कुव = न० कुं भूमिं वाति गच्छति वा–क, कुङ् शब्दे कूउवञ् वा। १ जलजे, पुष्पमात्रे, २ उत्पले च हेमच०।

कुवकालुका = स्त्री कुवमिव कायति कै–क आलुका। घोलीशाके। राजनि०

कुवङ्ग = न० ईषद् वङ्गं गुणेन। सीसके राजनि०।

कुवचस् = त्रि० कुत्सितं वचोऽस्य। १ कुत्सितवादकथके अमरः कुगतिस०। २ परीवादकथने न०। कुवाक्मादयोप्यत्र न०।

कुवज्र = न० कुत्सितं वज्रं हीरकमिव कायति कै–क। वैक्रान्तमणौ राजनि०।

कुवम = पु० कौ पृथिव्यां वमति वर्षति जलं वम–अच्। १ सूर्य्ये “कुलं कुलञ्च कुवमः कुवमः कश्यपोद्विजः” भा० आनु० ९३ अ० “कुः पृथिवी तस्यां वमति वर्षतीति कुवमआदित्यः “आदित्याद् जायते वृष्टिरिति” श्रुतेः सर्वोऽप्यादित्योऽहमेव मत्तएव सर्व्वेषामादित्यानामुत्पत्तेः” नीलकण्ठः। कुपपीः इति पाठान्तरे” सूर्य्यएवार्थः। कुत्सितं वमति। २ निन्दितवमनकारके त्रि०

कुवर = पु० कुत्सितं व्रियते वृ–अप्। १ तुवरे २ कषाये २ तद्वति त्रि० रायमुकुटः

कुवल = न० कौ वलति वल–अच्। १ उत्पले २ मुक्ताफले च मेदि० ३ वदर्य्यां स्त्री० गौरा० ङीष्। तस्याः फलम् अण् लुक्। ४ वदरीफले न०। कौ वलनात्। ५ जले। ६ सर्पोदरे च न० कुबलेशयः। प्रस्थे परे समासे कर्क्यादि० अस्य नादुदात्तता। तस्य पाकः पील्वादि० कुणच्। कुवलकुण तत्पाके पु०।

कुवलय = न० कोर्वलयमिव शोभाहेतुत्वात्। १ उत्पले, अमरा २ श्वेतोत्पलेनीलोत्पले राजनि० “कस्त्वं साधो! कुवलयदलश्यामविस्तीर्णदृष्टे! इत्युद्धवदूतम्। ततः तारका० इतच्। कुवलयित जातकुवलये त्रि०। “कुवलयित गवाक्षालोचनैरङ्गनानाम्” रघुः। कोर्वलयम् ६ त०। ४ भूमण्डले न० “यतो भूवलयं सर्व्वं श्रान्तोऽयं विचरिष्यति। अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति” इत्युक्त निरुक्तियुते ५ असुरभेदे पु०।

कुवलयानन्द = पु० कुवलयं भूमण्डलसानन्दयति आ + नन्द–अण उप० स०। चन्द्रालोकस्यालङ्कारमयूखव्याख्याने अप्यदीक्षितकृते ग्रन्थभेदे ६ त०। २ कुमुदस्यानन्दे च। “अमुं कुवलयानन्दमकरोदप्पदीक्षितः। नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः। चन्द्रालोकोविजयतां शरदागमसम्भवः। हृद्यः कुवलयानन्दोयत्प्रसादादभूदयम्”। तद्ग्रन्थसमाप्तौ “तस्माच्च कुवलयानन्दः स्वग्रन्थोऽभूत् कुवलयस्यकुमुदस्यानन्दैति च श्लेषैति” चन्द्रिका

कुवलयापीड = त्रि० कुवलयमापीडः भूषणं यस्य। नीलोत्पलभूषणवति १ जने कंसासुरस्य हस्तिरूपधारिणि २ दैत्यभेदे पु०। “नागं कुवलयापीडं चाणूरं मुष्टिकं तथा। कंसञ्च बलिनां श्रेष्ठं सगणं देवकीसुतः। न्यहनत् गोपवेशेन क्रीडासक्तोहि केशवः” हरिवं० १०६ अ० “राजा कुवलयापीडः समाजद्वारि कुञ्जरः। तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमुपाययौ” हरि० ८६ अ०

कुवलयाश्व = पु० कुब(व)लाश्वनामके धुन्धुमारे नृपभेदे। स्वार्थे क तत्रार्थे “वृहदश्वस्तु श्रावन्तिस्ततः कुवलयाश्वकः। यः प्रियार्थसुतङ्कस्य धुन्धुनामासुरं बली। सुतानामेकविंशत्या सहस्रैरहनद्युतः। धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः। धुन्धुर्मुखाग्निना सर्व्वे त्रयएवावशेषिताः” भाग० ९। ६। १८। १९। कुबलाश्वशब्दे तच्चरितादि।

कुवलयिनी = स्त्री कुवलयानां संवः खलादि० इनि। उत्पलिन्याम् राजनि०।

कुवलाश्व = पु० कौ पृथिव्यां वलते वल अच् तादृशोऽश्वोऽस्य। कुवलयाश्वे धुन्धुमारे नृपभेदे।

कुवलेशय = पु० कुवले जले शेते शी–अच् ७ त० अलुक्स०। विष्णौ “कुमुदः कुवलेशयः” विष्णुस०। “क्षितौ वलनात् सञ्चलनात् कुवलं जलं तस्मिन् शेषोदरे शेते इति कुवलेशयः, कुबलं वदरीफलं तन्मध्ये शेते कुवलेशयः तक्षकः सोऽपि भगवतोविभूतिरिति वा हरिः कुवलेशयः। कौ भूमौ वलति संव्रीयते सर्पाणामुदरं कुवलं तस्मिन् शेषोदरे शेते इति कुवलेशय इति” भाष्यम्।

कुवाद = त्रि० कुत्सित वदति अण्। अपरदोषकथनशोले। अमरः। भावे घञ् कुगतिस०। २ कुत्सितवादे।

कुबाहुल = पुंस्त्री वहति कु + वह–वा० उलञ्। उष्ट्रे शब्दचन्द्र० स्त्रियां ङीष्।

कुवि(चि)क = पु० भूम्नि देशभेदे अयञ्च देशः वृह० सं० कूर्म्मविभागे ऐशान्यामुक्तः। “ऐशान्यामित्युपक्रमे कुनटखषधोषकुचि(वि) काख्याः” इति

कुविद् = अव्य० कुः भूमिरिव विद्यते ज्ञायते बाहुल्यात् विद–भावे क्विप् ६ त०। १ बाहुल्ये ३ प्रशंसायाञ्च। चादिगण व्याख्याने मनोरमा। उच्चैर्वत् ३ तद्वभि च “कुवित्सस्य प्रहि व्रजम्” ऋ० ६। ४५। २४। “कुविद्वहुशः स्यति हिनस्ति” भा० “कुविन्नो अस्य वचसः” ऋ० २। १६। ७ कुविद्वहु” भा०। “स त्वष्टा चुक्रोध कुविन्मे पुत्र मबधीत्” शत० व्रा० १। ६३। ६। “कुविदङ्ग नमसा वृधासः” ऋ० ७। ९१। १। कुविदिति बहुनाम। अङ्गेति क्षिप्रनास कुविद्बहुशोऽङ्ग क्षिप्रं कृतेन नमसा” भा०। “कुविद् अङ्ग” इति पदग्रन्थेपदद्वयतया विभागः। एतेन कुविदङ्गेति एकशब्दकल्पनं चिन्त्यम्। कुत्सितं बेत्ति विद–ज्ञाने कर्त्तरि क्विप्। ४ कुज्ञानवति त्रि०।

कुविद्या = स्त्री कुगतिस०। १ निन्द्यविदायाम्। ब०। २ तद्वति त्रि०

कुविद्यास = त्रि० कुविद्यां स्यति हिनस्ति सो–क। कुविद्या निरासके। ततः कृशाश्वादिषु विकुट्यासेत्यत्र पाठान्तरेऽस्य पाठात् चतुरर्थ्यां छण्। कौविद्यासीय तत्सन्निकृष्टदेशादौ त्रि०।

कुविन्द = पुंस्त्री कुं भूं कुत्सितं वा विन्दति विद–श। तन्तुवाये शूद्रागर्भे विश्वकर्म्मणो जाते जातिसङ्करभदे अमरः

कुविम्ब = पु० न०। कोर्विम्बं कुत्सितं विम्बं वा। १ भूमण्डले २ निन्दितमण्डले च त्रिका०

कुविवाह = पु०। कुगतिस० वर्ण्णभेदेन निन्दनीयविवाहे मनुना वर्ण्णभेदेन ब्राह्माद्यष्टविवाहेषु निन्द्यानिन्द्यत्वमुक्तं यथा

“चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान्। अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत” मू० “चतुर्णामिति। चतुर्णामपि वर्णानां व्राह्मणादीनां परलोके इह लोके च कांश्चित् हितान् कांश्चिदहितान् इमान् अभिधास्यमानान् अष्ट संक्षेपेण भार्य्याप्राप्तिहेतून् विवाहान् शृणुत” कुल्लूकभट्टटीका

“ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः। गान्धर्वो राक्षसश्वैव पैशाचश्चाष्टमोऽधमः” मू० “त एते नामतो निर्द्दिश्यन्ते ब्राह्म इति। ब्राह्मराक्षसादिसंज्ञा चेयं शास्त्रादौ संव्यवहारार्था स्तुतिनिन्दाप्रदर्शनार्था च। ब्रह्मण इवायं ब्राह्मः रक्षस इवायं राक्षसः नतु ब्रह्माद्रिदेवताकत्वं विवाहानां सम्भवति। पैशाचस्याधमत्वाभिधान निन्दातिशयार्थम्” टी०

“यो यस्य धर्म्म्यो वर्णस्य गुणदोषौ च यस्य यौ। तद्वः सर्व्वं प्रवक्ष्यामि प्रसवे च मुणागुणान्” मू० “य इति। धर्म्मादनोपेतो धर्म्म्यः यो विवाहो यस्य वर्णस्य धर्म्म्योयस्य विवाहस्य यौ गुणदोषौ इष्टानिष्टफले तत्तद्विवाहोत्पन्नापत्येषु ये गुणागुणास्तत् सर्व्वं युष्माकं प्रकर्षेणामिधास्यामि। वक्ष्यमाणानुकोर्त्तनमिदं शित्याणां सुखग्रहणाथम्” टी० “षडानुपूर्व्व्या विप्रस्य क्षत्त्रस्य चतुरोऽवरान्। विट्शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान्” मू० “षडिति। ब्राह्मणस्य ब्राह्मादिक्रमेण षट्। क्षत्रियस्य, अवरानुपरितनानासुरादींश्चतुरः, बिट्शूद्रयोस्तु तानेव राक्षसवर्जितानासुरगान्धर्व्वपैशाचान् धर्म्मादनपेतान् जानीयात्” टी०

“चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः” मू० “चतुर इति। ब्राह्मणस्य प्रथमपठितान् ब्राह्मादींश्चतुरः, क्षत्त्रियस्य राक्षसमेकमेव, वैश्यशूद्रयोरासुरमेतान् श्रेष्ठान् ज्ञातारो जानन्ति। अतएव ब्राह्मणादिष्वासुरादीनां पूर्ब्बविहितानामप्यत्रानुपादानं जघन्यत्वज्ञापनार्थं तेन प्रशस्तविवाहासम्भवे जघन्यस्यापि परिग्रह इति दर्शितम्। एवमुत्तरत्रापि विगर्हितपरित्यागो बोद्धव्यः” टी०

“पञ्चानान्तु त्रयो धर्म्म्या द्वावधर्म्म्यौ स्मृताविह। पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन” मू० “पञ्चानामिति। इह पैशाचप्रतिषेधादुपरितनानां प्राजापत्यादीनां ग्रहणम्। तेषु मध्ये प्राजापत्यगान्धर्व्वराक्षसास्त्रयो धर्म्मादनपेता। तत्र प्राजापत्यः क्षत्त्रियादीनामप्राप्तो विधीयते व्राह्मणस्य विहितत्वादनूद्यते। गान्धर्व्वस्य च चतुर्णामेव प्राप्तत्वादनुवादः। राक्षसोऽपि वैश्यशूद्रयोर्व्विधीयते ब्राह्मणस्य क्षत्त्रियवृत्त्यवस्थितस्यापि, आसुरपैशाचौ न कर्त्तव्यौ। कदाचनेत्यविशेषाच्चतुर्णामव निषिध्यते। अत्र यं वर्णं प्रति यस्य विवाहस्य विधिनिषेधौ तस्य तं प्रति विकल्पः सच विहितासम्भवे बोद्धव्यः” टी०

“पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्व्वचोदितौ। गान्धर्व्वो राक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ” मू० “पृथिगिति। पृथक्पृथगिति प्राप्तत्वादनूद्यते। मिश्राविति विधीयते। पृथक्पृथक् मिश्रौ वा पूर्व्वविहितौ गान्धर्वराक्षसौ क्षत्त्रस्य धर्म्म्यौ मन्वादिभिः स्मृतौ। यदा स्त्रीपुंसंयोरन्योन्यानुरागपूर्ब्ब कसंवादेन परिणेता युद्धादिना विजित्य तामुद्वहेत्तदा गन्धर्वराक्षसौ मिश्रौ भवतः” दी० “कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च। कुलान्य कुलतां यान्ति ब्राह्मणातिक्रमेण च” मनुः दुर्विवाहा दथोऽप्यत्र “जायन्ते दुर्विवाहेषु ब्रह्मधर्म्मद्विषः सुताः। अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा” मनुः।

कुवृत्ति = स्त्री० कुगतिसमा०। १ निन्दिताचरणे २ ईयच्चरणे च ब० ब०। ३ तद्युक्ते त्रि०

कुवृत्तिकृत् = पु० कुवृत्तिमीषदावरणरूपं चरणं करोति कृ–क्विप् (का~टाकरम्चा) १ करञ्जभेदे शब्दचि०। २ निन्दितचेष्टाकारके त्रि० शब्दचि०

कुवेणि(णी) = स्त्री ईषत् वेणन्ते मत्स्या अस्याम् वेण–इन्, वा ङीप्) मत्स्यधान्याम् (खालुइ) अमरः

कुवेर = न० कुत्सितं वेरमस्य। धनदे उत्तरदिक्पाले देवभेदे कुबेरशब्दे विवृतिः कुवेरोत्पत्यादिकं रामा० उ० का० ३ स० वर्ण्णितं यथा “ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामनिः। ददौ विश्रवसे भार्यां स्वसुतां देवयर्णिनीम्। प्रतिगृह्य तु धर्मेण भरद्वाजसुतान्तदा। प्रजान्वीक्षिकया बुद्ध्या श्रेयोह्यस्य विचिन्तयन्। मुदा परमया युक्तो विश्रवा मुनि पुङ्गवः। स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम्। जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्वृतम्। तस्मिन् जाते तु संहृष्टः स बभूव पितामहः। दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति। नाम चास्याकरोत् प्रीतः सार्द्धं देवर्षिभिस्तदा। यस्माद्विश्रवसोऽपत्यं सादृश्या द्विश्रवा इव। तस्माद्घैश्रवणो नाम भविष्यत्येष विश्रुतः। स तु वैश्रवणस्तत्र तपोवनगतस्तदा। अवर्धताहुति हुतो महातेजा यथाऽनलः। तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः। चरिष्ये परमं धर्मं धर्मो हि परमा गतिः। स तु वर्षसहस्राणि तपस्तप्त्वा महावने। यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः। पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत्। जलाशी मारुताहारो निराहारस्तथैव च। एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत्। अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह। गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्। परितुष्टोऽस्मिते वत्स! कर्मणाऽनेन सुव्रत!। वरं वृणीष्व भद्रन्ते वरार्हस्त्वं महामते!। अथाब्रवीद्वैश्रवणः पि- तामहमुपस्थितम्। भगवन्! लोकपालत्वमिच्छेयं लोकरक्षणम्। अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा। ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्। अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः। यमेन्द्रवरुणानाञ्च पदं यत्तव चेप्सितम्। तद्गच्छ वत्स! धर्मज्ञ! निधीशत्वमवाप्नुहि। शक्राम्बुपयमानाञ्च चतुर्थस्त्वं भविष्यसि। एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम्। प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज। स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्। कृतकृत्या वयं तात! दत्त्वा तव वरद्वयम्। इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह। गतेषु ब्रह्मपूर्बेषु देवेष्वथ नभस्तलम्। धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान्। भगवन्! लब्धवानस्मि वरमिष्टं पितामहात्। निवासनं न मे देवो विदधे स प्रजापतिः। तं पश्य भगवन्! कञ्चिन्निवासं साधु मे प्रभो!। न च पीडा भवेद्यत्र प्राणिनोयस्य कस्य चित्। एवमुक्तस्तु पुत्रेण विश्रवा मुनि पुङ्गवः। वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तम!। दक्षिणस्योदधेस्तीरे त्रिकूष्टो नाम पर्वतः। तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा। लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा। राक्षसानां निवासार्थं यथेन्द्रस्यामरावती। तत्र त्वं वस भद्रन्ते लङ्कायां नात्र संशयः। हेमप्राकारपरिखायन्त्रशस्त्रसमावृता। रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा। राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः। शून्या रक्षोगणैः सर्वै रसातलतलङ्गतैः। शून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते। स त्वं तत्र निवासाय गच्छपुत्र! यथासुखम्। निर्दोषस्तत्र ते वासो न बाधस्तत्र कस्य चित्। एतच्छ्रुत्वा स धर्मात्मा धर्मिष्ठं वचन पितुः। निवासयामास तदा लङ्कां पर्वतमूर्धनि। नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा। अचिरेणैव कालेन संपूर्णा तस्य शासनात्। स तु तत्रावसत् प्रीतो धर्मात्मा नैरृतर्षभः। समुद्रपरिखायां स लङ्कायां विश्रवात्मजः। काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः। अभ्यागच्छद्विनीतात्मा पितरं मातरञ्च ह।”

कुवेरक = पु० कुवेर इव कायति कै–क। १ नन्दोवृक्षे अमरः स्वार्थे क। २ धनदे ३ नन्दीवृक्षे मेदि० ४ अर्हदुपासकमेदे हेम०

कुवेराक्षी = स्त्री० कुवेरस्याक्षीव पिङ्गपुष्पत्वात् षच् समा० ङीष्। १ पाटलावृक्षे अमरः २ लताकरञ्जो राजनि०

कुवेराचल = पु० ६ त०। कैलासपर्वते त्रिका० कुवेरपर्वतादयोऽप्यत्र पु०

कुवेल = न० कुवेषु जलजपुष्पेषु मध्ये ईं शोभां लातिला–क। उत्पले हेमच०

कुवैद्य = पु० कुगतिस०। सुश्रुताद्युक्तक्रियोल्लङ्घनेन स्वेच्छया विपरीताचारिणि वैद्येतल्लक्षणदोषादिकं सुश्रुते उक्तं यथा “यस्तु केवलशास्त्रज्ञः कर्म्म स्वपरिनिष्ठितः। स मुह्यत्यातुरम्प्राप्य प्राप्यं भीरुरिवाहवम्। यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः। स सत्सु पूजां नाप्नोति बधं चार्हति राजतः। उभावेतावनिपुणावसमर्थौ स्वकर्म्मणि। अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ। ओषध्योऽमृतकल्पास्ते शस्त्राशनिविषोपमाः। भवन्त्यज्ञैरुपहतास्तस्मादेतौ विवर्जयेत्। छेद्यादिष्वनभिज्ञो यः स्नेहादिषु च कर्म्मसु। स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः। यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने। आहवे कर्म्म निर्वोढुं द्विचक्रः स्यन्दनो यथा” “कुवैद्ये कितवे शठे। चाटचारणदासेषु दत्तं भवति निष्फलम्” स्मृतिः

कुश = द्युतौ इदित् वा चुरा० पक्षे भ्वादि० पर० सक ० सेट्। कुंशयति ते कुंशति अचुकुंशत्–त अकुंशीत्। कुंशयां बभूव आस चकार चक्रे चुकुंश। प्रनिकुंशति

कुश = श्लेषे दि० पर० सक० सेट्। कुश्यति। अकुशत्–अकोशीत्। चुकोश। कुक्षिः कोशः

कुश = पु० न० कौ शेते शी–क, कुं पापं श्यति शो–ड वा। १ स्वनामख्याते तृणे अमरः। “कुशोन्मृष्टगर्भक्लेदवति २ रामसुते “रिपुनागाङ्कुशं कुशमिति” रघुः। ३ योत्त्रे, च पु० मेदि० घृतसमुद्रेणावृते ४ द्वीपभेदे पु०। ५ जले न० मेदि०। कुशेशयः। ६ सर्पोदरे शङ्कराचार्य्यः “कौशं बर्हिः” कात्या० १। २। १२ तस्यासंस्कृतकुशार्थतामाह “बर्हिःकौशं कुशा दर्भाः तस्येदं कौशं कुशमात्रमेव बर्हिःशब्देनोच्यते न संस्काराः, कुतः? अन्वयव्यतिरेकाभ्यां जातिवाचित्वाद्वर्हिःशब्दस्य, यत्र यत्र बर्हिःशब्दप्रयोगस्तत्रतत्र जातिरित्यस्या व्याप्ते र्लोके बेदे च नास्ति व्यभिचारः, संस्कारव्याप्तेस्तु लौकिक प्रयोगे व्याभिचारो दृश्यते क्कचिद्देशविशेषे लौकिकव्यवहारे जातिमात्रमुपजीव्य विना संस्कारं बर्हिःशब्दः प्रयुज्यते बर्हिरादाय गावो गता इति तस्माज्जाति वाची बर्हिःशब्दः। असंस्कृतं कुशमात्रं बर्हिःशब्देनोच्यत इत्यर्थः। प्रयोजनं बर्हिषि प्राञ्च्युदञ्चि च प्रास्यती त्यादौ संस्कारा न कर्त्तव्याः। स्मृतौ कुशाभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः। काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचिताः। दर्भाभावे स्वर्ण्णरूप्यताम्रैः कर्म्मक्रियाः सदा। कुशकाशशरा दूर्वायवगोधूमवाल्वजाः। सुवर्णं रजतं ताम्रं दश दर्भाः प्रकीर्तिताः। स्नाने होमे तथा दाने स्वाध्याये पितृतर्पणे। सपवित्रौ सदर्भौ वा करौ कुर्व्वीत नान्यथा। सर्वेषां वा भवेद्द्वाभ्यां पवित्रं ग्रथितं न वा। सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत्। नोच्छिष्टं तत् सदर्भं च दर्भोच्छिष्टं तु वर्जयेदिति” कर्कः कर्म्माङ्गकुशलक्षणादिकं श्रा० त० आह यथा

“ब्रह्मपुराणे “सपिञ्जलाश्च हरिताः पुष्टाः स्निग्धाः समाहिताः। गोकर्णमात्राश्च कुशाः सकृच्छिन्नाः समूलकाः। पितृतीर्थेन देयाः स्युर्दूर्व्वा श्यामाक एव च। काशाः कुशा बल्वजाश्च तथान्ये तीक्ष्णरोमशाः। मौञ्जाश्च शाद्वलाश्चैव षड्दर्भाः परिकीर्त्तिताः”। तीक्ष्णरोमशा इति वल्वजानां विशेषणं तेन तेषामलाभे “शूकतृणशरशीर्षयुत्तवल्वजोलपशुण्ठवर्जं सर्व्वतृणानीति” गोमिलेन तद्व्यतिरिक्तवल्वजानां निषेधोबोद्धव्यः। सपिञ्जलाः साग्राः स्निग्धा अकर्कर्शाः पुष्टा न सूक्ष्माः समाहिता निर्दोषाः शाद्वला इति मौञ्जस्य विशेषणम्। शूकानि फलपुष्पमञ्जर्य्य स्तायेषां तृणानां सन्ति तानि शूकतृणानीति भट्टनारायणचरणाः। गोकर्णमात्रा विस्तृताङ्गुष्ठानामिकापरिमिताः। विष्णुः “कुशस्थाने काशं दूर्व्वां वा दद्यादिति” कृतमुष्टिहस्तपरिमिताः कुशाः प्रस्तरणार्थाः तथाच वायुपुराणम् “रत्निप्रमाणाः शस्ता चै पितृतीर्थेत संस्कृताः। उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तराः”। वर्ज्यकुशानाह हारीतः “चितौ दर्भाः पथि दर्भाः ये दर्मा यज्ञभूमिषु। स्तरणासनपिण्डेषु षड्दर्भान् परिवर्जयेत्। पिण्डार्थं ये स्तृता दर्भा यैः कृतं पिवृतर्पणम्। मूत्रोच्छिष्टप्रलेपे तु त्यागस्तेषां विधीयते”। छन्दोगपरिशिष्टम् “धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते। नीवीमध्ये च ये दर्भा व्रह्मसूत्रे च ये धृताः। पवित्रांस्तान् विजानीयाद्घथा काय स्तथा कुशाः। आचम्य प्रयतो नित्यं पवित्रेण द्विजोत्तमः। नोच्छिष्टन्तु भवेत्तत्र भुक्तशेषं विवर्जयेत्’। अत्र विशेषः निर्ण्णयसिन्धौ पृथ्वीचन्द्रोदये तद्ग्रहणकालमाह दक्षः “समित्पुष्यकुशादीनां द्वितीयः परिकीर्तितः। अष्टधा विभक्तदिनस्य द्वितीयोभाग इत्यर्थः। तत्रैव यमः “समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि। मूलेन लोकान् जयति शक्रस्य सुमहात्मनः” व्यासः “तर्पणादीनि कार्याणि पितॄणां यानि कानि चित्। तानि स्युर्द्विगुणैर्दर्भैः सप्तपत्रैर्विशेषतः” शालङ्कायनः “सपिण्डीकरणं यावदृजुदर्भैः पितृक्रिया। सपिण्डीकरणादूर्ध्वं द्विगुणैर्विधिवद्भवेत्” शङ्खः “अनन्तर्गर्भिणं साग्रङ्कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रिचित्” हारीतः “पवित्रं ब्राह्मणस्यैव चतुर्भिर्दर्भपिञ्जलैः। एकैकं न्यूनमुद्दिष्टं वर्णेबर्णे यथाक्रमम्”। स्मृत्यर्थसारे “सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रथितं नवम्” रत्नावल्याम् “द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः” हेमाद्रौ स्कान्दे “अनामिकाधृता दर्भाह्येकानामिकयापि वा। द्वाभ्यामनामिकाभ्यां तु धार्ये दर्भपवित्रके” पवित्राभावे तु तत्रैव सुमन्तुः “समूलाग्रौ विगर्भौ तु कुशौ द्रौ दक्षिणे करे। सव्ये चैव तथा त्रीन्वै बिभृयात् सर्वकर्मसु”। बौधायनः “हस्तयोरुभयोर्द्वौद्वावासनेऽपि तथैव च” दर्भग्रहणे मन्त्रमाह शङ्खः “विरिञ्चिना सहोत्पन्न! परमेष्ठिनिसर्गज!। नुद सर्वाणि पापानि दर्भ! स्वस्तिकरोभव”। स्मृत्यर्थसारे “हुम्फट्कारेण मन्त्रेण सकृच्छित्त्वा समुद्धरेत्” भरद्वाजः “प्रेतक्रियार्थं पित्रर्थमभिचारार्थमेव च। दक्षिणाभिमुखश्छिन्द्यात् प्राचीनावीतिकोद्विजः”। कुशाभावे अपरार्के सुमन्तुः “कुशाः काशाःशरो गुन्द्रोयवा दूर्वाऽथ वल्वजाः। गोकेशमुञ्जकुन्दाश्च पूर्वाभावे परः परः”। काशादौ विशेषमाह शङ्खः “काशहस्तस्तु नाचामेत्कदाचिद्विधिशङ्कया। प्रायश्चित्तेन युज्येत दूर्वाहस्तस्तुथैव च” पृथ्वीचन्द्रोदये यमः “मासि मास्युत्द्धृता दर्भा मासि मास्येव चोदिताः”। षड्त्रिंशन्मते “मासेमासेत्वमावास्यां दर्मो ग्राद्ध्योनवः स्मृतः” गृह्यपरिशिष्टे “ये च पिण्डा श्रिता दर्भा यैः कृतं पितृतर्पणम्। अमेध्याऽशुचिलिप्ता ये तेषां त्यागो विधीयते” लघुहारीतः “पथि दर्भाश्चितौ दर्भाये दर्भायज्ञभूमिषु। स्तरणासनपिण्डेषु षट् कुशान् परिवर्जयेत्। ब्रह्मयज्ञे च ये दर्भा ये दर्भाः पितृतर्पणे। हतामूत्रपुरीषाभ्यान्तेषां व्यागो विधीयते” हेमाद्रौ “अन्यानि च पवित्राणि कुशदूर्वात्मकानि च। हेमात्मकपवित्रस्य ह्येकां नार्हन्ति वै कलाम्” भाद्रामावास्यागृहीतदर्भस्यायातयामतामाह हेमा० श्रा० ख० हारीतः “मासे नभस्यमावास्या तस्या दर्भोच्चयो मतः। अयातयामास्ते दर्भां विनियोज्याः पुनः पुनः” तस्योत्पत्तिरुक्ता भाग० ३, २० अ० “बर्हिष्मती नाम पुरी सर्व्वसम्पत्समन्विता। न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः। कुशकाशास्तत्र चासन् शश्वद्धरितवर्च्चसः। ऋषयोयैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे”। पूजादौ तस्य तत्प्रतिनिधेर्वा धारणमावश्यकम् यथाह वरदातन्त्रे १ प० “पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः। तर्ज्जन्या रजतं धार्य्यं स्वर्ण्णं धार्य्यमनामया। कुशकार्य्यकरं यस्मान्नतु वन्याः कुशाः कुशाः। कुशेन रहिता पूजा विफला कथिता मया” सधवायास्तद्धारणनिषेधमाह ब्राह्मणसर्व्वस्वे स्मृतिः। “न स्पृशेत् तिलदर्भांश्च सधवा तु कथञ्चन”। तत्पर्य्यायभेदादिकं भावप्र० उक्तं यथा “कुशोदर्भस्तथा बर्हिः सूच्यग्रोयज्ञभूषणम्। ततोऽन्योदीर्घपत्रःस्यात् क्षुर पत्रस्तथैव च। दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम्। मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्”। “एते लूनशिखास्तस्य दशनैरचिरोद्गतैः। कुशकाशाविराजन्ते वटवः सामगाइव”। रामपुत्रकुशस्य नामनिरुक्तिसहितोत् पत्तिकथा रामा० उत्त० का० ६६ स० यथा “यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्। तामेव रात्रिंसीतापि प्रसूता दारकद्वयम्। ततोऽर्धरात्रसमये बालका मुनिदारकाः। वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम्। भनवन्! रामपत्नीसा प्रसूता दा रकद्वयम्। ततोरक्षां महातेजः! कुरु भूतविनाशिनीम्। तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत्। बालचन्द्र प्रतीकाशौ देवपुत्रौ महौजसौ। जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ। भूतघ्नीञ्चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम्। कुशमुष्टिमुपादाय लवञ्चैव तु स द्विजः। वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्। यस्तयोः पूर्ब्बजोजातः स कुशैर्मन्त्रसत्कृतैः। निर्मार्ज नीयस्तु तदा कुश इत्यस्यनाम तत्। यश्चावरो भवेत्ताभ्यां लवेन स समाहितः। निर्माजनीयोवृद्धाभिर्लवेति च स नामतः। एवं कुशलवौ नाम्ना ताबुभौ यमजातकौ। मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः। ता रक्षाञ्जगृहुस्तां च मुनिहस्तात् समाहिता!। अकुर्वंश्च ततोरक्षान्तयोर्विगतकल्मषाः। तथा तां क्रियमाणां च वृद्धाभिर्गोत्रनाम च। सङ्कीर्तनञ्च रामस्य मीतायाः प्रसवौ शुभौ”। “मयाप्तं रामत्वं कुशलवसुता नत्वविगता” सा० द०। कुशद्वीपमानस्थानाद्युक्तं विष्णु० पु० यथा

“सुरोदकः परिवृतः कुशद्वीपेन सर्व्वतः। शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः। ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्व तान्। उद्भिदोरेणुमांश्चैव सुरथोलम्बनो धृतिः। प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षविश्रुतिः। तस्मिन् वसन्ति मनुजाः सह दैतेयदानवैः। तथैव देवगन्धर्व्वयक्षकिम्पुरुषादिभिः। वर्णास्तत्राऽपि चत्वारो निजानुष्ठानतत्पराः। दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने!। ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्चानुक्रमोदिताः। यथोक्तकर्म्मकर्तृत्वात् स्वाधिकारक्षयाय ते। तत्र यत्तत् कुशद्वीपे ब्रह्मरूपं जनार्द्दनम्। यजन्तः क्षपयन्नग्र्यमधिकारफलप्रदम्। विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा। कुशेशयो हरिश्चैव सप्तमो मन्दराचलः। वर्षाचलास्तु सप्तैव तत्र द्वीपे महामुने!। नद्योऽपि सप्त तासाञ्च शृणु नामान्यनुक्रमात्। धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा। विद्युद्धस्ता मही चैव सर्वपापहरास्त्विमाः। अन्याः सह स्रशस्तत्र क्षुद्रनद्यस्तथाचलाः। कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम्। तत्प्रमाणेन स द्वीपो वृतोदेन समावृतः”। भाग० ५, २० अ० अन्यथैवायं वर्ण्णितः यथा

“एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथा पूर्व्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्द्वीपाख्यापनो ज्वलन इवापरः सुशस्परोचिषस्ता दिशोविराजयति। तद्द्वीपपतिः प्रियब्रतो राजन्! हिरण्यरेता नाम स्वंद्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत्! वसुवसुदानदृढरुचिनाभिगुप्तसत्यव्रतविप्रनाम देवनामभ्यः तेषां वर्षेषु सीमागिरयोनद्यश्चाभिज्ञाताः सप्तैव। बभ्रुश्चतुःशृङ्गकपिलश्चित्रकूटोदेवानीक ऊर्द्धरोमा द्रविण इति। रसकुल्या मधुकुल्या मित्रविन्दा श्रुतिविन्दा देवगर्भा घृतच्युता मन्द्रमालेनि यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलक संज्ञा भगवन्तं जातवेदसरूपिणं कर्म्मकौशलेन यजन्ते”। कल्पभेदान्नामभेदः समाधेयः। कुशद्वीपोऽप्यत्र पु० “कुशोऽभूत् काञ्चनः कौशे स्वयम्भूश्चितिमर्हति”। कुत्सिते आचरणे शेते शी–ड। ७ पापिष्ठे ८ मत्ते च त्रि० भेदि०। ९ नृपभेदे पु० “अजकस्य तु दायादो वलाकाश्वो महीपतिः। बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्” हरि० २७ अ०

कुशकण्डिका = स्त्री कुशैः कण्डिकेव। वैदिकाग्निसंस्कारभेदे स च वेदिभेदेन भिन्नः तत्प्रकारश्च ऋग्विदिनाम् कालेशीकृते, यजुर्वेदिनाम् पशुपतिकृते, सामवेदिनां भयदेवभट्टकृते ग्रन्थे उक्तः संक्षेपेण तुलादानादिपद्धतौ तदनुसारिप्रकारोऽस्माभिर्दर्शितः। पृषो० कस्य लोपे कुशण्डिकाऽप्यत्र स्त्री “सर्व्वेषामाहुतियुक्तकर्म्मणाम् कुशण्डिकासंस्कृताग्निसाध्यत्वात् सैव प्रथमसभिधीयते” भवदेवः

कुशकाश = न० नित्यः समाहारद्व०। कुशकाशानां समाहारे क्वचित् इतरेतरसमास आर्षप्रयोगे दृश्यते यथा “इमे लूनशिखास्तस्य दशनैरचिरोद्गतैः। कुशकाशा विराजन्ते वटवः सामगाइव” विष्णुपु० इति केचित्। कुशसहिताः काशा इत्येव तत्र वाक्यमित्यन्ये

कुशधारा = स्त्री० नदीभेदे

कुशध्वज = पु० जनकस्य नृपस्यानुजे भ्रातरि। “तस्य पुत्रद्वयं जज्ञे धर्म्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजोवीरोमम भ्राता कुशध्वजः” रामा० आ० का० ७१ स० “जनकोक्तिः। तस्य राज्यञ्च साङ्काश्यनगरआसीत् यथोक्तं तत्रैव “साङ्काश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्”। “भ्राता यवीयान् धर्म्मज्ञ ऐषराजा कुशध्वजः” सच भरतशत्रुघ्नयोः श्वशुरः तत्कथा तत्रैव ७२ सर्गे दृश्यां “निमिवंशज जनकस्यात्मजे नृपभेदे “स्वर्ण्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत। ततः सीरध्वजोजज्ञे यज्ञार्थं कर्षतो महीम्। सीता सीराग्रतोजाता यस्मात् सीरध्वजः स्मृतः। कुशध्वजस्तस्य पुत्रस्ततो धर्म्मध्वजो नृपः” इति भाग० ९। १३। १२। अनयोर्विरोधः कल्पभेदात् समाधेयः “पार्थिवीमुद्वहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्म्मिलाम्। यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे” रघुः

कुशनाभ = पु० कुशैव नाभिरस्य अच् समा०। वलाकाश्व पौत्रे कुशपुत्रे नृपभेदे “अजकस्य तु दायादो वलाकाश्वो महीपतिः। बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्। कुशपुत्रा बभूबुर्हि चत्वारोदेववर्चसः। कुशिकः कुशनाभश्च कुशाश्वो मूर्तिमांस्तथा” हरिवं २७ अ०। कन्याकुब्जशब्दे तच्चरितानि दर्शितानि तस्य राजधानी महोदयनामपुरं यथा रामा० आदि० ३२ स० “कुशनाभस्तु धर्म्मात्मा पुरां चको महोदयम्”।

कुशनेत्र = पु० मारीचिपुत्रभेदे असुरे “शुश्रूषुश्चण्डशक्तिश्च कुशनेत्रः शशिध्वजः। यथामति मया प्रोक्ताः मारीचेः कीर्तिवर्द्धनाः” हरिवं० २४० अ०

कुशप = न० कुश–बा० कपन्। पानपात्रे उणादिकोषः

कुशपुष्प = न० कुशाकारं पुष्पमस्य। १ ग्रन्थिपर्णे वृक्षे रत्नमा०। कुशाश्च पुष्पाणि च समा० द्व०। २ कुशपुष्पाणां समाहारे “कुशपुष्पं समिद्वारि ब्राह्मणः स्वयमाहरेत्” स्मृतिः

कुशप्लवन = न० भारतप्रसिद्धे तीर्थभेदे “कुशप्लवनमासाद्य ब्रह्मचारी समाहितः। त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्” भा० व० ८५ अ०

कुशर = पु० कुत्सितः शरः। शरसदृशे अन्तश्छिद्रे तृणभेदे ऋ० भा० माधवः “शरासः कुशरास” अ० ६। १९१। ३१।

कुशल = न० कुश–कलन्। १ कल्याणे। २ तद्वति त्रि०। कुशान् लाति ला–क। ३ कुशग्राहके त्रि०। कौ पृथिव्यां शलति चलयति कर्य्याणि शल–अच्। ४ कार्य्यचतुरे त्रि०। अस्य च कुशग्राहकत्वे यौगिकत्वम् चतुरे लाक्षणिकत्वमिति काव्यप्रकाशकारआह तदेतन्मतं सा० द० निराकृत्य दक्षतायां रूढत्वमस्य व्यवस्थापितं यथा “केचित् तु “कर्म्मणि कुशलः” इति रूढावुदाहरन्ति। तेषामयमभिप्रायः। “कुशं लाति” इति व्युत्पत्तिलभ्यः कुशग्राहिरूप्रो मुख्योऽर्थः प्रकृतेऽसम्भवन् विवेचकत्वसाधर्म्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति”। तदन्ये न मन्यन्ते। कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽप्रि दक्षरूपस्यैव मुख्यार्थत्वात्। अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम्। व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे “गौः शेते” इत्यत्रापि लक्षणा स्यात्। “गमेर्डोः” इति गमधातीर्डोप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि प्रयोगात्”। अत्रेदमभिदध्महे। “गसेर्डोरिति औणादिकडोप्रत्ययान्तस्य गोशब्दस्य “उणादयोऽव्युत्पन्नाः प्रातिपदिकानि” पा० उक्तत्वात् न यौगिकतासम्भवः अवयवलभ्यार्थाभावात् अतस्तस्य गवादौ रूढतैव! “आतोऽनुपसर्गे कः” पा० उक्तेकप्रत्ययस्य कृत्त्वेन व्युत्पन्नत्वात् अवयवार्थलभ्यार्थसत्त्वान्न गोशब्दतुल्यता “किञ्च उणादीनां व्युत्पन्नत्वपक्षेऽपि गोशब्दस्यावयवार्थयोगात् पङ्कजादिपदवत् अर्थविशेषे योगरूढत्वं गोशब्दे वक्ष्यते। अतएव गोशब्दस्य रूढत्यकल्पनमत्युत्पन्नत्वपक्षमाश्रित्यैवेति विवेव्यमिति। मण्डपशब्दस्य मण्डपानकर्त्तृतात्- पार्य्यकत्वे यौगिकता जनाश्रयपरत्वे रूढत्वमिव कुशल शब्दस्य रूढयौगिकत्वमेव युक्तम् “पप्रच्छ कुशलं राज्ये” रघुः। “मयाप्तं रामत्वं कुशलवसुता न त्वधिगता” सा० द०। “प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव” माघः। “तदनुप्रवेशमथ वा कुशलः” माघः। कुश + अस्त्यर्थे सिध्मा० लच्। ५ कुशयुक्ते त्रि०। ततः अस्त्यर्थे इनि। कुशलिन् तद्युक्ते त्रि० स्त्रियां ङीप्। “कुशलिनी वत्सस्य वार्त्ताऽपि न” सा० द०। “माञ्च कुशलिनी ब्रूयाः” भा० उ० १३६ अ०। शौण्डा० एतस्य ७ त०। कर्म्म कुशलः। श्रेण्यादि० अभूततद्भावार्थे समा०। कुशलकृतः कुशलभूतः। अनेन सह कुमारशब्दस्य समासे कुमारस्य विशेष्यत्वेऽपि श्रमणादि० परनिपातः। कुमार कुशलः। ततः ब्राह्मणादि० कर्म्मणि भावे च ष्यञ्। कौशल्य दक्षतायाम् न०। युवा० तदर्थे अण्। कौशल तदर्थे “योगः कर्म्मसु कौशलम्” गीता।

कुशलत = पु० द्वि०। पुष्पवतोरिव एकशक्त्या रामसुतयोः हेमच०

कुशलिन् = त्रि० कुशल + अस्त्यर्थे इनि। कल्याणवति। “कुशलिनी वत्सस्य वार्त्तापि न” सा० द०।

कुशली = स्त्री कुशैव लीयते ली–ड गौरा० ङीष्। अश्मन्तकवृक्षे वैद्य०।

कुशविन्दु = पु० भूम्नि देशभेदे। “वातायना दशार्ण्णाश्च रोमकाः कुशविन्दवः” भा० भी० ९ अ० जनपदकथने।

कुशस्थल = न० कुशप्रधानं स्थलम्। १ कान्यकुब्जदेशे हेमच०। “कुशस्थलं वृकस्थलं माकन्दं वारणावतम्। देहिमे चतु ग्रामान् कञ्चिदेकञ्च पञ्चमम्” वेणीसं० २ पुरीभेदे स्त्री ङीष् जटाधरः सा च प्राक् रेवतनृपेण निर्म्मिता पश्चात यदुभिः संस्कृता यथा हरिवं० १३३ अ० “इति सञ्चित्य सर्वे च प्रतीचीं दिशमाश्रिताः। कुशस्थलीं पुरीं रम्यां रेवतेनोपशोभिताम् “विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्। कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः” हरिवं० ३६ अ०। “आनर्त्तविषयश्चासीत् पुरी तस्य कुशस्थली” हरिवं० १० अ०।

कुशा = स्त्री कुश–क। १ रज्ज्वां मेदि० २ मधुकर्कट्याम् शब्दच० ३ वल्गायां हेमच०। कुशाशब्दे परे अयसः सत्वम् अयम्सहिता कुशा अयस्कुशा सि० कौ०। सामगानां स्तोत्रीयगणनार्थे औदुम्बरे ४ शङ्कौ च शब्दचि०।

कुशाकर = पु० कुशैराकीर्य्यते समन्तादग्रेण मूलाच्छादनेन वेष्ट्यतेऽत्र आ + कॄ–आधारे अप्। यज्ञाग्नी। स हि कुशकण्डिकायां कुशैराव्रियते।

कुशाक्ष = पुंस्त्री कुशैव सूक्ष्माग्रमक्षि अस्य षच् समा०। वानरे शब्दमाला

कुशाग्र = न० ६ त०। कुशस्याग्रे। “कुशाग्रेणापि कौन्तेय! न स्प्रष्टव्यो महोदधिः” भा० व० ११० २३ श्लो०। कुशस्या ग्रमिव सूक्ष्मत्वात्। २ कुशाग्रतुल्यसूक्ष्मे ३ अतिदुर्बोधग्राहके “कुशाग्रबुद्धे। कुशली गुरुस्ते” रघुः। कुशाग्रमिव इवार्थे छ। कुशाग्रीय कुशाग्रतुल्ये त्रि० “कुरु बुद्धिं कुशाग्रीयामनुकामीनतां त्यज” भट्टिः।

कुशादिक = मावप्रकाशोक्ते तैलभेदे यथा कुशाग्निमन्थशैरीयनलदर्भेक्षुगोक्षुराः। कपोतवङ्कावसुकवसिरेन्दीवरीशराः। धातक्यरलुवन्दाकाः कर्णपूराश्मभेदकाः। एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत्। पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना। शर्कराश्मरिरोगेषु मूत्रकृच्छ्रे च दारुणे। प्रदरे योनिशूले च शुक्रदोषे तथैव च। वन्ध्यागर्भकरं प्रोक्तं तैलमेतत् कुशादिकम्”।

कुशाम्ब = पु० निमिवंश्ये नृपभेदे कुशनृपसुते। “कुशनाभशब्दे हरिवं० वाक्यम्” रामा० उ० ३२ स० “ब्रह्मयोनिर्महानासीत् कुशोनाम महातपाः” इत्युपक्रमे “स महात्मा कुलीनाबां युक्तायां सुमहारथान्। वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान्। कुशाम्बं कुशनाभञ्च असूर्तरजसं वसुम्” नामभेदः कल्पभेदात् अविरुद्धः। “प्रत्यग्रयः कुशाम्बश्च यमाहुर्मणिवाहनम्” भा० आ० ६३ अ० कुशाम्बेन निर्वृत्ता अण् ङीप्। तत्कृतपुरीभेदे “कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम्” रामा० उ० ३२ स० निर्गतः कौशाम्ब्याः निष्कौशाम्बिः सि० कौ०। कुशाम्बस्यापत्यं शुभ्रा० ढक्। कौशाम्बेय तदपत्ये पुंस्त्री०।

कुशारणि = पु० कुशं जलं शापार्थमुदकमरणिरिवास्य। दुर्वाससि मुनौ त्रिका० तस्य शापजलेनैव सर्वनाशकत्वात् तथात्वम्।

कुशाल्मलि = पु० कुत्सितः शालमलिः। रोहितकवृक्षे। राजनि०

कुशावती = स्त्री कुश–अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः। रामात्मजकुशस्य राजधान्याम् पुर्य्याम्। “स निवेश्य कुशावत्यां रिपुनागाङुशं कुशम्”। “कुशावतीं श्रोत्रियसात् स कृत्वा” रघुः। रामा० उ० का० तु कोशलेष्वे वैतदभिषेकोवर्ण्णितः। “कोशलेषु कुशं वीरमुत्तरेषु तथा सवम्। अभिषिच्य महात्मानाबुभौ रामः कुशीलवौ”। अतोरघुवाक्यं पुराणान्तरानुसारीति विवेच्यम्।

कुशावर्त = पु० कुशस्य जलस्यावर्त्तोयत्र। गङ्गावतारतीर्थे “गङ्गा द्वारे कुशावर्त्ते विल्वके नीलपर्वते। तथा कणखले सात्वा धूतपाप्मा दिवं व्रजेत्” भा० आनु० १७०० श्लो०। “उपगम्य कुशावर्त्त आसीनं तत्त्ववित्तमम्” भाग० ३। २०। ५। “कुशावर्त्ते गङ्गाद्वारे” श्रीधरः। २ भरतनृपपुत्रभेदे। “तमनु कुर्शावर्त इलावर्त्तो ब्रह्मावर्त्तो मलयः केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः” भाग० ५। ४। १०। तद्राज्यत्वात् कुशावर्त्तस्य तत्संज्ञत्वम्।

कुशाश्व = पु० सूर्य्यवंश्ये नृपभेदे “सृजञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवाम्। कुशाश्वः सहदेवस्य पुत्रः परमधार्म्मिकः” रामा० आ०

कुशासन = न० कुशैर्निर्म्मितमासनम्। कुशनिर्म्मिते आसने “कुशासनमनन्तरम्” श्राद्धक्रमः। तत्स्वरूपादि श्रा० त० “अथ कुशासनम् तत्र गोभिलः “पित्र्ये द्विगुणांस्तु दर्भान् पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान् वा सर्वत्रासनेषु दर्व्भानास्तीर्य्येति” पित्र्ये पित्रर्थदाने तत्रादौ जलगण्डूषप्रक्षेपः। ततोद्वि गुणभुग्नकुशपत्रत्रयं पितॄणामासनार्थं दद्यात् एतच्च आदौ विश्वदेवपक्षे कृत्वा पितृपक्षे कर्त्तव्यं तथा च याज्ञवल्क्यः “पाणिप्रक्षालनं दत्त्वा उषन्तस्त्वेत्यृचा पितॄन्”। प्रक्षाल्यतेऽनेनेति प्रक्षालनं जलं तेन तूष्णीं ब्राह्मणपाणौ जलंदत्त्वा विष्टरार्थमासनार्थमिति दीपकलिका। कुशान् ऋजून दद्यात्। व्यक्तमाहाश्वलायनः “अपः प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदाय” इति आसनमित्यनेनोपवेशनीयत्वप्रतीते र्हस्तं तददानं प्रतीयते। तथाच कार्ष्णाजिनिः “दर्भांश्चैवासने दद्यान्न तु पाणौ कदा चन। पितृदेवमनुष्याणामेवं तृप्तिर्हि शाश्वती”। अत्र पितृदेवमनुष्येभ्योऽपि कुशासनदानं प्र तीयते। अत्र दैविकत्वेन कुशानां ऋजुत्वमिति विशेषः। देवपितृविप्रवोर्दक्षिणवामयोः कुशासनस्यापनमाह श्रा द्धसूत्रभाष्यधृतवचनम्। “पितॄणामासनं दद्याद्वामपार्श्वे कुशान् सुधीः। दक्षिणे चैव देवानां सर्वत्र श्राद्धकर्म्मसु”। कोः पृथिव्या २ शासने च। अब्राह्मणोऽपि कुशासनसहितः”

कुशिंशपा = स्त्री कुत्सिता शिंशपा। कपिलशिंशपायां राजनि०

कुशिक = पु० कुशः कुशनामा नृपः जनकत्वेनास्त्यस्य ठन्। गाधि नृपजनके विश्वामित्रपितामहे नृपभेदे तत् कथा यथा “कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ! !। गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः। तस्य धर्म्मात्मनः पुत्रः समृद्धबलवाहनः। विश्वामित्र इति ख्यातो बभूव रिपुमर्द्दनः। भा० आ० १७४ अ० “कुशवंशप्रसुतोऽस्मि कौशिको रघुनन्दन!” रामा० आ० “कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः। भा० आ० ४ अ० “कुशपुत्रा बभूबूर्हि चत्वारोदेववर्च्चसः। कुशिकः कुशनाभश्च कुशाश्वो मूर्त्तिमांस्तथा” कुशिकस्तु तपस्तेपे” इत्युपक्रमे “स गाधिरभवद्राजा भगवान् कौशिकः स्वयम्” हरिवं० २७। अ० कुशिकचरितं च भा० आनु० ५२ अध्यायाबधि ५६ अ० पर्य्यन्ते “अत्राप्युदोहरन्तीममितिहासं पुरातनम्। च्यवनस्य च संवादं कुशिकस्य च भारत!। एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा। आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः। निश्चित्य मनसा सर्वं गुणदोषं बलाबलम्। दग्धुकामः कुलं सर्व्वं कुशिकानां तपोधनः। च्यवनः समनुप्राप्य कुशिकं वाक्यमब्रवीत्। वस्तुमिच्छा समुत्पन्ना त्वया सह ममानध!।

कुशिक उवाच। भगवन् सह धर्म्मोऽयं पण्डितैरिह धार्य्यते। प्रदानकाले कन्यानामुच्यते च सदा बुधैः। यत्तु तावदतिक्रान्तं धर्म्मद्वारं तपोधनम्। तत् कार्य्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि। भीष्म उवाच। अथासनमुपादाय च्यवनस्य महामुने!। कुशिको भार्य्यया सार्द्धमाजगाम यतो मुनिः। प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्। कारयामास सर्व्वाश्च क्रियास्तस्य महात्मनः। ततः स राजा च्यवनं मधुपर्कं यथाविधि। ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः। सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत्। भगवन्! परवन्तौ स्वो ब्रूहि किं करवावहै। यदि राज्यं यदि धनं यदि गाः संशितव्रत!। यज्ञदानानि च तथा ब्रूहि सर्व्वं ददामि ते। इदं गृहमिदं राज्यमिदं धर्म्मासनञ्च ते। राजा त्वमपि शाध्युर्वीं योऽहं स परवांस्त्वयि। एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा। कुशिकं प्रत्युवाचेदं मुदा परमया पुनः। न राज्यं कामये राजन्न धनं न च योषितः। न च गा न च वै देशान्न यज्ञं श्रूयतामिदम्। नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते। परिचर्य्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया। एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः। प्रत्यब्रूताञ्च तमृषिमेवमस्त्विति भारत।। अथ तं कुशिको हृष्ट प्रावेशयदनुत्तमम्। गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत्। इयं शय्या भगवतो यथाकाममिहोष्यताम्। प्रयतिष्यावहे प्रीतिमाहर्त्तुं ते तपोषन!। अथ सूर्य्योऽतिचक्राम तेषां संवदतां तथा। अथर्षिर्नोदयामास पानमन्नं तथैव च। तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा। किमन्नजातमिष्टन्ते किमुपस्था पयाम्यहम्। ततः स परया प्रीत्या प्रत्युवाच नराधिपम्। औपपत्तिकमाहारं प्रयच्छस्वेति भारत!। तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः। यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप!। ततः स भुक्त्वा भगवान् दम्पती प्राह धर्म्मवित्। सप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो!। ततः शय्यागृहं प्रार्थ्य भगवानृषिसत्तमः। संविवेश नरेशस्त सपत्नीकः स्थितोऽभवत्। न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः। संवाहितव्यौ मे पादौ जागृतव्यञ्च तेऽनिशम्। अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्म्मवित्। न प्रबोधयतान्तौ च तं तथा रजनीक्षये। यथा तथा महर्षेस्तु शुश्रूषापरमौ तदा। बभूवतुर्म्महाराज! प्रयतावथ दम्पती। ततः स भगवान् विप्रः समादिश्य नराधिपम्। सुष्वापैकेन पार्श्वेन दिवसानेकविशतिम्। स तु राजा निराहारः सभार्य्यः कुरुनन्दन!। पर्य्युपासत तं हृष्टश्च्यवनाराधने रतः। भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः। अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः। तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्षिदौ। भार्य्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयन्। तयोस्तु प्रेक्षतोरेव यार्गवाणां कुलोद्वहः। अन्तर्हितोऽभूठ्राजेन्द्र! ततो राजाऽपतत् क्षितौ। स मुहूर्तं सनाश्वास्य सह देव्या महाद्युतिः। पुनरन्वेषणे यत्नमकरोत् परमं तदा” ५२ अ० युधिष्ठिर उवाच। तष्मिन्नत्तर्हिते विप्रे राजा किमकरोत्तदा। भार्य्या चास्य महाभागा तन्मे ब्रूहि पितामह!। भीष्म उवाच। अदृष्ट्वा स महीपालस्तमृषिं सह भार्य्यया। परिश्रान्तो निववृते व्रीडितो नष्टचेतनः। स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन। तदेव चिन्तवामास च्यवनस्य विचेष्टितम्। अथ शून्येन मनसा प्रविश्य स्वगृहं नृपः। ददर्श शयने तस्मिच्छयानं भृगुनन्दनम्। विस्मितौ तावृषिं दृष्ट्वा तदाश्चर्य्यं विचिन्त्य च। दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूबतुः। यथास्यानन्तु तौ स्थित्वा भूयस्तं संववाहतुः। अथापरेण पार्श्वेन सुष्वाप स महामुनिः। तेनैव च स कालेन प्रत्यबुध्यत् स वीर्य्यवान्। न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्किता। प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशांपते!। तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत!। तौ तथेति प्रति श्रुत्य क्षुधितौ श्रमकर्षितौ। शतपाकेन तैलेन महार्हेणोपतस्थतुः। ततः सुखासीनमृषिं दम्पती संववाहतुः। न च पर्य्याप्तमित्याह भार्गवः सुमहातपाः। यदा तौ निर्विकारौ तु लक्षयामास भार्गवः। तत उत्थाथ सहसा स्नानशालां विवेश ह। कॢप्तमेव तु तत्रासीत् स्ना नीयं पार्थिवोचितम्। असत्कृत्य च तत् सर्वं तत्रैवान्तर धीयत। स मुनिःपुनरेवाथ नृपतेः पश्यतस्तदा। नासूयाञ्चक्रतुस्तौ च दम्पती भरतर्षभ!। अथ स्नातः स भगवान् सिंहासनगतः प्रभुः। दर्शयामास कुशिकं सभार्य्यं कुरुनन्द्रन!। स हृष्टवदनो राजा सभार्य्यः कुशिको मुनिम्। सिद्धमन्नमिति प्राज्ञा निर्विकारो न्यवेदयत्। आनीयतामिति मुनिस्तञ्चोवाच नराधिपम्। स राजा समुपाजह्रे तदन्नं सह भार्य्यया। मांसप्रकारान् विविधांञ्छाकानि विविधानि च। रसालापूपकांश्चित्रान्मोदकानथ खाण्डकान्। रसान् नानाप्रकारांश्च वत्यञ्च मुनिभोजनम्। फलानि च विचित्राणि राजभोग्यानि भूरिशः। वदरेङ्गुदकाश्मर्य्यभल्लातकफलानि च। गृहस्थानाञ्च यद्भोग्यं यच्चापि वनवासिनाम्। सर्वमाहारयामास राजा शापभयात्ततः। अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्। ततः सर्वं सभानीय तच्च शय्यासनं मुनिः। वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह। सर्वमादीपयामास च्ययनो भृगुनन्दनः। न च तौ चक्रतु क्रौधं दम्पती सुमहामती। तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत्। तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा। सभार्य्यो वाग्यतः श्रीमान्न कोपं स समाविशत्। नित्यं संस्कृतमन्नन्तु विविधं राजवेश्मनि। शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः। वस्तञ्च विविधाकारमभवत् समुपार्ज्जितम्। न शशाक ततो द्रघुमन्तरं च्यवनस्तदा। पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्। सभार्य्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् तथेति च प्राह नृपो निर्विशङ्कसापोधनम्। क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः। इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः। च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जय!। सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको रथः। सायुघः सपताकश्च शक्तीकनकयष्टिमान्। किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः। जाम्बूनदनिबद्धैश्च परमेषुशतान्वितः। ततः स तत्तथेत्युक्त्वा कल्पयित्वा महारथम्। भार्य्यां वामे धुरि तदा चात्मानं दक्षिणे तथा। त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्। सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् भगवन्! क्व रथोयातु ब्रवीतु भृगुनन्दन!। यत्र वक्ष्यसि विप्रर्षे! तत्र यास्यति ते रथः। एवमुक्तस्तु भगवान् प्रत्युवाचाथ तं नृपम्। इतः प्रभृति यातव्यं पदकं पदकं शनैः। श्रमो मम यया न स्यात्तथा मे च्छन्दचारिणौ। सुसुखञ्चैव वोढव्यो जनः सर्वश्च पश्यतु। नोत्सार्य्याः पथिकाः केचित्तेभ्यो दास्ये वसु ह्यहम्। ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि। सर्वन्दास्याम्यशेषेण धनं रत्नानि चैव हि। क्रियतां निखिलेनैतन्मा विचारय पार्थिव!। तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत्। यद्यद्ब्रूयान्मुनिस्तत्तत् सर्वं देयमशङ्कितैः। ततोरत्नान्यनेकानि स्त्रियो युग्यमजाविकम्। कृताकृतञ्च कनकं गजेन्द्राश्चाचलोपमाः। अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः। हाहाकृतञ्च तत् सर्वमासीन्नगरमार्त्तवत्। तौ तीक्ष्णापेण सहसा प्रतोदेन प्रतोदितौ। पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः। वेपमानौ निराहारौ पञ्चाशद्रात्रिकर्षितौ। कथञ्चिदूहतुर्वीरौ दम्पती तौ रथोत्तमम्। वहुशो भृशविद्धौ च वहन्तौ च क्षतोद्भवम्। ददृशाते महाराज! पुष्पिताविव किंशुकौ। तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः। अभिशापभयत्रस्तो न च किञ्चिदुवाच ह। द्वन्द्वशश्चाब्रुवन् सर्वे पश्यध्वं तपसो बलम्। क्रुद्धा अपि मुनिश्रेष्ठं वोक्षितुं नेह शक्नुमः। अहो भगवतो वीर्यं महर्षेर्भावितात्मनः। राज्ञश्चापि मभार्य्यस्य धैर्य्यं पश्यत यादृशम्। श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः। न चैतयोर्विकारं वै ददर्श भृगुनन्दनः। “भीष्म उवाच। ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्भहः। बहु विश्राणयामास यथा वैश्रवणस्तथा। तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत्। ततोऽस्य भगवान् प्रीतो बभूव मुनिसत्तमः। अवतीर्य्य रथश्रेष्ठात् दम्पती तौ मुमोच ह। विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह। स्निग्धगम्भोरया वाचा भार्गवः सुप्रसन्नया। ददानि वां वरं श्रेष्ठं तं ब्रूतामिति भारत!। सुकुमारौ च तौ विद्धौ कराभ्यां मनिसत्तमः। पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम!। अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह। विश्रान्तौ च प्रभावात्ते ऊचतुस्तौ च भार्गवम्। अथ तौ भगवान् प्राह प्रहृष्टश्च्यवनस्तदा। न वृथा व्याहृतं पूर्व्वं यन्मया तद्भविष्यति। रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्। किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव!। गम्यतां स्वपुरं पुत्त्र! विश्रान्तः पुनरेष्यसि। इहस्थं मा सभार्य्यस्त्वं द्रष्टासि श्वो नराधिष!। न च मन्युस्त्वया कार्य्यः श्रेयस्ते समुपस्थितम्। यत् काङ्क्षितं हृदिस्थं ते तत् सर्वं हि भविष्यति। इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना। प्रोवाच मुनिशार्द्दूलमिदं वचनमर्थवत्। न मे मन्युर्म्महाभाग! पूतौ स्वो भगवंस्त्वया। संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ। प्रतोदेन व्रणा ये मे सभार्य्यस्य त्वया कृताः। तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्य्यया। इमां च देवीं पश्याभि वपुषाऽप्सरसोपमाम्। श्रिया परमया युक्तां यथा दृष्टा पुरा मया। तव प्रसादात्सं वृत्तमिदं सर्वं महामुने!। नैतच्चित्रन्तु भगवंस्त्वयि सत्यपराक्रम!। इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा। आगच्छेथाः सभार्य्यश्च त्वमिहेति नराधिप। इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्। प्रययौ वपुषा युक्तो नगरीं देवराजवत्। तत एनमुपाजग्मुरमात्याः सपुरोहिताः। बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा। तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्। प्रविवेश पुरं हृष्टः पूज्यमानोऽथ वन्दिभिः। ततः प्रविश्य नगरं कृत्वा पूर्बाह्णिकीः क्रियाः। भुक्त्वा सभार्य्यो रजनीमुवास स महाद्युतिः। ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतरुजाविवामरौ। ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा। अथाप्यृषिर्भृगुकुलकीर्त्तिबर्द्धनस्तपोधनो वनमभिराममृद्धिमत्। मनीषया बहुविधरत्नभूषितं ससर्ज यन्नो नगरे शतक्रतोः” इति ५३ अ० “भीष्म उवाच। ततः स राजा रात्र्यन्ते पतिबुद्धो महामनाः। कृतपूर्बाह्णिकः प्रायात् सभार्य्यस्तद्वनं प्रति। ततो ददर्श नृपतिं प्रासादं सर्वकाञ्चनम्। मणिस्तम्भसहस्राद्यं गन्धर्वनगरोपमम्। तत्र दिव्यानमिप्रायान् ददर्श कुशिकस्तदा। पर्व्वतान् रूप्यसानूंश्च नलिनीश्च सपङ्कजाः। तत्र शालाश्च विविधास्तोरणानि च भार- त!। शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम्। सहकारान् प्रफुल्लांश्च केतकोद्दालकान् धवान्। अशोकान् सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्। चम्पकांस्तिलकान् भव्यान् पनसान् वञ्जुलानपि। पुष्पितान् कर्णिकारांश्च तत्र तत्र ददर्श ह। श्यामान् वारणपुष्पांश्च तथाऽष्टपादिका लताः। तत्र तत्र परिकॢप्ता ददर्श स महीपतिः। वृक्षान् पद्मोत्पलधरान् सर्वर्त्तुकुसुमांस्तथा। विमानप्रतिमांश्चापि प्रासादाञ्छैलसन्निभान्। शीतलानि च तोयानि कचिदुष्णानि भारत!। आसनानि विचित्राणि शयनप्रवराणि च। पर्य्यङ्कान् रत्नसौवर्णान् परार्द्ध्यास्तरणावृतान्। भक्ष्यभोज्यमनन्तञ्च तत्र तत्रोपकल्पितम्। वीणानादाञ्छुकांश्चैव सारिकान् भृङ्गराजकान्। कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान्। मयूरान् कूक्कुटांश्चापि दात्यूहान जीवजीवकान्। चकोरान् वानरान् हंसान् सारसांश्चक्रसाह्वयान्। समन्ततः प्रमुदितान् ददर्श सुमनोहरान्। क्कचिदप्सरसां संघान् गन्धर्वाणाञ्च पार्थिव!। कान्ताभिरपरांस्तत्र परिष्वक्तान् ददर्श ह। न ददर्श च ताम् भूयो ददर्श च पुनर्नृपः। गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम्। हंसान् सुमधुरांश्चापि तत्र शुश्राव पार्थिवः। तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा। खप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु। अहो सह शरीरेण प्राप्तोऽस्मि परमाङ्गतिम्। उत्तरान् वा कुरून् पुण्यानय वाऽप्यमरावतीम्। किञ्चेदं महदाश्चर्य्यं संपश्यामीत्यचिन्तयत्। एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम्। तस्मिन् विमाने सौवर्णे मणिस्तम्भसमाकुले। महार्हे शयने दिव्ये शयानं भृगुनन्दनम्। तमप्ययात् प्रहर्षेण नरेन्द्रः सह मार्य्यया। अन्तर्हितस्ततो भूयश्च्यवनः शयनञ्च तत्। ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम्। कौश्यां वृष्यां समासीनं जपमानं महाव्रतम्। एवं योगबलाद्विप्रो मोहयामास पार्थिवम्। क्षणेन तद्वनञ्चैव ते वै चाप्सरसां गणाः। गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत। निःशब्दमभवच्चाप्रि गङ्गाकूलं पुनर्नृप!। कुशबल्मीकभूयिष्ठं बभूव च यथा पुरा। ततः स राजा कुशिकः सभार्य्यस्तेन कर्म्मणा। विस्मयं परमं प्राप्य तद्दृष्ट्वा महदडुतम्। ततः प्रोवाच कुशिको भार्य्यां हर्षसमन्वितः। पश्य भद्रे! यथा मावा श्चित्रा दृष्टाः सुदुर्लभाः। प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्। तपसा तदवाप्यं हि यत्तु शक्यं मनोरथैः। त्रैलोक्यराज्यादपि हि तप एव विशिष्यते। तपसा हि सुतप्तेन शक्यो मोक्षस्तपोवलात्। अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः। इच्छयैष तपोवीर्य्यादन्यान् लोकान् सृजेदपि। ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धिकर्मणः। उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते। ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः। ब्राह्मणस्य प्रभावाद्धि रथे युक्तौ स्व धुर्य्यवत्। इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै। सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति। इत्युक्तः सहभार्य्यस्तु सोऽभ्यगच्छन्महामुनिम्। शिरसा वन्दनीयन्तमवन्दत च पार्थिवः। तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्। निषीदेत्यब्रवीद्धीमान् सान्त्वयन् पुरुषर्षभ!। ततः प्रकृतिमापन्नो भार्गवो नृपतेर्नृप!। उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत!। राजन्! सम्यग् जितानीह पञ्च पञ्चस्वयं त्वया। मनःषष्ठानीन्द्रियाणि कृच्छान्मुक्तोऽसि तेन वै। सम्यगाराधितः पुत्त्र! त्वया प्रवदतां वर।। न हि ते वृजिनं किञ्चित् सुसूक्ष्ममपि विद्यते। अनुजानीहि मां राजन्! गमिष्याभि यथागतम्। प्रीतोऽस्मि तव राजेन्द्र! वरश्च प्रतिगृह्यताम्। कुशिक उवाच। अग्निमध्यगतेनेव भगवन् सन्निधौ मया। वर्त्तितं भृगुशार्द्दूल! यन्न दग्वोऽस्मि तद्वहु। एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन!। यत्प्रीतोऽसि मया ब्रह्मन्! कुलं त्रातञ्च मेऽनघ!। एष मेऽनुग्रहो विप्र! जीविते च प्रयोजनम्। एतद्राज्यफलञ्चैव तपसश्च फलं मम। यदि त्वं प्रीतिमान् विप्र! मयि वै भृगुनन्दन!। अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि। ५४ अ० “च्यवन उवाच। वरश्च गृह्यंतां मत्तो यश्च ते संशयो हृदि। तं प्रब्रूहि नरश्रेष्ठ। सर्व्वं सम्पादयामि ते। कुशिक उवाच। यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव!। कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्। शयनञ्चैकपार्श्वेन दिवसानेकविंशतिम्। अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव!। अन्तर्द्धानमकस्माच्च पुनरेव च दर्शनम्। पुनश्च शयनं विप्र! दिवसानेकविंशतिम्। तैलाभ्यक्तस्य गमनं भोजनञ्च गृहे मम। समुपानीय विविधं यद्दग्धं जातवेदसा। निर्याणञ्च रथेनाशु सहसा यत् कृतं त्वया। धनानाञ्च विसर्गश्च वनस्यापि च दर्शनम्। प्रासादानां बहूनाञ्च काञ्चनानां महामुने!। मणिविद्रुमपादानां पर्य्यङ्कानाञ्च दर्शनम्। पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्। अतीव ह्व्यत्र सुह्यामि चिन्तयानो भृगूद्वह!। नचैवात्राधिगच्छामिसर्व्वस्यास्य विनिश्चयम्। एतदिच्छामि कात्र्स्न्येन सत्यं श्रोतुं तपोधन! च्यवन उवाच। शृणु सर्वमशेषेण यदिदं येन हेतुना। न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव!। पितामहस्य वदतः पुरा देवसमागमे। श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु। ब्रह्मक्षत्त्रविरोधेन भविता कुलसङ्करः। पौत्त्रस्ते भविता राजस्तेजोवीर्य्यसमन्वितः। ततस्ते कुलनाशार्थ महं त्वां समुपागतः। चिकीर्षन् कुशिकोच्छेदं सन्दिधक्षुः कुलन्तव। ततोऽहमागम्य पुरे त्वामवोचं महीपते!। नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति। न च ते दुष्कृतं किञ्चिदहमासादयं गृहे। तेन जीवसि राजर्षे। न भवेथास्त्वमन्यथा। एवं बुद्धिं समास्थाय दिवसानेकविंशतिम्। सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव!। यदा त्वया सभार्य्येण संसुप्तो न प्रवीधितः। अहन्तदैव ते प्रीतो मनसा राजसत्तम!। उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते!। पृच्छेः क यास्यसीत्येवं शपेयं त्वामिति प्रभो!। अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे। योगमास्थाय संसुप्तो दिवसानेकविंशतिम्। क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप!। एवं बुद्धिं समास्थाय कर्षितौ वां क्षुधा मया। न च तेऽभूत् सुसूक्ष्मोऽपि मन्युर्म्मनसि पार्थिव!। सभार्ष्यस्य नरश्रेष्ठ! तेन ते प्रीतिमान हम्। भोजनञ्च समानाय्य यत्तदा दीपिसं मया। क्रुध्येथा यदि मात्सर्य्यादिति तन्मर्षितञ्च मे। ततोऽहं रथमारुह्य त्वामवोचं नराधिप!। सभर्य्यो मां बहस्वेति तच्च त्वं कृतवांस्तथा। अविशङ्को नरपते। प्रीतोऽहञ्चापि तेन ह। धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयेत्। ततः प्रीतेन ते राजन्! पुतरेतत् कृतं तव। सभार्य्यस्य वनं भूयस्तद्विद्धि मनुजाधिप्! प्रीत्यर्यं तव चैतन्मे स्वर्गसन्दर्शनं कृतम्। यत्ते वनेऽस्मिन्नपते! दृष्टं दिव्यं निदर्शनम्। स्वर्गोद्देशस्त्वया राजन्! स्वशरीरेण पार्थिक।। मुहूर्त्तमनुभूतोऽसौ सभार्य्येण नृषोत्तम!। निदर्शतार्थं तपसो धर्म्मस्य च नराधिप!। तत्तवासोत् स्पृहा राजं स्तच्चापि विदितं मया। ब्रह्मण्यं काङ्क्षसे हि त्वं वपश्च पृथिवीपते!। अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं नराधिप!। एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात! दुर्ल्लभम्। ब्राह्मणे सति चर्पित्वं ऋषित्वे च तपखिता। भविष्यत्येष ते कामः कौशिकात् कौशिको द्वि- जः। तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति। वंशस्ते पार्थिवश्रेष्ठ! भृगूणामेव तेजसा। पौत्त्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः। यः सदेवमनुष्याणां भयमुत्पादयिग्यति। त्रयाणामेब लोकानां सत्यमेतद्व्रवीमि ते। वरं गृहाण राजर्षे! यत्ते मनसि वर्त्तते। तीर्थयात्रां गमिष्यामि पुरा कालोऽभिवर्तते। कुशिक उवाच। एष एव वरो मेऽद्य यम्त्वं प्रीतो महामुने!। भवत्वेतत् यथात्थ त्वं भवेत् पौत्त्रो ममानथ!। ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः। पुनश्चाख्यातुमिच्छामि भगवन्! विस्तरेण वै। कथमेष्यति बिप्रत्यं कुलं मे भृगुनन्दन। कथासौ भविता बन्धुर्मम् कश्चापि सम्मतः। ५५ अ० च्यवन उवाच। अवश्यं कथनीयं मे तवैतन्नरपुङ्गव!। यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप!। भृगूणां क्षत्त्रिया याज्या नित्यमेतज्जमाधिप!। ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना। क्षत्त्रियाश्च भृगून् सर्वान् वधिष्यन्ति नराधिप!। आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः। तत उत्पत्स्यतेऽस्माकं कुलगोत्रविवर्द्धनः। जर्यो नाम महातेजा ज्वलनार्कसमद्युतिः। स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति। महीं सपर्वतवनां यः करिष्यति भस्मसात्। कञ्चित् कालन्तु वह्निञ्च स एव शमयिष्यति। समुद्रे वडवावक्त्रे प्रक्षिप्य सुमिसत्तमः। पुत्त्रं तस्य महाराज! ऋचीकं भृमुनन्दनम्। साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनव!। क्षत्त्रियायाणामभावाय दैवयुक्तेन हेतुना। स तु तं प्रतिमृह्यैव पुत्त्रे संक्रामयिष्यति। जमदग्नौ महाभागे तपसा भावितात्मनि। स चापि भृगुशार्द्दूलस्तंवेदं धारयिष्यति। कुलात्तु तव धर्म्मात्मन् कन्यां सोऽधिगमिष्यति। उद्भावनार्थं भवतो वंशस्त्र भरतर्षभ!। गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः। ब्राह्मणं क्षत्रधर्म्माणं पुत्रमुत्पादयिष्यति। क्षत्रियं विप्रकर्माण वृहत्पतिमिवौजसा। विश्वामित्रं तव कुते गाधेः पुत्त्रं सुधार्मिकम्। तपसा महता युक्तं प्रदास्यति महाद्युते!। स्त्रियौ तु कारण तत्र परिवर्त्ते भविष्यतः। पितामहनियोगाद्वै नान्थथैतद्भविष्यति। तृतोये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति”। “भीष्म उवाच।। कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः। श्रुत्वा हृष्टोऽभवद्राजा वाक्यञ्चेदमुवाच ह एवमस्त्विति धर्मात्मा तदा भरतसत्तम!। च्यवनस्तु महातेजाः पुनरेव नराधिपम्। वरार्थं नोदयामास तमुवाच स पार्थिवः। वाढमेवं करिष्यामि कामं त्वत्तो महामुने!। ब्रह्मभूतं कुलं मेऽस्तु धर्म्मे चास्य मनो भवेत्। एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः। अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा। एतत्ते कथितं सर्वमशेषेण मया नृप!। भृगूणां कुशिकानाञ्च अभिसम्बन्धकारणम्। यथोक्तमृषिणा चापि तदा तदभवन्नॄप!” ५६ अ०। कुशिकस्थापत्यम् अण्। कोशिक तदपत्ये पुंस्त्री० स्त्रियां ङीप् हेमच० मुनिभेदार्थकतामालोक्य जमदग्निपित्रर्थकतोक्तिः कल्पद्र मे तन्मूलान्यत्रोक्तिश्च चिन्त्या। २ सर्ज्जवृक्षे हेमच०। ३ विभीतकवृक्षे पु० विश्वः ४ केकरे त्रि० ५ अश्वक्वर्ण्णवृक्षे राजनि० ६ तैलशेषे पु० शब्दमा० कुशी + स्वार्थे क। कुशिका ७ फाले स्त्री

कुशित = त्रि० कुश–इतच्। जलमिश्रिते उणा०

कुशिन् = त्रि० कुशोऽस्त्यस्य इनि। कुशयुक्ते “दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि। दण्डी मुण्डी कुशी चीरी घृताक्तोमेखलीकृतः” भा० आनु० १४ अ० २ वाल्मीके मुनौ हेमच०।

कुशिम्बि(म्बी) = स्त्री कुत्सिता शिम्बी पृषो० वा ह्रस्वः। शिम्बीभेदे सुश्रु०। “सहाद्वयं मूलकजाश्च शिम्बा कुशिम्बिवल्लीप्रभवाश्च शिम्बाः। ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिषर्हणाश्च सुश्च।

कुशी = स्त्री कुश–अयोविकारेऽर्थे ङीप् नि०। लौहविकारे फाले मेदि०।

कुशी(सी)द = न० कु + सद–श पृषो० वा सस्य शः। वृद्ध्यर्थं धनप्रयोगे अमरः “कुशी(सी)दवृद्धिर्द्धैगुण्यं नात्येति सकृदाहृता” या० स्मृतिः। २ रक्तचन्दसे तन्त्रसा०। “साक्षा कुशी(सी)दसिन्दूरं गोमयञ्च करीषकम्। विलोड्य ग्रटिकां कृत्वा जपर्सख्याञ्च कारयेत्”

कुशी(सी)रक = पु० कुत्सितः शी(सीरोयत्र कर्षणे वा कप्। कर्षणेन कुण्ठितहलके क्षेत्रादौ। ततः चतुरर्थ्यां सख्या० ढञ्। कौशी(सी)रकेय तत्सन्निकृष्टदेशादौ त्रि०।

कुशीलव = पु० कुत्सितं शीलं कुगति० अस्त्यर्थे व, कुशीलं वाति वा–क–वा। १ कीर्त्तिसञ्चारके नटे, २ चारणे, ३ गायके च। कुशीलववृत्त्यर्थं नाट्यप्रचारकत्वात् ४ वाल्मीकौ मुनौ। शब्दचि० ५ नटमात्रे अमरः। “यन्नाट्यवस्तुनःपूर्ब्बं रङ्गविघ्नोपशान्तये” कुशीलवाः प्रकुर्व्वन्ति सा० द०। कुशश्च लवश्च पृशो०। ६ कुशलवयोः द्वि० हेमच०। “अभि- षिच्य महात्मानावुभौ रामः कुशीलवौ” रामा० सु० १०७ स०। त्रिकाण्डशेषे कुशीवशः इति वाल्मीक्यर्थे पाठः लिपिकरप्रमादकृतः।

कुशुम्भ = पु० कु + शुम्भ अच्। कुसुम्भशब्दार्थे हारा०

कुशूल = पु० कुश–कूलच्। १ तुषाग्नौ, जटाधरः २ अन्नकोष्ठके, इष्टकादिनिर्म्मिते धान्यादिस्थापनार्हे ३ स्थाने च। हेमच० “कुशूलपूरणाढकैः” स्मृतिः

कुशूलधान्यक = पु० कुशूलपरिमितं धान्यं यस्य। यावताधान्थेन वर्षत्रयं स्वस्य स्वकुटुम्बस्य स्रकृत्यस्य निर्वाहो भवति ताबन्मात्रसञ्चितधान्ये १ विप्रे। कुम्भीधान्यशब्दे विवृतिः।

कुशेशय = न० कुशे जले शेते शी–अच् अलुक् स०। १ पद्मे, “कुशेशयैरत्र जलाशयोषिताम्” माघः। २ सारसपक्षिणि, अमरः। ३ कर्णिकारवृक्षे शब्दचिन्ता०। कुशद्वीपस्थे ४ पर्व्वतभेदे पु० कुशशब्दे विवृतिः

कुशोदक = न० कुशसंसृष्टमुदकम् शाकत०। दानार्थे कुशसहिते जले

***