कृष्ण = पु० कृष–नक्। भगवतोऽवतारभेदे वासुदेवे १ देवकीनन्दने। “कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकः। तयोरैक्यं परं ब्रह्म कृष्णैत्यभिधीयते” इत्युक्ते २ परब्रह्मणि, ३ वेदव्यासे, ४ अर्ज्जुने मध्यमपाण्डवे च। कृष्णवर्णत्वात् ५ कोकिले, विश्वः ६ काके, मेदि० करमर्द्दके (करमचा) ७ वृक्षे, शब्दर० ८ नीले, वर्णे ९ तद्वति त्रि० अमरः १० कालागुरुणि राजनि०। ११ अशुभकर्म्मणि च न०। कृष्णकर्म्मा अमरः १२ द्रौपद्यां, १३ नीलीवृक्षे, १४ पिप्पल्यां, १५ द्राक्षायां, स्त्री मेदि० १६ नीलपुनर्नवायाम्, १७ कृष्णजीरके, १८ गाम्मार्य्या १९ कटुकायाम्, २० साविराभेदे २१ राजसर्षपे, राजनि० २२ पर्पट्यां, भावप्र०। २३ काकोल्यां, २४ सोमराज्याञ्च स्त्री टाप् जटा० कृष्णवर्णत्वाच्च तासां तथात्वम् २५ धनमेदे न० कृष्णधनशब्दी विवृतिः। २६ नीलाञ्जने, २७ लौहे, २८ मरिचे च पु० जटाधरः। तत्र भगवदवतारविशेषः “अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे। अष्टाविंशतिमे जातः कृष्णोऽसौ देव- कीसुतः” ब्रह्मपु०। वसुदेवदेवक्यौ च कश्यपादिती। तौ च वरुणस्य गोहरणात् ब्रह्मणः शापेन गोपालत्वमापतुः। यथाह हरिवं० ५६ अ० “इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत!। गवां कारणतत्त्वज्ञः कश्यपे शापमुत्सृजम्। येनांशेन हृता गावः कश्यपेन महात्मना। स तेनांशेन जगतीं गत्वा गोपत्वमेष्यति। या च सा सुरभिर्नाम अदितिश्च सुरारणी। उभे ते तस्य वै भार्य्ये सह तेनैव यास्यतः। ताभ्यां सह स गोपत्वे कश्यपो भुवि रंस्यते। तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः वसुदेव इति ख्यातो गोषु तिष्ठति भूतले। गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः। तत्रासौ गोष्वभिरतः कंसस्य करदायकः। तस्यभार्य्याद्वयञ्चैव अदितिः सुरभिस्तथा। देवकी रोहिणी चैव वसुदेवस्य धीमतः। तत्रावतर लोकानां भवाय मधुसूदन!। जयाशीर्वचनैस्त्वेते वर्द्धयन्ति दिवौकसः। आत्मानमात्मना हि त्वमवतार्य्य महीतले। देवकीं रोहिणीञ्चैव गर्भाभ्यां परितोषय। तत्रत्वं शिशुरेवादौ गोपालकृतलक्षणः। वर्द्धयस्व महाबाहो! पुरा त्रैविक्रमे यथा।। छादयित्वात्मनात्मानं मायया गोपरूपया। गोपकन्यासहस्राणि रमयंश्चर मेदिनीम्। गाश्च ते रक्षिता विष्णो! वनानि परिधावतः। वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः। विष्णो! पद्मपलाशाक्ष! गोपालवसतिङ्गते। बाले त्वयि महाबाहो। लोको बालत्वमेष्यति। त्वद्भक्ताः पुण्डरीकाक्ष! तव चित्तवशानुगाः। गोषु गोपा भविष्यन्ति सहायाः सततन्तव। वने चारयतो गास्तु गोष्ठेषु परिधावतः। मज्जतो यमुनायान्तु रतिमाप्स्यन्ति ते भृशम्। जीवितं वसुदेवस्य भविष्यति सुजीवितम्। यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्यति। अथ वा कस्यं पुत्रत्वं गच्छेथाः कश्यपादृते। का वा धारयितुं शक्ता विष्णो! त्वामदितिं विना। योगेनात्मसमुत्थेन गच्छत्व विजयाय वै” इति विष्णुं प्रति ब्रह्मोक्तिः। ताभ्यां तस्योत्पत्तिकथा च तत्र ६० अ० यथा “यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः। तन्तु गर्भं प्रयत्नेन ररक्षुस्तस्य रक्षिणः। स तत्र गर्भवसतौ वसत्यात्मेच्छया हरिः। समधत्त यशोदाऽपि गर्भं तदहरेव तु। विष्णोः शरीरजां निद्रां विष्णोर्निर्द्देशकारिणीम् गर्भकाले त्वसंपूर्ण्णे अष्टमे मासि ते स्त्रियौ। देवकी च यशोदा च सुषुवाते समं तदा। यामेव र- जनीं विष्णुर्ज्जज्ञे वृष्णिकुलं प्रभुः। तामेव रजनीं कन्या यशोदातो व्यजायत। नन्दगोपस्य भार्य्यैका वसुदेवस्य चापरा। तुल्यकालं हि गर्भिण्यौ यशोदा देवकी तथा। देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम्। मुहूर्त्तेऽभिजिते प्राप्ते सार्द्धरात्रे विभूषिते। सागराः समकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्नयः शान्ता जायमाने जनार्द्दने। शिवाः संप्रववुर्व्वाताः प्रशान्तमभवद्रजः। ज्योतींषि व्यत्यकाशन्त जायमाने जनार्द्दने। अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्व्वरी। मुहूर्त्तो विजयो नाम यत्र जातो जनार्द्दनः। अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः। जायते भगवांस्तत्र नयनैर्मोहयन् जगत्”। ततोऽनतिदूरे “वसुदेवस्तु तं रात्रौ जातं पुत्त्रमधोक्षजम्। श्रीवत्सलक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः। उवाच वसुदेवस्तं रूपं संहर वै प्रभो!। भीतोऽहं देव! कंसस्य तस्मादेवं वदाम्यहम्। मम पुत्त्रा हतास्तेन तव ज्येष्ठाऽम्बुजेक्षण!। वैशम्पायन उपाच। वसुदेववचः श्रुत्वा रूपं संहरदच्युतः। अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय। वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव च। यशोदाया गृहं रात्रौ विवेश सुतवत्सलः। यशोदायास्त्वविज्ञातस्तत्र निक्षिप्य दारकम्। गृहीत्वा दारिकां ताञ्च देवकीशयने न्यसत्। परिवर्त्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः। वसुदेवः कृतार्थो वै निर्जगाम निवेशनात्”। यथा रूपेण तस्याविर्भावस्तथा रूपं भाग० १०३ अ० वण्णितम्
“देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः। तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्। श्रीवत्सलक्ष्मंगलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम्। महार्घवैदूर्य्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम्। उहृआमकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत। सविस्मयीत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा। कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा द्विजेभ्योऽयुतमाप्लुतोगवाम्”। इत्याविर्भार्व वर्ण्णयित्वा
“जन्म ते मय्यसौ पापोमा विद्यान्मधुसूदन!। समुद्विजे भवद्धेतोः कंसादहमधीरधीः। उपसंहर विश्वात्म न्नदोरूपमलौकिकम्। शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम्। विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान्। विभर्त्ति, सोऽयं मम गर्भजोऽभू दहो नृलोकस्य विडम्बनं तत्”। इत्थं देवक्याः प्रार्थने तां सान्त्वयित्वा तस्य प्राकृतरूपधारणं तत्रैवोक्तं यथा “इत्युक्त्वा तां हरिस्तूष्ण्णीं भगवानात्ममायया। पित्रोः संपश्यतोरेव बभूव प्राकृतः शिशुः। “एवञ्च चतुर्भुजरूपेणोत्पत्तावपि प्राकृतरूपत्वोक्त्या तस्मादनन्तरं द्विभुजत्वमिति वैष्णवा मन्यन्ते। गीतायान्तु “तेनैव रूपेण चतुर्भुजेन सहस्रबाहो! भव विश्वमूर्त्ते!” इति भारतयुद्धकाले तस्य चतुर्भुजत्वकीर्त्तनात् चतुर्भुजत्व मेवासीत् शङ्खचक्राद्यायुधशून्यत्वेन प्राकृतत्वमिति तु युक्तमुत्पश्यामः। तस्येदानीं जन्मसमयोनिरूप्यते प्रागुक्तब्रह्मपु० कलौ जातत्वाभिधानात् कलियुगएवास्य प्रादुर्भावः। यदि च एकैकमन्वन्तरे बहवः कलयः सम्भवन्ति तथापि वर्त्तमानवैवस्वतमन्वन्तरे अष्टाविंशतिमे महायुगे यः कलिस्तत्रैवाभिर्मूतः। तत्रापि ज्योतिर्निबन्धे “उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषोलाभगो जीवः सिंहतुलालिषु क्रमवशात् पूषोशनोराहवः। नैशीथः समयाऽष्टमी बुधदिनं बाह्मर्क्षमत्र क्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभूदाविः परं ब्रह्म तत्” ग्रहाणां विशेषराश्यवस्थानकाले तस्याविर्भावोक्तेः तादृशसमयस्य च कलेः ६४७ वर्षेषु गतषु सम्भवः कलौ ततः पूर्व्वं तादृशसमयासम्भवात्। राजतरंङ्गिण्यां च “शतेषु षट्सु सार्द्धेषु त्र्यधिकेषु च भूतले। कलेर्गतेषु वर्षाणाम भयन् कुरुपाण्डवाः” इत्यनेन कलेः ६५३ वर्षेषु गतेषु तत्समकालीनयोः कुरुपाण्डवयोरुत्पत्तिरुक्ता अतस्तस्यापि तत्कालोत्पत्तिकत्वम्। तदवतारचरितं च हरिवं० ४२ अ० वर्णितं यथा
“अपरः केशवस्यायं प्रादुर्भावो महात्मनः। विख्यातो माथुरे कल्पे सर्व्वलोकहिताय वै। यत्र शाल्वञ्च मैन्दञ्च कंसं द्विविदमेव च। अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्। नागं कुबलयापीडं चानूरं मुष्टिकं तथा। दैत्यान्मानुषदेहस्थान् सूदयामाम वीर्य्यवान्। छिन्नं बाहुसहस्रञ्च वाणस्याद्भुतकर्म्मणः। नरकश्च हतः सङ्ख्ये यवनश्च सहाबलः। हृतानि च महीपानां सर्वरत्नानि तेजसा। दुराच्चाराश्च निहताः पार्थिवा ये महीतले”। तस्य च कृष्णनामता गर्गेण तथा नामकरणात् यथाह भाग० १०। ८। ९ “आसन् वण्णास्त्रयोह्यस्य ग्रह्णतोऽनुयुगं तनूः। शुक्लोरक्तस्तथाऽपीत इदानीं कृष्णतां गतः” इति अपीतः श्याम इत्यर्थः भाग० ११ अ० युगावतारे द्वापरे श्याममूर्त्तित्वोक्तेः यथा “कृते शुक्लश्चतुर्बाहुर्जटिलो बल्कलाम्बरः। कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलू। त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः। हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्यु पलक्षणः। द्वापरे भगवान् श्यामः पीतवासा निजायुधः। श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः। नानातन्त्रविधानेन कलावपि यथा शृणु। कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गास्त्रपार्षदः। यज्ञै संकीर्त्तनप्रायैर्यजन्तीह सुमेधसः”। अस्य तन्नामनिर्बचनं च भा० उ० ६९ अ० “कृषिर्भूवाचकः शब्दोणश्च निर्वृतिवाचकः। विष्णुस्तद्भावयोगाच्च कृष्णोभवति सात्वतः” कल्पभेदेऽपि वैवस्वतमनोरष्टाविंशतिमे युगे युगे तस्याभि भांवः अतएव छा० उ० कल्पभेदादिप्रायेणैव “तद्धैतत् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच” इत्युक्तम्। वस्तुतस्तस्य भगवदवतारात् भिन्नत्वमेव तस्य घोराङ्गिरसशिष्यत्वोक्तेः। परमेश्वरस्य तथात्वासम्भवात्। अतस्तन्नाम्नि २९ अपरस्निन्नेव कृष्णशब्दस्य वृत्तिः। “कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते। मस्मीभवन्ति राजेन्द्र! महापातककोटयः” पुरा०। अर्ज्जुनस्य तन्नामनिर्वचनं भा० वि० ४४ अ०। “कृष्ण इत्येव दशमं नाम चक्रे पिता मम। कृष्णावदातस्य सतः प्रियत्वात् बालकस्य” च। व्यासस्य कार्ष्ण्यात्तथात्वम् “योव्यस्य वेदांश्चतुरस्तपसा भगवानृषिः। लोके व्यासत्वमापदे कार्ष्ण्यात् कृष्णत्वमेव च” भा० आ० १०५ अ०। कृष्णस्येदम् अण् कार्ष्ण तत्सम्बन्धिनि त्रि० “कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्नुते” भा० आ० १ अ० उक्ते। अपत्ये तु इञ्। कार्ष्णि तदपत्ये पुंस्त्री। चन्द्रह्रासकरप्रथमादिपञ्चदशकलाक्रियारूपे प्रतिपदादिदर्शान्तात्मकपञ्चदशतिथ्यात्मके ३० कालभेदे अर्द्धमासे “चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” ति० त० षट्त्रि०। इन्दुकलाक्षयप्रकारः इन्दुशब्दे ६११ पृ० उक्तः। तदुपलक्षिते ३१ पितृयाने “शुक्लकृष्णे गती ह्येते जगतां शाश्वते मते। एकया यात्यनावृत्तिमन्यया वर्त्तते पुनः” गीता। पितृयाने च यथा कृष्णपक्षसंबन्धस्तथा आतिवाहिकशब्दे ६५१ पृ० दर्शितम्। “धूमोरात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्” गीता। कृष्णपक्षाभिमानिनि पितृयानस्थे कर्म्मिणामतिवाहके ईश्वरनियोजिते ३२ देवभेदे आतिवाहिकशब्द विवृतिः। ३३ द्यूताद्युपार्जिते धने न० कृष्णधनशब्दे अर्थशब्दे च विवृतिः। कृष्णस्य भावः ष्यञ्। कार्ष्ण्य तद्भावे न० “कार्ष्ण्यात् कृष्णत्वमेव च” भा० आ० १०५ अ०। इमनिच्। कृष्णिमन् तद्भावे पु० “कृष्णिमानं दधानेन”। तल्, कृष्णता स्त्री, त्व कृष्णल, न०, कृष्णवर्ण्णे। “कृष्णाऽपि शुद्धेरधिकं विधातृभिः” मावः। “अभिवृष्य मरुच्छस्यान् कृष्णमेघस्तिरोदधे” रघुः। ३४ नेत्रगतेऽशभेदे अक्षिशब्दे विवृतिः। ३५ कृष्णसारमृगे पुंस्त्री० “एणः कृष्णः स कीर्त्तितः” छन्दो० प०। कृष्णाजिनम्
कृष्णक = पु० कृष्णप्रकारः स्थूला० कन्। १ कृष्णसर्षपे अनुकम्पितं कृष्णाजिनम् कन् अजिनान्तत्वादत्तरपदलोपः। अनुकम्पिते २ कृष्णाजिने न०
कृष्णकन्द = न० कृष्णः कन्दोऽस्य। रक्तोत्पले त्रिका०
कृष्णकर्कटक = पुंस्त्री नित्यकर्म्म०। कर्कटभेदे सुश्रुतः। “कूर्म्मकुम्भीरकर्कटकृष्णकर्कटशिशुमारप्रभृतयः पादिनः” सुश्रुते पादिजलचरोक्तौ
कृष्णकर्म्मन् = न० कर्म्म०। १ हिंसादिनिषिद्धकर्म्मणि। ब० व०। २ तद्युक्ते पापाचारिणि त्रि० अमरः ३ व्रणस्य कृष्णतासम्पादके क्रियाभेदे स च सुश्रुतेन दर्शितो यथा “अथ व्रणस्योपशप्रक्रमाभवन्तीत्युपक्रमे “दारुणकर्म्मक्षारकर्म्माग्निकर्म्मकृष्णकर्म्मपाण्डुकर्म्म” इत्याद्युक्त्वा। “दुरूढत्वात्तुशुक्लानां कृष्णकर्म्म हितं पुनः इति” तस्योपयोगोदर्शितः। कृष्णेऽर्पितं कृष्णार्पितं कर्म्म०। ३ परमेश्वरार्पिते कर्म्मणिन०। ब० व०। ४ तद्युक्ते त्रि० स्त्रियां वा ङीप्।
कृष्णकलि = पु० कृष्ण इव चूडाला कलिः कलिकाऽस्य। स्वनामख्याते पुष्पप्रधाने वृक्षे।
कृष्णकाक = पुंस्त्रो नित्यकर्म्म०। (दाडकाक) काकभेदे हारा० स्त्रियां जातित्वात् ङीष्।
कृष्णकापोती = स्त्री ओषधिभेदे सुश्रु०। “अथोषधीर्व्याख्यास्यामः” इत्युपक्रमे “श्वेतकापोती कृष्णकापोती” इत्यादिना विभज्य तदुपयोगप्रकारोदर्शितो यया। “गोनस्यजगरोकृष्णकापोतीनां सनखमुष्टि खण्डयित्वा क्षीरेण विपाच्याभिस्राव्य” इत्याद्युक्तं सुश्रु० तस्या लक्षणमोषधिशब्दे १५६३ पृ० उक्तम्।
कृष्णकाय = पुंस्त्री कृष्णःकायोऽस्य महिषे शब्दचि०। जातित्वेऽपि योपधत्वात् स्त्रियां न ङीष् किन्तु टाप्।
कृष्णकाष्ठ = न० कृष्णं काष्ठमस्य। कालागुरुणि राजनि०
कृष्णकोहल = पु० कृष्णकस्य कृष्णकर्म्मणः ऊहं वितर्कं लाति ला–क। द्यूतकारिणि त्रिका०।
कृष्णगङ्गा = स्त्री नित्य०। कृष्णवेणायां नदीभेदे राजनि०।
कृष्णगतरोग = पु० नेत्रावयवभेदकृष्णगतरोगभेदे। तद्विज्ञानादि सुश्रुते उक्तंयथा। “अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः। यत्सव्रणं शुक्रमथाव्रणं वा पाकात्ययश्चायजका तथैव। चत्वार एतेऽभिहिताः विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात्। निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै। स्रावं स्रवेदुष्णमतीव रुक् च तत्सव्रणं शुक्रमुदाहरन्ति। दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि। अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव। सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्। विहायसीवाभ्रदलानुकारि तदव्रणं साध्यतमं वदन्ति। गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम्। विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च। द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्ज्जनीयम्। उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभञ्च शुक्लम्। तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम्। संछाद्यते श्वेतनिभेन सर्वदोषेण यस्यासितमण्डलन्तु। अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः। विदार्य्य कृष्णं प्रचयोऽभ्युपैति तञ्चाजकाजातमिति व्यवस्येत्”।
कृष्णगति = पु० कृष्णा गतिर्गतिस्थानमस्य। कृष्णवर्त्मनि वह्नौ तस्य गमनस्थानस्य तद्गत्या कृष्णताप्राप्तेस्तस्य तथात्वम्। “ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा” भा० आनु० ८५ अ०।
कृष्णगन्ध = पु० कृष्ण उग्रो गन्धोऽस्य। शोभाञ्चनवृक्षे राजनि०
कृष्णगर्भ = पु० कृष्णवर्णोगर्भोऽस्य। कट्फले राजनि०।
कृष्णगिरि = पु० नित्यकर्म्म०। नीलगिरौ
कृष्णगोधा = कृष्णः गोधेव। कीटभेदे। “सूचोमुखः कृष्णगोधा यश्च काषायवासिकः” सुश्रु० कीटशब्दे विवृतिः।
कृष्णग्रीव = त्रि० कृष्णा ग्रीवा यस्य। कृष्णवर्ण्णगलेऽजादौ “कृष्णग्रीव आग्नेयः” यजु० २४, २, “कृष्णग्रीवः सितिकक्षोऽञ्जिसक्थस्ते ऐन्द्राग्नाः” इत्यादि अश्वमेधीयपशुविशेषोक्तौ। “श्वेतलोहितपर्य्यन्तः कृष्णग्रीवस्तडिद्द्युतः। त्रिवर्ण्णपरिघोभानुः सन्ध्यारागमथावृणोत्” हरि० १७५ अ०। २ नीलकण्ठे भहादेवे पु०।
कृष्णचञ्चुक = पु० कृष्णा चञ्चूरस्य कप्। चणके राजनि०।
कृष्णचन्दन = न० कृष्णप्रियं चन्दनम् शा० त०। हरिचन्दन श्वेतचन्दने शब्दचि०
कृष्णचन्द्र = पु० कृष्णश्चन्द्र इव। वासुदेवे तस्य चन्द्रवत् भक्ताना माह्णादकत्वात्तथात्वम्।
कृष्णचर = पु० कृष्णस्य भूतपूर्व्वः चरट्। भूतपूर्ब्बकृष्णसम्बन्धिनि गवादौ
कृष्णचूडा = स्त्री कृष्णस्य चूडा इव चूडाऽस्य। स्वनामख्याते पुष्पवृक्षे। स्वार्थे क अत इत्त्वम्। तत्रार्थे राजनि०।
कृष्णचूडिका = स्त्री कृष्णाचूडाऽग्रं यस्याः कप् अत इत्त्वम्। गुञ्जायां राजमि०।
कृष्णचूर्ण्ण = न० कृष्णं तद्वर्ण्णं चूर्णम्। लौहमले (लोहार गु) राजनि०।
कृष्णजटा = स्त्री कृष्णा जटा यस्याः। जटामांस्याम् रत्नमा०
कृष्णजीरक = पु० नित्यकर्म्म०। कालपर्ण्णजीरके (कालजीरे) अमरः “कटूष्णः कफशोथघ्नो जीर्ण्णज्वरविनाशनः। चक्षुष्यो रुचिकृद्ग्राही कृष्णजीरक ईरितः” राजनि०
कृष्णतण्डुला = स्त्री कृष्णस्तण्डुलोयस्याः। कर्ण्णस्फोटलतायां राजनि०।
कृष्णताम्र = न० “वर्ण्णोवर्णेन” पा० कर्म्म०। गोशीर्षचन्दने शब्दमा०।
कृष्णतार = पुंस्त्री कृष्णतामृच्छति ऋ–अण् उप० स०। १ कृष्णसारमृगे २ हरिणमात्रेचराजनि०। स्त्रियां जातित्वात् ङीष्।
कृष्णत्रिवृता = स्त्री नित्य कर्म्म०। (कालतेओडी) त्रिवृताभेदे जटा०।
कृष्णदन्त = त्रि० कृष्णा दन्तायस्य। १ कालवर्ण्णदन्तयुक्ते २ काश्मरीवृक्षे स्त्री राजनि० टाप्।
कृष्णदेह = पुंस्त्री कृष्णोदेहोऽस्य। १ भ्रमरे सारस्वतः स्त्रियां ङीष् २ कालवर्णदेहान्विते त्रि०। कर्म्म०। कालवर्ण्णे ३ देहे पु०
कृष्णद्वैपायन = पु० द्वीपे यमुनाद्वीपे भषः फक् द्वीपोऽयनं जन्मभूमिर्वास्य प्रज्ञाद्यण् कर्म्म०। वेदव्यासे तस्य यमुनाद्वीपोत्पत्तिकथा भा० आ० १०५ अ०। “धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम। सा कदाचिदहं तत्र गता प्रथमयौवना। अथ धर्मविदा श्रेष्ठः परमर्षिः पराशरः। आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्। स तार्य्यमाणो यमुनां मामुपेत्याब्रवीत्तदा। सान्त्वपूर्वं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः। तमहं शापभीता च पितुर्भीता च भारत!। वरैरसुलभैरुक्ता न प्रत्याख्यातुसुत्सहे। अभिभूय स मां बालां तेजसा वशमानयत्। तमसा (कुज्झटिकया) लोकमावृत्य नौगतामेब भारत!। मत्स्वगन्धो महानासीत्पुरा मम जुगुप्सितः। तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः। ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्। द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि। पाराशर्य्यो महा योगी स बभूव महानृषिः। कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः। योव्यस्य वेदांश्चतुरस्तपसा भगवानृषिः। लोके व्यासत्वमापेदे कार्ष्ण्यात् कृष्णत्वमेव च। सत्यवादी शमपरस्तपस्वी दग्धकिल्विषः। सद्योत्पन्नः स तु महान् सह पित्रा ततो गतः”। “श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यगच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा। जनयामास यं काली शक्त्रेः पुत्रात्पराशरात्। कन्यैय यमुनाद्वीपे पाण्डवानां पितामहम्। जातमात्रश्च यः सद्य इष्टं देहमवीवृधत्। वेदांश्चाधिजगे साङ्गान् सेतिहासान्महायशाः। यन्नैति तपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना। विव्यासैकं चतुर्द्धा यो वेदं वेदविदांवरः। परावरज्ञो ब्रह्मषिः कविः सत्यव्रतः शुचिः। यः पाण्डुं धृतराष्ट्रञ्च विदुरं चाप्यजीजनत्। शान्तनोः सन्ततिं तन्वन् पुण्यकीर्त्तिर्महायशाः”। “मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः। क्षेत्रे विचि त्रवीर्य्यस्य कृष्णद्वैपायनः पुरा। त्रीनग्नीनिव कौरव्यान् जनयामास वीर्य्यवान्। उत्पाद्य धृतराष्ट्रञ्च पाण्डुं विदुरमेव च। जगाम तपसे धीमान् पुनरेवाश्रमं प्रति”। “कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः। विचित्रवीर्य्य क्षेत्रे च पाण्डुश्चैव महाबलः। धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः। विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि”। भारते नानास्थान “कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम्। कोह्यन्यः पुण्डरीक्षात् महाभारतकृत् भवेत्” बिष्णुपु०। तस्य विष्णो रबरतारत्वकथा भाग० “ततः सप्तदशे जातः सत्यबत्यां पराशरात्। चक्रे वेदतरोः शाखा द्वापरे सोऽल्पमेधसः”। अवतारशब्दे ४२२ पृ० विवृतिः। कृष्णेति द्वैपायनोति च तस्य नामद्वयम् कर्म्म० क्वचिदेकनामताऽपि। “द्वैपायनेन कृष्णेन नगरे वारणावते” भा० स० ७६ अ०। “कार्ष्ण्यात् कृष्णत्वमेव च” “कार्ष्णं वेदमिमं शृणु” इति च ब्यस्तप्रयोगः। “तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दै” वेणीस०। प्रागुक्तभारते च समस्तप्रयोगः
कृष्णधत्तू(धूस्तू)र = पु० कर्म्म० (कनकधुतरा) वृक्षभेदे। “सितनीलकृष्णलोहितपीतधूसराश्च सन्ति धत्तूराः। सामान्यगुणोपेतास्तेषु गुणाढ्यस्तु कृष्णकुसुमः स्यात्” राजनि०। धत्तूरशब्दे तत्सामान्यगुणा भावप्र० उक्तायथा “धत्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत्। कषायो मधुरस्तिक्तो यूकालिक्षाविनाशकः। उष्णो गुरुर्वर्णश्लेष्म कण्डूकृमि विषापहः”।
कृष्णधन = न० कर्म्म०। द्यूतादिभिरर्ज्जिते धने। अर्थशब्दे ३६७ पृ० विवृतिः। “पार्श्विकद्यूतचौर्य्याप्तं प्रतिरूपकसाहसैः। छलेनोपार्ज्जितं यच्च तत्कृष्णं स्वमुदाहृतम्” विष्णसं०। “पार्श्विकः अपात्रस्य पात्रताख्यापनम्” प्रा० वि०
कृष्णपक्ष = पु० कर्म्म०। चन्द्रस्य कलाह्रासकरे प्रतिपदादिदर्शान्ते पञ्चदशतिथ्यात्मके काले। तत्र (चान्द्रे) पक्षा वुभौ मासे शुक्लकृष्णौ क्रमेण हि। चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः। पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः। दर्शात्ताः कृष्णपक्षे ताः पूर्ण्णिमान्ताश्च शुक्लके” ति० त० षट्त्रिंशन्मतम्। “रावणेन हृता सीता कृष्णपक्षे सिताष्टमी” महाना०
कृष्णपदी = स्त्री कृष्णौ पादौ यस्याः कुम्भप० ङीष् अन्त्यलोपः पद्भावश्च। कालपादयुक्तायां स्त्रियाम्।
कृष्णपर्णी = स्त्री कृष्णं पर्णमस्याः। कालतुलस्याम्। रत्नमा०
कृष्णपवि = पु० पूयते पू–शोधे इन् पविः पन्थाः “पन्था वातेन शुध्यति” इत्युक्तेः पथोवातभिन्नशुद्धिहेत्वनपेक्षणात् तथात्वम् कृष्णः पन्था यस्य। वह्नौ “पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे” ऋ० ७, ८, २। “कृष्णपविः कृष्णवर्त्माऽग्निः भा०
कृष्णपाक = पु० पच्यते इति पाकः फलं कृष्णः कृष्णवर्ण्णः पाकः फणमस्य। करमर्द्दे रत्ना०
कृष्णपाकफल = पु० कृष्णपाकरूपं फलमस्य। करमर्द्दे अमरः
कृष्णपिङ्गल = त्रि० “बर्णोवर्णेन” पा० कर्म्म०। कालपिङ्गलवर्ण युक्ते “ऋतं सत्यं परं ब्रह्म पुरुषं कालपिङ्गलम्” रुद्रो पस्थानमन्त्रः। तस्यापत्यम् इञ्। काष्र्णपिङ्गलि तदप त्ये बहुत्वे उपका० अन्यशब्देन द्वन्द्वे अद्वन्द्वे च वा तस्य लुक। कृष्णपिङ्गलास्तदपत्यषु। २ दुर्गायां स्त्री० त्रिका०
कृष्णपिण्डीतक = पु० नित्यकम्म०। कृष्णपिण्डीरभेदे रत्नमाला कृष्णपिण्डीरोऽप्यत्र।
कृष्णपिप्पिली = स्त्री नित्यकर्म्म०। पिपोलिकाभेदे वृक्षारोहिपिर्प लिकायां (काठपिपिडा) राजनि०
कृष्णपुष्प = पु० कृष्णं पुष्पमस्य। १ कृष्णधत्तूरे राजनि० २ प्रि यङ्गवृक्षे स्त्री ङीप् शब्दच०
कृष्णफल = पु० कृष्णं फलमस्य। १ करमर्द्दे(करमचा)वृक्षे २ सोमराज्यां स्त्री टाप अमरटीकायांभरत
कृष्णफलपाक = पु० कृष्णः फलसूपः पाकोयस्य। करमर्द्दे द्विरूपको०
कृष्ण(व)बलक्ष = पु० “वर्णोवर्णेन” पा० स०। १ कालश्वेतवर्ण्णे २ तद्युक्ते त्रि० “अजिने पार्श्वसहिते कृष्णब(व)लक्षे आविके” कात्या० २२, ४, १७, कृष्णधवलादयोऽप्यत्र।
कृष्णभूम = पु० कृष्ण मूमिर्यत्र अच् समा०। कालवर्णमृत्तिकायुक्ते देशे हेम०
कृष्णभूमिज = त्रि० कृष्णाया भूमेर्जायते जन–ड १ कालवर्ण मृत्तिकात उत्पन्ने २ गोमूत्रिकातृणे स्त्री राजनि०
कृष्णभेदा(दी) = स्त्री कृष्णोवर्णेन भेद। खण्डोऽस्याः ङीप् कटुकायां (कट्की) वृक्षे राजनि०। वा गौरा० ङीष्। तत्रार्थे अमरः
कृष्णमण्डल = न० कर्म्म०। “नेत्रावयवभेदे। नेत्रायामत्रिभागात्तु कृष्णमण्डलमुच्यते। कृष्णात् सप्तमभागां तु दृष्टिं दृष्टिविशारदाः” सुश्रु०। भीमसेनादिवत् उत्तरपदलोपे कृष्णमप्यत्र तदभिप्रायेणैव कृष्णादिति सुश्रुतोक्तिः
कृष्णमल्लिका = स्त्री कृष्णा कृष्णप्रिया मल्लिकेय। कृष्णार्ज्जके (कालतुलसी) वृक्षे राजनि०।
कृष्णमत्स्य = पुंस्त्री नित्यकर्म्म० (कालवस) इति ख्याते मत्स्य भेदे “पाठीनपाटलाराजीववर्म्मिगोमत्स्यकृष्णमत्स्य वागुञ्जारसुरल सहस्र दंष्ट्रि प्रभृतयो नादेया” सुश्रुतः स्त्रियां ङीप्
कृष्णमुख = त्रि० कृष्णं सुखमास्वमग्रंवा यस्य स्त्रियां वा ङीप् १ कृष्णवर्ण मुखयुक्ते २ कालाग्रे च “स्तनयोः कृष्णमुखता रोमराज्यद्गमस्तथा” गर्भलक्षणे सुश्रुतः ३ वानरभेदे पुंस्त्री० स्त्रियां जातित्वात् ङीष्। ४ दानवभेदे “सहस्रपात् कृष्णमुखः कृष्णश्चैव महोदरः” हरिवं० २४० अ० दानवोक्तौ। कृष्णवदनादयोऽपि पूर्व्वोक्तार्थे त्रि०
कृष्णमुद्ग = पु० नित्यकर्म्म०। मुद्गभेदे तद्भेदगुणादि भावप्र० उक्तं यथा “मुद्गमसूरयोराध्मानाकारित्वमन्यवैदलापेक्षेया नतु सर्वथा एतयोरपि किञ्चिदाध्मानकारित्वात् तत्र मुद्गस्य गुणाः मुद्गोरूक्षो लघुर्ग्राही कफपित्तरसो हिमः। स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नो वनजस्तथा। मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा। श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः। सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः। चरकादिभिरप्युक्त एष एव गुणाधिकः”। माधववासन्तसुराष्टजेति राजनि० तस्य पर्व्यायदर्शनात् वसन्तकाले चैत्रमासे सुराष्ट्रदेशेऽस्योत्पत्तिरवसेया ततोदेशादा नीयान्यत्र देशेऽपि तस्योत्पादना एवमन्यत्र कालेऽपि।
कृष्णमूली = स्त्री० कृष्णंमूलमस्याः ङीप्। शारिवाभेदे। राजनि
कृष्णमृग = पुंस्त्री नित्यकर्म्म०। (कालसार) कृष्णसारमृगे “रुरून् कृष्णमृगांश्चैव मेध्यादन्यान् वनेचरान्” भा० व० ५३ अ०। स्त्रियां जातित्वात् ङीष् कृष्णहरिणादयोऽप्यत्र पुंस्त्री०
कृष्णमृद् = स्त्री० कर्म्म०। १ कृष्णवर्ण्णे मृत्तिकाभेदे २ श्लक्ष्णभूमौ हेमच०। “कृष्णमृत् क्षतदाहास्रप्रदरश्लेष्मपित्तनुत्” राजनि० कृष्णमृत्तिकाऽप्यत्र। ब० व०। ३ तद्युक्ते त्रि० हेमच०
कृष्णयजुर्वेद = पु० तैत्तीरीयरूपयजुर्वेदभेदे। तस्य कृष्णत्वञ्च तस्य पाठे प्रतिपदायुक्तपूर्ण्णिमायाग्राह्यत्वत्। यजुर्वेदस्य द्वौ भेदौ शुक्लकृष्णभेदात् तदवान्तरभेदाश्च चरणव्यूहभाष्ययो दर्शिताः यथा “यजुर्वेदस्य षडशीतिर्भेदा भबन्ति। तत्र चरका नाम द्वादशभेदा भवन्ति “चरका आह्वरकाः कठाः प्राच्यकठाः कपिष्ठलकठाश्चारायणीया वार्त्तान्तरीयाः श्येताश्वतरा वाराहा औपमन्यवश्छागलेया मैत्रायणीयाश्चेति। मैत्रायणीयानाम सप्तभेदा भवन्ति मानवामैत्रायणीया दुन्दुभाश्चैकेया हारिद्रवेयाः श्यामाः श्यामायनीयाश्चेति। तेषामध्ययनमष्टशतं यजुःसहस्राण्यधीत्य शाखापारो भवति तान्येव द्विगुणान्यधीत्य पदपारो भवति तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति षडङ्गान्यधीत्य षडङ्गविद्भवति शिक्षाकल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गानि भवन्ति तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्र वाजसनेयानां पञ्चदश भेदा भवन्ति काण्वा माध्यन्दिनाः शावीयाः श्यामायनीयाः कापोलाः पौण्ड्रवत्सा आवटिकाः परमावटिकाः पाराशर्य्याः वैधेया वैनेया औधेया गालया वैजपाः कात्यायनीयाश्चेति प्रतिपदमनुपदं छन्दो भाषा धर्मोमीमांसा न्यायस्तर्क इत्युपाङ्गानि उपज्योतिषं साङ्गलक्षणं प्रतिज्ञानुवाक्यः परिसंख्या चरण व्यूहः श्राद्धकल्पः प्रवराध्यायश्च शास्त्रक्रतुसंख्यानुगमयज्ञपार्श्वाणि हौत्रिकम्पाशवोक्थानि कूर्मलक्षणम् इत्यष्टादश परिशिष्टानि भवन्ति। द्घे सहस्रे शते न्यूने मन्त्रे वाजसनेयके। इत्युक्तमेतत्सकलं स शुक्रियञ्च कीर्त्तितम्। ग्रन्थाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम्। तत्र तैत्तिरीयकानाम द्विभेदा भवन्ति। औख्याः काण्डिकेयाश्चेति। काण्डिकेयानाम पञ्चभेदा भवन्ति। आपस्तम्बी बौधायनी सत्यार्षाढी हिरण्यकेशी औधेयी चेति तत्र कठानां तु प्रमृथचतुःश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पट्यते। यठुर्बेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः। तेषामध्ययनं प्रवचनीयाश्चेति” मू०। विवृतमेतद्भाष्ये यथा “यजुर्वेदस्य षडशीतिर्भेदा भवन्ति” अत्र शाखाभेदो ग्राह्यः। षडुत्तराशीतिभेदा इत्यर्थः। “तत्रचरकानाम द्वादशभेदा भवन्ति” इतिस्पष्टार्थः। ते के भेदा इत्याह चरका इत्यादि मैत्रायणीयानाम सप्तभेदा मवन्ति। मैत्रायणीया मानवा इत्यादि। मैत्रायणीयशाखागण इत्यर्थः। मैत्रायणीयस्तु वाजसनीयवेदाध्यायी। मानवं कल्पसूत्रम्। तेषामध्ययनमष्टोत्तरशतं यजुःसहस्राण्यधीत्य शाखापारो भवति तेषामध्ययने द्विचत्वारिंशदध्यायाः अष्टशताधिकसहस्रमन्त्रा इत्यर्थः। तान्येव द्विगुणान्यधीत्य पदपारोभवति द्विवारपठनात्पदपारायणफलं भवति इत्यर्थः। तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति त्रिवारपठनात् क्रमपारायणफलं भवतीत्यर्थः। पदक्रमाध्ययनफलं भ वतीत्यर्थः। तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्र वा जसनेयानां पञ्चदश भेदा भवन्ति प्राच्य उदीच्यनैरृत्य इति तिसृषु दिशासु। वाजसनेयवेदोत्पत्तिमग्रे वक्ष्यामः इतरदेशेषु वेदशाखयोर्विभाग उच्यते तच्च माहार्णवे उक्तम् “पृथिव्यामध्यरेखायां नर्मदा परिकीर्त्तिता। दक्षिणोत्तरयोर्भागे शाखावेदश्च उच्यते। नर्मदादक्षिणे भागे आपस्तम्बा श्वलायनी। राणायनी पिष्पला च यज्ञकन्याविभागिनः। मान्ध्यन्दिनी शाङ्खायनी कौथुमी शौनकी तथा नर्मदोत्तरभागे च यज्ञकन्याविभागिनः। तुङ्गकृष्णा तथा गोदा सह्याद्रिशिखरावधि। आआन्ध्रदेशपर्यन्तम् बह्वृ चश्चाश्वलायनी। उत्तरे गुर्जरे देशे वेदो बह्वृच इरितः। कौषीतकिब्राह्मणं च शाखा शाङ्खायनी स्थिता। आन्ध्रादिदक्षि णाग्नेय्यां गोदासागरकाबधि। यजुर्भेदस्य तैत्तिर्य्या आपस्तम्बी प्रतिष्ठिता। सह्याद्रिपर्वतादाराद्दिशाम् नैरृत्यसागरात्। हिरण्यकेशी शाखा च पर्शुरामस्य सन्नि धौ। मयूरपर्वताच्चैव यावद्गुर्जरदेशतः। व्याप्ता वायव्यदेशात्तु मैत्रायणी प्रतिष्ठिता। अङ्गवङ्गकलिङ्गाश्च कानीनी गुर्जरस्तथा। वाजसनेयी शाखा च माध्यन्दिनी प्रतिष्ठिता। ऋषिणा याज्ञवल्केन सर्वदेशेषु विस्तृता। वाजसनेयवेदस्य प्रथमा काण्वसंज्ञकाः” इति व्यासशिष्योवैश म्पायनोनिगदाख्ययजुर्वेदम्पठित्वा शिष्यान् चकार। तच्चाह भागवते १२। ६ अ० “वैशम्पायनशिष्यवै चरकार्ध्वर्यवोऽभवन्। यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम्। याज्ञवल्क्यश्च तच्छिष्य आहांहोभगवन्! कियत्। चरितेनाल्पसाराणां च- रिष्येऽहं सुदुश्चरम्। इत्युक्तो गुरुरप्याह कुपितोयाह्यलं त्वया। विप्रावमन्त्रा शिष्येण मदधीतं त्यजत्विति। दे रातः सुतः सोऽपि छर्दित्वा यजूषांगणम्। ततोऽगतोऽथ सुतयो ददर्शुस्तान् यजुर्गणान्। यजूंषि तित्तिरीभूत्वा तल्लोलुपतयाऽऽददुः। तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः”। याज्ञवल्क्यः “ओं नमो भगवते” इत्यादिना सूर्य्यं तुष्टाव। “एवमुक्तः म भगवान् वाजिरूपधरोहरिः। यजूंष्य्यातयामानि मुनयेऽदात् प्रसादितः” (अजीर्णभुक्ते उच्छिष्टवान्ते यातयामशब्द इति निघण्टुः तदन्यत् अयातयामम्) “यजुर्भिरकरोच्छाखादश पञ्च शनैर्विभुः। जगृहुर्वाजसन्यस्ताः काण्वा माध्यन्दिनादयः” इत्यादि ग्रन्थपर्यालोचनपा यजुर्वेदत्यागानन्तरं देवरातः सुतेनाब्राह्मणत्वभिया प्रसादितः सूर्य्यो वाजिरूपेण तस्मै दत्ता वाजेभ्यः केसरेभ्यः वाजेन वेगेन वा संन्यस्ताः शाखा वाजसनेय संज्ञा। तस्य शाखारण्डत्वपरिहारार्थं चातुर्वेद्यत्वसंरक्षणार्थं च वाजिरूपेण सूर्य्येणायातयामानि यानि यजूंषि मुनये दत्तानि तैर्यजुर्भिरर्कापितैः स मुनिस्ताः वाजसन्यः पञ्चदश शाखा अकरोत्। तस्माच्च मुनेः काण्वमा ध्यन्दिनादयः अध्ययनं चक्रुः। ते पञ्चदश भवन्ति तथा च विष्णुपुराणे यजुर्वेदस्य विस्तारविभागमाह “यजुर्वेदतरोः शाखाः सप्तविंशन्महामुने!। वैशम्पायन नामासौ व्यासशिष्यश्चकार वै। शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात्। याज्ञवल्क्यस्तु तस्याभूद्ब्रह्मरातः सुतोद्विजः। शिष्यः परमधर्म्मज्ञो गुरुवृत्तिरतः सदा। ऋषिर्यश्च महामेरोःसमाजेष्वागमिष्यति। तस्य वै सप्त रात्रन्तु व्रह्महत्या भविष्यति। पूर्वमेवं मुनिगणैः समयोऽयं कृतोद्विज!। वैशग्पायन एकस्तु तं व्यतिक्रान्त वांस्तदा। स्वस्रियं तं च हंसोऽथ पदघृष्टमवातयत्। शिष्यानाह च भो शिष्या ब्रह्महत्यापरं व्रतम्। चरध्वं मत्कृते सर्वे न विचार्यमिदन्तथा। अथाह याज्ञवल्क्यस्तङ्किमेतैर्बहुभिर्द्विजैः। क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम्। ततः क्रुद्वो गुरुः प्राह याज्ञवल्क्यं महामुनिम्। मुच्यतां यत् त्वयाऽधीतं यतो विप्रायमानकः। निस्तजसोवदस्येतान् यस्त्वं ब्रह्मणपुङ्गवान्। तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा। याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम्। ममाप्यलन्त्वया त्वत्तोयदधीतं द्विज! त्विदम्। श्रोपराशर उवाच इत्युक्त्वा रुधिराक्तानि सरूपाणि यजूंव्यथ। छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छपा मुनिः। यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज!। जगृहुस्तित्तिरीभूतास्तित्तिर्यास्तु च ते ततः। ब्रह्महत्याव्रतं चीर्णं गुरुणा नोदितैस्तु यैः। चरकाध्वयवस्ते तु चरण्णान्मुनिसत्तम!। याज्ञवल्क्योऽपि मैत्रेष! प्राणायामपरायणः। तुष्टाव प्रणतः सूर्यं यजूंष्यभिलषं स्ततः। याज्ञवल्क्य उवाच। नमः सवित्रे द्वाराय मुक्तेरमिततेजसे। ऋग्यजुःसामरूपाय त्रयीधामात्मने नमः” इत्यादि। पराशर उवाच। इत्येवमादिभिस्तेन स्तूयमानः सवै रविः। वाजिरूपधरः प्राह प्रीयमाणोऽभिवाञ्छितम्। याज्ञवल्क्यस्तथा प्राह प्रणिपत्य दिवाकरम्। यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ। पराशरौवाच। एवमुक्तो ददौ तस्मै यजूंषि भगवान् रविः। अयातयामसंज्ञानि यानि नो वेत्ति तद्गुरुः। यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम!। वाजिनस्ते समाख्याता सूर्य्याश्वोद्भव योगतः। शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् काण्वाद्यास्तु महाभाग! याज्ञवल्क्यप्रवर्त्तिताः” काण्वा माध्यन्दिनाः शावीया श्यामायनीया कापोलाः पौण्ड्रवत्साःआवटिकाःपरमावटिकाः पारशर्या वैधेया वैनेया ओघेया गालवा वैजपाः कात्यायनीयाश्चेति पञ्चदश शाखा इत्यर्थः। प्रतिपद मनुपदम् प्रतिपदे अनुपदम् अल्पपदं कर्त्तव्यमित्यर्थः। छन्दः छन्दोरत्नाकारादि। भाषा शब्दपरिभाषा, धर्म्मः धर्मशास्त्रं मन्वादि, मीमांसा प्रसिद्धा न्यायः तर्कः इति षडुपाङ्गानि। उपज्योतिषं ज्योतिःशास्त्रम् साङ्गलक्षणं सामुद्रिकादि प्रतिज्ञानुवाक्यः अनेन वाक्येन अयं सिद्धान्तः। परिसंख्या सूगोलादि। अयं रणव्यूहः। आद्धकल्पः प्रवराध्यायश्च शास्त्रं क्रतुसंस्याकल्पादिषु ज्ञातव्यम्। अनुगमयज्ञा यज्ञक्रियापार्श्वानि हौत्रिकभेदाः। हौत्रं यज्ञक्रियाः। पाशवोक्थानि पशुयज्ञाः कूर्मलक्षणं यज्ञे प्रसिद्धम्। इति अष्टादश परिशिष्टानि भवन्ति। द्वे सहस्रेशतन्यूने मन्त्रे वाजसनेयके इत्युक्तेः सकलं सशुक्रियं ग्रन्थाश्च परिसंख्यात मित्यर्थः। वाजसनेयवेदे च नवशताविकसहस्रमन्त्रा इत्यर्थः। एतत्सकलं सशुक्लियं मध्याह्ने शुक्लवर्णेन सूर्येणदत्तं सशुक्रिय संज्ञंपरिसंख्यातमित्यर्थः। वेदोपक्रमणे चतुर्दशीयुक्तपूर्णिमाग्रहणात् शुक्लयजुः प्रथितमित्यर्थः। प्रतिपदायुक्लपूर्णिमाग्रहणात् कृष्णयजुरिति च। ब्राह्मणञ्च चतु- र्गुणं ब्राह्मणमित्यर्थः, यजुर्वेदतरोरासन् शाखा ह्येकोत्तरं शतम्। तत्रापि च शिवाकारा दश पञ्च च वाजिनाम्। “तत्रापि प्रथमा मुख्या शाखेयं काण्वसंज्ञिका” इति ग्रन्थान्तरे। तैत्तिरीयानाम द्विभेदा भवन्ति औख्याः काण्डिकेयाश्चेति। काण्डिकेयानां पञ्च भेदा भवन्ति आपस्तम्बी बौधायनी सत्याषाढी हिरण्यकेशी औधेयी चेति तेषामध्ययनं परिमाणम्। “काण्डास्तु सप्त विज्ञेया प्रश्नाश्च चतुरुत्तराः। चत्वारिंशत्तु विज्ञेया अनुवाकाः शतानि षट्। एकपञ्चाशदधिका संख्या पञ्चाश्यथोच्यते। द्विसहस्रञ्चैकशतमष्टानवतिकाधिकन्। लक्षैकन्तु द्विनवतिः सहह्राणि प्रकीर्त्तितम्। पदानि नवतिश्चैव तथाक्षरन्तदुच्यते। लक्षद्वयं त्रिपञ्चाशत् सहस्राणि शताष्टकम्। अष्टषष्ट्यधिकं चेव यजुर्वेदप्रमाणकम्”। काण्डाः ७। प्रश्नाः १४४। अनुवाकाः ६५१। पञ्चाशी २१९८। पदानि १९२०९०। अक्षरसंख्या २५३८६८। इति शाखावाक्यान्ययुतानि सहस्राणि नवानि च। चतुःशतान्यशीतिश्च अष्टौ वाक्यानि गण्यते तत्र इति ब्राह्मणे वाक्यसंख्या १९४८० तैत्तिरीयनिगदवेदाख्यसंख्या उक्ता इत्यर्थः। तत्र कठानां तु प्रगाथचतुश्चत्वारिंशदुपग्रन्थाः। मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते। यजुर्वेदः स विज्ञेयो अन्ये शास्वान्तराः स्मृताः” चतुश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्य अध्याय समीपे उक्ताः चतुश्चत्वारिंशत्। मन्त्रश्च ब्राह्मणं च मन्त्रब्राह्मणे तयोः मन्त्रब्राह्मणयोः तयोश्च वेद इति संज्ञा तदुक्तं “मन्त्रब्राक्षणयोर्वेद” इति नामधेयमित्यृक्शाखीयप्रातिशाख्याभाष्यकारेण, आपस्तम्बसानान्यसूत्रभाष्यकारकपर्दिना धूर्त्तखामिना च। तथाच सति मन्त्रोनाम संहितामन्त्रस्तादृङ्मन्त्ररूपसंहितायाः मध्ये एव तदग्रे ब्राह्मणत्वेन पठनमित्युभययापि संहितात्वेन पदत्व न क्रमत्वेन च पठनं त्रिगुणपठन मिति समन्त्रब्राह्मणयो र्वेदस्त्रिमुणो यत्र पठ्यते इत्यर्थः एतादृशं पठनं शाखाया अध्ययनं स यजुर्वेदस्तच्च तैत्तिरी यशाखायामेवास्ति” भाकम्। अयमत्र शाखाभेदसंस्व्यानिर्णयः। चरकादिकानां द्वादशानां प्रत्येकं मानवादि सप्त भेदैर्मुणितानां ८४ संख्या सम्पद्यते तैत्तिरीयस्य द्वौ भेदौ एवं पडशीतिसंख्या वाजसनेयसंख्या पञ्चदशेति एकोत्तरशतसंख्या। अतएवमुक्तिकोपनिषदि “एकोत्तर शतं चैव यजुःशाखाः प्रकीर्त्तिताः” इत्युक्तम् दर्शितविष्णुपु० सप्तविंशतिभेदोक्तिः चरकादिद्वादशभेदाः काण्वादि पञ्चदशभेदाश्चेति मुख्यभेदाभिप्रायेणेति न विरोधः। कृष्णयजुर्वेदगतोपनिषदश्च उपनिषचच्छब्दे दर्शिताः
कृष्णयाम = पु० कृष्णोयामोवर्त्म यस्य। वह्नौ। “वृश्चद्वनं कृष्णयामम्” ऋ० ६, ६, १, “कृष्णयामं कृष्णवर्त्मानम्” भा०
कृष्णरक्त = पु० वर्ण्णोवर्ण्णेनेति” पा० स०। १ काललोहितवर्ण्णे (वेमुगीरङ्) २ तद्वति त्रि०।
कृष्णरुहा = स्त्री कृष्णा सती रोहति रुह–क। जतुकायां राजनि०
कृष्णरूप्य = त्रि० कृष्णस्य भूतपूर्वःरूप्य। तदीयभूतपूर्वसम्बन्धिनि। कृष्णाया इत्यर्थे न पुंवत्। कृष्णारूप्य इति भेदः
कृष्णल = पु० कृष्णोवर्ण्णोऽस्त्यस्यार्द्धफले सिध्मा० लच्। गुञ्जावृक्षे शब्दचि० तत्रार्थे स्त्री अमरः २ तत्फले न०। “द्वे कृष्णले पलधृते विज्ञेयोमध्यमोयवः” मनुः। “त्रियवं त्वेककृष्णलम्”। “स दण्ड्यः कृष्णलान्यष्टौ” मनुः। “जालसूर्य्यमरीचिस्थं त्रसरेणु रजः स्मृतम्। तेऽष्टौ लिक्षा, तु तास्तिस्रोराजसर्षप उच्यते। गौरस्तु ते त्वयः, षट् ते यवोमध्यस्तु, ते त्रयः। कृष्णलः, पञ्च ते माषः” इति याज्ञ० परिभाषिते ३ वरिमाणभेदे पु० स्वार्थे क। तत्रार्थे “पञ्चकृग्णलकोमाषः” मनुः अत्र पञ्च कृष्णलाःपरिभाणमज्यस्येति कन्। इति तु न्याय्यम्
कृष्णलवण = न० नित्यकर्म्म०। सौवर्चललवणे (कालालोन) राजनि० काचलवणशब्दे १८५६ पृ० विवृतिः।
कृष्णलोह = नित्यक०। अयस्कान्ते लौहसेदे राजनि०।
कृष्णलोहित = पु० कृष्णः सन् लोहितः “वर्णोवर्णेनेति” पा० स०। १ रक्तकालमिश्रितवर्णे धूमले (वेगुनीरङ)। २ तद्वति त्रि० अमरः।
कृष्णवक्त्र = पुंस्त्री० कृष्णं वक्त्रमस्य। वानरे हलायुधः संयोगोपधत्वात् जातित्वेऽपि स्त्रियां टाप्। कृष्णवदनादयोऽप्यत्र
कृष्णवर्ण्ण = पु० कृष्णो वर्णोऽस्य। १ राहौ ग्रहे। राहोः छायारूपत्वेन तमोरूपत्यात् तथात्वारोपात् तथात्वम् कृष्णः अशुद्धी वर्णः। २ शूद्रे पु०। कर्म्म०। काले वर्ण्णे पु० कृष्णवर्णवति त्रि०। “कृष्णवर्ण्णं त्विपाऽकृष्णम्” भागव० ११ स्क०।
कृष्णवर्त्मन् = पु० कृष्णं वर्त्म धूमप्रसाररूपगतिस्थानमस्य। १ वह्नौ, “हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” मनु पातयामाम विहगान् प्रदीप्ते कृष्णवर्त्मनि” भा० आ० २२६ अ०। २ चित्रकवृक्षे अमरः ३ राहौ ग्रहे, मेदि०। कृष्णमपवित्रं वर्त्माचरणं यस्य। ४ दुष्टकर्म्मकारके त्रि० अमरः कृष्णएव वर्त्म। ५ वासुदेवरूपगतौ। “कृष्णवर्त्मनि गुणान गणयन्ती जीवनेषु लघयन्त्यनुरागम्। आमता वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः। कृष्णवर्त्तन्यादयोऽपि वह्नौ। “पावकं कृष्णवर्त्तनिम्” ऋ० ८, २३, १९, चित्रकवृक्षे च
कृष्णवर्वर = पु० नि० कर्म्म०। वर्वरभेदे (कालतुलसी) राजनि०।
कृष्णवल्लिका = स्त्री कर्म्म०। जतुकालतायाम् राजनि०
कृष्णवल्ली = स्त्री कर्म्म०। १ कृष्णतुलस्याम्, २ कर्कट्याञ्च शब्दच० ३ शारिवाभेदे राजनि०।
कृष्णवानर = पुंस्त्री नित्यकर्म्म०। वानरभेदे गोलाङ्गूले राजनि० स्त्रियां जातित्वात् ङीष्
कृष्णविषाणा = स्त्री कृष्णस्य मृगस्य विषाणा विषाणयुक्ता। यजमानकण्डूयनसाधनद्रव्यभेदे। तत्स्वरूपादि कात्या० ७, ३, उक्तं यथा “कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीत” २९ सू० “कृष्णस्य मृगस्य विषाणयुक्तां बध्नीत आत्मनेपदाद्यजमानः, कीदृशीं त्रिवलिं ग्रन्थित्रययुक्तां पञ्चवलिं पञ्चग्रन्थियुक्तां वा। सा च प्रादेशमात्री परिशिष्ट उक्ता तस्यादक्षिणावर्त्तेन बन्धनमाम्नातमापस्तम्बेन “त्रिवलिः पञ्चवलिर्वा दक्षिणावृद्भवति सव्यावृदित्येक इति” कर्कः। “तया कण्डूयनम्” सू० ३० “दीक्षितेन कर्त्तव्यम्” कर्कः। कृष्णोमृगः विषाणं योनिर्यस्य। दीक्षितधार्य्ये मृगचर्म्मभेदे स्त्रीं। यज्ञो हि कृष्णः (कृष्णमृगः) स यज्ञस्तत्कृष्णाजिनं या सा योनिः सा कृष्णविषाणा” शत० ब्रा० ३, २, १, २८,
कृष्णवीज = पु० कृष्णं वीजमस्य। १ रक्तशिग्रौ, जटाधरः २ कालिङ्गे वृक्षे न० राजनि०।
कृष्णवृन्ता = स्त्री कृष्णं वृन्तमस्याः १ पाटलावृक्षे मेदि० २ माषपर्ण्याम् अमरः। संज्ञायां कन् कापि अत इत्त्वम्। कृष्णवृन्तिका गाम्भार्य्याम्। रत्नमा०
कृष्णवेणा = स्त्री भारतप्रसिद्धे नदीभेदरूपे तीर्थभेदे। “ततोदेवह्रदेऽरण्ये कृष्णावेणाजलोद्भवे। जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरोनरः” भा० व० ८५ अ०। “सुनेणां कृष्णयेणाञ्च ईरामाञ्च महारसाम्” भा० व० १८८ अ०। कृष्णबेण्वाप्यत्र “गोदावरी कृष्णवेण्वा कावेरी च सरिद्वरा” भा० स० ९ अ०
कृष्णव्रीहि = पु० नित्यकर्म्म०। (केलेधान) व्रीहिभेदे। कृष्णब्रीहिशालामुखेत्यादिना व्रीहीन् विभज्य सुश्रुते तद्गुणा उक्ता यथा “कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः”। “नैरृतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानाम्” कात्या० १५, ३, १४,
कृष्णश = न० कृष्णदश + पृषो०। स्वयमकृष्णे कृष्णदशायुक्ते वा- ससि। “वासः कृष्णशं कद्रु” “अकृष्णं कृष्णदशं वा तदाख्यम्” कात्या० २२, ४, १२, १३,। “स्वयमकृष्णं सत् कृष्णदशं वासः तदाख्यं कृष्णशमित्यर्थः” सं० व्या०
कृष्णशकुनि = पुंस्त्री नित्यकर्म्म०। काके। “स्त्रीशूद्रशवकृष्णशकुनिशुनकादर्शनम्” पार० गृ०।
कृष्णशा(सा)र = पुंस्त्री कृष्णश्चासौ शारः (सारः) शवलश्च “वर्णो वर्णेनेति पा० स०। (कालसार) मृगभेदे रमानाथः “कृष्ण(शा)सारस्तु चरति मृगोयत्र स्वभावतः” मनुः। “कृष्ण(शा)सारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके” शकु०। स्त्रियां ङीष्
कृष्णशालि = पु० कर्म्म०। (केलेधान) धान्यभेदे। राजनि०। “कृष्णशालिस्त्रिदोषघ्नोमधुरो दृष्टिकृद्धितः। पुष्टिवीर्य्यवर्द्धनश्च वर्ण्णकान्तिबलप्रदः” राजनि०
कृष्णशिग्रु = पु० कर्म्म०। कृष्णशोभाञ्जने(कालसजना)। राजनि०
कृष्णशिम्बिका = स्त्री० कर्म्म०। काकाण्ड्याम्। (कालशिम्) रत्नमा०
कृष्णशृङ्ग = पु स्त्री० कृष्णं शृङ्गमस्य। १ महिषे हेमच०। स्त्रियां स्वाङ्गत्वात् ङीष्।
कृष्णसख = पु० कृष्णस्य सखा टच समा०। १ अर्ज्जुने तन्नामके २ अर्ज्जुनवृक्षे च शब्दचि०। वासुदेवतुल्यवर्ण्णत्वात् ३ कालजीरके स्त्री शब्दच०
कृष्णसमुद्भवा = स्त्री कृष्णा सती समुद्भवति सम् + भू–अच्। कृष्णगङ्गायाम्। कृष्णःसमुद्भवोयस्य कृष्णपुत्रे २ कामदेवादौ
कृष्णसर्प = पुंस्त्री० नित्यक०। सुश्रुतोक्ते कृच्छ्रकरे कालरूपे (केउटा) सर्पभेदे अहिशब्दे विवृतिः “आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्” भा० आ० ६१ अ० स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्। २ ओषधिभेदे स्त्री “वसन्ते कृष्णसर्पाख्या गोनसी प्राप्यते क्वचित्” सुश्रु०
कृष्णसर्षप = पुं स्त्री० नित्यकर्म्म०। कालसर्षपे (राइसरिषा) राजनि०।
कृष्णसार = पु० कृष्णशारवद् विग्रहादि। १ मृगभेदे “एणः कृष्णः प्रकीर्त्तितः इति” भावप्र० मृगभेदानभिधाय “जाङ्गलाः प्रायशः सर्व्वे पित्तश्लेष्मकराः स्मृताः। किञ्चिद्वातकरा श्चापि लघवोबलवर्द्धनाः” इति तन्मांगुणाष्ठक्ता “एणः कृष्णमृगः स्मृतः” छन्दो० प०। स्त्रियां ङीष्। कृष्णःसारोऽस्य। २ स्नुहीवृक्षे ३ शिंशपावृक्षे च मेदि०। ४ खदिरवृक्षे शब्दरत्ना०। शिंशपावृक्षे स्त्री शब्दचि०
कृष्णसारङ्ग = पु० कर्म्म०। मृगभेदे “कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम्” कात्या० श्रौ० ७। ९। २१। “कृष्णःश्यामः सारङ्गः सारङ्गवर्ण्णानुविद्धः” कर्कः “कृष्णसारङ्गः स्यादित्याहुर्यदि कृष्णसारङ्गं न विन्देत अथो अपि लोहितसारङ्गम्” शत० ब्रा० ३। ३। ४। १३ “कृष्णसारङ्गः श्यामशवलः” भा०
कृष्णसारथि = पु० कृष्णः सारथिरस्य। १ अर्जुने मध्यमपाण्डवे यथा च तस्य तत्सारथित्वं तथा भा० उ० ६ अ० वर्ण्णितं यथा “अर्ज्जुन उवाच। मवान् समर्थस्तान् सर्व्वान्निहन्तुं नात्र संशयः। निहन्तुमहमप्येकः समर्थः पुरुषर्षम!। भवांस्तु कीर्त्तिमाल्लो~के तद्यशस्त्वां गमिष्यति। यशसा चाहमप्यर्थी तस्मादसि मया वृतः। सारथ्यन्तु त्वया कार्य्यमिति मे मानसं सदा। चिररात्रेप्सितं कामं तद्भवान् कर्त्तुमर्हति। वासुदेव उवाच। उपपन्नमिदं पार्थ! यत् स्पर्द्धसि मया सह। सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव”। तन्नासके २ अर्जुनवृक्षे च राजनि०
कृष्णसुन्दर = त्रि० कृष्णवर्ण्णोऽपि सुन्दरः। श्रीकृष्णे। तस्यापत्यम् इञ्। कार्ष्णसुन्दरि तदपत्ये पुंस्त्री० स्त्रियां ङीप् बहुत्वे तु तिककितवादित्वात् द्वन्द्वे अद्वन्द्वे च इञो लुक्।
कृष्णस्कन्ध = पु० कृष्णः स्कन्धोऽस्य। तमालवृक्षे भरतः
कृष्णागुरु = न० कर्म्म०। कालागुरुणि, “कृष्णं गुणाधिकं तत्तु लोहवत् वारि मज्जति” इत्युक्तलक्षणे गन्धद्रव्यभेदे राजनि० “विलिप्य कृष्णागुरुणा वाजपेयफलं लभेत्” आ० त० भवि० पु० “चन्दनाच्चागुरौ ज्ञेयं पुण्यमष्टगुणं नृप!। कृष्णागुरौ विशेषेण द्विगुणं फलमादिशेत्” तत्रैव शिवपूजाधिकारे भविष्यपुराणम्
कृष्णाचल = पु० कृष्णप्रियः अचलः शा० त०। १ रैवतकपर्वते जटाधरः। तस्य द्वारकामन्निकृष्टत्वेन तदीयाक्रीडपर्व्वतत्वात् तत्प्रियतत्वं तच्च माघे ४ सर्गे वर्ण्णितम्। कर्म्म०। २ नीलपर्व्वते।
कृष्णाजिन = न० ६ त०। कृष्णसारमृगस्य चर्म्मणि एणेये “कृष्णाजिनं चोलूखलमूषले” शत० व्रा० १, १, १, २२, “कृष्णाजिनोत्तरीयाश्च” भा० आनु० १४ अ०
कृष्णाञ्जनी = स्त्री अज्यतेऽनया अन्ज–करणे ल्युट् ङीप् कर्म०। कालाञ्जनीवृक्ष राजनि०।
कृष्णाद्यतैल = न० चक्रदत्तोक्ते तेलभेदे “कृष्णाविडङ्गमधुयष्टिकसिन्धुजन्मविश्वौषधैः पयमि सिद्धमिदं छगल्याः। तैलं नृणां तिमिरशुक्रशिरोऽक्षिशूलपाकात्ययान् जयति नस्यविधौ प्रयुक्तम्”।
कृष्णानदी = स्त्री कर्म्म० बा० न० पुंवद्भावः। कृष्णगङ्गायां राजनि०
कृष्णाध्वन् = पु० कृष्णः अध्वा यस्य। कृष्णवर्त्मनि वह्नौ। “कृष्णाध्वा तपूरण्यश्चिकेत” ऋ० २, ४, ६,
कृष्णानन्द = पु० तन्त्रसारनामकतन्त्रनिबन्धकारके तान्त्रिके विद्वद्भेदे।
कृष्णाभा = स्त्री कृष्णा सती आभाति आ + भा–क। कालाञ्जनीवृक्षे राजनि०।
कृष्णामिष = न० कृष्णं वासुदेवसामियति स्पर्द्धते वर्ण्णेनआ + मिष–क। कालायसे हेम०।
कृष्णायस = न० कर्म्म० जातौ अच् समा०। लौहभेदे रत्नमा०
कृष्णार्चिस् = पु० कृष्णः कालवर्ण्णोऽर्च्चिर्भ्यो यस्य। कृष्णताकारकशिखे वह्नौ।
कृष्णार्जक = पु० कर्म०। विषघ्ने (कालतुलसी) वनवर्वरे। “कृष्णार्जकः कटूष्णश्च कफवातामयापहः। नेत्ररोगविनाशी च रुच्यः सुप्रसवे हितः” शाजनि०
कृष्णालु = पु० कर्म्म०। कालालौ आलुभेदे राजनि०
कृष्णावास = पु० आवसत्यस्मिन् आ + वस–आधारे चञ् ६ त०। अश्वत्थवृक्षे। तस्य तदावासत्वमश्वत्थशब्दे ५०६ पृ० उक्तम्
कृष्णाष्टमी = स्त्री कृष्णा अष्टमी। १ कृष्णपक्षाष्टम्याम् कृष्णस्य वासुदेवस्य जन्मदिनमष्टमी। गौणभाद्रपदमासीयकृष्णपक्षस्याष्टम्यां जन्माष्टम्याम् तस्याश्च “अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे। अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः” ब्रह्मपु० तज्जन्मदिनत्वोक्तेस्तथात्वम् तत्र कर्त्तव्यव्रतकालनिर्ण्णयः कालमा० दर्शितो यथा “अथ जन्माष्टमी विचार्य्यते। सा किं पक्षभेदेन निर्णेतव्या उत व्रतविशेषेणाहोस्विद्योगविशेषेणेतिः। अत्रैवेदमपरं चिन्त्यते किं जन्माष्टमीव्रतमेव जयन्तीव्र तमुत तयोर्मेद इति। तथान्यदपि चिन्तनीयं किं तिथ्य न्तरवदत्राहर्वेध उत मध्यरात्रवेध इति। प्रथमं व्रतस्वरूपे निश्चिते पश्चादस्मित् व्रते कीदृशी तिथिरित्याकाङ्क्षोदेति। तिथौ च पूर्वविद्धत्वेन परविद्धत्वेन वा निश्चितायां पश्चात्की दृशोवेध इत्याकाङ्क्षा। तस्मादादौ व्रतं निश्चीयते। तत्र जन्माष्टमीजयन्तीशब्दाभ्यां व्यवहियमाणं व्रतमेकमेवेतितावत् प्राप्तम्। कुतः? रूपभेदामावात्। यथा यागस्थ द्रव्यदेवत रूपं यथा वोपासनस्प गुणविशेषैर्युक्ता दंवता यथा च तत्त्वविद्यायां वेद्यन्तत्त्वं रूपम्। तथा व्रते नियम विशेषोरूपम् नियमश्चात्रोपवासो जागरणं कृष्णपूजा चन्द्रार्घदानमित्यादिलक्षणः। सचोभयत्र न मिद्यते। अथोच्येत रूपाभेदेऽपि नित्यकाम्यत्वाभ्यां भेदो भविष्यति नित्या जन्माष्टमा अकरणे प्रत्यवायस्मरणात्। तथा च स्मर्यते “गृध्रमांसं खगं काकं श्येनं च मुनिसत्तम!। मांसं वा द्विपदां भुङ्क्ते भुक्त्वा जन्माष्टमी दिने। जन्माष्टमीदिने प्राप्ते येन भुक्तं द्विजोत्तम!। त्रैलोक्यसम्भवं पापं तेन मुक्तं द्विजोत्तमेति”। भविष्यत्पुराणे “श्रावणे बहुले पक्षे कृष्णजन्माष्टमीव्रतम्। न करोति नरो यस्तु भवति ब्रह्मराक्षसः। कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्वतमुपासते। नाप्नोति सुकृतं किञ्चिदिष्टापूर्त्तमथापि वा। वर्षेवर्षे तु यानारी कृष्णजन्माष्टमीव्रतम्। न करोति महाप्राज्ञ! व्याली भवति कानने” इति। स्कन्दपुराणेऽपि “ये न कुर्वन्ति जानन्तः कृष्णजन्माष्टमीव्रतम्। ते भवन्ति नराः प्राज्ञ! व्याला व्याघ्राश्च कानने! रटन्तीह पुराणानि भूयोभूयो महामुने!। अतीतानागतन्तेन कुलमेकोत्तरं शतम्। पातितं नरके घोरे भुञ्जता कृष्णवासरे” इति। जयन्ती च काम्या फलविशेषस्मरणात् विष्णुधर्मोत्तरे हि जयन्तीं प्रकृत्य पट्यते “यद्बाल्ये यच्च कौमारे यौवने वार्धके तथा। बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिरिति”। बह्नि पुराणेऽपि “सप्तजन्मकृतं पापं राजन्! यत्त्रिविधं नृणाम्। तत् क्षपयति गोविन्दस्तिथौ तस्यां समर्चितः। उपवासश्च तत्रोक्तो महापापप्रणाशनः। जयन्त्यां जगतीपाल! विधिना नात्र संशयः” इति। पद्मपुराणेऽपि “प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः। यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता। किं पुनर्बुधवारेण सोमेनापि विशेषतः” इति। स्कन्दपुराणेऽपि “महाजयार्थं कुरुतां जयन्ती मुक्तयेऽनघ!। धर्ममर्थं च कामञ्च मोक्षञ्च मुनिपुङ्गव!। ददाति वाञ्छितानर्थानत्यर्थानतिदुर्लभानिति”। भविष्योत्तरे जयन्तीकल्पे “प्रतिवर्षं विधानेन मद्भक्तोधर्मनन्दन! नरो वा यदि वा नारी यथोक्तफलमाप्नुयात्। षुत्रं सौभाग्यमारोग्यं सन्तोषमतुलं लभेत्। इहधर्मरतिर्भूत्वा मृतोवैकुण्ठमाप्नुयादिति”। एवं जन्माष्टम्या अकरणे प्रत्यवायाज्जयन्त्याः फलविशेषाच्चो भयोःक्रमेण नित्यत्वं काम्यत्वञ्चाभ्युपगन्तव्यमिति मैवं गुण फलाधिकत्वाभ्युपमेऽपि जयन्त्याः फलविशेषोपपत्तेः गोदोहनंदध्यादि तत्र दृष्टान्तः यथा “चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्येति” नित्ययोर्दर्शपौर्णमासयोरपां प्रणयनं विधाय तदेवाश्रित्य पशुफलाय गोदोहन मात्रं विहितम्। “दध्रेन्द्रियकामस्य” इत्यत्र च पूर्वप्रकृते नित्याग्निहोत्रे फलाय गुणो विधीयते। अत्रादिपदात् “खादिरं वीर्यकामस्य” इत्युदाहार्यम्। एवं नित्यां जन्माष्टमीमाश्रित्य फलविशेषाय जयन्तीनामकोरीहि- णीयोगो विधीयताम्। न च रोहिणीलक्षणस्य कालविशेषस्यानुपादेयत्वादविधेयत्वं शङ्कनीयम्। कालविशेषस्य स्वरूपेण पुरुषैरनुपादेयत्वेऽपि अनुष्ठानाङ्गत्वं शास्त्रेणावगत्यानुष्ठानाय तत्प्रतीक्षायाः कर्त्तुं शक्यत्वात्। अन्यथा “वसन्तेवसन्तेज्योतिषा यजेत” इत्यादिः सर्वोऽपि कालविधिर्लुप्येत। रोहिणीयोगस्य च जयन्तीनामकत्वं जयन्तीलक्षणप्रदिपादकैः स्मृतिवाक्यैरध्यवसेयम्। तानि च वाक्यान्युदाहरामः “विष्णुधरे “रोहिणी च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम!। जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिरिति” सनत्कुमारसंहिताम् “शृणुष्वाबहितो राजन्! कथ्यमानं मयानघ!। श्रावणस्य चमास स्य कृष्णाष्टम्यां नराधिप!। रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिरिति” स्कान्दे “प्राजपत्येन संयुक्ता अष्टमी तु यदा भवेत्। श्रावणे बहुले सा तु सर्वपापप्रणा शिनी। जयं पुण्यं च कुरुते जयां पुण्यां च तां विदु रिति”। विष्णुरहस्ये “अष्टमी कृष्णपक्षस्य रोहिणीऋक्षसंयुता। भवेत् प्रोष्ठपदे मासि जयन्ती नाम सा स्मृता” पौर्णमास्यन्तेषु मासेषु स्वीकृतेषु श्रावण्यां पूर्णिमायां श्रावणमासस्य समाप्तत्वात् उपरितनीं प्रतिपदमारभ्य भाद्रपदमास इत्यभिप्रेत्य प्रोष्ठपद इत्युक्तम्। विष्णुधर्मोत्तरे “प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी। सोपवासोहरेः कृत्वा तत्र पूजां न सीदतीति”। वशिष्ठसंहितायाम् “श्रावणे वा नभस्ये वा रोहिणीसहिताऽष्टमी। यदा कृष्णा नरैर्लब्धा सा जयन्तीति कीर्त्तिता। “श्रावणे न भवेद्योगो नभस्ये तु भवेद्ध्रुवम्। तयोरभावे योगस्य तस्मिन्वर्षे न सम्भवः” इति। अत्र श्रावण इति मुख्यः कल्पः। नभस्यैत्यनुकल्पः। यदि वा श्रावणे यदि वा नभस्ये, सर्वथाऽपि रोहिणीकृष्णाष्टमीयोगो जयन्तीत्येतदविवादम्। पुराणान्तरे “रोहिणी च यदा पक्षे कृष्णेऽष्टम्यां द्विजोत्तम!। जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिरिति”। तदेवमेतैः स्मृतिवाक्यैर्जयन्त्याः कृष्णाष्टमीरोहिणीयोगस्वरूपे सति पूर्वोदाहृतफलकामिनस्तादृशो येगो गोदोहन दध्यादिवद्गुणत्वेन विधीयते। काम्ये तु ज्योतिष्टोमे गुणविशेषो न कोऽपि फलाय विहितः। अतः काम्य ज्योतिष्टोमवैषम्याद्गोदोहनदध्यादिसाम्याच्च पूर्वोदाहृत फलवाक्यानि प्रकृते नित्ये जन्माष्टमीव्रते गुणफलप्रतिपादकत्वेनोपपद्यन्ते। तथा सति यथा दर्शपौर्ण्णमासाभ्या मन्यः कश्चित्पशुफलको गोदोहनसंज्ञको यागोनास्ति किन्तु गुणएव केवलं गोदोहनम्। तथा न जन्माष्टमीव्रतादन्यज्जयन्तीव्रतं किन्तु प्रकृतएव व्रतेऽयं फलाय गुणविधिरित्येवं प्राप्ते ब्रूमः। व्रतद्वयमिदं भवितुमर्हति कुतः? नामभेदात् १ निमित्तभेदात् २ रूपभेदात् ३ शुद्धमिश्रितत्वभेदात् ४ निर्द्देशभेदाच्च ५ तथाहि पूर्वोदाहृतेष्वकरणे प्रत्यवायप्रतिपादकस्मृतिवाक्येषु जन्माष्टमीव्रतमित्येव नाम व्यवहृतम्। तथा पूर्वोदाहृतेषु जयन्तीव्रतमिति नाम व्यवहारः। नामभेदाच्च कर्म्मभेदोज्योतिरधिकरणे व्यवस्थितः। तस्य चाधिकरणस्य संग्राहकावेतौ श्लीकौ भवतः। “अथैष ज्योतिरित्यत्र गुणो वा कर्म्म वा पृथक्। गुणः सहस्र दानात्मा ज्योतिष्टोमे ह्यनूदिते। अथेति प्रकृते च्छिन्न एतच्छब्दोऽग्रगं वदेत्। संख्ययेवान्यकर्म्मत्वमुत्पत्तिगतसंज्ञयेति”। अयमर्थः “अथैष ज्योतिरथैष विश्वज्योति रथैष सर्वज्योति र्हेतेन सहस्रदक्षिणेन यजेतेति” श्रुतम्। तत्र संशयः। किं प्रकृतएव ज्योतिष्तोमे सहस्र दक्षिणागुणविधिः उत यागान्तरविधिरिति। एष ज्योतिरेतेनेत्येताभ्यां एतच्छब्दाभ्यां प्रकृतं ज्योतिष्टोममनूद्य तत्र गुणविधिरिति पूर्ब्बः पक्षः। अर्थान्तरद्योतकेनाथशब्देन प्रकृतस्य ज्यतिष्टोमस्य विच्छेदः क्रियते। एतच्छब्दश्च प्रत्यासन्नं ब्रूते प्रत्यासत्तिश्च द्विविधा अतीता आगामिनी चेति। तत्रातीतायाः प्रत्यासत्तेर्विच्छेदे सति आगामिप्रत्यासत्तिपरत्वेनैतच्छब्दावुपपन्नो। तथाप्येककर्म्मत्वं मा भूत् कर्म्मभेदे तु किं प्रमाणमिति चेत्। अपूर्वसंज्ञेति वदामः। एष ज्योतिरित्यस्मिन्नुत्पत्तिवाक्ये पूर्ब्बप्रकृतकर्म्मविषयाया ज्योतिष्टोमसंज्ञाया अन्या ज्योतिरित्येषा संज्ञा श्रूयते। तत्र यथा पूर्ब्बाधिकरणे “सप्तदश प्राजापत्यान् पशूनालभेत” इत्यत्रोत्पत्तिवाक्यगतया संख्यया कर्म्मभोदो निरूपितः तथात्राप्युत्पत्तिगतया नूत नसंज्ञया कर्म्मभेदोऽभ्युपगन्तव्य इति एवं च सति प्रकृतेऽप्यनेन न्यायेनोत्पत्तिवाक्यगताभ्यां जन्माष्टमीव्रत जयन्तीव्रतसंज्ञाभ्यां वृतभेदोऽम्युपगन्तव्यः।। १।। तथा निमित्तभेदादपि व्रतभेदः। जन्माष्टमीव्रते तिथिरेव निमित्तं जयन्तीव्रते तु रोहिणीयोगः। ननु जन्माष्टमीत्यस्मिन्नपि व्यवहारे योग एव विवक्षितव्य नक्षत्र युक्तायामेव तिथौ देवकीनन्दनस्योत्पत्तेः, मैवम् तज्जन्मन्यष्टम्याएव प्रधानप्रयोजकत्वात् रोहिणी तद्योगयोर्विधीमानयोरपि बुधवारादिवदुपलक्षणत्वात्। अतएव शास्त्रेषु जन्माष्टमीत्येव समाख्यायते। अन्यथा जन्मरोहिणीति जन्मयोग इति वा समाख्यायेत क्वचित्सद्भावमात्रेण प्रयोजकत्वे बुधवारोऽपि प्रयोजकः स्यात्। अस्त्विति चेत् अतिप्रसङ्गात्। तज्जन्मकाले द्वापरावसानस्य संबत्सरविशेषस्य च सद्भावेन तयोरपि प्रयोजकत्वं केन वार्य्येत। तस्माज्जन्मन्यंष्टम्याएव प्राधान्यम्। तत्प्राधान्ये च श्रुतिलिङ्गादिषु षट्सु समाख्यारूपं षष्ठं प्रमाणमुपन्यस्तं वेदितव्यम्। तथा प्रत्यक्षादिषु सम्भवैतिह्यान्तेष्वष्टसु प्रमाणेष्वैतिह्यरूपमागम रूपं वा प्रमाणमुक्तं भवति। ननु निरर्थकोऽयं पञ्चवादलक्षणः कोलाहलः। यद्येकं व्रतं यदि नाम व्रतद्वयं तथाप्यनुष्ठाने कोविशेषः स्यात्। अस्त्येव महानतिशयः। यस्मिन् संवत्सरे श्रावणबहुलाष्टमीं परित्यज्यान्यस्मिन्नवम्यादौ रोहिणी भवति तस्मिन् संवत्सरे जयन्तीस्वरूपमेव नास्ति अतो जयन्तीव्रतस्य तत्र लुप्तत्वात्तस्यैव जन्माष्टमीव्रतत्वे तदपि न प्राप्नुयात्। भेदपक्षे त्वसत्यामपि जयन्त्यां जन्माष्टमीव्रतं तत्र प्रवर्त्तते इत्ययमनुष्ठानेऽतिशयः। भवत्वेवन्तथापि नोपन्यस्तो निमित्तभेदो व्रतभेदमावहति। कर्म्मभेदहेतुषु शब्दान्तराभ्याससंज्ञागुणप्रक्रियानामधेयेषु षट्सु प्रमाणेषु निमित्तस्यानन्तर्भावादिति चेत्, मैवम् तथाहि पूर्ब्बोक्तसंज्ञा भेद सम्पादितं व्रतभेदं निमित्तभेद उपोद्वलयति। तस्मादत्र निमित्तभेदाद्व्रतभेदः २
“तथा रूपभेदादपि ब्रतभेदोऽवगन्तव्यः। रूपभेदस्य कर्म्मभेदहेतुत्वमामिक्षाधिकरणे निरूपितम् तस्य चाधिकरणस्य संग्राहका वेतौ श्लोकौ भवतः “गुणः कर्म्मान्तरं वा स्याद्वाजिभ्यो वाजिनन्त्विति। गुणोदेवाननूद्योक्तः समुच्चयविकल्पने। आमिक्षोत्पत्तिशिष्टत्वात् प्रबला, तत्र वजिनम्। गुणोऽप्रविश्य कर्म्मान्यत् कल्पयद्वाजिदेवकमिति”। “तप्तेपयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति” श्रुतम्। अम्लदधिसम्बन्धात् क्षीरनीरयोर्विभेदे सति योघनीभूतः क्षीरभागः साऽऽमिक्षा तस्याश्च विश्वे देवा देवताः तत्र यत्पृथग्भूतं नीरं तद्वाजिनम् तस्य च वाजिनो देवताः। तच्चामिक्षाद्रव्यकं विश्वदेवदेवताकमेकं कर्म्म, तथा सति किमुपरितनेन वाजिभ्यो वाजिनमित्यनेन वाक्येन, पूर्वस्मिन्नेव कर्म्मणि वाजिनं गुणोविधीयते उत कर्म्मान्तरमिति संशयः। तत्र वाजो-ऽन्नमामिक्षा सा येषां देवानामस्ति ते वाजिन इति व्युत्पत्त्या प्रकृतान् देवाननूद्य वाजिनङ्गुणो विधीयते स चामिक्षया सह विकल्प्यते समुच्चीयते वेति पूर्वःपक्षः। उत्पत्तिशिष्टामिक्षागुणावरुद्ध्वस्य कर्म्मणो गुणान्तराकाङ्क्षाऽभावाद्वाजिनस्य तत्र प्रवेशासम्भवे सत्यन्यथानुपपन्नोयाजिनगुणो वाजिशब्दार्थस्य प्रकृतदेवताव्यतिरिक्त देवताकत्वं कल्पयित्वा कर्म्मभेदे पर्यवस्यतीति सिद्धान्तः। अत्र यथा द्रव्यदेवतालक्षणस्य यागरूपस्य भिन्नत्वात् कर्म्म भेदस्तथा प्रकृतेऽपि रूपभोदोऽभ्युपगम्यताम्। उपवासमात्रं जन्माष्टमीव्रतस्वरूपं तदुत्पत्तिवाक्ये तन्मात्रस्य प्रतीयमानत्वात्। ननु जयन्तीव्रतएवोपवासं कुर्य्यादित्युत्पत्तिवाक्यं स्मर्य्यते न तु जन्माष्टमीव्रते, वाढम्। तथा प्यत्र विधिरुन्नेतव्यः अन्नभोजने प्रत्यवायस्मरणानुपपत्तेः। स चोन्नीयमानो विधिरुपवासमात्रं विधत्ते न तु मण्डपनिर्माणजागरणप्रतिमादानादिकं, विधे रुन्नयने हेतुष्वकरणे प्रत्यबायबोधकवाक्येषु भोजननिषेधमात्रस्मरणात्। न हि तत्र निद्रायां दानाभावे वा प्रत्यवायः स्मर्य्यते। अत उपवासमात्रं तस्य स्वरूपं न तु दानादिकम्। अतएवाकरणे प्रत्यवायवाक्यशेषे जयन्तीप्रयुक्तदानादिशङ्काव्यावृत्तये केवलशब्दौपवासविशेषणत्वेन पठ्यते “केवलेनोपवासेन तस्मिन्जन्मदिने मम। शतजन्मकृतात् पापान्मुच्यते नात्र संशयः” इति। तस्माज्जन्माष्टमीव्रतस्योपवासमात्रं स्वरूपं, यदि शिष्टास्तत्र जागरणदानादिकमनुतिष्ठन्त्यनुतिष्ठन्तु नामाविरुद्धैः पुण्यविशेषैर्व्रतस्योपोद्वलनसम्भवात्। शास्त्रेण तु प्रापितमुपवासमात्रम्। जयन्तीव्रतस्य तु दानादिसहित उपवासः स्वरूपं तद्विधायकेषु शास्त्रेषु तथा विधानात्। तथा च वह्निपुराणे “तुष्ठ्यर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम्। कर्त्तव्यं विधिनानेन भक्त्या भक्तजनैरपीति”। भविष्योत्तरेऽपि “मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्ष गे। शशाङ्के वृषराशिस्थेऋक्षे रोहिणीसंज्ञके। योगेऽस्मिन् वसुदेवाद्धि देवकी मामजीनत्। तस्मान्मां पूजयेत्तत्र शुचिः सम्यगुपोषितः। ब्राह्मणान् भोजयेद्भक्त्या ततोदद्या च्च दक्षिणाम्। हिरण्यं मेदिनीं गाश्च वासांसि कुसुमानि च। यद्यदिष्टतमन्तत्तत् कृष्णो मे प्रीयतामिति”। भविष्य द्विष्णुधर्मोत्तरयोः “जयन्त्यामुपवासश्च महापातकनाशनः। सर्वैः कार्यो महाभक्त्या पूजनीयश्च केशवः” इति। वह्नि पुराणे “कृष्णाष्टम्यां भवेद्यत्र कलैका रोहिणी यदि। जयन्ती नाम सा प्रोक्ताउपोष्या सा प्रयत्नतः” इति। स्मृत्यन्तरेऽपि “प्राजापत्यर्क्षसंयुक्ता श्रावणस्यासिताष्टमी। वर्षेवर्षे तु कर्त्तव्या तुष्ठ्यर्थं चक्रपाणिनः” इति। नारदीयसंहितायाम् जयन्तीं प्रकृत्य स्मर्यते “उपोष्य जन्मचिह्नानि कुर्याज्जागरणं पुनः। अर्धरात्रयुताष्टम्यां सोऽश्वमेधफलं लभेदिति”। एवमेतेषु विधिवाक्येषु दानादियुक्त उपवासोजयन्तीब्रतरूपत्वेन प्रतीयते। अतोरूपभेदाद्व्रतभेदः ३।
तथा शुद्धमिश्रत्वभेदादपि द्रष्टव्यः अकरणे प्रत्यवायमात्रश्रवणाच्छुद्धं नित्यं जन्माष्टमीव्रतम्। करणे फलविशेषश्रवणदकरणे प्रत्यवायश्रवणाच्च नित्यत्वेन काम्यत्वेन च मिश्ररूपं जयन्तीव्रतम्। तत्र फल वाक्यानि पूर्व्वपक्षएव प्रसङ्गादुदाहृतानि। अकरणे प्रत्यवायश्च जयन्तीं प्रकृत्य कस्मिंश्चित्पुराणे स्मर्य्यते “अकुर्वन् याति नरकं यावदिन्द्राश्चतुर्दशेति”। स्कन्दपुराणेऽपि “शूदान्नेन तु यत्पापं शवहस्तस्य भोजने। तत्पापं लभते कुन्ति! जयन्तीविमुखो नरः”। “ब्रह्मघ्नस्य सुरापस्य गोबधे स्त्रीबधेऽपि वा। न लोकोयदुशार्दूल! जयन्तीविमुखस्य च। क्रियाहीनस्य मूर्खस्य परान्नं भुञ्जतीऽपि वा। न कृतघ्नस्य लोकोऽस्ति जयन्तीविमुस्वस्य च। न करोति यदा विष्णोर्जयन्तीसम्भवं व्रतम्। यमस्य वशमापन्नः सहते नारकीं व्यथाम्। जयन्तीवासरे प्राप्ते करोत्युदरपूरणम्। संपीड्यतेऽतिमात्रं तु यमदूतैः सुदारुणैः। काकोला आयसैस्तुण्डैः कुषन्त्यस्य कलेवरम्। योभुञ्जीत विमूढात्मा जयन्तीवासरे नृपेति”। तैरेतैरकरणे प्रत्यवायवाक्यैर्निष्यत्वं जयन्त्याः। नन्वेवमुक्तैरकरणे प्रत्यवायवाक्यैः केवलेनोपवासेनेति पापक्षयवाक्यात् जन्माष्टमीव्रतमपि नित्यकाम्यं स्यात् मैवम् पापक्षयफलत्वमात्रेण काम्यत्वे सन्ध्यावन्दनादेरपि काम्यत्वप्रसङ्गात्। अतः सत्यपि पापक्षये फलान्तरास्मरणेन केवलनित्यत्वं जन्माष्टमीव्रास्य युक्तम्। ततः शुद्धमिश्रभेदाद्ब्रतयोर्भेदः ४।
तथा निर्देशभेदादपि व्रतभेदो द्रष्टव्यः निर्देशभेदश्च भृगुवाक्ये दृश्यते “जन्माष्टमी जयन्ती च शिवरात्रिस्तथैव च। पूर्वविद्धैव कर्त्तव्या तिथिभान्ते च पारणमिति” यत्र जन्माष्टमी रोहिणी चेति पाठः तत्रापि रोहिणीशब्देन तद्युक्ता तिथिर्विवक्षिता न तु केवलरोहिणी, तस्मिन्वाक्ये निर्दिष्टयोः पूर्वोत्तरयोर्जन्माष्टमीशिवरात्र्योस्तिथित्वात्। यद्योकमेव व्रतं स्यात्तर्हि र्निदेशभेदोनोपपद्यते। ननु व्रतभेदेऽप्यस्त्रि दोषः यदां दिनद्वयेऽष्टमी वर्त्तते रोहिणी तूत्तरएव तदा पूर्वदिने जन्माष्टम्युपवासः परेद्युर्जयन्त्युपवास इति नैरन्तर्य्येणोपवासद्वयं प्रसज्यते प्रसज्यतां नाम प्रमाणवत्त्वादिति चेत् न परदिने भोजनोपवासलक्षणविरुद्धधर्म्मद्वयप्रसङ्गात्। उपवासस्याङ्गं पारणमिति हि वक्ष्यते। तथा च जन्माष्टम्युपवासाङ्गस्य पारणस्य जयन्त्युपवासस्य चैकत्र प्राप्तिः सोऽयमेकोदोषः। व्यतिरेकानुपलम्भश्चापरो दोषः। तथाहि यथा जयन्तीव्यतिरिक्ता जन्माष्टम्युपलभ्यते तथा जन्माष्टमीव्यतिरिक्तापि जयन्ती क्कापि वत्सरौपलभ्येत न त्वेवमुपलभ्यते अतोव्रत मेदोऽपि दुष्टएव। अत्रोच्यते न तावत्पारणोपवाससाङ्कर्यलक्षणोदोषोऽस्ति आघ्राणोदकपानादिना पारणे सम्पादितेऽप्युपवाससम्भवात् अन्यथा द्वादशीपारणत्रयोदशीव्रतयोः क्वचित्साङ्कर्य्यं केन वार्येत। नाप्युपवासद्वयनै रन्तर्य्यम् रोहिणीसंयोगसम्भवे जन्माष्टम्या अपि तत्रैव कर्त्तव्यत्वात् सर्वत्र तियिनक्षत्रयोगस्य केवलतिथेरुत्कृष्टत्रेन केबलायास्तिथेस्तत्रोपेक्षणीयत्वात्। अतएव व्यतिरेकानुपलम्भोऽप्यलङ्काराय नतु दोषाय जन्माष्टम्या रोहिणीनिरपेक्षत्वेन व्यतिरेक उपलभ्यतां नाम। जयन्त्यास्तु योगरूपत्वेन रोहिण्यामिवाष्टम्याअपि सापेक्षत्वेन् कथं व्यतिरेकाशङ्कावकाशः। तस्माद्व्रतद्वयपक्षे न कोऽप्यस्ति दोषः। किं च यदा रोहिणीयोगोऽस्ति तदा जन्माष्टमीजयन्त्योः सहयोगस्यावश्यम्मावित्वेन जयन्तीव्रतएव जन्माष्टमीव्रतमन्तर्भवति। तस्मादपि नोप वासद्वयप्रसङ्गः ५
तदेवं व्रतभेदे दोषाभावात्तत्साधकानाञ्च नामभेदाटीनां पञ्चानां सद्भावाद्व्रतभेदएवावश्यमभ्युप्येः। व्रतैक्यभ्रमस्तु तयोरुक्तयुक्त्यनुसन्धानाभावादष्टम्पुपवाससादृश्याच्च केषांचिदुदेति। सादृश्यं च गुणविकृतित्वादाश्रयाश्रयिभावाच्च सम्भाव्यते। यथा दर्शयागस्य गुणविकृतिः साकप्रस्थापीयोयागः। तत्र दर्शयागे यावन्तोऽङ्गाङ्गिविषयाः प्रयोगाः, ते सर्वेऽपि साकंप्रस्थापीये विद्यन्ते भेदस्तु स्वल्पएव भवति। दर्शयागे सान्नाय्यहविषोर्दधिपयसोः पृथगवदानम्। साकप्रस्थापीये सहैव तु प्रस्थापनम् एतावता भेदेन गुणविकृतिरित्यभिधीयते। तथाग्निष्टोमस्य गुणविकृतिरुक्थः। अग्निष्टेमे द्वादश स्तोत्राणि उक्थे च द्वादशभ्योऽधिकानि त्रीणि, ततो गुणाधि क्याद्ग णविकृतित्रम्। एवमत्रापि जन्माष्टम्यामपवासोऽनु- ष्ठेयः जयन्त्यां तु दानादिरधिकोगुणः। अतः सा गुण विकृतिः। आश्रयाश्रयिभावश्च ज्योतिष्टोमे तदङ्गाव रुद्धोपासने दृष्टः। तत्र ज्योतिष्टोम आश्रयः तस्या ङ्गान्युक्थादीनि आश्नितानि। तत्रोक्थं नाम वहृचाध्यायिना होत्रा शस्यमानं मरुत्वतीयनिष्कैवल्यादिनामकं शस्त्रम्। तच्चोक्थमाश्रित्य वह्वृचब्राह्मणोपनिषत्सूपासनानि विहितानि। तथाच श्रुतिः “उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवीति अहमुक्थमस्मीति विद्यादिति च” उद्गीथो नाम सामवेदिनोद्गात्रागीयमानः साम्नो भागविशेषः। तञ्चोद्गीथ्रमाश्रित्य छान्दोग्योपनिषत्सूपासनानि विहितानि “ओमित्येत दक्षरमुद्गीथमुपासीतेति”। एवं प्रकृतेऽपि जन्माष्टमी व्रते येयं श्रावणकृष्णाष्टमी तामाश्रित्य रोहिणीयोगनिमित्तं द्रानादिकं जयन्तीव्रते विधीयते। अतोगुणविकृति त्वेनाश्रयाश्रयिभावेन च सादृश्यसम्भवादनयोर्व्रतैक्य भ्रमो मन्दबुद्धीनां जायतां नाम प्रमाणन्यायदर्शिभिस्तु सर्वथैव व्रतभेदोऽङ्गीकार्य इति सिद्धम्।
यदेतद्विचारत्रयं पूर्वमुपक्षिप्तं व्रतभेदे तिथिनिणंयेवेधे चेति तत्र व्रतभेदो निर्णीतः। अथ तिथिर्निर्णेतव्या। तन्निर्णयश्च वेधाधीनः अतोवेधः पूर्वमभिधीयते। तिथ्यन्तरेष्वह्न एव प्रायेण कर्मकालत्वादुद्रयास्तमयवेलायां त्रिमुहूर्त्तवेधः सामान्येन निरूपितः। पञ्चम्यां तु विशेषतः षण्मुहुर्त्तवेधोदर्शितः जन्भाष्टस्या जयन्त्याश्च रात्रिप्रधानत्वाद्रात्रियोगोऽत्र प्रशस्तः। एतच्च जाबालिवृद्धगौतमाभ्यां दर्शितम् “अहःसु तिथयः पुण्याः कर्मानुष्ठानतोदिवा। नक्तादिव्रतयोगेषु रात्रियोगो विशिष्यत” इति। यद्यप्युपवासस्य व्रतत्वादहनि रात्रौ च मुख्यत्वं युक्तितः सामर्थ्यसिद्धं तथाप्यर्धरात्रस्य मुख्यकालत्वमुक्तं वशिष्ठसंहितायाम् “अष्टमी रोहिणीयुक्ता निश्यर्द्धे दृश्यतेयदि। मुख्यकाल इति ख्यातस्तत्र जातोहरिः स्वयमिति”। एवं सत्यर्द्धरात्रव्याप्तिरेवात्र कर्मकालव्याप्तिरित्यभिधीयते। एतदेवाभिप्रेत्य विष्णुरहस्ये पठ्यते “रोहिण्यामर्धरा त्रे तु यदा कृष्णाष्टमी भवेत्। तस्यामभ्यर्चनं शौरेर्हन्ति पापं त्रिजन्मजमिति”। तस्मिन्नर्द्धरात्रे कियत्परिमाणम पेक्षितमित्यपेक्षायामादित्यपुराणे दर्शितम् “अर्द्धरात्रादधश्चोर्ध्वं कलयापि यदा भवेत्। जयन्ती नाम सा प्रोक्तासर्वपापप्रणाशिनीति”। वराहसंहितायामपि “सिंहेऽर्के रोहिणीयक्ता नभःकृष्णाष्टमी यदि। रात्र्यर्द्धपूर्बा- परगा जयन्ती कलयापि चेति”। पूर्बं चापरञ्च पूर्बापरे रात्र्यर्द्धे च ते पूर्वापरे च रात्र्यर्द्धपूर्वापरे तयोर्गच्छति वर्त्तत इति रात्र्यर्द्धपूर्वापरगा। घटिकाया अशीत्यधिकशतमोभागः १८० कला तावता परिमाणेन पूर्वार्द्धावसाने उत्तरार्द्धादौ च वर्त्तमाना ग्रहीतव्या। खण्डतिथिरूपा कृष्णाष्टमी द्विविधा पूर्वेद्युः सप्तमीयुक्ता परेद्युर्नवमीयुक्ता चेति। तत्र सप्तमीयुक्तायां रात्रिपूर्वार्धावसाने कलासद्भावोविधीयते। उत्तरार्द्धादौ स्वतः सिद्वत्वेनाविधेयत्वात्तद्विपर्ययेण नवमीयुक्तायामुत्तरार्द्धादौ कलासद्भावो विधीयते तदा पूर्वार्द्धावसाने स्वतः सिद्धत्वादनुवादः पूर्वार्द्धावसानकलायाः सप्तमीयुत विषयत्वं, विष्णुधर्मोत्तरे स्पष्टमभिहितम् “रोहिणी सहिता कृष्णा मासि भाद्रपदेऽष्टमी। सप्तम्यामर्धरात्राधः कलयापि यदा भवेत्। तत्र जातो जगन्नाथः कौस्तुभी हरिरीश्वरः। तमेवोपवसेत् कालं कुर्यात्तत्रैव न्तागरमिति”। इयमष्टमी कृष्णपक्षादिमासविवक्षया भाद्रपदे भवति सैवाष्टमी शुक्लपक्षादिमासविवक्षया श्रावणे भवति। अतएव योगीश्वरः “रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी। अर्द्धरात्रादधश्चोर्ध्वं कलयापि यदा भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपाप प्रणाशिनीति”। कलाया अतिसूक्ष्मत्वेन दुर्लक्ष्यत्वात् स एव पक्षान्तरमाह। “अर्द्धरात्रादधश्चोर्ध्वमेकार्धघटिकाचिता। रोहिणी चाष्टमी ग्राह्या उपवासव्रतादिष्विति”। एका चार्द्धघटिका चैकार्धघटिके ताभ्यामाचिता। कलामपेक्ष्यार्धघटिका स्थूला। तामपेक्ष्य घटिका स्थूला। तत्रायमर्थः संपद्यते पूर्वभागावसाने एका घटिका उत्तरभागादौ चैका मिलित्वा तन्निशीथशब्दवाच्यं मुहूर्त्तं तावत्परिमाणं सर्वैरपि सुलक्ष्यत्वान्मुख्यः कल्पः। तदसम्भवेऽर्धवटिकान्वेष्टव्या। तस्याप्यसम्भवे कलेति तत्र मुख्यं पक्षमभिप्रेत्य भविष्योत्तरे “निशीथे कृष्णपक्षगे” इत्युक्तं तच्च वचनं साकल्येन पूर्वमुदाहृतम्। अत्र जयन्त्यां चन्द्रार्ष्यदानस्यावश्यकर्त्तव्यत्वात्तस्य च चन्द्रोदयकालीनत्वान्निशीथे योगः प्रशस्तः। एतदेव विष्णुधर्मोत्तरेऽभिहितम् “श्र्द्धरात्रे तु योगोऽयन्तारापत्युदये तथा। निथतात्मा शुचिः स्नातः पूजां तत्र प्रवर्त्तयेदिति”। सोऽयमर्धरात्रयोगो मुख्यः कल्पः। यस्तु कृत्स्नाहोरात्रयोगः सोऽयं मुख्यतरः। यश्च यदा कदाचिदीषद्योगः सोऽनुकल्पः। स च वशिष्ठसंहि- ताषयां दर्शितः “अहोरात्रं तयोर्योगोह्यसंपूर्णोभवेद्यदि मुहूर्त्तमप्यहोरात्रे योगश्चेत्तामुपोषयेदिति”। सोऽय जयन्तीव्रते योगनिर्ण्णयः। स एव जन्माष्टमीव्रतेऽपि द्रष्टव्यः। यस्मिन्वर्षे योगोनास्ति तस्मिन्वर्षे जन्माष्टमीव्रतमेकमेव प्रवर्त्तते तत्रापि नेतराष्टमीवद्दिवसवेधः किं त्वर्द्धरात्रवेधः। तथा च पुराणान्तरे “दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीकला। रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम्”। अन्यत्रापि “अष्टमी शिवरात्रिश्च ह्यर्द्धरात्रादधोयदि। दृश्यते घठिकाया सा पूर्वविद्धा प्रकीर्त्तितेति”। इति वेधीनिरूपितः। अथ ग्राह्यतिथिर्निरूप्यते सा च संवत्सरभेदेन द्विधा भवति रोहिणीरहिता रोहिणीयुक्ता चेति। तत्र या रोहिणीरहिताष्टमी सापिद्विविधा शुद्धा सप्तमीविद्धा चेति। सूर्योदयमारभ्य प्रवर्त्तमानाष्टमी शुद्धा निशीथासर्वाक् सप्नम्या कियत्यापि युक्ता विद्धा। शुद्धा पुनर्निशीथव्याप्त्यव्याप्निभ्यां द्विविधा तत्र निशीथव्यापिनी जन्माष्टमीव्रते मुख्या। “विशेषेणेन्दुसंयुतामिति” वचनात्। निशीथव्याप्निरहितापि “रात्रियुक्तां प्रकुर्वीतेति” वचनेन ग्रहीतव्या भवति। ननु पूर्वेद्युर्निशीथादूर्ध्वमारभ्य परेद्युर्निशीथादर्वाक् समाप्यते तस्या उभयत्र रात्रिसंबद्धत्वात् कुत्रोप्रवास इति चेत् परेद्युरिति व्रूमः उभयत्र निशीथठ्याप्त्यभावस्य रात्रिसम्बन्धस्य च तुल्यत्वेऽपि परेद्युः प्रातःसंकल्पकालमारभ्य वर्त्तमानतपा प्राशस्त्यं द्रष्टव्यम्। सप्तमीविद्धापि त्रिविधा। पूर्वेद्युरेव निशीथव्यपिनी परेद्युरेव निशीथव्यापिनी उभयत्र निशीथव्यापिनी चेति। तत्र प्रथमद्वितीययोः पक्षयोः निशीथव्याप्तेः प्रयोजकत्वेन या निशीथव्यापिनी सा “विशेषेणेन्दुसंयुतामिति” वचनेन ग्रहीतव्या भवति। या तु दिनद्वये निशीथठ्यापिनी तस्याम् उभयत्र निशीथयोगस्य रात्रियोगस्य च तुल्पत्वान्नानेन वचनेन निर्णयः सम्भवति नापि “कृष्णपक्षेऽष्टमी” इत्यादिभिरष्टमीमात्रमुपजीव्य प्रवृत्तैः निर्णेतुं शक्यते तेषामहर्वेधविषयत्वात्। अन्यथा व्रतान्तरेष्वपि निशीथवेधः प्रसज्येत तस्मान्न्यायः परिशिष्यते। न्यायश्च परेद्युरुपवासं प्रापयति, संकल्पकालमारभ्य तिथिसद्भावांत्। न च साकल्याभिधायिवचनेन पूर्वेद्युरपि संकल्पकाले तिथिरस्तीति शङ्कनीयम्। तस्यामुख्यतिथित्वाभावात्। किञ्च “सा तिथिः सकला ज्ञेया यस्यामस्तमितोरवि रिति” वचनं निशीथव्यापिनीमष्टमीं न विषयी रोति तस्मात्परेद्युरेवोपवासः। तदेवं चतुर्विधा रोहिणीरहिताष्टमी निर्ण्णीता। अथ रोहिणीसहिताष्टमी निर्णीयते सापि चतुर्विधा शुद्धा विद्धा शुद्धाधिका विद्धाधिका चेति। तत्र शुद्धायां संपूर्णयोगो निशीथयोगोयत् किञ्चिन्मुहूर्त्तयोगश्चेति त्रैविध्यं भवति। एवं विद्धा यामपि द्रष्टव्यम्। एतेषु षट्सु भेदेषु दिनान्तरे योगाभावादुपावासे सन्देहो नास्ति किंतु केवलं योगगततारत म्यात्प्राशस्त्यतारतम्यं भवति। यत्किञ्चिन्मुहूर्त्ते योगः प्रशस्तः अर्धरात्रयोगः प्रशस्ततरः सम्पूर्ण्णयोगः प्रशस्ततमः। सर्वेष्वपि योगेषु योगमुपजीव्य उपवासो विहितः विष्णुधर्म्मोत्तरे “प्राजपत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी। मुहूर्त्तमपि लभ्येत सोपेष्या सुमहाफला। मुहूर्त्तमप्यहोरत्रे यस्मिन् व्यक्तं हि लभ्यते। अष्टम्यां रोहिणीऋक्षं तां पुण्यां समुपावसेदिति”। शुद्धाधिका तु पूर्व्वेद्युः सूर्योदयमारभ्य प्रवृत्ता परेद्युः सूर्योदियमतिक्रम्येषद्वर्त्तते सा च त्रिविधा पूर्व्वेद्युरेव रोहिणीयुक्ता परेद्युरेव रोहिणीयुक्ता दिनद्वयेऽपि रोहिणीयुक्ता चेति तत्राद्ययोर्द्वयोः पक्षयोर्नास्त्युपवास सन्देहः रोहिणीयुक्ताया द्वितीयायाः कोटेरभावात्। तृतीयपक्षे तु रोहिणीयोगस्योभयत्र समानत्वेऽपि गुणाधिक्यात् पूर्व्वैवोपास्या गुणाधिक्यं च दर्शयिय्यते। येयमत्रोपोष्यत्वेनोक्ता पूर्वा तिथिः सापि रोहिणीयोगभेदात्त्रिधा भिद्यते अष्टमीवत्सूर्य्योदयमारभ्य प्रवृत्ता रोहिणी कदाचित्परेद्युरपि कियती वर्त्तते, कदाचित्पूर्ब्बेद्युर्निशीथमारभ्य रोहिणी प्रवर्त्तते। कदाचिन्निशीथादूर्द्ध्वमारभ्य प्रवर्त्तते। तत्र प्रथमपक्षे संपूर्ण्णत्वमेकोगुणः। संकल्पकालमारभ्य कृत्स्नकर्म्मकालव्याप्तिरपरोगुणः। निशीथव्याप्तिस्तृतीयोगुणः। नचैते त्रयोगुणाः परेद्युः सम्भवन्ति। द्वितीयपक्षे निशीथे जयन्तीसद्भावोगुण,। न च परेद्युः सोऽस्ति। तृतीयपक्षे दिनद्वयेऽपि निशीथयोगो नास्ति पूर्ब्बेद्युः केवलाष्टमी परेद्युः केवला रोहिणी। तत्राष्टम्याः प्राधान्यात्प्राबल्यमास्थेयम्। सर्वत्र हि जयन्तीवाक्येपु रोहिणीसहिताष्टमीति व्यवहारादष्टमीसहिता रोहिणीति व्यवहाराभावाच्च तिथिनक्षत्रयोः क्रमेण प्रधानोपसर्जनभावोऽवगन्तव्यः। अती गुणाधिक्या- च्छुद्धाधिका पूर्वैवोर्पाष्या। निशीथादर्वाक् सप्तम्या युक्ता परेद्युरपि विद्यमाना विद्धाधिका। नन्वत्र निशीथ वेधो ग्राह्य इत्युक्तम्। वाढं वेध्याया अष्टम्या निशीथ सद्भावोऽत्र निशीथवेधः न तु वेधिकाया सप्तम्याः निशीथसमये सद्भावः। विद्धाधिकायामपि पक्षत्रयम्। द्वयोः पक्षयोश्च सन्देहाभावः पूर्ब्बवद्योजनीयः। तत्र या पूर्ब्बेद्युरेव रोहिणीयुक्ता विद्धाधिका तस्यामुपवास आदित्यपुराणे स्मर्य्यते “विनाऋक्षं न कर्त्तव्या नवमी संयुताष्टमी। कार्य्या विद्धापि सप्तम्या रोहिणीसहिताष्टमीति”। विष्णुधर्म्मोत्तरेऽपि “जयन्ती शिवरात्रिश्च कार्य्ये भद्राजयान्विते। कृत्वोपवासं तिथ्यन्ते तथा कुर्य्यात्तु पारणमिति”। गारुडपुराणेऽपि “जयन्त्यां पूर्ब्बविद्धायामुपवासं समाचरेत्। तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वीत पारणमिति”। या परेद्युरेव रोहिणीयुक्ता विद्धाधिका तत्रोपवासः पूर्बतिथौ न युक्तः, रोहिणीयोगा भावात् परेद्युः तत्सद्भावात्पूर्बोदाहृतेन प्राजापत्येत्यादिना विष्णुरहस्यवचनेनोपवासोविधीयते। या तूभयत्र रोहिणीयुक्ता विद्धाधिका सापि निशीथे जयन्तीयोगमपेक्ष्य चतुर्धा भिद्यते। पूर्ब्बेदुरेव निशीथयोगवती। परेद्युरेव तादृशी, उभयत्रापि निशीथयोगसहिता तद्रहिता चेति। तत्र या पूर्ब्बेद्युरेव निशीथयोगवती सा पूर्बैवोपोष्या तदुक्तं पद्मपुराणे “कार्य्या विद्धापि सप्तम्या रोहिणी सहिताष्टमी। तत्रोपवासं कुर्वीत तिथिभान्ते व्य पारणचिति” अत्राविशिष्टेषु त्रिषु पक्षेषु परदिन एवोपवासः। तत्र दिनद्वये निशीथयोगमुपलक्ष्य ब्रह्मवैवर्त्ते पठ्यते “वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी! सा सर्क्षापि न कर्त्तव्या सप्तमीसहिताष्टमी। “अविद्धायान्तु मर्क्षायां जातो देवकीनन्दनः” इति। यदा दिनद्वयेऽपि निशीथयोगे परत्रोपवासस्तदा किमु वक्तव्यं परेद्युरेव निशीथयोगे। दिनद्वयेऽपि निशीथयोगराहित्यं बहुवा जायते। तद्यथा पूर्वेद्युर्निशीथादूर्द्ध्वं तिथिनक्षत्रद्वयं प्रवृत्तं तच्च परेद्यु र्निशीथादर्वागेव समाप्तमित्येकः प्रकारः! पूर्बेद्युर्निशीथादर्वागेव नक्षत्रं प्रवृत्तम् अष्टमी तु निशीथादूर्द्ध्वं प्रवृत्ता परेद्युर्निशीथादर्वाग् नक्षत्रं निवृत्तमित्यपरः। अष्टमी निशीथादर्वाक् प्रवृत्ता ऋक्षं च निशीथादूर्द्ध्वं प्रवृत्तम् अष्टम्याःपरेद्युर्निशीथादर्वागेव समाप्तिरिति तृतीयः। त्रिप्वप्येतेषु प्रकारेषु परैवोपोष्या दिनद्वयेऽप्यर्धरात्रयोगविषये पूर्वोदाहृतस्य “वर्जनीया प्रयत्नेन” इत्यादिवचनस्यात्राऽपि चारयितुं शक्यत्वात्। किञ्च प्रथमप्रकारे न्यावोऽप्युद्वलको भवति। सङ्कल्पकालमारभ्य तिथिनक्षत्रयोगस्य बहुकालव्यापित्वात् प्रशस्तत्वं द्रष्टव्यम्। द्वितीयप्रकारे परेद्युरष्टमीबाहुल्येऽपि नक्षत्रयोगस्याल्पत्वादनुपादेयत्वमित्याशङ्का न कर्त्तव्या। अतएव स्कन्दपुराणे पठ्यते “सप्रमीसहिताष्टम्यां भूत्वा ऋक्षं द्विजोत्तम!। प्राजापत्यं द्वितीपेऽह्नि मुहूर्त्तार्धं मवेद्यदि। तदाष्टयामिकं ज्ञेयं प्रोक्तं व्यासादिभिः पुरेति”। तृतीयप्रकारे परेद्युर्नक्षत्रबाहुल्येऽपि अष्टनीयोगस्याल्पत्वादनुपादेयत्व मित्याशङ्का भवति सा च पद्मपुराणेन निवर्त्त्यते “पूर्वविद्धाष्टमी या तु उदये नवमीदिने। मुहूर्त्तमपि संयुक्ता संपूर्णा साष्टमी भवेत्। कला काष्ठा मुहूर्त्ताऽपि यदा कृष्णा ष्टमी तियिः। नवम्यां सैव ग्राह्या स्यात् सप्तमीसंयुता न हीति”। तदेवं जन्माष्टमीभेदा जयन्तीभेदाश्च निरूपिताः। तत्र जयन्तीभेदेपूपवासदिने यदि बुधवारः सोमवासरोवा भवति तदा फलाधिक्यं भवति तदुक्तं पद्मपुराणे “प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः। यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता। किं पुनर्बुधवारेण सोमेनापि विशेषतः। किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदेति”। स्कन्दपुराणेऽपि “उदये चाष्टमी किंचिन्नवमी सकला यदि। भवेत्तु बुधसंयुक्ता प्राजापत्य क्षेसयुता। अपि वर्षशतेनापि लभ्यते यदि वा नवेति”। विष्णुधर्मोत्तरेऽपि “अष्टमी बुधवारेण रोहिणीसहिता यदा। भवेतु मुनिशार्दूल! किं कृतैर्व्रतकोटिरिति”।
यथीक्तरीत्या विहिततिथावुपवासं कृत्वा परेद्युः पारणेनोपवासं समापयेत् पार तीर-कर्मसमात्नाकित्यस्माद्धातोः निष्पन्नः पारणशब्दः। यद्यप्यसौ समाप्तिमात्रमभिधत्ते तथाप्युपवाससमप्नावेव लोकशास्त्रयोः प्रयोगात् पङ्कजादिशब्दवद्योगरूढोद्रष्टव्यः। तया च योगरूद्योपवासस्य चरमाङ्गं भोजनमभिधत्ते। अङ्गत्वञ्चोपवासविधिवाक्येषु “विथिभान्ते च पारणमिति” विधानादवगन्तव्यम्। न च रागप्राप्तस्य भोजनस्यानेन वचनेनोपवासाङ्गतिथि नक्षत्रयोनिप्रेधः क्रियते न तु पारणनामकं किञ्चिदङ्गं विधोयत इति शङ्कनीयम् तथासति पारणशब्द प्रग्रोगानुयपत्तेः रागप्राप्ते ह्यभ्यवहरणे भोजनशब्दः। तत्र पारणशब्देन रागप्राप्तमोजनविवक्षायां मुख्यार्धो पाधितः स्यात्। किञ्चयदि पारणमङ्गं न स्यात्तदा प्रतिनिधिविधानं नोपपद्येत। तद्विधानञ्च द्वादशीप्रस्तावे देवलेन स्मर्यते “संकटे विषमे प्राप्ते द्वादश्यां पारयत् कथम्?। अद्भिस्तु पारणां कुर्यात् पुनर्भुक्तं न दोषकृदिति”। अतः पारणशब्दबलात् प्रतिनिधिविधिबलाच्च पारणस्याङ्गत्वं द्रष्टव्यम्। अतएवादित्यपुराणे “पारणान्तं व्रतं ज्ञेयं व्रतान्ते न द्विभोजनम्। असमाप्ते व्रते पूर्वं नैव कुर्य्याद्व्रतान्तर मिति” तच्च पारणमुपवासदिनात् परदिनपूर्वाह्णे कर्त्तव्यम् “उपवासेषु सर्वेषु पूर्वाह्णे पारणं मवेदिति” देवल स्मरणात्। एवं सामान्यतः पूर्वाह्णे पारणप्राप्तौ क्वचिदपवादाय “तिथिमान्ते च पारणम्” इत्यभिधीयते। शुद्धाधिकायां पूर्व्वेद्युरेव जयन्तीयोगः उभयत्रापि वा जयन्तीयोग इत्यनयोः पक्षयोः पूर्व्वेद्युरेवोपवासविधानात् परेद्युः केवलतिथेस्तिथिनक्षत्रयोर्वा सद्भावात्तदन्ते पारणविधिः। तथा शुद्धाधिकयोर्विद्धाधिकयोरुभयोरपि यदा परेद्युरेव जयन्तीयोगस्तदा परतिथावुपवासविधानात्पारणदिने तिथ्यभावेऽपि कदाचिन्नक्षत्रावशेषसम्भवात्तदन्ते पारणं विधीयते तिथेर्वा नक्षत्रस्य वावशेषकाले पारणं ब्रह्मवैवर्त्ते प्रतिषिध्यते। “अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं क्वचित्। हन्यात्पुरा कृतं कर्म उपवासार्जितं फलम्। तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम्। तस्मात् प्रयत्नतः कुर्यात्तिथिभान्ते च पारणमिति”। स्कन्दराणेऽपि “तिथिनक्षत्रनियमे तिथिभान्तेच पारणम्। अतोऽन्यथा पारणे तु व्रतभङ्गमवाप्नुयादिति”। तिथिभान्तश्च द्विविध उभयान्त एकतरान्तश्चेति। दिनद्वये जयन्तीयोगवत्यां शुद्धाधिकायां परदिने अष्टमी मुहूर्त्तत्रयं नातिक्रामति रोहिणी तु पूर्वेद्युर्निशीथादर्वाग् यदा कदाचित् प्रवृत्ता तदनुसारेण परेद्युः समाप्येत। तत्र यदि दिवैव समाप्येत तदा तामतिवाह्यैव पारणं कुर्यात् उभयान्तस्य मुख्यत्वात्। यदि रात्रौ समाप्तिस्तदा तत्समाप्तर्न प्रतीक्षणीया रात्रिपारणस्य निषिद्धत्वात्। तथा च ब्रह्मवैवर्त्ते “सर्वेष्वेवोपवासेपु दिवा पारणमिष्यते। अन्यथा पुण्यहानिः स्यादृते धारणपारणमिति। अन्यतिथ्यागमोरात्रौ तामसस्तैजणो दिवा। तामसे पारणं कुर्वंस्तामसीं गतिमश्नुते” इति। दिवापारणं कुर्वन्नाप नाष्टमीवेलायां कुर्य्यात् एकतरान्तस्याभावात् अष्टमीमतिवाह्य रोहिण्यां वर्त्तनायाभपि पारणं कार्यम्। अतएव नारदीये “तियिनक्षत्रसंयोग उपवासोयदा भवेत्। पारणं तु न कर्त्तव्यं यावन्नैकस्व रुक्षयः”। सांयोगिके व्रते प्राप्ते यत्रैकोऽपि वियुज्यते। तत्रैव पारण कुर्यादेवं वेदपिदोविदुरिति”। पूर्व्वेद्युरेव निशीथे जयन्तीयोग वत्यां विद्धाधिकायां पारणदिने तिथिभान्तो बहुधा संभाव्यते। अहन्युमयान्तएकतरान्तोवा, रात्रावेकतरान्त उभयान्तोवेति। तेषु चतुर्षु भेदेषु निर्णयः स्मर्यते “तिथिऋक्षयोर्यदा च्छेदोनक्षत्रान्तमथापि वा। अर्द्ध रात्रेऽपि वा कुर्यात् पारणञ्च परेऽहनीति”। दिवसे यद्युभयान्तस्तदा पारणमिति मुख्यः कल्पः। नक्षत्रान्तसित्यनेनैकतरान्तत्वं विवक्षितम्। सोऽयमनुकल्पः। यदि रात्रौ निशीथादर्वागुभयान्त एकतरान्तो वा भवति तदा दिवसे मुख्यानुकल्पयोरुभयोरप्यसंभावाद्रात्रौ पारणस्य निषिद्धत्वाच्चार्थात्तत्राप्युषवासप्राप्तौ पारणस्य प्रतिप्रसवः क्रियते “अर्धरात्रेऽपि वा कुर्यादिति”। ननु पारणेऽष्टम्यन्तस्य प्रतीक्षणीयत्वेऽपि रोहिण्यन्तो न प्रतीक्षणीयः “याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रसंयुताः। ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम्” इति स्मरणात्। मैवम्। “नक्षत्रञ्च चतुर्गुणमिति” प्रत्यवा यस्योदाहृतत्वात्। तस्मात् “विना श्रवणरोहिणीमिति वचनं केवलनक्षत्रोपवासविषयं पूर्वोक्तानुकल्पविषयं वेत्यवगलव्यम्। अशक्तस्य तु तिथिनक्षत्नयोरुभयोरनुवर्त्तमानयोरपि प्रातर्देवं संपूज्य क्रियमाणं पारणं न दुष्यति। “तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वीत पारणमिति” स्मरणात्।
तत्र निष्कृष्टार्थस्तु तेनैव कारिकामिर्निबद्धोयथा “जयन्त्याख्यं व्रतं भिन्नं कृष्णजन्माष्टमीव्रतात्। शुद्धा च सप्तमोविद्धेत्येवं जन्माष्ठमी द्विधा। सप्तमी चेन्निशीथात् प्राग्विद्धा शुद्धाऽन्यथा भवेत्। शुद्धायां नास्ति सन्देहो विद्धा च त्रिविधेष्यते। निशीथयीगः पूर्वेद्युरुत्तरेद्युर्द्वयोरुत। पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः। अष्टमी रोहिणीयुक्ता जयन्ती सा चतुर्विधा। शुद्धा शुद्धाधिकेत्येवं विद्धा विद्धाधिकेति च। शुद्धायामपि विद्धायां न संभाव्योत्तरा तिथिः। शुद्धाधिकायां योगः स्यादेकस्मिन्वा दिनद्वये। नैकयोगेऽस्ति सन्देहो द्वियोगे प्रथमन्दिनम्। यदा निशीथे पश्चाद्वेत्युत्तमो मध्यमोऽधमः। योगस्त्रिधापि पूर्वेद्युः संपूर्णत्वादुपोषणम्। बिद्धाधिकायां प्रत्येकदिनयोगे स गृह्यताम्। द्वयोर्योगस्त्रिधामिन्नो निशीथवृत्तिभेदतः। तद्युक्तिर्दिन एकस्मिन्नु भयोर्नोभयोरिति। एकस्मिंश्चेत्तद्दिनं स्यात् पक्षयोरन्त्ययोः मरा। वुधे सोमे जयन्ती चेद्वारे साऽतिफलप्रदा। तिथ्यृ- क्षयोर्द्वयोरन्ते उत्तमं कारणं भवेत्। एकस्यान्त मध्यमं स्यादुत्सवान्तेऽधमं स्मृतम्। यस्मिन्वर्षे जयन्त्याख्यो योगो जन्माष्टमी तदा। अन्तर्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः। नोपवासद्वयं कार्यमुपोष्यन्तु परं दिनम्”। रघुनन्दनमते तु तद्व्यवस्था यथा “यत्रैकदिने जयन्तीलाभस्तत्रैवीपवासः। उभयदिने चेत्तदा परदिने। जयन्त्यलाभे च रोहिणींयुक्ताष्टम्याम्। उभयदिने रोहिणीयुक्ताष्टमीलाभे परदिने। रोहिण्यलाभे तु निशीथसम्बन्धिन्यामष्टम्याम्। उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिन इति। उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणम्। यदा तु महानिशायाः पूर्व्वमेकतरस्यावसानमन्यतरस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पारणम्। यदा महानिशायामुभयस्थितिस्तदोत्सवान्ते प्रातःपारण्णमति”। तत्प्रमाणवाक्यानि ति० त० जन्माष्टमीतत्त्वेऽनुसन्धेयानि माववरघुनन्दनमतयोर्युक्तत्वायुक्तत्वे सत्यपि देशविशेष वासिभिस्तत्तद्व्यवस्थे आदर्त्तब्ये एते च व्यवस्थे स्मार्त्तैरेवादर्त्तव्ये। वैष्णवैस्तु हरिभक्तिविलासाद्यनुसारिणी व्यवस्थादर्त्तव्या सा च जन्माष्टमीशब्दे दृश्या। कृष्णजन्माष्टमीशब्दोऽप्यत्र दर्शितकालमाधवीयग्रन्थे उदा० दृश्यम्।
कृष्णिका = स्त्री कृष्णोवर्ण्णो सूम्नाऽस्त्यस्य ठन् कृष्णैव संज्ञायां कन्वा। (राइसरिष्रा) राजसर्षपे हेमच०
कृष्णेक्षु = पु० कर्म्म०। (काजला) इक्षुभेदे कान्तारेक्षौ राजनि०। तद्गुणाः इक्षुशब्दे ९०९ पृ० उक्ताः
कृष्णोदर = पुंस्त्री० कृष्णमुदरमस्य। दर्वीकरसर्पभेदे “कृष्णसर्पो भहासर्पः कृष्णोदरः” इत्यादि दर्वीकरसर्पभेदौक्तौ सुश्रु०। अहिशब्दे विवृतिः स्त्रियां जातित्वात् ङीष्।
कृष्णोदुम्बरिका = स्त्री कृष्णस्यकाकस्य प्रिया उदुम्बरिका। काकोदुम्बरिकायाम् राजनि०
कृष्य = त्रि० कृष–कर्म्मणि अर्हार्थे क्यष्। कर्षणार्हे क्षेत्रादौ “कृष्यां दहन्नपि ननु क्षितिमिन्धनेद्धः” रघुः
कृसर = पु० कृ–सर किच्च बा० न षत्वम्। “तिलतण्डुल सम्पक्वः कृसरः सोऽभिधीयते” छ० प० उक्ते तिलखण्ड मिश्रिते पक्वे तण्डुले (खेचडी) कृतान्नभेदे स्त्री भावप्र० कृतान्नशब्दे दृश्यम्
***