वाचस्पत्यम्
कैव to कोव
links:
Menu अ–ह
Prev केव–कैल
Next कोश–कौ
कैव
कैश
कोटि
कोठ
कोय
UpasanaYoga
.org

कैवर्त्त = पुं स्त्री के जले वर्त्तते वृत–अच् अलुक्स० ततः स्वार्थे अण्। “निषादो मार्गवं सूते दाशं नौकर्म्मजीविनम्। कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः” मनक्तायं(जेले)धीवरजातौ। “ब्राह्मणेन शूद्रायां जातो निषादः प्रागुक्तः प्रकृतायामायोगव्यां मार्गवं दाशापरनामानं नौव्यवहारजीविनं जनयति। आर्य्यावर्त्तदेशवासिनः तं कैवर्त्तशब्देन कीर्त्तयन्ति” कुल्लू०

कैवर्त्तमुस्त = न० के जले वर्त्तते वृत–अच् अलुक्स० स्वार्थे अण् कर्म्म०। मुस्तकमेदे (केसुरिया) शब्दर० स्वार्थे क। तत्रार्थे भरतः

कैवर्त्तिका = स्त्री कैवर्त्तीव इवार्थे कन् ह्रस्यः। मालवदेश प्रसिद्धे लताभेदे वस्त्ररङ्गायाम् राजनि०

कैवर्त्तिमुस्तक = न०। कैवर्त्याः कैवर्त्तपत्न्याः प्रियं मुस्तकं संज्ञायां “ङ्यापोः” पा० वा ह्रस्वः। कैवर्त्तमुस्तके ह्रस्वाभावे कैवर्त्तीमुस्तकमप्यत्र (केसुरुया) ख्याते मुस्तकभेदे भरतः

कैवर्त्ती = स्त्री के जले वर्त्तते वृत–अच् अलुकस० के वर्त्ताजलस्थासव स्वार्थे अण् ङीप्। (केसुरिया) १ मुस्तकभेदे वैद्यकम् पुंयोगे ङीप्। २ कैवर्त्तपत्न्याञ्च

कैवल = न० के वलते वल–अच् अलुक्स० स्वार्थे अण्। विडङ्गे रत्नमा०

कैवल्य = न० केवलस्य भावः ष्यञ्। १ आत्यन्तिकदुखविगमरूपे मुक्तिभेदे तत्स्वरूपसत्त्वादिकारणानि च सा० का० तत्त्वकौमुद्योर्दर्शितानि यथा “पुरुषोऽस्ति भोक्तृ भावात् कैवल्यार्थं प्रवृतेश्च “इतश्चास्ति पुरुष इत्याह कैवल्यार्थं प्रवृत्तेश्च शास्त्रकाराणां महर्षीणाञ्च दिव्यलोचनानां कैवल्यञ्चात्यलिकदुःखत्रयप्रशमलक्षणं न बुद्ध्यादीनां सम्भवति ते हि दुःखाद्यात्मकाः कथं स्वभाबाद्वियोजयितुं शक्यन्ते तदतिरिक्तस्य त्वतदात्मन आत्मनस्ततो वियोगः शक्यसम्पादः तस्मात्कैवल्यार्थं प्रवृत्तेरागमानां महर्षीणाञ्चास्ति बुद्ध्याद्यतिरिक्त आत्मेति सिद्धम्” तत्त्वकौमुदी “कैवल्यं माध्यस्थ्यं द्रल्वत्वमकर्त्तृभावश्च” सा० का० “आत्यन्तिकदुःखत्रयाभावः कैवल्यं तच्च स्वभावादेव अत्रैगुण्टात् सुखदुःखमोहरहितत्वात् सिद्धम्” कौ० “पुरुषस्य दर्शनांर्थं कैवल्यार्थं तथा प्रधानस्य” का० “षुरषस्यापेक्षां दर्शयति पुरुषस्य कैवल्यार्थम्। तथा हि प्रधानेन सम्मिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यताख्यातिनिबन्धनम्। न च सत्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते। अनादित्वाच्च संयोगगपरम्परायाः भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यते इति युक्तम्” त० कौ० विवृतञ्चैतदस्माभिः “व्यवहितमपि पुरुषस्येति पदं कैवल्या र्थमित्यत्रान्वेतोयाख्यातुं पुरुषस्यापेक्षामुत्थापयति पुरुषस्यापेक्षमिति प्रकृसेरिति शेषः। कैवल्यं केवलीभावः स च अतुभूयमानस्य बुद्धिधर्म्मस्य दुःस्वत्रयस्य विनाशएव, तदर्थं तदुद्देशेन पुरुषस्य प्रकृत्यपेक्षा। तथा हि इष्टविषवेच्छया इष्टसाधनाय प्रवर्त्तमानो दृष्टः। पुरुषश्च आत्मन्यनुभूयमानं दुःखत्रयं जिहासुस्तत्परिहारसाधनमर्थयते दुःखत्रयाभिघातश्च प्रकृतिपुरुषविवेकाधीन इति प्रकृतिं विना कथङ्कारं पुरुषस्तद्भेदमात्मनि प्रतीयादिति दुःखत्रयाभिधाताथेमपेक्षणीयज्ञानसाधनत्वेन पुरुषस्य प्रकृत्यपेक्षा”। “सम्यग्ज्ञानाधिगमाद्धर्म्म, दीनामकारणप्राप्तौ। तिष्ठति संस्कारवशाच्चक्रम्रमिवद्धृतशरीरः” सा० का० “तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपगोगलक्षणाय फलाय कल्पते। क्लेशसलिलावसिक्तायां हि बुद्धिभूमौ कर्म्मवीजान्यङ्गुरं प्रसुवत तत्त्वज्ञाननिदावनिपीतसकलक्लेशसलिलायामूषरायां कुतः कर्म्मवीजानामङ्गुरप्रसवः। तदिदमुक्तं धर्म्मादीनामकारणप्राप्ताविति अकारणत्व्याप्तावित्यर्थः। उत्पन्न तत्त्वज्ञानेऽपि च संस्कारवशात्तिष्ठति यथोपरतेऽपि कुलालव्यापारे चक्रं वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति कालप रपाकवशात्तूपरते संस्कारे निष्क्रियं भवति। शरीरस्थितौ च प्रारब्धपरिपाकौ धर्माधर्म्मौ संस्कारौ। तथाचानुश्रूयते “भेगेन त्वितरे क्षपयित्वाथ सम्पद्यते” इति “तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति। प्रक्षीयमाणाविद्याविशेषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धृतशरीरस्तिष्ठति” त० कौ० विवृतमेतदम्माभिः“इतरे उत्पन्नविवेकज्ञानाः भोगेन प्रारब्धकर्म्माणीति शेषः क्षपयित्वा नाशयित्वा समाप्येति यावत् अथ–प्रारब्धक- र्म्मक्षयानन्तरं सम्पद्यते बन्धशून्यतया कैवल्यभाजनतारूपेण सम्पद्यते। अस्य–उत्पन्नबिवेकज्ञानस्य तावदेव चिरं कैवल्यप्राप्तौ विलम्बः, यावत् विमोक्ष्ये प्रारब्धकर्म्मभिरिति शेषः विमोक्ष्ये ततोमुक्तिं प्रापस्यतीत्यर्थः। अथ प्रारब्धकर्म्ममोचनानन्तरं सम्पत्स्ये कैवल्यरूपेण सम्पन्नो भविष्यतीत्यर्थः”। “प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तेः। एकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति” सा० का०। “अनारब्धविपाकानां तावत्कर्म्माशयानां तत्त्वज्ञानाग्निना वीजभावोदग्धः प्रारब्धविपाकानां तूपभोगेन क्षये सति प्राप्ते शरीरभेदे विनाशे चरितार्थत्वात्कृतप्रयोजनत्वात्प्रधानस्य तं पुरुषं प्रति निवृत्तावैकान्तिकमवश्यम्भावि आत्यन्तिकमपिनाशीत्युभयं कैवल्यं दुःखत्रयविगमं प्राप्रोति पुरुषः” त० कौ० विवृतञ्चैतदस्माभिः “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्ज्जुन!” इति “मा भुक्तं क्षीवते कर्म्म कल्पकोटिशतैरपीति” शास्त्रयोः प्रारब्धाप्रारब्धकर्म्मविषयकत्वेन क्षयाक्षयौ व्यवस्थापितावित्याशयेनाह तत्त्वज्ञानाग्निनेत्यादि”। पातञ्जले कैवल्यपादे कैवल्यकारणमुक्त्वा तत्स्वरूपमुक्तं यथा “विशेषदर्शिनआत्मभावभावनानिवृत्तिः” सू०। “यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्वीजसत्तानुमीयते तथा मोक्षमार्ग श्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनवीजमपवर्गभागीयं कर्म्माभिनिर्वत्तितमित्यनुभीयते तस्यात्मभावभावन स्वाभाविकी प्रवर्त्ततते यस्या भावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्ब्बपक्षे रुचिर्भवत्यरुचिश्च निर्ण्णवे भवति तत्रात्मभावभावना कोऽहमासं, कथमहमासं किं स्विदिदंमे, कथं खिदहं, के भविष्याम, इति” सा तु विशेषदर्शिनो निवर्तते कुतः चित्तस्येवैष विचित्रः परिणामः पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्म्मैरपरामृष्ट इति ततोऽस्यात्मभावभावना कुशलस्य निवर्त्तते इति” भाष्यम्। “तदा विवेकनिम्नं कैवल्यप्राग्भारञ्चित्तम्” सू०। “तदानीं यदस्य चित्तं विषयप्रागभारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति कवल्यप्रागभारं विवेकजज्ञाननिम्नमिति” भाष्यम्। “प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्म्मनेघः समाधिः” सू०। “यदायं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदस्ततोऽपि न किंचित् प्रार्थयते तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्का- रवीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्म्ममेघोनाम समाधिर्भवति” भा०। “ततः क्लेशकर्म्मनिवृत्तिः” सू०। “तल्लाभादविद्यादयः क्लेशाः समूलकाष कषिता भवन्ति कुशलाकुशलाश्च कर्म्माशयाः समूलवातं हताभवन्ति क्लेशकर्म्मनिवृत्तौ जीवन्नेव विद्वान् बिमुक्तो भवति कस्मात्? यस्माद्विपर्य्ययो भवस्य कारणं न हि क्षोणविपर्य्ययः कश्चित्केनचित् क्वचिज्जातो दृश्यते” भा०। “तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यं ज्ञेयमल्पम्” सू० “सर्व्वैः क्लेशकर्म्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्य भवति तमसाभिभूतमावृतज्ञानसत्वं क्वचिदेव रजसा प्रवर्तितमुद्द्वाटितं ग्रहणसमर्थं भवति तत्र यदा सर्वैरावरणमलैरपगतमलम्भवति तदा भवत्यस्यानन्त्यं ज्ञानस्या नन्त्याञ्ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, यत्रेदमुक्तम् “अन्धोमणिमघ्यविध्यत्तमनङ्गुलिरावयत्। अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोभ्यपूजयदिति” भा०। “ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्” सू०। “तस्य धर्म्ममेवस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते” भा० “गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तन्तत्स्वरूपमवधार्य्यते” भा० “पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कवल्यं स्वरूप प्रतिष्ठा वा चितिशक्तिरिति” सू०। कृतभोगापयर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्य्यकारणात्मना गुणानान्तत्कैवल्यं स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला तस्याः सदा तथैवावस्थानं कैवल्यमिति” भा०। “कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसङ्गतिमाह गुणाधिकारेति पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः केल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति। कुतः करणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधाने लयः, तेषां कार्य्यकारणात्मनां गुणानां व्युत्थानसमाधिनिरोधसंस्कारा मनसि लीयन्ते मनोऽस्मितायाम्, अस्मिता लिङ्गे, लिङ्गमलिङ्गे” इति योऽयं गुणानां कार्य्यकारणात्मकानां प्रतिसर्गः तत् कैवल्यं, यं कञ्चित् पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा पुरुषस्य वा मोक्ष इत्याह। स्वरूपेति। अस्ति हि महाप्रलयेऽपि स्वरूप प्रतिष्ठा चितिशक्तिर्न चासौ मोक्ष इत्यत आह पुन रिति सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ “वा० विवरणम् केदान्तिमते अविद्याकल्पितदेहादिप्रपञ्चनिवृत्तौ २ अद्वितीयब्रह्मभावापत्तिरूपे केवलत्वे च। तच्च कैवल्यं द्विविधं जीवन्मुक्तिर्विदहकैवल्यञ्च। तत्र जीवन्मुक्तिलक्षणम् विस्तरेण जीवन्मुक्तशब्दे वक्ष्यते दिग्मात्र मत्राभिधीयते तत्र विवेकचूडामणौ जीवन्सुक्तलक्षण मुक्त्वोक्तं यथा “विज्ञातब्रह्मतत्त्वस्य यथापूर्बं न संसृतिः। अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः। प्राचीनवासनावेगादसौ संसरतीति चेत्। न सदेकत्वविज्ञानाम्मन्दीभवति वासना। अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मा तरि। तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः। निदिध्यासनहीनस्य बाह्यप्रत्ययैष्यते। ब्रवीति श्रुतिरेतस्य प्रारब्धफलदर्शनात्। सुखाद्यनुभवो यावत्तावत् प्रारब्धमिष्यते। फलोदयः क्रियापूर्बो निष्क्रियो न हि कुत्रचित्?। अहंब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम्। सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्म्मवत्। यत् कृतं स्वप्नवेलायां पुण्यं वा पापमुल्वणम्। सुप्तोत्थितस्य किं तत् स्यात्? स्वर्गाय नरकाय वा। स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा। न श्लिष्यति च यत्किञ्चित् कदाचिद्भाविकर्मभिः। न नभो घटयोगेन सुरागन्धेन लिप्यते। तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्य ते। ज्ञानोदयात् पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति। अ दत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टवाणवत्। व्याघ्रबुद्ध्या विनिर्मुक्तो वाणः पश्चात्तु गोमतौ। न तिष्ठति छिनत्त्येव लक्ष्यं बेगेन निर्भरम्। प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम्। ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थितास्तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम्। उपाधितादात्म्यविहीनकेवलब्रह्मात्मनैवात्मनि तिष्ठतोमुनेः। प्रारब्धसद्धावकथा न युक्ता स्वप्नार्थ सस्वद्धकथेव जाग्रतः। न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे। करोत्यहन्तां ममतामिदन्तां किन्तु स्वयं तिष्ठति जागरेण। तदाऽस्य मिथ्यार्थममर्थनेच्छा न संग्रहस्तज्जगतोऽपि दृष्टः।। तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम्। तद्वत् परे ब्रह्मणि वर्त्तमानः सदात्मना तिष्ठति नान्यदीक्षते। स्मृतियैथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ। कर्म्मणा निर्मितोदेहः प्रारब्धं तस्य कल्पताम्। नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः। अजीनित्यः शाश्वतश्च ब्रूते श्रुतिरमोघवाक्। यदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना। प्रारब्धं सिध्यति तदा सदा देहात्मना स्थितिः। देहात्मभावो वैवेष्टः प्रारब्धं त्यज्यतामतः। शरीरस्यापि प्रारब्धकल्पनाभ्रान्तिरेव हि। अध्यस्तस्य कुतः सत्त्वम्? असत्यस्य कुतोजनिः?। अजातस्य कुतोनाशः? प्रारब्धमसतः कुतः?। ज्ञानेनाज्ञानकार्य्यस्य समूलस्य लयो यदि। तिष्ठत्ययं कथं देह! इति शङ्कावतो जडान्। समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः। न तु देहादिसत्यत्ववोधनाय विपश्चिताम्। परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम्। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन। सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम्। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन। प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम्। एकमेवाद्वयमित्यादि। अहेयमनुपादेयमनादेयमनाश्रयम्। एकमेवाद्वयमित्यादि। निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम्। एकमेवाद्वयमित्यादि। अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम्। एकमेवाद्वयमित्यादि। सत्समृद्धं स्वतः सिद्धं शुद्धं बुद्धमनीदृशम्। एकमेवाद्वयमित्यादि। निरस्तरागाश्च निरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः। विज्ञाय तत्त्वं परमं तदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात्। भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं विचार्य्य। विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः। समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा। निःसंशयं सम्यगवेक्षितश्चेच्छ्रुतः पदार्थो न पुनर्विकल्पते। स्वस्याविद्याबन्धसम्बन्धमोक्षात् सत्यज्ञानानन्दरूपात्मलब्धौ। शास्त्रं युक्तिर्दौशकोक्तिः प्रमाणं चान्तःसिद्धाः स्वानुभूतिः प्रमाणम्। बन्धोमोक्षश्च तृप्तिश्च चिन्तारोग्यसुखादयः। स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम्। तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा। प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया। स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम्। संसिद्धः सन्मुखं तिष्ठेत् निर्विकल्पात्मनात्मनि। वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च। अखण्डरूपस्थितिरेब मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम्”। तदीयज्ञानाकारोऽपि तत्र दर्शितो यथा “अकर्त्ताहमभोक्ताहमविकारोऽहमक्रियः। शुद्धबोध- स्वरूपोऽहं केवलोऽहं सदाशिवः। द्रष्टुः श्रोतुर्वक्तुः कर्त्तुर्भोक्तुर्विभिन्नएवाहम्। नित्यनिरन्तरनिष्क्रियो निःसीमाऽसङ्गपूर्णबोधात्मा। नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम्। बाह्याभ्यन्तरशून्यं पूर्णं व्रह्माद्वितीयमेवाहम्। निरुपममनादितत्त्वं त्वमहमिदमदैति कल्पनादूरम्। नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम्। नारायणोऽहं नरकान्तोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः। अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहञ्च निर्म्ममः। सर्व्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनान्तर्बहिराश्रयः सन्। भोक्ता च भोग्थं स्वयमेव सर्व्वं यद्यत् पृथक् दृष्टमिदन्तया पुरा। मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः। उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्। स्थूलादिभावा मयि कल्पिता भ्रमादारोपितानुस्फुरणेतलोके। काले यथा कल्पकयत्सरायनर्त्वादयो निष्कलनिर्व्विकल्पे। आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैरतिदोषदूषितैः। नार्द्रीकरोत्यूषरभूमिभागं मरीचिकावारिमहाप्रवाहः। आकाशवत् कल्पविदूरगोऽहमादित्यवद्भास्वरलक्षणोऽहम्। आहार्य्यवन्नित्यविनिश्चलोऽहमम्भोधिवत् पारविवर्जितोऽहम्। न मे देहेन सम्बन्धो मेघेनेव विहायसः। अतः कुतो मे तद्धर्म्मा जाग्रत्स्वप्तसुषुप्तयः। उपाविरायाति स एव गच्छति स एव कर्म्माण करोति भुङक्ते। स एव जीर्य्यन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः। न मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य। एकात्मको यो निविडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते?। पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः। कुतोममाखण्डसुखानुभूतेः? ब्रूते ह्मनन्वागतमित्यपि श्रुतिः। छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा। न स्पृशत्येव यत् किञ्चित् पुरुषं तद्विलक्षणम्। न साक्षिणं साक्ष्यधर्म्माः संस्पृशन्ति विलक्षणम्। अविकारमुदासीनं गृहधर्म्माः प्रदीपवत्। रधेर्यथा कर्म्मणि साक्षिभावो वह्नेर्यथा दाहनियामकत्वम्। रज्जोर्यथारोपितवस्तुसङ्गस्तथैव कूटस्थचिदात्मनोमे। कर्त्तापि वा कारयित, पि नाहं भोक्तापि वा भोजयितापि नाहम्। द्रष्ठापि वा दर्शयितापि नाहं सोऽहं, स्वयंज्योतिरनीदृगात्मा। चलत्युपाधौ प्रतिविम्बलौल्यमौपाधिक। मूढधियो नमन्ति। स्वपिम्वभूतं रविवद्विनिष्क्रियं कर्त्तास्मि भोक्ता- स्मि हतोऽस्मि हन्ता। जले वापि स्थले वापि लुठत्वेष जडात्मकः। नाहं विलिप्ये तद्धर्म्मैर्घटधर्म्मैर्नभो यथा। कर्त्तृत्वभोक्तृत्वखलत्वमत्तताजडत्वबद्धत्वविमुक्ततादयः। बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवलेऽद्वये। सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि। किं मे सङ्गिभिरेभिर्न ह्यम्बुदा वरमम्बरं स्पृशन्ति। अव्यक्तादिस्थूलपर्य्यन्तमेतद्विश्वं यत्राभासमात्रं प्रतीतम्। व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि। सर्व्वाधारं सर्व्ववस्तुप्रकाशं सर्व्वाकारं सर्व्वगं सर्वशून्यम्। नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि। यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम्। सत्यज्ञानानन्दमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि। निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः। निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः। सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः। केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरम्। स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात्। प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु”। पुनस्तल्लक्षणं तत्रैवोक्तं यथा “क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि। तथैव विद्वान् रमते निर्म्ममी निरहं सुखी। चिन्ताशून्यमदैन्यभैक्ष्यमशनं, पानं सरिद्वारिषु, स्वातन्त्र्येण निरङ्गुशा स्थितिरसो निद्रा श्मशाने वने। वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही सञ्चारो निगमान्त वीथिषु विदां क्रीडा परे ब्रह्मणि। विमानमालम्व्य शरीरमेतद् भुनक्त्यशेषान् विषयानुपस्थितान्। परेच्छया बालवदात्मवेत्ता योव्यकलिङ्गोननु सक्तबाह्यः। दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः। उन्मत्तवद् वापि च बालवद् वा पिशाचवद् वापि चरत्यवन्याम्। काभान्निष्णामरूपी संश्चरत्येकचरोमुनिः। स्वात्मनैव सदा तुष्टः स्वय सर्वात्मना स्थितः। क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः। क्कचित् पात्रीभूतः क्वचिदवमतः क्वाप्यविदितश्चरत्येवं प्राज्ञः सततपरमानन्दसुखितः। निर्धनोऽपि सदा तष्टोऽप्यसहायो महाबलः। नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शाः। अपि क्रर्वन्नकुर्वाणश्चाभोक्ता फलगोग्यपि। शरीर्थप्प- शरीर्य्येष परिच्छिन्नोऽपि सर्वगः। अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित्। प्रियाप्रिये न स्मृशतस्तथैव च शुभाशुभे। स्थूलादिसम्बन्धवतोऽभिमानिनः सुखञ्च दुःखञ्च शुभाशुभे च विध्वस्तबन्धस्य सदात्मनी मुनेः कुतः शुभं वाप्यशुभं फल वा। तमसा ग्रस्तवद्भानादग्ररतोऽपि रविर्जनैः। ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम्। तद्वद्देहादिबन्धेन्यो विमुक्तब्रह्मवित्तमम्। पस्यन्ति देहवन्मूढाः शरीराभासदर्शनात्। अहिनिर्णयनीवायं मुकदेहस्तु तिष्ठति। इतस्ततश्चाल्यमानो यत् केञ्चित् प्राणवायुना। स्रोतसा नोयते दारु यथा निम्नोन्नतस्थलम्। दैवेन नोयते देहो यथाकालोपभुक्तिषु। प्रारब्धकर्म्मपरिकल्पितवासनाभिः संसारिवच्चरति भुकिषु मुकदेहः। सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः। नैवेन्द्रियाणि विपयेषु नियुङ्क्त एष नैवापयुङ्क्त उपदर्शनलक्षणस्थः। नैव क्रियाफलमपोषदवेक्षते स सानन्दसान्द्ररसवानसुप्तत्त चतः। लक्ष्यालक्ष्यग त त्यक्त्वा यस्तिष्ठेत् केवलात्मन०। शिवएव स्वयं साक्षादय ब्रह्मविदुत्तमः। जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः”। विदेहकैवत्यमपि तत्र दर्शितं यथा “उपाधिनाशाद् ब्रह्मैव सन् ब्रह्मावेति निर्द्वयम्। शैलूषवंशस द्भावाभावयोश्च यथा पुमान्। तथैव ब्रह्मविच्छेष्ठः सदा ब्रह्मैव नापरः। यत्र क्वापि विशोर्णं सत् पर्णमिव तरोर्वपुषः पतनात्। ब्रह्मोभूतस्य यतेः प्रागेव तच्चिदग्निमा दग्धम्। सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा। न देशकालाद्युचितप्रतीक्षा त्वङ्मां सविट्पिण्डविसर्जनाय। देहस्य मीक्षो मोक्षोन न दण्डस्य कमण्डलोः। अविद्याहृदयग्रन्थिनोक्षोमोक्षो यताततः। कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्थरे। पणे पतति चेत्तेन तरोः किं नु शुमाशुभम्?। पत्रस्य पुष्पस्य फलस्य नाशबद् देहेन्द्रयप्राणधियां विनाशः। नैवत्मनः स्वस्य सदात्मकत्यानन्दाकृतेर्वृक्षवदस्ति चैवः। प्रज्ञानषनैत्यात्मलक्षणं सत्यसूचकम्। अविद्योपाधिकस्यैव कथयलि विनाशनम्। अविनाशी वा अरेऽथमात्मेति श्रुतिरात्मनः। प्रववीत्यविनाशित्व विनश्यत्सु विकारिषु। काषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा भवन्ति हि नृदेव यथा तथैव। देहेन्द्रियासुमनआदि समक्षदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम्। विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि। तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते। घटेनष्टे यथा व्योम व्योमैव भवति स्फुटम्। तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम्। क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले। संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः”। एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम्। ब्रह्ममावं प्रपद्यैष यतिर्नावर्त्तते पुनः। सदात्मैकत्वविज्ञानदाधाविद्यादिवर्ष्मणः। अमुष्य व्रह्मभूतत्वाद्व्रह्मणः कुत उद्भवः?। मायाकॢप्तौ बन्धमेक्षो न स्तः स्वात्मनि वस्तुतः। यथा रज्वौ निष्क्रियाया सर्पाभासविनिर्गमौ। आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे। नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम्। यद्यस्त्यद्वैतहानिः स्यात् द्वैतं न सहते श्रुतिः। बन्धश्च मोक्षश्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति। दृगावृतिं मेवकृतां यथा रवौ यतोऽद्वयासङ्गचिदेकमक्षरम्। अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि। बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः। अतस्तौ मायया क्लृमौ बन्धमोक्षौ न चात्मनि। निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने। अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः?। न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता। सकलभिगभचूडास्वान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं दर्शित ते मयाद्य। अपगतकलिदोषं कामनिर्भुक्तबुद्धिं त्वमनुवद सकृत्त्वं भावयित्वा मुनुक्षुम्”। कैवल्यं स्वरूपत्वेनास्त्यस्य अर्श० अच्। ३ कैवल्यस्वरूपे त्रि० “ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना। कैवल्या या गतिर्ब्रह्मसदने सा गतिर्भवाम्” भा० अनु० १६ अ०। “कैवल्या मोक्षाख्या गतिः” नीलक०। केवल एव स्वार्थे ष्यञ्। ४ अद्वितीये वस्तुनि न० “धातारमजमव्यक्तं यमाहुः परमव्ययम्। कैवल्यं निर्गुणं विश्वमनादिमजमक्षरम्” भा० अ० ६३ अ०

कैशिक = न० केशानां समूहः ठक्। १ केशसमूहे। २ नाटकपसिद्धे वृत्तिभेदे स्त्री ङीप् हेमच० सा० द० सरस्वतीकण्ठाभरणे च कौशिकीत्थेव पाठः। व्यलङ्कारशब्दे ३८८ पृ० तल्लक्षणमुक्तम्। ३ शृङ्गारे पु० जटा० तस्य केशवेशपूर्व्वकत्वेन तदधीनत्वात् तथात्वम्। ५ नृपभेदे पु० “आहृतिः कैशिकश्चैव भीष्मकश्च नराधिपः” हरिवं० ९६ अ०

कैशीर = न० किशोरस्य भावः कर्म्मवा प्राणभृद्वये वाचित्वात् अञ। “कौमारं पञ्चमाव्दान्तं पौगण्डं दशमावधि। कैशोरमा पञ्चदशात् यौवनं तु ततः परमिति” श्रीधरदर्शिते एकादशावधिपञ्चदशपर्य्यन्तवर्षपयमि “मन्तं वयसि कैशोरे भृयानुग्रहकारकम्” भाग० ३१२८। १८ स्वार्थे क। तत्रार्थे “कैशोरकं मानयन् वै सह ताभिर्मुमोद ह” हरिवं० ७७

कैशोरिकेय = पुंस्त्री० कशोरी + स्वार्थे क ततः शुभ्रा० अपत्ये ढक्। किशोर्य्या अपत्ये

कोक = पुंस्त्री कुक–आदाने अच्। १ चक्रवाके “हंसारवैः कोकरवैश्च” भा० आनु० २६ अ० “विरहविधुरकोकद्वन्द्वशोकं विभिन्दन्” उद्भटः। २ वृके “वनेयूथपरिभ्रष्टा मृगी कोकै (वृकैः) रिवार्द्दिता” रामा०। ३ भेके च स्त्रियां ङीप्। ४ ज्येष्ठ्याम् (टिकटिकी) ५ खर्ज्जूरी वृक्षे च पु० मेदि० ६ विष्णौ पु० त्रिका०

कोकड = पुंस्त्री कोकं तद्रवं लाति ला–क लस्य डः। विलेशयमृगभेदे चमरमृगे राजनि० स्त्रियां ङीष्।

कोकदेव = पुं स्त्री कोकैव दोव्यति दिव–अच्। कपिते राजनि०

कोकनद = न० कोकान् चक्रवाकान् नदति नादयति अन्तर्भूतण्यर्थे नद–अच्। १ रक्तकनुदे, २ रक्तपद्मे च। “व्याकोशकोकनदतां दधते नलिन्यः” माघः। “सरसः कोकनदभ्रमादिव” नैप०

कोकतदच्छवि = पु० कोकनदस्य छविरिव छविर्दी प्तर्यस्य। १ रक्रवर्णे २ तद्वति त्रि० अमरः।

कोकबन्धु = पु० कोकयोश्चक्रवाकयोमेर्लनकारित्वात् बन्धुरिव। सूर्य्ये शब्दच०।

कोकरक = पु० ब० व० देशभेदे। “वकाः कोकरकाः प्रोष्ठाः समवेगवशास्तया” भा० भी० ९ देशकथते।

कोकवाच = पुंस्त्री कोकस्य वाचेव वाचा वाक् रवोयस्य। विलेशयमृगभेदे राजनि०

कोकाग्र = पु० कोकस्येवाग्रमस्य। समष्ठिनक्षुपभेदे राजनि०

कोकामुख = न० भारतप्तसिते तीर्यभेदे “कोकामुखमुपस्पृश्य ब्रह्मचारो यतव्रतः। जातिस्मरत्वमाप्नोति दृष्टमेतत् पुरातनैः” भा० व० ८४ अ० “कोकामुखे विगाह्याथ” भा० आनु०। २५ अ०

कोकाह = पु० कोकैवाहन्ति आ + हन–ड। श्वेताश्वे हेमच०

कोकिल = पुंस्त्री कुक–इलच्। स्वनामख्याते पक्षिणि अमरः। “पुस्कोकिलो यन्मधुरं चुकूज” कुम० स्त्रियाम् जातित्वऽपि–अजा० टाप्। “कोकिलाकलरवो वनेवने नूनमल निगडो भविष्यति” उद्भटः। “अवक्रुष्टः कोकिति” सि० की० “र तदूतिपदेपु कोकिलाम्” कुमा० “कोकिलामञ्जुवादिनीम्” रघुः। अङ्गारे पु० त्रिका० संज्ञायां कन्। “हयदशभिर्नजौ भजजला गुरु नद्दटकम्। मुनिगुहकार्णवैः कृतयति वद कोकिलकम्” वृ० र० उक्ते २ छन्दोभेदे न०।

कोकिलनयन = पु० कोकिलस्य नयनमिव रक्तं पुष्पमस्य। अतिरक्तपुष्पे (तालमाखना) (कुलेखाडा) वृक्षभेदे रमानाथः

कोकिलाक्ष = पु० कोकिलस्याक्षीव रक्तं पुष्पमस्य षच्समा०। (तालमाखना) वृक्षभेदे अमरः

कोकिलावास = पु० ६ त०। आम्रवृक्ष राजनि०

कोकिलासन = न० रुद्रयामलोक्ते आसनभेदे तल्लक्षणम् यथा “अथान्यदासनं वक्ष्ये येन सिद्धो भवेन्नरः। निरुन्ध्याद्वायुसञ्चारं कोकिलाख्यासनेन च। ऊर्द्धं हस्तद्वयं कृत्वा तदग्रे पादयोः सुधीः। बद्ध्वाङ्गुष्ठद्वयं नाथ। शनैः सनैः प्रकारयेत्। पद्मासनं समाकृत्य कुर्परोपरि संस्थितः”

कोकिलेक्षु = पु० कोकिल इव कृष्णः इक्षुः। (काजला)इक्षुभेदे। राजनि०

कोकिलेष्टा = स्त्री० ६ त०। महाजम्बूवृक्षे राजनि०

कोकिलोत्सव = पु० कोकिलानामुत्सवोऽत्र। आम्रवृक्षे राजनि०

कोङ्क = पु० ब० व०। देशभेदे। “चक्रमाणं कोङ्कवेङ्कटकान्” (देशान्) भाग० ५। ६। ८

कोङ्कण = पु० ब० व०। देशभेदे स च देशः वृ० सं० कूर्मविभागे दक्षिणस्यामुक्तः “शिविकफणिकारकोङ्कणामीराः”। “अथापरे जनपदा दक्षिणा मरतर्षभ!। कौकुट्टकास्तथा चोलाः कोङ्कणा मलवानरा” भा० भी० ९ अ०। क्वचिदेकत्वम् “नायं वर्ज्यः कोङ्कणे मागधे च” मु० चि० “मालवे गौडदेशे च सिन्धदेशे च कोङ्कणे। व्रतं चूडां विवाहश्च वर्ज्जयेन्मकरे गुरौ” पी० धा०। तेषां राजा अण्। कौङ्कण तद्देशनृपे वहुषु तस्य लुक्। तत्रार्ये स्वार्थे क “कुन्तलांश्च तथा वङ्गान् शाल्वान् कोङ्गणकांस्तथा (विजिथ) हरिवं० १४ अ०

कोङ्कणासुत = पु० कोङ्कणदेशोद्भवा अण् तस्य लुक् कोङ्कणा रेणुका ६ त०। परशुरामे शब्दमा०

कोच = त्रि० कुच–ज्वला० कर्त्तरि ण। १ सङ्कोचके,। भावे वञ्। २ सङ्कोचे “एकैकस्य त्वक्वोचभदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति” सुश्रु० ब्रह्मवे० पु० उक्ते ३ जातिभेदे(को~च)“तीवरस्यैव स पुत्रः मांसच्छेदिससद्भवः। कोचजातिरिति इति तत्रोक्तेः। स्त्रिया ङीष्। ४ ततप्रधाने देशे पु०। सोऽभिजव स्य अण्। कोच तद्वेशवासिनि बहुषु तस्य अणोलुक्।

कोजानर = पु० कोजागर्त्ति इति लक्ष्म्याउक्तिरत्र काले पृषो०। आश्विनपौर्ण्णपास्याम्। तत्कृत्यव्यवस्थादि ति० त० कल्पतरौ ब्रह्मपुराणम् “आश्वयुज्यां पौर्णमास्यां भिकुम्भोवालुकार्णवात्। आयाति सेनया सार्द्धं कृत्वा युद्धं सुदारुणम्। तस्मात्तत्र नरैर्मार्गाः स्वगेहस्य समीपतः। शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनैः। पुष्पार्घ्यफलमूलान्नसर्षपप्रकरैस्तथा। वेश्मानि भूषितव्यानि ना नावर्णैर्विशेषतः। सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सवान्धवैः। दिवा तत्र न भीक्तव्यं मनुष्यैश्च विवेकेभिः। स्त्रीवालमूर्खवृद्धैश्च भोक्तव्यं पूजितैः सुरैः”। पूजितैः सुरैः पूजितसुरैरित्यर्थः। “पूज्याश्च सफलैः पुष्पैस्तथाद्वारोर्द्धभित्तयः। द्वारोपान्ते सुदीप्तस्तु संपज्योहव्यवाहनः। यवाक्षतघतोपेतैस्तण्डुलैश्च सुतर्पितः। संपूजितव्यः पूर्ण्णेन्दुः पयसा पायसेन च। स्कन्दः सभार्य्यरुद्रश्च तथा नन्दीश्वरोमुनिः। गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः। उरभ्रवद्भिर्व्वरुणोगजवद्भिर्विनायकः। पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः। ततः पूज्योनिकुम्भोऽपि समांसैस्तिलतण्डुलैः। सुगन्धिभिर्घृतोपेतैः कृशराख्यैश्च भूरिभिः। ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम्। वह्निपार्श्वगतैर्नेया दृष्ट्वा क्रीडाः पृथग्विधाः”। ततश्च द्वारोर्द्ध्वभित्तिहव्यवाहपूर्णेन्दुसभार्य्यरुद्रस्कन्दनन्दीश्वरमुनयः सर्व्व पूज्याः। द्वारोर्द्ध्वभित्तिशब्दोऽत्र बहुवचनान्तः। नन्दीश्वरोमुनिरेकः। गोमता सुरभिः, छागवता हुताशनः मेषवता वरुणः, हस्तिमता विनायकः, अश्ववता रेवन्तः सर्व्वैरव निकुम्भः पूज्यः, महार्णवे मिङ्गपुराणम्। “आश्विने पौर्ण्णमास्यान्तु चरेज्जागरणं निशि। कौमुदी सा समाख्याता कार्य्या लोकविभूतये। कौमद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावते स्थितम्। सुगन्धिर्निशि सद्वेशो अक्षैर्ज्जागरणं चरेत्”। तथा “निशीथे वरदा लक्ष्मीः कोजागर्त्तीत भाषिणी। तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः। नारिकेलैश्चिपिटकैः पितन् देवान् समर्च्चयेत्। बन्धूंश्च प्रीणयेत्तेन स्वयं तदशनोभवेत्”। अत्र निशीति निशीथ इति चाभिधानात् रात्रिकृत्यमिदम्। ततश्च “प्रदीषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा। प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिध्यते” इति वत्सवचनात् यद्दिने प्रदोषनिशीथोभयव्यापिनी पौर्णमासी तद्दिने कोजागरकृत्यम् उभयव्माप्त्यनुरो- धात्। यदा तु पूर्बदिने निशीथव्याप्तिः परदिने प्रदोषव्याप्तिस्तदा परेद्युस्तत्कृत्यम्। प्रधानपूजाकालव्याप्त्यनुरोधात्। यदा तु पूर्ब्बदिने निशीथव्याप्तिः परदिने न प्रदोषव्याप्तिस्तदा सुतरा पूर्ब्बेद्युस्तत्कृत्यम् “अहःसु तिथयः पुण्याः कर्म्मानुष्ठानतोदिवा। नक्तादिव्रतयोगे तु रात्रियोगोविशिष्यते” इति वचनात्”। “नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि। तस्मै वित्तं प्रयच्छामि कोजागर्त्ति महीतले” कृत्यकौमुदी। तत्राक्षक्रीडा कार्य्या। अक्षक्रीडाविशेषश्च चतुरङ्गशब्दे वक्ष्यते। “या तु कोजागरे याते” ति० त० राजमार्त्तण्डः।

कोट = पु० कुट–घज्। १ कौटिल्ये। आधारे घञ्। दूर्गे(गड) मेदि०। ततः चतुरर्थ्याम् अश्मा० र कोटर कोटसन्निकृष्टदेशादौ त्रि०

कोटक = पुं स्त्री कुट–ल्वुल् जातिभेदे ब्रह्मवै० जातिशब्दे विवृतिः स्त्रियां ङीष्।

कोटचक्र = न० कोटस्य दुर्गस्य शुभाशुभज्ञापनार्थे अष्टविध चक्रभेदे चक्रशब्दे विवृतिः। “कोटचक्रमष्टविधं चतुरस्रादिभेदतः “इति नरपतिजयचर्य्या

कोटर = पुंन० कोटं कौटिल्यं राति रा–क। वृक्षस्कन्धादिस्थगह्वरे। “चलत्फणाधरमिव कोटरं तरुः” माघः। “महाहङ्कारविटपैन्द्रियाङ्कुरकोटरः” भा० आश्व० ४७ अ० र दुर्गसन्निकृष्टदेशादौं त्रि० व्युत्पत्तिः लोटशब्दे दृश्या। कोटर दुर्गसन्निकृष्टं वनम् तथाभूतवृक्षाणां वा वनम् कोटरा० पूर्ब्बपददीर्घः णत्वञ्च। कोटरावणम् वनभेदे न०।

कोटरादि = पु० वनशब्दे परे पूर्ब्बस्वरदीर्घनिमित्ते पा० ग० सृत्रोक्ते शब्दगणे स च गणः। “कोटर मिश्रक सिध्रक पुरग शारिक”।

कोटरी = स्त्री कोटं कौटिल्यं रीणाति री–बधे गतौ च क्विप् १ नग्नायां स्त्रियां २ दुर्गायाञ्च अमरटीका।

कोटवी = स्त्री कोटं कौटिल्यं दुर्गं वा वाति वा–गतौ हिंसने क गौरा० ङीष्। १ दुर्गायाम् धरणिः। २ नग्नायां स्त्रियां अमरटीका।

कोटि = स्त्री कुट–इञ्। १ धनुषोऽग्रभागे अमरः २ वस्तुमात्रस्याग्रभागे, ३ अस्त्राणां कोणे ४ उत्कर्षे ५ शतलक्षामतसंख्यायां, ६ तत्संख्येये च मेदि०। ७ पृक्कायाम् (पिडिङ्गशाक) अमरः ८ संशयस्यालम्बने, वादे निर्णयार्थं कृते ९ पूर्व्वपक्षे, वा ङीप् कोटीत्यप्यत्र। “धनुष्कोट्यातुद्य कर्णेन वीरम्” भा० आ० १ अ०। “तेन मूमिनिहितैककोटि तत्” (कार्म्मुकम्) रघुः। “आवर्जितजटामौलिविलम्बिशशिकोटयः” कुमा० “मूर्द्ध्निस्खलत्तुहिनदीधितिकोटिमेनम्” माघः “विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिः” संशयहेतूक्तौ गदाधरः। “इष्टाद्वाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः। त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः” १० लीलावत्युक्ते त्रिकोणादिक्षेत्रावयवरेखाभेदे स्त्री “तथायते तद्भुजकोटि वातः” लीला० “त्रिनिर्मैः पदं तानि चत्वारि चक्रे क्रमात् स्यादयुग्युग्मसंज्ञा च तेषाम्। अयुग्ये पदे यातम् एष्यन्तु युग्मे भुजोबाहुहीनं त्रिमं कोटिरुक्ता” सि० शि० उक्ते राशिचक्रस्य ११ वृतीयांशे १२ तत्रोक्ते छायानिरूपणार्थे कल्प्यमानक्षेत्रावयवरेस्वाभेदे यथा “दिक्सूत्रसम्पातगतस्य शङ्कोश्छायाग्रपूर्व्वापरसूत्रमध्यम्। दोर्दोःप्रभावर्गवियोनमूलं कोटिर्नरात् प्रानपरा ततः स्यात्” सि० शि०” “दिक्संपातस्थस्य शङ्कोर्भाग्रं यत्र पतति तस्य पर्ब्बापरसूत्रस्य च यदन्तरं स दोरित्युच्यते देश्छाययोर्वर्गान्तरपदं पूर्ब्बापरा कोटिरिति” प्रमि० १३ चन्द्रस्य शृङ्गोन्नतिज्ञानार्थं तत्रैव दर्शिते क्षेत्रावयवभेदे च यथा “योऽधो नरो दिनकृतः स विधोरुदग्रशङ्क्वन्वितो मम मता खलु सैव कोटिः” सि० शि० “यो रवेरधः शङ्कुरसौ विधोरूर्ध्वशङ्कुना युतः सैव कोटिर्मम मता अत्रोपपत्तिः। इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः। ऊर्ध्वाधरभावेन यदन्तरं मा कोटिः। सा चैवं भवति। उदयेऽस्ते वा यदि शृङ्गोन्नतिस्तदा रविशङ्कोरभावाच्छशिवङ्कुरेव कोटिः। यदा निशि रवेरधः शङ्कुस्तदा स शङ्कु र्वधोरुदयशङ्कुना युतो यावांस्तावत् तयोर्यत्रस्थयारूर्द्धावरमन्तरं सैव कोटिरुचिता। यतो द्रष्ट्रा पुरुषेणात्मनोऽवस्थानवशेन शशिनः शृङ्गमु न्नतमवलोक्यम्। अतः स्वावस्थानसमसूत्रादूध्वेरूपिण्या कोट्या भवितव्यम्। भुजकोटिकर्णकृतं त्र्यस्रं दृष्टेरग्रत आदर्शवत् संमुखं यथा भवति तथा कल्प्यम्” प्रमि० तत्रैवोक्ते १४ उदयास्तसूत्रकल्पितक्षेत्रावयवभेदे यथा “सूत्राद्दिवाशप्रुतलं यमंशं याम्यां गतं हि द्युनिशं कुजोर्द्धे। अधश्च सौम्यां निशि सौम्यमस्मात् सद्युक्तियुक्तं नृतल निरुक्तम्। सौन्याग्रकाग्रान्नृतलं हि याम्यं याम्याग्रकाग्रात् पुनरेव याम्यम्। तदन्तरैक्यं समवृत्तखेटमध्यांशजीवां भुवि बाहुमाहुः। दृग्ज्यां श्रुतिं चाथ तयोस्तु कोटिं पूर्वापरां वर्गवियोगमूलम्” सि० शि० “क्षितिजस्याहोरात्रवृत्तसंपातयोर्बद्धं सूत्रमुदयास्तसूत्रम्। ग्रहस्थानाल्लम्बः शङ्कुः! तस्य तलमुदयास्तसूत्राद्दक्षिणतो भवति। यतः क्षितिजादुपरि दक्षिणतोऽहोरात्रवृत्तं गतम्। अधस्तूत्तरतो गतम्। अतो निश्युत्तरं नृतलम्। अथ भुज उच्यते। उत्तरगोलेऽग्रीत्तरा नृतल याम्यमतस्तेनोनाग्रा बाहुभेवति। बाहुर्नाम शङ्कुप्राच्यपरसूत्रयोरन्तरम्। यदाऽग्रा शङ्कुतलादूना तदा तयोन्तरं दक्षिणं शङ्कुतलं बाहुः स्यात्। एवं समवृत्तप्रवेशादुपरि दक्षिणगोले त्वग्रा याम्या शङ्कुतलं च याम्यं तयोर्योगे कृते बाहुः स्यात्। रविसमसण्डलयोरन्तरांशानां ज्या बाहुः। तत्र या दृग्ज्या सृ कर्णः। तयोर्वर्गान्तरपदं पूर्व्वापरा कोटिः” प्रमि० “शतं शतसहखाणां केटिमाहुर्मनीषिणः” रामा०। तत्र संख्यायाम् “योनिकोटिसहस्रेषु सृतिं चास्याहुरात्मनः” मनुः। “कोटिकोटिगुणितं दिवि दायि” नैष०। संख्यान्विते “कोटीश्चतस्रोदश चाहरेति” रघुः। ततो वारे कृत्वसुच्। कोटिकृत्वस् कोटिवारार्थे अव्य०। कारकार्थवृत्तेस्ततः वीप्सायां शम्। कोटिशस् वीप्सान्वितकारकरूपे तदर्थे अव्य० कोटिशोददाति।

कोटिक = पु० कोट्या बहुधा कायति प्रकाशते कै–क। इन्द्रगोपकीटे जटाधरः

कोटिकास्य = पु० कोटिकस्येवास्यमस्य। शिविधंश्ये सुरथपुत्रे नृपभेदे “अहन्तु राज्ञः सुरथस्य पुत्रः यं कोटिकास्येति विदुर्मनुष्याः” भा० व० २६४ अ०। द्रौपदीं प्रति तदुक्तिः

कोटिजित् = पु० कोटिं कविकोटिं, पणे केटिमितं द्रव्यं वा जितवान् जि–भूते क्विप्। रघुवंशादिकाव्यकारे कालिदामे त्रिका०।

कोटिज्या = स्त्री सू० ति० उक्ते अहस्पटतासाधनाङ्गे चापावयवभेदे तदानयनं यथा “गताद्भुजज्या विषमे गम्यात् कोटिः पदे भवेत्। युग्मे तु गम्याद्वाहुज्या कोटिज्या तु मताद्भवेत्” सू० सि०। “विषमे पदे गताद्ग्रहस्य पदादितो यद्गतं राशित्रिभागात्मकंप्राग् ज्ञातं तस्मादित्यर्थः भुञज्या स्यात्। गम्याद्गतोनं त्रिभं ग्रहात् पदान्तावधिकमेत्यम्। तस्मात् कोटिः केटिज्या स्यात्। युग्मे समे तुकारात् पदे एव्याद्भुजज्या, गतात् कोटिज्या स्यात् तुकारो विशेषद्योतकः। एकस्मादेवोक्तरीत्या द्वयं साधितमित्यर्थः। अत्रोपपत्तिः विषमपदे ग्रहोच्चोर्ध्वाधररेखान्तरानुसारेण फलमुत्पद्यते ततो वृत्तात्तस्तदतरमर्धज्या भूजरूपा तदर्द्धचाप तदन्तरांशा वृत्तभागस्था गताः। ऊर्ध्वाधररेखामत्स्यसम्पन्नतिर्यग्रेखाग्रहयोरन्तरसूत्रमर्धज्यापदान्तः कोटिज्या भुजोत्क्रमज्योनव्यासार्धरेखारूपकोटितुल्यत्वात्। तदद्धचापं भुजांशोनं त्रिभमित्रि गम्यात् कोठिज्या। समपदे ग्रहोर्ध्वाधररेखान्तर तिर्यगर्धज्या भुजज्येति तदर्धं चापं यद्येष्यं तिर्यग्रेखाग्रहान्तरं तिर्यगर्धज्याकोटितुल्यत्वात् कोटिस्तच्चापं पदगतमित्युपपन्नं गतादित्यादि” रङ्गनाथः

कोटितीर्य = न० कोटिः तीर्थान्यत्र। १ अवन्तिकेशमहाकालसन्निधिरये तीर्थभेदे। “महाकालं ततोगच्छेत् नियतो नितयाशनः। कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्” भा० व० ८२ अ०। २ पञ्चनदातर्गते तीर्थभेदे च। “ततः पञ्चतदं गत्वा नियतोनियताशनः। कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्” भा० ८३ अ०

कोटिपात्र = न० कोटिरग्रं पात्रे जलाशयेऽस्य। केनिपातके हेमच० तदग्रस्य जले पातनेन नौचालनात्तस्य तथावम्। शब्दकल्पद्रुमे पुंख्वोक्तिः प्रामादिकी “केनिपातः कोटिपात्रमरित्रञ्चोडुपः प्लव” इति हेमचन्द्रे क्लीवत्वनिर्द्देशात्।

कोटिफल = न० ६ त०। त्रिकोणादिक्षेत्रावयवस्य कोटेः फले। सि० शि० तदायनप्रकारोदर्शतोयथा। “स्वेनाहते परिधिना भुजकोटिजीवे भांशै ३६० र्हृते च भुजकोटिफलाह्वये स्तः” मू०। “अत्रोपपत्तिः। यावत् केन्द्रप्रतिमण्डले तावदेव नीचोच्चवृत्ते स्यात्। अतः प्रतिमण्डलदोःकोटिज्ये अनुपातेन नीचोच्चवृत्ते परिणाम्येते यदिभांशवृत्ते ३६० एते दोः कोटिज्ये तदा परिध्यंशवृत्ते किमिति। अथवा त्रिज्याव्यासार्धे एते दोःकोटिज्ये तदान्त्यफलज्याव्यासार्धे किमिति। फलं तुंल्यमेव” प्रमि०। उक्तञ्च सू० सि० रङ्गनाथाम्यां यथा “तद्गुणे भुजकोटिज्येभगणांशविभाजिते। तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम्” मू० “भुजकोटिज्ये मन्दशीघ्रान्यतरसम्बन्धेन केन्द्रभुजकोटिज्ये तद्गुणे स्वीयस्फुटपरिधिना गुणिते मगणांशैः षष्ट्यतिकशतत्रयेण भक्ते भुजफतकोटिफले भवतः। मन्दकेन्द्रभुजज्योत्पन्नफलस्य धनुःफलादिकं मान्दं फलं भवदि। अत्रोपपत्तिः। कक्षास्थोच्चस्थानस्थितदेवतया स्वहस्तस्थितसूत्रपोतं ग्रहविव्वं स्वाभिमुखाकर्पणेन कक्षास्थमध्यग्रहस्थानात् परमफलज्यान्तरितस्थाने आकर्षणसूत्रमार्गरूपतिर्यक्कर्णमार्गेणाकृयते। तेन मध्यग्रहस्थानीयकक्षाप्रदेशादन्त्यफ- लज्याव्यासार्धेनोत्पन्नवृत्ते भगणांशाङ्किते भूमध्यग्रहस्पृग्रेस्वासक्ततद्वृ त्तप्रदेशरूपोच्चस्थानात् केन्द्रान्तरेण कक्षाविपरीतमार्गे तद्वृत्तपरिधौ ग्रहो भवति। तस्मिन्नीचोच्चवृत्ते ऊर्ध्वरेखाग्रहयोस्तिर्यगन्तरसूत्रमर्धज्याकारं परमफलज्यानुरुद्धं भुजफलम्। तस्मिन्नेव वृत्ते व्यासमिततिर्यग्नेखाग्रहयोरन्तरमूर्ध्वाधरमर्धज्याकारं परमफलज्यानुरुद्धं कोटिफलम्। एते तत्र कक्षास्थभुजज्याकोटिज्यावद्भुजकोटिसृपे इति। कक्षास्थभगणाशप्रमाणेनैते भुजज्याकीटिज्यारूपे भुजकोटी तदा कक्षास्थभागप्रमाणानुरद्धप्रागुक्तनीचोच्चपरिधिभागैः केइत्यनुपातेन फलवृत्तस्थत्वाद्भुजफलकोटिफले” रङ्गनाथः

कोटिर = पु० काटिं राति रा–क। १ इन्द्रे, २ नकुले, ३ इन्द्रगोपकीटे च मेदि०

कोटि(टी)वर्षा = स्त्री० कोटिभिरग्रेर्वर्षति मधु वृष–अण्। (पिडिङ्ग) १ शाकभेदे। अमरः दीर्घमध्यस्तदर्थे शब्दच० २ वाणामुरपुरे न० शब्दर०

कोटि(टी)श = पु० कोट्या अग्रेण श्यति शो–क। १ लोष्टभेदनेऽस्त्र (मै)(नुगर)इति वा ख्याते पदार्थे रत्नको० ह्रस्वमध्यः वासुकिवंश्ये २ नागभेदे पु० “कोटिशोमानसः पुर्ण्णः शलः पालोहलीमकः” भा० आ० ५७ अ० कासुकिवंश्योक्तौ

कोटी = स्त्री० कुट–इन् ङीप्। (पिडिङ्ग) १ शाकभेदे शब्दरत्ना० २ कोटिशब्दार्थे च “प्रतोदैश्चापि कोटीभिर्हुङ्कारैः साधुवाहितः” भा० द्रो० ८९ अ०

कोटीर = पु० कोटिमीरयति ईर–अण्। १ किरीटे, हेमच० २ जटायां त्रिका० “कोटीरबन्धनधनुर्गुणयोगपट्टेति” नैष०

कोट्ट = पु० कुट्ट–घञ् नि० गुणः। दुर्गे (गड) अमरः २ पुरभेदे (कोटकाङ्गडा) ३ राजधानीभेदे च न० हेमच०

कोट्टवी = स्त्री० कोट्टं वाति वा–क गौरा० ङीष्। १ नग्नायां मुक्तकेश्यां स्त्रियाम् २ दुर्गायाञ्च जटा० ३ वाणासुरमातरि च तत्र दुर्गायाम् हरिबं० १८५ अ० “कुमाररक्षणार्थाय विम्रती सुतनुं तदा। दिम्वासा देववचनात् प्रातिष्टदथ कोट्टवी। लम्बा नाभ महाभागा भागो देव्यास्तथाष्टमः। चित्रा कनकशक्तिस्तु सा च लग्ना स्थितान्तरे। अथान्तरा कुमारस्य देवीं दृष्टा महाभुजः। पराड्मुखस्ततो वाक्यमुवाच मधुसूदनः। भगवानुवाच अपमच्छावगच्छ त्वं धिक् तामिति च सोऽब्रवीत्। किमेवं कुरुषे विघ्नं निश्चितस्य बधम्प्रति। वैशम्पायन उवाच। श्रुत्वैव वचनं तस्य कोटृवी तु तदावि- भौः। नैब वासः समाधत्ते कुमार रिरक्षणात्”। १८५ अ० वाणमातरि भाग० १०। ६। ३९ “तन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा। पुरोऽवतस्थे कृष्णस्य पुत्रप्राणविरक्षया” उभयत्र नग्नत्वमुक्रकेशत्वविशेषणं तत्काले तथाभूतत्वज्ञापनाय अतस्तयोस्तदा लग्नत्वमुक्तकेशयुक्तत्वात्तथात्वत्वम्

कोट्टवीपुर = न० ६ त० वाणासुरपुरे तन्मातुस्तत्र प्रधानत्वात् तयैव वाणासुरस्य रक्षणात् तत्पुरस्य तन्नामत्वम्।

कोट्टार = पु० कुट्ट–आरक् पृषो०। १ कूपे २ नागरे ३ पुष्करिण्याः पाटके च। (पाड) मेदि०

कोठ = पु० कुठि–अच् नि० नलोपः। मण्डलाकारे कुष्ठरोगे। तल्लक्षणमुक्तं निदाने “असम्यावमनो दीर्णपित्तश्लेष्मान्न निग्रहैः मण्डलानि” सनण्डूनि रागवति बहूनि च। उत्कोठः सानुवन्धश्च कोठैत्यभिधीयते” इति माधवकरः। रक्षितेन चान्यथोक्वम् “वरटीदष्टनिकाशः कण्डूमान् लोहितोऽस्रकफपितात्। क्षणिकोत्पादविनाशः कोठैति निगथ्यते तज्ज्ञैः” “उद्धर्षणन्तु विज्ञेयं कण्डूकोठानिलापहम्” “कण्डूकोठ निलस्तम्भमलरोगापहश्च सः” “उद्घर्षण न्त्विष्टिकया कण्डूकोठविनाशनम्” इति च सुश्रुतः

कोठर = पु० कुठि–अर पृषो०। अङ्कोठकवृक्षे राजनि०

कोठरपुष्पो = स्त्री कोठरस्य पुष्पमिव पुष्पमस्या ङीप्। वृद्धकारके राजनि०

कोण = पु० कुण–करणे घज् कर्त्तरि अच् वा। येन धनुराकृतिना काष्ठेन वीणादयोवाद्यन्ते तस्मिन् वांदनसाधने १ काष्ठभेदे २ अश्रौ, अमरः। ३ गृहादोनामेकदेशे, ४ अस्त्राणामग्रभागे, ५ लगुडे, मेदि० ६ मङ्गलग्रहे हेम० ७ शनिग्रहे विश्वः। द्वयो र्दशोर्मध्यभागे ८ विदिशि राजनि० “कनककोणैरभिहन्यमानः” काद० “भेरीमृदङ्गवीणानां कोणसंघटितः पुनः” रामा० “स्वगृहस्याङ्गणे तेन चत्वारः स्वर्णपूरिताः। कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिता भुवि” कथास०। “सुवर्णकीणाभिहतः प्राणदद्वामदुन्दुभिः” रामा० “विन्दुत्रिकोणवसुकोणदशारयुग्मम्” तन्त्रण०। समकोणं विषमकोणम् क्षेत्रम्

कोणकुण = पु० कोणे मस्तकैकदेशे कुणति चलति कुण–क। मत्कुणे (उकुण) हेमच०

कोणाघात = पु० “ढक्काशतसहस्राणि भेरीशतशतानि च। एकदा यत्र हन्यन्ते कोणाधातः सौच्यते” इति भरतोक्ते वाद्यसंघाते ३ त०। काष्ठेन वीणादेस्ताडने च। “कोणाघातेषु गर्ज्जत्प्रलयघनघटान्येन्यसंध ट्टचण्डः” वेणी०

कोणि = त्रि० कुण्–इन्। आदानशक्तिहीनहस्तयुक्ते (कोपा) अमरः

कोथ = पु० कुथ–पातित्ये वञ्। १ नेत्ररोगमेदे (के~थो)। कर्त्तरि अच्। २ गलिते त्रि० मेदि० “मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतं यदावगाढपुरीषोन्मिश्रमपानेनाधः प्रेरितमसम्यगागतं गुदं क्षिणोति तत्र क्षतनिमित्तः कोथ उपजायते” इति सुश्रुतोक्ते गुह्यक्षयकारके ३ भगन्दर रोगोपद्रवमेदे। भावे घञ्। ४ गलने “तस्मिन् क्षते पूयरुधिरावकीर्णमांसकोथे भूमाविव जलसिक्तायां कृमयो जायन्ते” सुश्रुतः “तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीषकोथ जाताः” सुश्रु० “कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्” (जलम्) सुश्रु० “गोशकृत्कोयजा मन्दा, मध्याः कार्ष्ठष्टिकोद्भवाः” सुश्रु०

कोदण्ड = न० कु–शब्दे विच् कौःशब्दितोदण्डोऽस्य। १ धनुषि, “विस्फुर्जच्चण्ड कोदण्डः” भाग० ३। २१। ५१। तत्तुल्यत्वात् २ भ्रूलतायां, ३ देशभेदे च। अमरः ४ धनूराशौ च।

कोदार = पु० ईषदुदारः कोःकादेशः। धाव्यभेदे “न ग्राह्यं सर्व्वथा माघवरकोदारकोद्रवम्” कात्या० १, ६, ८, सूत्र भाष्ये कर्कधृतवाक्यम्

कोद्रव = पु० कु–विच् कौः सन् द्रवति द्रु–अच् कर्म्म०। (कोदो) धान्यभेदे अमरः “कोद्रवोवातलो ग्राही हिमः पित्तकफापहः” भावप्र० तद्गुणाउक्ताः। “अयज्ञिया वै कोद्रवाः” श्रुतिः। “अतोऽन्यदपि संग्राह्यं सदृशं धान्यमात्रकम्। न ग्राह्यं सर्वथा माषवरकादारकोद्रवम्” कात्या० श्रौ० १, ६, ८, सू० भा० कर्कधृतवाक्यम्। तस्य वैश्वदेवे अग्राह्यता “पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत्। निष्पावान् कोद्रवान् माषान् कलायांश्चनकांस्त्र्यजेत्” काशी० ३५ अ०। तस्याश्राद्धीयता भा० अनु० ४३६३ श्लोके उक्ता यथा “अश्राद्धीयानि धान्यानि कोद्रवाः पुलकास्तथा”

कोनालक = पुंस्त्री कोने जलोने अलति अपर्य्याप्तोति अल– ण्वुल्। संघ्रचारिणि प्लवे कृष्णपुच्छ श्वेतेदरे जलचरपक्षिभेदे हंससारसेत्युपक्रमे कोनालकं पठित्वा “प्लवाः संवचारिणः” सुश्रु०। इन् कोनालि अप्यत्र। “कुनावीकोनालिप्रभृतीन् सेवेत” सुश्रु० स्त्रियां ङीप्।

कोन्वशिर = पु० ब्राह्मणशापेन शूदत्वप्राप्तेक्षत्रियभेदे भा० अनु० ३५ अ० “सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे। विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर!। मेकला द्रविडा लाटाः पौण्ड्राः कोन्वशिरास्तथा। शौण्डीका दरदा दार्व्वाश्चोलाः शवरवर्व्वराः। किराता यवनाश्चैव तास्ताः क्षत्त्रयजातयः। वृषलत्वमनुप्राप्ता ब्राह्मणानाममर्षणात्”।

कोप = पु० कुप–भावे घञ्। १ क्रोधे कामानाप्तिजे चित्तवृत्तिभेदे अमरः। “क्रूधद्र हेर्ष्यासूयार्थानां यं प्रति कोपः” पा० बधाद्यनुकूलश्चित्तकृतिभेदः कोपः। अमर्षशब्दे विवृतिः। “पादेन प्रहरन् कोपात्” मनुः। “मानः कोपः सतु द्वेधा प्रणयेर्ष्यासमुद्भवः। द्वयोः प्रणयम नः स्यात् प्रमोदे सुमहत्यपि। प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना” सा० द० उक्ते शृङ्गाररसाङ्गे २ प्रणयकोपे च “अपकह्ररिणि चेत् कोपः कोपे कोपः कथं नहि। धर्म्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि” नीतिसा०। “रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः। विवेकिनः कुतः कोपः स्वदेहावयवेष्विवेति” ३ धातुवैषम्यकारिदोषाणां विकारभेदे सुश्रु० “तत्र एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः” शारीराणां विकाराणामेष वर्गश्चतुर्विधः। चये कोपे शमे चैव हेतुरुक्तश्चिकित्सने” सुश्रु० “स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः” सुश्रु०

कोपक्रम = न० उपक्रम्यते कर्म्मणि घञ् ६ त० उपक्रमान्तत्वात् क्लीवता। कस्य ब्रह्मण उपक्रमे–उपक्रम्यमाणे १ ब्रह्मणा आदौ ज्ञात्वा उपक्रम्यमाणायां जगतः सृष्टौ अमरः। कोषज्ञमप्यत्र न०। ६ त०। २ कोपस्य क्रमे पु०

कोपन = त्रि० कुप–ताच्छील्ये युच्। कोपशीले जटाध० “चण्डस्त्वत्यन्तकोपनः” अमरः। “आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्” भा० आ० २९ अ०। “तपस्वी कोपनो भृशम्” भा० व० ११ ० अ० “पादानतः कोपनयाऽवधूतः” कुमा० २ असुरभेदे पु० “शरभः शलभश्चैध कुपनः कोपनः क्रथः” हरि० ४२ अ० कुप–णिच्–भावे ल्युट्। ३ कोपनिष्पादने ४ दोषविकारकारकव्यापारभेदे न० “स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्” भा० आश्व० १७ अ०। “यथोंक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः” सुश्रु० कुप–णिच् कर्त्तरि ल्यु। ५ कोपसाधके त्रि० “कोपनं कफवातानाः दुर्न्नाम्रां चाविकं दधि” सुश्रुतः

कोपनक = पु० कोपनः कोपशील इव कायति कै–क। १ चीरनामकगन्धद्रव्ये राजनि० स्वार्थेक। २ कोपने त्रि०

कोपनीय = त्रि० कुप–कर्म्मणि अनीयर्। द्वेषविषये “ते च शब्दादयौपस्थिताः परस्परेणाभिहन्यमानास्तदु पायाश्चाणिमादयः स्वरूपेणैव कोपनीया भवन्तीति” सा० त० कौ०

कोपयिष्णु = त्रि० कुप–णिच् बा० इष्णुच्। परस्य कोपकारके “वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः भा० आ० १७९ अ०

कोपलता = स्त्री कोपहेतुर्लता। कर्ण्णस्कोतलतायां राजनि०

कोपिन् = पुं स्त्री० अवश्यं कुप्यति णिनि। १ जलपारावते २ अवश्यकोपशालिनि त्रि० राजनि० स्त्रियां ङीष्। कोपयति णिजन्तात् णिनि। ३ कोपसम्पादके त्रि० “सिद्धार्थकः शोणितपित्तकोपी” सुश्रुतः स्त्रियां ङीप्।

कोमल = न० कु–कलच् मुट् च नि० गुणः। १ जले। २ मृदौ, अकठिने, च त्रि० मेदि० ३ क्षीरिकायां स्त्री० टाप् शब्दच०। ४ मनोहरे त्रि० शब्दर०। “निशा च शय्या च शशाङ्ककोमला” नैष०। शशस्याङ्कवन्मृदुला शय्या। शशाङ्केन मनोहरा निशा च इत्यर्थः। “अन्तश्चुतः कोमलरत्नराशीन्” माघः।

कोमलक = त्रि० स्यार्थे क। १ कोमलशब्दार्थे। संज्ञायां क। २ मृणाले शब्दच०।

कोमलवल्कली = स्त्री कोमलं बल्कलं यस्याः। लवलीलतायां (नोयाड) शब्दचिन्ता०।

कोमलासन = न० आसनशब्ददर्शितमृनादिचर्म्मनिर्म्मिते आसनभेदे “इदानीं शृणु देवश! रहस्यं कोमलासनम्। योगसिद्धिप्राचाराय सिद्ध्यै चर्म्मासनं तु तत्” रुद्रया०।

कोमासिका = स्त्री ईषदुमेव अतसीवृक्षैव आस्ते आसण्वुल् टाप् अतैत्त्वम्। जालिकायाम् (फलेर जालि) हारावली।

कोम्य = त्रि० कम–कर्म्मणि ण्यत् पृषो०। काम्ये। “ऊर्द्धा नः सन्तु कोम्या” ऋ० १। १७१। ३। “कोम्या काम्यानि” भा०

कोयष्टि = पु० कं जलं यष्टिरिवास्य पृषो० अत ओत्त्वम्। जलकुक्वुभे पक्षिणि। “प्रतुदान् जालपादांश्च कोयष्टिनखविष्किरान्”। मनुः संज्ञायां कन् कोयष्टिक (टिटिर) टिट्टिभपक्षिणि “कपोतपारावतभृङ्गराजपरभृतेत्यादिः प्रतुदपक्षिगणे कोयष्टिकमुक्त्वा “कषाया मधुरारूक्षाः फलाहाराः मरुत्कराः। पित्तश्लेष्महराः शीता वद्धमूत्राल्पवर्चसः” सुश्रुते तन्मांसगुणां उक्ताः।

कोर = पु० कुल–संस्त्याने अच् लस्य रः। १ संस्त्यानवति कोरका कारे सुश्रुतीक्ते देहस्थसन्धिभेदे यथा “त एते सन्धयोऽष्टविधाः। कोरोदूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्त्ताः। तेषामङ्गुलिमणिबन्धगुलफजानुकूर्परेषु कोराः सन्धयः”। “नाममिरेवाकृतयः व्याख्याताः”। कुल–घञ्। २ संस्त्याने पु०

कोरक = पुंन० कुल–संस्त्याने ण्वुल् लस्य रः। कलिकायाम्। “कलिका कोरकः पुमानित्यमरोक्तिः प्रायिकाभिप्राया “कोरकं कुद्मलेऽपि स्यात् कक्कोलकमृणालयोः” विश्वोक्तेः तेन “समुपहरन् विचकार कोरकाणि” म्मर्घ क्लीव प्रयोगः “कोरकोऽस्त्री कुद्मले स्यात्” मेदि०। २ कक्कोले ३ मृणाले च विश्वः। ४ चोरनामपन्धद्रव्ये जटाध०। ततः तारका० संजातेऽर्थे इतच्। कोरकित जातमुकुले त्रि०

कोरङ्गी = स्त्री० कुर–अङ्गच् गोरा० ङीष्। १ सूक्ष्मैलायाम् (छोटएलाइच्) अमरः २ पिप्पल्यां राजनि०

कोरदूष = पु० कोरं संस्त्यानं दूषयति दूषेर्ण्यन्तात् अण् उप० स०। (को~दो) ख्याते व्रीहिभेदे अमरः। “निशाषष्टिक यवगीधूमकोरदूषेत्यादि” सुश्रु० “श्यामाककोरदूषान्नं तक्रं पित्याकसक्तुभिः” सुश्रु०। ण्वुल्। कोरदूषकोऽप्यत्रार्थे। “ईदृशोभविता लोको युगान्ते पर्युपस्थिते। वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषर्कः” भा० व० १९० अ०

कोल = पु० कुल–संस्त्याने अच्। १ शूकरे २ प्लवे(भेला) अमरः ३ क्रोडे ४ शनिग्रहे ५ चित्रके (चिता) ६ अङ्कपालौ ७ आलिङ्गने मेदि०। ८ देशभेदे पु० ब० व० शब्दरत्ना० ९। अस्त्रभेदे पु० धर० “नेटात् धीवरकत्थाजाते १० जातिभेदे ब्रह्मवै० पु०। ११ नृपभेदे “करुत्थामादथाक्रीडश्चत्वारस्तस्य चात्मजाः। पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः। तेषां जनपदाःस्फीताः पाण्ड्याः कोलाः सकेरलाः” हरिवं० ३३ अ०। १२ मरिचे न० राजनि० १३ चव्ये(चै)वैद्य०। १४ तोलक परिमाणे वैद्यकम्। १५ कर्कन्धूवृक्षे स्त्री० गौरा० ङीष्। तस्याः फलम् अण् तस्य लुक्। १६ वदरीफले न०। कर्कन्धूशब्दे विवृतिः “वदरीसडशाकारोवृक्षः सूक्ष्मफलोभवेत्। अटव्यामेव सा घोण्टा कोलवोण्टेति योच्यते” सूभूतिः “हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा। शृमालकोलिः कर्कन्धूः” रत्नकोषः “आद्यकोलतुलितप्रकाशनैः”। “यः कोलतां बल्लवताञ्च बिभ्रत्” मावः। कोलवृक्षश्च सुश्रुते अम्लवर्गे उक्तः। तच्च वाक्यं ३३३ पृ० दृश्यम्

कोलक = पु० कुल–ण्वुल। १ अङ्कोठवृक्ष, राजनि० २ बहु- वारवृक्षे जटाधरः (कांकला)च ३ गन्धद्रव्यभेदे, ४ मरिचे, ५ कक्कोले च न० अमरः।

कोलकन्द = पु० कोलैव कन्दोऽस्य। महाकन्दभेदे राजनि० “कोलकन्दः कटूष्णश्च कृमिशोयविनाशनः। वस्तिच्छर्द्दिप्रशमनः विषदोषानिलापहः” राजनि०

कोलकर्कटिका = स्त्री० कोलैव कर्कटिका। मधुखर्ज्जूरिकायां राजनि०

कोलघोण्टा = स्त्री। वदरीभेदे सुभूतिः।

कोलदल = न० कोलं वदरीफलमिव दलमस्य। नखीनामगन्धद्रव्ये अमरः।

कोलगिरि = पु० दक्षिणदिक्स्थे पर्वतभेदे “कृत्स्नं कोलगिरिञ्चैव सुरभीपट्टनं तथा” भा० स० ३० अ० सरदेवदक्षिणदिग्विजये। कोलाचलादयोऽप्यत्र। कोलाचलमल्लिनाथेति तस्य विशेषणं तत्पर्वतस्थितत्वात्

कोलनासिका = स्त्री० कोलस्य शूकरस्य नासिकेव। रङ्किणीवृक्षे हारा०

कोलपुच्छ = पु० कोलस्य शूकरस्येव पुच्छोऽस्य। कङ्कपक्षिणि हारा०।

कोलमूल = न० कोलं वदरीफलमिव मूलमस्य। पिप्पलीमूले राजनि०

कोलम्बक = पु० कुल–अम्बच् ओष्ठबमध्यः संज्ञायां कन्। तन्त्रीभिन्ने अलाबूप्रभृतिसमुदाये वीणायाः अवयवे भरतः

कोलवल्ली = स्त्री० कोलोवराह इव वल्ली तल्लोमतुल्यशुङ्गावत्त्वात्। गजपिप्पल्याम् राजनि०। २ शूकरपादिकायां राजनि०

कोलशिम्बि = स्त्री कोलपादाकारा शिम्बिरस्याः। (आल्कशीति) ख्यातायां शूकरपादिकायां लतायाम्। वा ङीप्। “कोलशिभ्वी स्मीरध्नी गुरूष्णा कफवातहृत्। शुक्राग्निसादलद्वल्या रुचिकृत् बद्धविड् गुरुः” इति भावप्र०

कोला = स्त्री कुल–ज्वला० ण टाप्। १ पिप्पल्याम्, २ चव्ये(चै) दि० ३ कोलिवृक्षे शब्दरत्ना०। ४ कोलापुरे च

कोलाञ्च = पु० ब० व०। देशभेदे शब्दरत्ना०

कोलापुर = न० दक्षिणदेशप्रसिद्धे लक्ष्मीदेव्याः स्थाभे पुरभेदे

कोलाविध्वंसिन् = त्रि० कोलां पुरभेदे विध्वंसितुं वस्तुं शीलमस्य विशब्देन धाभोरन्यार्थपरत्वम्। पर्वतवासिनि म्लेच्छभेदे, “एवं पालयतस्तस्य म्लेच्छाः पर्वतवासिनः। कोलाविध्वंसिनः प्राप्ताः” इति देवीभागवतम्। “कोलाविध्वंसिनस्तथेति” देवीमाहा०। कोलाशब्दः कोलाहलवाचकस्तथा च कोलाहलेनैव राज्यविध्वंसं ये कुर्वन्ति। २ तेषु च।

कोलाहल = पु० कुल–मञ् तमाहलति अच्। बहुविधे दूर गामिन्यव्यक्ते शब्दे अमरः “शीघं भेरीनिनादेन स्फुटकोलाहलेन वै” रामा०

कोलि = स्त्री कुल–इन्। वदर्य्याम् पक्षे वा ङीष् अमरः

कोलिसर्पः = पु० सगरेण म्लेच्छतां प्रापिते क्षत्रियभेदे। उदा० केरलशब्दे हरिवं० वाक्यमुक्तम् “कोलिसर्पामाहिषकास्तास्ताः क्षत्रियजातयः। वृषलत्वं परिगता ब्राह्मणानामदर्शनात्” भा० आनु० ६६ अ०

को(कौ)लूत = पु० कुलूतशब्दार्थे वृ० स० पाठान्तरम्। तस्य राजा अण् कौलूत तन्नृपे

कोल्या = स्त्री कोलमर्हति यत्। पिप्पल्यां रत्नमा०

कोल्ल = पु० भारतवर्षस्थे पर्वतभेदे “भारतेऽप्यस्मिन् वर्षे सरि च्छैलाः सन्ति बहवः” इत्युपक्रमे “ऋषभः कूटकः कोल्लः सह्यगिरिः” इत्यादि भाग० ५। १९। १०। उक्तम्। स च गिरिः वृ० सं० कूर्म्मविभागे “अथ दक्षिणेन लङ्का” इत्युक्रमे “कर्ण्णाटकमहाटविचित्रकूटनासिककोल्लगिरिचोलाः” इति दक्षिणस्यामुक्तः। कोल्लगिर्य्यादयोप्यत्र। तत्र भवः तस्य राजा वा बा० ढक्। कौल्लगिरेय तत्रभवे तन्नृपे च। “अर्च्चितः प्रययौ भूयो दक्षिणं सलिलार्ण्णवम्। तत्रापि द्वाविडैरान्ध्रैरौद्रैर्माहिषकैरपि। तथा कौल्लगिरेयैश्च युद्धमासीत् किरीटिनः” आ० आश्व० ८३ अ०।

कोविद = पु० कुङ् शब्दे–विच् कोर्वेदस्तं वेत्ति विद–क। १ पण्डते २ विदुषि अमरः “समीक्ष्यकारिणं प्राज्ञं धर्म्म कामार्थकीविदम्” मनुः। “आत्मनैव गुणदोषकोविदः”। “श्रौभमार्गसुखगानकोविदेति च” माघः।

कोविदार = पु० कुं भूमिं विदृणाति–वि + दॄ–अण् पृषो०। १ रक्तकाञ्चनारे (रक्तकाञ्चन)। अमरः। “कोविदार कलिकाऽतिकोमला तक्रसिद्धतिलतैलपाचिता। हिङ्गुवासकसुवासवासिता वेसवारलुलिताऽतिलोभदा” पाकशास्त्रम्। काञ्चनारशब्दे गुणाद्युक्तम्। “कशेरु कोविदारश्च तालकन्दस्तथा विषम्”। श्राद्धेदेयकथने वायुपु०। “श्वेतकाञ्चनसवृशः कोविदारः” इति श्राद्धविवेकः। २ पारिजाते च। हरिवं० १२६ अ० तड्युत्पत्तिर्दर्शिता यथा “कोऽप्ययं दारुरित्याहुरजानन्तोयतोजनाः। कोविदार इति ख्यातस्तत्त्वतः स महातरुः। सन्दारः कोविदारश्च पारिजातश्च नामभिः। स वृक्षो ज्ञायते दिव्यो यस्यैतत् कुसुमोत्तमम्” पारिजातहरणे। “पारिजातान् कोविदारान् देवदारदुमास्तथा” भा० व० १५५ अ०। अत्र पारिजाताद्भिन्नत्वेन निर्द्देशात रक्तकाञ्चनपरता स्वार्थे कं। रक्तकाञ्वनवृक्षे “अमन्दैः पिचुमर्द्दैश्च मन्दारैः कोविदारकैः” काशी०।

***