कोश(षं) = पुंन० अद्धच्चादि कुश्(ष)–आधारादौ घञ् कर्त्तरि अच् वा। १ अण्डे शब्दर०। कृताकृतयोः २ हेमरूप्ययोः अमरः। ३ कुट्मले मुकुले ४ खङ्गपिधाने। (खाप) ५ समूहे ६ दिव्यभेदे अमरः। मूर्द्धन्यमध्यस्तु अभिधानरूपे ७ शब्दपर्य्यायज्ञापकग्रन्थे मेदि० ८ धनाद्यागारे ९ पानपात्रे चषके १० शिम्बायां हेमच०। षनसादिमध्यस्थे (कोया) ख्याते ११ पदार्थे धर०। शब्दान्तरपूर्व्वस्तु गोलकाकारे १२ पदार्थे यथा “नेत्रकोषः” क्षीरस्वामी। तत्र खङ्गपिधाने “वैयाघ्रकोषे निहितो हेमचित्रत्सरुर्म्महान्”। “पृथुलश्चित्रकोशश्च” तस्य हेममये कोषे सुतप्ते षावकप्रभे” भा० वि० ४२ अ०। बहुशः प्रयोगः। धनागारे “निःशेषविश्राणितकोषजातम्” मुकुले “मामक्षिणोद् यत्र विभिन्नकोशैः” “भिन्नाद्रिगैरिकतटा इव दन्तकोशाः” रघुः १३ त्वगाद्यावरणे कोषवदावरकत्वात् “शरीरकोशाद्यत्तस्याः पार्वत्यानिःसृताम्बिका। कौशिकीति समाख्याता ततोलोकेषु गीयते” देवीमा०। १४ पिधानमात्रे “सुजातयोः पङ्कजकोशयोः श्रियम्” रघु। “कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्” सुश्रु० “योवा अयं द्वीपः कुवलयकमलकोषाभ्यन्तरकोशः:” भाग० ५। १६। ६। कोश(ष)पानदिव्यञ्च वीरमि० दर्शितोयथा “अथ कोश(ष)विधिः। तत्र “अतः पं प्रवक्ष्यामि कोश(ष)स्य विधिमुत्तमम्। शास्त्रविद्भिर्यथा प्रोक्तं सर्वकालाविरोधिनम्। पुर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च। सशङ्कस्याऽव्यसनिनः कोशपानं विधीयते। इच्छतः श्रद्दधानस्य देवव्राह्मणसन्निधाविति”। सशङ्कस्य असत्येन दिव्यकरणेऽनिष्टशङ्कायुक्तस्य कोशपानम्। उग्रदेवतास्नानोदकषानं देवतास्नानोदकञ्च प्रसृतित्रर्य ग्राह्यमित्याह चिष्णुः “उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेदिदम्मया न कृतमिति व्याहरन् देवतामिमुखः” इति। याशवक्ल्योऽपि “देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत्। संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयमिति”। उग्रान्देवान्दुर्गादित्यादीन्। तेषामन्यतमं देवं प्राड्विवाकः सोपवासो गन्धपुष्पादिभिः सम्प्रूज्य स्नापयित्वा तत्स्नानोदकं दिव्यदेशन्नयेदित्यर्थः। नीत्वा च तत्र निधाय धर्मावाहनादि शोध्यशिरसि पत्रारोपणार्न्तं सर्वदिव्यसाधारणविधिं विधाय देवतायतनसमीपे मण्डलञ्च विधाय तत्र शोध्यं प्राङमुखं स्थापयित्वा तमसत्येनैतद्दिव्यकरणेऽनिष्टं संश्राव्य जलविधानोक्तेन “तोय! त्वंप्राणिनां प्राणः” इत्यादिना मन्त्रेणाभिमन्त्र्य पूर्वनिहितोदवात् प्र सृतित्रयं पाययेत्। शोध्यश्च जलविधानोक्तेन “सत्यानृतविभागस्य” इत्यादिना मन्त्रेणाभिमन्त्र्य पिवेत्। तथा च नारदः “तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम्। आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयमिति”। पितामहोऽपि “प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम्। पूर्व्वोक्तेन विधानेन स्नानमात्रोचितं शुचिमिति”। कारिणं दिव्यकारिणं शोध्यमिति यावत्। पूर्व्वोक्तेन लकलदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः। नारदोऽपि “अर्चयित्वा तु तं देवं प्रक्षाल्य सलिलेन तु। एनश्च श्रावयित्वा तु पाययेत् प्रसृतित्रयमिति”। एनः पापम्। तच्च तत्प्रलापाभिधानमुखेन तेनैव दर्शितम्। “स्वेच्छया यः पिबेत्कोशन्न क्वचिद्दूषितो नरः। न संवदेन्नरो लोभात् क्षवी भवति दुर्मतिः। जानानः कामकारेण कोशम्पोत्वा विसंवदेत्। दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायते” इति। सशिरस्केऽभियोगे अभियोक्तुः श्राव्यमनिष्टमप्याह सएब “बलात्कोर्श हि यो दत्त्वा हितमिच्छेत चात्मनः। स विनाशो भवेत्तस्य तच्च कार्य्यंन सिह्यतीति”। एवं यस्य कस्यचिदुग्रदेवस्य स्नानोदकमाहृथ कोशानुष्ठाने प्राप्ने नियमार्थमाह पितामहः “भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम्। समभावे तु देवानामादित्यस्य तु पाययेत्। दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः। भास्करस्य तु यतोयं ब्राह्मणं तन्न पाययेदिति”। उग्रदेवतायुधानि स्नापयित्वा तदुदकं स्वल्पेऽपराधे षाययेत्। तथा च कात्यायनः “स्वल्पेऽपराधे देवानां पाययिस्वाऽऽयुधीदकम्। पाय्योविकारे चाशुद्धो नियम्यः शुचिरन्यथेति। पाय्यः पाययितत्यः। नियम्यो दण्ड्यः। आयुधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्युपलक्षणम् अतएव वृहस्पतिः “यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधमण्डलम्। प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयमिति” अत्र विशेषमाह पितामहः “दुर्गायाः पाययेच्छूलमादिव्यस्य तु मण्डलम्। अन्येषागपि देवानां स्नापयेदायुधानि त्विति”। कृतकोशपानस्य किं तत्कालमेव शुद्धिर्नेत्याह कात्यायनः “अथ दैवविसंवादस्तिसप्ताहात्तु दापयेत्। अभियुक्तं प्रयत्नेन तमर्थं दण्डमेवचेति”। दैवविसंवादः दैविकव्याध्युद्भवः। दैविकव्याध्यादीनपि स एव दर्शयति “ज्वरातिसारविस्फोटाः शूलास्थिपरिपीडनम्। नेत्ररुग्भालरोगश्च तथोन्मादः प्रजायते। सिरोरुभुजभङ्गश्च दैविका व्याधयोनृणामिति”। शुद्धिकाला- वधिं विष्णुरप्याह “यस्य पश्येद्द्विसप्ताहात् त्रिसप्ताहादयापि वा। रोगोऽग्निर्ज्ञातिमरणं राजदण्डमयापि वा। तमशुद्धं विजानीयात् तथा शुद्धं विवर्द्धयेत्। दिव्ये च शुद्धं पुरुषं सत्कुर्य्याद्धार्मिको नृपः” इति। पितामहोऽपि “त्रिरात्रात्सप्तरात्राद्वा द्विसप्ताहादथापि वा। वैकृतं यस्य दृश्येत पापकृत्स तु मानवः। तस्यैकस्य न सर्व्वस्य जनस्य यदि तद्भवेत्। रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावनेति”। तदोगवैकृतं कृतकोशपानस्यैकस्य यदि भवेत् तदैव स पापकृदिति न, किन्तु तदीयसर्व्वस्य जनस्य मध्येऽपि यदि कस्यचिद्भवेत् तदापीत्यर्थः। अतएव वृ हस्पतिः “सप्ताहाद्वा द्विसप्ताहाद्यस्यार्त्तिर्न प्रजायते पुत्रदारधनानाञ्च स शुद्धः स्यान्न संशयः” इति। याज्ञवल्क्योऽपि “अर्वाक्चतुर्दशादङ्गो यस्य नो राजदैविकम्। व्यसनञ्जायते घोरं स शुद्धः स्यान्न संशयः” इति। एतेषाञ्च त्रिरात्रादीनां पक्षाणाम् अभियीगाल्पत्वमहत्त्वाभ्यां व्यवस्था ज्ञातव्या। अवधेरूर्द्धन्तु रोगाद्युद्भवेऽपि न पराजयः तथा च नारदः “ऊर्द्ध्वं यस्य द्विसप्ताहाद्वैकृतन्तु महद्भवेत्। नाभियोज्यस्तु विदुपा कृतकालव्यतिक्रमादिति”। अत्र द्विसप्ताह इत्यवत्बिकालमात्रोपलक्षणम् कृतकालव्यतिक्रमहेतोरभिधानात्। तेनैकविंशतिरात्रस्यावधिकालत्वाश्रयणे चतुर्दशरात्रादूर्द्धमपि वैकृतोत्पत्तौ पराजयः एवं त्रिरात्रसप्तरात्रात् प्रागपि वैकृतोत्पत्तौपराजय इति सिद्धम् १५ कोषवदारकेषु वेदान्त प्रसिद्धेषु अन्नमयादिषु पञ्चसु पदार्थेवु अन्नमय प्राणमयः मनोमयः विज्ञानमयः आनन्दमयः इत्येते पञ्च पदार्था अनात्मकाः तेषाप्तात्मतोविवेकार्थं वेदान्तिभिः कल्पिताः। तत्र पञ्चकोषविवृतिः विवेकचूडामणौ “देहोऽयमन्नमवनोऽन्नमयस्तु कोषश्चान्नेन जीवति विनश्यति तद्विहीनः। त्वक्चर्म्ममांसरुधिरास्थिपुरीषराशि र्नायं स्वयं भवितुमर्हति नित्यशुद्धः। पूर्व्वं जनेरपि मृतेरधुनायमस्ति जातक्षणः क्षणगुणीऽनियतस्वभावः। नैकोजडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता। पाणिपादादिमान् देहो नात्मा व्यङ्ग्योऽपि जीवनात्। तत्तच्छक्तेरनाशाच्च न नियम्योनियामकः। देहतद्धर्म्मतत्कर्म्मतदवस्थादिसाक्षिणः। स्वतएव स्वतः सिद्धं तद्वैलक्षण्यमात्मनः। शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः। कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः। त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति। विलक्षणं वेत्ति विचारशीली निजस्वरूपं परमार्थभूतम्। देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवाऽविदुषस्त्वहंधीः। विवेकविज्ञानवतोमहात्मनो व्रह्माहमित्येव मतिः सदात्मनि। अत्रात्मबुद्धिं त्यज मूढवुद्धे! त्वङ्मासमेदोस्थिपुरीषराशौ। सर्व्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व। देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति यावत्। तावन्न तस्यास्ति विमुक्तिवार्त्ताप्यस्त्येष वेदान्तनयान्तदर्शः। छायाशरीरे प्रतिविम्बगात्रे यत् स्वप्नदेहे हृदि कल्पिताङ्गे। यथात्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च त थैव मास्तु। देहात्मवीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य वीजम्। यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा। कर्म्मेन्द्रियैः पञ्चभिरन्वितोऽयं प्राणो भवेत् प्राणमयस्तु कोषः। येनात्मवानन्नमयोऽन्न पूर्णात् प्रवर्त्त तेऽसौ सकलक्रियासु। नैवात्मापि प्राणमयो वायुविकारो गन्ता गन्ता वायुवदन्तर्व्धहिरेषः। यस्मात् किञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः। ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोषोममाहमिति वस्तुविकल्पहेतुः। संज्ञादिभेदकलनाकलितो बलीयांस्तत्पूर्ब्बकोषमभिपूर्य्यं विजृम्भते यः। पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानोविषयाज्यधारया। जाज्वल्यमानो बहुवासनेन्धनैर्मनोमयाग्निर्दहति प्रपञ्चम्। न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनोह्यविद्या भवबन्धहेतुः। तस्मिन् विनष्टे सकलं विनष्टं विजृम्भितेऽस्मित् सकलं विजृम्भते। स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मनएव सर्व्वम्। तथैव जाग्रत्यपि नो विशेषस्तत्सर्व्वमेत्न्मनसो विजृम्भणम्। सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित् सकलप्रसिद्धेः। अतो मनःकल्पितएव पुंसः संसार एतस्य न वस्तुतोऽस्ति। वायुना चीयते मेघः पुनस्तेवैव लीयते। मनसा कल्प्यते बन्धोमोक्षस्तेनैव कल्प्यते। देहादिसर्व्वविषये परिकलप्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन। वैरस्यमत्र विषवत् सुविधाय पश्चादेनं विमोचयति तन्मन एव बन्धात्। तस्मान्मन कारणमस्य जन्तोर्बन्धस्य मोक्षस्य च वा विधाने। बन्धस्य हेतुर्मलिनं रजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम्। विवेकवैराग्यगुणातिरेकाच्छुद्धत्वमासाद्य मनोविमुक्त्यै। भवत्यतोवुद्धिमतो मुमुक्षोस्ताभ्यां दृढाभ्यां भवितव्यमग्रे। मनो नाम महाव्याघ्रो विषयारण्यभूमिषु। चरत्यत्र न गच्छन्तु साधवो ये मुसुक्षवः। मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः। शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम्। असङ्गचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबध्य। अहंममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु। अध्यासदोषात् पुरुषस्य संसृतिरध्यासबन्धस्त्वमुनैव कल्पितः। रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत्। अतः प्राहुर्भनोऽविद्यां पण्डितास्तत्त्वदर्शिनः। येनैव भ्राम्यते विश्वं वायुनेवाब्भ्रमण्डलम्। तन्मनः शोधनं कार्य्यं प्रयत्नेन मुमुक्षुणा। विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते। मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म्म। सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः। मनोमयो नापि भवेत् परात्मा ह्याद्यन्तवत्त्वात् परिणामिभावात्। दुःखात्मकत्वाद्विषयत्वहेतोर्द्रष्टा हि दृश्यात्मतया न दृष्टः। बुद्धिवुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्त्तृलक्षणः। विज्ञानमयकोषः स्यात् पुंसः संसारकारणम्। अनुव्रजेच्चित्प्रतिविम्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः। ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम्। अनादिकालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा। करोति कर्म्माण्यथ पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि। भुङ्क्ते विचित्रास्कपि योनिषु व्रजन्नायाति निर्यात्यध ऊर्द्ध्वमेषः। अस्यैव विज्ञानमयस्य जाग्रत्स्वप्नाद्यवस्थासुखदुःखभोगाः। देहादिनिष्ठाश्रमधर्म्मकर्म्म गुणाभिमानः सततं ममेति। विज्ञानकोषोऽथमतिप्रकाशः प्रकृष्टसान्निध्यवशात् परात्मनः। अतोभवत्येव उपाधिरस्य यदात्मधीः संसरति भ्रमान्न। योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः। कूटस्थः सन्नात्मा कर्त्ता भोक्ता भवत्युपाधिस्थः। स्वयं परिच्छेदमुपेत्य बुद्धेस्तादात्म्यदोषेण परं मृषात्मनः। सर्व्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदोघटानिव। उपाधिसम्बन्धवशात् परात्मा ह्युपाधिधर्म्माननुयाति तद्गुणः। अयोविकारानविकारिबह्निवत् सटैकरूपोऽपि परः स्वभावात्। शिष्य उवाच। भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः। तदुपाधेरनादित्वान्नानादेर्नाशैष्यते। अतोऽस्य जीवभावेऽपि नित्या भवति संसृतिः।। न निवर्त्तेत, तन्मोक्षः कथं? भे श्रीगुरो! वद।। श्रीगुरुरुवाच। सम्यक् पृष्टं त्वया विद्वत्! सावधानेन तत् शृणु। प्रामाणिकी म भवति भ्रान्त्या मोहितकल्पना। भ्रान्तिंविना त्वसङ्गस्य निष्क्रि यस्य निराकृतेः। न वटेतार्थसम्बन्धो नभसो नीलतादिवत्। स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यगबोधानन्दरूपस्य बुद्धेः। भ्रान्त्या प्राप्तो जीवमावो न सत्यो मोहापाये नास्त्यवस्तु स्वभावः। यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्मितस्य प्रमादात्। रज्ज्वां सर्पोभ्रान्तिकालीनएव भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत्। अनादित्वमविद्यायाः कार्य्यस्यापि तथेष्यते। उपन्नायान्तु विद्यायामाविद्यिकमनाद्यपि। प्रबोधे स्वप्नवत् सर्व्वं सहमूलं विनश्यति। अनाद्यपीदं नो नित्यं प्रामभाव इव स्फुटम्। अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः। यद्बुद्ध्युपाधिसन्बन्धात् परिकल्पितमात्मनि। जीवत्वं न ततोऽन्यस्तत्स्वरूपेण विलक्षणः। सम्बन्धः स्वात्मनो बुद्ध्या मिय्याज्ञानपुरःसरः। विनिवृत्तिर्भवेत्तस्य संम्यग्ज्ञानेन नान्यथा। ब्रह्मात्मैकत्वविज्ञानं सम्यक् ज्ञानं श्रुतेर्म्मतम्। तदात्मानामनोः सम्यग्विवेकेनैव सिध्यति। ततोविवेकः कर्त्तव्यः प्रत्यगात्मसदात्मनोः। जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम्। यथा भाति, तथात्मापि दोषाभावे स्फुटप्रभः। असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत् प्रतीचः। ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः। अतीनायं परात्मा स्याद्विज्ञानमयशब्दभाक्। विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः। दृश्यत्वात् व्यभिचारित्वात् नानित्योनित्य इष्यते”। आनन्दमयकोषस्तु आनन्दमयकोषशब्दे ७२६ पृ० उक्तः धननिचयात्मककोषस्य राज्याङ्गतामाह “स्वाम्यमात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा। सप्त प्रकृतयोह्येताः सप्ताङ्गं राज्यमुच्यते। सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्। पूर्व्वं पूर्व्वं गुरुतरं जानीयाद्व्यसनं महत्” मनुः “स्वामी राजा अमात्योमन्त्र्यादिः। पुरं राज्ञः कृतदुर्गनिवासनगरं, राष्ट्रं देशः, कोषोवित्तनिचयः, दण्डो हस्त्यश्वरथपादातं, मित्रं त्रिविधं सप्तमाध्यायोक्तमित्येते सप्त प्रकृतयोऽङ्गानि सप्ताङ्गमिदं राज्यमित्युच्यते। ततः किमतआह सप्तानामिति। आसां राज्यस्य प्रकृतीनां सप्तानां क्रमिकोक्तानामुत्तरस्याविनाशमपेक्ष्य पूर्व्वस्वाविनाशरूपं व्यसनं गरीयोजानीयात्। तथाहि मित्रव्यसनात् स्वबलव्यसनं गरीयः सम्पन्नबलस्यैव मित्रा- नुग्रहे सामर्थ्यात्। एवं वलात् कोषोगरीयान् कोषनाशे बलस्यापि नाशात्। कोषाद्राष्ट्रं गरीयः राष्ट्रनाशे कुतः कोषोत्पत्तिः। एवं राष्ट्राद्दुर्गं गरीयः दुर्गादेव यवसेन्धनादिसम्पन्नाद्राज्यरक्षासिद्वेः। दुर्गादमात्यो गरीयान् प्रधानामात्यनाशे सर्वाङ्गवैकल्यात्। अमात्यादपि आत्मा सर्वस्यात्मार्थत्वात्” कुल्लू० कोषसञ्चयस्यावश्यकता युक्तिकल्पतरौ दर्शिता यथा “कोषो महीपतेर्जीवो न तु प्राणाःकथञ्चन। द्रव्यं हि देहो भूपस्य न शरीरभिति स्थितिः। धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च। आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा। धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते। नाधनस्य भवेद्धर्म्मः कामश्चैव कथञ्चन। अधर्म्मान्निधनं कुर्य्यातद्धनं गृह्यते परैः। स्वयं पापस्य पात्र स्यात्सिंहो हस्तिबधादिव। तादात्मिको मूलहरः कदर्य्यस्त्रिबिधोऽर्जकः। उत्पन्नार्थव्ययकरो यो मविष्यद्धनाशया। स तादात्मिक आख्यातः कल्याणी तस्य नायतिः। यः पित्राव्यर्ज्जितं वित्तमन्यायेन तु भक्षयेत्। स मूलहर आख्यातस्तदुदर्कोऽपि चाशुभः। स कदर्य्यस्तु भृत्यात्मपीडनैरर्थसञ्चयी। तद्वनं राजदायादतस्कराणां निधिर्भवेत्। भिक्षा च राजकोषश्च स्तोकस्तोवेन वर्द्धते। अञ्जनञ्च धनञ्चैव स्तोकस्तोकेन हीयते। कोषस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम्। भूगुणैर्वर्द्धते राष्ट्रं तद्वृद्धिर्नृपवृत्तता। राज्ञोपायेन संरक्ष्या ग्रामे ग्रामे कृषीवलाः। तेभ्यः कृषिस्ततश्चार्था अर्थेभ्यः सर्वसम्पदः। शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा। तथा वर्षेषु वर्षेषु कर्षणात् भूगुणक्षयः। एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत्”। तत्सञ्चयोपायाश्च भा० शा० ८८ अ० दर्शिताः यथा “यदा राजासमर्थोऽपि कोषार्थे स्यान्महामते!।” इत्यादि युधिष्ठिरप्रश्ने भीष्मोक्तिः “यथादेशं यथाकालं यथाबुद्धि यथाबलम् अनुशिष्यात् प्रजा राजा धर्म्मार्थी तद्धिते रतः। यथा तासाञ्च मन्येत श्रेय आत्मन एव च। तथा कर्म्माणि सर्व्वाणि राजा राष्ट्रेषु वर्त्तयेत्” इत्युपक्रमे “मदुदोहमित्याद्युक्तं” तच्च करशब्दे १६८७ पृ० दर्शितम्। तत्र ९० अ० इत्युक्तिः प्रामादिकी ८८ अ० इत्येव साधु। ततः परं कियदन्तरे “प्रयोगं कारयेयुस्तान् यथा बलिकरांस्तथा। कृषिगोरक्षबाणिज्यं यच्चान्यत् किञ्चिदीदृशम्। पुरुषैः कारयेत् कर्म्म बहुभिः कर्म्मभेदतः। नरश्चेत् कृषिगोरक्षाबाणिज्यञ्चाप्यनुष्ठितौ। संशयं लभते किञ्चित्तेन राजा विगर्ह्यते। धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः। बक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै। अङ्गमेतन्महद्राज्ये धनिनो नाम भारत!। ककुदं सर्वभूतानां धनस्थो नात्र संशयः। प्राज्ञः शूरो धनस्थश्च स्वामी धाम्मि क एव च। तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति। तस्मात् सर्वेषु भूतेषु प्रीतिमान् भव पार्थिव!। सयमार्ज्जवमक्रोधमानृशंस्यञ्च पालय। एवं दण्डञ्च कोषञ्च मित्रं भूमिञ्च लप्स्यसे। सत्यार्ज्जवपरो राजन्मित्रकोषबलान्वितः”। १६ तदाधारे गृहे जटा० (खाजनाघर) “तस्मात्द्विजेन्धोदत्त्वार्द्धमर्द्धं कोषे निवेशयेत्” मनुः। १७ भेघे निघ०।
कोश(ष)कार = पु० कोशं(षं)करोति कृ–ण्वुल् उप० स०। १ खड्गाद्यावरणकारके स्त्रियां टाप् सि० कौ० तस्य पत्नी ङीष्। मुग्धबोधमते ईप्। “नेरृत्यै कोषकारीम्” यजु० ३०। १४। “खड्गावरणकोश(ष)कारिणीम् स्त्रियम्” वेददी०। २ इक्षुभेदे शब्दरत्ना०। कोषं स्ववेष्टनं तन्तुभिः करोति कृ–अण्। ३ कींटभेदे (गुटिपोका)। “संवेष्टमानं बहुभिः मोहात्तन्तुभिरात्मजैः। कोषकारमिवात्मानं वेष्टयन्नाववघ्यते” भा० शा० ३३१ अ०।
कोश(ष)कृत् = त्रि० कोषं खङ्गाद्यावरणं वेष्टनं वा करोति कृ–किप् ६ त०। १ कोषकारार्थे। २ इक्षुभेदे सुश्रुतः “नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोषकृत्” सुश्रु० इक्षुभेदोक्तौ
कोश(ष)चञ्चु = पु० कोशः चञ्चौ यस्य। सारसपक्षिणि शब्दच०
कोश(ष)पाल = पु० कोषं राज्याङ्गघनसंचयं पालयति पालिअण् उप० स०। कोषरक्षके तल्लणसुक्तं हेमा० परि० ख० लक्षणसमुच्चपे। “घातुवस्त्राजिनादीनां रत्नानां प्रविभागवित्। विज्ञाता फल्गुसाराणामसंहार्स्यः शुचिः सदा। निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीत्तितः। आयद्वारेषु सर्व्वेषु घनाध्यक्षसमानराः। व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवीक्षिता। आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः। कृताकृतक्षो भृत्यानां ज्ञेयः स्यादर्थरक्षकः”। “निर्यान्तु कोश(प)पालाश्च कुरुक्षेत्राश्रमं प्रति” भा० आश्र० २२ अ०। ण्वुल् कोश(ष)पालकोऽप्यत्र।
कोश(ष)फल = न० कोशे(षे)फलमस्य। कक्कोले अमरः २ महाकोषातक्याम् स्त्री अजा० टाप्। ३ त्रपुव्यां च स्त्री राजनि० गौरा० ङीप्।
कोशयी = पु० कुश–वा० अयी। स्वर्ण्णादिपूर्ण्णे। “कोशयीर्दश वाजिनोऽदात्” ऋ० ६। ४७। २२। छान्दसः प्रयोगः
कोश(स)ला = स्त्री कुश(स) वृषा० कल नि० गुणः। १ सरयूतटस्थायामयोध्ययां पुर्य्यां २ तद्युक्त देशे पु० ब० व०। “कुन्तलाः काशिकोश(स)लाः” भा० भी० ९ अ० जनपदकथने। पूर्व्वदिक्स्थदेशभेदेषु प्राच्यकोशलेषु पु० ब० व० ते च कोशलकावर्द्धमानश्च” वृ० व० कर्म्मविभागे पूर्व्वस्यामुक्ताः। क्वचि देकत्वमपि। “कोश(स)लोनाम मुदितः स्फीतोजनपदोमहान्। निविष्टः सरयूतीरे पशुधान्यसमृद्धिमान्” रामा० १। ५। ५। कोशलदेशोद्विविधः प्राच्योत्तरभेदाद् तत्र अयोध्यायुक्तदेशस्योत्तरकोशलत्वम् “पितुरनन्तरमुत्तरकोशलान्” “तस्मै विसृज्योत्तरकोश(स)लानाम्” “प्रियासखीरुत्तरकोशलेश्वरः” रघुः प्राच्यकोशलास्तु कोसलशब्दे वक्ष्यते। तद्देशस्य राजाञ्य। कौस(श)ल्य कोशलदेशनृपे। “कौ(श)सल्यवृत्युत्तरको(श)सलानाम्” रघुः स्त्रियां टाप् कौसल्या। “कौसल्यानन्दिवर्द्धनोरामः” रामा०
कोश(म)लात्मजा = स्त्री कोश(स)लाः पूर्व्वकोश(स)लदेशः लक्षणया तदधिपः तस्यात्मजा। प्राच्यकोसलाधिपनृपसुतायाम् राममातरि शब्दर०
कोशलिक = न० कुशलाय कर्म्मणे दीयते ठक् पृषो० ओत्त्वम्। निजकार्य्यसाधनार्थं राजादिकार्य्यकरेभ्योदीयमाने उत्कोचे (घुस) हेम० कौशलिकमिति पाठान्तरं साधु
कोश(ष)वत् = त्रि० कोषः(शः)अस्त्यस्य मतुप् मस्य वः। १ कोश(ष)युक्ते। “धर्म्मात्मा कोषवांश्चापि देवराज इवापरः” भा० आनु० २ अ०। स्त्रियां ङीप् कोश(ष)वती सा च २ कोषातकीदृक्षे “दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन” “शुकाख्याकोषवत्योश्च मूलं मदन एव च” “जीमूतकैः कोशवतीफलैश्च दन्तीद्रवन्तीत्रिवृतासु चैव” इति च सुश्रु०
कोश(ष)वासिन् = पु० कोशे(षे)वत्तति वस–णिनि ७ त०। कोषाभ्यन्तरस्थे जन्तुभेदे “कोशवासिनां पादिनां च तदेव” (अनुपानम्) सुश्रु० कोशस्थशब्दे विवृतिः
कोश(ष)वृद्धि = पु० कोषस्य मुकुलस्य वृद्धिर्यत्र। १ कुरण्डक वृक्षे। ६ त०। २ अण्डकोषवृद्धौ रोगभेदे ३ धनसञ्चयवृद्धौ च स्त्री
कोश(ष)शायिका = स्त्री कोषे(शे) पिधानमध्ये शेते शी ण्वुल् ७ त० अतैत्त्वम्। छुरिकायां जटाधरः
कोश(ष)स्कृत् = पु० कोशं(षं)करोति कृ–क्विप्नि० सुट्। कोषकारके जन्तुभेदे (गुटिपोका) “त्यजेत् कोश(ष)स्कदिवेह मानः” भाग० ७। ४। ११ “कोश(ष)स्का कोशकारः” श्रीधरः
कोश(ष)स्थ = पु० कोशे(षे)तिष्ठति स्था–क ७ त०। सुश्रुतोक्ते शङ्घादिके जन्तुभेदे। “आनूपवर्गस्तु पञ्चविधः” इत्युपक्रम्य कोशस्था इत्युदिश्य “शङ्ख शङ्खनख शुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः पादिनश्च” इत्युक्त्वा कूर्म्मादींश्चोक्त्वा तन्मांसगुणाउक्ता यथा “शङ्खकूर्म्मादयः स्वादुरसगन्धा मरुन्नुदः। शीताःस्निग्धा हिताः पित्ते वर्चस्याः श्मेष्मवर्द्धनाः”
कोशा(षा)गारं = न० ६ त०। धनागारे (खाजनाघर) “कोषागारमायुधागारमश्वशालां हस्तिशालाञ्च क्रुद्धः” भा० व० १९७ कोश(ष)गृहादयोऽप्यत्र न०
कोशा(षा)ङ्ग = न० कोशः(षः)इवाङ्गमस्य। बहुमूले इत्कटौ(ओकडा)क्षुपमेदे हारा०
कोशा(षा)तक = पु० कोश(ष)मतति अत–क्वुन्। १ कठे वेदशाखाभेदे २ पटोल्याम् घोषके (तरुइ) (झीडग) ख्याते शाकभेदे स्त्री मेदि० गौरा० ङीष्। भावप्र० इयं राजसेव्यत्वात् महत्त्वाद्वा राजोपपदा निर्द्दिष्टा “धामार्गवः पीतपुष्पा जालिनी कृतवेधना। राजकोशातकी चेति तथोक्ता राजिमत्फला। राजकोशातकी शीता मधुरा कफवातला। पित्तघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत्” “कोषातकीवल्लिभवाऽग्रपल्लवास्तक्रेण युक्ताः सुघृतेन संस्कृताः। सम्भर्जिताः सैन्धवहिङ्गुसाधिते तैलेऽतिरुच्या बहुपुष्टिदायकाः” तस्याः फलम् अण् हरीतक्या० लुप्। तत्फले स्त्री “कोशातकीप्तष्पगु लुच्छकान्तिभिः” माघः
कोशा(षा)म्र = पु० को(शे)षे आम्र इव। १ फलप्रधानवृक्षमेदे (कोशाम) “कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः। तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम्। पक्वं तु दीपनं रुच्य लघूष्णं कफवातहृत्” भावप्र०। (केओड) २ फलवृक्षे राजवल्लभः
कोशि(षि)न् = त्रि० कोश(ष) + अस्त्यर्थ इनि। १ कोश(ष)युक्ते आमोपपदकोशी तु सुश्रुतोक्ते कर्ण्णनन्धनजे रोगभेदे “बद्धमात्रस्तु यः कर्ण्णं सहसैवाभिवर्द्धयेत्। आमकोशी समाख्यातः क्षिप्रमेव विमुव्यते”। २ आम्रवृक्षे पु० शब्दमाला।
कोशि(षि)ला = स्त्री कोश + अस्त्यर्थे पिच्छादित्वाद् इलच्। मुद्गपर्ण्याम् राजनि०
कोशी(षी) = स्त्री कुश–(कुष) अच् गौरा० ङीष्। १ चर्म्मपादुकायाम् २ धान्याद्यग्रभागे च (शुङ्गा) हेम०
कोश्य(ष्य) = त्रि० कोशे हृदयकोशे(षे)भवः यत्। हृदयकोश मांसपिण्डे “शिङ्गानि कोश्याभ्याम्” यजु० ३९२८ “कोश्याभ्यां हृदयस्थ मांसपिण्डाभ्याम्” वेददी०
कोष = पु० न०। कुष–पचादि० अच्। १ कोशशब्दार्थे कोशशब्दे विवृतिः। २ ऋषिभेदे। “अथोह कोषा धावयन्तः शत० ब्रा० १०। ५। ५। ८ “कोषानाम ऋषयः” भा०।
कोषक = पु० कोष–स्वार्थे क। अण्डकोषे शब्दर०
कोषला = स्त्री० कोष–अलच्। अयोध्यायां पुर्य्यां शब्दरत्ना०
कोष्ठ = पु० कुष–थन्। १ गृहमध्ये, २ उदरमध्ये, ३ धान्यादिस्थापने ४ कुशूले च (कुठी) ५ आत्मींये त्रि० मेदि० “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च। हृदुण्डुकः पुप्पुषश्च कोष्ठैत्यभिधीयते” ६ सुश्रुतोक्ते आमाग्निपक्वमूत्र रुधिरस्थाने “प्रवाहिका शिरः शूलं कोष्ठशूलञ्च दारुणम्” “चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्” सुश्रु० “भुक्तं भुक्तमिदः कोष्ठे कथमन्नं विपच्यते” भा० आश्र० ५७ श्लो० “पतिं भार्य्योपतिष्ठेत ध्यायेत् कोष्ठगतं यथा” भा० भी० ६। १८। ५२। अकथहादिचक्रचतुःपार्श्वस्थरेखाचतुष्कान्विते ७ स्थानभेदे अकथहशब्दे ३८ पृ० उदा०। ८ पदे स्थानमात्रे “पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम्। यत् पञ्चविपणम् क्षेत्रं पञ्चप्रकृतिस्त्रीधरम्। पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रमो!। तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसंग्रहः। विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया” भाग० ४। २८। ५१। ५२। ५२। कुशूले “जरत्कोष्ठाद्व्रीहीञ्छर्कराभिमिश्रानाहरति” कौषीतकिब्रा०
कोष्ठागार = न० कोष्ठमगारमिव। धान्यधनादेःस्थापने गृहे (कुठी) “कोष्ठागारायुधागारदेवतागारभेदकान्” मनुः “कोष्ठागारं तु ते नित्यं स्फीतं धान्यैः सुसंवृतम्। सदास्तु सत्सु संन्यस्तं धनधान्यपरोभव” भा० आ० ११९ अ०
कोष्ठागारिक = त्रि० कोष्टागरे भवः तत्र नियुक्तोवा बा० ठन्। १ कोष्ठागारभये। “अत्यर्थं स्रवति रक्ते कोष्ठागारिकाङ्गार मृत्पिण्डेत्यादि” सुश्रु० २ कोष्ठागारे नियुक्ते च।
कोष्ठागारिन् = पु० कोष्ठरूपमागारमिवास्त्यस्य इनि। कीटभेदे “कोष्ठागारी कृमिकरश्च मण्डलपृथुकः” सुश्रुते प्राणनाशककीटोक्तौ
कोष्ण = न० ईषदुष्णम् कोः कादेशः। १ ईषदुष्णस्पर्शे २ तद्वति त्रि० अमरः। “भुवं कोष्णे न पीनोध्री शेध्नेघावभृथा दपि” रघुः “घृतेन सा शान्तिसुपैति जिह्वा कोष्णेन यष्टीमधुकान्वितेन” “शोथं सतोदं कोष्ठेन सर्पिषा परिषेचयेत्” सुश्रु०
कोसल = पु० ब० व०। कुस–अलच्। देशभेदे। तेऽभिजनोऽस्य तेषां राजा वा ष्यञ्। कौसल्य पित्रादिक्रमेण तद्देशवासिनि बहुषु तस्य लुक् कोसलाः। कोशलशब्दे विवृतिः। कोसलदेशश्च द्विविधः पूर्व्वोत्तरभेदात् “कोसलाधिपतिं चैव तथा वेण्वातटाधिपम्। कान्तारकांश्च समरे तथा प्राक्कोसलान्नृपान्” मा० स० ३० अ० “दक्षिणाये च पाञ्चालाः पूर्व्वाः कुन्तिषु कोसलाः” १३ अ० उत्तरकोसलास्तु कोशलशब्दे। र्निताः
कोहल = पु० कौ हलति स्पर्द्धते अच् पृषो०। १ वाद्यभेदे मेदि० २ मद्यभेदे च हेम० ३ नाटकशास्तकर्पृमुनिभेदे तस्यापत्यम् शिवा० अण्। कौहल तदपत्ये पुंस्त्री० डलयोरैक्यात् कोहडोऽप्वत्र
कोहनीय = पु० ऋषिभेदे “उपयातायार्घ्यमिति कोहनीयाः” गीभि० गृ० सू०। उपयातायाच र्य्यंसमीपं गतायार्घ्यं देयमिति कोहनीया आचार्य्या आहुः” सं० त० रघुनन्दनः
कोहित = पु०। ऋविभेदे। ततोऽपत्ये शिवा० अण्। कौहित तदपत्ये पुंस्त्री०
कौकिली = स्त्री कोकिलेन दृष्टा अण्। कोकिलर्षिदृष्टायां सौत्रामण्याम्। “द्वे सौत्रामण्यौ कोकिली चरकसौत्रामणी च” लाग्या० श्रौ० सू०।
कौकुट्टक = पु० व० ब०। देशभेदे स च दक्षिणस्थः। “अथापरे जनपदा दक्षिणा भरतर्षभ!” इत्युपक्रमे “कौकुट्टकास्तथा कोलाः कौङ्कणाः मालवानवाः” भा० भी० ९ अ०।
कौकुन्तक = पु० ब० व०। जनपदभेदे।
कौकुर = पु० ब० व०। कुकुराणां देशः अण्। १ देशभेदे। “अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह” भा० सभा० ५१ अ०। कुकुराः यादवभेदाएव स्वार्थे अण्। कुकुरवंश्ये २ नृप्रभेदे। “श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजान्धककौकुरान्” भा० मौ० ५ अ०।
कौकृत्य = न० कुत्सितं कृत्यं स्वार्थे अण्। १ अयुक्तकरणे २ अंनुतापपिवये च मेदि०।
कौक्कुटिक = पु० कुकुटीं मायां, पादपतनदेशञ्च पश्यति ठक्। १ दाम्भिके, कीटादिबधभीत्या पादक्षेग्रस्थानमात्रद्रष्टरि संन्यामिनि च मेदि०। सन्यासी हि हिंसाभयात् पादन्यास प्रदेशपर्य्यन्तमेव पश्यन् दूरात् चक्षुः संयम्य यातीति तथात्वम्।
कौक्कुटिकन्दल = पुं स्त्री कुक्कटस्यायम् इञ् कौकुट्टिः स इव कन्दलः। (वेडासाप) सर्पभेदे त्रिका० स्त्रियां ङीष्।
कौक्ष = त्रि० कुक्षौ बद्धः असिभिन्नः। कुक्षिवद्धे अलङ्कारादौ
कौक्षक = त्रि० कुक्षौ देशभेदे भवः धूमा० वुञ्। कुक्षिदेशभवे
कौक्षेघ = त्रि० कुक्षौ भवः “वृतिकुक्षीत्यादिना” पा० ढञ्। कुक्षौ भवे। “असिं कौक्षेयमुद्यम्य चकारापनसं मुखम्” भट्टिः
कौक्षेयक = पु० कुक्षौ वद्धः असिः ढकञ्। कुक्षिबद्धे खङ्गे “कौक्षेयकेण सन्निहितविषधरेणेव चन्दनलता” काद०। “बद्धतीक्ष्णकौक्षेयक” दशकुमा०।
कौङ्क = पु० कोङ्कएव स्वार्थे अण्। कोङ्कणदेशे शब्दरत्ना०
कौङ्कण = पु० ब० व०। कोङ्कण + स्वार्थे अण्। १ कोङ्कणदेशे “कौङ्कणाः मालवानपाः” भा० भी० ९ अ०। तस्य राजा अण् २ तद्देशनृपे च।
कौङ्किण = न० ब० व०। कोङ्कण + पृषो०। कोङ्कणदेशे शब्दर०।
कौञ्च = पु० क्रुञ्चएव स्वार्थे अण् पृषो०। क्रौञ्चपर्व्वते त्रिका०।
कौञ्जायन्य = पु० कुञ्जा० गोत्रापत्ये चफञ् ततः स्वार्थे ञ्य। १ कुञ्जर्षिगोत्रापत्ये स्त्रियान्तु न ञ्य किन्तु गोत्रप्रत्ययान्तत्वात् ङीष् कौञ्जायिनी सा च २ ब्राह्मण्याम् जटाधरः।
कौञ्जि = पुंस्त्री० कुञ्जस्यर्षेरनन्तरापत्यम् अतैञ्। कुञ्जर्षेरनन्तरापत्ये स्त्रियां वा ङीप्।
कौट = त्रि० कूटे अद्रिशृङ्गे भवः उत्सा० अञ्। १ कुटजवृक्षे (कुरची) भावप्र० कुट्यां प्रायभवः अण्। २ स्वतन्त्रे त्रि०। कूटस्य भावः अण्। ३ मिथ्याकथने ४ मिथ्यासाक्ष्ये च
कौटकिक = त्रि० कूटमेव कूटकं मांसकूटं तत्पण्ठमस्य ठञ्। मांसविक्रेतरि शब्दरत्ना०
कौटज = पु० कुटमेव कौटं तत्र जातः। कुटजवृक्षे रायमुकुटः
कौटजभारिक = त्रि० कुटजस्य भारं हरति वहत्यावहति वा वंशा० ठञ्। १ कुटजभारहारिणि २ तद्वाहके ३ तदावहके च
कौटजिक = त्रि० कुटजं भारभूतं हरति वहति आवहति वा ठञ्। भारभूतकुटजस्य १ हारके २ वाहके ३ आवाहके च
कौटतक्ष = पु० कोटः स्वतन्त्रः तक्षा टच् समा०। स्वतन्त्रे तक्षणि
कौटल्य = न० कुट–कलच् स्वार्थे ष्यञ्। कौटिल्यशब्दार्थे हेमच०
कौटसाक्ष्य = न० कूटसाक्षिणोभावः कर्म्म वा ष्यञ्। मिथ्यासाक्ष्ये “कौटसाक्ष्यं सुहृद्बधः” मनुना सुरापाणसमानतोक्त्या तस्यानुपातकमा। कौटसाक्ष्यदण्डश्च मनुना दर्शितो यघा “यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत्। तत्तत् कार्य्यं निवर्त्तेत कृतञ्चाप्यकृतं भवेत्। लोभान्मोहाद्भयान्मैत्रात् कामात् क्रोधात्तथैव च। अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते। एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत्। तस्य दण्डविशेषांश्च प्रवक्ष्याम्य- नुपूर्व्वशः। लोभात् सहस्र दण्ड्यश्च मोहात् पूर्व्वन्तु साहसम्। भयाद्वै मध्यमं दण्ड्यो मैत्रात् पूर्व्वं चतुर्गुणम्। कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम्। अज्ञानाद् द्वे शते पूर्णे बालिश्याच्छतमेव तु। एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिमिः। धर्म्मस्याव्यभिचारार्थमधर्म्मनियमाय च। कौटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः। प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत्”।
कौटि = पुंस्त्री कूटस्यापत्यम् इञ्। कूटस्य मिथ्याशंसिनोऽपत्ये स्त्रियां तु क्रौड्यादि० ष्यङ्। कौट्या
कौटिक = त्रि० कूटेन मृगबन्धनयन्त्रेण चरति ठक्। मांसविक्रयोपजीविनि अमरः। कूट + चतुरर्थ्यां कुमु० ठक्। कूटसन्निकृष्टदेशादौ त्रि०।
कौटिलिक = त्रि० कुटिलिका व्याधानां गतिभेदः कर्म्मारोप करशभूतं लौहञ्च तया हरति मृगान् अङ्गारान् वा। “अण् कुटिलिकायाः” पा० अण्। १ व्याधे २ कर्म्मकारे च सि० कौ०।
कौटिल्य = न० कुटिलस्य भावः ष्यञ्। १ वक्रीभावे “नित्यं कौटिल्ये गतौ” पा०। “कौटिल्यं कचनिचये करचरणाधरत लेषु रागस्ते” का० प्र० तच्चोपपातकम् “कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्” या० स्मृतेः। उपपातकशब्दे विवृतिः। स्वार्थे ष्यञ्। २ चाणक्यमुनौ पु० राजनि० “आकर्ण्य आःज्ञातम्। कौटिध्वः–कुटिलमतिः स एष येन क्रोधाग्नौ प्रसभमदाहि नन्दवंशः” मुदाराक्षसम्
कौटीगव्य = पुंस्त्री कुटीगोरृषिभेदस्य गोत्रान्यम् गर्गा० यञ्। कुटीगोरृषेर्गोत्रापत्ये। तस्य छात्रः कण्वादि० अण यलोपः। कौटीगव, तच्छात्रे।
कौटीय = त्रि० कूट + चतुरर्थ्यां कृशाश्वा० छणु। कूटसन्निकृष्टदेशादौ
कौटीर्य्य = त्रि० कुटीरः केवल एव स्वार्थे ष्यञ। केवले असहाये। कोटिरीर्य्या यस्याः। २ दुर्गायाम् स्त्री “कौटीर्य्यां मदिरां चण्डामिलां मलयवासिनीम्” हरिवं० १७८ अ०
कौटुम्ब = त्रि० कुटम्बं तद्भरणं प्रयोजनमस्य अण्। कुटुम्ब भरणोपयोगिद्रव्ये। आहरेदित्यनुवृत्तौ “अन्यथा कौटुम्बम्” आश्व० गृ० सू० २, ६, १०,
कौटुम्बिक = त्रि० कुटम्बे तद्भरणे प्रसृतः ठक्। कुटुम्बभरणेव्यापृते “कौटुम्बिकः क्रुध्यति वै जनाय” भाग० ५५, १३, ९,। कुटुम्बे भवः ठक्। २ कुटुम्बमध्यपातिनि। “यत्र कौटुम्बिका दारापत्यादयोनाम्ना, कर्म्मणा वृकशृगाला एव” भाग० ५, १४, ५,
कौट्या = स्त्री कूटस्यापत्यम् इञ् स्त्री कौटिः सैव क्रौड्या ष्यङ् १ कूटापत्यस्त्रियाम् कूट + चतुरर्थ्याम्। संङ्काशा० ण्य। २ कौट्य कूटसन्निकृष्टदेशादौ त्रि०
कौठारिकेय = त्रि० स्वल्पा कुठारी कुठारिका तस्याः इदम् शुभ्रा० ढक्। स्वल्पकुठारसम्बन्धिनि
कौडविक = त्रि० कुडवस्य वापः ठञ्। कुडववापयोग्ये क्षेत्रादौ कुडवं तत्परिमितमन्नं सम्भवति पचति अवहरति वा ठक्। २ स्वस्मिन् कुडवमितान्नसमावेशके कटाहादौ ३ तत्पाचके सूदादौ ४ तदवहारके च स्त्रियां ङीप्। कुडवः परिमाणमस्य ठञ्। ५ कुडवपरिमिते। संख्यापूर्ब्बकत्वे पूर्ब्बपदस्य न वृद्धिः द्विकौडवेकः। अद्धपूर्ब्बकस्य तु वा वृद्धिः आ(अ)र्द्धकौडविकः। असंज्ञायान्तु ठञोलुक्। द्विकुडवम् अर्द्धकुडवम् इत्यादि।
कौडेयक = त्रि० कुद्ड–काकर्श्ये ण्यत् संयोगादिलोपः कुड्या तत्र जातादि कत्त्र्या० ढकञ् “कुड्याया यलोपश्च” पा० ग० यलोपः। कार्कर्श्यकरणार्हायां भूमौ जातादौ
कौणकुत्स्य = पु० ऋषिभेदे। “भरद्वाजः कौणकुत्स्य आर्ष्णिषेणोऽथ गौतमः” मा० आ० ८ अ०।
कौणप = पु० कुणपः शवः भक्ष्यत्वेन विद्यतेऽस्य, अण्कुणपस्तद्भक्षणं शीलमस्य ण वा। राक्षसे अमरः “न कौष्णपाः शृङ्गिणो वा न देवा नच भा० आ० १७० अ० मानुषाः” स्त्रियां ङीष्
कौणपदन्त = पु० कौणपस्य दन्ताइव दन्ता अस्य। भीष्मे त्रिका०
कौणपाशन = पु० कौणपानामशनमिवाशनमस्य। सर्पभेदे “हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः” भा० आ० ३५ अ० नागनामोकौ
कौण्डपायिन् = पु० ब० व० कुण्डमेव कौण्डं तेन पिबत्ति सोमं पा–णिनि। सोमयागकारियजमानभेदेषु।
कौण्डपायिन = न० कुण्डपायिनामिदम् अण् नि० प्रकृतिभाबः। कुण्डपायिनां (कुण्डेन सोमपायिनाम्)सम्बन्धिनि अयनरूपे सत्रभेदे कुण्डपायिनामयनशब्दे विवृतिः।
कौण्डल = त्रि० कुण्डलमस्त्यस्य ज्योत्स्ना० अण्। कुण्डल युक्ते त्रि० स्त्रियां ङीष्।
कौण्डलिक = त्रि० कुण्डल + चतुरर्थ्या कुमु० ठक्। कुण्डल सन्निकृष्टदेशादौ
कौण्डाग्नक = त्रि० कुण्डस्येदमण् कौण्डे अग्नौ भवः वृद्धाद्यग्न्युत्तरपदत्वात् वुञ्। कुण्डसम्बन्धिबह्निभवे
कौण्डायन = त्रि० कुण्डस्यादूरदेशादि पक्षा० चतुरर्थ्यां फक्। कुण्डसन्निकृष्टादेशादौ
कौण्डिनेयक = त्रि० कुण्डिने जातादि कत्त्र्या० ढकञ्। कुण्डिननगरजातादौ
कौण्डिन्य = पुं स्त्री कुण्डिनस्यर्षे र्गोत्रापत्यं गर्गा० यञ्। कुण्डिन गोत्रापत्ये। “कौण्डिन्यात् कौण्डिन्य” शत० ब्रा० १४। ५। ५। २०। स्त्रियां तु ङीपि यलोपः “पाराशरकौण्डिनीपुत्रात् पाराशरकौण्डनीपुत्रः” शत० ब्रा० १४। ९। ४। ३० वंशब्राह्मणे। कुण्डिनस्य युवापत्यम् गर्गा० यञि यञन्तात् फक्। कौण्डिन्यायन कुण्डिनस्य युवापत्ये पुंस्त्री “कौण्डिन्यायनाच्च कौण्डिन्यायनः” शत० ब्रा० १४। ५५। २०। कौण्डिन्यस्य छात्रः कण्वा० अण् यलोपश्च। कौण्डिन कौण्डिन्यस्यछात्रे। बहुषु अणोलुक् कुण्डिनादेशश्च कुण्डिनः। स्त्रियां तु न लुक् किन्तु गोत्रत्वात् ङीष्यलोपौ कौण्डिनी।
कौण्डिल्यक = पु० १ सुश्रुतोक्ते शकृन्मुत्रविषे जन्तुभेदे विषशब्दे विवृतिः। २ तत्रोक्ते कीटमेदे च कीटशब्दे विवृतिः
कौण्डोपरथ = पु०। आयुधजातिसंघे ततः स्वार्थे छ। कौण्डोपरथीय तदर्थे। “आहुस्त्रिगर्त्तषष्ठास्तु कौण्डोपरथदाण्डिकाः क्रोष्टुकिर्जालमालिश्च ब्रह्मगुप्तोऽथ जालकिः” सि० कौ०।
कौतस्कुत = त्रि० कुतः कुतोभवः अण् टिलोपः कस्का०। कुतस्कुतोभवे।
कौतस्त = त्रि० कुतस्त्येभवः अण् नि० वेदे यलोपः। कुतस्त्यभवे। “कौतस्तावध्वर्यू अरिमेजयश्च जनमेऊयश्च” पारा० ब्राह्म०।
कौतुक = न० कुतुकस्य भावः युवादि० अण् प्रज्ञा० स्वार्थे अण् वा। १ कुतूहले अमरः। तच्च अद्भुतजिज्ञासातिशयः। “कौतुकागारमागात्” कुमा०। २ मङ्गलार्थहस्तसूत्रे शाश्वतः “वैवाहिकैः कौतुकप्तंविधानैः” कुमा०। ३ उत्सवे ४ अभिलाषे ५ नर्म्मणि ६ हर्षे ७ परम्परायातमङ्गले ८ गीतादिभोगे ९ भोगकाले च हेम०।
कौतूहल = न० कूतूहलस्य तदन्वितस्य भावः कर्म्म वा युवा० अण् प्रज्ञादि० स्वार्थे अण् वा। कुतूहले “विस्तरश्रवणे जातं कौतूहलमतीव मे” भा० आ० ६२ अ०। “महत् कौतूहलं मेऽस्ति हरिश्चन्द्रकथां प्रति” मार्क० ८। १।
कौतूहल्य = न० कुतूहल + ब्राह्मणा० स्वार्थे ष्यञ्। कुतूहले
कौतोमत = पु० कुतोमतस्यापत्यम् ऋष्यण्। ऋषिभेदे। “सहस्रवाहुर्गोपत्य इति कौतोमतेन” गोपथब्राह्मणम्।
कौत्स = पुं स्त्री कुत्सस्य ऋषेरपत्यम् ऋष्यण्। कुत्सापत्ये “भूर्भुवः स्वरिति जपित्त्वा कौतसोहिङ्करोति” आश्व० श्रौ० सू० १। २। ५। “कौत्साय दत्त्वा कन्यान्तु हंसीं नाम यशस्विनीम्” भा० आनु० १३७ अ०। “कौत्सः प्रपेदे वरतन्तुशिष्यः” रघुः। बहुषु तस्य लुक्। कुत्साः तदपत्येषु। कुत्सेन दृष्टं साम अण्। कुत्सर्षिदृष्टे विकृतियागे गेये सामभेदे। तच्च साम वेगाबे १६ प्र० २ अर्द्धे १० गानम्। “कौत्सं भवति काण्वं भवति” श्रुतिः।
कौथुम = त्रि० कुथुमं वेदशाखाभेदमधीते वेद वा अण्। १ कुथुमशाखाध्यायिनि तद्वेत्तरि च। तस्य कार्त्तकौजपादित्वात् द्वन्द्वे पूर्वपदं प्रकृत्या। कठकौथुमाः इत्यादि। “अनुवादे चरणानाम्” पा० द्वन्द्वे एकवत् प्रत्यष्ठात् कठकौथुमम्। “स्थेणोर्लुङि” वार्त्ति० स्थाधातोरिण्धातोश्च लुङ्प्रयोग एव तस्य तथात्वं नियमितम्
कौदालीक = पुंस्त्री० रजक्यां तीवराज्जाते संकीर्ण्णवर्ण्णभेदे ब्रह्मवै० जातिशब्देविवृतिः
कौद्रविक = न० कोद्रवो निमित्तमस्य ठञ्। सौवर्चललवणे राजनि०
कौद्रवीण = न० कोद्रवस्य भवमं क्षेत्रं कोद्रव + खञ्। कोद्रव धान्यभवनयोग्ये क्षेत्रे अमरः
कौद्रा(न्द्रा)यण = पुं स्त्री० कुद्र(न्द्र)स्य ऋषेर्युवापत्यम् इञ कौ द्रिः(न्द्रिः) इञ्न्तत्वात् यून्यपत्ये फक्। कुद्रि(न्द्रि) नामर्षेर्युवापत्ये ततः अरीह० चतुरर्थ्यां वुञ्। कौन्द्रायणक तत्सन्निकृष्टदेशादौ त्रि०
कौनख्य = न० कुनखिनोभावः ष्यञ् टिलोपः। कुत्सितनखरूपे रोगभेदे तच्च सुवर्ण्णस्तेयमहापातकजचिह्नम् “सुवर्ण्णचौरः कौनख्यम्” मनूक्तेः।
कौन्तायनि = त्रि० कुन्ती + चतुरर्थ्यां कर्ण्णा० फिञ्। कुन्तीनिर्वृत्तादौ
कौन्तिक = कुन्तः प्रहरणमस्य ठञ्। कुन्तास्त्रेण युद्धकारके अमरः।
कौन्ती = स्त्री कुन्तिषु देशेषु भवा अण् ङीप्। भस्मगन्धिन्योषधौ अमरः
कौन्तेय = पु० कुन्त्या अपत्यम् ढक्। १ युधिष्ठिरादिषु त्रिषु। “कौन्तेय! प्रतिजानीहि न मे कर्म्मफले स्पृहा” गीता २ अर्ज्जुनवृक्षे राजनि० तस्य तत्तुल्यनामत्वात्तथात्वम्।
कौप = त्रि० कूपस्येदमण्। कूपसम्बन्धिनि जलादौ “सक्षार पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु” सुश्रुते तद्गुणा उक्ताः। “वसन्ते कौपं प्रास्रवणं वा ग्रीष्मेष्वेवम्” सुश्रुतोक्तकाले तस्य सेव्यता। स्त्रियां ङीप्।
कौपीन = न० कूपे पतनमर्हति खञ् अकार्य्ये नि०। १ अकार्य्ये २ पापे ३ गुह्यप्रदेशे अमरः ४ चीरे त्रिका० ५ मेखलाबद्धे वस्त्रखण्डे (कप्नी) मेदि० तद्धारणेन कूपे पतनात् तस्य तथात्वम्। अकार्य्यवदाच्छाद्यत्वात् ६ पुरुषलिङ्गे शब्दचि०। तदावरकतया वस्त्रखण्डस्य कौपीनत्वम्। “कौपीनवन्तः खलु भाग्यवन्तः” पुरा० “कौपीनाच्छादनं यावत्तादिच्छे- चीवरम्” भा० आ० ९१ अ०। “अबलास्वल्पकौपीनाः सुहृदः सत्यजिष्णवः” भा० अनु० ४६ अ०।
कौपोदकी = स्त्री कौमोदकी पृषो०। विष्णुगदायां द्विरूपकोषः।
कौमार = पु० अपूर्ब्बपतिकां कुमारीमुपपन्नः पतिः “कौमारा रापूर्ब्बवचने” पा० नि०। अपूर्ब्बपतिकायाः कुमार्य्या १ वोढरि। कुमारस्य भावः “प्राणभृद्वयो वचनत्वात् अञ्। “जातः कुं पृथिवीं पद्भ्यां मारयेत् स कुमारकः। इति प्रधानतो विद्धि कौमारं प्राग्भवावदतः” इत्युक्तावधिके “कौमारं पञ्चमावधि” इत्यन्ते २ वयोवस्थाभेदे न०। “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा” गीता। “पिता रक्षति कौमारे भर्त्ता रक्षति यौवने” मनुः। कुमार एव स्वार्थे अण्। ३ कुमारे शब्दचिन्ता०। कुमारस्य सनत्कुमारस्येदम् अण्। ४ सर्गभेदे पु० स च सर्गः सनत् कुमारादिसर्ज्जनपूर्ब्बकत्वात् तन्नामकः। “कौमार आर्षः प्राजपत्योमानव इत्यादिसर्गनामानि” श्रीधरः। “सएव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितम्” भान० १, ३, ७, “वैकारिकस्तु यः प्रोक्तः “कौमारस्तूभवात्मकः” भाग० ३, १, २०, ५, ५ कुमारसम्बन्धिनि त्रि० “तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः” भा० व० ९५ अ०
कौमारायण = पुंस्त्री० कुप्तारस्य गोत्रापत्यं नडा० फक्। कुमारनामकर्षिगोत्रापत्ये।
कौमारिकेय = पुंस्त्री० कुमारिकाया अपत्यं शुभ्रा० ढक्। कानीने
कौमारी = स्त्री अपत्नीकं कुमारं पतिमुपपन्ना स्त्री “कौमारापूर्व्ववचने” पा० नि० ङीप्। १ अगृहीतदारान्तरस्य पत्युः १ भार्य्यायाम्। कुमारस्येयमण् ङीप्। २ कुमार सम्बन्धिचेष्टादौ “कौमारीं दर्शयेश्चेष्टाम्” भाग० ३, २, २८, कुमारस्य कार्त्तिकेयस्येयम् अण् ङीप्। ३ कार्त्तिकेयशक्तौ। “कौमारी शक्तिहस्ता च मयूरवरबाहना। योद्धु मभ्याययौ क्रुद्धं रक्तवीजं महासुरम्” कौमारीशक्ति निर्भिन्नाः केचिन्नेशुर्महासुराः” देवीमाहात्म्यम्
कौमुद = पु० “कौ मोदन्ते जनायस्मिन् कौमुदस्तेन कीर्त्तितः” इक्तुक्तलक्षणे १ कार्त्तिकमासे। “एतैरन्यैश्च राजेन्द्रैः पुरा मांसं न भक्षितम्। शारदं कौमुदं मासं ततस्ते स्वर्गमाप्लुयुः। कौमुदं तु विशेषेण शुक्लपक्षं नराधिप!। वर्ज्जयेत् सर्वमांसानि धर्म्मोह्यत्र विधीयते” म० त० भार०
कौमुदी = स्त्री कुमदस्येयं प्रकाशकत्वात् प्रिया अण् ङीप्। १ न्योत्लायाम् अमरः। “शशिना सह याति कौमुदी” कुमा० १ तद्वत्प्रकाशिकायाम् “त्वमस्य लोकस्य च नेत्रकौमुदी” कुमा० कौमुदस्येवम् अण् ङीप्। “कुशब्देन मही ज्ञेया मुद हर्षे० ततोद्वयम्। धातुज्ञैर्नियमैश्चैव तेन सां कौमुदी स्मृता” इत्युक्तायां २ कार्त्तिकपौर्ण्णमास्यां “कौ मोदन्ते जनायस्यान्नानाभावैः परस्परम्। हृष्टास्तुष्टाः सुखापन्नास्तेन सा कौमुदी मता” इत्युक्तायाम् ३ आश्विन षौर्ण्णमास्याम् “आश्विने षौर्ण्णगास्यान्तु चरेज्जागरणं निशि कौमुदी सा समाख्याता कार्य्या लोकविभूतये” ति० त० लौङ्गोक्तेः। ४ दीपोत्मवतिथौ दीपोत्वतिथिं प्रकृत्य भविष्योत्तरे “कौमोदन्ते जनायस्यां तेन सा कौमुदी मता” “सखीजनोद्वीक्षणकौमुदीमुखम्” रघुः कौमुदी दीपोत् वातिथिः” इति मल्लि०” ५ उत्सवे धरणिः” ६ कार्त्तिकोत्सवे त्रिका०। स्वार्थे क। ह्रस्वे कौमुदिका ज्योत्स्नायाम्। संज्ञायां कन्। उमासखीभेदे शब्दरत्ना० कुमुद + चतुरर्थ्यां कुमुदा० ठक्। कौमुदिक कुमुदसन्निकृष्टदेशादौ त्रि०
कौमुदीचार = पुं न० कौमुद्या ज्योत्स्नाया चारः प्राशस्त्यमत्र काले। आश्विनपौर्ण्णमास्वाम् त्रिका०
कौमुदीपति = पु० ६ त०। चन्द्रे हारा० कौमुदीनाथादयाऽप्यत्र
कौमुदीवृक्ष = पु० कौमुद्याः प्रकाशिकायाः दीपशिखाया वृक्ष इवाधारः। दीपवृक्षे (पितुतलसुज्) हारा०
कौमोदकी = स्त्री कोः पृथिव्याः पालकत्वात् मोदकः कुमोदको विष्णुः तस्येयम् अण्। विष्णुगदायाम् अमरः “कौमोदकी मोदयति स्म चेतः” माघः। “देवैरनादिवीर्य्यस्य गदा तस्यापरे करे। निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमुदकीति सा” हरि० ९२ अ०
कौमोदी = स्त्री कुं मोदयति अण् कुमोदः विष्णु स्तस्ये यमण ङीप्। विष्णुगदायाम् शब्दरत्ना०
कौम्भकारि = पुं स्त्री० कुम्भकारस्यापत्यं शिल्पित्वात् पक्षे इञ्। कुम्भकारापत्ये स्त्रियां वा ङीप्। पक्षे ञ्य। कौम्भकार्य्य तत्रार्थे।
कौम्भायन = त्रि० कुम्भस्य सन्निकृष्टदेशादि पक्षा० फक्। कुम्मसन्निकृष्टदेशादौ
कौम्भायनि = त्रि० कुम्भ + चतुरर्थ्यां कर्णा० फिञ्। तत्सन्निकृष्टदेशादौ
कौम्भेयक = त्रि० कुम्भ्यां जातादि कत्त्र्या० ढकञ्। कुम्भीजातादौ
कौम्भ्य = त्रि० कुम्भ + चतुरर्थ्या। सङ्काशा० ण्य। कुम्भसन्निकृष्टदेशादौ
कौरयाण = पु० कुरयाणस्य (शत्रुं प्रति कृतयानस्य) अयम् अण् वेदे पृषो०। शत्र प्रति कृतयानस्य सम्बन्धिनि तत्पुत्रादौ “पाकस्थ मा कौरयाणः ऋ० ८। ३। २१ तद्भाष्ये तथार्थोक्तेः
कौरव = पुंस्त्री० कुरोरपत्यादि उत्सा० अञ् तद्देशस्य रा जा अण् तेषु भवो वा अण्। १ कुरुवंश्ये “तस्यान्ववायः सुमहान् यस्य नाम्ना स्थ कौरवाः। कुरोस्तु पुत्राश्चत्वारः” हरिवं ६२ अ०। २ तद्देशनृपे पु० ३ कुरुसम्बन्धिनि ४ तद्देशभवे च त्रि०। स्त्रियां ङीप्। “द्रुपदः कौरवान् दृष्ट्वा प्राधावत समन्ततः। शरजालेन महता मोहयन् कौरवीं चमूम्” भा० आ० १३८ अ० “क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः” मेघदूतम्।
कौरवक = त्रि० कुरौ तद्वंशे जातादि “विभाषा कुरुयुगेति पा० वा वुञ्। १ कुरुवंशोद्भये। कुववकस्येदमण्। २ कुरवकसम्बन्धिनि
कौरवायणि = पुंस्त्री कुरोरपत्यम् तिका० फिञ्। कुरुवंश्ये
कौरवेय = पुंस्त्री कुरोपत्यं बा० ढक्। कुरुवंश्ये। “समा हि कौरवेयाणां वयं ते चैव पुत्रक!” भा० आ० १४२ अ०। “विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत!” मा० व० ८ अ०।
कौरव्य = पुंस्त्री० कुरोवपत्यम् कुर्ब्बादि० ण्य। १ कुरुवंश्ये। “कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलम्” वेणीस०। तस्यापत्यं तिका० फिञ। कौरव्यायणि कुरुकुलोत्पन्ने ब्राह्मणादावपत्ये पुं स्त्री कुरूणां राजा ण्य। २ कौरव्य कुरुदेशराजे। स्त्रियां ङीप् कौरवी स्त्री। ण्यान्तत्वात् यून्यपत्ये फिञो लुक्। कौरव्यः पिता पुत्रश्च सि० कौ०।
कौरुकत्य = पुं स्त्री कुरुकतस्यर्षेरपत्यम् गर्गा० यञ्। कुरुकतस्यर्षेरपत्ये युवापत्ये फिञ्। कौरुकत्यायनि तदीय युवापत्ये पुंस्त्री
कौरुज(जा)ङ्गल = त्रि० कुरुजङ्गले जातादि अण् उत्तरपदस्य वा वृद्धिः। कुरुजङ्गलमवे
कौरुपाञ्चाल = त्रि० कुरुपञ्चालदेशे प्रसिद्धः अण् उभयपद वृद्धिः। कुरुषु पञ्चालेषु च प्रसिद्धे। “प्रज्ञातं कौरुपाञ्चालं यच्चतुरवत्तम्” शत० ब्रा० १, ७, २, ८, कौरुपाञ्चालो वा अयं ब्रह्मा ११। ४। १। २।
कौर्प्य = पु० “क्रियतावुरिजित्तमकुलीरलेयपाथेययूककौर्पाख्याः। तौक्षिकआकोकेरो हृद्रोगश्चान्त्यभं चेत्थम्” रीपिकोक्ते वृश्चिकराशौ।
कौर्म्म = न० कूर्म्ममधिदूत्य कृतो ग्रन्थोः अण्, कूर्म्मस्वेदम् अण् वा। १ कूर्म्मदुराणे २ कूर्म्मसम्बनि नि०।
कौल = त्रि० कुले भवः श्वभिन्नः अण्। सत्कुलभवे १ कुलीने शुनि तु कौलेयक इत्येव। कुले कुलाचारे रतः तं वेत्ति वा अण्। २ तन्त्रोक्तकुलाचाररते ३ तदाचारवेदिनि च। “दिव्यभावरतः कौलः सर्वत्र समदर्शनः” कुलार्ण्णवः। “पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः। वीराल्लब्धमनुवीरेः कौलाच्च ब्रह्मविद्भवेत्” महानीलतन्त्रम्। कुल कुलाचारमधिकृत्य कृतो ग्रन्थः अण्। ४ कुलाचारप्रवर्चके ग्रन्थे कौलोपनिषदादौ।
कौलक = त्रि० कूले भवः सौवीरः धूमा० वुञ्। कूलभवे सौवीरे
कौलकेय = त्रि० कुले सत्कुले भवः बा० ठक् कुक् च। १ सत्कुलोद्भवे। कौलटेय + पृषो०। २ असतीपुत्रे पुंस्त्री शब्दरत्ना०।
कौलटिनेय = पुंस्त्री भिक्षुक्याः सत्या अपत्यम् ढक् इनादेशश्च। सत्या भिक्षुक्याः अपत्ये अमरः स्त्रियां ङीप्
कौलटेय = पुंस्त्री कुलटायाः सत्याः असत्या वा अपत्यम् ढक्। सत्याः असत्याश्च भिक्षुक्याः अपत्ये अमरः। स्त्रियां ङीप्।
कौलटेर = पुंस्त्री कुलटायाः असत्या अपत्यम् आचारेण क्षुद्रत्वात्(“क्षुद्राभ्यः”)पा० ढ्रक्। बन्धक्याः अपत्ये अमरः।
कौलत्थ = त्रि० कुलत्थेन संस्कृतम् अण्। कुलत्थसंस्कृते “पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः” सुश्रु०।
कौलत्थीन = न० कुलत्थस्य भवनं क्षेत्रम् खञ्। कुलत्थोत्पत्तियोग्ये क्षेत्रे
कौलपुत्रक = न० कुलपुत्रस्य भावः मनोज्ञा० वुञ्। कुलपुत्रभावे
कौलव = पु० ववाद्दिषु तृतीये तिथ्यर्द्धरूपे चरकरणभेदे। करणशब्दे १६९० पृ० विवृतिः
कौलालक = त्रि० कुलालेन कृतं संज्ञायां वुञ्। कुलालकृते शरावादौ असंज्ञायान्तु अण् कौलाल तत्कृते। तस्येदमण् कौलाल तद्सम्बन्धिनि त्रि० “रथचक्रं वा कौलालचक्रं वा” शत० व्रा० ११। ८। ४। १
कौलिक = त्रि० कुलादागतः ठक्। १ कुलपरम्परागते आचारादौ। कुले कुलागमे सिद्धः ठक्। तन्त्रोक्ते २ कुलाचरे। कौलं कुलधर्मं प्रवर्त्तयति ठक्। ३ कुलधर्मप्रवर्त्तके शिवे। शब्दमा०। ४ पाषण्डे त्रिका०। कुलं तदाचारः प्रयोजनमस्यठक्। ५ कौले ब्रह्मविदि “शन्नः कौलिकः” श्रुतिः
कौलितर = पु० कुलितरस्यापत्यम् ऋष्यण्। शम्बरासुरे “उ त दासं कौलितरं वृहतः पर्व्वतादधि। अवाहान्निन्द्र” शम्बरम्” ऋ० ४। ३। ०१४ कुलितरनाम्नोऽपत्यं शम्बरमसुरम्” मा०
कौलिशायनि = त्रि० कुलिश + चतुरर्थ्यां कर्णा० फिञ् कुलिश सन्निकृष्टदेशादौ
कौलिशिक = त्रि० कुलिश + अङ्गुल्या० इवार्थे ठक्। कुलिशसदृशे
कौलीन = त्रि० कौ पृथिव्यां लीनः ७ त० अलुक स०। १ भूमिलग्ने। कुलादागतः खञ्। २ कुलक्रमागते “सदश्व इवमर्य्यादां कौलीनां नायवर्त्तत” रामा० आ० ८७ अ०। ली भावे क्त को लीनं लयी यस्यात्, कुलीनं भूमिलयमर्हति अण् वा। भूमिलग्नतासाधने ३ अपवादे “कौलीनमात्माश्रयमाचचक्षे” “कौलीनर्मातेन गृहान्निरस्ता” रघुः “मा कौलीनादसितनयने! मय्यविश्वासिनी भूः” मेवः अपवादे हि भूमिलग्नैव लोकोभवतीति तस्य तथात्वम्। ४ गुह्ये ५ जन्ये (युद्धे) ६ कुकार्ये ७ पशुसर्पाणां युद्धे च न० मेदि० तेषां भूमिलग्नतासाधनत्वात्तथात्वम्।
कौलीरा = स्त्री कुलीरः तच्छृङ्गाकारोऽस्त्यस्याः अच्। कर्कटशृङ्ग्याम् (का~कडाशिङा) राजनि०
कौलेय = त्रि० कुले + भवः बा० ढक्। सत्कुलीत्पन्ने भरतः
कौलेयक = पु० कुले भवः श्वा ढकञ्। १ कुलागते कुक्कुरे। अमरः २ सत्कुलीने मेदि०।
कौलेशभरवी = स्त्री त्रिपुराभैरवीभेदे। “सम्पत्प्रदाभैरवीवत् विद्धि कौलेशभैरवीम्। हसाद्याः सैव देवेशि! त्रिषु वीजेषु पार्वति!” ज्ञानार्ण्णवः। “त्रिकूटे हसाद्याश्चेत् तदा कौलेशभेरवी भवति” तन्त्रसारः
कौल्माषिक = त्रि० कुल्माषे साधु ठञ्। कुलमाषसाधने
कौल्माषीण = न० कुल्माषाणां भवनं क्षेत्रम् खञ्। कुल्माष धान्थोत्पत्तियोग्ये क्षेत्रे
कौल्य = त्रि० कुले भवः ष्यञ्। सत्कुलीने द्विरूपकोषः।
कौवल = न० कुवलमेव प्रज्ञा० स्वार्थे ण। कोलिफले द्विरूपको०।
कौविदार्ष्य = त्रि० कोविदार + चतुरर्थ्यां प्रगद्या० ञ्य। कोविदारसन्निकृष्टदशादौ।
कौवेर = त्रि० कुवेरस्येदम् कुनेरोदेवताऽस्य वा अण्। १ कुवेर संवन्धिनि २ तद्देवताके च “कौवेरमथ याम्यञ्च चक्राते वरुणस्य च” देवीमा०। “यानं सस्मार कौवेरम्” रघः। “कौवेरदिग्भागमपास्य मार्गम्” माघः। स्त्रियां ङीप्। “दिग्विमागे तु कौवेरी दिक् शिवाप्रीतिदायिनी” ति० त० पु०। “ततः प्रतस्थे कौवेरीम्” रघुः। ३ कुष्ठवृक्षे (कुड) न० शब्दरत्ना०।
कौवेरिकेय = पुं स्त्री० कुवेरिकाया अपत्यम् शुभ्रा० ढक्। कुवेरिकाया अपत्ये।
कौश = न० कुशाः मूम्ना सन्त्यत्र अण्। १ कान्यकब्जदेशे हेमच०। स्वार्येऽण्। २ कुशशीपे “शाकं ततः शाल्मलमत्र कौशम्” सि० शि०। कशशब्दे २१४५ पृ० विवृतिः। कुशस्येदं तद्विकारो वा अण्। ३ कुशसम्बन्धिनि ४ तन्मये पवित्रादौ। “तत्र वासाय शयने कौशे सुखमुवास ह” भा० अनु० १९ अ०। स्त्रियां ङीप्। “कौश्यां वृष्यां समासीनम्” भा० अनु० ५४ अ०
कौशल = न० कुशलस्य भावः युवा० अण्। दक्षतायाम् “सीमेव पद्मासनकौशलस्य” भट्टिः। “आन्वीक्षिकी कौशलानाम्” “धोगः कर्म्मगु कौशलम्” गीता। “हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषः” माघः।
कौशलि = पुंस्त्री० कुशलाया अपत्यं बाह्वा० इञ्। कुशलाया अपत्ये स्त्रियां वा ङीप्। यून्यपत्ये फञ्। कौलशायनतदीययुवापत्ये पुंस्त्री
कौशलिका = स्त्री कुशलस्य पृच्छा ठक्। १ कुशलप्रश्ने। कुशलाय मङ्गलाव दीयते ढक्। २ उपायने उपढौकने। त्रिका०।
कौशली = स्त्री कुशलाय दीयते तस्य पृच्छा वा अण्। १ उपढौकने २ कुशलप्रश्ने च त्रिका०।
कौश(स)लेय = स्त्री कोश(स)ल्याया अपत्यं ढक् यलोपः। श्रीरामे दशरथपुत्रे
कौशल्य = न० कुशलमेव व्राह्म० ष्यञ्। १ कुशले। भावे ब्राह्म० ष्यञ्। २ दक्षतायाम्। “दृष्ट्वा कौशल्यमन्योन्यं रथष्वेयावतस्थिरे” भा० व० २४४ अ०
कौश(स)ल्या = स्त्री कोश(स)लदेशे भवा ञ्यु। कोश(स)लदेश भवायां श्रोराममातरि दशरथपत्नीभेदे।
कौश(स)ल्यातनय = पु० ६ त०। सीतापतौ श्रीरामे तब्सुतादयोऽयत्र।
कौश(स)ल्यायनि = पु० कौश(स)ल्यायाअपत्यम् फिञ्। श्रीरामे त्रिका० “म्रियामहे न गच्छामः कौश(स)ल्यायनिवल्लभाम्” भट्टिः। कौश(स)ल्य पत्यार्थकता जयमङ्गलयामुक्ता।
कौशाम्ब = त्रि० कुशाम्बेन निर्वृत्तः अण्। १ कौशाम्बराजकृते २ तत्कृते पुरीभेदे स्त्री ङीप्। “कृशाम्बस्तु महातेजाः कौशाम्वोमक्ररोत् पुरीम्” रामा०। साच पुरो गौडदेशान्तर्गतवत्सभूमिगता। “अस्ति वत्स इति ख्यातोदेश इत्युपक्रमे” कौशाम्बी नाम तत्रास्ति मध्यभाते महापुरी” कथासरित्सागरः। “अस्ति गौ डविषये कौशाम्बा नाम नगरो” हिता०। “निष्कौशम्बिः” सि० कौ०
कौशाम्बेय = पुंस्त्री कुशाम्बस्य गोत्रापत्यम् शुभ्रा० ढक्। कुशाम्बनृपवश्ये
कौशिक = न० कुशिकस्यापत्यं ऋष्यण् कुशेन दृतः अध्या० ठञ्। कुशिके तद्वंशे भवः अण् वा। १ इन्द्रे २ भेचके पुंस्त्री० उमयत्र “अणकुवत् सोढुतधीरलोचतः सहलरश्मेरिव यस्य दर्शनम्। प्रविश्य हेमाद्रिगुहागृहान्तरं निनाव बिभ्यद्दिवसानि कौशिकः” माघः। इन्द्रस्य कुशिकपुत्रत्वप्राप्तिकथा “कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम्। लभेयमिति तं शक्रस्त्रासादभ्येत्य जग्मिवान्। स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्” हरिवं० १ अ०। “कुशिकस्तु तपस्तेपे” इत्यपक्रम्य “अत्युग्नतपसं दृष्ट्वा सहस्राक्षःपुरन्दरः। समर्थं पुत्रजनने स्वमेवांशमवासयत्। पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः। स गाधिरभवदाजा मघवान् कौशिकः स्वयम्” हरिवं० २७ अ०। कुशैर्वृतत्वाद्वा कौशिकत्वमस्य यथाह तत्रै “जात मात्रस्तु भगवानदित्यां स(शक्रः)कुशैर्वृतः। तदा प्रभृति देवेशः कौशिकत्वमुपागतः” हरि० २२७ अ०। ३ गुग्गुलौ ४ व्यालग्राहिणि (सापुडे) अमरः। ६ नकुले ७ कोषाध्यक्षे मेदि०। ८ कोषकारे शब्दरत्ना० ९ शृङ्गाररसे त्रिका० १० मज्जनि हेम० ११ अश्वकर्णवृक्षे राजनि०। कुशिक्रस्य गोत्रापत्यम् विदा० अञ्। १२ विश्वामित्रमुनौ स हि कुशिकपुत्रस्य गाधेरपत्यम्। कुशिकशब्दे तन्मूलं दृश्यम्। “अपिबच्च ततः सोममिन्द्रेण सह कौशिकः” भा० आ० १७५ अ०। १३ पौरववंश्ये नृपभेदे। “पारीक्षितस्य द्वौ पुत्रौ” इत्युपक्रमे “प्रतिष्ठायाश्च द्वौ पुत्रौ पैप्पलादिश्च कौशिकः” हरिव १९१ अ०। जरासन्धनृपस्य हंसनामके १४ सेनापतिभेदे “स तृ(जरासन्धः)सेनापती! राजा सस्मार भरतर्षभ!। कौशिकं चित्रसेनञ्च तस्मिन् युद्धे उपस्थिते। ययोस्तो नामनी राजन् हंसेति डिम्बकेति च” भा० स० २१ अ०। तस्य च कौशिकवंश्यत्वात् तथात्वम्। १५ असुरभेदे “खसृमः शालवदनः करालः कौशिकः शरः” हरिव० ४२ अ०। कुशिकवंशोद्भवत्वात् १६ नदीभेदे स्त्री तस्या उत्पत्तिकथा रामा० आ० ३४ अ० “कुशवशप्रसूतोऽस्मि कौशिको रघुनन्दन!। पूर्व्वजा भगिनी चापि मम राघव! सुब्रता। नाम्ना सत्यवती नाम ऋचोके प्रतिपादिता। सशरीरा गता स्वर्गं भर्त्तारमनुवर्त्तिनी। कौशिकी परमोदारा पवृत्ता च महानदी। दिव्यपुष्पोदका रम्या हिमवन्तमुपाश्रिता। लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम। ततोऽहं हिमवत्पार्श्व वसानि नियतः सुखम्। भगिन्यां स्नेहसंयक्तः कौशिक्यां रघुनन्दन!। सा तु सत्यवती पुण्या सत्ये धर्म्मे प्रतिष्ठिता। पतिव्रता महाभागा कौशिकी सरिता वरा” “तत्र मासं वामेद्वीर! कौशिक्यां भरतर्षभ!। अश्वमे धस्य यत् पुण्यं तन्मासेनाधिगच्छति” भा० व० ८१ अ०। “कुशिकस्याश्रमं गच्छेत् सर्व्वपापप्रमोचनम्। कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम्। राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः” तत्रैवाध्याये। “इयञ्च नदी हिमवतः निःसृता चम्पानगरसन्निकृष्टे उत्तरपारे गङ्गायां सङ्गतो। “ततोगच्छेत राजेन्द्र!। चम्पकारण्यसुत्तमम्” ततैत्युक्तेस्तस्यास्तत्सन्निकृष्टत्वम्। १८ यशोदाकन्यात्वेनोत्पन्नायां योगमायायाम्। कौशिकेन्द्रेण भगिनीत्वेन कल्पनेन विष्णुना तस्यास्तन्नामकरणात्तथात्वं यथोक्तम् “तत्र त्वां शतदृक् शक्रोमत्प्रदिष्टेन कर्म्मणा। अभिषेकेणा दिव्येन दैवतैः सह योक्ष्यसे। तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः। कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि” हरिव० ५८ अ० योगमायां प्रति विष्णूक्तिः। “आर्य्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी” भा० हरि० ५९ अ०। पार्व्वत्याः शरीरकीश(षा)त्निःसृतं १९ देवीमूर्त्तिभेदे तस्य च मूर्द्धन्यमध्यतापीति भेदः तन्मूलं देवीमाहात्म्यवाक्यं तच्च कोशशब्दे दर्शितं नाठ्ये २० वृत्तिभेदे अलङ्कारशब्दे लक्षणादिकं दृश्यम्
कौशिकप्रिय = पु० ६ त०। श्रीरामे विश्वामित्रप्रियात्वरणात्तस्य० तथात्वम्
कौशिकफल = कौशिक कोशस्थं फलमस्य। नारिकेले शब्दरा०
कौशिका = स्त्री कोशएव स्वार्थे क अतैत्त्वम्। पानपात्रे चषके हेम०
कौशिकात्मज = पु० ६ त०। १ इन्द्रपुत्ने जयन्ते २ अर्जुने च शब्दमाला ३ विश्वामितपुत्रे च
कौशिकायनि = पु० कुशिकस्यापत्यम् बा० फिञ। यजुर्वेदवंशब्राह्मणस्थे ऋषिभेदे “कौशिकायनेः कौशिकायनिः” शत० ब्रा० १४। ५। ५। २१
कौशिकायुध = न० ६ य०। इन्द्रचापे शरत्ना०
कौशिकाराति = पु० ६ त०। १ काके राजनि० तस्य पेचकारातित्वं च तेन सह नित्यविरोधित्वात्। तत्कथा काकोलूकशब्दे दृश्या कौशिकारिप्रभृतयोऽप्यत्र पु०
कौशिकिन् = पु० ब० व० कौशिकेन प्रोक्तमधीयते णिनि विश्वामित्रप्रोक्ताध्यायिषु
कौशिक्योज = पु० कौशिक्या इव ओजोयस्य पृषो० सलोपः शास्वोटवृक्षे (सेओडा) राजनि०
कौशिज = पु० ब० व० देशभेदे “पञ्चालाः कौशिजाश्चैव नैकपृष्ठाः धुरन्धराः” भा० भी० ९ अ० जनपदकथने
कौशी(षी)धान्य = न० कोशे(षे)भवा कौशी(षी) कर्म्मधा०। कोश(ष)जाते धान्ये तिलादौ। “सर्व्वमेवैतदहः कोशी(षी)धान्यं विवर्ज्जयेत्” का या० श्रौ० २। १। १०
कौशे(षे)य = न० कोशा(षा)दुत्थितम् ढक्। कृमिकोषादिजाते वस्त्रे अमरः “निर्नार्भि कौशे(षे)यमुपात्तरागम्” कुमा० “कौशेयं व्रजदपि गाढतामजस्रम्” माघः “लाक्षालोहितकौशे(षे)यपरिधानम्” काद० “कौषेयाविकयोरूषौ” मनुना तच्छोधनद्रव्यसुक्तम्
कौश्य = त्रि० कुशस्येदम् ष्यञ्। १ कुशसंम्बन्धिनि शयनादौ “प्रास्कन्दच्छयने कौश्ये वृष्ट्यां शस्यमिव प्लवम्” भा० अनु० ७१ अ०। कुशस्य गोत्रापयं बा० ष्यञ्। २ कुशगोत्रजे ऋषिभेदे पु० “तं होवाच सुश्रदाः कौश्यः” शत० व्रा० १०। ५। ५। ४ “कौश्यः कुशगोत्रजः” भा०। तेन ब्राह्मणे कौष्य इति मूर्द्धन्ययुक्तप ठस्तु प्रामादिकः।
कौशा(सा)रव = पु० कशा(षा)रोरफयम् ऋष्यण्। कुशा(षा) रोर्मुनेरपये मैत्येये “यावतः कृतवान् प्रश्रान् क्षत्ता कौशारवाग्रतः” माग० १। १३। ३ “कौशारवस्य मैत्रेयस्याग्रतः” श्रीधरः “ननु ते तत्त्वमंराध्य ऋणिः कौशारवोऽन्तिमे” भाग० २। ४। ३ वाह्वा० इञ्। कौशारविरप्यत्र “यत्र कौशारवेस्तस्य संवादोऽध्यात्मसंश्रितः” भाग० २। १०। ५२
कौषिक = त्रि० कौशिक + पृषो०। १ कौशिकशब्दार्थे मेदि० २ दुर्गा मूर्तिभेदे स्त्री “शरीरकोषाद्यत्तस्याः पार्वत्याः निःसृताम्विका। कौग्रिकीति समाख्याता ततोलोकेषु गीयते” देवीमा० “कायकोपान्निःसूता या कालिकायास्तु भेरव!। सा कौषिकीति विख्य ता चारुरूपा मनोहरा” कालिका० पु० ६० अ०
कौषीतक = पु० कुषीतकत्थापत्यम् ऋष्यण्। कुषीतकर्षिपुत्रे बह्वृचां प्रत्यहं तर्पणीये ऋषिभेदे कहोडे “कहोडं कौषीतकमित्यादि” आश्व० गृ० ३। ४। ४। २३ ऋषितर्पणे। कुषीतकस्यापत्यम् इञ्। कौषीतकिरपि कहोडे ऋषौ “तदुहोवाच कहोडः कौषितकिः” शत० व्रा० २। ४। २। १। तत्सम्वन्धित्वात् कौषितकिब्राह्मणं कौषीतकी उपनिषच्च ऋग्वेदातर्गता।
कौषीतकिन् = पु० ब० व०। कौषीतकेन प्रोक्तमधीयते णिनि। कौषीतकेन प्रोक्ताध्यायिषु। “सदस्य सप्तदशं कौषीतक्तिवः समामनन्ति आश्व० गृ० १। २३। ५।
कौ(षी)तकी = कुषीतकस्याषत्यम् ऋष्यण् ङीप्। अगस्त्य पत्न्यां त्रिका०
कौषीतकेय = पुंस्त्री कुषीतक + बा० अपत्ये ढक्। कुषीतकस्यापत्ये कहोडे “अथ हैनं कहोडः कौषीतकेयः पप्रच्छ” शत० ब्रा० १४। ६। ४। १।
कौष्ठवितक = त्रि० कुष्ठविदि तद्विद्यायां साधु कल्या० ठक् दस्य चरर्त्वेन तान्ततयाठस्य कैत्येके। कुष्ठविद्यासाधौ। दस्य चर्त्वाभावमाश्रित्य तान्तत्वाभावेन कौष्ठविदिक इत्यन्ये तन्मतेनैव तथारूपं २१५४ पृ० उक्तम्
कौसीद्य = न० कुत्सितं सीदत्यस्मिन् सीद + वा० आधारे श स्वार्थे ष्यञ्। १ आकस्ये २ तन्त्रायाञ्च हेम०। कुसीदस्य भावः ष्यञ्। ३ वृद्धिरूपकुसीदवृत्तौ शब्दचि०
कौसुम = न० कुसुमेन निर्वृत्तमण्। १ पुष्पाञ्जने अमरः। तस्येदमण्। २ पुष्मसम्बन्धिनि त्रि० “विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममानवानिलेन” माघः
कौसुम्भ = पु० कुसुम्भ + स्वार्थे श्चण्। १ अरच्यकुसुम्भे २ शाकभेदे राजनि०। कुसुम्भेन रक्तम् अण्। ३ कुसुम्भारागरञ्जिते वस्त्रादौ त्रि० “कौसुम्भ पृथु कुचकुम्भसङ्गि वासः” म घः। तस्येदमण्। कुसुम्भसम्ब न्धनि त्रि० “दिनकरकरसङ्गव्यक्त कौसुम्भरागम्” माघः। उभयतः स्त्रियां ङीप्।
कौसुरुविन्द = पु० दशरात्रसाध्ययागभेदे “कौसुरुविन्दः” कात्या० श्रौ० सू० २३। ५। १८। “द्वितीयो दशरात्र एततसंज्ञः” सं० व्या०। प्रायणीययागानन्तरं कौसुरुविन्ददशरात्रस्य २ प्रथमे त्र्यहे च “कौसुरुविन्दः प्रथबन्त्र्यहः” कात्या० २४। ३। १
कौसुरुविन्दि = पु० कुसुरुबिन्दस्यापत्यम् इञ्। तदपत्ये उद्दालके सुनौ “कौसुरुविन्दिरुद्दालक आरुणौ ब्रह्मचर्य्यमुवास” शत० ब्रा० १२। २। २। १३।
कौसृतिक = त्रि० कुसृत्या चरति ठक्। मायाकारके शाठ्ययुक्ते जटाध०
कौस्तुभ = पु० कु भूमिं स्तुम्नाति कुस्तुभोजलधिः तत्र भवः अण्। विष्णोर्वक्षःस्थे “कौस्तुभस्तु महातेजाः कोटिसूर्य्यसमप्रभः” इत्युक्तलक्षणे मणिभेदे। तस्य समुद्रादुत्पत्तिकथा हरिवं० २२ अ० “सुरासुरगणाः सर्वे सहिता लवणाम्भसः। मन्दरंपुष्करं कृत्वा नेत्रं वासुकिमेव च। समाः सहस्नं मथितं जग मोषधिभिः सह। क्षीरभूतं समायोगादमृतं समपद्यत! तज्जह्रुरसुराः पूर्वमाक्रान्ता लोभमन्थुना। तदा पश्चाज्ज ह्रुर्द्देवाः कामतेजोबलान्विताः। धन्वन्तरिस्तथा मद्यं श्रीर्द्देवीकौस्तुभोमणिः। शशाङ्को विमलश्चापि समुत्तस्थ वमन्ततः”। “ततः शतसहस्रांशुर्म्मथ्यमानात्तु सागरात्। प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः। श्रीरनन्तर मुत्पन्ना घृतात् पाण्डुर वासिनो। सुरा देवी समुत्पन्ना तुरगः पाण्डरस्तथा। कौस्तुभस्तु मणिर्द्दिव्यौत्पन्नो घृतसम्भवः। मरीचिविकचः श्रीमान् नारायण उरोगतः” भा० आ० १८ अ० “उच्चैः श्रवाहयश्रेष्ठो मणिरत्नञ्च कौस्तुभम्” रामा० उक्तेः क्रीवत्वमपि “कौस्तुभाख्यमपांसारं बिभ्राणं वृहतोरसा” “सकौस्तुभं ह्रेपयतीव वक्षः” रघुः। २ तैलभेदे न० “वृतार्थे गोघृतं ग्राह्यं तदभ बे तु माहिषम्। आज्यं, वा तदभावे तु साक्षात्तैलं ग्रहीष्यते। तैलाभावे ग्रहीतव्यं तैलं जर्त्तिलसम्भवम्। तदभावेऽतसोस्नेहं कौस्तुभं सर्षपोद्भवम्। वृक्षस्नेहोऽथवा ग्राह्यः पूर्व्वाभावे परःपरः” कर्कधृतं मण्डनवाक्यम्। कौस्तुभमित्यत्र कौसुम्भमिति पाटस्तु सम्यक्। ३ तन्त्रोक्ते मुद्राभेदे “अनामाङ्गुष्ठसंलग्ना दक्षिणस्य कनिष्ठिका। कनिष्ठयान्यया बद्धा तर्ज्जन्या दक्षया तथा। वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके। अङ्गुष्ठमध्यके भूयः संयेज्य सरलाः पराः। चतस्रोऽप्यत्र संलग्ना मुद्रा कौस्तुभसंज्ञिका” तन्त्रसारः।
कौस्तुभवक्षस् = पु० कौस्तुभोवक्ष स यस्य। विष्णौ हारा० कौस्तुभहृदयादयोऽप्यत्र पु०। एवं कौस्तुभलक्षणादयोप्यत्र।
***