केव = सेवने भ्वा० आत्म० सक० सेट्। केवते अकेविष्ट, चिकेवे ऋदित् णिचि अचिकेवत् त।

केवट = पु० के जलार्थमवटः अलुक्स०। जलाधारार्थे गर्त्तरूपे कूपे निघ० “मा कीं सं शारि केवटे” ऋ० ६। ५४। ७ “केवटेकूपे” भा०

केवर्त्त = पुंस्त्री० के जले वर्त्तते वृत–अच् अलुक्स०। कैवर्ते जातिभेदे स्त्रियां टाप् द्विरूपकोषः “अवराय केवर्त्तम्” यजु० ३०। १६ पुरुषमेधे बध्यकथने

केवल = त्रि० केव–सेवने वृषा० कल, शिरसि बलयति चुरा० वल–प्रापणे अच् वा। १ अद्वितीये असहाये एकमात्रे स्त्रिया “सज्ञाछन्दसोरेव नित्यम्” ङीप्। “अथोत इन्द्रः केवलीर्विशी बलिहृतस्करत्” ऋ० १०। १७३। ६ “यथैव ताः पुरः केबलीरोपधीरश्नन्ति केबलीरपः पिबन्ति” केवलमेव पयो दुह्रे” श० ब्रा० १। ६। १७। १५ “यथा पुरा अमावास्यातः पूर्व्वदिवसे ता गावः केबलीश्चन्द्रानुप्रवेशरहि ता ओषधीरपश्चाहारं कृत्वा केबलं चन्द्ररहितमेव पयो द्वह्रे दुहते” भा०। लोके असंज्ञायां च टाप्। “सा स्वकाननभुवं न केवलाम्” रघुः “किं तया क्रियते लक्ष्म्या या बधूरिव केवला” पञ्चत० “नमस्त्रिमूर्त्तये तुभ्यं प्राक् सृष्टेः केवलात्मने” कुमा० “निषेदुषी स्थण्डिल एव केबले” कुमा० “अविपर्ययाद्विशुद्धं केबलमुतपद्यते ज्ञानम्” सा० का०, क्रियाविशेषणत्वे न० “अनन्यगुर्वास्तव केन केवलम्” माघः ३ निर्ण्णये ज्ञानभेदे ४ अवधारणे न० मेदि० “न केबलं सद्मनि मागधीपतेः” रघुः सद्मन्येवेत्यर्थः एवं सर्वत्र केवलार्थान्वितावधारणं बोध्यम्। ज्ञानभेदश्च प्रागुक्त सा० का० वाक्योक्तः। ५ कुहने पु० मेदि०

केवलज्ञानिन् = पु० केबल शुद्धं ज्ञानमस्त्यस्य भूम्नि इनि। अर्हद्विशषे हेम०

केवलद्रव्य = न० नि० क०। मरिचे शब्दचि०

केवलव्यतिरेकिन् = न० अनुमानभेदे केबलान्वयिशब्दे विवृतिः

केवलान्वयिन् = त्रि० केवलमन्वयोस्त्यस्य इति १ कुत्रापि अभावरहिते वृत्तिमतोऽत्यन्ताभावाप्रतियोगिनि यथा प्रमेयत्वादि तस्य न कुत्राप्यभावोऽस्ति। तथाच “साध्यवदन्यावृत्तित्वं वा केवलान्वयिन्यभावात्” अनुमा० चि० “तथैबानुप संहारी केबलान्वयिपक्षकः” भाषा० “केबलान्वयिधर्म्मावच्छिन्नकपक्षक इत्यर्थः। सर्व्वमभिधेयं प्रमेयत्वादित्यादौ सर्व्वस्यैव पक्षत्वात् सामानाधिकरण्यग्रहस्थलान्तराभावान्नानुमितिः” “केबलान्वयिसाध्यकत्वं तत्त्वमिति तु युक्तमिति” मुक्ता०। केवलोऽन्वयव्याप्तिरस्त्यस्य इनि। २ अनुमानभेदे। तद्विवृतिः अनु० चि० यथा “तच्चानुमानं त्रिविध केवलान्बयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्। तत्रासद्विपक्षं केवलान्वयि तथाहि केवलान्वयिनोऽभिधेयत्वस्य न विपक्षः अभिघानेऽनभिधाने च विपक्षव्याघातात्। अथ यथा आकाशशब्दाच्छब्दाश्रयत्वमनभिधेयमप्युपतिष्ठते तथाभिधेयमप्युपतिष्ठते तथा भिधेयत्वविपक्षस्यानभिधेयत्वेऽपि पदादुपस्थितिः स्यात् एवञ्चाभिधेयत्वं कुतोऽपि व्यावृत्तं धर्म्मत्वात् गोत्ववदिति चेन्न व्यावृत्तत्वस्याव्यावृत्तत्वे व्यावृत्तत्वमेव केवलान्वयि, व्यावृत्तत्वे यत एव व्यावृत्तं व्यावृत्तत्वं तदेव केवलान्वयीति धर्म्मत्वस्यानैकान्तिकत्वात्। एवमत्यन्ताभावप्रतियोगित्वत्वात्यन्ताभावाप्रतियोगित्वे अत्यन्ताभावप्रतियोगित्वमेव केवलान्वयि, अत्यन्ताभावप्रतियोगित्वे यन्निष्ठात्यन्ताभावप्रतियोग्यत्यन्ताभावप्रतियोगित्वं तदेव केवलान्वयि। नचायन्ताभावप्रतियोगित्वं व्यावृत्तत्वञ्च नानेति वाच्यम् अपुगतप्रतीतिबलेन गोत्ववत्तयोः सिद्धेः। तत्र न तावदव्यायवृत्त्यत्य नाभावः केवलान्वयी तस्य प्रतियोग्यवच्छिन्नेऽप्यत्यन्ताभावात् अत्यन्ताभावाप्रतियोगिनश्च केवलान्वयित्वात् नाप्याश्रयनाशजन्यगुणनाशात्यन्ताभावः, तस्य नाशस्य सर्वत्रात्यन्ताभावादिति वाच्यं यत्र हि प्रतियोगिप्रागभावो वर्त्तते तत्र नाशप्रतियोगिसमानदेशे वर्त्तते तत्र न तदत्यन्ताभावो वर्त्तते तथाच नाशस्य प्रागभावो यत्र नाशप्रतियोगिसमानदेशे वर्त्तते तत्र कथं नाशात्यन्ताभावो वर्त्ततां तर्हि नाशस्य तत्र वृत्तिः स्यादिति चेन्न पूर्वं तत्र नाशप्रागभावस्यैव सत्त्वादुत्तरकाले आश्रस्यैवाभावात्। नाप्याकाशात्यन्ताभावः केवलान्वयी तस्यापि प्रतियोगिरूपात्यन्ताभावप्रतियोगित्वात् अभावात्यन्ताभावस्य भावत्वात्। अथाभावात्य न्ताभावो न प्रतियोगिरूपस्तथासत्यन्योऽन्याभावात्यन्ताभावः प्रतियोगिरूप इति प्रतियोगिसमानदेशेऽन्योऽन्याभावो न स्यादिति चेन्न अत्यन्ताभावस्तु प्रतियोगिवृत्तिरसाधारणो धर्मैति। उच्यते वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् आकाशात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगो तथापि स न वृत्तिभानित्याकाशात्यन्ताभावएव केव लान्वयी तथा प्रमेयत्वाभिधेयत्वादि केवलान्वयि वृत्तिमतोऽत्यन्ताभावस्याप्रतियोगित्वात्। ननु प्रमेयत्वं प्रमाविषयत्वं तच्च न केवलान्वयि प्रमायाविषयत्वस्य चाननुगमादिति वाच्यं प्रमात्वमेव हि परम्परासम्बन्धात् वटादौ प्रमेयत्वमनुगतं प्रमाजातीयविषयत्वं वा। तथापि केवलान्वयिनि संशयाभावात् क्वथमनुमितिः प्रमेयत्वमत्र वर्त्तते न वेति संशयश्च न प्रमेयपक्षकः किन्तु प्रमेयत्वपक्षको भिन्नविषयकः प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्वयव्यतिरेकित्वं तथाच घटः प्रमेयो न वेति संशयो मृग्यते स च नास्त्येव। अथ पक्षः साध्यवान्न वा पक्षे साध्यमस्ति न वेति संशयौ समानविषयकावेव तदस्यास्त्यस्मिन्निति मतुपोविधानादिति चेन्न विशेषणविशेष्यभावभदेनार्थभेदात्, मैवं य एव हि संशयः पक्षे साध्यसिद्धिविरोधी स एवानुमानाङ्गमावश्यकत्वात् लाघवाच्च न तु समानविषयकत्वमपि तत्र तन्त्रं गौरवात् प्रमेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगि न वेति संशयश्च घटः प्रमेय इति साध्यसिद्धिविरोधी भवत्येव यद्वा संशययोग्यतैवानुमानाङ्गं संशयस्य तदानीं विनाशात् न च सापि साधकवाधकप्रमाणाभावः प्रमेयत्वाभावासिद्धौ तत्प्रमाणासिद्धे स्तदभावासिद्धिरिति बाच्यं पक्षनिष्ठात्थन्ताभावाप्रतियोगित्वज्ञानस्यैव साव्यसाधकत्वेन तदभावस्येव योग्यतात्वात्। प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्राम्यतः सशयः इत्यन्ये। नत्वेकरूपविकलमिदं कथं गमकं तत्त्व वा व्यतिरेकविकलवत् रूपान्तरविकलमपि गमकं स्यादिति चेन्न अन्वयव्यतिरेकव्याप्त्योरन्यतरनिश्चयेनानुमित्यनुभवात् युगपदुभयव्याप्त्युपस्थितौ विनिगमक भावेन उभयोरपि प्रयोजकत्वे व्यतिरेकोपासना व्यतिरेकश्च विपक्षवृत्तित्वशङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तावुपयुज्यते अत्र तु विपक्षाभावेन शङ्कैव नोदेति। केवलव्यतिरेकी त्वसत्सपक्षो यत्र व्यतिरेकसहचारेण व्याप्तिग्रहः। ननु व्यतिरेकि नानुमानं व्याप्तिपक्षधर्मताज्ञानानस्य तत्कारणत्वात् यत्र व्यतिरेकसहचारः तत्र व्याप्त्विरन्वयस्य पक्षधर्मता न च व्याप्तपक्षधर्मत्वं साध्याभा वव्यापकाभावप्रतियोगित्वमुभयमप्यनुमितिप्रयोजकमिति वाच्यं अननुगमात् नचान्यतरत्वं तथा एकप्रमाणपरिशेषापत्तेः न च तृणारणिमणिन्यायेनानुमितिविशेषे तद्धेतुत्वमिति वाच्य व्यतिरेकिसाध्येऽनुमितित्वासिद्धेः उभयसिद्धकॢप्ततत्कारणस्याभावात्। न च साध्याभावव्यापकाभावप्रतियोगित्वमेवानुमितिप्रयोजकमिति वाच्यं गौ रवात् केवलान्वयिन्यभावाच्च। अथ साध्याभावव्यापकाभावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयम् एवं व्यतिरेकव्याप्त्यन्वयव्याप्तिमनुमाय यत्रानुमितिः सएव व्यतीरेकीत्युच्यते तन्न अन्वयव्याप्तेर्गमकत्वे व्यतिरेकव्याप्त्युपन्यासस्यार्थान्तरतापत्तेः अन्वयव्याप्त्यनुकूलतया च तदुपन्यासे अन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वमिति। उच्यते निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते प्रतियोग्यनुयोगिभावस्य नियामकत्वात् अन्वयव्यतिरेकवत्। नन्वेवं व्याप्तिग्रहएव पृथिवीतरभिन्नमपि भासितं नियतसामानाधिकारण्यरूपत्वाद्व्याप्तेरिति सत्यं गन्धवत्त्वावच्छेदेनेतरभेदस्य साध्यत्वात्। अतएवाचार्य्यः पक्षतावच्छेदकस्य न हेतुत्वमनुमेने। पृथिवीत्वमितरभेदव्याप्यमिति प्रतीतावपि सर्वपृथिवीतरभिन्नोऽपि पृथिवीविशेष्यकबुद्धेर्व्यतिरेकिसाध्यत्वाच्च”। अत्र दिग्भात्रं दीधितिरुपन्यस्यते। “केवलान्वयीत्यादि केवलान्वयिसाध्यकादीत्यर्थः। तत्रतेषु मध्ये, असिद्विपक्षम् अत्यन्ताभावाप्रतियोगिसाध्यकं केवलान्वयि, एवमगृहीतान्वयव्यतिरेकिसाध्यकं केवलव्यतिरेकि, गृहीतान्वयव्यतिरेकिसाध्यकान्वयव्यतिरेकि, व्याप्तिग्राहकसहचारभेदाद्भेदे त्वन्वयसंहचारमात्नगृहीतव्या- प्तिकत्वं केवलान्वयित्वं तच्च प्रकृतव्याप्तिग्राहकज्ञानविषयसहचारत्वव्यापकान्वयसहचारत्वकत्वं तादृशसहचारत्वव्यापकप्रकृतव्याप्तिघटकसहचारत्वकत्व वा गृहीतव्याप्तिभेदाद्भेदे तु प्रकृतहेतुकप्रकृतसाध्यानुमितिहेतुज्ञानविषयव्याप्तित्वव्यापकप्रकृतसाध्यव्य प्तित्वकत्वं तत्त्वम्। जलं निर्गन्धं पृथिवीत्वव्यापकाभावप्रतियोगिमत्त्वादित्यादौ हेतुतावच्छेदिका च व्याप्तिर्न्न प्रकृतसाध्यानुमित्यौपयिकी तद्विशिष्टपक्षधर्म्मताज्ञानेऽपि व्याप्त्यन्तरबोधं विना निर्गन्धत्वानुमित्यनुदयादिति बाव्याप्तिः। वह्न्यभाववान् वह्निव्यापकाभावप्रतियोगिमत्त्वादित्यादावन्वयव्याप्तेरवच्छेदिका व्यतिरेकव्याप्तिर्न तु सैवेति नाप्रसङ्गः। अतएवेतरव्यापका मावप्रतियोगित्वेनाभावप्रतियोगित्वेन वा यल्लिङ्गज्ञानं नप्रकृतसाध्यानुमितिहेतुस्तत्केवलान्वयीत्यपि वदन्ति। एवं केवलव्यतिरेकित्वादिकमपि निर्वाच्यम्”। वेदान्तिभिस्तु अनुमानत्रैविध्यं नाङ्गीक्रियते यथोक्तं वेदा० प० “तच्चानुमानमन्वयिरूपमेकमेव न तु केवलान्वयि, सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेनात्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः नाप्यनुमानस्य व्यतिरेकिरूपत्वं साध्याभावे साधनाभावनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यामुमितावनुपयोगात्। कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्तिज्ञानादनुमितिः अर्थापत्तिप्रमाणादिति वक्ष्यामः अतएवानुमानस्य नान्वयव्यतिरेकिरूपत्वं व्यतिरेकव्याप्तिज्ञानस्यानुमित्यहेतुत्वात्”।

केवलिन् = पु० केवलं शुद्धज्ञानमस्त्यस्य इनि। जैनभेदे हला०

केवली = स्त्री केवल–गौरा० ङीष्। १ ज्ञानभेदे मेदि०। २ केरलीशब्दार्थे हेम० तत्र रमध्यपाठः साधुः

केवाली = अव्य०। उर्य्यादि। १ हिंसायां गणरत्नम्। केबालीकृत्य हिंसित्वेत्यर्थः २ हिंसके त्रि० स्त्रियां गौरा० ङीष्। केवाली

केविका = स्त्री केव–ण्वुल् टाप्। (केवेर) कोङ्कणप्रसिद्धे पुष्पभेदे सद्गन्धांयां राजनि०

केश = पु० क्लिश्यते क्लिश्नाति वा क्लिश–अच् ललोपश्च कस्य जलस्य ब्रह्मणो वा ईशोवा। १ वरुणे, विश्वः। २ ह्रीवेरे(वाला) ३ दैत्यभेदे, केशिनि ४ विष्णौ, हेम० काशते काश अच् पृपो०। ५ सूर्य्याग्निप्रभृतिरश्मौ (केशिन्) शब्दे विवृतिः “ब्रह्मविष्णुरुद्रसंज्ञाःशक्तयः केशसंज्ञिताः” इत्युक्ते ब्रह्मादौ ६ परब्रह्मशक्तिभेदे केशवशब्दे विवृतिः। के शिरसि शेते शी–ड अलुक्स०। ७ चिकुरं च। अस्थिवातुजातोपधातुविशेषोऽयं केशः। अस्मात् परवर्त्तिनः पाशादिशब्दाः केशभूयस्त्ववाचिनः। “वालास्तु तत्पराः पाशो रचना भारौच्चयः। हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः” हेमचन्द्रोक्तेः। केशस्तु पितृतोजायते यथाह सुश्रुतः “गर्भस्य केशश्मश्रुलोमास्थिनखदसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पिपृजानि” “केशाः श्मश्रु च लोमानि नखा दन्ताः सिरास्तथा। धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि” भावप०। तस्य सर्व्वदा वृद्धिमत्त्वमाह तत्रैव “शरीरे क्षीयमाणेऽपि बर्द्धेते द्वाविमौ सदा। स्वभावं प्रकृतिं कृत्या नखकेशाविति स्थितिः” चेतनानामधिष्ठानं मनोदेहश्च सेन्द्रियः केशलोमनखाग्रान्तर्मलद्रव्यगुणैर्विना” तस्योत्पत्तिप्रकारः भावप्र० दर्शितो यथा “ततोऽस्थ्यग्निना पुनः पच्यमानं पञ्चाहोरात्रात् सार्द्धं दण्डञ्च यावदस्थिवेव तिष्ठति। ततः पच्यमानात् तस्मात् मलो र्निगच्छति। स च व्यानवायुना प्रेरितः सिरामिः मार्गेणागत्याङ्गुलिषु नखाः तनौ लोमानि च भभन्तीति” अत्र लीमसाम्यात् केशस्यापि तनौ प्ररोहादस्थिधातुजत्वमुन्नेयम्। एवं गर्भे षष्ठे मासि तस्य लोमसाम्यात् प्रादुर्भावः “षष्ठे बलस्य वर्णस्य नखलोम्नां च सम्भवः” या० उक्तेः। जनानां केशवत्त्वे कारणम् शत० ब्राह्मणे उक्तं तद्वाक्यञ्च (केशिन्) शब्दे वक्ष्यते। केशनाशकारणञ्च इन्द्रलुप्तशब्दे दर्शितम् केशकौक्ल्यहेतुस्तु “क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः। पित्तं च केशान् पचति पलितं तेन जायते” सुश्रुतेनोक्तः “लताप्रतानोद्ग्रथितैः स केशैः”। रघु० “अलक्तकाङ्कानि पदानि पादयोः” “विकीर्णकेशासु परेत भूमिषु” कुमा० “केशः काशस्तवकविकाशः” सा० द० “केशेषु चमरीं हन्ति” सि० कौ०। “क्लुप्तकेशनखश्मश्रुः” मनुः “केशश्मश्रु घारयतामग्र्या भवति सन्ततिः” शु० त० दानधर्म्मे। केशश्मश्रु इत्यत्र श्मश्रुशब्दस्य घ्यन्तत्वेऽपि राजद० परनिपातः। तस्य मूलं कर्णा० जाहच्। केशजाह तन्मूले न०। अस्य स्वाङ्गत्वात् उपसर्जनत्वे अतिकेशी सुकेशीत्यादौ स्त्रियां वा ङीष्। केशेषु प्रसितः(तत्परः) कन्। केशक तद्रचनातत्परे त्रि०।

केशकर्म्मन् = न० केशानां कर्म्मरचनादि। केशानां रचनादिकरणेन संस्काररूपे व्यापारभेदे। “साहं ब्रुबाणा तैरिन्ध्री कुशला केशकर्म्मणि” भा० वि० ३ अ०। २ के शान्तकर्म्मरूपे संस्कारभेदे च केशान्तशब्दे विवृतिः

केशकलाप = पु० ६ त०। केशसमूहे हेमच०।

केशकार = पु० केशं केशाकारं करोति कृ–अण् उप० स०। इक्षुभेदे भावप्र० इक्षुशब्दे यत् कोशकृत इति तदशुद्धम् केशकृत इत्येव शुद्धम्

केशकारिन् = त्रि० केशं तद्रचनां करोति कृ–णिनि। केशरचनाकारके स्त्रियां ङीप्। “निहीनवर्ण्णां सैरिन्ध्रीं बीभत्सां केशकारिणीम्” भा० वि० १४ अ०।

केशकीट = पु० ६ त०। यूकाख्ये १ केशकीटे। (उकुण) शब्दचि०। तद्धेतुश्च “अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्द्धनि। कफासृक्कृमिकोपेन नृणां विद्यादरूंषिकाम्” सुश्रुतोक्तः। केशश्च कीटश्च द्व०। २ केशे कीटे च। “केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः” मनुः

केशगर्भ(क) = पु० केशः गर्भेऽस्य वा कप्। कवरीरूपे पदार्थे त्रिका०

केशग्रह = पु० ६ त०। १ बलात्कारेण कचग्रहणे सुरतक्रीडाङ्गे २ तद्ग्रहणे च। “केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्ज्जयेत्” मनुः “कोपेन केशग्रहणप्रहारौ शिरसि वर्ज्जयेत् कोपनिमित्तत्वादात्मनः परस्य च प्रतिषेधः। अतएव सुरतसमये कामिनीकेशग्रहस्यानिषेधः” कुल्लू०। “रतेषु केशग्रहाः” कादम्बरी “सुरतेषु नतु युद्धेषु इत्यर्थः। कचग्रहादयोऽप्यत्र। ल्युट् केशग्रहणमप्यत्र न०। “शम्भोः केशग्रहणमकरोत्” मेघदूतम्

केशग्राहम् = अव्य०। केशान् गृहीत्वा “स्वाङ्गेऽध्रुवे” पा० ग्रह–णमुल् उप० स०। केशान् गृहीत्वेत्यर्थे येन विना न जीवनं तद्ध्रुवं तद्भिन्ने इत्यर्थः। केशं विनापि जीवनस्य सम्भवात् तस्याध्रुवत्वात् स्वाङ्गत्वाच्च तत्र णमुल्।

केशघ्न = न० केशान्हन्ति हन–हेत्वादौ टक्। इन्द्रलुप्तकरोगे (टाक) हेमच० इन्द्रलुप्तशब्दे ९५० पृ० विवृतिः

केशच्छिद् = त्रि० केशान् छिनत्ति छिद–क्विप् ६ त०। १ केशच्छेदके ३ नापिते पु० शब्दमा० क। केशच्छिदोऽप्यत्र

केशट = पु० केशेषु केशान् वा अटति अट–अच् शक०। (उकुण) १ मत्कुणे। २ विष्णौ ३ छागे च मेदि०। ४ भ्रातरि शब्दर०। ५ कामदेवस्य शोषणाख्य वाणे विश्वः। ६ शोनकवृक्ष (शोना) त्रिका०।

केशधर = त्रि० केशान् धरति धृ–अच्। १ केशवपनाकर्त्तरि वत्प्राये २ देशभेदे पु० ब० ब०। स च देशः वृ० सं० कूर्म्मविभागे उत्तरस्यामुक्तः। “केशधरचिपिटनासिक दासेरक वाटशरधानाः”

केशधृत् = पु० केशमिव धरति धृ–क्विप्। भूतकेशाख्ये तृणभेदे शब्दचि०

केशनामन् = न० केशस्य नामेव नाम यस्य। (बाला) इति गन्धद्रव्यभेदे ह्रीवेरे अमरः

केशपक्ष = पु० केशानां समूहः बा० पक्षादेशः केशः पक्ष इव वा। केशसमूहे अमरः “केशपक्षे परामृष्टा पापेन हतबुद्धिना” भा० आ० १७ अ० “अभिद्रुत्य सुशर्म्माणं केशपक्षे परामृशत्” भा० वि० ३३ अ० केशभारोऽप्यत्र पु०

केशपर्ण्णी = स्त्री केश इव पर्ण्णमस्याः जातित्वात् ङीष्। अपामार्गे शब्दरत्ना०

केशपाश = पु० केशानां समूहः बा० पाशादेशः केशः पाशैव वा। केशसमूहे अमरः “करेण रुद्धोऽपि च केशपाशः” कुमा० रघुश्च। “तां काचन प्रधावन्तीं केशपाशे परामृशत्” भा० व० ४६१ एवं

केशप्रसाधनी = स्त्री केशः प्रसाध्यते संस्कियतेऽनया प्र + साध–करणे ल्युट् ङीप्। (कांकुइ) (चिरुणि) ख्याते पदार्थे “केशप्रसाधनी केश्या रजोजन्तुमलापहा” सुश्रुते तत्सेवनगुणा उक्ताः।

केशभू = स्त्री केशानां भूरुत्पत्तिस्थानम्। शिरसि राजनि० केशभूम्यादयोऽप्यत्र स्त्री “दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते। कफवातप्रकोपेन” सुश्रु०

केशमथनी = स्त्री केशोमथ्यतेऽनया मथ–करणे ल्युट् ङीप्। शमीवृक्षे राजनि० तस्याः कण्टकेन तदन्तिकयातुः केशधर्षणात्तथात्वम्

केशमार्ज्जक = न० केशान् मार्ष्टि मृज–ण्वुल्। (र्काकुइ) (चिरुणि) ख्यातायां केशप्रसाधन्यां कङ्कतिकायां जटा०

केशमार्ज्जन = न० केशो मृज्यतेऽनेन मृज–करणे ल्युट् वृद्धिः ६ त०। १ कङ्कतिकायां (चिरुणि) हेमच०। भावे ल्युट्। २ केशसंस्कारभेदे (चुल आचडान)

कशमुष्टि = पु० केशानां मुष्टिरिव। महानिम्बवृक्षे राजनि०

केश(स)र = पुंन० के जले शिरसि वा शीर्य्यति शॄ अच् सरति सृ–अच् अलुक्स० केशःकेशाकारोऽस्त्यस्यर वा। १ किञ्जके पद्मादिपुष्पमध्यस्थे केशाकारपदार्थभेदे (चुमरि) अमरः। सकेश(स)रपुष्पवत्त्वात् २ नागकेशरे ३ बकुलवृक्षे ४ पुन्नागवृक्षे ५ सिंहादिस्कन्धस्थजटायां पु० मेदि० ६ हिङ्गुवृक्षे न० भरतः “मृगपतिरिव स्कन्धावलम्बितकेशरमालः” काद० “व्याकीर्णकेशरकरालमुखाः मृगेन्द्राः” पञ्चत० “पुनः पुनः केशरदामकाञ्चीम्” कुमा० “नीपं दृष्ट्वा हरितकपिशं केशरैरङ्गरूढैः” मेघ० “दशनांशुकेशरभरैः” प- रितः” माघः “दुधुबुर्वाजिनः स्कन्धान् लग्नकुङ्गुमकैशरान्” रघुः बकुले “सुरभिगन्धपराजितकेशरम्” रघुः “रक्ताशोकश्चलकिसलयः केशरश्चात्र कान्तः” मेघ०। ७ कुङ्गुमे च तस्य किञ्जल्काकारवत्त्वेन जायमानत्वात् तथात्वं एतेषु उदाहरणेषु दन्त्यमध्योऽपि वा पाठः। दन्त्यमध्यस्तु तुरगस्कन्धस्थलोमपुञ्जरूपजटायां हेमच० कासीसे वीजपूरके पु० स्वर्णे न० राजनि० “अर्थाश्वाश्वैः ४, ७, ७, र्मभनयरयुगैर्वृत्तं मतं केसरम्” वृ० र० उक्ते छन्दोभेदे न०।

केशरचना = स्त्री ६ त०। १ केशानां कवर्य्यादिविन्यासभेदे “कुर्व्वन्ति केशरचनामपरास्तरुण्यः” रत्नाव०। २ केशसमूहे हेमच०

केशरञ्जन = पु० केशान् रञ्जयति रन्ज–णिच्–ल्यु। भृङ्गराजवृक्षे (भीमराज) राजनि०।

केशराज = पु० केशा राजन्तेऽनेन राज–करणे घञ्। भृङ्गराजे (भीमराज) “भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः। भृङ्गराजः कटुस्तिक्तो रूक्षोष्णो कफवातनुत्। केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत्। दन्त्योरसायनोबल्यः कुष्ठनेत्रशिरोऽर्त्तिनुत्” भावप्र०।

केश(स)राम्लः = पु० केश(स)रे तदवच्छेदेऽम्लः। धूत्तुरे जटा०

केश(स)रिन् = पुंस्त्री केश(स)राः सन्त्यस्य इनि। १ सिंहे, २ अश्वे च अमरः स्त्रियां ङीप्। ३ पुन्नागवृक्षे ४ नागकेशरवृक्षे, पु० मेदि० ५ वीजपूरकवृक्षे पु० जटाधरः। ६ हनुमत्पितरि वानरभेदे पु०। “पिता हनुमतः श्रीमान् केश(स)री प्रत्यदृश्यत” रामा०

केश(स)रिसुत = पु० ६ त०। हनुमति केशरिक्षेत्रे अञ्जनायां पवनात् तस्योत्पत्तेस्तथात्वम् यथा “अहं के(स)शरिणः क्षेत्रे वायुना जगदायुना। जातः कमलपत्राक्ष! हनूमान्नाम वानरः” भा० व० १४७ अ०। “सूर्य्यदत्तवरः स्वर्णः सुमेरुर्नाम पर्वतः। तत्र राज्यं प्रशास्त्यस्य केश(स)री नाम वैपिता। तस्य भार्य्या बभूवेष्टा ह्यञ्जनेति परिश्रुता। जनयामास तस्यां वै वायुरात्मजमुत्तमम्। शालिशूकनिभाभासं प्रासूतेमन्तदाञ्जना” रामा० उ० ६ स०

केशरुहा = स्त्री केश इव रोहति रुह–क। भद्रदन्तिकावृक्षे राजनि०

केशरूपा = स्त्री केशस्येव रूपमस्याः। वन्दाकवृक्षे (परगाछा) राजनि०।

केशलुञ्च = पु० केशान् लुञ्चति लुञ्च–अपनयने अण् उप० स०। केशानामपनेतरि मुण्डितमुण्डे जैनर्षिभेदे केशोल्लुञ्चको-ऽप्यत्र “आः पापः पाषण्डापसद! चण्डालवेश! केशोल्लुञ्चक” प्रबोधचन्द्रोदयनाटकम्।

केशव = त्रि०। केशाः प्रशस्ताः सन्त्यस्य “केशाद्वोऽन्यतरस्माम्” पा० व०। १ प्रशस्तकेशयुक्ते। केशं–केशिनं वाति हन्ति वा–क। २ विष्णौ “यस्मात् त्वया हतः केशी तस्मान्मच्छासनं शृणु। केशवोनाम नाम्ना त्वं ख्यातो लोके भविष्यसि” हरिवं० ८१ अ०। कश्च अश्च ईशश्च केशा ब्रह्मविष्णुरुद्रा नियम्यतया सन्त्यस्य कश्च ईशश्च केशौ पुत्रपौत्रत्वेन स्तोऽस्य वा व, तान् तौ वा वाति गच्छति तथात्व न वा–क वा। ३ परमेश्वरे। “शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः” इति पाद्मे तस्य तथात्वोक्तेः। तदभेदादपि वासुदेवेऽस्य वृत्तिः। अतएव विष्णुस० “नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः” “त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः” इत्युक्तं तद्भाष्ये च केशवशब्दस्य निरुक्तिद्वयमाश्रित्य नामद्वयं समर्थितम् तत्राद्यवाक्ये “अभिरूपाः केशायस्य स केशवः कश्च अश्च ईशश्च केशास्त्रिमूर्त्तयस्ते वशे वर्त्तन्ते यस्य स केशवः। केशिबधाद्वा केशवः “यस्मात्त्वयैव दुष्टात्मा हतः केशी जनार्द्दन! तस्मात् केशवनाम्ना त्वं लोके ज्ञैयोभविष्यसीति” विष्णु पु०” भा०। द्वितीयवाक्ये “केशसंज्ञिताः सूर्य्यादिसंक्रान्ताः अंशवस्तद्वत्तया केशवः “अंशवोये प्रकाशन्ते मम ते केशसंज्ञिताः सर्व्वज्ञाः। केशवं तस्मात् प्राहुर्मां द्विजसत्तमाः” भारतम्। “त्रयः केशिनः” इतिश्रुतेः ब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञिताःमत्केशा वसुधातले” इति स्मृतेश्च। आदौ केशशब्दः शक्तिपर्य्ययत्वेन प्रयुक्तः। कोव्रह्मैति समाख्यात ईशोऽहं सर्व्वदेहिनाम्। आवां तवांशसंभूतौ तस्मात् केशवनामवान्” हरिवंशोक्तेः” भा०। तेनास्य बहुधा निरुक्तिः। ज्योतिर्विद्भेदे यस्य जातकादिना नानग्रन्थाः सन्ति। चतुर्विंशतिविष्णुमूर्त्तिमध्ये ५ विष्णुमूर्त्तिभेदे तस्य ध्यानं ध्यानशब्दे वक्ष्यते। अलुक्स०। ६ जलस्थे शवे च “केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः। रुदन्ति पाण्डवाः सर्व्वेहाहा केशव केशव” विदग्धमु० (भेदेयथा तन्त्रसारे

केशवकीर्त्तिन्यास = तन्त्रसारोक्ते विष्णुपूजाङ्गे न्यास “अं केशवाय कीर्त्त्यै नमो ललाठे। आं नारायणाय कान्त्यै नमो मुखे। इं माधवाय तुष्ट्यै नमो दक्षनेत्रे। ईं गोविन्दाय पुष्ट्यै नमो वामनेत्रे। नमः सर्वत्र। उं विष्णवे धृत्यै दक्षकर्णे। ऊं मधुसूदनाय शान्त्यैवामकर्ण्णे। ऋं त्रिविक्रमाय क्रियायै दक्षनासापुटे। ॠं वामनाय दयायै वामनासापुटे। ऌं श्रीधराय मेधायै दक्षगण्डे। ॡं हृषीकेशाय हर्षायै वामगण्डे। एं पद्मनाभाय श्रद्धायै ओष्ठे। ऐं दामोदराय लज्जायै अधरे। ओं वासुदेवाय लक्ष्म्यै ऊर्द्धदन्तपङ्क्तौ। औं सङ्कर्षणाय सरस्वत्यै अधोदन्तपङ्क्तौ। अं प्रद्युम्नाय प्रीत्यै मस्तके। अः अनिरुद्धाय रत्यै मुखे। क चक्रिणे जयायै। खं गदिने दुर्गायै। गं शार्ङ्गिणे प्रभायै। घं खङ्गिने सत्यायै। ङं शङ्खिने चण्डायै दक्षवाहुकरमूलसन्ध्यग्रेषु। चं हलिने वाण्यै। छं मुसलिने विलासिन्यै। जं शूलिने विजयायै। झं पाशिने विरजायै। ञं अङ्कुशिने विश्वायै, वामबाहुकरमूलसन्ध्यग्रेषु। टं मुकुन्दाय विनदायै। ठं नन्दजाय सुनन्दायै। डं नन्दिने स्मृत्यै। ढं नराय ऋद्ध्यै। णं नरक जिते समृद्ध्यै दक्षपादमूलसन्ध्यग्रेषु। तं सूरये शुद्ध्यै थं कृष्णाय बुद्ध्यै। दं सत्याय धृत्यै। धं सत्वाय मत्यै। नं सौराय क्षमायै वामपादमूलसन्ध्यग्रेषु। पं शूराय रमायै दक्षपार्श्वे। फं जनार्द्दनाय उमायै वामपार्श्वे। बं भूधराय क्लेदिन्यै पृष्ठे। भं विश्वमूर्त्तये क्लिन्नायै नाभौ। मं वैकुण्ठाय वसुदायै उदरे। यं त्वगात्मने पुरुषोत्तमाय वमुधायै हृदि। रं असृगात्मने बलिने परायै दक्षांशे। लं मांसात्मने बलानुजाय परायणायै ककुदि। वं मेदआत्मने बलाय सूक्ष्मायै वामांसे। शं अस्थ्यात्मने वृषघ्नाय सन्ध्यायै हृदादिदक्षकरे। षं सज्जात्मने वृषाय प्रज्ञायै हृदादिवामकरे। सं शुक्रात्मने हंसाय प्रभायै हृदादिदक्षपादे। हं प्राणात्मने वराहाय निशायै हृदादिवामपादे। लं जीवात्मने विमलाय अमोघायै हृदाद्युदरे। क्षं क्रोधात्मने नृसिंहाय विद्युतायै हृदादिमुखे। तथा च गौतमीये “केशवादिरयं न्यासोन्यासमात्रेण देहिनाम्। अच्युतत्वम् ददात्येव सत्यं सत्यं न संशयः”। मातृकार्ण्णं समुच्चार्य्य केशवाय इति स्मरेत्। कीर्त्त्यै च नमसा युक्त मित्यादिन्यासमाचरेत्। केशवाय ततः कीर्त्त्यै कान्त्यै नारायणाय च” इत्यगस्त्यसंहितावचनाच्चायं क्रमः। न तु केशवकीर्त्तिभ्यां नम इति। तथा भक्तिमुक्ति मिच्छताऽयं न्यासः श्रीवीजादिः कर्त्तव्यः। यथा श्रीं अं केशवाय कीर्त्त्यै नमैत्यादि। तथा च “एवं प्रविन्य सेन्न्यासं लक्ष्मीवीजपुरः- सरम्। स्मृतिधृतिमहालक्ष्मीं प्राप्यान्ते हरितां व्रजेत्”।

केशवपनीय = पु० अतिरात्रयागमेदे तत्करणप्रकारादि कात्या० श्रौ० १५। ९। २० दर्शितः यथा “तदन्ते केशवपनीयोऽतिरात्रः पौर्ण्णमासीसुत्यः” सू०। “तयोः पशुबन्धयोरन्ते केशवपनीयसंज्ञः अतिरात्रसंस्थः सोमयागो भवति स च पौर्ण्णमासीसुत्यः। ज्यैष्ठ्यां पौर्ण्णमास्यां तस्य सुत्या भवतीत्यर्थः” सं० व्या०। शत० व्रा० ५, ५, ३, १, विशेषोदर्शितः “एतौ पशुबन्धौ इत्युपक्रमे “अभिषेचनीयेनेष्टा। केशान्न वपते तद्यत् केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान् प्राप्नोति स यत् केशान् वपेतैतां श्रियं जिह्मां विनाशयेद्व्युदुह्यात्तस्मात् केशान्न वपते संवत्सरम्। संवत्सरसमिता वै व्रतचर्या तस्मात् संवत्सरं न वपते स एष व्रतविसर्जनीयोपयोगो नाम स्तोमो भवति केशवपनीयः। तस्यैकविंशं प्रातःसवनम्। सप्तदशं माध्यन्दिनं सवनं, पञ्चदशं तृतीयसवनं सहोक्थैः सह षोडशिना सह रात्र्या त्रिवृद्रथन्तरः सन्धिर्भवति एष एवैकविंशो य एष तपति स एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभिप्रत्यवैति सप्तदशात् पञ्चदशं पञ्चदशादस्यामेव त्रिवृति प्रतिष्ठायां प्रतितिष्ठति तस्य रथन्तरं पृष्ठं भवति इयं वै रथन्तरमस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठत्यतिरात्रो भवति प्रतिष्ठा वा अतिरात्रस्तस्मादतिरात्रो भवति। स वै न्येव वर्तयते। केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिपिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान् प्राप्नोति स यत् केशान् वपेतैतां श्रियंजिह्मां विनाशयेद्व्युदुह्यादथ यन्निवर्तयते तदात्मन्यवैतां श्रियं नियुनक्ति तस्मान्न्येव वर्तयते केशान्न वपते तस्यैषैव व्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्ठति। आसन्द्या उपानहाऽउपमुञ्चते। उपानद्भ्यामधि यदस्य यानं भवति रथो वा किञ्चिद्वा सर्वं वा एष इदमुपर्य्युपरि भवत्यर्वागेवास्मादिदं सर्वं भवति यो राजसूयेन यजते तस्मादस्येव व्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्टति” मू०। “तृतीये केशपनीयातिरात्रस्य वैशेषिका धर्माउच्यन्ते। पशुबन्धद्वयादनन्तरं केशवनीयातिरात्रयागः कर्त्तव्यः। अभिषेचनीयसोमयागं कृत्वा संवत्सरपर्यन्तं केशवपनाकरणलक्षणं व्रतमाचर्य्यम् ततस्तद्व्रतविसर्जनार्थमेकः सोमयागः पौर्णमासीसुत्यः कार्यः स एव केशवपनीया- तिरात्रौच्यते रात्रिमतीत्य वर्तत इत्यतिरात्रः अतिरात्रसंस्थया कार्य्य इत्यर्थः। विदुह्यात् गतसारोऽपि भवेत्। केशवपनार्थमुपयुज्यमानः क्रियमाणः स्तोमः एकविंशादिस्तोमवान् यागः केशवपनीयः। तत्र सामगैर्गीयमानेषु स्तोत्रेषु चोदकेन प्रातःसवनादिषु त्रिवृदादिस्तोमप्राप्तौ तानपवदितुं विशेषं दर्शयति तस्यैकविंशमिति। प्रातःसवनमेकविंशस्तोमयुक्तं कर्त्तव्यम् माष्यन्दिनं सप्तदशस्तोमकम् अस्य सोमयागस्यातिरात्रसंस्थानि तृतीयसवनेऽग्निष्टोमवद् द्वादश स्तोत्राणि तत उत्तरं त्रीण्युक्थस्तोत्राणि एकं षोडशिस्तोत्रं रात्रिपर्यायस्तोत्राणि द्वादश तानि सर्वाण्यपि पञ्चदशस्तोमकानि कर्त्तव्यानि। स्तोमत्रिवृत्प्रचारस्तु प्राचीमारोहेत्यत्र दिक्समारोहणमन्त्रव्याख्यावसरे दर्शितः। किं च पूर्वदिवसरात्रिशेषे उत्तरदिवसस्योषःकाले यज्ञसंस्थापकमेकं चरमं स्तोत्रं तृतीयपर्यायस्यान्ते रथन्तरसाम्ना गातव्यम् तत् सन्धिस्तोत्रमित्युच्यते तत् स्तोत्रं त्रिवृत्स्तोत्रयुक्तं कार्य्यम्। एकविंशादवरोहणं त्रिवृत्पर्य्यन्तं यत् स्तोमकरणमुक्तं तत् सूर्य्यलोकादिक्रमाद् भूम्यवस्थानात्मना प्रशंसति एष एवैकविंश इति य एष तपति स एकविंशः सूर्य्य इत्यर्थः तस्मादपयुङ्क्ते अवरोहतीत्यर्थः सोऽवरुह्यावरुह्य त्रिवृद्रूपायामस्यां भूमिलक्षक्षणायां प्रतिष्ठायां प्रतिष्ठितवान् भवति साध्यन्दिन सवने रथन्तरं वृहत्साम वा पृष्ठस्तोत्रं प्रकृतौ विकल्पितं अत्रैकं नियमयति तस्य रथन्तरमिति। अस्य सोमकालस्यातिरात्रसंस्थात्वं प्रतिष्ठात्मना प्रशंसति अतिरात्र इति। अतिरात्रसंस्थात्मना कृतएष क्रतुः प्रतिष्ठारूपः। अस्य क्रतोः केशावापव्रतविसर्जनार्थं क्रियमाणत्वात्तदन्ते केशवापः कार्य्यः तत्र कञ्चिद्विशेषं विधत्ते सवै न्येवेति स यजमानो निवर्तयते केशान्निकृन्तेदेव न वपेत् वपनं नाम मुण्डनं तन्न कुर्यात् निवर्तनं कर्तनं तत्कुर्यात् एषा केशकर्तनलक्षणा व्रतचर्या यावज्जीवनं कर्त्तव्या न केशमुण्डनं कार्य्यम् कदाचिदप्यनुपानत्कोऽपादुकः कस्यां चिदपि भूमौ उपानहौ पादुके न प्रति तिष्ठति अवस्थापनं न कुर्य्यात्। आसन्द्या अवरोहणसमयेऽपि उपानहौ पादुके उपसुञ्चते इतस्ततः संचरणसमये रथं वा यानं वारोहेत्”। भा०

केशवर्द्धनी = स्त्री केशावर्द्धन्तेऽनया वृध–करणे ल्युट् ङीप्। सहदेवीलतायाम् “उत स्थ केशदृं हणीरथो ह केशबर्द्धनीः” अथ० ६। २१। ३

केशवर्द्धिनी = स्त्री केशान् वर्द्धयति वृध–णिच्–णिनि। सहदेवीलतायाम् राजनि०

केशवादित्य = पु० काशीस्थे आदित्यभेदे तत्कथा काशीख० ५१ अ० यथा “अतः परंशृणु मुने! केशवादित्यमुत्तमम्। यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान्। व्योम्नि सञ्चरमाणेन सप्ताश्वेनादिकेशवः। एकदाऽदर्शि भावेन पूजयन् स्निग्धमीश्वरम्। कौतुकाद्दिव उत्तीर्य्य हरेरविरुपाविशत्। निःशब्दोनिश्चलः सुस्थोमहाश्चर्य्यसमन्वितः। प्रतीक्ष्य माणोऽवसरं किञ्चित् प्रष्टुमना रविः। हरिं विसर्जितार्घञ्च प्रणनाम कृताञ्जलिः। स्वागतन्ते हरिः प्राह बहुमानपुरःसरम्। स्वाभ्यासमासयामास भास्वन्तन्नतकन्धरम्। अथावसरमालोक्य लोकचक्षुरधोक्षजम्। नत्वा विज्ञापयामास कृतानुज्ञो सरारिणा। रविरुवाच। अन्तरात्मासि जगतां विश्वम्भर! जमत्पते!। तवापि पूज्यः कोऽप्यस्ति जगत्पूज्यात्र माधव!। त्वत्तश्चाविर्भवेदेतत्त्वयि सर्व्वं प्रलीयते। त्वमेव पाता सर्व्वस्य जगतोजगतां निधे!। इत्याश्चर्य्यं समालोक्य प्राप्तोह्यत्र तवान्तिकम्। किमिदं पूज्यते नाथ! भवता भवतापहृत्!। इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम्। उच्चैर्मात्थ च सप्ताश्वं वारयन् करसंज्ञया। विष्णुरुवाच। देवदेवोमहादेवो नीलकण्ठौमापतिः। एक एव हि पूज्योऽत्र सर्वेषां सर्वकारणम्। अत्र त्रिलोचनादन्यं समर्च्चयति मोहधीः। सलोचनोऽपि स ज्ञेयो लोचनाभ्यां विवर्जितः। एकोमृत्युञ्जयः पूज्योजन्ममृत्युजराहरः। मृत्युञ्जयं किलाभ्यर्च्च्य लोको मृत्युञ्जयोभवेत्। कालकालं समाराध्य भृङ्गी कालं जिगाय वै। शिलादिमपि तत्याज मृत्युर्मृर्त्युञ्जयार्च्चकम्। विजिग्मे त्रिपुरं यस्तु हेलयैकेषुमोक्षणात्। तं समभ्यर्च्च्य भूतेशं को न पूज्य तमोभवेत्। त्रिजगज्जयिनस्त्रातुस्त्र्यक्षस्याराधनं परम्। को नाराधयति वृध्न! हरस्य स्मरविद्विषः। यस्याक्षिपक्ष्म सङ्कोचाज्जगत् सङ्कोचमेत्यदः। विकस्वरं विकाशाच्च कथ पूज्यतमोन सः। शम्भोर्लिङ्गं समभ्यर्च्य पुरुषार्थचतुष्टयम्। प्राप्नोत्यत्र पुमान् सद्योनात्र कार्य्या विचारणा। समर्च्य शाम्भवं लिङ्गमधिजन्मशतार्ज्जितम्। पापपुञ्जं जहात्येव पुमानत्र क्षणाद्ध्रुवम्। किं किं न सम्भवेदत्र शिवलिङ्गसमर्च्चनात्। पुत्राः कलत्रं क्षेत्राणि स्वर्गोमोक्षोऽप्यसंशयम्। त्रैलोक्यैश्वर्य्यसम्पत्तिर्मया प्राप्ता सहस्रगो!। शिवलिङ्गार्च्चनादेकात् सत्यं सत्यं पुनः पुनः। अयमेव परोयोगस्त्विदमेव परं तपः। इदमेव परं ज्ञानं स्थाणुलिङ्गं यदर्च्यते। यैर्लिङ्गं सकृदप्यत्र पूजितं पार्वतीपतेः। कुतोजन्मभयं तेषां संसारे दुःखभाजने। सर्वं परित्यज्य रवे! तल्लिङ्गं शरणं गतः। न तं पापानि बाधन्ते महान्त्यपि दिवाकर!। लिङ्गार्च्चने भवेच्छुद्धिस्तेषामेवात्र भास्कर!। येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः। न लिङ्गा राधनात् पुण्यं त्रिषु लीकेषु चापरम्। सर्वतीर्थाभिषेकः स्याल्लिङ्गस्नानाम्बुसेवनात्। तस्माल्लिङ्गं त्वमप्यर्क! समर्च्चय महेशितुः। संप्राप्तुं परमां लक्ष्मीं महातेजोविजृम्भिणीम्। इति श्रुत्वा हरेर्वाक्य तदारभ्य सहस्रगुः। विधाय स्फाटिकं लिङ्गं मुनेऽद्यापि समर्च्चयत्। गुरुत्वन तदाकल्प्य विवस्वानादि केशवम्। तत्रोपतिष्ठतेऽद्यापि उत्तरेणादिकेशवात्। अतः स केशवादित्यः काश्यां भक्ततमोनुदः। समर्च्चितः सदा देयान्मनसोवाञ्छितं फलम्। केशवादित्यसाराध्य वाराणस्यां नरोत्तमः। परमं ज्ञानमाप्नोति येन निर्वाणभाग्भवेत्। तत्र पादोदके तीर्थे कृतसर्वोदकक्रियः। विलोक्य केशवादित्यं मुच्यते सर्वपातकैः। अगस्ते! रथसप्तम्यां रविवारो यदाप्यते। तत्र पादोदके तीर्थे आदिकेशवसन्निधौ। स्नात्वोष सि नरोमौनी केशवादित्यपूजनात्। सप्तजन्मार्ज्जितात् पापात् मुक्तो भवति तत्क्षणात्। यद्यज्जन्म कृतं पापं मया सप्तसु जन्मसु। तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी। एतज्जन्मकृतं पापं यच्च जन्मान्तरार्ज्जितम्। मनोवाक्वायजं यच्च ज्ञाताज्ञातञ्च यत् पुन। इति सप्तविधं पापं स्नानान्मे सप्तसप्तिको संप्तव्याधिसमायुक्तं हर माकरि! सप्तमि!। एतन्मन्त्र त्रयं जप्त्वा स्नात्वा पादीदके नरः। केशवादित्यमालोक्य क्षणान्निष्कल्मषो भवेत्। केशवादित्यमहात्म्यं शृण्वन् श्रद्धासमन्वितः। नरोन लिप्यते पापैः शिवभक्तिञ्च विन्दति”।

केशवायुध = न० ६ त०। १ विष्णोरस्त्रे। केशवस्यायुधं तदाकारीऽस्त्यस्य अच्। २ आम्रवृक्षे पु० शब्दमाला

केशवार्क = पु० ज्योतिषनिबन्धकारके विद्वद्भेदे

केशवालय = पु० ६ त०। १ अश्वत्थवृक्षे त्रिका० अश्वत्थशब्दे विवृतिः। २ तस्य मन्दिरे च। केशवावासादयोऽप्यत्र पु० जटा०

केशवेश = पु० केशस्य वेशः। १ कवरीबन्धने अमरः। २ केशानां रचनाविशेषे च “यथाकुलधर्म्मं केशवेशान् कारयेत्” आश्व० गृ० १, १७, १७, “एकशिखस्त्रिशिखः पञ्चशिखो वा” इति बौधायनः पूर्ब्बशिखः परशिखः इति कुलधर्म्माः तेषु योयस्य कुलधर्म्मः तेन तस्य केशसन्निवेशान् कारयेत्” नारा० वृ०।

केशहन्तृफला = स्त्री केशहन्तृ फलमस्याः। शमीवृक्षे शब्दच०

केशहन्त्री = स्त्री केशान् हन्ति हन–तृच् ङीप्। शमीवृक्षे राजनि०

केशहस्त = पु० केशोहस्त इव। केशसमूहे अमरः “लक्ष्मीवान् सरसि रराज केशहस्तः” माघः। “केशहस्तेन ललना जागामाथ विराजती” भा० व० ४६ अ०

केशाकिशि = अव्य० केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं “तत्र तेनेदमिति सरूपे” पा० स० कर्म्मव्यतिहारे इच् समा० पूर्ब्बदीर्घः तिष्ठद्गुप्रभृतित्वादव्ययत्वम्। अन्योन्यकेशग्रहणपूर्ब्बकप्रवृत्तयुद्धे। एवं कचाकच्यादयोऽप्यत्र अव्य०। असरूपे तु नेदं प्रवर्त्तते। “आर्छतां बहुसंरम्भात् केशाकेशि रथारथि” भा० वि० ३ अ० “केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह” भा० व० २८३ अ०

केशान्त = पु० केशानन्तयति छेदनात् हन्ति अन्ति (नामधातुः) अण्। द्विजातीनां षोडशादिषु वर्षेषु कर्त्तव्ये केशच्छेदनाख्येगोदानकर्मणि। केशान्ताख्य गोदानकर्मप्रकारादि आश्व० गृ० १। १८। १। सूत्रादौ दर्शितं यथा “एतेन गीदानम्” सू० व्याख्यातमिति शेषः एतेनेति कृत्स्नोपदेशः तत्रविशेषमाह। ना० दृ०। “षोडशे वर्षे” सू०। तृतीयस्यापवादः अत्र मातुरुप स्थोपवेशनं न भवति अयुक्तत्वात्” ना० वृ०। “केशशब्दे तु श्मश्रुशब्दान् कारयेत्” सू०। केशशब्दे त्विति जातावेकवचनं श्मश्रुशब्दानिति व्यक्तिपरोनिर्देशः तेन यत्र श्मश्रुशब्दाः तत्र “अदितिः केशान् वपतु”। “वप्ता केशान्” “दक्षिणे केशपक्ष इति” त्रिषु ते कार्याः। तन्त्रगतस्य तृतीयस्य केशशब्दस्याभावाद्विधिगतस्य ग्रहणं तेन दक्षिणे श्मश्रुपक्ष इति साधितं भवति” वृ०। “श्मश्रुणीहोन्दति” सू०। “शिरस्युन्दनस्यापवादः”। वृ०। “शुन्धि शिरोमुखं मास्यायु प्रमोषीरिति” सू०। “क्षुरनिमार्जनेऽयं विशेषः” वृ०। “केशश्मश्रुलोमनखान्युदक्संस्थानि संप्रव्यति” सू०। “शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति नापितशासनम्” ना० वृ०। “काल्पुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे- वाचं विसृजेत् वरं ददामीति” सू०। “तत आल्पुत्य स्नात्वेत्यर्थः। वाग्यत इत्यमन्त्रयमाणः। स्थित्वेत्युपवेशन प्रतिषेधः। एवमहःशेषं स्थित्वाऽस्तमिते आचार्यसमीपे वरं ददामीति वाचं विसृजेत्। वरद्रव्यमाह” ना० वृ०। “गोमिथुनं दक्षिणा” सू०। ननु भिक्षुरयं कथमस्य गोमिथुनसम्भवः उच्यते यथास्य प्रावरणादि सम्भवस्तथास्यापि” वृ०। संवत्सरमादिशेत्” सू०। एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वक्ष्यमाणेन विधिना चरेत्। रात्रौ व्रतादेशाऽनुपपत्तेः अपरेद्युः कार्य्यम्” ना० वृ०। एतेनेत्यनेन चूडाविहितनक्षत्रादिग्रहणातिदेशः यथाह मू० चि० “केशान्तं षोडशे वर्षे चौलोक्तदिवसे शुभम्” “षोडशे वर्षे चौलोक्तदिवसे चूडावर्षतृतीयात् प्रभवतीत्यादिना कथितशुभदिवसे गोदानपर्यायं केशान्त संज्ञं कर्म्म शुभं स्यात्” गावः केशा दीयन्ते खण्ड्यन्ते यस्मिन्नितिव्युत्पत्तिः यदाह् “केशान्तं षोडशे वर्षे कुर्याच्चौलोक्तभादिके” इति। महेश्वरोऽपि “कर्म केशान्त संज्ञं हि स्मृतं वर्षे तु षोडशे। चौलकर्मोक्तधिष्ण्यादौ” षोडश इत्येतद्ब्राह्मणविषयं द्रष्टव्यं क्षत्रियविशोस्तु द्वाघिंशतिचतुर्विंशतितमवर्षयोः केशान्तमित्यर्थः तदुक्तं मनुना “केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः” पी० धा०। चूडोक्तनक्षत्रादि च चूडाशब्दे वक्ष्यते। अत्र कर्मपर तया क्लीवता। मनुवचने तु संस्कारपरतया पुंस्त्वमिति बोध्यम्। एतस्मात् पूर्वं महानाभ्र्यादिव्रतत्रयं वर्षत्रये कर्त्तव्यं तच्च उपनिषच्छब्दे सप्रमाणं दर्शितम्। केशस्यान्तः। २ केशस्व रूपे ३ केशाग्रे च। “केशान्तमन्तः कुसुमं तदीयम्” कुमा०।

केशान्तिक = त्रि० केशान्तः केशपर्य्यन्तः परिमाणमस्य ठन्। केशान्तप्रमाणके “केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः। ललाटसंमितोराज्ञः स्यात्तु नासान्तिको विशः” मनुः।

केशारुहा = स्त्री केशा आरुहन्ति अनया आ + रुह घञर्थे करणे क। सहदेवीलतायां राजनि०।

केशार्हा = स्त्री केश केशवर्णमर्हति अर्ह–अण् उप० स०। महानीलीवृक्षे राजनि०।

केशि = पु० १ दानवभेदे। खसृमः कालवदनः करालः केशिरेव च” हरि वं २६३ अ०। २ केशिनि दानवे च “अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्” हरिव० ४२ अ०।

केशिक = त्रि० प्रशस्तः केशोऽस्त्यस्य टन्। प्रशस्तकेशयुक्ते जने

केशिका = स्त्री केशीव कायति कै–क। शतावरीवृक्षे राजनि०

केशिध्वज = पु० निमिवंश्ये नृपभेदे “कुशध्वजस्तस्य पुत्रस्ततो धर्म्मध्वजोनृपः। धर्म्मध्वजस्य द्वौ पुत्रौ कृतध्वजसुतध्वजौ। कृतध्वजात् केशिध्वजः” भाग० ९। १३। १२।

केशिन् = त्रि० केश + प्राशास्त्ये भूम्निवा इनि। १ प्रशस्तबहुकेशयुक्ते “वहतामिन्द्र केशिना” ऋ० ३। ४१। ९ स्त्रियां ङीप्। केशिनैदंख र्थे वा अण्। “गाथिविदथिकाशीत्यादिना” पा० प्रकृतिभावः। कैशिन तत्सब्बन्धिनि केशयुक्ते च स्त्रियां ङीप्। “कैशिनीरेवेमा अप्येतर्हि प्रजाः प्रजायन्ते” शत० व्रा० ११। ८। ४। ६। २ केशतुल्यकार्ष्ण्ययुक्ते त्रि० स्त्रियां ङीप्। “तमग्रुवः केशिवीः सं हि रेभिरे” ऋ० १, १४०, ८, “केशिनीः केशस्पानीयोर्द्धभाविकार्ष्ण्योपेताः ज्वाला” भा०। केशिविद्याप्रकाशके २ गृहपतिस्वामिभेदे पु०। केशीगृहपतीनामुह सम्राड् दुघा शार्द्दूलोजघान” इत्यादि शत० ब्रा० ११, ८, ४, उक्तम्। तत्सम्बन्घाच्च प्रजानां केशयुक्तत्वम् उपसंहारे “ततोहैव स उत्ससाद कैशिनीरेवेमा अप्येतर्हिप्रजाःजायन्ते” इत्युक्तत्वात्। “एवमुपदिष्टः स केशी ततोदेशात् उत्ससाद विनष्टोऽभूत्तस्मादेतर्हि इदानीमपि वर्त्तमानाः प्रजा कैशिनीरेव केशवत्यएव अथ वा केशिसम्बन्धित्वो जायन्ते केशिना वृद्धिकरविद्यया लब्धत्वात्” भा० ४ द्वापरयुगीये कृष्णनिहतेऽसुरभेदे केशिनिसूदनशब्दे विवृतिः

केशिनिसूदन = न० केशिनं निसूदयति नि + सूद–ल्यु। वासुदेवे कृष्णे तन्निसूदनकथा च हरिव० ८१ अ० यथा “प्रागेव तु नरेन्द्रेण माथुरेणौग्रसेनिना। क शिनः प्रेषितो दूतो बधायोपेन्द्रकारणात्। स तु दूतवचः श्रुत्वा केशी क्लेशकरो नृणाम्। वृन्दावनगतो गोपान् वाधते स्म दुरासदः। मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः। दुर्द्दान्तो वाजिदैत्योऽसावकरोत् कदनं महत्। निघ्नन् गा वै सगोपालान् गवा पिशितभोजनः। उद्दाम कामचारी च स केशी निरवग्रहः। तदरण्यं श्मशानाभं नृणामस्थिभिरावृतम्। यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः। खुरैर्द्दारयते भूमिं वेगेनारुजते द्रुमान्। ह्रेषितैः स्पर्द्धते वायुं प्लुतैर्लम्बयते नभः। अतिप्रवृद्धो मत्तश्च दुष्टाश्वो वनगोचरः। प्रकम्पितशटो रौद्रः कंसस्य चरितानुगः। इरिणं तद्वनं सर्वं तेनासीत् पापकारिणा। कृतं तुरगदैत्येन सर्वान् गोपान् जिषांसता। तेन दुष्टप्रचारेण दूषितं तद्वनं महत्। न नृभि- र्गोवनैश्चापि सेव्यते वनवृत्तिभिः। निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रितः। मदाञ्चलितवृत्तेन नृमांसान्यश्नता भृशम्। नृशब्दानुसरः क्रुद्धः स कदाचिद्दिनागमे। जगाम घोषसंवासं चोदितः कालधर्मणा। तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह। क्रन्दमाना जगन्नाथे कृष्णं नाथमुपाश्रिताः। तासां रुदितशब्देन गोपानां क्रन्दितेन च। दत्त्वाऽभयन्तु कृष्णो वै केशिनं सोऽभिदुद्रुवे। केशी चाप्युद्धतग्रीवः प्रकाशदशनेक्षणः। ह्रेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ। तमापतन्तं सम्प्रेक्ष्य केशिनं हयदानवम्। प्रत्युज्जगाम गोविन्दस्तोयदः शशिनं यथा। केशिनस्तु तमभ्यासे दृष्ट्वा कृष्णमवस्थितम्। मनुष्यबुद्धयो गीपाः कृष्णमूचुर्हितैषिणः। कृष्ण! तात! न खल्वेष सहसा ते हयाधमः। उपसर्य्यो भवान् बालः पापश्चैर्ष दुरासदः। एष कंसस्य सहजः प्राणस्तात! बहिश्चरः। उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि। त्रासनः परसैन्यानां तुरगाणां महाबलः। अबध्यः सर्वभूतानां प्रथमः पापकर्मणाम्। गोपानां तद्गचः श्रुत्वा वदतां मधुसूदनः। केशिना सह युद्धाय मतिञ्चकेऽरिसूदनः। ततः सव्यं दक्षिणञ्च मण्डलानि परिभ्रमन्। पद्भ्यामुभाभ्यां स हंयः क्रोधेनारुजते द्रुमान्। मुखे लम्बशटे चास्य स्कन्धे केशघनावृते। बलयो भ्रूतरंङ्गाभाः सुस्रुवुः क्रोधजं जलम्। सफेनं वक्त्रजञ्चैव ववर्ष रजसावृतम्। हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः। गोविन्दमरविन्दाक्षं ह्रेषितोद्गारशीकरैः। सफेनैर्वक्त्वनिर्गीर्णैः प्रोक्षयामास भारत!। खुरोद्धूतासक्तेन मधुकक्षोदपाण्डुना। रजसा स हयः कृष्णं चकारारुणमूर्द्धजम्। प्लुतवल्गितपादस्तु तक्षमाणो धरां खुरैः। दन्तान् निर्दशमानस्तु केशी कृष्णमुपाद्रवत्। स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः। पूर्बाभ्याञ्चरणाभ्यां वै कृष्णं वक्षस्यताडयत्। पुनः पुनश्च स वली प्राहिणोत्पार्श्वतः खुरान्। कृष्णख दानवो वोरं प्रहारममितौजसः। वक्त्रेण चास्व घोरेण तीक्ष्णदंष्ट्रायुधेन वै। अदशद्बाहुशिखरं कृष्णस्य रुषितो हयः। सं लम्बकेशरशटः कृष्णन सह सङ्गत। रराज केशी मेघेन संयुक्तः खं इवाशुमान् उरश्चास्योरसा हन्तुमियेष बलवान् हयः। वेगेन वासुदेवस्य क्रोधाद्द्विगुणविक्रमः। तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमितविक्रभः। बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत्। स तं बाहुमशक्तो वै खादितुं भेत्तुमेव वा। दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन्। विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकृतः। अक्षिणी विकृते चक्रे विसृते मुक्तबन्धने। निरस्तहनुराविष्टः शोणिताक्तविलोचनः। उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत। उत्पतन्नसकृत् पादैः शकृन्मूत्रं समुत्सृजन्। स्विन्नार्द्ररोमा श्रान्तस्तु निर्यत्नचरणोऽभवत्। केशिशक्थिविलग्नस्तु कृष्णबाहुरशोभत। व्याभुग्न इव घर्मान्ते चन्द्रार्द्धकिरणैर्घनः। केशी च कृष्णसंसक्तः श्रान्तगात्रो व्यरोचत। प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः। तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात्। पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव। स तु केशी भृशं श्रान्तः कृष्णेनाक्लिष्टकर्मणा। स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा। स पाटितो भुजेनाजौ कृष्णेन विकृताननः। केशी नदन्महानादं दानवो व्यथितस्तदा। विघूर्णमानः स्रःस्ताङ्गो भुखाद्रुधिरमुद्वमन्। भृशं व्यङ्गीकृतवपुर्निकृत्तार्द्ध इवाचलः। व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना। निपपात यथा कृत्तो नागो द्विविदलीकृतः। बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ। पशोरिव महाघोरं निहतस्य पिनाकिना। द्विपादपुच्छकृष्टार्द्धे श्रवणैकाक्षिनासिके। केशिनस्ते द्विघा भूते द्वे त्वर्द्धे रेजतुः क्षितौ। केजिदन्तक्षतश्चापि कृष्णस्य शुशुभे भुजः। कृत्तस्ताल इवारण्ये गजेन्द्रदशनाङ्कितः। तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः। कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान्। तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियस्तथा। बभूवुर्म्रुदिताः सर्वे हतविघ्ना हतक्लमाः दामोदरन्तु श्रीमन्तं यथास्थानं यथावयः। अभ्यनन्दन् प्रियैर्वाक्यैःपूजयन्तः पुनः पुनः” “वैशम्पायन उवाच अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः। प्रीतोऽस्मि विष्णो! देवेति कृष्ण! कृष्णेतो चाव्रवीत्। यदिदं दुष्करं कर्म्म कृतं केशिजिघांसया। त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकेऽपि वा। अहं त्वतेन गोविन्द! कर्मणा परितोषितः। हयादस्मान्महेन्द्रोऽपि विभेति बलसूदनः। कुर्वाष्णस्य वपुर्घोरं केशिनो दुष्टचेतसः। यत्त्वया पाटितं देह भुजनायतपर्वणा। एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना। यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणु। केशवो नाम तस्मात् त्वं ख्यातिं लोके गमिष्यसि”। केशिहन् इत्यादयोऽप्यत्र। “त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः” विष्णुस०। “प्रकाशनात् केशाः रश्मयस्ततः अस्त्यर्थे इनि। ५ परमेश्वरे ६ सूर्य्यादित्रये च। “के शी केशा रश्मयस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वेति” १२। ३६। निरु० निरुच्य “केश्यग्निं केशी विषं केशी बिभर्त्ति रोदसी। केशी विश्वं स्वर्द्दशे केशीदं ज्योतिरुच्यते” ऋ० १०। १३६। १ ऋचसुदाहृत्य व्याकृतं यथा “केशी अग्निञ्च विषञ्च विषमित्युदकनाम विष्णातेः विपूर्ब्बस्य स्नातेः शुड्यर्थस्य विपूर्ब्बस्य वा सचतेः। द्यावा पृथिव्यौ धारयति केशीदं सर्वमिदमभिरोहति केशीदं ज्योतिरुच्यते इत्यादित्यमाह अथाप्येते इतरे ज्योतिषी केशिनी उच्येते धूमेनाग्निः रजसा च मध्यमः” इत्युक्त्वा च तेषामेषा सारधाणाभवतीत्युक्त्वा च। “त्रयः केशिन ऋतुधा विचक्षते संवत्सरे वपत एकएषाम्। विश्वमेको अभिचष्टे शचीभिर्व्राजिरेकस्य ददृशे न रूपम्” ॠ० १। १६४। ४४। ऋगुदाहृता। व्याख्याताचैषा भाष्ये

“केशस्थार्नायप्रकृष्टरश्मियुक्तास्त्रयोऽग्न्यादित्यवायवः ते च ऋतुधा काले काले विचक्षते विविधलक्षाणां भूमिं पश्यन्ति तेषां पृथक् पृथक् कार्य्यमाह एषां मध्य एकोऽग्निः संवत्सरेऽतीते सति संवत्सरं वपते दाहेन केश स्थानीयोषधिवनस्पत्यादिकच्छेदनेन नापितकार्य्यं करोति एकः अन्यः आदित्यो विश्वं सर्वं जगत् शचीभिः स्वकीयैः प्रकाशवृष्ट्यादिकर्मभिरभिचष्टे सर्वतः पश्यतिं एकस्य वायोर्व्राजिर्गतिर्ददृशे दृश्यते सर्वैः न रूपं अप्रत्यक्षत्वात् स्पर्शशब्दधृतिकम्पलिङ्कैर्गम्यत इति हि न्यायविदोवदन्ति” भा०

केशिनी = स्त्री केशाः तदाकारा जटाः सन्त्यस्य इनि ङीप्। १ जटामास्यां राजनि० २ चोरपुष्पीवृक्षे (चोरर्काचकी) अमरः। ३ प्रशस्तकेशयुक्ताथां स्त्रियां, छन्नरूपनलं प्रति दमयन्तीप्रेरिते ४ तद्दूतीभेदे “गच्छ केशिनि। जानीहि” “एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन!”। “ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्” इति च भा० व० ७४ अ०। कश्यपपत्नीप्रधायाः ५ कन्यारूपे अपसरोभेदे। “प्रधाऽसूत महाभागा देवी देवर्षितः पुरा” इत्युपक्रमे “केशिनी च सुबाहुश्च सुरता सुरजा तथा” भा० आ० ६५ अ०। ६ पार्व्वतीसहचरीभेदे “गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया। सावित्र्या सह सर्व्वास्ताः पार्व्वत्या यान्ति पृष्ठतः” भा० व० २३० अ० ७ अजमीढनृपपत्नीभेदे। “अजमीढोवरस्तेषां तस्मिन् वंशः प्रतिष्ठितः। षट् पुत्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु। भारत!। ऋक्षं धूमिन्यथो नीली दुष्मन्तपरमेष्ठिनौ। केशिन्यजनयज्जह्नुं सुतौ व्रजनरूपिणौ” भा० आ० ९४ अ०। “अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्” हरिवं ३२ अ०। ८ सुहोत्रनृपभार्य्यायाम् “मौहोत्रिरभवज्जह्नुः केशन्या गर्भसम्भवः” हरिवं० २७ अ०। ९ सगरभार्य्याभेदे “द्वे भार्य्ये सगरस्यास्तां तपसा दग्धकिल्विषे। ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता। केशिन्यसूत सगरादसमञ्जसमात्मजम्” हरिवं० १६०। १० रावणमातरि कैकस्याम् “ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ। रावणः कुम्भकर्ण्णश्च सर्व्वलोकोपतापनौ” भाग० ७। १। ४। २। कैकस्या नामान्तरमिदम्

केशी = स्त्री केश–गौरा० ङीष्। १ नीलीवृक्षे राजनि० २ भूतकेशीवृक्षे ३ अजलोमावृक्षे रत्नमा०

केशोच्चय = पु० ६ त०। केशसमूहे हेमच०

केश्य = त्रि० केशाय हितः यत्। १ केशहितकारकेतत्कार्ष्ण्यापादके २ पदार्थे। “तिलोहि पाके मधुरोबलिष्ठः” इत्युपक्रमे “स्तन्योऽथ केश्योऽनिलहा गुरुश्च” “केश्यंरसायनं मेध्यं काश्मर्य्यं फलमुच्यते” “केशप्रसादनी (का~कि) केश्या रजोजन्तुमलापहा” सुश्रु०। मधुररससेवनस्य केश्यत्वं तत्रोक्तं तदुपक्रमे “चक्षुष्यः केश्योवर्ण्ण्य” इति सुश्रु० २ कृष्णागुरुणि न० ३ भृङ्गराजे पु० राजनि० तयोः केशहितत्वात् तथात्वम्।

केसर = न० के जले सरति सृ–अच्। केशरशब्दार्थे तत्र विवृतिः

केसरवर = न० केसरेण किञ्जकेन वृणाति वृ–अच्। कुङ्कुमे। राजनि०।

के(श)सराचल = पु० भूपद्मस्य केसरे स्थितः केशराकरतया वा स्थितः। सुमेरुपर्वते। तस्य च भूरूपपद्मस्य कर्ण्णिकारूपेण मध्यस्थितत्वात् तथात्वं यथोक्तं विष्णु पु० “जम्बुद्वीपः समस्तानां द्वीपानां मध्यतः स्थितः। तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः” इत्युप क्रमे “भूपद्मस्यास्यशैलोऽसौ कर्ण्णिकासंमितः स्थितः। तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः। भारताः केतुमालाश्चः भद्राश्वाः कुरवस्तथा। पद्मानि लोकपद्मस्य मर्व्यादाश्चैव वाह्यतः” इति च विष्णुपु०। “सीता (नदी) तु ब्रह्मसदनात् केसराचलाद्रिशिखरेभ्योऽधोऽधः स्ववन्ती” भाग० ५। ७। ८।

केसराम्ल = पु० के जलनिमित्तं सरति अम्लो रमोऽस्य। वीजपूरकेजम्बीरभेदे जटा०। दर्शनेनापि जिह्वाया रसनिःस्रावकत्वात्तस्य तथात्वम्।

केसरिका = स्त्री के जले सरति साधुकारितया सृ–वुन् अलुक्स० टाप् अतैत्त्वम्। सहदेवीलतायां राजनि०।

केसरिन् = पुंस्त्री केसरोऽस्त्यस्य इनि। १ सिंहे २ घीटके च अमरः “धनुर्द्धरं केसरिणं ददर्श” रघुः। स्त्रियां ङीप्। ३ पुन्नागे ४ नागकेसरे पु० मेदि०। ५ रक्तशोभाञ्जने राजनि०। ६ हनूमत्पितरि पु० (केशरिन्)शब्दे दृश्यम्

केसरिसुत = पु० ६ त०। हनूमति तत्कथा केशरिसुतशब्दे उक्ता केसरितनयादयोऽपि तत्रार्थे पु०।

कै = शब्दे भ्वा० पर० अक० अनिट्। कायति अकासीत्। चकौ।

कैंशुक = न० किंशुकस्येदम् “पुष्पफले बहुलम्” पा० बहुल ग्रहणात् तस्य नलुक्। किंशुकपुष्पे “योषित् स्तन्यं शात कुम्मं विघृष्टं क्षौद्रोपेतं कैंशुकञ्चापि पुष्पम्” सुश्रु० लुपि तु किंशुकमित्येव तत्रार्थे न०

कैकय = पु० त० स्वार्थेऽण् बा० न यादेरियादेशः। केकयशब्दार्थे तच्छब्दे उदा० दृश्यम्

कैकस = पु० कीकसमस्थि सारतयाऽस्त्यस्य प्रज्ञा० अण्। १ राक्षसे स्त्रियां शार्ङ्गरवा० ङीन् कैकसी। सा च २ सुमालिकन्याभेदे “राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता कुम्भीनसी च इत्येताः सुमालेः प्रसवाः सुताः” रामा० उ० ६ स०। सा च रावणादिमाता तत्कथा रामा० उ० ९ स० “किं तु मां विद्धि ब्रह्मर्षे! शासनात् पितुरागताम्। कैकसी नाम नाम्राहं शेषं त्वं ज्ञातुमर्हसि। स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह। विज्ञातं ते मया भद्रे! कारणं यन्मनोगतम्। सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि!। दारुणायां तु वेलायां यस्मात् त्वं मासु पस्थिता। शृणु तस्मात् सुतान् भद्रे! यादृशान् जनयिष्यसि। दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्। प्रसविष्यसि सुश्रोणि! राक्षसान् क्रूरकर्मणः। सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः। भगवन् नेदृशान् पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः। नेच्छामि सुदुराचारान् पसादं कर्तुमर्हसि। कन्यया त्वेवमुक्तस्तु विश्रवा मुनि पुङ्गवः। उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम्। पश्चिमो यस्तव सुतो भविष्यति शुभानने!। मम वंशानु रूपः स घर्मात्मा च न संशयः। एवमुक्ता तु साकन्या राम। कालेन केनचित्। जनयामास वीभत्सं रक्षोरूपं सुदारुणम्। दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपगम्। ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्। तस्मिन् जाते ततस्तस्मिन् सज्वालाकवलाः शिवाः। क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः। ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः। प्रबभौ न च सूर्योवै महोल्काश्चापतन् भुवि। चकम्पे जगती चैव ववुर्वाताः सुदारुणाः। अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः। अथ नामाकरोत् तस्य पितामहसमः पिता। दशग्रीवः प्रसूतोऽयं दशग्रीपो भविष्यति। तस्य त्वनन्तरं जातः कुम्भकर्णोमहाबलः। प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते। ततः शूर्पणखा नाम संजज्ञे विकृताननना। विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः”।

कैकेय = पु० केकयानां राजा अण् यादेरियादेशः। १ केकयदेशनृपे केकयशब्दे उदाहरणादि। तस्यापत्यम् अण् ङीप्। २ भरतमातरि स्त्री “कैकेयीशङ्कयेवाह पलितच्छद्मना जरा” “दूषयामास कैकोयी शोकेष्णैः पार्थिवाश्रुंभिः “श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः” रघुः

कैटज = पु० कुटज + पृषो०। कुठजवृक्षे भावप्रकाश इति शब्दकल्पद्रुमः भावप्रकाशे तु कुटजः कुटज इत्येव पाठः कूटजशब्दे दृश्यः

कैटभ = पु० असुरभेदे तत्कथा हरिवं० ५३ अ० “अहमादौ पुराणेन संक्षिप्ता पद्मयोनिना। माञ्च कृत्वा कृतौ पूर्बं मृण्मयौ द्वौ महासुरौ। कर्णस्रोतोभवौ द्वौ हि विष्णोरस्य महाबलौः। महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ। तौ विवेश स्वयं वायुर्ब्रह्मणासाधुचोदितः। तौ दिवं छादयन्तौ तु ववृधाते महासुरौ। वायुप्राणौ तु तौ गृह्य ब्रह्मा परिमृशच्छनैः। एकं मृदुतरं मेने कठिनं वेद चापरम्। नामनी तु तयोश्चक्रे सवितुः कमलोद्भवः। मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत्। तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ। सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ। तावागतौ समालोक्य ब्रह्मा लोकप्रितामहः। एकार्णवाम्बुनिचये तत्रैवान्तरधीयत। स पद्मे पद्मनाभस्य नाभिमध्यात् समुत्थिते। रोचयामास वसतिं गुह्यं ब्रह्मा चतुर्म्मुखः। तातुभौ जलगर्भस्थौ नारायणपितामहौ। बहून् वर्षागणानप्सु शयानौ न चकम्पतुः। अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ। आजज्ञतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः। दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ। ब्रह्मणा ताडितो विष्णुः पद्मनालेन बै पुरा। उत्पपाताशु शयनात् पद्मनाभो महादुतिः। तद्युद्धमभवद्घोरं तयोस्तस्य च वै तदा। एकार्णवे तदा लोके त्रैलोक्ये जलतां गते। तदाभूत्तुमुलं युद्धं वर्षसङ्घ्यासहस्रशः। न च तावसुरौ युद्धे तदा श्रमतवापतुः। अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्म्मदौ। ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम्। प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः। आवां जहि न यत्रोर्वी सलिलेन परिप्लुता। हतौ च तव पुत्त्रत्वं प्राप्नुयाव सुरोत्तम!। यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ! स तु गृह्य मृधे दोर्भ्यां दैत्यौ समपीडयत्। जग्मतुर्निधनञ्चापि तावुभौ मधुकैटाभौ। तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकताङ्गतौ। मेदो सुमुचतुर्द्दैत्यौ मथ्यमानौ जलोर्मिभिः। मेदसा तज्जलं व्याप्तं ताभ्यामर्न्तर्दधे ततः। नारायणस्य भभवानसृजत् स पुनः प्रजाः। दैत्ययोर्म्भेदसा दृन्ना मेदिनीति ततः स्मृता। प्रभावात् पद्मनाभस्य शाश्वती जगतो कृता”।

कैटभजित् = पु० कैटभं जितवान् जि–भूते क्विप्। विष्णौ अमरः तद्वधकथा च कैटभशब्दे उक्ता “उदमज्जि कैटभजितः शयनात्” कैटभद्विष् इत्यादयोऽप्यत्र “तनौ मसुस्तत्र न कैटभद्विषः” मावः ६ त०। कैटभारि तत्रार्थे अमरः। कैटभशत्रु प्रभृतयोऽप्यत्र पु०

कैटभी = स्त्री कैटभे कैटभनाशकाले स्तुत्या अण् ङीप्। महाकाल्याम् योगनिद्रायाम्। “यामस्तौच्छयिते हरौ कमलजोहन्तुं मधुकैटभौ” महाकालीध्याने तदर्थं तस्याः स्तुतिरुक्ता। तत्स्तुतिश्च “योगनिद्रां यदा विष्णु र्जगत्येकार्ण्णवीकृते आस्तीर्य्य शेषशयनं कल्पान्ते भगवान्प्रभुरितित्युपक्रम्य देवीमाहात्म्ये दर्शिता।

कैटभेश्वरी = स्त्री “कैटभं निहत कृत्वा गृहीता तत्पुरी यतः। तेन सा गीयते देवी पुराणे कैटभेश्वरीतिदेवीपु० ४५ अ० उक्तनिरुक्तियुक्तायां दुर्गायाम्

कैटर्य्य = पु० किट–त्रासे घञ्केटं राति अतितिक्तत्वात् रा + क स्वार्थे ष्यञ्। १ भूनिम्वे, अमरः २ कट्फले, रत्नमा० ३ पूतिकरञ्जे ४ मटनवृक्षे च राजनि०

कैडर्य्य = पु० कैटर्य्य + पृषो०। कैटर्य्यशब्दार्थे राजनि०

कैतव = न० कितवस्य भावः कर्म्म वा युवा० अण्। १ शाठ्ये २ द्यूते ३ वैदूर्य्यमणौ राजनि०। स्वार्थे अण्। ४ कितवे ५ शठे ६ द्यूतकारके ७ धचूरे च पु० “कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः” भा० व० ७८ अ०। “दीव्य यत् कैतवं पाण्डव! तेऽवशिष्टम्” भा० स० ६३ अ०। “यदवोचस्तदवैमि कैतवम्” कुमा०

कैतवेय = पु० कितवायाः अपत्यं ढक्। अंशुमन्नृपसुते उलूके क्षत्रियभेदे “उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः” हरिवं० ९९ अ०। बा० ञ्य। कैतयोऽप्यत्र “उलूकः गच्छ क्वैतव्य! पाण्डवान् सहसोमकान्” भा० उ०५ ९ अ०।

कैन्दासायन = पुंस्त्री० किन्दासस्य युवापत्यम् हरिता० फक्। निन्दितदासस्य यून्यपत्ये

कैन्नर = त्रि० किन्नरः तन्नामवर्षमभिजनोऽस्य तक्षशिला० अञ्। पित्रादिक्रमेण १ किन्नरवर्षवासिनि। किन्नरस्येदम् अण्। २ किंपुरुषसम्बन्धिनि त्रि० उभयत्र स्त्रियां ङीप्।

कैमुतिक = पु० किमुत इत्यर्थात् आगतः ठक्। किमुतेत्यर्थतः प्राप्ते न्यायभेदे। यथा वह्वायाससाध्यकर्मसमर्थस्य अल्पायाससाध्यकर्म्मसामर्थ्यं तन्न्यायसिद्धमेवन्यदप्यूह्यम्।

कैरलेय = त्रि० केरलानां राजा बा० ढक्। केरलदेशनृपे “उत्तमोजास्तथा शाल्वः कैरलेयश्च कौशिकः” हरिव० ९९ अ०

कैरव = न० के जले रौति रु–अच् अलुक् स० केरवो हंसस्तस्य प्रियम् अण्। १ कुमुदे, शुक्लोत्पले, अमरः २ शत्रौ पु० कैतवे न० मेदि०। “जाग्रत्कलं कैरवध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे” चन्द्रालो०। “कस्मै नाथ! समर्प्य कैरवकुलं व्योमान्तमालम्बसे” उद्भटः। ततः पुष्करा० इनि ङीप्। कैरविणी कुमुदयुक्तलतायां तत्समूहे च स्त्री।

कैरविणीखण्ड = पु० समूहे कमला० खण्ड। कुमुदलतासमूहे

कैरविणीफल = न० ६ त०। (वेरा) इति ख्याते कुमुदिनीवीजे

कैरविन् = पु० कैरवं प्रकाश्यतऽल्यस्य इति चन्द्रे शब्दमा०

कैरवी = स्त्री कैरवस्य प्रिया अण् ङीप्। १ चन्द्रिकायां मेदि०। २ मेथिकायां राजनि०

कैराटक = पु० किरं पर्य्यन्तभूमिमटति अट–ण्वुल् ६ त० ततः स्वार्थे अण्। स्थावरविषभेदे हेम०।

कैरात = पु० किरात इव शूरः इवार्थे अण्। १ बलवत्पुरुषे, किरातदेशे (पर्य्यन्तदेशे) मवः अण्। २ भूनिम्बे शब्दच० ३ शम्बरचन्दने न० राजनि० ४ भूनिम्बे पु० राजनि०। किरातस्येदम् अण्। ५ किरातसम्बन्धिनि त्रि० “कैरातं वेशमास्थाय” भा० व० ३९२ अ०।

कैराल = न० किरं पर्य्यन्तभूमिमलति अल–अण् उप० स० ततः स्वार्थे अण्। १ विडङ्गे वैद्यकम्। गौरा० ङीष्। २ कैराली तत्रार्थे स्त्री राजनि०।

कैलास = पु० के जले लासो लसनं दीप्तिरस्य अलुक्स० केलस स्फटिकस्तस्येव शुभ्रः अण्, केलीनां समूहः अण्– कैलं तेनास्यतेऽत्र आस–आधारे घञ् वा। शिवकवेरयोः स्थाने पर्व्वतभेदे। स च वृह० सं० कूर्म्मविभागे उत्तरस्यामुक्तः “उत्तरतः कैलासोहिमवान् गिरिर्धनुष्मांश्च”। स च अलकासमीपस्थितः “अलकां समया चैष कैलासः शङ्करालयः” काशी० १३ अ०। तत्स्वरूपञ्च हरिव० २१७ अ० वर्ण्णितं यथा “मन्दरश्चोग्रशिखरः, स्फाटिकैर्म्मणिभिश्चितः। वज्रगर्मैर्निरालम्बै स्वर्गोपम इवाबभौ। सह शृङ्गैश्च कैलासः शिलाधातुविभूषितः। तोरणैश्चैव निविडैः प्राशुभिश्चैव पादपैः। प्रवादयद्भिर्गन्धर्ब्बैः किन्नरैश्च प्रगायिभिः। देवकन्याङ्गहावैश्च प्रकीडित इवाबभौ। मधुरैर्व्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः। शृङ्गारैः सुप्रहावैश्च कैलासो मदनायत”। तस्य विष्णुनाभिपद्मस्य गर्भाङ्वुररूपत्वं हरिवं० २०२ अ० वर्ण्णित यथा “तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते। सर्व्वतेजोगुणमये पार्थिवैर्लक्षणैर्युते। तच्च पद्मं पुराणज्ञाः पृथिवीरुहमुत्तमम्। नारायणात् समुत्पन्नं प्रवदन्ति महर्षयः। या तु पद्मासना देवी तां पृथ्वीं परिचक्षते। ये तु गर्भाङ्कुराः सारास्तान् दिव्यान् पर्व्वतान् विदुः। हिमवन्तञ्च मेरुञ्च नीलं निषधमेव च। कैलासं क्रौञ्चवन्तञ्च तथाऽद्रिं गन्धमादनम्। पुण्यं त्रिशिखरं चैव कान्त मन्दरमेव च। उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्व्वतम्। एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम्। आश्रयाः सर्वभूतानां पुण्याः कामयुजोऽद्रयः। एतेषामन्तरो देशो जम्बुद्वीप इति स्मृतः”। कैलासप्रमाणञ्च भाग० ५, १६, २३, उक्तं यथा “जठरदेयकूटौ मेरुं पूर्व्वेण द्वादशयोजनसहस्रमुदगायतौ द्विसहस्रपृथुतुङ्गौ मवतः एवमपरेण पवनपारिपात्रौ” दक्षिणेन कैलासकरवीरौ प्रागायतौ”। “शुभ्रं पाण्डरमेघाभं कैलासञ्च नगोत्तमम्” हरि० २२६ अ०। “कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः” मेध०

कैलासनाथ = पु० ६ त०। १ शिवे २ कुवेरे च “कैलासनाथं तरसा जिगीषुः” रघुः। कैलासपत्यादयोऽप्यत्र।

कैलासयात्रा = स्त्री कैलासयात्रामधिकृत्य कृतोग्रन्थो अण् आख्यायिकायां तस्य लुक्। हरिवंशानर्गते “किमर्थं मगवान् विष्णुर्देवदेवो जनार्द्दनः। गतः कैलासशिखरमालयं शङ्करस्य च” २६४ स० अध्यायावधिके २८१ अध्यायपर्य्यन्ते ग्रन्थे। उपसंहारे अनुक्रमणिकाध्याये “कैलासयात्रा कृष्णस्य पौण्ड्रकस्य बधस्तथा” इत्युक्तं तेन गौडपुस्तके कैलासयात्राग्रन्थाभावः प्रामादिक एव

कैलासाकस् = पु० कैलासओकोयस्य। १ शिवे २ कुवेरे च हेमच०

***