापके ग्रन्थभेदे।

क्रमागत = त्रि० क्रमेणागतः। १ कुलादिपरम्परया आगते “तस्मिन् देशे य आचारः पाराम्पर्य्यक्रमागतः” मनुः “अस्वतन्त्राः स्त्रियः सर्वाः पुत्रदासपरिग्रहाः। अस्वतन्त्रस्तत्र गृही यत्तु तस्य क्रमागतमिति” व्यव० त० नारदः। २ पित्रादिक्रमेण प्राप्ते च “आगमोऽभ्यधिको भोगाद्विना पूर्ब्बक्रमागतात्” स्मृतिः। क्रमायातादयोऽप्यत्र

क्रमादि = पु० वेत्त्यधीते वेत्यर्थे वुन् प्रत्ययप्रकृतिभूते पा० उक्ते शब्दगणभेदे स च गणः “क्रम पद शिक्षा मीमांसा”

क्रमि = पु० क्रम–इन्। कृमिपदार्थे। द्विरूपको० “आमाटोपापचीश्लेष्मशूलक्रमिविकारिणाम्” सुश्रु०

क्रमिक = त्रि० क्रमादागतः ठन्। कुलक्रमागते। “आप्तैरलुब्धैः क्रमिकैस्ते च (कर्म्मन्ताः) कच्चिदनुष्ठिताः” भा० स०५ अ०। क्रमोविद्यतेऽस्य ठन्। २ क्रमवर्त्तिनि। “क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम्” शब्दश० प्र०

क्रमिकण्टक = न० क्रमौ कण्टकमिव तन्नाशकत्वात्। विडङ्गे २ चित्राङ्गे (चिता) ३ उदुम्बरे च मेदि०

क्रमिघ्न = न० क्रमिं हन्ति हन–ट १ विडङ्गे रत्नमा०। २ कृमिनाशकमात्रे त्रि० स्त्रियां ङीप्।

क्रमिज = न० क्रमिभ्योजायते जन–ड १ अगुरुचन्दने अमरः २ लाक्षायां स्त्री रत्नमाला०

क्रमिशत्रु = पु० क्रमेः शत्रुरिव। विडङ्गे रत्नमाला

क्रमु = पु० क्रम उन्। गुवाके द्विरूपकोषः

क्रमुक = पु० क्रम–उन् संज्ञायां कन्। १ पट्टिकालोध्रे २ गुवाक वृक्षे ३ ब्रह्मदारुवृक्षे च अमरः ४ भद्रमुस्तके ५ कार्पासिकाफले न० मेदि० अयं सालसादिगणे सुश्रुते उक्तः “सालसाराजकर्ण्णखदिरकदरकालस्कन्दक्रमुकेत्याद्युक्रमे “सालसारादिरित्येपः गुल्कुष्ठविनाशनः। मेहपाण्ड्वामयहरः कफमेदोविशोषणः” सुश्रु० तद्गुणा उक्ता “आस्वादितार्द्रकमुकाः समुद्रात्” माघः गौरा० ङीष्। ६ गुवाके स्त्री शब्दरत्नमाला

क्रमेतर = त्रि० ५ त०। क्रमात् वेदपाठप्रकारभेदात् भिन्ने। ततः उक्था० तद्वेत्त्यरधीते वा ठक्। क्रामेतरक तद्वेत्तरि तदध्येतरि च त्रि०

क्रमेल = पुंस्त्री० क्रामति क्रम–विच् एलति अच् कर्म०। उष्ट्रे स्वार्थे क। तत्रार्थे। उभयत्र जातित्वात् ङीष्।

क्रय = पु० क्री–भावे अच्। पणपूरणादिमूल्यदानेन विक्रेतुः स्वत्वापनयनेन स्वत्वापादनव्यापारे (केना)। प्रतिरूपद्रव्यदानेन तथाचरणे तु न क्रयव्यवहारः इत्यतः द्रव्यपदमनूक्त्वा पणपूरणेत्युक्तम्। क्रयस्य स्वत्वहेतुत्वञ्च पूर्ब्बस्वामिस्वत्वनाशादेव भवति सति तत्स्वत्वे सजातीयस्वत्वं प्रति संजातीयस्वत्वस्य प्रतिबन्धकत्वेन क्रेतुः खतोत्पत्त्य भावात् अतोमूल्यदानेन तत्स्वत्वापाकरणम्। तस्य च स्वत्वहेतुत्वम् “सप्त वित्तागमा धर्म्याः दायोलाभः क्रयोजयः। विभागः संप्रयोगश्च सत्प्रतिग्रहएव च” स्मृतेः “स्यामी ॠक्थक्रयसंविभागपरिग्रहाधिगमेषु” गोतम स्मरणाच्च। क्रयादिरूपागमसहितभोगस्यैव स्वत्वे प्रामाण्यं वीरमि० व्यवस्थापितं यथा “सप्त स्थावरागमोपायान् प्रदर्शयं स्तत्र भुक्तेः प्रामाण्यमाह वृहस्पतिः। विद्यया क्रयबन्धेन शौर्य्यभार्य्यान्वयागतम्। सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधा मतम्। पित्र्यलब्धक्रयाधाने रिक्थशौर्य्यप्रवेदनात्। प्राप्ते सप्तविधे भोगः सागमः सिद्धिमाप्नुयात्”। विद्यया प्रातग्रहादिकप्रयोजिकया, खत्वोपाथःक्रयःप्रसिद्धः बन्धो बन्धकं सोपाधिकस्वत्वहेतुनष्टावधौ चात्यन्तिकस्वत्वहेतुस्तदप्युत्तरत्र विवेचनीयम्। क्रयबन्धेनेति समाहारद्वन्द्व एकत्वम्। शौर्य्यागतं युद्धार्जितम्। भार्य्यागतं विवाहकाले प्राप्तम्। अत्वयागतं पि त्रादिक्रमोपात्तम्। अप्रजस्य सपिण्डस्यांशं रिक्थहरान्तराभावे पिण्डदानाद्यधिकारितया प्राप्तम्। पित्र्येत्यादिना प्रागुक्तानेव सप्तस्थावरागमोपायाननूद्य तत्र भोगस्य प्रामाण्यं विधीयते। तत्र प्रवेदनं विवाहः। स एव “क्रमागतः शासनिकः क्रयाधानागमान्वितः। एवं विधस्तु यो भोगः स तु सिद्धिभवाप्नुयात्। संविभागक्रयप्राप्तं पिवृलब्धञ्च राजतः। स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया। प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थिनम्। तस्य तत्सिद्धिमाप्नोति हानिश्चोपेक्षया तथा। अध्यासनात् समारभ्य भुक्तिर्य्यस्याविघातिनी। त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत्”। मूल्यं दास्यामीति मियमं कृत्वाऽपि ग्रहणादपि क्रयसिद्धिः यथाह विवादचि० कात्या० “पण्यं गृहीत्वा योमूल्यमदत्त्वैव दिशं व्रजेत्। ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धि वाप्लुयात्” अत्र विषये लेख्यपत्रकरणमाह वृहस्पतिः “गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम्। पत्रं कायते यत्तुक्रयलेख्यं तदुच्यते”। तस्यानुशयकालश्च अनुशय शब्देदर्शितः”। वैदिककर्म्माङ्गपरिक्रयादौ प्रायेण यजमानस्यैवाधिकारः यथाह क्रयाधिकरणे जै० सू० भा०

“स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात्” ३। ८। १ सू०।

“अस्ति परिक्रयः ज्योतिष्टोमे “द्वादशशतं दर्शपूर्णमासयोः अन्वाहार्यम्”। तत्र सन्देहः किम् अध्वर्युणा परिक्रेतव्या ऋत्विजः, उत स्वामिना? इति। किं प्राप्तम्? समाख्यानात् अध्वर्युणा, इति प्राप्ते ब्रूमः,–‘स्वामिकर्म परिक्रयः’ कस्मात्? कर्मणः तदर्थत्वात्, फलकामो हि यजमानः यश्च फलकामः, तेन स्वयं कर्त्तव्यम्, स यदि परिक्रीणीते, ततः स्वयं सर्वं करोति इति गम्यते, अथ न परिक्रीणीते, न सर्व्वं कुर्यात्। तस्मात् स्वामी परिक्रीणीते इति” शवरभाष्यम्

“वचनादितरेषां स्यात्” २ सू०

“किम् एष एबोत्सर्गः? न–इत्युच्यते,–‘वचनात् इतरेषां स्यात्’। यत्र बचनं भवति, तत्र बचनप्रामाण्यात् भबति परिक्रयः,–‘य एतामिष्टकाम् उपदध्यात् स त्रीन् वरान् दद्यात्’–इति” भा०। सोमादिक्रयस्य द्रव्यसाध्यतया स्त्रीणां पित्रा विक्रीतत्वात् स्वामिना च क्रीतत्वात् द्रव्यस्वामित्वाभावे यज्ञाधिकारित्वं नास्तीत्याशङ्कायां सहपत्याऽधिकार इत्येतत् जै० ६। १। १० सूत्रादौ भाष्येच व्यवस्थापितं यथा

“द्रव्यवत्त्वात्तु पुंसां स्यात्, द्रव्यसंयुक्तं, क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्” १० सू० (पू०)

“पुंसां तु स्यात् अधिकारः, द्रव्यवत्त्वात्, द्रव्यवन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्त, च एतत् कर्म्म ‘व्रीहिहिर्यजेत, यवैर्यजेतं’–इत्येवमादि। कथम्? अद्रव्यत्वं स्त्रीणां’ ‘क्रयविक्रयाभ्यां क्रयविक्रयसंयुक्ता हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्त्रा च–क्रीयन्ते, विक्रीतत्वाच्च पितृधनानामनीशिन्यः क्रीतत्वाच्च भर्तृधनानाम्। विक्रयो हि श्रूयते, ‘शतमधिरथं दुहितृमते दद्यात्, “आर्षे गोमिथुनम्”–इति च। न च, एतत् दृष्टार्थे–सति आनमनेऽदृष्टार्थं भवितुमर्हति। एवं द्रव्यैः समान योगित्वं स्त्रीणाम्” भा० “तथाच अन्यार्थदर्शनम्” ११ सू०

‘या पत्या क्रीता सती “अथान्यैश्चरतिं–इति क्रीततां दर्शयति” भा०

“तादर्थ्यात् कर्मतादर्थ्यम्” १२ सू० (आ० नि०) ‘आह, यदनया भक्तोपसर्पणेन वा कर्त्तनेन वा धनम् उपार्जितं, तेन यक्ष्यते,–इति। उच्यते,–तदप्यस्वा न स्वं, यदा हि सा अन्यस्य स्वभूता, तदा यत् तदीयं, तदपि नस्यैव। अपिच, स्वामिनस्तया कर्म कर्त्तव्यं न तं परित्यज्य स्वकर्मार्हति कर्तुम्। यत् तया अन्येन प्रकारेण उपार्ज्यते, तत् पत्युरेब स्वं भवितुमर्हति–इति। एवं च स्मरति, “भार्य्या दासश्च पुत्रश्च निर्द्धनाः सर्व एव ते। यत्ते समधिगच्छन्ति, यस्य ते तस्य तद्धनम्” इति’ भा०

“फलेत्साहाविशेषत्तु” (१३ सू० सि०) तुशब्दःपक्षं व्यावर्त्तयति। न च एतदस्ति,–निर्द्धना स्त्री–इति, द्रव्यवनी हि सा, फलोत्साहाविशेषात्, स्मृतिप्रमाण्यात् अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात् फलार्थिन्या यष्टव्यम्, यदि स्मृतिमनुरुध्यमाना परवशा निर्द्धना च स्यात्, ‘यजेतं–इत्युक्ते सति न यजेत, तत्र स्मृत्या श्रुतिर्बाध्येत। न च एतत्–न्याय्यम्। तस्मात् फलार्थिनी सती स्मृतिमप्रगाणीकृत्य द्रव्यं परिगृह्णीयात् यजेत च–इति’ भा०

“अर्थेन च समवेतत्वात्” १४ सू०

अर्थेन च अस्याः समवेतत्रं भवति, एवं दानकाले संवादः क्रियते,–“धर्म्मे च अर्थे च कामे च न अति चरितव्यः’–इति। यत्तु उच्यते,–‘भार्यादयो निर्द्धनाः’इति स्मर्य्यमाणमपि निर्द्धनत्वम् अन्याय्यमेव, श्रुतिविरोधात्। तस्मात् अस्वातन्त्र्यम् अनेन प्रकारेण उच्यते, संव्यवहारप्रसिद्ध्यर्थम्” भा०

“क्रयस्य धर्म्ममात्रत्वम्” १५ सू०। (आ० नि०) यत्तुक्रयः श्रूयते,–धर्म्ममात्रं तु तत्, नासौ क्रयः–इति, क्रयो हि उच्चनीचपण्यपणो भवति। नियतं त्विदं दानं शतमधिरथं, शोभनाम् अशोभनाञ्च कन्यां प्रति। स्मार्त्तं च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते। तस्मात् अविक्रयोऽयम्–इति भा०

“स्ववतामपि दर्शयति” १६ सू० ‘पत्नी वै पारिणय्यस्य ईष्टे–पत्यैव गतमनुमतं क्रियते। तथा “भसदा पत्नीः सयाजयन्ति, भसद्वीर्या हि पत्नयः भसदावा एताः परगृहाणाम् ऐश्वर्य्यमवरुन्धते” भा०। “स्ववतोस्तु वचनादैककर्म्यं स्यात्” १७ सू० स्ववन्तावुभावपि दम्पती–इत्येवं तावत् स्थितम्। तत्र सन्देहः,–किं पृथक् पत्नी यजेत, पृथक् यजमानः उतसम्भूय यजेयाताम्! –इति। किं प्राप्तम्?–पृथक्त्वेन। कुतः?। एकवचनस्य विवक्षितत्यात्, उपादेयत्वेन कर्त्ता ‘यजेत’–इति श्रूयते तस्मात् एकवचनं विवक्ष्यते,–यथा न द्वौ पुरुषौ सम्भूय यजेयाताम्, तथा अत्रापि द्रष्टव्यम्। एवं प्राप्ते व्रूमः,–“स्ववतोस्तु वचनात्तयोः सहक्रिया एवं स्मरन्ति,–‘धर्म्मे चार्थे च कामे च नातिचरितव्यः’–इति, तथा ‘सह धर्म्मश्चरितव्यः, सहापत्यम् उत् पादयितव्यम्’–इत्युच्यते,–स्मृतिवचनेन श्रुतिवचनं युक्तं बाधितुम्’। न–इति व्रूमः,–इह किञ्चित् कर्म, स्त्रीपुंसवर्तृकमेव, यथा दर्शपूर्णमासौ–ज्योतिष्टोमः–इति, यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन च ऋतज्येन होम उच्यते, तत्र अन्यतराभावे वैगुण्यम्। “ननु पुंसो यजमानस्य यजमानावेक्षितमाज्यं, स्त्रिया यजमानायाः पत्न्यवेक्षितं भविष्यति’–इति। न–इति आह,–नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारो यदि, तदैवं स्यात्, आज्यसंस्कारश्च अयं, गुणभूतौ ईक्षितारौ, तत्र अन्यतरापाये नियतं वैगुण्यं, सर्वाङ्गोप संहारी च प्रयोगवचनः। तत्र एतत् स्यात्,–स्त्रीयजमाना पुमांसं परक्रेष्यात आज्यस्य ईक्षितारं पुमांश्च स्त्रियन्त्ववेक्षित्रीम्–इति। तच्च न, पत्नीति हि यज्ञस्य स्वामिनी इत्युच्यते, न क्रीता पत्नी–इति सम्बन्धि शब्दोऽयं यजमानः–इति च स्वामी, क्रीतः। तस्मात् स्त्रीपुंसयोरेकम् एवञ्जातीयकं कर्म्म–इति।

“तत्र श्रुतिसामर्थ्यात्–‘यः–कश्चित्, यया कयाचित् सह सम्भूय यजेत’–इति प्राप्ते इदम् उच्यते,–‘यस्त्वया कश्चित् धर्म्मः कयाचित् सह कर्त्तव्यः, सीऽनया सह– इति, तेन न श्रुतिविरोधः स्मृतेः–इति गम्यते। अथ यदुक्तं,–केबलस्य पुंसोऽधिकारः केवलायाश्च स्त्रियाः, ‘यजेतं–इत्येकवचनस्य विवक्षितत्वात्–इति, तत् परिहर्तव्यम्। इदं तावदयं प्रष्टव्यः–‘यजेत’–इत्येकवचने विवक्षिते, षोडशभिरृत्विग्भिः सहयागो भवति इत्येवम् उच्यते, प्रतिकारकं क्रियाभेदः, याजमानानेव पदार्थान् परिक्रयादीन् कुर्वन् ‘यजते’ इत्युच्यते यजमानः, आध्वर्यवानेव कुर्वन् अध्वर्युर्यजति–इत्येवम् उच्यते, यथा सम्भरणमेव कुर्वती स्थाली पक्तिं करोति– इत्युच्यते, यस्य च कारकस्य य आत्मीयोव्यापारः, स एकवचने विवक्षिते एकेन कर्त्तव्यो भवति–इति। एवं चेत् यावान् व्यापारो यजमानस्य, स तावान् न सम्भूय कर्त्तव्यः, एकेनैको याजमानेऽपरेणापरः। द्वादशे वा शते एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशत्–इति। इह तु पत्नीव्यापारः अन्थ एव, न तत्र पत्नी प्रवर्त्तमाना यजमानस्य एकत्वं विहन्ति, यथा अध्वर्युराध्वर्यवेषु प्रवर्त्तमानः। अवश्यं च सह पत्न्या यष्टव्यं, मध्यगं हि इदं दम्पत्योर्धनं तत्र यागोऽवश्यं सह पन्न्या कर्त्तव्यः, इतरथा अन्यतरानिच्छयां त्याग एव न संवर्त्तेत, तथाहि द्वितीयया पत्न्या विना त्यागौनैवावकल्पते, यस्य द्वितीया पत्न्यस्ति, तत्र क्रत्वर्थान् एका करिष्यति। कर्ष्टसंस्कारार्थेषु नैव दोषः, सम्भवन्ति हि तानि सर्वत्र–इति” भा०

“लिङ्गदर्शनाच्च” १८ सू०। “लिङ्गं खल्वपि दृश्यते, ‘योक्त्रेण पत्नीं सन्नह्यति मेखलया यजमानं निथुनत्वाय”–इति। यदि स्त्रीपुंसायेकब, योक्त्रस्य मेखलायाश्च विभागो वाक्यात् गम्यते, मियुनसम्भषश्च, तदेतत् स्त्रीपुंससाधनके कर्म्मण्युपपद्यते, न अन्यथा” भा०

“क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते” १९ सू० “स्थितादुत्तरनुच्यते। तुशब्दः पक्षं व्यावर्त्तयति। नैतदस्ति, यदुकं स्ववती स्त्री–इति, क्रीता हि सा, दृष्टार्थत्वात् अधिरथशतदानस्य, अतो यदस्याः स्वामित्वम् उच्यते, तत् भक्त्या यथा पूर्ण्णकोऽस्माकं वलीबर्द्दाताम् ईष्टे–इति, एवं पत्न्यपि पारिणय्यस्य ईष्टे–इति” भा० “फलार्थित्वातु स्वामित्वेनाभिसम्बन्धः” २० सू०

“नैतदस्ति, क्रयो मुख्यः, गौणं स्वामित्वम् इति, फलार्थिनी हि सा, स्मृतिर्नादरिष्यते, स्मृत्यनुरोधात् अस्वा स्यात्, स्ववती श्रुत्यनुरोधात्” भा०

“फलवत्तां च दर्शयति” २१ सू०

“सं पत्नी पन्या सुकृतेन गच्छतां यज्ञस्य धुर्यायुक्तावभूताम्, सञ्जानानौ विजहताम् अरातीर्दिवि ज्यतिरजरमारभेताम्” इति दम्पत्योः फलं दर्शयति। तस्मात् अप्युभावधिकृतौ–इति सिद्धम्” शवरभाष्यम्। “शूद्रानीपैः क्रयक्रीतैः कर्म्म कुर्वन् पतत्यधः” स्मृतिः। क्रयनक्षपाणि मु० चि० पी० धा० वर्धितानि यथा। “क्रयर्क्षे विक्रयो नेष्टो विक्रयर्क्ष क्रयोऽपि न। पौष्णा म्बुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः” मु० चि०। “अथ क्रयविक्रयनक्षत्रेषु परस्परनिषेधं वदन्क्रयविक्रयनक्षत्राण्यनुष्टभाह क्रयर्क्षेइति। क्रयनक्षत्रे विक्रयो न कार्यः, तथा विक्रयर्क्षे क्रयोऽपि न कार्यः, नन्विदमयुक्तं विक्रयोनाम मौल्यं गृहीत्वा वस्तुदानं क्रयोनाम मौल्यं दत्त्वा स्वग्रहणं यदा येन क्रयः कर्त्तव्यः तदान्येग विक्रयोऽपि कर्त्तव्यस्तत्र क्रयविक्रयनक्षत्राणां महाभेदादुभयविधमुहूर्त्तानुपपत्तिः उच्यते विक्रेत्रा यदा मुहूर्तोविक्रयार्थं गृह्यते तदा क्रयिणोऽनुज्ञां लब्ध्वा यावदिष्टं वस्तु स्वगृहात्पृथक् क्रियते, तत्कर्भ विक्रयशब्दवाच्यं यदा तु क्रयिणा क्रयमुहूर्त्तंप्राप्यते तदा विक्रेत्रेमूल्यद्रव्यंदत्त्वा पृथक् कृतविक्रेतृवस्त गृह्यते तर्त्कमक्र यशब्दवाच्यमिति मत्वात्र समाधिः। अथवा क्रयिविक्रेत्रोरन्यतरस्य कदाचित्मुहूर्तसम्भवोदुयोवनावश्यकत्वे। आवश्यकत्वे तु मुहूर्त्तगवेषणायां कालविल म्बनिष्पत्तावन्येन तृतीयेन मुहूर्त्तविचारमनङ्गीकृत्य समवस्तुप्राप्त्या वस्तुग्रहणसिद्धिसम्भवात् तदा विव्रेतुरेव मुहूर्त्तविचारः। एवं च क्रेतुरप्यवश्यविक्रेतव्यस्य वस्तुतो यदा गृहीता सम्भवेतदैव मुक्षूर्तमनालोच्य वस्तुदानमावश्यकम् मुहूर्त्तविचारतः कालविलम्बे तावद्रव्यपाप्यनुपपत्तेः। तदा तु क्रयण एव मुहूर्त्तविचारः। मन्वेनमपि क्रयविक्रयनक्षत्राणां पार्थक्येनाभिधानात्तयोः परस्परगतनिषेधो न युज्यते यथा राजदर्शन विहितनक्षत्रेभ्योऽन्यनक्षत्रेषु राजदर्शनं निषिद्धमि- त्यर्थाद्गम्यते, सर्वं “वाक्यं सावधारणं भवतीति” न्यायात् उच्यते। क्रयनक्षत्रे क्रयः कार्य इत्युक्तेः बिक्रयस्य स्वतन्त्र कर्मत्वात् तत्र क्रयर्क्षेनिषेधाभावः एवं विक्रयर्क्षेष्वपि क्रयनिषेधाभावः तत्र निषेधे सत्यन्यनक्षत्राणां मध्यमत्वावगतेः कदाचित् क्रयनक्षत्राणां मध्यमत्वमङ्गीकृत्य विक्रयस्य विहितमुहूर्त्तानुपलब्धौ तत्र मुहूर्त्तोमध्यमोऽपिग्राह्यस्तदथेमपि वाचनिकस्तन्निषेधः अतः। क्रयविक्रयन क्षत्रेभ्योभिन्ननक्षत्रेषु क्रयविक्रयौ मध्यमावित्य नुमिमः निषेधस्य वाचनिकत्वमुक्तं दीपिकायाम् “यमादिशक्रादिहुताशपूर्वावेष्टाः क्रये विक्रयणेऽतिशस्ताः। पौष्णाऽश्विचित्राम्बुषवातकर्ण्णाः शस्ताः क्रये विक्रयणे निषिद्धाः” इति अथ क्रयमुहूर्त्त उच्यते। तत्र पौष्णंरेवती अम्बुपः शततारका अश्विनी वातः स्वाती श्रवणः चित्रा एतानि भानिक्रये शुभानि विक्रये निषिद्धानि च सम्मतिरत्रोक्तैव”।

क्रयण = न० क्री–भावे ल्युठ्। क्रये “वैश्यराजन्ययोः सोमे न्यग्रोधस्तिभीनुपनह्येच्छन् भक्षाय क्रयणप्रभृत्यनुसोमम्” कात्या० श्रौ० १०, ९, ३०, क्रयणप्रभृति (सोम) क्रयणादा रभ्य” कर्कः। क्रयणस्येदम् छ। क्रयणीय क्रयणसम्बन्धिदिने। “अप्सूख्यभस्मावापनं क्रयणीयादौ” कात्या० श्रौ० १६, ६, २३, आदौ कयणीयस्याह्नः” सं० व्या०।

क्रयनियम = पु० क्रवे नियमः। क्रेष्टविक्रेत्रोर्नियमभेदे। स च नियमः “भूयसा वस्नमचरत् कनीयोऽविक्रीतो अकानिषं पुनर्यन्। स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्रबाणम्” ऋ० ४, २४, ९, भाष्ये दर्शितो यथा“अत्र ऋग्द्वेये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाः पठ्यन्ते तएव लिख्यन्ते। “अल्पं यः पतिगृह्णाति मूल्यं पण्येन भूयसा। स क्रेतारं पुनर्गच्छन्नविक्रीतस्त्वयं मया। इति ब्रुवन् कामयते पुनर्मूल्यस्य पूरणम्। स विक्रेता पुनर्मूल्यं भूयसा न प्रपूरयेत्। हीनं न लभते वस्नंयदा विक्रीतवान् पुरा। यथासमयमेव स्यात्तयोर्न पुनरन्यथा। अयं विक्रय एवेति समयश्चेत् कृतोभवेत्। अथ मूल्यार्थमेतत् स्याद्विचार्यैव तु निर्णयः। इत्येवं समयोऽकारि तदा मूल्यं प्रपूर्यते। तत्मादादौ मया कार्य्यः। सभयोऽत्रेति चिन्तयत्। वामदेवो वशीकृथ शक्रं स्तोत्रेण भूयसा। विक्रीणन् समयं चक्रैन्द्रं क इममित्यृव्वा। अतश्च द्व्यृच एकार्थो भूयसा वस्नमित्ययमिति। अयमर्थः प्रतिपाद्यते कश्चित् भूयसा भूम्ना पण्येन द्रव्येण कनोयोऽल्पतरं वस्नं पसु मूल्पं धनमचरत प्राप्नोति पु- नर्यन् क्रेतारं पुनर्गच्छन् स विक्रेतायमर्थो मयान विक्रीत इति ब्रुवन् न कानिषं मूल्यपूर्त्तिं कामयते व्यत्ययेनोत्तम पुरुषः। स विक्रेता भूयसा धनेन कनीयोऽल्पतरं मूल्यं नारिरेचीत् क्रेतुः सकाशान्न रिक्तीकरोति न लभत इत्यर्थः। दीना असमर्था दक्षाः समर्थाश्च वाणं वचनं विप्रदुहन्ति यथोक्तं क्रयकाले तथैव लभन्ते” “कैमं दशभिर्मभेन्द्रं क्रीणाति घेनुभिः यदा वृत्त्राणि जंघनदथैनं मे पुनर्ददत्” ऋ० ४, २४, १०, “मम मदीयमिदं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभिर्दशभिर्दशसंख्याकाभिः स्तुतिभिः कः क्रीणति क्रयं करोति हे तदानींक्रेतारोयुष्माकं मध्य एवमपि समयः क्रियते यदाऽयमिन्द्रो वृत्त्राणि त्वदीयान् शत्रून् जंघनत् हन्यात् अथानन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् पुनर्दद्यात्” भा०। “निश्चित्य वस्त तन्मूल्यमुभयोः सम्मतौ शिवे!। परस्पराज्ञाकरणं क्रयसिद्धिस्ततो भवेदिति”। “क्रयसिद्धिरदुष्टानां गुणश्रवणतो भवेत्। विपर्यये तद्गुणानानन्थथा भवति क्रयः” महा० नि० त०

क्रयलेख्य = न० ६ त०। “गृहं क्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरा न्वितम्। पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते वृहस्पत्युक्तलक्षणे क्रयसूचकपत्रे (कवाला)।

क्रयविक्रय = पु० द्वि० व०। द्वन्द्वः १ क्रये विक्रये च। “आगम निर्गमस्थानं तथा वृद्धिक्षयावुभौ। विचार्य्य सर्वपण्यनां कारयेत् क्रयविक्रयौ। पञ्चरात्रे पद्मरात्रे पक्षे पक्षेऽथवा गते। कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः” मनुः। “आगमनियमोपयोगादेः पण्यानामनियतत्वात् अस्थिरार्घाणां पञ्चरात्रे पञ्चरात्रे गते, स्थिरतरार्वाणां पक्षे पक्षे गते बणिजामर्घविदां प्रत्यक्षं नृपतिराप्तपुरुषेण व्यबस्थां (मूल्यस्य) कुर्य्यात्” कुल्लू०। “क्रयविक्रयानुशयश्च विबादः स्यायिपालयोः” मनुः। क्रयसहितोविक्रयः शा० त०। २ क्रयसहितविक्रये। “देवदानवगन्धर्वयक्षराक्षसपन्नगाः। नासन् कुतयुगे तात! तदा न क्रयविक्रयः” भा० व० १४९ अ०। ३ तद्युक्ते बाणिज्ये “ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम्। न कुर्य्याद्गुरुणा सार्द्धं शिष्योभूत्वा कथञ्चन” तन्त्रसा०।

क्रयविक्रयानुशय = पु० क्रये विक्रये चानुशयः पश्चात्तापः। मनूक्ते अष्ठादविवादान्तर्गते विवादभेदे। स च द्विविधः क्रीतानुशयो विक्रीतानुशयश्च। अनुशयशब्दे १८६ पृष्ठे तद्विवृतिः दृश्या। अधिकं कीतानुशमशब्दे वक्ष्यते।

क्रयविक्रयिक = पु० क्रयविक्रयाभ्यां जीवति ठत्। बणिग्जने “वस्नक्रयविक्रयाट् ठन्” पा० क्रयविक्रयग्रहणं व्यस्तसमस्त विषयम् तेन व्यस्तादपि ठन्। क्रयिक विक्रयिक तेन जीविनि त्रि०।

क्रयशीर्ष = न० कपिशीर्ष + पृषो०। कपिशीर्षे त्रिका०।

क्रयाक्रयिका = क्रयसहितः अक्रयः शाक० स्वार्थे क अतैत्त्वम्। क्रये अक्रये च।

क्रयारोह = पु० क्रयस्य क्रयार्थमारोहत्यत्र आ + रुह आधारे घञ् चतुर्य्यर्थे ६ त०। हट्टे (हाट) हारा०।

क्रयिक = त्रि० क्रयेण जीवति क्रयात् व्य तादपि ठन्। बणिग्जने “पर्य्यापतत् क्रयिकलोकमगण्यपण्येतित्यादि” माघः क्रय + प्रयोजममस्त्यस्य ठन्। २ क्रेतरि “धनेन क्रयिको हन्ति खादकश्चोपभोगतः। घातको बधबन्धाभ्याभित्येष त्रिविधो बधः” भा० आनु० ११५ अ०

क्रय्य = त्रि० क्रयाय क्रोतारः क्रणीयुरितिबुद्ध्या प्रसारितम् क्रा–यत् “क्रय्यस्तदर्थे” पा० नि०। क्रयनिमित्तं हट्टे प्रसारिते द्रव्ये “क्रय्यस्ते सोमो राजा इति क्रय्य इत्याह सोमविक्रयी” शत० व्रा० ३, ३, ३, १,

क्रवण = त्रि० क्रुङ–शब्दे ल्यु। १ स्तुतिकर्त्तरि “अत्रा न हार्द्दि क्रवणस्य रेजते” ऋ० ५, ४४, ९, “क्रवणस्य स्तुतिकर्त्तुः” भा० भावे ल्युट्। २ शब्दकरणे न०

क्रविष्ण, = त्रि० क्रु–बा० इष्णुच्। क्रव्यादे राक्षसादौ “क्रव्यात् क्रविष्णुर्विविनोतु वृक्णम्” ऋ० १, ८७, ४,

क्रविस् = न० क्लब–इसुन्लस्यरः। मांसे क्रव्ये। “यदश्वस्य क्रविषो गन्धोअस्ति” ऋ० १, ०६२, ९, १२, “क्रविषः मांसस्य” भा०

क्रव्य = न० क्लव–यत् लस्य रः। आममांसे अमरः। “स्थपटगतमपि क्रव्यमव्यग्रमति” मालती०। “क्रव्यादाः प्राणिनां क्रव्यं दुदुहुः स्वकलेवरात्” भाग० ४, १८, २३,। मांसभेदास्तद्गुणाश्च सुश्रुते उक्ता यथा “अत ऊर्द्ध्वं मांसवर्गानुपदेक्ष्यामः तद्यथा–जलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्मांसवर्गास्तेषां वर्गाणामुतरोत्तरं प्रधानतमाः। ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति। तत्र जाङ्गलवर्गोऽष्टविधः तद्यथा–जाङ्गला विष्किराः प्रतुदा गुहाशयाः पसहाः पणेमृगा विलेशया ग्राम्याश्चेति। तेषां जाङ्गलविष्किरौ प्रधानतमौ तावेणहरिणर्ष्यकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयोजाङ्गाला मृगाः कषाया मधुरा लघवो वातपित्तहरा- स्तीक्ष्णा हृद्या वस्तिशोधनाश्च। कषायो मधुरो हृद्यः पित्तासृक्कफरोगहा। संग्राही रोचको बल्यस्तेषामेणो ज्वरापहः। मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः। शीतली बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः। एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते। न कृष्णो नच ताम्रश्च कुरङ्गः सोऽभिधीयते। शीतासृक्पित्तशमनी विज्ञेया मृगमातृका। सन्निपातक्षयश्वासका सहिक्काऽरुचिप्रणुत्। लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकावर्त्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रककुतित्तिरिकुरराहुकयवलकप्रभृतयस्त्याहणा विष्किरा लघवः शीतमधुराः कषाया दोघशमनाश्च। संग्राही दीपनश्चैव कषायमधुरो लघुः। लावः कटुविपाकश्च सन्निपाते च पूजितः। ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्द्धनः। तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः। हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः। रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः। कफोत्थेषु च रोगेषु मन्दवाते च शस्यते। वातपित्तहरा वृष्या मेधाग्निबलवर्द्धनाः। लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः। कषायः स्वादुलवणस्त्वच्यः केश्यो रुचिप्रदः। मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियकार्श्यकृत्। स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः। वृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः। वातरोगक्षयवमीविषमज्वरनाशनः। कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्षोडकडिडिमाणकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालह्वालदूषकसुगृहीखञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतुदाः। कषायमधुरा रूक्षाः फलाहारा मरुत्कराः। पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः। सर्वदोषकरस्तेषां भेदाशी मलदूषकः। कषायस्वादुलवणो गुरुः कालकपोतकः। रक्तपित्तप्रशमनः कषायविशदोऽपि च। विपाके मधुरश्चापि गुरुः पारावतः स्मृतः। कुलिङ्गो मधुरःस्निग्धः कफशुक्रविवर्द्धनः। रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः। सिंहव्याव्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः। मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः। उष्णवीर्य्या हिमा नित्यं नेत्रगुह्यविकारिणाम्। काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः। एते सिंहादिभिः सर्वे समाना वायसादयः। रसवीर्य्यविपा- केषु विशेषाच्छोषिणे हिताः मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्ण्णमृगाः। मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः। सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः। श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्ण्णकदलीमृगप्रियकाऽजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयो विलेशयाः। वर्चोमूत्रं संहतं कुर्य्युरेते वीर्य्ये चोष्णाः पूर्ब्ब वत् स्वादुपाकाः। वातं हन्युः श्लेष्मपित्ते च कुर्य्युः स्निग्धाः कासश्वासकार्श्यापहाश्च। कषायमधुरस्तेषां शशः पित्तकफापहः। नातिशीतलवीर्य्यत्वाद्वाते साधारणो मतः। गोधा विपाके मधुरा कषायकटुका स्मृता। वातपित्तप्रशमनी वृंहणी बलवर्द्धिनी। शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः। प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः। दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः। चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्द्धनाः। दर्वीकरा दीपकाश्च तेषूष्णाः कटुपाकिनः। मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः। अश्वाश्वतरगोखरोष्ट्रवस्तेरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः। ग्राम्या वातहराः सर्वे वृंहणाः कफपित्तलाः। मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः। नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः। छगलस्त्व नभिस्यन्दी तेषां पीनसनाशनः। वृंहणं मांसमौरभ्रं षित्तश्लेष्मावहं गुरु। मेदःपुच्छोद्भवं वृष्यमौरभ्रंसदृशं गुणैः। श्वासकासप्रतिश्यायविषमज्वरनाशनम्। श्रमा त्यग्निहितं गव्यं पवित्रमनिलापहम्। औरभ्रवत्सलवणं मांसमेकशफोद्भवम्। अल्पाभिस्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः। दूरे जनान्तनिलया दूरे पानीयगोचराः। ये मृगाश्च विहङ्गाश्च तेऽल्पाभिस्यन्दिनो मताः। अतीवासन्ननिलयाः सभीपेदकगोचराः। ये मृगाश्च विहङ्गाश्च महाभिस्यन्दिनस्तु तें। आनूपवर्गस्तु पञ्चविधः तद्यथा कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्याश्चेति। तत्र गजगपयमहिषरुरुचमरसृमररोहित वराहखङ्गिगोकर्णकालपुच्छकोन्द्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः। वातपित्तहरा वृष्यामधरा रसपाकयोः। शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्धनाः। विरूक्षणी लेणनश्च वीर्योष्णः पित्तदूषणः। खाद्वम्ललवणस्तेषां गजः श्लेद्मानिलापहः। गवयस्य तु मांसं हि स्निग्धं मधुरकामजित्। विपाके मधुरं चापि व्यवायस्य तु वर्द्धनम्। स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः। निद्रापुंस्त्वबलस्तन्यवर्द्धनो मांसदार्ढ्यकृत्। रुरुमांसं समधुरं कषायानुरसं स्मृतम्। वातपित्तोपशमनं गुरु शुक्रपवर्द्धनम्। तथा चमरमांसन्तु स्निग्धं मधुरकासजित्। विपाके मधुरं चापि वातपित्तप्रणाशनम्। सृमरस्य तु मांसञ्च कषायानुरसं स्मृतम्। वातपित्तोपशमनं गुरु शुक्रविवर्द्धनम्। स्वेदनं वृंहणं वृष्यं शीतलं तपणं गुरु। स्निग्धं श्रमानिलहरं वाराहं वलवर्द्धनम्। कफघ्नं खङ्गिपिशितं कषायमनिलापहम्। पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम्। गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम्। विपाके मधुरञ्चापि रक्तपित्तविनाशनम्। हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकवकबलाकापुण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुककुक्कुटिकामेघरावश्वेतचरणप्रभृतयः प्लवाः संघातचारिणः। रक्तपित्तहराः शीता स्निग्धा वृष्या मरुज्जितः। सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः। गुरूष्णमधुरः स्निग्धः स्वरवर्ण्णबलप्रदः। वृंहणः शुक्रलस्तेषां हंसो मारुतनाशनः। शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः। कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः। शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः। शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः। कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः। शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा। मतस्यास्तु द्विविधा नादेयाः सामुद्राश्च तत्र नादेयाः। रहितपाठीनपाटलाराजीववर्भिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्राप्रभृतयो नादेयाः। नादेया मधुरा मत्स्या गुरवोमारुतापहाः। रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः। कषायानुरस्तेपां शष्पशैवालभोजनः। रोहितो मारुतहरो नात्यर्थं पित्तकोपनः। पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः। दूषयेदम्लपित्तन्तु कुष्ठरोगं करात्यसौ। मुरलो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा। सरस्तडागसम्मृताः स्निग्धाः स्वादुरसाः स्मृताः। महाह्रदेषु बलिनः स्वल्पेऽम्मस्यबलाः स्मृताः। तिमिमिङ्गिलकुलिशपाकमत्स्यनिरालकमन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः। सामुद्रा गुरवः म्निग्धा मधुरा नातिपित्तलाः। उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्द्धनाः। बलावहा विशेषेण मांसाशित्वात्समुद्रजाः। तेषामप्य- निलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ। स्निग्धत्वात् स्वादुपाकत्वात् तयोर्वाप्या गुणोत्तराः। नादेया गुरवो मध्ये यस्मात्पुच्छास्यचारिणः। सरस्तडागजानान्तु विशेषेण शिरोलघु। अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः। किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते। अधस्ताद्गुरवो ज्ञेया सत्स्याः सरसिजाः स्मृताः। उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम्। इत्यानूपो महाभिस्यन्दिमांसवर्गो व्याख्यातः। तत्र शुष्कपूतिव्याधितविषसर्पहतदिग्धविद्धजीर्ण्णकृशबालानामसात्म्यचारिणां मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्नापहतपरिणताल्पासंपूर्ण्णवीर्य्यत्वाद्दोषकराणि भवन्ति। अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्त्तितम्। विषव्याधिहतं मृत्युं, बालं छर्दिञ्च कोपयेत्। कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम्। क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम्। एभ्योऽन्येषामुपादेयं मांसमिति। स्त्रियश्चतुष्पादेषु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीरा अल्पशरीरेषु महाशरीराः प्रधानतमा एवमेकजातीयानां महाशरीराः प्रधानतमाः। स्थानादिकृतं मांसस्य गुरुलाघवमुपदे क्ष्यामः तद्यथा–रक्तादिषु शुक्रान्तेषु घातुषूत्तरोत्तरेषु गुरुतरास्तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्म्मकालेयकयकृदन्त्राणि। शिरःस्कन्धं कटीपृष्ठं सक्थिनी चात्मपक्षयोः। गुरुपूर्वं विजानीयाद्धातवस्तु यथोत्तरम्। सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः। पूर्वभागो गुरुः पुंसामधोमागस्तु योषिताम्। उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्। पक्षोत्क्षेपात्समो दिष्टो मध्यभागस्तु पक्षिणाभ्। अतीव रूक्षं मांसन्तु विहङ्गानां फलाशिनाम्। वृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम्। मत्स्याशिनां पित्तकरंवातघ्नं धान्यचारिणाम्। जलजानूपजा ग्राम्याः क्रव्यादेकशफास्तथा। प्रसहाविलवासाश्च ये च जाङ्गलसंज्ञिताः। प्रतुदा विष्कराश्वैव लघवः स्युर्य्यथोत्तरम्। अल्पाभिस्यन्दिनश्चैव यथापूर्वमतोऽन्यथा। प्रमाणाधिकास्तु स्वजातौ चाल्पसारा गुरवश्च। सर्वप्राणिनां सर्वशरीरेभ्योये प्रधानतमा भवन्ति यकृत्प्रदेशवर्त्तिनस्तानाददीत प्रधानलाभाभावे मध्यमवयस्कं साद्यस्कमक्लिष्टमुपादेयं मासमिति। भवति चोत्र। वयः शरीरावयवाः स्वभावो धातवः क्रियाः। लिङ्ग पमाणं संस्कारो मात्रा चास्मिन् परीक्षिता”।

क्रव्यघातन = पु० क्रव्यस्य क्रव्यार्थ घात्यतेऽसौ हन–स्वार्थे णिच्–कर्म्मणि ल्युट् चतुर्थ्यर्थे ६ त०। १ मृगमात्रे शब्दच०। क्रव्यार्थं घातयन्ति घाति–ल्यु। मांसार्थघातके रुरुरूपे मृगभेदे “यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति” भाग० ५। २६। १५ तस्य तथात्वोक्तेः “क्रव्येण निमित्तेन मांसार्थम्” श्रीधरः

क्रव्यभुज् = पु० क्रव्यं भुङ्क्ते भुज–क्विन्। १ क्व्यादे राक्षसे २ क्रव्यादे रुरुरूपे मृगभेदे च “ससैन्धवः क्रव्यभुगेणमांस योर्हितः ससर्पिः समधुः पुटाह्वयः” सुश्रु०। ३ मांसभोक्तृमात्रे त्रि०।

क्रव्याद् = पु० क्रव्यं मांसमत्ति अद–क्विप्। १ राक्षसे २ मांसाशिनि त्रि० मेदि० “क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः। रघुः” क्रव्यादः गृध्रादयः” मल्लि० “क्रव्याद्भिश्च हतस्यान्यैः” मनुः “क्रव्याद्भिः व्याघ्रादिभिः” कुल्लू० “श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव” मनु० च ३ शवदाहके अग्निभेदे “अपाग्ने अग्निमामादं जहि निष्क्रव्यादं सेधैत्ययं वा आमाद् येनेदं मनुष्याः पक्त्वाऽश्नन्ति अथ येन पुरुषं दहन्ति स क्रव्याद् एतविवैतदुभावतोऽपहन्ति” शत० ब्रा० १। २। १। ४। “हे अग्ने! गार्हपत्य। आमादमग्निमपजहि परित्यज तथा क्रव्यादमग्निं निःसेध निःशेषं दूरे गमय” वेददी० “योऽग्निं क्रव्यात् प्रविवेश यो गृहम्” ऋ० १०। १६। १० क्रव्याद्योनिप्राप्तिश्च गुरुतल्पगमनमहापातकावशेषवतां मनूक्ता यथा “तृणगुल्मलतानाञ्च क्रव्यादां दंष्ट्रिणां तथा। क्रूरकर्म्मकृताञ्चैव शतशो गुरुतल्पगः”

क्रव्याद = पु० क्रव्यमत्ति अद–अण् उप० स०। १ राक्षसे २ मांसभोजिमात्रे त्रि० स्त्रियां टाप् सि० की०। “क्रव्यादः शवभक्षणे” विधानपा० ५०पृ० उक्ते ३ बह्निभेदे। वह्नेश्च क्रव्यादत्वं भा० आ०७ अ० भुगुणा सर्वभक्षत्वेशापे अग्नये दत्ते तत्परिहारार्थं शवरूपक्रव्यादनादुक्तम् “कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा। हुतभुक् सर्वलोकेषु सर्व्वभक्षत्वमेष्यति” इत्युपक्रमे “लोकानामिह सर्व्वेषांत्वं कर्त्ता चान्त एव च। त्वं धारयसि लोकांस्त्रीन् क्रियाणाञ्च पवर्त्तकः। स तथाकुरु लोकेश। नोच्छिद्येरन् यथा क्रियाः। कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशन!। त्वं पवित्रं सदा लोके सर्व्वभूतगतिश्च ह। स त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि। अपाने ह्यर्च्चिषोयास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्!। कन्यादा च तनुर्या ते स सर्वं भक्षयिष्यति। यथा सूर्य्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते। तथा त्वदर्च्चिर्भिर्दग्धं सर्वं शुचि भविष्यति। त्वमग्ने! परमं तेजः स्वप्रभावाद्विनिर्गतम्। स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो!। देवानां चात्मनो भागं गृहाण त्व मुखे हुतम्”। क्रव्याच्छब्ददर्शिते शत० व्रा० वाक्येन ऋग्वेदवाक्येन च तस्य कर्म्मादावपसारणमुक्तम्। “क्रव्यादमग्निं प्रहिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः। इहैवायमितरो जातवेदा देवेभ्योहव्यं वहतु प्रजानन्” ऋ० १०, १६, ९, भा०

“आहिताग्निमरणे एतदादिके द्वे ऋचौ औपासनोद्वासने विनियुक्ते तत्र प्रथमायाः पूर्ब्बार्द्धन दक्षिणस्यां दिशि चतुष्पथादावौपासनाग्निं निरस्यति उत्तरे शान्तिकर्म्मार्थमादत्ते। “क्रव्यादं क्रव्यमामिषं तदत्तीति तीव्रमग्निं दूरं विप्रकृष्टे देशे प्रहिणोमि प्रगमयामि। रिप्रं पापं तस्य वोढा सोऽग्निः यमराज्ञो यमो राजा येषां तान् यमराजकान् प्रदेशान् गच्छतु प्राप्नोतु अथ शान्तिकर्म्मार्थमुपासने इतरः क्रव्यादादन्यो जातवेदा अग्निरिहैव देशे देवेभ्यो देवार्थं हव्यं वहतु” भाष्ये दक्षिणपश्चिमदेशे तस्याग्नेः प्रक्षेपणोक्तेः। ४ मांसभक्षके मृगभेदे “यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति” भाग० ५, २६, १५,।

क्रव्यादाश्च व्याघ्रदयस्तद्योनिप्राप्तिश्च अभक्ष्यभक्षणपापात् भवतीति मनुनोक्तं “हिंस्रा भवन्ति क्रव्यादाः कृमयोऽभक्ष्यभक्षणात्” क्रव्यादा व्याघ्रादयः कुल्लू० क्रव्यादिन्पभृतयोऽप्यत्र स्त्रियां ङीप्।

क्रशि = नामधातुः कृशं करोति णिच् ऋतोरः। क्रशयति ते अचक्रशत् त। क्त क्रशितः। “क्रशितं शरीरमशरीरशरैः” माघः। क्रशितं कृशीकृतम्।

क्रशिमन् = पु० कृशस्य भावः दृढा० इमनिच् ऋतोरः। कार्श्ये “सुभ्रुवां क्रशिमशालिनि मध्ये” माघः।

क्रशिष्ठ = त्रि० अतिशयेन कृशः इष्ठन् ऋतोरः। अतिशय कृशे। ईयसुन्। क्रशीयस् तत्रार्थे त्रि०। स्त्रियां ङीप्।

क्रा = त्रि० क्रम्–विट् मस्यात्। क्रान्तरि उदधिक्राः।

क्राकचिक = त्रि० क्रकचः करपत्रं तत्क्रियया जीवति ठक्। करपत्रक्रियोपजीविनि (कराति)। “मायूरकाः क्राकचिकाः वेवकारुचकास्तथा” रामा० अयोध्याकाण्डे ८३ अ०

क्राथ = पु० क्रथदेशानां राजा अण्। १ राहुग्रहावतारे दक्षिणापथेश्वरे नृपभेदे “ग्रहन्तु सुषुये यन्तु सिंहिकार्केन्दु मर्द्दनम्। स क्राथ इति विख्याता बभूव मनुजाधिपः” भा० आ० ६७ अ०। “तमन्वयुर्नृपाश्चैव दक्षिणापथवासिनः। क्राथोऽंशुमान् श्रुतर्वा च वेणुदारिश्च वीर्य्यवान्” हरिवं० ११८ अ०। २ रामसेनापतिवानरमेदे च “नलनीलाङ्गदक्राथमैन्दद्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थसिद्धये” भा० व० २८३ अ०। ३ नागभेदे “ह्लादः क्राथः शितिकण्ठोग्र्यतेजास्तथा नागौ चक्रमन्दातिचण्डौ” भा० मौ० ४ अ०। क्रथ–भावे घञ्। ४ मारणे पु० हेम०

क्रान्त = पुंस्त्री क्रम–कर्त्तरि क्त। १ वोटके स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्। कर्म्मणि–क्त। २ आक्रान्ते ३ आरूढे च त्रि० “क्रान्तं रुचा काञ्चनवप्रभाजा” माघः “अश्वक्रान्ते! “रथक्रान्ते! विष्णुक्रान्ते! वसुन्धरे!” स्नानमन्त्रः। ४ पादेन्द्रिये न०। “मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्” मनुः “क्रान्ते पादेन्द्रिये” कुल्लू०। भावे–क्त। ५ क्रमणे न०। कृदभिहितो भावोद्रव्यवत् प्रकाशते” इत्युक्तेः ६ क्रमणकर्म्मणि न० “विष्णोः क्रान्तमसीतीमे लोकाः विष्णोर्विकमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम्” शंत० ब्रा० ५। ४। २। ६। कर्त्तरिक्त। ७ वृहत्यां स्त्री राजनि० ८ अतीते त्रि० क्रान्तदर्शी

क्रान्तदर्शिन् = त्रि० क्रान्तमस्मद्बाह्येन्द्रियविषतामतिक्रान्तं वस्तु भूतादि सर्व्ववस्तु द्रष्टं शीलमस्य दृश–णिनि। १ अतीतादि वस्तुद्रष्टरि २ सर्वज्ञे ब्रह्मणि न० कविशब्दे १८३१ पृ० दृश्यम्।

क्रान्ति = स्त्री० क्रम–भावे क्तिन्। १ पादविक्षेपे २ गतौ च हेम० अयनशब्दे २२९ पृ० दर्शिते ज्योतिषप्रसिद्धे अपमशब्दार्थेतत्रानुक्तमविकं सू० सि० रङ्गनाथाभ्यां दर्शितं यथा “ननु गोले वृत्ते द्वादशराशीनां सत्त्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कनं? राशिविभागानुपपत्तिश्च अन्तरालभागस्याकाशात्मकत्वादित्यतो वृत्तकथनच्छलेन पूर्वोक्तं स्पष्टयन् सूर्य्यस्तद्वृत्ते भगणभोगं करोतीत्याह” रङ्ग०। “अयनादयनं चैव कक्षा तिर्बक् तथाऽपरा। क्रान्तिसञ्ज्ञा तया सूर्य्यः सदा पर्येति भासयन्” सू० सि०। “अयनस्थानमारभ्यायनं परिवर्त्तनं तदयनस्थानपर्यन्तम्। चकार आरम्भसमापत्योर्भिन्नाथनस्थानमिरासार्थकः। अपरा गोले आधारवृत्तप्रमाणा वृत्तरूपा कक्षा तथा राश्यङ्कमार्गेण। एवकारोऽन्यमार्गष्यवच्छेदार्थकः। तिर्यक् उक्तवृत्तानुकारविलक्षणानुकारा क्रान्तिसञ्ज्ञा क्रमण क्रान्तिः ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सञज्ञमुपकल्पितम्। अयनविषुवद्द्वयसंज्ञं कान्तिवृत्त द्वादशराश्य- ङ्कित गोले निबन्धयेदिति तात्पर्यार्थः। भासयन् भुवनानि प्रकाशयन् सन् सः सूर्य्यः। एतेन चन्द्रादीनां निरासः। सदा निरन्तरं तया क्रान्तिसञ्ज्ञया कक्षया पर्येति स्वशक्त्या गच्छन् भगणपरिपूर्तिभोगं करोति। सूर्य्यगत्यनुरोधेन नियतं क्रान्तिवृत्तं कल्पितमिति भावः। ननु चन्द्राद्याः क्रान्तिवृत्तेकुतोन गच्छन्तीत्यत आह” रङ्ग० “चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः। ततोऽपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात्” सू० “चन्द्रादयोऽर्कव्यतिरिक्ता ग्रहाः स्वकैःस्वकीयैः पातैः पाताख्यदैवतैरपमण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वगोलस्थानेऽधिष्ठितैस्ततः क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः। चकाराद्विक्षेपान्तरेणाप्रकृष्टा दक्षिणत उत्तरतो वा कर्षिता भवन्ति। अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्वभोगस्थानादित्यर्थः। दक्षिणत उत्तरतो वा विक्षेपान्तेषु गणितागतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्दृश्यन्ते। तथा च क्रान्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रान्तिवृत्ते पातस्थाने तत्षड्भान्तरस्थाने च लग्नमुक्तपरमविक्षेपकलाभिस्तत्त्रिभान्तरस्थानादूर्ध्वाधःक्रमेण दक्षिणोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेन खं स्वं भिन्नं कल्पितं तत्र गच्छन्तीति भावः” रङ्ग० क्रान्तिस्पष्टताप्रकारश्च सू० सि० रङ्गनाथाभ्यां दर्शितो यथा “अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमं तदुपयुक्तां स्पष्टक्रान्तिमाह” रङ्गना० “विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता। दिग्भेदे वियुता स्पष्टा भास्करस्य यथा गता” सू० सि० “यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसंस्कृतस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरयनांशसंस्कृतग्रहगोलदिक्का ज्ञेया। तस्य विक्षेपोऽपि पूर्वोक्तप्रकारेण पातोनगीलदिक्को ज्ञेयः। गोलस्तु मेषादिवट् कमुत्तरस्तुलादिषट्कं दक्षिणः। अथ शरक्रान्त्योरेकदिक्त्वेन क्रान्तिः कलाद्या कलाद्या कलात्मकनिक्षेपेण युता तयोर्दिगन्यत्वे क्रान्तिर्व्विक्षेपेण वियुताऽन्तरिता शेषदिक्का स्पष्टा क्रान्तिः स्यात्। ननु सूर्य्यस्य विक्षेपाभावात् कथं स्पष्टा क्रान्तिर्ज्ञेयेत्यत आह भास्करस्येति। सूर्य्यस्य यथागता पूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः। अत्रोपपत्तिः। विषुवद्वृत्ताद्ग्रहविम्बकेन्द्रपर्य्यन्तं याम्यमुत्तरं वान्तरं स्पष्टकान्तरिति तयोरेकदिक्त्वे तद्योगतुल्यमन्तरं, भिन्नदिक्त्वे तदन्तरमितमन्तरमिति। अत्र शरस्य क्रान्तिसंस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभयात् स्वल्पान्तरत्वाच्चोपेक्षिता भगवता कृपावता। अन्यथा शरस्य ध्रुवाभिमुखत्वे भगवदुक्तमायनट्टक्कर्म्म कथमव्याहतं स्यादित्यलम्” रङ्गनाथः। रवेर्देशक्रान्तिवशेन दिनरात्रिभेदः सू० सि० रङ्गनाथाभ्याम् “हानिवृद्धी सदा वामं सुरासुरविभागयोः” इति दिनरात्र्योर्हानिवृद्धी सुरासुरविभागयोर्भवत इत्युपक्रम्य विशदीकृत्य दर्शितो यथा “मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका। देवांशे च क्षपाहानिर्विपरीतं तथाऽऽसुरे। तुलादौ द्युनिशोर्वाम क्षयवृद्धी तयोरुभे। देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम्” सू० “मेषादौ षड्भे उदगुत्तरगोले सूर्य्ये सति उत्तरतो यथोत्तरं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपेऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने। तुकाराद्यथोत्तरं सूर्य्यस्योत्तरगमने यथोत्तरं दिने वृद्धिः परमोत्तरगमनात् परावर्त्तते। यथोत्तरं न्यूना वृद्धिरित्यर्थः। क्षपाहानी रात्रेरपचयः। चः समुच्चये। आसुरे समुद्रादिदक्षिणभागे तथा दिनरात्र्योः क्षयवृद्धी विपरीतं व्यस्तम्। दिने हानीरात्रौ वृद्धिरित्यर्थः। तुलादौ षड्भेदक्षिणगोले सूर्य्ये सति तयोर्जम्बूद्वीपसमुद्रा दिदक्षिणभागयोर्दिनरात्र्योरुभे द्वे क्षयवृद्धी उभचयापचयौ वामं व्यस्तम्। अयमर्थः जम्बूद्वीपे दिनरात्र्योरुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृद्धी स्तः। समुद्रादि दक्षिणभागे दिनरात्र्योर्वृद्धिक्षयौ स्त इति। मनु क्षयवृद्ध्योः कियन्मितत्वमित्यतः पूर्ब्बोक्तं स्मारयति देशक्रान्तिवशादिति। तद्विज्ञानं तयोः क्षयवृद्ध्योर्ज्ञानं सङ्ख्याज्ञानं नित्यं प्रत्यहं देशक्रान्तिवशात्। देशपलभा क्रान्तिरेतदुभयानुरोधात् पुरा पूर्बखण्डस्पष्टाधिकारे “क्रान्तिज्या विषुवद्भघ्नी क्षितिज्या द्वादशोद्धृता। त्रिज्यागुणाहोरात्रार्धकर्ण्णाप्ता चरजासवः”। तत्कार्मुकमित्यनेन दिनरात्र्योरर्ध उक्तम् तद्द्विगुणं दिनरात्र्योरित्यर्थसिद्धम्। अत्रोपपत्तिः। निरक्षदेशे ध्रुवद्वयलग्नक्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं स्वभूगोलमध्यस्थमुत्तरध्रुवादधो दक्षिणध्रुवाच्चोच्चमित्यत उत्तरगोले निरक्षक्षितिजादधो दक्षिणगोल ऊर्ध्वमिति पञ्चदशघटिका निरक्षदेशदिनार्धं क्षितिजान्तररूपचरेण गोलक्रमेण युतहीनं दिनार्धं रात्र्यर्धं च विपरीतम्। एवं दिक्षिणभागेऽभीष्टदेशे क्षितिजमुत्तरघ्रुवादुन्नतं दक्षिण- ध्रुवान्नतमिति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमेणोर्ध्वाध इत्युत्तरभागाद्व्यस्तम्। अथोक्तस्यावधिदेशं विवक्षुः प्रथभं तदुपयुक्तानि क्रान्त्यंशयोजनान्याह” रङ्ग० “भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्। अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः” सू० सि०। “भूवृत्तं भूपरिधियोजनमानं प्रागुक्तमभीष्टक्रान्त्यंशैर्गुणितं द्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्तं लब्धयोजनैः कृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दक्षिणत उत्तरतो वा याति गच्छति। क्रान्त्यभावे तु निरक्षदेशोपर्येव परिभ्रमति। अत्रोपपत्तिः। निरक्षदेशान्मेरोरुत्तरदक्षिणाग्राभिमुखं सूर्य्यः क्रान्त्यंशैर्गच्छति। तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभूपरिधियोजनानि तदा क्रान्त्यंशैः कानीत्यनुपातेनेत्युपपन्न म्। अथ दिनमानानयनगणितस्यावघिदेशज्ञानं श्लोकाभ्यामाह” रङ्ग०। “परमापक्रमादेवं योजनानि विशोधयेत् भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः। अयनान्ते विलोमेन देवासुरविभागयोः। नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत् तथा” सू० सि० “परमक्रान्तिभागाच्चतुर्विंशन्मितात् एवं पूर्वोक्तरीत्या योजनानि जातानि। भूपरिधेः पूर्वोक्तस्य चतुर्थांशात् परिवर्जयेत्। अवशिष्टानि यानि यत्सङ्ख्यामितानि योजनानि भवन्ति तैर्यो जनैर्देवासुरविभागयोर्निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यौ देशौ तयोरित्यर्थः। अनयान्त उत्तरदक्षिणायनसन्धौ कर्कादिस्थे सूर्य्ये दक्षिणोत्तरायनसन्धौ मकरादिस्थे सूर्य्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटीषष्ट्याहर्दिनमान भवति। अस्मिन्नेताट्टशे देशे तस्मिन्नेवायनसन्ध्यासन्ने सकृदेकवारं तथा षष्टिघटीमिता विलोमेन रात्रिर्भवति। अपिशब्दो दिनेन समुच्चयार्थः। एतदुक्तं भवति–कर्कादिस्थे सूर्षे निरक्षदेशादत्तरतद्योजनान्तरितदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशाद्दक्षिणतद्योजनान्तरितदेशे षष्टिघटीमिता रात्रिः। मकरादिस्थे सूर्य्ये तादृशोतरभागे षष्टिघटीमिता रात्रिर्दक्षिणभागे तादृशे षष्टिमितं दिनमिति। अत्रोपपत्तिः–परमक्रान्तियोजनानि भूवृत्तचतुर्थांशयोजनेभ्यो हीनानि। निरक्षदैशात् तन्मितयोजनान्तरितो यो दक्षिणोत्तरदेशस्तस्मान्मेरोदक्षिणोत्तराग्रं क्रमेण परमक्रान्तियोजनान्तरितम्। अतस्तत्र लम्बांशाश्चतुर्विंशतिः पलांशाश्च षट् षष्टिरिति। तद्देशै क्रान्तिवृत्तानुकारं क्षितिजमित्यय- नान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरन्तरालरूपं चरमत उक्तरीत्या दिनार्घं रात्र्यर्धं वोक्तरोत्या यथायोग्यं त्रिंशत् तद्द्विगुणं षष्टिघटीमिततन्मानं गणितरीत्योपपन्नम्। युक्तं चैतत् अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिजप्रदेश एकत्रैव संलग्नत्वाद्द्विधा संलग्नत्वाभावात् प्रवहभ्रमितसूर्य्यपरिवर्त्तपूर्त्तिः षष्टिघटीभिर्दर्शनमदर्शनं यथायोग्यं तद्गोलस्थित्या प्रत्यक्षसिद्धमेवेति। अथोक्तदिनरात्रिमानगणितं तदवधिदेशपर्यन्तं दक्षिणोत्तरभागयोर्नाग्रेइत्याह” रङ्ग० “तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः। परतो विपरीतोऽयं भगोलः परिवर्त्तते” सू० “तदन्तरे निरक्षदेशोक्तावधिदेशयोरन्तरालदक्षिणोत्तरविभागदेशे षष्ट्यन्ते षष्टिवटीमध्ये क्षयवृद्धी अपचयोपचयावुक्तरीत्या दिनरात्र्योर्यथायोग्यं भवतः। परतोऽवधिदेशादग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो नक्षत्राद्यधिष्ठितो मूर्ती गोलो विपरीतोऽवधिदेशान्तर्गतदेशसम्बन्धी गणितसिद्धा परिवर्त्तते भ्रमति। तत्रोक्तरीत्या दिनरात्र्योर्वृद्धिक्षयो न भवत इत्यर्थः। त्रिज्याधिकाराच्चरानयनानुपपत्तेः चरस्वरूपासम्भवाच्च तथा विपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति” रङ्ग० “ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः। घनुर्मृगस्थः सविता देवभागे न दृश्यते। तथा च सुरभागे तु मिथुने कर्कटे स्थितः। नष्टच्छायामहीवृत्तपादे दर्शनमादिशेत्” सू० “द्विराशिज्या ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थांशे हीने कृते सति। तुकारान्निरक्षदेशात् तद्योजनान्तरिते देशे देवभाग उत्तरभागे धमुर्भकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते। धनुर्मकरस्येऽर्के तेषां रात्रिः सदा स्यादित्यर्थः। असुरभागे निरक्षदेशाद्दक्षिणप्रदेशे। चः समुच्चयार्थः। तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देववासिभिर्न दृश्यते। नष्टच्छायामहीवृत्तपादे अभावं प्राप्ता महीच्छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे सूर्य्यस्य दर्शनं सदा कथयेत्। यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिननित्यर्थः। तथा च निरक्षदेशात् नद्योजनान्तरितोत्तरप्रदेशे कर्कमिथुनस्थोऽर्को दृश्यते तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यते इति फलितार्थः। अतएव “त्र्यंशयुङ्नवरसाः पलांशका यत्रा तत्र विषये कदाचन। दृश्यते न मकरो न कार्मुकां किञ्च कर्किमिथुनौ सदोदितौ” इति भास्कराचार्थोक्तं नङ्गच्छते” रङ्गनाथः।

क्रान्तिक्षेत्र = न० क्रान्तिज्ञानार्थं क्षेत्रम्। सि० शि० उक्ते अपमक्षेत्राकारे पदार्थे यथा “क्षेत्राणि वक्ष्येऽपमसंभवानि संक्षेपतोऽक्षप्रभवाणि चातः। भुजोऽपमः कोटिगुणो द्युजीवा कर्णस्त्रिभज्या त्रिभुजेऽपमोत्थे। मेषादिजीवाः श्रुतितोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भजाः स्युः। तत्कोटयः स्वद्युनिशाख्यवृत्ते व्यासार्द्धवृत्ते परिणा मतानाम्। चापेषु तासामसवस्तती ये तेऽधो विशुद्धा उदया निरक्षे” सि० शि०

क्रान्तिज्या = स्त्री क्रान्तिवृत्तक्षेत्रस्थे सि० शि० उक्ते अक्षक्षेत्रावयवभेदे। अक्षक्षेत्रशब्दे ४२ पृ० अक्षक्षेत्राणि उक्तानि। तन्मानानयनम्। “युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ। जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या त्रिज्यी ३४३८ द्धृता क्रान्तिगुणोऽस्य वर्गम्। त्रिज्याकृतेः ११८१९८४४ प्रोज्झ्य पदं द्युजीवा क्रान्तिर्भबेत् क्रान्तिगुणस्य चापम्। अक्षप्रभासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या सि० शि०। “अत्र खेटादित्युपलक्षणम्। यस्मात् खेटाल्लग्नाद्वाऽपमः साध्यस्तस्मात् सायनांशादेव। तथा यस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनांशादेव। सायनार्कस्य दोर्ज्या जिनभागज्यवा गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम्। अस्योपपत्तिः। विषुवत्क्रान्तिवृत्तयोर्याम्योत्तरमन्तरं क्रा न्तिः। तयोः संपाते क्रान्त्यभावः। ततस्त्रिभेऽन्तरे परमा जिन २४ तुल्यभागाः। अतस्तत्संपातादारभ्य क्रान्तिः साध्या। उदयाश्च तत एव। स तु संपातो मेषादेः प्रागप्रनांशतुल्येऽन्तरे। अतः सायनांशात् खेटात् क्रान्तिर्भुक्तभोग्यकालौ चेत्युक्तम्। यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्ययाकिमिति। फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपा भवति। क्रान्तिज्या भुजस्त्रिज्या कर्णस्तद्घर्गान्तरपदमहोरात्रवृत्तव्यासार्धम्। सैव द्युज्या” प्रमि०। देशभेदे कालभेदेन रवेः क्रान्तिज्याज्ञानार्थं प्रश्नपूर्वकं सि० शि० निर्ण्णीतं यथा

“मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे! काले पञ्चघटोमिते दिनगते यद्वा नते तावति। केनाप्यु ज्जयिनीगतेन तरणेः क्रान्ति तदा वेत्सि चेन्मन्ये त्वां निशितं सगर्वगणकोन्मत्तेभकुम्भाङ्गुशम्”।

“हे गणक! केनचित् किलोज्जयिनीगतेन यदा दिनगते पञ्चघटीमिते काले मार्तण्डः सममण्डलं प्रविष्टो दृष्टस्तदा कियती क्रान्तिज्येत्येकः प्रश्नः। अथान्यः तावति पञ्चघटीमिते नते वा काले समण्डलं प्रविष्टो दृष्टस्तदा च या क्रान्तिज्या तां त्वं चेद्वेत्सि तदा सगर्वगण कोन्मत्तेभकुम्भाङ्कुशं निशाणोद्धृतं त्वामहं मन्ये” प्रनि०

“या स्याद्रवेरुन्नतकालजीवाभीष्टा हृतिः सा प्रथमं प्रकल्प्या। अर्का१२ क्षभावातहताक्षकर्णकृत्योद्धृता स्यादपमज्यकाऽस्याः। चरादिकेनेष्टहृतिः प्रसाध्या क्षुण्णस्तया क्रान्तिगुणोऽसकृच्च। तदाद्यहृत्या विहृतः स्फुटः स्यात् सहस्ररश्मौ सममण्डलस्थे” सि० शि०।

“रवेः समण्डलप्रवेशे य उन्नतकाल उद्दिष्टस्तस्य जीवा सा तावत् प्रथममिष्टहृतिः कलप्या। ततो द्वादशगुणयाक्षया गुण्या पलकर्णवर्गेण भाज्या। सा किल स्थूला क्रान्तिज्या भवति। तस्याः क्रान्तिज्याया द्युज्यां कुज्यां चरज्यां चरं च कृत्वा “अथोन्नतादूनयुताच्चरेण” इत्यादिमेष्टहृतिः साध्या। तया पूर्वमागता क्रान्तिज्या गुण्या। आद्यहृत्या कल्पितया भाज्या। फलं स्फुटासन्ना क्रान्तिज्या भवति। अत्रोपपत्तिः। अत्रोन्नतवालजीवातुल्या प्रथमं तद्धृतिः कल्पिता। तस्या अनुपातेन शङ्कुः। यदि पलकर्णेन द्वादशकोटिस्तदा तद्धृतिकर्णेन किमिति। अत्र तद्धृतेर्द्वादशगुणः पलकर्णो हरः। फलं सममण्डलशङ्कुः। पुनरन्योऽनुपातः। यदि पलकर्णेनाक्षभा भुजो लभ्यते तदा सममण्डलशङ्कुतुल्येन कर्णेन किमिति। फलं क्रान्तिज्या स्थूला। अस्याः क्रान्तिज्यायाश्चरादिकेन “अथोन्नतादूनयुताच्चरेण” इत्यादिनेष्टहृतिः साध्या। तां तद्धृतिं प्रकल्प्य पुनः क्रान्तिज्या साध्या। एवमसकृद्यावदविशेषः। तत्रासकृत्कर्मणि त्रैराशिकेन क्रियोपमंहारः कृतः। यदि कल्पितया हृत्येयं क्रान्तिज्या लभ्यते तदेदानीमानीतया किमिति। एवं क्रान्तिज्या स्फुटा स्यादित्युपपन्नम्। इदानीं द्वितीयप्रश्नस्योत्तरमाह” प्रमि०

“तदा नतज्यात्रिभजीवयोर्यद्वर्गान्तरं तत् पलमाकृतिघ्नम्। तेनोद्धृतो व्यासदलस्य वर्गो वेदेन्द्र १४४ निघ्नोऽथ सरूपलब्ध्या। व्यासार्धवर्गाद्विहृतात् पदं स्यात् क्रान्तिज्यका सा त्रिभशिञ्जिनीघ्नी। जिनांशमौर्व्या विहृताऽथचापादग्रे प्रवक्ष्ये च यथा रविः स्यात्” सि० शि०।

“यदा सममण्डलं प्रविष्टो दृष्टस्तदा या नतघटिकास्तासां जीवा तस्या वर्गेण त्रिज्यावर्गो रहितः। ततः पलभावर्गेण गुण्यः। तेन भाज्यस्त्रिज्यावर्गः। किंविशिष्टः वेदेन्द्र १४४ गुणितः। तत्र यत् फलं लभ्यते तन सैकेन त्रिज्यावर्गाद्भक्ताद्यन्मूलं लभ्यते सा क्रान्तिज्या स्यात्। सा क्रान्तिज्या त्रिज्यागुणा जिनांशज्यथा भक्ता यत् फलं तस्य चापाद्यथा रविर्भवति तथाग्रे वक्ष्ये” प्रमि०। क्रान्तिज्याविशेषेण रव्यादिज्ञानादिकमपि तत्रोक्तं विस्तर भयात् नोक्तम्। क्रमज्याशब्दे २३०३ पृ० दर्शिते २ क्रमज्यारूपे पदार्थे च।

क्रान्तिपात = पु० क्रान्त्यर्थं पातः विषुवत्क्रान्तिवलययोः अश्वधातादिवत् चतुर्थ्यर्थे ६ त०। सि० शि० उक्ते क्रान्तिनिमित्ते विषुवत्क्रान्तिवृत्तयोः संपाते। सि० शि० तद्विवृतिर्यथा विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात्। तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे। अयनचलनं यदुक्तं मुञ्जालाद्यैः स एवायम्। तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्तुनन्दगोचन्द्राः। तत्संजातं पातं क्षित्प्वा खेटेऽपमः साध्यः। क्रान्तिवशाच्चरमुदयाश्चरदललग्नागमे तत क्षेप्यः सि० शि०। “क्रान्त्यर्थं पातः क्रान्तिपातः। पातो नाम सपातः। कयोः विषुवत्क्रान्तिवलययोः। नहि तयोर्मेषादावेव संपातः। किंतु तस्यापि चलनमस्ति येऽयनचलनभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्ति पातस्य भागाः। मेषादेः पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्ते विषुवद्वृत्तं लम्बमित्यर्थः। नहि क्रान्तिपातो नास्तीति वक्तुं शक्यते प्रत्यक्षेण तस्योपलब्धत्वात्। उपलब्धिप्रकारमग्रे वक्ष्यति। तत् कथं ब्रह्मगुप्तादिभिर्निपुणैरपि नोक्तः? इति चेत्। तदा खल्पत्वात् तैर्नोपलब्धः। इदानीं बहुत्वात् साम्प्रतैरुपलब्धः। अत एव तस्य गतिरस्तीत्यवगतम्। यद्येवमनुपलब्धोऽपि सौरसिद्धान्तोक्तत्वादागमप्रामाण्येन भगणपरिध्यादिवत् कथं तैर्नोक्तः? सत्यम् अत्र गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम्। तर्हि मन्दोच्चपातभगणा आगमप्रामाण्येनैव कथं तैरुक्ताः? इति नच वक्तव्यम्। यतो ग्रहाणां मन्दफलाभावस्थानानि प्रत्यक्षेणैवोपलभ्यन्ते। तान्येव मन्दीच्चस्थानानि। यान्येव विक्षेपाभावस्थानानि नान्येव पातस्थानानि। किं तु तेषां गतिरस्ति नास्ति वेति सन्दिग्धम्। तत्र मन्दोच्चपातानां गतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेन सिद्धा। सा च कियती तदुच्यते। यैर्मगणैरुपलब्धिस्थानानि तानि गणितेनागच्छन्ति तद्भगणसंभवा वार्षिकी दैनन्दिनी वा गतिर्ज्ञेया। नन्वेवं यद्यन्यैरपि भगणैस्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामाण्यम्। सत्यम् तर्हि साम्प्रतोपलब्ध्यनुसा रणी कापि गतिरङ्गीकर्तव्या। यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एवोत्पत्स्यन्ते। ते तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति। अत एवायं गणितस्कन्धो महामतिमद्भिर्धृतः सन्ननाद्यन्तेऽपि काले खिलत्वं न याति। अतोऽस्य क्रान्तिपातस्य भगणाः कल्पेऽयुतत्रयं तावत् सूर्यसिद्धान्तोक्ताः। तथा मुञ्जालाद्यैर्यदयनचलनमुक्तं स एवायं क्रान्तिपातः। ते गोऽङ्गर्तुनन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते। अथ च थे वा ते वा भगणा भवन्तु। यदा येऽंशा निपुणैरुलभ्यन्ते तदा स एव क्रान्तिपात इत्यर्थः। तं तिलोमगं क्रान्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या” प्रमिता०।

क्रान्तिवृत्त = न० सि० शि० उक्ते–क्रान्तिवलयाकारे वृतक्षेत्रे। तन्निवेशनप्रकारादि च गोलबन्धे तत्रोक्तं यथा “याग्योत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुवयष्टिबद्धम्। षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं नाड्याह्वयं च विषुबद्वलयं तदेव” सि० शि० यथा खगोले क्षितिजं याम्योत्तरं च तदाकारमपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं कार्यम्। तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं च “इदानीं क्रास्तिवृत्तमाह” प्रमि०। “क्रान्तिवृत्तं विधेयं गृहाङ्कं म्रमत्यत्र भानुश्च भार्धे कुभा भानुतः। क्रान्तिपातः प्रतीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्” सि० शि० “अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादिं प्रकल्प्य द्वादशराशयोऽङ्क्याः। तत् क्रान्तिवृत्तसंज्ञम्। तस्मिन् वृत्ते रविर्भ्रमति। तथा रवेर्भार्धान्तरे भूभा च। तथा तत्र क्रान्तिपातो मेषादेर्विलोमं भ्रमति। तथा ग्रहाणां विक्षेपपाताः प्रस्थुटा विलोमं भ्रमन्ति। अतः क्रान्तिपातादीनां स्थानानि तत्राङ्क्यानि। इदानीं क्रान्तिवृत्तस्य निवेशनमाह” प्रमि०

“क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं विदध्यादिदम्। पाततः प्राक् त्रिभे सिद्धभागैरुदग्दक्षिणे तैश्च भागैर्विभागेऽपरे” सि० शि० “क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्यम्। ते चिह्ने नाडीवृत्तेन संसक्ते कृत्वा पातचिह्नादग्रतस्त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंशत्योत्तरतो यथा भवत्यपरविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा भवति तथा बध्नीयात्”। प्रमि० अविकंक्रान्तिशब्दे दृश्यम्। क्रान्तिबलयक्रान्तिमण्डलादयोऽप्यत्र।

क्रान्तिसाम्य = न० ६ त०। ग्रहाणां तुल्यक्रान्तौ। यद्यपि सर्व ग्रहाणां क्रान्तिसाम्यमस्ति तथापि चन्द्रार्कयोः क्रान्तिसाम्यस्य मङ्गलकार्य्ये वर्ज्जनीयता १८६५ पृ० उपयमशब्दे विस्तरेण दर्शिता। क्रान्तिसाम्ये च ग्रहाणामवनत्यभावः सू० सि० दर्शितोयथा “अक्षोदग्मध्यभक्रान्तेः साम्ये नावनतेरपि” सू० सि०

“अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्नस्य क्रान्त्यंशाः। अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोनलग्नं वा ग्राह्यमुभयपक्षेऽप्यदोषः। अनयोस्तुल्यत्वेऽवनतेर्नतेः अपिशब्दाद् सम्भवो न अभाव इत्यर्थः” रङ्गनाथः।

क्रान्तिसूत्र = न० सि० शि० उक्ते ध्रुवस्पर्शिनि क्रान्तीनां सूत्राकारे योगभेदे। “सर्व्वतः क्रान्तिसूत्राणां ध्रुवे योगोभवेद्यतः। विषुवन्मण्डलप्राच्या ध्रुवे याग्या तथोत्तरा” सि० शि०।

क्रान्तु = पुंस्त्री क्रम–तुन् वृद्धिश्च। पक्षिणि उज्ज्वलद०।

क्रायक = त्रि० क्री ण्वुल्। १ क्रेतरि अमरः २ क्रयजीविनि भरतः तच्चिन्त्यं तत्र क्रयिक इत्येव साधु जीवतीत्यर्थे व्यस्तादपि क्रयशब्दात् ठन्विधानात्।

क्रावन् = त्रि० क्रम–वनिप् “विड्वनोरनुनासिकस्यात्” पा० सस्यात् क्रान्तरि “दधिक्रावणोऽकारिषं जिष्णोरश्वस्य वाजिनः” यजु० २३। ३२। स्त्रियां ङीप् रश्चान्तादेशः क्रावरी।

***