कुट = कौटिल्ये तुदा० पर० सक० सेट् कुटादि कुटति अकुटीत् चुकोट। कुटिता कुटितुं कुटितव्यम्। कुटिलः प्रनिकुटति उद् + उत्थितौ अक० वि + कुत्सने सक०। विकुटितः कुत्सितः।

कुट = प्रतापने चुरा० आत्म० सक० सेट। कोटयते अचूकुटत।

कुट = वैकल्ये भ्वा० इदित् प० अक० सेट। कुण्टति अकुण्टीत्।

कुट = कुट्टने (कोटा) दिवा० अक० सेट्। कुट्यति अकोटीत् “जोवनं कुट्यतीव”। “भक्षयन्ति स्ममांसानि प्रकुट्य विधिवत्तथा” भा० आ० २६४२ श्लो०

कुट = पु० कुट–क। १ कोटे (गड) मेदि० २ शिलाकुट्टे (पाथर भाङ्गाहातुडी) ३ वृक्षे च हेम० ४ पर्व्वते हारा० ५ कलशे पु० न० अम० ६ ऋषिमेदे पु० ततः गोत्रापत्ये अश्वा० फञ्। कौटायन तद्गोत्रापत्ये पुंस्त्री अनन्तरापत्ये तु कुर्व्वा० ण्य। कौट्य तदपत्ये पुंस्त्री० “हविषा जारो अर्पासि पर्त्ति पपुरिर्नरा पिता कुटस्य चर्षणिः” अ० १, ४६, ४

कुटक = पु० दक्षिणस्थदेशभेदे, “चङ्क्रममाणः कोङ्कवेङ्कटकुटकान् दक्षिणकर्ण्णाटान् यदृच्छयोपगतः कुटकाचलोपवने” भाग० ५, ६, ८, “यस्य (ऋषभदेवस्य) किलानुचरितमुपाकर्ण्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्म्मपथ मकुतोभयमपहाय कुपथपाषण्डमसञ्जसं निजमनीषया मन्दः संप्रवर्त्तयिष्यति” तत्रैव १० श्लो०,। तद्देशाधिपति र्जिनाचार्य्यः। कुटकदेशस्थोऽचलः कुटकाचलः तत्रत्यपर्य्यत भेदः। २ फाले न० शब्दचि०

कुटङ्क = पु० कुर्गृहभूमिः टङ्क्यऽते आच्छातेऽनेन टकि–आच्छादने करणे घञ् ६ त०। गृहाच्छादने तृणादौ (चाल) शब्दमा०

कुटङ्गक = पु० कुटस्याङ्गमिव शक० इवार्थे क। १ छदिषि पटले (चाल) हेमच० पत्रादिच्छादिते २ गृहभेदे (कु~डे) राय०

कुटच = पु० कुटैव ठीयते चि–ड। कुटजवृक्षे(कुरची)शब्दचन्द्रि०

कुटज = पु० कुटे पर्व्वते जायते जन–ड। (कुरची) १ वृक्षभेदे अमरः। “कुटजः कटुको रूक्षो दीपनस्तुवरोहिमः। अर्शोऽतीसारपित्तास्रकफतृष्णामकुष्ठनुत्” भावप्र० तत्गुणाद्युक्तम्। “कुटजः कूटजः कौटो वत्सकोगिरिमल्लिका। कालिङ्गः शक्रशाखा च मल्लिकापुष्प इत्यपि। इन्द्रयवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः” इति भावप्र० तद्पर्य्याये इन्द्रयवफलत्वोक्तेः तत्फलस्य इन्द्रयवनामता “कुटजपुष्पपरागकणाः स्फुटम्” माधः “अलिरसौ नलिनोवनवाल्लभः कुमुदिनीकुलकेलिकलालसः। विधिवशेन विदेशमुपागतः कुटजपुष्परसं बहु मन्यते” कुटे घटे जायते। २ अगस्त्यमुनौ ३ द्रोणाचार्य्येच मेदि० तयोस्तदुत्पत्तिकथा कुम्भजशब्दे वक्ष्यते।

कुटजगति = स्त्री “कुटजगतिर्नजौस्तस्ततस्तौ गुरुः” वृ० र० टी० उक्ते छन्दोभेदे

कुटजपुटपाक = पु० चक्रदत्तोक्ते अतिसाररोगनाशके औषध भेदे यथा “स्निग्धं घनं कुटजवल्कमजन्तुजग्धमादाय तत्क्षणमतीव च पाचयित्वा। जम्बूपलाशपुटतण्डुलतोयसिक्तं बद्ध कुशेन च बहिर्षनपङ्कलिप्तम्। सुस्विन्नमेतदवपीड्य रसं गृहीत्वा क्षौद्रेण युक्तमतिसारवते प्रदद्यात्। कृष्णात्रिपुत्त्रमतपूजित एष योगः सर्वातिसारहरणेष्वयमेव राजा”।

कुटजरस = पु० चक्र० उक्ते अर्शोनाशके रसभेदे यथा“कुटजत्वचो विपाच्य शतपलमार्द्रं महेन्द्रसलिलेन। यावत् स्यादरसं तद्द्रव्यं स्वरसस्ततो ग्राह्यः। मोचरसः समङ्गा फलिनी पलाशिभिस्त्रिभिस्तैश्च। वत्सकबीजं तुल्यं चूर्णीकृतमत्र दातव्यम्। पूतोत्क्वाथितः सान्द्रः सरसी दर्वीप्रलेपनो ग्राह्यः। मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्। छागलीपयसा युक्ता पेया मण्डेनाथवा यथाग्निबलम्। जीर्णौषधश्च शालीन् पयसा छागेनभुञ्जीत। रक्तं गुदजातीसारं शूलं सासृग्रुजो निहन्त्याशु। बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम्”।

कुटजलेह = पु० चक्रदत्तोक्ते अतिसारनाशके लेहभेदे यथा “शतं कुटजमूलस्य क्षुण्णं तोयार्पणैः पचेत्। क्वाथे पादावशेषेऽस्मिन् लेहं पूते पुनः पचेत्। सौवर्चलयवक्षारविडसैन्धवपिप्पलीम्। धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पलद्वयम्। लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम्। पक्वापक्वमतीसारं नानावर्णं सवेदनम्। दुर्व्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम्”। अर्शोरोगनाशके तत्रोक्ते २ लेहभेदे च यथा“कुटजत्वक्पलशतं जलद्रोणे विपाचयेत्। अष्टभागावशिष्टन्तु कषायमवतारयत्। वस्त्रपूतं पुनः क्काथं पचेल्लेहत्वमागतम्। भल्लातकविडङ्गानि त्रिकटुत्रिफलान्तथा। रसाञ्जनं चित्रकञ्च कुटजस्य फलानि च। वचामतिविषां विल्वं प्रत्येकञ्च पलं पलम्। त्रिंशत्पलानि गुडस्य चूर्णी कृत्य निधापयेत्। मधुनः कुडवं दद्यात् घृतस्य कुडवन्तथा। एष लेहः शमयति चार्शोरक्तसमुद्भवम्। वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम्। ये च दुर्नामजा रोगास्तान् सर्व्वान् नाशयत्यपि। अम्लपित्तमतीसारं पाण्डुरोगमरोचकम्। ग्रहणीमार्द्दवं कार्श्यं श्वयथुं कामलामपि। अनुपानं घृतं दद्यात् मधु तक्रं जलं पयः। रोगानीकविनाशाय कौटजो लेह उच्यते”।

कुटजवीज = न० ६ त०। इन्द्रयवे भावप्र०।

कुटजा = स्त्री “सजसा भवेदिह सगौ कुटजाख्यम् वृ० र० उक्तलक्षणे छन्दोभेदे

कुटजाद्यघृत = न० चक्रोदत्तोक्ते शूलादिरोगनाशके घृतभेदे यथा “कुटजफलवल्कलकेशरनीलोत्पललोध्रधातकीकल्कैः। सिद्ध घृतं विधेयं शूलरक्तार्शसां भिषजा”।

कुटजाष्टक = पु० चक्रदत्तोक्ते अतिसारादिरोगनाशके औषधभेदे यथा “तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्रा रसमाददीत। तस्मिन् सुपूते पलसाम्भतानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन। पाठां समङ्गातिविषां समुस्तां विल्वं च पुष्पाणि च धातकीनाम्। प्रक्षिप्य भूयो विपचेत् तु तावत् दर्वीप्रलेपः स्वरसस्तु यावत्। पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि। निहन्ति सर्वं त्वतिसारमुग्रम् कृष्णं सितं लोहितपीतकं वा। दोषं ग्रहण्या विविधं च रक्तं शूलं तथार्शांसि सशोणितानि। असृग्दरञ्चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम्।

कुटन्नट = पु० कुटन् सन् नटति नट–अच्। १ श्योनाकवृक्षे (शोना) अमरः २ कैवर्त्तीमुस्तके (केशर) न० अमरः अत्रकुटन्नक इति पाठान्तरम्

कुटप = पु० कुट–कपन्। १ मुनौ २ गृहसमीपस्थोपवने, ३ कुडवरूपमानभेदे च। ४ पद्मे न० हेम०

कुटर = पु० कुट–करन्। मन्थानदण्डस्थरज्जुबन्धनस्तम्भे अमरटीका

कुटरु = पु० कुट–अरु। वस्त्रगृहे (कानात्) उज्ज्वल० तस्य कौटिल्यकरणयोग्यत्वात्तथात्वम्।

कुटरुणा = स्त्री कुटेषु वृक्षेष्वरुणा शक०। त्रिवितायाम् (तेओडि) रत्नमा०

कुटल = न० कुट–कलच्। (चाल) छदिषि पटले हारा०।

कुटहारिका = स्त्री कुटं घटं हरति हृ–ण्वुल् अत इत्त्वम्। दास्यां हेम०। १ वटस्य हारकमात्रे त्रि०। कुटहारकः

कुटि = स्त्री कुठ–इन्। गृहे “ब्रह्महा द्वादश समाः कुटिं कृत्वा वने वसेत्” मनुः वा ङीप्। “वट्टकुट्यां प्रभातवृत्तान्तमनुहरति” खण्ड० कुटीचकः कुटीचरः। भावे इन्। २ कौटिल्ये स्त्री वा ङीप् “भ्रुकुटीकुटिलात्तस्याः” देवीमा०! ३ वृक्षे पु० शब्द रत्ना० ४ देहे पु० सि० कौ०। अल्पार्थे क कुटिका क्षुद्रगृहे(कुडे) स्त्री “शिरसोमुण्डनाद्वापि न स्थानकुटिकासनात्। भा०, व०, १३४५४, ५ कर्त्तरि इन्। ५ कौटिल्यात्विते त्रि०।

कुटिचर = पुंस्त्री० कुटि कुटिलं जले चरति चर–अच्। जलशूकरे (शुशुक)शब्दरत्ना०। स्त्रियां जातित्वात् ङीष्।

कुटित = त्रि० कुट–इतच्। कुटिले उज्ज्वलदत्तः।

कुटिर = न० कुट–इरन् किच्च। (कु~डे) स्वल्पगृहे भरतः

कुटिल = त्रि० कुट–इलच्। १ वक्रे अमरः “भ्रुकुटीकुटिलात्तस्याः” देवीमा०। २ तगरपुष्पे न० राजनि० “युगदिग्भिः कुटिलमिति मतं स्मौ न्यौ गौ” वृ० र० टी० उक्ते ३ छन्दोभेदे न० ४ नदीभेदे (वा~का) ५ सरस्वत्यां स्त्री मेदि० ६ स्पृछानाम गन्धद्रव्ये स्त्री राजनि०।

कुटी = स्त्री कुट–इन् ङीप्। १ गृहे २ कुटिन्यां ३ मुरानामगन्धद्रव्ये च मेदि०।

कुटीकुट = न० कुटी च कुटश्च गवा० नि० समा० द्व०। कुटी कुटयोः समाहारे।

कुटीकृत = न० कुटि + च्वि–कृ–क्त। गृहीकृते वस्त्रे “और्ण्णञ्च राङ्गवञ्चैव कीटजं पट्टजं तथा। कुटीकृतं तथैवात्र कमलाभं सहस्रशः” भा० स० १८४७ श्लो०।

कुटीचक = पु० कुट्यां चकते तृप्नोति चक–तृप्तौ अच्। संन्यासिभेदे “चतुर्विधा भिक्षवस्ते कुटीचकबहूदकौ। हंसः परमहंसश्च योऽत्र पश्चात् सौत्तमः” भा० आनु० १४ अ०। कुटीचकलक्षणादिकम् आश्रमशब्दे ८४१ पृ० दर्शितम् “न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ” भाग० ३, १२, २७

कुटीमय = त्रि० कुट्या विकारोऽवयबो वा शरा० मयट्। १ कुट्यवयवे तद्विकारे च स्त्रियां ङीप्।

कुटीमुख = पु० कुटीव मुखमस्य। शिवपारिषदभेदे। “शङ्कुकर्ण्णमुखाः सर्वे शैवाः पारिषदास्तथा। काष्ठः कुटीमुखो दन्ती विजया च तपोऽधिका” भा० स०१० अ०,।

कुटीय = कुट्यामिवाचरति क्यच् नामधा० पर० अक० सेट् कुटीयति प्रासादे सि० कौ०।

कुटीर = पु० ह्रस्वा कुटी ह्रत्वार्थे रः स्वार्थिकप्रत्ययस्य क्वचित् प्रकृतिलिङ्गातिक्रमस्योक्तेः पुंस्त्वम्। १ ह्रस्वायां कुट्याम् “कूजितकुञ्जकुटीरे” जयदे० तस्यावयवः विल्वा० अण्। कौटीर कुटीरावयवे तद्विकारे वा त्रि०। स्त्रियां ङीप् २ केवले ३ रते च हेम०।

कुटीचर = पु० कुट्यां चरति चर–ट। कुटीचके भिक्षुभेदे स्वार्थे क। तत्रैव।

कुटुङ्गक = पु० कुटङ्ग–पृषो०। १ पटले छदिषि भरतः २ गृहभेदे ३ पिटे (डोल) वंशादिनिर्म्मिते धान्याद्यावारे पात्रे

कुटुनी = स्त्री कुट–उन गौरा० ङीष्। कुट्टिन्याम् अमरटीका।

कुटुम्ब = धृतौ चुरा० आत्म० अक० सेट्। कुटम्बयते अचुकु टुम्बत। कुटुम्बः प्रनिकुटुम्बयते।

कुटुम्ब = पु० न० कुटुम्ब–अच्। १ पोष्यवर्गे अमरः २ बान्धवे ३ सन्ततौ ४ नामनि शब्दरत्ना०। “कुटुम्बं बिभूयात् म्रातु र्योविद्यामधिगच्छतः। भागोयवीयस तत्र यदि विद्यानुपालिनः” दा० भा० स्मृतिः “तस्य भृत्यजनं ज्ञात्वा कुटुम्बांश्च महीपतिः। श्रुतशीले च विज्ञाय वृत्तिं धर्म्म्यां प्रकल्पयेत्” “न निर्हारं स्त्रियः कुर्य्युः कुटुम्बाद्बहुमध्यगात्” “वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्म्मिणौ” मनुः स्वार्थो क। तत्रैव पुंन० “अयं निजः परोवेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्” हितो०।

कुटुम्बव्यापृत = त्रि० कुटुम्बे तद्भरणे व्यापृतः। कुटुम्बभरणासक्ते।

कुटुम्बिक = त्रि० कुटुम्बोऽस्त्यस्य ठन्। कुटुम्बयुक्ते गृहस्थाश्रमे “मुनिश्च स्यात् सदा विप्रो वेदांश्चैव सदा जपेत्। कुटुम्बिकोधर्म्मकामः सदाऽस्वप्नश्च मानवः” भा० आनु० ९३ अ०। इनि। कुटुम्बिन् अपि तत्रार्थे। “आशासते कुटम्बिभ्यस्तेभ्यः कार्य्यं विजनता” “प्रायेण गृहिणीनेत्रा कन्यार्थेषु कुटुम्बिनः” कुमा०। ३ कर्षके त्रि० शब्दच०।

कुटुम्बिनी = कुटुम्बोऽस्त्यास्या इनि ङीप्। १ भार्य्यायां पा पुत्रवत्यां २ स्त्रियां “शौचं तु च यावत् कुरुते भाजने कुटम्बिनी” भा० व० २०५ अ०। कुटुम्बानां समू खला० इनि। ३ कुटुम्बसमूहे स्त्री। ४ क्षीरिण्यां क्षु राजनि०।

कुट्ट = छेदने, निन्दने च अद० चरा० उभ० सक० सेट्। कुट्ट। ति ते अचुकुट्टत् त। प्रनिकुट्टयति काष्ठकुट्टः शिलाकुट्टः

कुट्ट = प्रतापने अद० चुरा० आत्म० सक० सेट्। कुट्टयते अचुकुट्टत।

कुट्टक = त्रि० कुट्ट–ण्वुल्। छेदके “दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः। १ लीलावत्यादौ प्रसिद्धे २ गणितोपयोगिक्रियाभेदे कुट्टकविधिश्च लीलावत्यां संक्षेपेणोक्तः वीजगणिते कुट्टकाध्यायं विशेषेणोक्तो यथा “भाज्योहारः क्षेपकश्चापवर्त्यः केनाप्यादौ सम्भवे कुट्टकार्थम्। येन च्छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतद्दष्टमुद्दिष्टमेव। परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्त्तनं सः। तेनापवर्त्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञितौ स्तः। मिथोभजेत्तौ दृढभाज्यहारौ यावद्गिभाज्ये भवतीह रूपम्। फलान्य धोऽधस्तदधोनिवेश्यः क्षेपस्तथान्ते खमुपान्तिमेन। स्वो- र्द्ध्वेहतेऽन्त्येन युते तदन्त्यं त्यज्येन्मुहुः स्यादिति राशियुग्मम्। ऊर्द्ध्वोविभाज्येन दृढेन तष्टः फलं गुणः स्यादपरो हरेण। एवं तदैवात्र यदा समस्ताः स्युर्ल्लब्धयश्चेद्विषमास्तदानीम्। यदागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितौ तु तौ स्तः। भवति कुट्टविधेर्युति भाज्ययोस्ममपवर्त्तितयोरथ वा गुणः। भवति यो युतिमाजकयोः पुनः सच भवेदपवर्त्तनसङ्गुणः। गुणलब्ध्योस्रमं ग्राह्यं धीमता तक्षणे फलम्। हरतष्टे धनक्षेपे गुणलब्धी तु पूर्ववत्। योगजे तक्षणाच्छुद्धे गुणाप्ती स्तोवियोगजे। धनभाज्योद्भवे तद्वद्भवेतामृणभाज्यजे। क्षेपतक्षणलाभाढ्या लब्धिः शुद्धौ तु वर्ज्जिता। अथ वा भागहारेण तष्टयोः क्षेपभाज्ययोः। गुणः प्राग्वत्ततोलब्धिर्भाज्याद्धतयुतोद्धृतात्। क्षेपाभावोऽथ वा यत्र क्षेपः शुध्येद्धरोद्धृतः। ज्ञेयः शून्यं गुणस्तत्र क्षेपोहारहृतः फलम्। इष्टाहतस्वस्वहरेण युक्ते ते वा भवे तां बहुधा गुणाप्ती। उदाहरणम्। एकविंशतियुतं शतद्वयं यद्गुणंगणक! पञ्चषष्टियुक्। पञ्चवर्ज्जितशतद्वयोद्धृतं शुद्धिमेति गुणकं वदाशु तम्। न्यासः भा २२१ हा १९५ क्षेपः ६५ अत्र परस्परं भाजितयोर्भाज्यभाजकयोःशेषम् १३ अनेन भाज्यहारक्षेपाअपवर्त्तिताजाता दृढाः भा १७ हा १५ क्षेपः ५ अनयोर्दृढभाज्यहारयोः परस्परं भक्तयोर्लब्धमघोधस्तदधः क्षेपस्तदधः शून्यं निवेश्यमिति न्यस्ते जाता वल्ली १। ७। ५। ० उपान्तिमेन स्वोर्द्ध्वे हतैत्यादिकरणेन जातं राशिद्वयम्। ४०। ३५ एतौ दृढभाज्यहाराभ्यामाभ्यां १७। १५ तष्टौ शेषमितौ लब्धिगुणौ अनयोःस्वतक्षणमिष्टगुणं क्षेपैति। अथ वा लब्धिगुणौ २३। २० वा४०। ३५ इत्यादीनि उदाहरणम्। शतं हतं येन युतं नवत्या विवर्ज्जितं वा विहृतं त्रिपष्ठ्या। निरग्रकं स्याद्वद मे गुणं तं स्पष्टं पटीयान्यदि कुट्टकेऽसि। न्यासः भा १०० हा ६३ क्षेपः ९० अत्र बल्ली १। १। १। २। २। १। ९। ० उपान्तिमेनेत्यादिना जातं राशिद्वयं २४३०। १५३० पूर्बवल्लब्धिगुशौ ३०। १८ अथ वा भाज्यक्षेपौ दशभिरपवर्त्तितौ भा १० हा ६३ क्षेपः ९ एभ्योऽपि पूर्बवद्बल्ली ०। ६। ३ ९। ० उपान्तिमेनेत्यादिना राशिद्वयम् २७। १७१ पूर्बवज्जातौ लब्धिगुणौ ७। ४५। अत्र सब्धयोविषमा इति स्वतक्षणाभ्यामाभ्यां १०। ६३ शोधितौ जातौ बब्धिगुणौ ३। १८ अत्र लब्धिर्न ग्राह्या गुणघ्नभाज्ये क्षेपयुते हर भक्ते लब्धिश्च ३०। अथ वा भाज्यक्षेपापवर्त्तनेन १० पूर्ब्बानीता लब्धि ३ र्गुणिता जाता सैव लब्धिः ३०। अथ वा हारक्षेपौ नवभिरपवर्तितौ भा १०० हा ७ क्षे ३० पूर्ब्बवद्बल्ली १४। ३। १०। ० जातं राशिद्वयम् ४३०। ३० तक्षणे जातं ३०। २ हारक्षेपापवर्त्तनेन ९ गुणं सङ्गुण्य जातौ लब्धि गुणौ तावेव ३०। १८। अथ वा माज्यक्षेपौ हारक्षेपौ चापवर्त्त्य न्यासः भा १० हा ७ क्षे १ अत्र जाता वल्ली १। २। १। ० पूर्ब्बवज्जातं राशिद्वयम् ३, २ तक्षणाज्जातं तदेव ३। २ भाज्यक्षेपहारक्षेपापवर्त्तनेन क्रमेण लब्धिगुणौ गुणितौ जातौ तावेव ३०। १८ गुणलद्ध्यीः स्वहारौ क्षेपाविति अथ वा लब्धिगुणौ १३० १८ वा २३०१४४ इत्यादि। योगजे गुणाप्ती १८। ३० स्वतक्षणाभ्यामाभ्यां ६३। १०० शुद्धे जाते नवतिशुद्धौ गुणाप्ती ४५। ७० वा १०८। १७० वा। १७१। २७०। इत्यादि। उदाहरणम्। यद्गुणाक्षयगषष्टिरन्विता वर्जिता च यदि वा त्रिभिस्ततः। स्यात्त्रयोदशहृता निरग्रका तं गुणं गणक! मे पृथग्वद। न्यासः भा ६० हा १३ क्षे ३। प्राग्वज्जाते धनभाज्ये धनक्षेपे गुणाप्ती ११। ५१ एते स्वस्वतक्षणाभ्यामाभ्यां १३। ६० शुद्धे जाते ऋणभाज्ये धनक्षेपे २। ९। अत्र भाज्यभाजकयोर्विजातीययो र्भागहारेऽपि चैवं निरुक्तमित्युक्तत्वाल्लब्धेः ऋणत्वं ज्ञेयम् २ ९ पुनरेते स्वतक्षणाभ्यामाभ्यां १३। ६० शुद्धे जाते ऋणभाज्ये ऋणक्षेपे गुणाप्ती ११। ५१। ऋणभाज्ये ऋणक्षेपे धनभाज्यविधिर्भवेत्। तदृत्क्षेपे ऋणगते व्यस्तं स्यादृणभाज्यके। धनभाऊयोद्भवे तद्वद्भवेतामृणभाज्यजे। मन्दावबोधार्थं मयोक्तम्। अन्यथा योगजे तक्षणाच्छद्धे इत्यादिनैव सिद्धं यतः ऋणधनयीगो वियोगएव। अतएव भाज्यभाजकक्षेपाणां धनत्वमेव प्रकल्प्य गुणाप्ती साध्ये। ये योगजे भवतः ते स्वतक्षणाभ्यां शुद्धे वियोगजे कार्य्ये। भाज्ये भाजके वा ऋणगते परस्परभजनाल्लब्धयः ॠणगताः स्थाप्याइति किं तेन प्रयासेन तथाकृते सति भाज्यभाजकयोरेकस्मिन् ऋणगते गुणाप्ती द्वौ राशी क्षिपेत्तत्रेत्यादिना परोक्तसूत्रेण लब्धौ व्यभिचारः स्यात्। उदाहरणम्। अष्टादश हताः केन दशाढ्या वा दशोनिताः। शुद्धं भागं प्रयच्छन्ति क्षयगैका दशोद्धृताः। न्यासः भा १८ हा ११ क्षे १० अत्र भाजकस्य धनत्वं पकल्य साधितौ लब्धिगुणौ १४। ८ एतावेव ऋणभाजके। किं तु लब्धेः पूर्ब्ब धवदृणत्वं ज्ञेयं तथांकृते जातौ लब्धिगुणौ १४। ८ ऋणक्षेपे तु योगजे तक्षणाच्छ्रुद्धे इत्यादिना लब्धिगुणौ ४। ३ भाजकस्य धनत्वे ऋणत्वे वा लब्धिगुणावेतावेव। परन्तु भाजके भाज्ये वा ऋणगते लब्धेः ऋणत्वं सर्वत्र ज्ञेयम्। उदाहणम्। येन सङ्गुणिताः पञ्च त्रयोविं शतिसंयुताः। वर्जिता वा त्रिभिर्भक्तानिरग्राःस्युः स कोगुणः। न्यासः भा ५ हा ३ क्षे २३ अत्र वल्ली १। १। २३। ०। पूर्व्ववज्जातं राशिद्वयम् ४६। २३ अत्र तक्षणेऽधोराशौ सप्त लभ्यन्ते, ऊर्द्ध्वराशौ तु नव लभ्यन्ते ते नव न ग्राह्याः ‘गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलमित्यतःसप्तैव ग्राह्याइति जातौ लब्धिगुणौ ११ २ वियोगजे एतौ स्वस्वतक्षणाभ्यां शोधितौ जातौ ऋणक्षेपे ६। १ इष्टाहतस्वस्वहरेण युक्ताविति द्विगुणितौ स्वस्वहारौ क्षेप्यौ यथा धनलब्धिः स्यादिति कृते जातौ लब्धिगुणौ ४। ७ एवं सर्वत्र ज्ञेयम्। अथ वा हरतष्टे धनक्षेपैति न्यासः भा ५ हा ३ क्षे २ पूर्ब्बवज्जातौलब्धिगुणौ योगजौ ४। २ एतौ स्वतक्षणाभ्यां शुद्धौ १। १ जातौ वियोगजौ। क्षेपतक्षणलाभाढ्या लब्धिरिति क्षेपतक्षणलाभेन ७ योगजलब्धिर्युता ११ जाता योगजा लब्धिः शुद्धौ तु वर्ज्जितेति तक्षणलाभेन ७ लब्धिरियं १ वर्ज्जिता ६ धनलब्ध्यर्थं द्विगुणे हरे क्षिप्ते जातौ तावेव लब्धिगुणौ ४। ७। अथवा भागहारेण तष्टयोरिति न्यासः भा २ हा ३ क्षे २ अत्रापि जातं राशिद्वय २। २ तक्षणाज्जातं २। २। अत्रापि जातः पूर्ब्बएव गुणः २ लब्धिस्तु भाज्याद्धतयुतोद्धृतादिति गुण २ गुणितोभाज्यः १० क्षेप २३ युतो ३३ हरभक्तोलब्धिःसैव ११। उदाहरणम् येन पञ्च गुणिताः खसंयुताः पञ्चषष्टिसहिता श्चतेऽथ वा। स्युस्त्रयोदशहृतानिरग्रकास्तं गुणं गणक! कीर्त्तयाशु मे। न्यासः भा ५ हा १३ क्षे० क्षेपाभावे गुणाप्ती ०। ०। एवं पञ्चषष्टिक्षेपे ०। ५ वा १३। १० इत्यादि। अथ स्थिरकुट्टके सूत्रं वृत्तम्। क्षेपं विशुद्धिं परिकल्प्य रूपं पृथक् तयोर्ये गुणकारलब्धी। अभीप्सितक्षेपविशुद्धिनिघ्ने स्वहारतष्टे भवतस्तयोस्ते। प्रथमोदाहरणे ट्टढभाज्यहारयोः रूपक्षेपस्य च न्यासः भा १७ हा १५ क्षे १ अत्रीक्तवद्गुणाप्ती ७। ८ एते अभोष्टपञ्चगुणे स्वहारतष्टे जाते ५। ६ ते एव। अथ रूपशुद्धौ गुणाप्ती ८। ९ एते पञ्चकगुणे स्वहारतष्टे जाते १०। ११ ते एव एवं सर्वत्र। अस्य गणितस्य ग्रहगणिते महानुप योगः। तदर्थं किञ्चिदुच्यते। कल्य्याविशुद्धिर्विकलावशेषं षष्टिश्च भाज्यः कुदिनानि हारः। तज्जं फलं स्युर्विकला गुणस्तु लिप्ताग्रमस्माच्च कला लवाग्रम्। एवं तदूर्द्धं च तथाऽधिमासावमाग्रकाभ्यां दिवसा रवीन्द्वोः। ग्रहस्य विकलावशेषाद्ग्रहाहर्गणयोरानयनम्। तद्यथा। षष्टिर्भाज्यः। कुदिनानि हारः। विकलावशेषंशुद्धिरिति प्रकल्य्य साध्ये गुणाप्ती। तत्र लब्धिर्विकलाः स्युर्गुणस्तु कलावशेषम्। एवं कलावशेषं शुद्धिः। षष्टिर्भाज्यः। कुदिनानि हारः फलं कलाः गुणोऽंशशेषम्। एवमंशशेषं शुद्धिस्त्रिंशद्भाज्यः। कुदिनानि हारः। फलं भागाः गुणोराशिशेषम्। एवं राशिशेषं शुद्धिर्द्वादश भाज्यः। कुदिनानि हारः। फलं गतराशयोगुणोभगणशेषम्। एवं कल्पभगणाभाज्यः। कुदिनानि हारः। भगणशेषं शुद्धिः फलं गतभगणाः गुणोऽहर्गणः स्यादिति। अस्योदाहरणानि त्रिप्रश्नाध्याये। एवं कल्पाधिमासाभाज्यो, रविदिनानि हारो,ऽधिमासशेषं शुद्धिः। फलं गताधिमासाः, गुणो गतरविदिवसाः। एवं युगावमानि भाज्यश्चन्द्रदिबसाहारोऽवमशेषं शुद्धिः। फलं गतावमानि। गुणोगतचन्द्रदिवसाइति। अथ संश्लिष्टकुट्टके करणसूत्रं वृत्तम्। एकोहरश्चेद्गुणकौ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम्। अग्रैक्यमग्रं कृतौक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ। उदाहरणम्। कः पञ्चनिध्नोविहृतस्त्रिषष्ट्या सप्तावशेषोऽथ सएव राशिः। दशाहतः स्याद्विहृतस्त्रिषष्ट्या चतुर्द्दशाग्रोवद राशिमेनम्। अत्र गुणैक्यं भाज्यः अयमेव राशिः अग्रैक्यं शुद्धिरिति न्यासः भा १५ हा ६३ क्षेपः २१ पूर्ब्बवज्जातोगुणः १ लब्धिः ३”।

कुट्टनी = स्त्री कुट्ट–ल्युट् ङीप्। (कुट्नी) परपुरुषेण सह परस्त्रियाः समागमकारयित्र्यां स्त्रियाम्। “तदालिङ्गनमवलोक्य समीपवर्त्तिनी कुट्टन्यचिन्तयत् अकस्मादियमेनमुपगूढवतीति ततस्तया कुट्टन्या तत्कारणं परिज्ञाय सा लीलावती गुप्तेन दण्डिता” हितो०। णिनि कुट्टिन्यप्यत्र

कुट्टमित = न० “केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात्। प्राहुः क्ट्टमितं नाम शिरःकरविधूननम्” इति सा० द० उक्ते स्त्रीणां विलासभेदे। उदा० यथा “पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरविम्बमभीष्टे। पर्य्यकूजि सरुजेव तरुण्यान्तारलोलवलयेन करेण”।

कुट्टाक = त्रि० कुट्ट–षाकत्। छेदके स्त्रियां ङीष्।

कुट्टापरान्त = पु० भूम्नि। जनपदभेदे “अत ऊर्द्ध्वं जन पदान्निबोध गदतोमम” इत्युपक्रमे “कुट्टापरान्तामाहेया कक्षाः सामुद्रनिष्कुटाः” भा० भी० ९ अ०।

कुट्टार = पु० कुट्ट–कर्म्मभावादौ बा० आरन्। १ पर्व्वते २ केवले ३ रमणे न० मेदि० ४ कम्बले न० विश्वः।

कुट्टित = त्रि० कुट्ट–क्त। १ छेदिते खण्डीकृते। तादृशे २ पक्व मांसभेदे न०। “मांसमस्नायु संगृह्य सूक्ष्मं कृत्वा सुकुट्टितम्। वेशवारसुगग्धाढ्यम् स्वेदितं पाचित भवेत्। कुट्टितं पाचितं मांसं सुस्वादु लघु दीपनम्। तत्रापि जाङ्गलं श्रेष्ठं जाङ्गलेष्वपि पक्षिणाम्” भावप्र०।

कुट्टिम = पुंन० अर्द्धर्चादि कुट्ट–भावे घज् तेन निर्वृत्तः इमप्। १ रत्नमयभूमौ भरतः २ सुधालिप्तभूतले सुभूतिः ३ कुटीरे स्वल्पगृहे मथुरानाथः। ४ दाडिम्बवृक्षे राजनि० (छात) इति ख्याते बद्धभूमिभागे ५ सौधप्रदेशभेदे हला०। “कान्तेन्दुकान्तोपलकृट्टिमेषु प्रतिक्षणं हर्म्यतलेषु यत्र” माघः “शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम्” भा० आनु०५४ अ०। “प्रासादजातसम्बाधं मणिप्रवरकुट्टिमम्” भा० आश्व० ८५ अ०।

कुट्टिमित = न० कुट्ट–भावे घज् तेन निर्वृत्तः इमप् ततः तार० इतच्। कुट्टमितशब्दार्थे शब्दचि० तन्मते सा० द० कुट्टिमितमिति पाठः “केशाधरादिग्रहणे मोदमानेऽपि मानसे। दुःखितेव बहिः कुर्य्याद्यत्र कुट्टिमितं मतम्। तत्र स्त्रीणामेष स्वभावः यदिष्टमप्यनिष्टतया निवारयन्त्य एव सुरतसुखमुपभुञ्जते इति तेन गाढपरिपीडने केशस्तनादिग्रहणे च हर्षात् सुखेऽपि दुःखाविष्करणं दुःखेऽपि सुखाविष्ककरणम्” इति

कुट्टिहारिका = स्त्री० कुट्ट–इन् कुट्टिं कुट्टितद्रव्यं मांसादि हरति हृ–ण्वुल् ठाप् अतैत्त्वम्। दास्यां हलायुधः।

कुट्टीर = पु० कुट्ट–ईरन्। १ क्षुद्रपर्व्वते हारा०। २ छेदके त्रि०।

कुट्टीरक = त्रि० कुट्टीरःक्षुद्रपर्व्वत इव कायति कै–क। क्षुद्रपर्व्वतवत्स्तूपीकृते “द्वितीयेन तस्यास्थीनि तद्भस्म च श्मशाने कुट्टीरकं कृत्वा रक्षितानि” वेतालः।

कुट्मल = पुं न० कुट–कमलच्। १ मुकुले विकाशोन्मुखपुष्पकलिकायाम्। “द्योतितान्तःसभैः कुन्द–कुद्मलाग्रदतः स्मितैः” माघः। अग्रान्तत्वात् दन्तस्य वा दत्त्रादेशः। २ नरकभेदे न० यत्र रज्जुभिर्यन्त्रणा नारकिभ्यो दीयते तत्र। “तामिस्रमग्धतामिस्रमित्येकविंशतिनरककथने “संघातञ्च सकाकालं कुद्मलं पूतिमृत्तिकम्” मनुः “कुट्मलं यत्र बहुभिः पीडनम्” प्रा० वि०। मुद्रितपु० कुड्यलमिति पाठः। कुड्मलमपि नरकभेदे। ३ कुद्मलाकारे वाणाग्रमागे फलके च “विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन्। शृङ्गनग्निर्बभूवास्य भल्लः सोमोविशाम्पते!। कुद्मलश्चाभव द्विष्णुस्तस्मिन्निषुवरे तदा” भा० क० ३६ अ०,

कुठ = छेदने सौत्रः पर० सक० सेट्। कोठति अकोटीत्। प्रनिकोठति।

कुठ = वैकल्ये (गतिप्रतिघाते) आलस्ये अक० मोचने सक० इदित् म्बा० प० सेट्। कुण्ठति अकुण्ठीत्। प्रनिकुण्ठति कुण्ठनम् कुण्ठा।

कुठ = पु० कुठ–छेदने वञर्थे कर्म्मणि क। वृक्षे अमरः।

कुठर = पु० कुठ–वा० करन्। मन्थानदण्डाकर्षणरज्जुयुक्तस्तम्भे अमरः।

कुठाकु = पु० कुठ–आकुन् किच्च। (काठ ठांकरा) पक्षिभेदे उज्वलदत्तः

कुठाटङ्कृ = पुंस्त्री कठाररूपःटङ्गः पृषो०। कुठारे अस्त्रे जटा०

कुठार = पुंस्त्री० कुठ–करणे आरन्। स्वनामख्याते काष्ठच्छेदनसाधने अस्त्रभेदे स्त्रीत्वे गौरा० ङीष्। “राजन्योच्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः” प्रबीध०। “मातुः केवलमेव यौवनवनच्छेदे कुठारावयम्” भर्त्तृ०। “तं त्वा गताहं शरण शरण्यं सभृत्यसंसारतरोः कुठारम्” भाग० ३, २५, १२, तल्लक्षणं हेमा० परि० ख० लक्षणसमुच्चये यथा“जमदग्निं प्रति शुक्रः प्रोवाच यथोपदेशं शुश्रूषो! निबोध परशोरुत्पत्तिं द्रव्यक्रमयोगं प्रमाणं चोत्तममध्यमाधमानां नराणां सपाणिः पाणिमुक्तैति द्विकर्म्मा परशुर्भवति। तत्र पञ्चाशत्पलिकः श्रेष्ठश्चत्वारिंशत्पलिकोमध्यमस्त्रिंशत्पलिकः कनिष्ठ इति। जातप्राणस्य पुरुषस्य सर्वायसमयस्त्रिविधः परशुर्भवति सार्द्धपञ्चाङ्गुलं श्रेष्ठस्य, सार्द्धचतुरङ्गुलं मध्यमस्य, सार्द्धत्र्यङ्गुलं निकृष्टस्य, मूलं विसृतम्भवति। तथा मध्ये सार्द्धपञ्चाङ्गुलं विसृतं चोत्तममध्यमकनिष्ठानां भवति। तथाङ्गमपि पञ्चदशोङ्गलमुत्तमस्य, सार्द्धत्रयोदशाङ्गुलं मध्यमस्य, द्वादशाङ्गुलं निकृष्टस्येति परशोःफलम्। तथोत्तमं द्वादशाङ्गुलायामं, मध्यमं दशाङ्गुलायाममधमम ष्टाङ्गुलायाममित्येवमपि त्रिविधं भवति। कुणपेष्विव दण्डप्रमाणमुत्तममध्यमकनिष्ठभेदात्रिविधं शालकधबधन्वनशाका- जुनाशरीषशिंशपासनराजवृद्धेन्द्रवृद्धतिन्द कसोमवल्कश्वेतकार्जुनप्रभृतीनां ह्रस्वप्रमाणो दण्डग्रन्थिर्भवेत्। यस्तु सपाणिः परशुः स यथाकामं प्रयोज्यः। कुणपलक्षणं तु कुणपशब्दे दृश्यं। २ वृक्षे पु० शब्दरत्ना०। तस्येदम् शिवा० अण्। कौठार तत्सम्बन्धिनि त्रि० स्त्रियां ङीप्। अल्पार्थे क। कुठारक क्षुद्रकुठारे पुंस्त्री० स्त्रियां कुठारिका।

कुठारु = पु० कुठ–आरु। १ वृक्षे २ वानरे पुंस्त्री० मेदि०। ३ शस्त्रकारे पु० शब्दरत्ना०।

कुठि = पु० कुठि–इन् किच्च। १ पर्व्वते २ वृक्षे च उणा० को०।

कुठिक = पु० कुठ–इकन् किच्च। (कुड) कुष्ठे हारा०।

कुठेर = पु० कुठि–एरन् बा० नुमभावः। १ पर्ण्णासे उज्ज्व०। २ वह्नौ शब्दमा०। ३ श्वेततुलस्याम् (वावुइतुलसी) राजनि०।

कुठेरक = पु० कुठेर इव कायति कै–क। नान्दीवृक्षे राजनि०। स्वार्थे क। २ श्वेततुलस्यां (वावुइतुलसी) शब्दच०।

कुठेरज = पु० कुठेरैव जायते जन–ड “सह मुपा” पा० स०। श्वेततुलस्याम् शब्दरत्ना०।

कुठेरु = पु० कुठ–एरुक्। चामरवाते त्रिका०।

कुड = वैकल्ये म्बा० इदित् पर० अक० सेट्। कुण्डति अकुण्डीत् प्रनिकुण्डति कुण्डः।

कुड = दाहे भ्वा० इदित् आत्म० सक० सेट्। कुण्डते अकुण्डिष्ट प्रनिकुण्डते। कुण्डम्।

कुड = रक्षणे चुरा० इदित् उभ० सक० सेट्। कुण्डयति ते अचुकुण्डत् त। प्रनिकुण्डयति ते।

कुड = अदने सक० बाल्ये अक० तुदा० पर० सेट् कुटादि। कुडति अकुडीत् चुकोड। प्रनिकुडति कुडपः कुडवः

कुडप(व) = पु० कुड–कपन् (कवन्)वा। प्रस्थचतुर्थांशरूपे परिमाणभेदे अमरः अर्द्धर्चादि। कर्षशब्दे विवृतिः क्षीरस्वामिमते पान्तः। “द्रोणस्तु खार्य्याः खलु षोडशोऽंशः स्यादाढकोद्रोणचतुर्थभागः। प्रस्थश्चतुर्थांश इहाढकस्य प्रस्थाङ्घ्रिराद्यैः कुडवः प्रदिष्टः” “लीला० तेन षोडशकर्षमितः कुडवः आर्द्रद्रवाणां तु द्वात्रिंशत्कर्षमित इत्याह सुश्रुतः “पलकुडवादीनामतो मानन्तु व्याख्यास्यामः। तत्र द्वादशधान्यमाषा मध्यमाः सुवर्णमाषकः। ते षोडश सुवर्णम्। अथ मध्यमनिष्पावा वा एकोनविंशतिर्द्धरणम्। तान्यर्द्धतृतीयानि कर्षः। ततश्चोद्धं चतुर्गुणमभिवर्द्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते तुला पलशतं तानि विंशतिर्भारः शुष्काणामिदं मानमार्द्रद्रवाणाञ्च द्विगुणमिति”। “अथ षष्ठे गते काले यवप्रस्थमुपार्ज्जयन्। यवप्रस्थ तु तं सक्तूनकुर्व्वन्त तपस्विनः। कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि। कुडवं कुडवम् सर्व्वे (चत्वारः) व्यभजत्त तपस्विनः” “इत्युक्तः प्रतिगृह्याथ सक्तना कुडवं द्विजः” भा० आश्व० ९०,।

कुडि = पु० कुण्ड्यते दह्यते कुडि–दाहे इन् नलोपश्च। देहे सि० कौ० “कुठिकम्प्योर्नलोपश्चेति” उणा० उज्ज्वलदत्तेन कुठि गतिप्रतिवाते इति व्याख्यातम् कौमुदीकृता तु कुडि– दाहे इति व्याख्यातम्। अतः मतभेदेन उणादिसूत्रे पाठदूयम्।

कुडिश = पुंस्त्री० कुड्यते कुड–अदने बा० श इट्। (कुडची) ख्याते मत्स्यभेदे राजनि०। “कुडिशो मधुरोबल्यः कषायो वह्निदीपनः। लघुः स्निग्धो वातरोगे पथ्यश्च रोचनस्तथा। बलकारी कोष्ठबन्धकारी च भिषजां मतः” राजनि०।

कुडिहुञ्ची = स्त्री० क्षुद्रकाल्लावेल्लवृक्षे(छोट उच्छिया) राजनि०।

कुड्मल = कुड–बाल्ये बा० क्मलच्। १ मुकुले विकाशोन्मुखे कुसुमे सि० कौ०। २ नरकभेदे न० कुट्मलशब्दे उदाहृत मनुवचने कुड्मलमिति वा पाठः “दलितकोमलपाटल कुड्मले” माघः तारका० इतच्। कुड्मलित जातमुकुकुले त्रि०।

कुड्य = न० कुद्ड कार्क्कश्ये ण्यत् कौतेरघ्न्या० यक् डुगागमश्व इत्युज्ज्वलदत्तः। १ भित्तौ (भित) अमरः २ विलेपने मेदि० ३ कौतूहले शब्दरत्ना०। “वैद्यं सम्भाषमाणोऽङ्गं कुड्यमास्तरणानि वा। “चन्दनरसैरुपलिप्तकुड्ये” सुश्रु०। “वैदूर्थ्यकुड्येषु शशिद्युतिभ्यः” माघः। स्वार्थे क। भित्तौ शब्दर०।

कुड्यच्छेदिन् = पु० छिद–णिनि ६ त०। चौरभेदे येन गृहभित्तिं विदार्य्य चौर्य्यं क्रियते तत्र शब्दरत्न०।

कुड्यच्छेद्य = पु० कुड्यं च्छेद्यं यस्य। १ खनकें। कुड्यस्य तन्निर्म्माणाय तदर्थे च्छेद्यम् चतुर्थ्यर्थे ६ त०। भित्तिनिर्म्माणाय स्वाते २ गर्त्ते त्रिका०।

कुड्यमत्स्य = पुंस्त्री० कुड्ये मत्स्य इब। गृहगोधिकायां हेम० जातित्वात् स्त्रियां ङीष् यलोपः। कुड्यमत्सी तत्रैव शब्दर०।

कुण = आभाषणे, मन्त्रणे च अद० चु० उभ० सक० सेट्। कुणयति ते अचुकुणत् त। प्रनिकुणयति

कुण = उपकरणे शब्दे च तुदा० पर० सक० सेट्। कुणति अकोणीत्। प्रनिकुणति उपकरणं दानादिना पोषणम्।

कुणक = पु० कुण्यते उपक्रियते कुण–कर्म्मणि घञर्थे क तत अनुकम्पायां कन्। बालके शिशौ। “तं त्वंणकुणकं कृपणं स्रोतसानुवाह्यमानमभीक्ष्य” “तस्य हवा एण कुणके उच्चैस्तरामेतस्मिन् कृतनिजाभिमानस्याहरह स्तत्पोषणपालनप्रीणनलालनानुध्यानेन” “अहो वतायं हरिणकुणकः कृपणः” इति च भाग० ५, ८, ७, ८, ९, “एणकुणकं हरिणबालकम्” श्रीधरः।

कुणञ्ज = पुंस्त्री० कुणं शब्दकारकं स्वरभेदं जरयति अन्तर्भूतण्यर्थे जॄबा० ड पृषो० मुम्। वनवास्तूके शाकभेदे (वनवेथुया) “कुणञ्जो मधुरोरुच्यो दीपनः पाचनोहितः। तच्छाकं तु त्रिदोषघ्नं मधुरं रुचिकारकम्। ईषत्कषायं संग्राहि पित्तश्लेष्महरं लघु” राजनि०। स्त्रीत्वमप्यत्र।

कुणञ्जर = पु० कुणं जरयति हृ–बा० खच्। वनवास्तूके राजनि०

कुणप = पु० कण–कपन् संप्र०। त्यक्तप्राणे मृतदेहे शवे अमरः “वाराणस्यां महाराज। दर्शनेप्सुर्महेश्वरम्। तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्। तं दृष्ट्वा यो निवर्त्तेत स संवर्त्तो महीपते!”। नारदोक्तौ “कुणपं स्थापयामास नारदस्य वचः स्मरन्। यौगगद्येन विप्रश्च पुरीद्वारमथाविशत्” “ततः स कुणपं दृष्ट्वा सहसा संन्यवर्त्तत” भा० आश्व०६ अ०। “शोणितवर्ण्णवेदनं कुणपगन्ध्यनल्पं रक्तेन” सुश्रु० अर्द्धर्ञ्चा० पा०। २ पूतिगन्धे पु० ३ तदति त्रि० सेदि०। “कुणपं मस्तुलाङ्गाभं सुगन्धं क्वथितं बहु” माधवनि० “तस्य देवा यावन्मात्रमिव गन्धस्यापजघ्नुस्तं पशुष्वदधुः स एव पशुषु कुणपगन्धस्तस्मात् कुणपगन्धान्नपिगृह्णीत” शत० ब्रा० ४, १, ३, ८,। (वडशा) ४ अस्त्रभेदे। “शक्तिभिः कवचैश्चित्रैः कुणपै रङ्कु शरपि” भा० भी० ५७ अ०। कुणपलक्षणन्तु हेमा० प० ख० लक्षणसमुच्चये दर्शितं यथा “जमदग्निं प्रति उशनाः प्रोवाच साधु पृष्टं कुणपा नां विधानं यथापृष्टं कथयामि शृणु विंशत्यङ्गुलोऽष्टादशाङ्गुलः षोडशांङ्गुलश्चेति श्रेष्ठमध्याधमत्वेन कुणपोऽङ्गुलमाने त्रिविधोभवेदेवं पलप्रमाणे विंशतिपलः षोडशपलोद्वादशपलश्चेति। बालयोग्यानामेतत् प्रमाणमुक्तमबालानां तु कुणपस्त्रिंशत्पलः श्रेष्ठः पञ्चविंशतिपलोमध्यमः विंशतिपलस्तु निकृष्टः, श्रेष्ठश्चतुर्विंशत्यङ्गुलो द्वाविंशत्यङ्गुलोमध्यमः कनिष्ठस्तु विंशत्यंङ्गुलो भवेत्” कणपेति पाठान्तरम्। ५ शवतुल्ये निश्चैतन्ये जडे देहादौ “आश्चर्य्यमेतत् यदसत्सु सर्व्वदा महद्विनिन्दा कुणपात्मवादिषु” भाग० ४, ४, १४, “कुणपं जडं श- रीरं तदेवात्मेति वदन्ति ये तेषु” श्रीधरः। गौरा० ङीष्। ६ विट्शारिकायां (गुइयाशालिक) स्त्री० मेदि०

कुणारु = त्रि० क्वण–शब्दे बा० आरु संप्र०। क्वणनशीले “सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र! संपिनक्कुणारुम्” ऋ० ३, ३०, ८, “कुणारुं क्वणनशीलम्” मा०।

कुणाल = पु० क्वण–कालन् संप्र०। देशभेदे सि० कौ०।

कुणि = पु० कुण–इन्। १ तुन्दवृक्षे मेदि०। २ आदानादिक्रिया मन्दकरान्विते त्रि० अम०। “दौहदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति, सुश्रु०” गर्भो वातप्रकोपेण दौहदे चावमानिते। भवेत्कुब्जः कुणिः पङ्गुः मूको मिन्मिण एव च” सुश्रु० कुणेर्भावः ष्यञ्। कौण्य हस्तस्यादानादिविघातरूपे दोषे “एकादशेन्द्रियबधाः” सा० का० व्याख्यायां कौमुद्यां “बाधिर्य्यं कुष्ठितान्धत्वम् जडताऽजिध्रता तथा। मूकता कौण्वपङ्गुत्वक्लैव्योदावर्त्तमन्दताः” इन्द्रियभेदेन क्रियाविघातभेदो दर्शितः।

कुणिन्द = पु० क्वण–भावे किन्दच् संप्र०। शब्दे उज्ज्वलद०

कुणिपदी = स्त्री कुणिरिव कुण्ठितशक्तिः पादोऽस्याः कुम्भपद्या० ङीष् पद्भावश्च। क्रियामन्दपादयुक्तस्त्रियाम्।

कुण्टक = त्रि० कुटि–ण्वुल्। स्थूले शब्दरत्ना०।

कुण्ठ = त्रि० कुठि–वैकल्ये अच्। १ क्रियासु मन्दे अकर्म्मण्ये अमरः “पूर्वं तपोवीर्ष्यमहसु कुण्ठम्” कुमा० “विभावसोस्तुल्यमकुण्ठमण्डलम्” (सुदर्शनम्) भा० आ०१९ अ०। २ मूर्खे मेदि०। कर्त्तरि क्त कुण्ठित तत्रार्थे। “वृत्रस्य हन्तुः कुलिशं कुण्ठितास्रीव लक्ष्यते” कुमा०।

कुण्ठक = त्रि० कुठि–ण्वुल्। १ सङ्गुचिते क्रियामन्दे। २ सूर्खे पु० शब्दमा० ३ तत्प्रघानदेशभेदे पु० भूम्नि। “मालवा वल्लवा श्चैव तथैवापरवल्लवाः। कुलिन्दाः कालकाश्चैव कुण्ठकाः करटास्तथा” भा० भी० ९ जनपदकथने।

कुण्ड = न० कुण्ड्यते रक्ष्यते जलं वह्निर्वाऽत्र कुडि–रक्षणे आधारे–अच्णिलोपः। जलाधारे वृत्ताकारे १ पात्रभेदे(कुण्डा) “भुवं कोष्णेन कुण्डोध्नी” रघुः “अत्सरुका कुण्डप्रति रूपाश्चमसाः” कात्या० श्रौ० २४, ४, ४, “अत्सरुकाः अवृन्तकाः कुण्डप्रतिरूपा वृत्ताकाराः” कर्कः। २ देवादिखातजलाशये अगस्त्यकुण्डं सप्तर्षिकुण्डं सोमकुण्डम् ३ कमुण्डलौ स्त्री गौरा० ङीष्मेदि०। होमार्थमग्न्याधारे ४ स्थानभेदे। तल्लक्षणादिकं हेमा० दा० ख० दर्शितं तथा। “भविष्यत्पुराणे “वेदिपादान्तरंत्यक्त्वा कुण्डानि नव पञ्च वा। वेदास्राण्येव तानि स्युर्व्वर्त्तुलान्यथ वा क्वचित्। वेदास्राणि, चतुरस्राणि। आम्नायरहस्ये “कुण्डानि चतुरस्राणि वृत्तनालाकृतीनि वा। नव पञ्चाथ वा चैकं कर्त्तव्यं लक्षणान्वितम्। नवकुण्डविधाने तु दिक्षु कुण्डाष्ठके स्थिते। नवमं कारयेत् कुण्डं पूर्वेशानदिगन्तरे। विधाने पञ्च कुण्डानामीशाने पञ्चमं भवेत्”। ज्ञानरत्नावल्याम् “दिक्षु वेदास्रवृत्तानि पञ्चमं त्वीशगोचरे”। नारदीयेऽपि “यत्रोपदिश्यते कुण्डचतुष्कन्तत्र कर्म्मणि। वेदास्रमर्द्धचन्द्रञ्च वृत्तं पद्मनिभं तथा। कुर्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः। कुण्डवेद्यन्तरञ्चैव सपादकरसम्मितम्। पीठबद्धन्तु यत्कुण्डं सुप्रमाणं सुगर्त्तकम्”। बह्वृचपरिशिष्टे “भुक्तौ मुक्तौ तथा पुष्टौ जीर्ण्णोद्धारे विशेषतः। सदा होमे तथा शान्तौ वृत्तं वरुणदिग्गतम्”। कामिके तु तत्तद्दिक्षु तत्तत्फलार्थं कुण्डोक्तिर्यथा ऐन्द्य्रां–स्तम्भे चतुष्कोणमग्नौ भागे भगाकृति। चन्द्रार्द्धं मारणे याम्ये, नैरृते हि त्रिकोणकम्। वारुण्यां शान्तिके वृत्तं, षडस्र्युच्चाटनेऽनिले। उदीव्यां पौष्टिके पद्मं रौद्र्यामष्टास्रमुक्तिदम्”। सर्वेषु चैतेषु होमानुसारेण हस्तादिमानं क्षेत्रफलमुपकल्पनीयम्। तदुक्तं भविष्यपुराणे “मुष्टिमानं शतार्द्धे तु शते चारत्निमात्रिकम्। सहस्रे त्वथ होतव्ये कुर्यात्कुण्डं करात्मकम्। द्विहस्तमयुते तच्च लक्षहोमे चतुःकरम्। अष्टहस्तात्मकं कुण्डं कोटिहोमेषु नाघिकम्”। मुष्टिमानमिति, बद्धमुष्टिहस्तमात्रमित्यर्थः। इदानीं चतुरस्रादिकुण्डानामुद्धारक्रमोऽभिधीयते। चतुरस्रं तावदाह विश्वकर्म्मा “कृत्वा प्राक् सूत्रमर्द्धाङ्कं दक्षिणोत्तरमत्स्ययोः। न्यस्य सूत्रं ततः कोणैरङ्कितैश्चतुरस्रकम्”। पूर्व्वङ्केनाप्युपायेन प्राचीं निश्चित्य प्राक्पश्चिमायातां रेखामालिख्य तामर्द्धभागे लाञ्छयित्वा दक्षिणोत्तरदिशोर्स्मत्स्यद्वयं कुर्य्यात् सूत्रोपरि सूत्रान्तरनिपातनात् स्वस्तिकमध्याकृतिः शिल्पशास्त्रेषु मत्स्य इत्युच्यते। मत्स्यद्वयनिष्पत्तिश्चात्रैवं कार्य्या। पूर्वोक्तरेखापरिमितस्य सूत्रस्यादिं तस्याएव रेखाया मूले निधाय तत्सूत्रान्तरं परिभ्राम्य वृत्तं रचयेत् तस्या एवरेखाया अपरप्रान्ते तस्यैव सूत्रस्यादिं निधाय तत्सूत्रा न्तं परिभ्राम्य द्वितीयान्तं कुर्य्यात् एवं वृत्तद्वये कृते दक्षिणोत्तरदिशोर्मत्स्यद्वयं निष्पद्यते अथ मत्स्यद्वये पूर्वोक्तरेखालाञ्छने चैकं सूत्रं निष्पात्य दक्षिणोत्तरायतां रेखां लिखेत्। एवं दिक्ष साधितासु विदिक्साधनार्थं कोणान् लाञ्छयेत्। तत्रायं प्रकारः–पूर्वनिष्पन्नरेस्वाप्रान्तचतुष्टयस्य प्रत्येकं पार्श्वद्वये चिकीर्षितपरिमाणस्यार्द्धमर्द्धं निधाय तत्सन्धौ कोणलाञ्छनानि कुर्य्यात् ततः कोणलाञ्छनेषु सूत्रचतुष्टयनिपातनात् पूर्वदिश्युदङ्मुखयोनिकं चतुरस्रं कुण्डं कुर्य्यात्। योन्याकारादीनामुद्धारश्चतुरस्रप्रकृतिकस्तु कामिकशास्त्रात् “पञ्चमांशं पुरोन्यस्य मध्ये वेदांशमानतः। भ्रमादश्वत्थपत्रामं कुण्डमाग्नेयमुच्यते”। क्षेत्रस्य पञ्चमभागं पुरःप्राच्यां दिशि विन्यस्य मध्ये कोणसूत्रस्येति शेषः। वेदांशः, तुरीयांशः। भ्रमात्, सूत्रान्तपरिभ्रमणेन अश्वत्थपत्राकारं कुण्डमाग्नेयदिशि कुर्य्यादिति। तत्रायं निर्म्माणप्रकारः पूर्वोक्तन्यायेन समचतुरस्रीकृतस्य क्षेत्रस्य पश्चिमरेखामध्यात् पूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रपञ्चमांशाधिकां गर्भरेखामालिख्य नैरृत्यदेशे कोणसूत्रन्तुरीयांशे लाञ्छयित्वा तल्लाञ्छनोपरि विन्यस्तादेः सूत्रस्य पूर्वोक्तगर्भरेखामूलविन्यस्तं प्रान्तं परिभ्राम्य बहिर्वृत्तार्द्धं निष्पाद्य वायव्यकोणेऽप्येवमेव वृत्तार्द्धं रचयेत्। ततो गर्भरेखाप्रान्तात् वृत्तद्वयप्रान्तस्पर्शि सूत्रद्वयं निपात्य पिष्पलपत्राकारमाग्नेयदिश्युदङ्मुखयोनिकं योनिकुण्डं विदध्यात्। “चतुरस्रे ग्रहैर्भक्ते त्यक्त्वाद्यन्तौ तदं शकौ। मध्यसप्तांशमाने तु कुण्डं खण्डेन्दुवत् क्रमात्”। चतुरस्रे क्षेत्रे ग्रहैर्नवभिर्विभक्ते आद्यन्तौ त्यक्त्वा अवशिष्टसप्तमांशमानेन सूत्रभ्रामणात् खण्डेन्दुसदृशं कुण्डं कुर्य्यात्। अत्रैवं कृतिः–चतुरस्रं क्षेत्रं नवधा विभज्य तत्र प्रयमोऽन्तिमश्चेति भागद्वयं परिमृज्य अवशिष्टसप्तभागादिमरेखागर्भदेशे सूत्रादिं निधाय तस्यैव भागसप्तकस्यान्तिमरेखागर्भदेशे सूत्रान्तं निवेश्य तत्सूत्रपरिभ्रामणेन प्रथमरेखातुल्यं विश्रान्तप्रान्तवृत्तार्द्धं विरचयेत्। अथ प्रथमरेखाप्रान्तद्वयमपि वृत्तार्द्धे संयोज्य दक्षिणदिगवस्थितमुत्तराशाभिमुखयो निकं कुण्डं चन्द्रखण्डं विदध्यात्। “त्रिभागवृद्धितो मत्स्यैस्त्रिभिर्नैशाचरं भवेत्”। स्थानत्रये तृतीयांशत्रयं वृद्ध्या मत्स्यत्रयेण नैशाचरं नैरृत्यदिक्सम्बन्धि कुण्डं कुर्य्यात्। इहायं सम्प्रदायः। पूर्ववत्समचतुरस्रं क्षेत्रं निर्म्माय तत्तिरश्चीनपश्चिमरेखामध्यात् तिर्य्यगवस्थितपूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रतृतीयभागाधिकां गर्भरेखामालिख्य पूर्वोक्तपश्चिमरेखाप्रान्तद्वयमपि क्षेत्रसूत्रवषीयभागाधिकं कुर्य्यात् ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयमपि क्षेत्रसूत्र तृतीयभागाधिकं कुर्य्यात्। ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयस्पर्शिसूत्रद्वयं निपात्य नैरृत्यदिशि पूर्वाभिमुखयोनिकं त्रिकोणं कुण्डमुत्पादयेत्। एवञ्च विधीयमाने स्यानत्रये तृतीयांशत्रयवृद्धिस्तत्रैव मत्स्यत्रयमपि निष्पद्यत इति। “कर्म्मार्द्धाष्टांशसंन्यासाद्वृत्तं कुण्डमिहोदितम्। कर्म्मसूत्रार्द्धस्य योऽष्टमांशस्तस्य संन्यासात् सम्यक् न्यासात् वृत्तं कुण्डं स्यादिति। अत्रैवं रचनाप्रकारः चतुरस्रे क्षेत्रे कोणात् कोणान्तरगामिनः सूत्रस्यार्द्धं कोणार्द्धशब्दवाच्यमष्टधा विभज्य यावानष्टमो भागस्तावन्तं भागं चतुर्द्दिक्षु बहिर्विन्यसेत्। ततः क्षेत्रगर्भदेशे सूत्रादिं निधाय वहिःस्थिताष्टमभागविन्यस्तं तस्यैव सूत्रस्य प्रान्तं सर्वतः परिभ्राम्य पश्चिमदिशि पूर्वाभिमुखयोनिकं वृत्तकुण्डं कुर्य्यात्। “षड्भागवृद्धितो मत्स्यैश्चतुर्भिः स्यात् षडस्रकम्” क्षेत्रपार्श्वयोः प्रत्येकं षष्ठभागवृद्धं कृत्वा अवशिष्टदिशोर्मत्म्यचष्टयमुत्पाद्य सूत्रषड्कुपातात् षडस्रकुण्डनिष्पत्तिरिति। अत्रैवं सम्प्रदायः–समचतुरस्रं क्षेत्रं षोढा विभज्य यावान् षष्ठोभागस्तावता मानेन क्षेत्रस्य दक्षिणोत्तरपार्श्वे समन्ताद्वर्द्धयित्वा तदेव क्षेत्रमायतचतुरस्रं सम्पादयेत्। अथानन्तरोक्तपार्श्वद्वयरेखास्पर्शिनीं दक्षिणोत्तरायतां गर्भरेखां रचयेत्। ततः क्षेत्रमध्यादुत्तरपांर्श्वरेखामध्याच्च पूर्वोक्तगर्मरेखार्द्धपरिमितमेकैकं सूत्रं निपात्य पूर्वोशानदिशोरन्तराले मत्स्यमुत्पाद्य तेनैव प्रकारेण पश्चिमवायव्ययोरन्तराले मत्स्यं कुर्य्यात्। अथ भूयोऽपि क्षेत्रमध्याद्दक्षिणपार्श्वरेखामध्याच्च प्रागुक्तगर्भरेखाप्रान्तद्वयात् लाञ्छनचतुष्टयस्पर्शिसूत्रचतुष्टयं निपातयेत्। एवं लाञ्छनानन्तरालस्थितसूत्रद्वयेन सह सूत्रषट्कयोगाद्वायव्यदिशि प्राङ्मुखयोनिकं षट्कोणकुण्डं कुर्य्यात्। “चतुरस्राष्टभागेन कर्णिका स्याद्विभागशः। तद्बहिस्त्येकभागेन केसराणि प्रकल्पयेत्। तृतीये दलमध्यानि तुरीये दलकोटयः। भ्रामणात् पद्मदलं स्याद्दलाग्रं दर्शयेद्बहिः”। चतुरस्रस्य अष्टधा विभक्तस्य मध्ये अष्टमभागेन कर्णिका स्यात् कर्णिकाया बहिः परिधिस्थे द्वितीये अष्टमभागे विन्यासे केसराणि स्यः। केसराद्वहिः परिधिस्थिते तृतीये अष्टमभागे विन्यासे दलमध्यानि कल्पयित्वा चतुर्थे दलकोटीं विधाय चतुरस्राद्बहिर्द्दलाग्राणि दर्शयेत्। अत्राप्यष्टमभागेनेति सम्बध्यते। विभागश० विभागे विभागे सर्वदिग्भागेष्वित्यर्थः। भ्रामणात्,सूत्रस्येति शेषः एतच्च पद्मदलं सर्वत्र योजनीयम्। अयमर्थः–चतुरस्रं क्षेत्रं प्रागग्राभिरुदगग्राभिश्च रेखाभिरष्टधा विभज्य मध्यदेशे लाञ्छयित्वा क्षेत्राद्बहिश्चतुर्द्दिक्षु समन्तादपरमष्टभागं विन्यसेत् सत्येवं लाञ्छनात् परितः प्रतिदिशं पञ्चपञ्चाष्टमभागावधिरेखा भवन्ति। ततः पूर्वोक्तलाञ्छनोपरि विन्यस्तादेस्तत्तद्रेखाविन्यस्तप्रान्तस्य च सूत्रस्य परिभ्रामणात् पञ्च वृत्तानि सम्पाद्य वृत्तातिरिक्तरेखाः परिमार्ज्जयेत्। ततः प्रथमे वृत्ते कर्णिका द्वितीये केसराणि तृतीये दलमध्यानि चतुर्थे दलकोटयः पञ्चमे दलाग्रानोति कृत्वा अष्टदल’ पूर्वाभिमुखयोनिकं पद्मकुण्डमुत्तरदिशि कुर्य्यात्। इदानीमेतदेव कुण्डं प्रकारान्तरेणोच्यते “वृत्तकुण्डं समं चान्यदथवान्यप्रकारतः। वृत्तकुण्डं पुरा कृत्वा चतुर्द्धाऽऽमेखलं भजेत्। उत्सेधञ्च तथा कृत्वा कर्णिका सार्द्धका भवेत्। अवशिष्टं दलं वेददलमष्टदलन्तु वा” यथा प्रतीच्यां दिशि वृत्तकुण्डमभिहितमिहापि तथेव कृत्वा तन्मध्ये यथाविभागं पद्मकुण्डं कुर्य्यादिति। अथवेत्यादिना तृतीयः प्रकार उच्यते पूर्वं वृत्तकुण्डमेव आमेखलं प्रेखलमवधीकृत्य अन्तश्चतुर्द्धा भजेत्। वृत्तकुण्डमध्ये अन्यस्या पि समभागस्य वृत्तत्रयस्य करणाच्चतुर्थक्षेत्रविभागः कार्य्यैत्यर्थः। ततः क्षेत्रमध्ये सार्द्धभागेन विस्तृता कर्णिका विधेया। उत्सेधञ्च तथा कृत्वेति, कर्णिकाया उच्छ्रयमपि सार्द्धभागेन कृत्वेत्यर्थः। अवशिष्टेन सार्द्धभागद्वयेन केसरव्यतिरिक्तानि दलान्येव कुर्य्यात्। एवञ्चतुर्द्दलमष्टदलं वा पद्मकुण्डं कुर्य्यात्। “क्षेत्रात् द्वादशमं भागं चतुर्द्दिक्षु तदन्तरे। विन्यस्य तत्प्रमाणेन तुर्य्यांशमपरं नयेत्। तस्य कर्णप्रमाणेन तद्भुजास्वपि लाञ्छयेत्। तत्राष्टसूत्रसंयोगादष्टास्रं कुण्डमुच्यते”। द्वादशधा विभक्तस्य क्षेत्रस्य यावान् द्वादशो भागस्तावन्तं भाग चतुर्द्दिक्षुविन्यस्य, तदन्तरे, तस्य क्षेत्रस्य अन्तरे बहिःप्रदेशे “अन्तरं बहिर्योगोपर्सव्यानयोरिति” ज्ञापकादन्तरशब्दोऽत्र बहिर्वचनः। तत् प्रमाणेनेति तस्य वहिर्विन्यस्तद्वादशभागस्य परिमाणेन अपरं द्वितीयं तुर्य्यास्रं चतुरस्रं नयेत् प्रणयेत् कुर्य्यात इति यावत्। तुर्य्यास्रमिति, स्वार्थिकोऽत्र पूरणप्रत्ययः। तस्य कर्णप्रमाणेनेति। कोणात् कोणान्तरस्पर्शिसूत्रं शिल्पशास्त्रेषु कर्ण इति प्रसिद्धम्। इह तु क्षेत्रगर्भादारभ्य चतुष्कोणगामिनः पृथगेव चत्वारः कर्णा इत्यभिप्रायेण कर्णार्द्धमपि कर्णशब्देनोक्तम् तेनायमर्थः। बाह्यस्थितचतुर- स्रस्य गर्भदेशावघिर्यावान् कर्णस्तावता मानेन तद्भुजासु तस्य कर्णस्य भुजासु लाञ्छयेत्। अत्र बाह्यचतुरस्र सूत्राण्येव कर्णोभयपार्श्ववर्त्तीनि निजभुजाकारतया भुजाशब्देनोच्यन्ते। अयमाशयः–बाह्यचतुरस्रसम्बन्धिन्येकस्मिन् कोणे कर्णार्द्धपरिमितस्य सूत्रस्यादिं विधाय तत्सूत्रं चतुरस्ररेखोपरि प्रसार्य्य सूत्रप्रान्ते लाञ्छयेत्। एवं प्रतिकोणं सूत्रादिं निधाय प्रातिलोम्यानुलोम्येन सूत्र प्रसारणात् तत्तत्प्रान्ते लाच्छयन् प्रतिदिशं लाञ्छनद्वयकरणाद्दिक्चतुष्टयेन लाञ्छनेषु सूत्राष्टकनिपातनादष्टास्रकुण्डं कुर्य्यादिति। अयमिह निर्म्माणप्रकारः–पूर्ववच्चतुरस्रीकृतस्य क्षेत्रस्य बहिश्चतुर्द्दिक्ष द्वादशमं भागं विन्यस्य तत्परिमाणेन अपरं चतुरस्रं कुर्य्यात्। अथ तदीयकर्णार्द्धपरिमितस्य सूत्रस्य प्रतिकोणमादिं विधाय चतुरस्ररेखोपरि प्रसारणात् तत्तत्प्रान्तेषु लाञ्छयन् दिक्चतुष्टयेन लाच्छनाष्टकं कृत्वा तल्लाच्छनोपरि सूत्राष्टकनिपातनादैशानदिशि पूर्वाभिमुखयोनिकमष्टास्रकुण्डं कुर्य्यात्। इदानीं दिग्नियममन्तरेणैव तत्तत्कर्म्मोपयोगितया विज्ञानललितोपदिष्टं कुण्डमुच्यते। “सप्तमांशंबहिर्न्यस्य कृत्वा वृत्तमिह भ्रमात्। चतुर्थभागान्न्यूनेन पूर्वक्षेत्रेण सम्भितैः। घनुर्ज्याकृतिभिः पञ्चसूत्रैः पञ्चास्रकुण्डकम्। होमे प्रशस्यते भूतशाकिनीग्रहनिग्रहे”। चतुरस्रस्य क्षेत्रश्य बहिःप्रदेशे चतुर्द्दिक्षु क्षेत्रसप्तमांशं वि न्यसेत्। ततः क्षेत्रगर्भविन्यस्तादेः बाह्यस्थितसप्तमांशोपरि विन्थस्तप्रान्तस्य सूत्रस्य सर्वतः परिभ्रामणात् वृत्तं निष्पादयेत्। पूर्वक्षेत्रेणेति, बहिस्थितवृत्तापेक्षया, पूर्वक्षेत्रशब्देन आन्तरञ्चतुरस्रक्षेत्रमेवोच्यते। ततश्चायमर्थः आन्तरचतुरस्रस्य यद्दैर्घ्यं ततः स्वकीयचतुर्थभागान्न्यूनं कृत्वा यन्मानं भवति तावता मानेन परिमितं सूत्रं निधाय तादृशानि पञ्च सूत्राणि बाह्यवृत्तस्यान्तर्विन्यस्य सूत्रसन्धौ कोणं कुर्य्यात्। तानि च पञ्च सूत्राणि प्रत्येकं प्रान्तद्वयसंस्पृष्टवृत्तत्वात् धनुर्ज्याकृतीनि धनुरारूढमौर्वीसदृशानि स्युः। ततः पञ्चसूत्रातिरिक्तं सर्वं परिमृज्य पञ्चास्रकुण्डं रचयेत्। तच्च ग्रहनिग्रहादिहोमे प्रयोज्यम्। “दशमांशं बहिर्न्यस्य कृत्वा वृत्तमिह भ्रमात्। भक्त्वा क्षेत्रं चतुःषष्ठ्या तद्भागैः त्रिंशता त्रिभिः। समानसूत्रं तादृक्षात् सप्तास्रं सूत्रसप्तकात्। अभिचारोपशान्त्यर्थं होमकुण्डमिति स्मृतम्”। इहापि चतुरस्रस्य क्षेवस्य दशमभागं चतुर्द्दिक्षु वहिर्विन्यस्य पूर्ववत् वृत्तं कुर्य्यात्। अथ पूर्वक्षेत्रं चतुःषष्ट्या विभज्य तेषां चतुःषष्टिसंख्यानां भागानां मध्ये त्रयस्त्रिंशत्संख्यैर्भागैः परिमितं सूत्रं कृत्वा तादृशानि सप्त सूत्राणि वृत्तस्यान्ते विन्यस्य सप्तास्रं कुण्डं कुर्य्यात्। अत्रापि सूत्राणां धनुर्ज्याकारत्वं सूत्रसन्धौ कोणनिर्म्माणं सप्तसूत्रातिरिक्तपरिमार्ज्जनं चेति पूर्ववदेव वेदितव्यम्। एतच्च कुण्डमभिचारदोषोपशमनहोमेषु प्रयोज्यम्। आह विश्वकर्म्मा “यावन्मात्रः कुण्डविस्तार उक्तस्तावत् खातस्यापि मानं प्रदिष्टम्। यादृक् कुण्डस्याकृतिः संप्रदिष्टा तादृग्रूपं मेखलाया विदध्यात्। स्थापने सर्वकुण्डानां ध्वंजायः सर्वसिद्धिदः”। सर्वेषु चैतेषु प्रोक्तमानाद्वृद्धाङ्गुलयवादि न्यूनमतिरिक्तं वा विधाय ध्वजायः साधनीयः। विस्तारे दैर्ध्यगुणिते अष्टभिर्विभक्ते यद्येकः परिशिष्यते तदा ध्वजाय इति। “खातेऽधिके भवेद्रोगो हीने धेनुधनक्षयः। वक्रकुण्डे तु सन्तापो मरणं भिन्नमेखले। मेखलारहिते शोकोऽभ्यधिके वित्तसंक्षयः। भार्य्याविनाशनं प्रोक्तं कुण्डे योन्या विना कृते। अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्ज्जितम्”। खातहीने भवेद्रोगः इत्यादिना खातादिलक्षणरहितस्य कुण्डस्यानिष्टफलत्वदर्शनादिदानीं खातादीनामेव लक्षणमभिधीयते। तद्यथा मोहचूडोत्तरशास्त्रे “चतुर्विंशतिमं भागमङ्गुलं परिकल्प्य तु। चतुर्विंशाङ्गुलं हस्तं कुण्डानां परिकल्पयेत्। हस्तमात्रं खनेत्तिर्य्यगूर्द्धं मेखलया सह”। मुष्टिमानं शतार्द्धे त्वित्यादिना प्रसिद्धेनैव हस्ताङ्गुलव्यवहारेण होमानुसारात् कुण्डमानमुक्तम्। इयन्तु खातादिमान कथनार्थं परिभाषा क्रियते। चिकीर्षितकुण्डक्षेत्रं चतुर्विंशतिधा विभज्य यावान् चतुर्विंशतिमो भागस्तावत्परिमाणमङ्गुलं परिकल्प्य चतुर्विंशत्या अङ्गुलैर्हस्तं परिकल्पयेत्। ततस्तेन हस्तेन परिमितं सर्वकुण्डानां तिर्य्यक्खातमानं विधाय मेखलासहितस्य खातस्य तेनैव हस्तेन परिमितमूर्द्ध्वमानंविदिध्यात्। प्रथमे उक्तम् “कुण्डं जिनाङ्गुलम्। तिर्य्यगूर्द्ध्वमेखलया सह” जिनाङ्गुलं चतुर्विंशत्यङ्गुलम्। प्रतिष्ठासारसंग्रहेऽपि “पञ्च–त्रिमेखलोच्छ्रायां ज्ञात्वा शेषमधः खनेत्”। विश्वकर्म्मणाप्यु क्तम् “व्यासात् खातः करः प्रोक्तो निम्नस्तिथ्यङ्गुलेन तु”। तिथ्यङ्गुलानि–पञ्चदशाङ्गुलानि खार्तस्य नित्यत्वम्। “उन्नता सा नवाङ्गुलैरिति, वक्ष्यमाणत्वान्मेखलात्रयपक्षे नवाङ्गुलं प्रथममेखलयोत्सेध इत्युभयोश्चतुर्विं- शत्यङ्गुलत्वम्। कण्ठमानमुक्तं कालोत्तरे “खाताद्बाह्येऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः”। खातमेखलयो रन्तराले अङ्गुलमानेन कण्ठमोष्ठापरपर्य्यायं कुर्य्यात्। सारसमुच्चये “खाताद्बाह्याङ्गुलः कण्ठस्तद्वाह्ये मेखला क्रमात्। मेखलालक्षणमुक्तं कामिके” “क्षेत्रार्कांशेन तस्यौष्ठः स्यात्तद्वेदर्नुभागतः। मेखलापृथुतोच्छ्रायः कुण्डाकारा तु मेखला। सर्वेषान्तु प्रकर्त्तव्या मेखलैकात्र लाघवात्”। क्षेत्रस्य अर्कांशेन–द्वादशांशेन कुण्डस्यौष्ठः कण्ठशब्दवाच्यः स्यात् तद्वेदभागतः कुण्डचतुर्थांशतो मेखलायाः पृथुता विस्तारः। तथा ऋतुभागतः षष्ठभागेन मेखलोच्छ्रायः कार्य्यः। पिङ्गलामतेऽपि “खातादेकाङ्गुलं त्यक्त्वा मेखलानां स्थितिर्भवेत्। मेखलैकाथवा तिस्रो भूतसंख्याथवा प्रिये”। भूतसंख्याः–पञ्चसंख्याः। उक्तञ्च प्रथमे “कण्ठाङ्गुलाद्बहिः कार्य्या मेखलैका पडङ्गुला। चतुस्त्रिड्यङ्गुला यद्वा तिस्नः सर्वत्र शोभनाः”। यदा एका मेखला तदा सा विस्तारोत्सेधाभ्यां षडङ्गुला विधेया “एका षडङ्गुलोत्सेधविस्तारा मेखला मतेति “पिङ्गलोक्तेः। यदा तु गेखलात्रयपक्षस्तदा क्रमेण चतुस्त्रिद्व्यङ्गुलमानाः कर्त्तव्याः। मोहचूडोत्तरे “मेखलात्रितयं कार्य्यं कोणरामयमाङ्गुलैः। कोणाः–चत्वारः। रामाः–त्रयः। यमौ–द्वौ। तत्र सर्वान्तिमा, द्व्यङ्गुला। मध्यस्था त्र्यङ्गुलाः। कुण्डकण्ठसन्निहिता चतुरङ्गुला इति। सत्येवं प्रथममेखलाथाः कुण्डकण्ठादारभ्य नवाङ्गुल उत्सेधःस्यात्। लक्षणसंग्रहेऽपि “प्रथमाष्टाङ्गुला व्यासादुन्नता सा नवाङ्गुलैः। मध्या तु त्र्यङ्गुला बाह्ये तृतीया तु यमाङ्गुला। मेखलाः पञ्च वा कार्य्याः षट्पञ्चाब्धित्रिपक्षकैः” प्रथमा कुण्डसन्निहिता आन्तरोत्सेधनवाङ्गुला वाह्ये तु चतुरङ्गुलैव। अब्ध्याङ्गुला–चतुरङ्गुला। अब्धयःचत्वारः। पक्षौ–द्वौ। योनिलक्षणमुक्तं स्वायम्भुवे “मेखलामध्यतो योनिः कुण्डार्द्धा त्र्यंशविस्तृता। अङ्गुष्ठमानोष्ठकण्ठा कार्य्याश्वत्थदलाकृतिः। प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखा। पूर्वमुखाः स्मृताःशेषा यथाशोभं समन्विताः। मेखलाया गर्भदेशे कुण्डार्द्धदीर्घा कुण्डष्टतीयांशविस्तृता योनिःकार्य्या। अत्रौष्ठशब्देन योन्यग्रमुच्यते। कण्ठशब्देन च योनिमेखला अङ्गष्ठशब्दः, अङ्गुलपर्य्यायः। एकाङ्गुलपरिमाणेन योनेरग्रं मेखलाञ्च कुर्य्यादित्यर्थः “विस्तारोऽष्टाङ्गलो योनेरग्रमङ्गुलसं मितमिति” पिङ्गलोक्तेः। नारदीये कुण्डत्र्यंशप्रविस्तारा योनिरुच्छ्रयताङ्गुलम्। कुण्डार्द्धेन तु दीर्घा स्यात् कुण्डोष्ठी बोधिपत्रवत्”। कुण्डोष्ठीति यथा कुण्डे द्वादशांशेन ओष्ठो विहित एवं योनेरपि द्वादशभागेन ओष्ठः कार्य्य इत्यर्थः। तथा कुण्डे प्रविष्टओष्ठो यस्या इति। बोधिपत्रम्, अश्वत्थपत्रम्। त्रैलोक्यसारे “दीर्घात् सूर्य्याङ्गुला नाभिस्त्र्यंशोना विस्तरेण तु। एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरे तथा। कुम्भद्वयसमायुक्ता चाश्वत्थदलवन्मता। अङ्गुष्ठमेखलायुक्ता मध्ये त्वाज्यधृतिस्तथा। दक्षस्था पूर्वयाम्ये तु वामस्था पश्चिमोत्तरे। नवमस्यापि कुण्डस्य योनिर्द्दक्षदलस्थिता”। सूर्य्याङ्गुला–द्वादशाङ्गुला। त्र्यंशोनेतिदैर्घ्यतृतीयांशन्यूनविस्तारा। एकेनाङ्गुलेनोच्छ्रिता तथा, एकेनाङ्गुलेन कुण्डमध्ये प्रविष्टा। कुम्भद्वयसमायुक्तेतिपूर्व्वोक्ताग्नेयकुण्डस्य तुल्याकृतेर्योनेर्तुध्नदेशस्थितं वृत्तद्वयमेव गजकुम्भाकृतित्वात् कुम्भशब्देनोक्तम्। तेनात्र कुण्डस्थलाकृतिर्वटद्वयं मृत्पिण्डद्वयं वा स्थाप्यमिति तद्ग्राहम्। अङ्गुष्ठमेखलेति, एकाङ्गुलमानया मेखलया परिवेष्टितेत्यर्थः। मध्ये त्विति, यथा श्रुचि घृतधारणया बिलं क्रियते तथा योनिमध्येऽपि बिलं कर्त्तव्यमित्यभिप्रायः। दक्षस्थेति, पूर्व्वाग्नेययाप्यकुण्डेषु दक्षिणभागे उत्तराभि मुखा योनिः कार्य्या नैरृत्यादिकुण्डेषु तु पश्चिमभागे प्राङ् मुखा विधेया। नवम इति, अष्टदिक्षु कुण्डाष्टकं विधाय पूर्वोशानदिशोरन्तराले यन्नवमं कुण्डं चतुर्द्दिक्षु वा कुण्ढचतुष्टयं कृत्वा ईशानदिशि यत् पञ्चमं कुण्डं तयोरपि दक्षिणभागेऽपि योनिः कार्य्येत्यर्थः”।

तत्र विशेषक्षेत्रफलादिकं कुण्डोद्द्योते उक्तंयथा “शारदातिलके “अष्टास्वाशासु रम्याणि कुण्डान्येता न्यनुक्रमात्। चतुरस्रं योनिरर्द्धचन्द्रं त्र्यस्रञ्च वर्त्तुलम्। षडस्रं पङ्कजाकारमष्टास्रन्तानि नामतः। आचार्य्यकुण्डंमध्येस्याद्गौरीपतिमहेन्द्रयोरिति” सिद्धान्तशेखरे “पुरन्दरेशयोर्मध्ये वृत्तं वा चतुरस्रकम्। तदाचार्य्यं विनिर्द्दिष्टमिति” अयमुत्तमः पक्षः। अथ पञ्चकुण्ड्येककुण्डनिवेशनं यथा “आशेशकुण्डैरिह पञ्चकुण्डी चैकं यदा पश्चिमसोमशैवे। वेद्याः सपादेन करेण यद्वा पादान्तरेणाखिलकुण्डसंस्था” आशा–दिक् तत्र कुण्डानि चतुरस्रवृत्तार्द्धवृत्तपद्मानि ईशदिशि कुण्डं चतुरस्रं वृत्तं वा तैः पञ्चकुण्डीनिवेशनं स्यात् यदा चैकमेव कुण्डं तदा पश्चिमे उत्तरे वा ऐशान्यां वा स्यात् परन्तु चतुरस्रं, वेद्याः सकाशात्तानि सर्व्वाणि कुण्डानि सपादेन करेण त्रिंशदङ्गुलान्तरेण वा पादान्तरेण द्वादशाङ्गुलान्तरेण वा वेदीपादान्तरेण वेद्याश्चतुर्थांशेन वा मण्डपे नवकोष्ठे कृतेऽष्टसु भागेषु मध्ये भवत्तीति व्याख्या” नारदीये “यत्रोपदिश्यते कुण्डचतुकं तत्र कर्म्मणि। वेदास्रमर्द्धचन्द्रं च वृत्तं पद्मनिभं तथा”। चतुःकुण्डपक्षे खातोनास्तीत्युक्तं भारदीये “पीठवद्वर्त्तयेत्कुण्डं सुप्रमाणमगर्त्तकम् कुर्य्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः। पञ्चमं कारयेत् कुण्डनीशदिग्गोचरं द्विजेति” अयं मध्यमः पक्षः। कैश्चित्पूर्व्वेशयोरिति लिखितन्तदसत् सोमशम्भौ “एवं वा शिवकाष्ठायां प्रतीच्याङ्कारयेद्बुधः “आचार्य्या अपि “अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरस्रमेकमेव” इयं कनिष्टः पक्षः। नवग्रहाधिकारे वसिष्ठसंहितायाम् “कुण्डन्तन्मध्यभागे तु कारयेच्चतुरस्रकम्। वितस्तिद्वयखातं तत् कुण्डं तु चतुरङ्गुलमिति। वेदीपादान्तरन्त्यक्त्वा कुण्डानि नवपञ्च वेति”। नारदीये “कुण्डपेद्यन्तरञ्चैव सपादकरसंमितमिति” कैश्चित्त्रयोदशाङ्गुलमप्यन्तरमुक्तं तत्र मण्डपानुसारेण व्यपस्था। अथ वर्णविशेषस्य स्त्रीणाञ्च कुण्डविशेषमाह “विप्राच्छ्रुत्यस्रं च वृत्तं च वृत्तांर्द्धं त्र्यस्रं स्याद्वेदकोणानि वापि। सर्वस्याहुर्वृत्तरूपाणि चान्ये योन्याकाराण्यङ्गनानां मतानि “विप्रादारभ्य विप्रक्षत्रियविट्शूद्राणां चतुःकोणवृत्तवृर्त्तार्द्धत्रिकोणानि भवन्ति। अथवा विप्रादि वर्णेषु चतुःकोणानि वर्त्तुलानि वा सर्व्वाणि कुण्डानि भवन्ति यदा स्त्री यजमाना तदा योन्याकाराण्येव कुण्डानि भवन्तीति व्याख्या। शारदायाम् “विप्राणां चतुरस्रं स्याद्राज्ञां वर्त्तुलमिष्यते। वैश्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् चतुरस्रन्तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः”। पञ्चरात्रे “सर्वाणि तानि वृत्तानि चतुरस्राणि वा सदा” सनत्कुमारः “स्त्रीणां कुण्डानि विप्रेन्द्र! योन्याकाराणि कारयेदिति”। अथ प्राच्यादिकुण्डेषु फलविशेषमाह “सिद्धिः पुत्राः शुभं शत्रुनाशः शान्तिर्मृतिच्छिदे वृष्टिमारोग्यसुक्तं हि फलं प्राच्यादिकुण्डके” प्राच्यादिकुण्डेष्वष्टस्वष्टौ फलानि स्युः। शारदायाम् “सर्वसिद्धिकरं कुण्डंचतुरस्रमुदाहृतम्। पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम्। शत्रुक्षयकरन्त्र्यस्रं वर्त्तुलं शान्तिकर्मणिछेदमारणयोः षष्ठं षडस्रं पद्मसन्निभम्। वृष्टिदं रोगशमनं कुण्डमष्टास्रमी- रितम्”। कामिके तु फलान्तरम् “ऐन्द्र्यां स्तम्भे चतुःकोणमग्नौ भीगे भगाकृति। चन्द्रार्द्धं मारणे याम्ये, द्वेषे त्र्यस्रन्तु नैरृते। वारुण्यां शान्तिकेवृत्तं, षडस्न्यु च्चटिनेऽनिले। उदीच्यां पौष्टिके पद्मं रौद्य्रामष्टास्रि भुक्तिदमिति” अथ होमसंख्यया कुण्डमानम्। “शतार्द्धेरत्निः स्याच्छतपरिमितेऽरत्निविततः सहस्रे हस्तःस्यादयुतहवने हस्तयुगलम्। चतुर्हस्तं लक्षे प्रयुतहवने षट्करमिभैः ८ ककुबुभिर्वा १० कोणैर्नृपकरमपि प्राहुरपरे” शतार्द्धमिते पञ्चाशन्मिते होमे रत्निमितं कुण्डं, शतमिते अरत्रिमितं, सहस्रमिते होमे हस्तमितं, दशसहस्रमिते द्विहस्तं, लक्षहोमे चतुर्हस्तमित’ दशलक्षहोमे षड्ढस्तमितं, कोटिहोमेऽष्टहस्तमितं दशहस्तमितं वा। केचित् षोडशकरमपि प्रांहुरितिव्याख्या भविष्यपुराणे “मुष्टिमानं शतार्द्धेतु शते चारत्निमात्रकम्। सहस्रे त्वथ होतव्ये कुण्डङ्कुर्य्यात्करात्मकम्। द्विहस्त्रमयुते तच्च लक्षमाने चतुःकरम्। दशलक्षमिते होमे षट्करं सम्प्रचक्षते। अष्टहस्तात्मकं कुण्डं कोटिहोमेषु नाधिकम्” शारदायाम् “दशहस्तमितं कुण्डं कोटिहोमेऽपि शस्यते” स्कान्दे “कोटिहोमे चतुर्हस्तं चतुर्हस्तं समन्ततः योनिवक्त्रद्वयोपेतन्तदप्याहुस्त्रिमेखलमिति” इदं प्राय स्थूलहव्यविषयम् “अथ केषांचिन्मते कुण्डमाना “लक्षैकवृद्ध्यादशलक्षकान्तङ्करैकवृद्ध्यादशहस्तकञ्च। कोट्यर्द्धदिग्विंशतिलक्षलक्षदले मुनीष्वर्तुकृशानुहस्तम्” लक्षस्यैकवृद्ध्या दशलक्षकाणामन्तं समाप्तीकृत्यादश लक्षकान्तम् एकलक्षमारभ्य लक्षवृद्ध्या दशलक्षपर्यन्तमित्यर्थः करस्य एकवृद्ध्यादशहस्तकम्पर्यादीकृत्येत्यादशहस्तकम् एककरमारम्य एककरवृद्ध्या दशहस्तं यावत्कुण्डं प्राहुरिति पूर्वेणान्वयः कोटेरर्द्धे पञ्चाशल्लक्षे दशविंशतिलक्षे लक्षदले पञ्चाशत्सहस्रे क्रमात् सप्तपञ्चषट्त्रिकरं कुण्डमिति व्याख्याः शारदायाम् “एकहस्तमितं कुण्डं लक्षहोमे विधीयते। लक्षाणां दशकं यावत्तावद्धस्तेन वर्द्वयेत्” सिद्धान्तशेखरे “लक्षार्द्धे त्रिकरं कुण्डंलक्षहोमे चतुःकरम्। कुण्डं पञ्चकरम्प्रोक्तं दशलक्षाहुतौ क्रमात्। षड्ढस्तं लक्षविंशत्यां, कोट्यर्द्धे सप्तहस्तकमिति”। इदमेव कुण्डमानङ्कामिकादिमतं सिद्धान्त शेखरशारदाहेमाद्रिप्रमुखैः प्राचीनैः राघवभदृरामवाजपे यिकुण्डरत्नाकरकुण्डकौमुदीकारादिभिर्नवीनैश्च लिखितं कुत्रचिदन्यथापि कुण्डमानान्युक्तानि तानि तत्तत्प्रकरण- वशात्तत्कर्मविशेषे द्रष्टव्यानि। अथैकहस्ताद्दशहस्तान्तं यावत्कुण्डेषु भुजकोटिमानम् “वेदाक्षोणि युगाग्नयःशशियुगान्यष्टाब्धयस्त्रीषवोऽष्टाक्षावह्निरसारसाङ्गकमिता नेत्रर्षयोऽक्षस्वराः। अङ्गुल्यो,ऽथ यवाः स्वमभ्रमिषवः खं पञ्चषट् सागराः सप्ताभ्रं मुनयस्त्वमी निगदिता वेदास्रके बाहवः”। एकहस्ते कुण्डे चतुर्विंशत्यङ्गुलान्यायामविस्तारौ, द्विहस्ते चतुस्त्रिंशदङ्गुलानि। इमानि पादोन लिक्षाचतुष्टयन्युनानि अल्पान्तरत्वात् पूर्णान्येव धृतानि। त्रिहस्ते एकचत्वारिंशदङ्गुलानि। चतुर्हस्ते अष्टचत्वारिंशदङ्गुलानि। पञ्चहस्ते पञ्चयवाधिकानि त्रिपञ्चाशदङ्गुलानि। षड्ढस्ते त्रिपदोनैकोनषष्टिः, सप्तहस्ते सार्द्धत्रिषष्टिः। अष्टहस्ते यवोना सप्तषष्टिः। नवहस्ते द्विसप्ततिः दशहस्ते यवोना १ षट्सप्ततिरिति षोडशहस्ते षण्णवतिः चतुर्भुजे कुण्डे मुजाउक्ता इति व्याख्या। अत्रोपपत्तिः एकहस्तस्य चतुर्विंशत्यङ्गुलात्मकस्य भुजकोटिघातः क्षेत्रफलं तच्च षट्सप्तत्यधिकपञ्चशती ५७६। एतत्पदमेकहस्तक्षेत्राङ्गुलानि चतुर्विंशतिः। एवं क्षेत्रफलस्य द्व्यादिगुणस्य मूलं चतुस्त्रिंशदाद्यङ्गुलानि भवन्ति। अथ योनिनिवेशनम् “कुण्डत्रयी दक्षिणयोनिरैन्द्र्याः सौम्याग्रका स्यादितराणि पञ्च। पश्चाद्भगानीन्द्रदिगग्रकाणि योनिर्न कोणे न च योनिकुण्डे” ऐन्द्र्याः प्राच्या आरभ्य कुण्डत्रयी चतुरस्रयोनिवृत्तार्द्धरूपा दक्षिण्णयोनिः स्यात् उत्तराग्रा अर्थाद्धोता उदङ्मुखः। इतराणि पञ्च कुण्डानि त्र्यस्रिवृत्तषडस्रिपद्माष्टास्राणि प्रत्यग्योनीनि प्रागग्राणि अर्थाद्धोता प्राङ्मुखः। नवममपि कुण्डं दक्षिणयोन्युदगग्रम्। योनिः कोणे योनिकुण्डे च न कार्येति व्याख्या। स्वायम्भुवे “प्रागग्नियाम्पकुण्डानां प्रोक्ता योनिरुदङ्मुखी। पूर्व्वमुखा स्थिताः शेषाः यथाशोभं व्यवस्थिताः” इति। त्रैलोक्यसागरे “नवभस्यापि कुण्डस्य योनिर्दक्षदले स्थितेति” अन्यत्र “नार्पयेत् कुण्डकोणेषु योनिं तान्तन्त्रवित्तमः” इति “योनिकुण्डे तथा यीनिं, पद्मे नाभिं विवर्जयेदिति”। अथ सर्वेषां कुण्डानां प्रकृतिभूतं चतुरस्रमाह “द्विघ्नव्यासन्तूर्यचिह्नं मपाशं मूत्रं शङ्कौ पश्चिमे पूर्ब्बगेऽपि। दत्त्वाकर्पेत् कोणयोः पाशतुर्य्यं स्यादेवं वा वेदकोणे समानम्”। इष्टव्यासाद् द्विगुणितं व्यासं चतुर्थांशकृतचिह्नं सपाशं मूत्रं पूर्व्वपश्चिमस्थयोः शङ्क्वोर्दत्त्वा दक्षिणोत्तरसूत्रमध्ये यथामध्यचिह्नं भवति तथा कोणयोः पाशाच्चतुर्थांशे आकर्पेत् एवमन्यतोऽपि। एवं कृते समचतुरस्रं स्यात् इदमेव सर्वेषां कुण्डानां मूलमिति व्याख्या। उक्तं च “चतुरस्रमिदं प्रोक्तं सर्वकुण्डेषु कारणमिति” अत्र “समश्रुतौ तुल्य चतुर्भुजे च तथाऽऽयते तद्भुजकोटिघातः” क्षेत्रफलं षट्सप्तत्यधिकपञ्चशती ५७६ एतावदेव योन्यादिकुण्डेषु एकहस्तेषु यथा क्षेत्रफलं सम्पद्यते तथा यतितव्यमिति। अथ योनिकुण्डमाह “क्षेत्रे जिनांशे तु पुरःशरांशान् संवर्ध्य च स्वीयरदांश ३२ युक्तान्। कर्ण्णाङ्घ्रिमानेन लिखेन्दुखण्डे प्रत्यक्पुरोऽङ्काद्गुणतोभगाभम्”। चतुरस्रेक्षेत्रे चतुर्विंशतिधा भक्ते सति पञ्चांशान् स्वीयद्वात्रिंशदं शयुक्तान् अग्रे संवर्द्ध्य ततश्चतुर्धा विभक्तस्य क्षेत्रस्य पश्चिमचतुरस्रद्वयमध्याङ्कात् कर्ण्णसूत्रस्य चतुर्थांशेन प्रत्यक्पश्चिमभागे इन्दुखण्डे वृत्तार्द्धद्वयं विद्वन्। लिख। ततः पूर्वाङ्काद्दक्षिणोत्तरसंलग्नं वृत्तार्द्धं याबन्नीयमानगुणद्वयतो भगाकारं योनिकुण्डंस्यादिति व्याख्या। अथ क्षेत्रफलानयनम् अत्र क्षेत्र त्रयं पूर्ब्बाङ्काद्दक्षिणोत्तरसूत्राग्रं यावन्नीयमानसूत्रद्वयं त्रिकोणमेकं, तथा दक्षिणोत्तरसूत्राग्रात्पूर्वापरसूत्रान्वं यावन्नीयमानसूत्रद्वयादपरं त्रिकोणम् उभयवृत्तार्द्धे मिलित्वा एकं वृत्तमिति तृतीयं, क्षेत्रत्रयफलयोगे पूर्ण्णफलम् तत्र प्रथमस्य क्षेत्रफलं यथा अत्र लम्बः अङ्गुलानि १७ यवः १ यूका २। भूः २४ “लम्बेननिघ्नं कुमुखैक्यखण्डमिति”। अत्र मुखाभावाद्भूमध्यमेव लम्बेन गुणितं सज्जातं प्रथमं क्षेत्रफलम् अङ्गुलानि २०५ यवाः ७। अथापरस्य लम्बः १२ भूःसैव अत्रापि तयैव रीत्या क्षेत्रफलं १४४। अथ वृत्तार्द्धयोरेकं वृत्तं तत्फलं यथा तत्र वृत्तव्यासः १६, ७, ४, १ “व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते” इति व्यासवर्गः २८८ ०। ०। २। अयम्भनवाग्नि ३९२७ निघ्नः पञ्चस– ५००० भक्तोजातं क्षेत्रफलंवृत्तस्य ११६। १। ४। ५। त्रयाणां योगे क्षेत्रफलं पूर्णं ५७६। ०। ४। ५। अत्र लिक्षा पञ्चकं यूकाचतुष्टयञ्चाधिकम् अल्पान्तरत्वाददोषः। ध्वजायसिद्धिश्चान्यन्नोक्ता। “स्थापने सर्व्वकुण्डानां ध्वजायः सर्वसिद्धिदः। शतांशोवाधिकं हीनं ह्रासवृद्धी न दूषयेत्। आयदोषविशुद्ध्यर्थं क्रियते शास्त्रकोविदैरिति”। एतत्क्षेत्रस्योत्तराग्रत्वात् उदीचीप्राचीवद्व्यवहर्त्तव्या एवमन्ययोरपि। पदार्थादर्शे “चतुर्विंशतिधा मध्य सूत्रं भक्त्वा पुरोन्यसेत्। पञ्चांशान् वैककस्य त्रीन्विंशाशान् कोणपादतः। वृत्तार्द्धेस्तो मध्यतिर्यक् सूत्रान्तञ्च ततोऽर्पथेत्। पुरो वर्द्धितसूत्रान्तं, सूत्रे द्वे स्याद्भगाकृतिरिति” “इमानि कुण्डानि कादिग्रथविरुद्धानीयतादरणीयानि। तानिवचनानि तु तदाकारत्वमात्रसम्पादकानि न क्षेत्रफलपूर्तिफराणि तत्र शिव्यक्लेशोमा भूदिति स्थूलमार्गेण योन्याद्याकारमात्रं प्रतिपाद्यते। योगणितानभिज्ञस्तेन चतुरस्रकण्डं तण्डुलादिना पूरयित्वा तानेव तण्डुलान् योन्यादिकुण्डे धृत्वा तत्पूर्त्तौ तोष्टव्यमिति। अङ्गलयवयूकालिक्षाः कृत्वा गोमूत्रिकारीत्या गणयित्वा अष्टभिर्भागे गृहीते फले उपर्य्युपरि च योज्यमाने फलायुतपद्यते अंशसवर्णनादि कुण्डमात्रेष्विति ज्ञेयम्। वृत्तार्द्धकुण्डमाह “स्वशतांशयुतेषुभागहीन स्वधरित्रीमितकर्कटेन मध्यात्। कृतवृत्तदलेऽग्रतश्च जीवां विदधातीन्दुदलस्य साधु सिद्ध्यै”। स्वीयशतांशेन युतोय इषुभागः पञ्चमांशः अर्थात् क्षेत्रस्यैव, तेन हीना चासौ स्वभूमिः क्षेत्रन्तन्मितेन कर्कटेन सूत्रेण वा मध्याङ्गात् कृतं यद्वृत्तार्द्धन्तस्मिन्पूर्वापरां रेखाञ्जीवारूपां वृत्तार्द्धस्य सिद्ध्यै साधु स्याद्यथा, तथा करोतु विद्वानिति व्याख्या। अत्र क्षेत्रफलम् क्षेत्रस्य पञ्चांशोऽङ्गुलाद्यः ४। ६। ३। १। ५। तस्य शतांशोऽङ्गुलाद्यः ०। ०। ३। ०। ४। अनेनान्वितः पञ्चांशः ४। ६। ६। २। १ अनेनोना क्षेत्रभूमिः १९। १। १। ५। ७ एतद्व्यासार्द्धंद्विगुणं व्यासः ३८। २। ३। ३। ६। अत्रापि व्यासस्य वर्गः १४४४। ५। २। ५। ४। भनवोग्निनिव्ने ३९२७। पञ्चसहस्रभक्ते इत्यादि रीत्या क्षेत्रफलम् ११५२। २। २। ६। २। एतद्वृत्तस्य फलम् अस्यार्द्धं वृत्तार्द्धक्षेत्रफलम् ५७६। १। ३। १ अत्रापि ध्वजायसिद्धिः। अथ त्र्यस्निवृत्तकण्डमाह “वह्न्यशं पुरतोनिधाय च पुनः श्रोण्योश्चतुर्थांशकञ्चिह्नेषु त्रिषु सूत्रदानतैदं स्यातत्र्यस्रि कथोज्झितम्। विश्वांशैः स्वजिनांशकेन सहितैः क्षेत्रे जिनांशे कृते व्यासार्द्धेन मितेन मण्डलमिदंस्याद्वृत्तसंज्ञं शुभम्” अत्र पूर्वार्त्वोक्तं कुण्डं व्याख्यायते क्षेत्रस्य तृतीयांशम्पूर्वतोनिधाय ततौभयश्रोण्योश्चतुर्थांशं निधाय दक्षिणत उत्तरतश्च दत्त्वा त्रिचिह्नेषु सूत्रदानात् कष्टरहितं त्र्यस्रि जायते इति तृतीयांशोऽष्टाङ्गुलानि मध्यसूत्रे योजितानि जातोलम्बः पश्चिमभज उभतश्चतुर्थांशः षडङ्गुलानि योजितानि जातानि भूः ३६ अत्र मुखाभावात् भूमेरर्द्धं कृतम् १८ इदं लम्बेनानेन निघ्नञ्जातं अत्र क्षेत्रफलम् ५७६ समभुजे क्षेत्रफलञ्च सिद्ध्यतीति कष्टोज्झितमित्युक्तम् किञ्चिद्भुजवैषम्यं न दोषाय अत्रापि ध्वजाय एवेति। अथोत्तरार्द्धेन वृत्तमाह क्षेत्रे चतुर्विंशतिभक्ते सति त्रयोदशांशैः सह चतुर्विंशत्यंशयुतैः मितेन व्यासार्द्धेन मण्डलं यद्वृत्तं तत् वृत्तसंज्ञं कुण्डं सुन्दरं स्यात्। अथ क्षेत्रफलानयनम् अत्र त्रयोदशानाञ्चतुर्विंशांशोऽङ्घुलाद्यः० ४। २। ५। ३। अनेन युतास्त्रयोदश १३। ४। २। ५। २। इदं व्यासार्द्धभेतद्द्विगुणं व्यासः २७। ०। ५। २। ४ अत्र० व्यासस्य वर्गेऽस्मिन् ७३९। ०। ३। १। २ भनवाग्निनिघ्ने० पञ्चसहस्रभक्ते इत्यादिना क्षेत्रफलम् ५७६। ०। ६। ०। अत्रापि ध्वजाय एवेति। अथ षडस्रमाह “भक्ते क्षेत्रे जिनांशैर्धृतिमितलवकैः स्वाक्षिशैलांशयुक्तैर्व्यासार्द्धं मण्डले तन्मितधृतगुणके कर्कटे सेन्दुदिक्तः। षट्चिह्नेषु प्रदद्याद्रसमितगुणकानेकमेकन्तु हित्वा नाशे सन्ध्यंशदोषामपि च धृतिकृते नेत्ररम्यं षडस्रम्”। क्षेत्रेचतुविंशतिधा विभक्ते सति अष्टादशांशैः स्वद्वासप्ततितमांशयुक्तैस्तावता व्यासार्द्धेन वृत्ते कृते सति तेनैवव्यासार्द्धेन मिते गुणके सूत्रे सति कर्कटे वा उत्तरदिक्तो धृते सति परावर्त्तनेन षट्चिह्नानि भवन्ति तेषु षट्सु चिह्नेषु षट्सूत्राणि एकान्तरेण परस्परलग्नानि दद्यात् ततः सन्धौ ये अङ्गदोषाः षड्भुजास्तेषां नाशेधृतिकृते मण्डलस्य विनाशे षडस्नि रमणीयञ्जायत इति व्याख्या अस्मिन् षडस्रे व्यासः ३६। ४। ० अत्रोत्तराग्रं त्रिकोणमेकं महत् तद्भुजमानं त्रिद्व्यङ्काग्रि नभश्चन्द्रैर्वृत्तव्यासे समाहते। खखखाभ्रार्क १२०००० संभक्ते लभ्यन्ते क्रमशोभुजाः” इति त्रयाणां भुजानां मानं ३१। ४। ३। ० उत्तराग्रात् पूर्ब्बापरभुजमव्यं यावन्नीयमानं सूत्रं लब्धश्चतुर्थांशोव्यासएव २७। ६। ० भुजाः, एवं भूः मुखार्भावद्भूम्यर्द्धं १५। ६। ३। ४ लम्बेन निघ्नमित्यादिना जातं क्षेत्रफलं ४३२। ५। ३ अथास्य महतस्यिभुजस्य त्रिष्वपि भुजेषु त्रीणि त्र्यस्राणि समान्येव लुय्नानि भवन्ति तत्रैकस्य फलमानीय त्रिगुणं कृत्वा पूर्ब्बफले योजितं सत् पूर्ण्णं क्षेत्रफलं स्यात्। तत्र दक्षिणकोणाग्रात् पूर्वापरभुजमध्यंनीयमानं सूत्रं लम्बः ९। १। ० अयं व्यासचतुर्थांशः भुजत्थंशोभूमिः १०। ४। २। ३ सर्वत्रत्र्यंश एव भुजसम्पातात् अत्र मुखाभाकाद्भूमेरर्द्धं ५। २। १। १। इदं लम्बेन गुणितं क्षेत्रफलं ४८। ०। ४। २। १। जातं इदं त्रियुणं त्र्यस्ताणामपि फलं १४४। १। ४। ६। ३। इदं पूर्वक्षेत्रफलेऽस्मिन् ४३२। ५। ३ योजितं ५७६। ७। १। ४। ६। इदपकिञ्चिदधिकैकयुकाधिकं सप्तयवाधिकं अल्पान्तरत्वाददोषः। अय वा व्यासोयूकया न्यूनः कार्य्यः। ध्वजायसिद्धिश्च। अथ वा किमेतावता प्रयासेन लघुत्रिकोणं कुण्डंक्षेत्रं द्वादशांशः तत्क्षेत्रफलं स्यात् द्वादशगुणितं पूर्ण्णंक्षेत्रफलम्। अथेदङ्कुण्डं स्वबुद्धि विलासमात्ररचितमिति नोपेक्षणीयं यतः षट्कोणता समभुजताफलं च सम्पद्यते एव “मानाधिक्ये भवेद्रोगोमान हीने दरिद्रता” इत्यादिदोषापत्तिरपि नास्ति। अथ वक्तव्यं प्राचीनकृतकुण्डविरुद्धन्तर्हि दृश्यते च प्राचीनकृतकुण्डेषु परस्परविरुद्धता इदमेव कुण्डं रामवाजपेयिभि र्विषमभुजं मृदङ्गाकारं कृतं राघवभट्टादिभिः समभुजमेव कारितं लक्ष्मणाचार्यादयोऽप्यन्यथैवोचुः तस्मादस्म दुक्ते नेत्ररभणीये समभुजे क्षेत्रफलसंवादिनि षट्–कोणे विद्वद्भिर्नानादरैभाव्यमिति। अथ ये प्राचीनकृतावेवाग्रहिणस्तेषान्तोषायापि समभुजमाह “अथ वा जिनभक्तकुण्डपानात्तिथिभागैः स्वखभूपभागहीनैः। मितकर्कटकोद्भवे तु वृत्ते विधुदिक्तः समषड्भुजैः षडस्तम्” अथवा चतुर्विंशतिभक्ते कुण्डमाने सति स्वीयषष्ठ्यधिकशतभागेन हीनैः पञ्चदशभागैर्मितोयः कर्कटस्तदुद्भवे वृत्ते उत्तरदिकः सकाशात् समैः षद्भिर्मुजैर्दत्तैः परस्परलग्नैः षडस्रं वृत्तमार्जमेन भवतीति व्याख्या। अथ क्षेत्र फलानयनं तत्र ‘वृत्तव्यासे द्विसंभागे षडस्रे स्युर्भुजाः स्फुटा’ इति भुजमानम् १४। ७। २। २ क्षेत्रमध्ये दक्षिणोत्तरां रेखान्दत्त्वा ऊर्ध्वं भुजसंपाततः पूर्ब्बापरं रेखाद्वयम् अधोभुजसंपातावधि दद्यात् एवं कृते चतुरस्रद्वयं परस्परलग्नं भवति पूर्ब्बापररेखयोर्दक्षिणोत्तररेखया सहसम्पातश्चतुर्थांशे एव भवति सैवाबाधा तन्मानं ७। ३। ५ भुजः १४। ७। २ “स्वावाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः” इति साधितोलम्बः १२। ७। १। अयमेव मध्यलम्बः “लम्बेन निघ्नं कु २९। ६। ४ मुखै १४। ७। ५। २ क्य ४४। ५। ६ खण्डम्” २२। २। ७। इति जातं क्षेत्रफलं २८८। १। १। ६ एवमपरस्या पि खण्डस्य। उभययोगे ध्वजायसिद्धिश्चेति। अथ पद्मकुण्डमाह “अष्टांशाच्च युतश्च वृत्तशरके तत्रादिभे कर्ण्णिकायुग्मे षोडश केशराणि चरमे स्वाष्टत्रिभागोनिते। भक्ते षोडश केशराणि च धृते स्युः कर्कटेऽष्टौ छदाः सर्वांस्तान् खन कर्णिकां त्यज निजायामौच्च्यकं स्यात् कजम्”। क्षेत्रस्याष्टमांशादष्टांशवृद्ध्या च वृत्तपञ्चके कृते सति तत्र पञ्चकमध्ये प्रथमं तत्कर्णिका, द्विनीये षोडश केशराणि, द्वितीयं केशरस्थानमित्यर्थः। अन्तिमे पञ्चमे वृत्ते स्वस्य अङ्गुलत्रयात्मकस्याष्टत्रिंशदं शोनितस्य षोडशसु स्थानेषु दिक्षु विदिक्षु तदन्तराले च समतया भाजिते तस्मिन्वृत्ते पञ्चचिह्नान्तरे दिशि विदिशि च कर्कटके धृते सति परावर्त्तनेनाष्टौ पत्राणि जायन्ते सर्वांस्त्रान् केशरादीन् केशरवृत्ततृतीयचतुर्थवृत्तानि पत्राणि च हे विद्बन्! खन कर्णिकां त्यज मा खन। कीदृशींनिजः स्वकीयश्चायामो विस्तारस्तत्तुल्यमौच्च्यं यस्यास्तां, कजंपद्मकुण्डम् वहिर्वृत्तमार्जनेन स्यादिति व्याख्या। अथ क्षेत्रफलानयनम् अत्रोपान्तिमस्य चतुर्विंशत्यङ्गुलस्य पूर्ब्बवत् क्षेत्रं ४५। २। ३। १ अन्तिमवृत्तस्यास्य २९। ३। ४। क्षेत्रफलं ६९९। ४। ५। ०। अनयोरन्तरार्द्धम् १२३। ४। ६। ० इदं पूर्ब्बक्षेत्रफले योजितं वा अन्तिमवृत्तक्षेत्रफलम्। प्रवर्त्तितंसज्जातं पूर्णं फलं ५७६। ०। १ यूकोनं फलमायात्यतोऽदोषः। अन्तिमवृत्ते लिक्षामात्रवर्द्धनेन ध्वजायसिद्धिश्चेति। अत्रान्तिमवृत्ते पत्रान्तरार्द्धभूसंग्रहोर्द्धभूत्यागश्च बुद्धिमता प्रत्यक्षतएवोपलब्धव्यः। अथाष्टास्रिकुण्डमाह “क्षेत्रे जिनांशे गजचन्द्रभागैः स्वाष्टाश्वि–२८ भागेन युतैस्तु वृत्ते। विदिग्दिशोरन्तरतोऽष्टसूत्रैस्तृतीय मुक्तैरिदगष्टकोणम्”। क्षेत्नचतुर्विंशतिभागे कृते सत्यष्टादशभामैः स्वीथाष्टाविंशेन युतैः कर्कटकेन वृत्ते कृते सति विदिग्दिशोर्भध्ये कृताष्टचिह्नेभ्यः अष्टभुजेभ्यस्तृतीयांशमिलितैः चिह्नद्वयं विधाय तृतीयचिह्नेन योजितैरष्टकोणं वृत्तमार्जनान्मध्यस्थाष्टदोःखण्डमाजेनाच्च भवतीति व्याख्या। अथ “क्षेत्रफलानयनं व्यासाद्विं १८। ५। १। ०। व्यासः ३७। २। २। अथ “द्विद्विनन्देषुसागरैर्वृत्तव्यासे समाहते। खखखाम्नार्कसंभक्ते लभ्यन्ते क्रमशो भुजाः” इति १४। २ एतद्वृहद्भुजमानं दक्षिणोत्तररेखा कोटिः आयते क्षेत्रेभुजकोटिघातः क्षेत्रफलम्। भुजकोटिज्ञानं तु वृहद्भुजतुल्यं मध्येऽन्तरम् १४। २। २ याभ्योत्तररेखोभयप्रान्तवर्त्तिरेखा खण्डमाने योजितं सत्कोटिः स्यात् यथा दक्षिणोत्तरपूर्ब्बापररेखा खण्डयोगादूर्ध्वरेखातिर्यग्रेखे भुजकोटिरूपे तदग्रान्नीयमानो महामुजएव कर्णः १४। २। २। ५। ०। अस्य वर्गार्द्धमूलं तिर्यग्ररूपभुजकोटिमानं लघुः १०। ०। ६। २। यतोऽत्र भुजकोटियर्गयोगः कर्णवर्गो भवति इदं कोटिमानं द्विघ्नं सत् पूर्ब्बभुजे योजितं जाता कोटिः दक्षिणोत्तररेखारूपा ३४। ३। ५। ४। एतद्वृहद्भुजपातफले ४९२ १। १। २। अथ कोणक्षेलयोः फलं लघुभुज–वर्गेण तुल्यमेतत् १०१। ७। ६। पूर्ब्बफलादस्मा ४९२। १। १। २। च्छोधितं सज्जातं फलम् ३९०। १। ३। २। अस्मिन् पूर्ब्बापरकोणानां चतुर्णां फलं योजितं सत्पूर्ण्णं फलं स्यात्। तत्र पूर्ब्बकोणयोः फलं यथा वृहद्भुजोभुजः १४। २२। पूर्व्वापररेखाखण्डं कोटिः १०। ०। ६। २। अनयोर्घातः १४४। १। ५। ६२ अस्मात्कोणक्षेत्रफलमेतत् ५०। ७। ७ शोधितं सज्जातं पूर्व्वकोणयोः फलम् ९३। १। ६। एतदेवापरकोणयोः, अतोद्विघ्नमेतत् १८६। ३। ४। पूर्व्वक्षेत्रफलेऽस्मिन् ३९०। १। ३। २। योजितं सज्जातं क्षेत्रफलं ५७६। ५। ०। ०। अल्पान्तरत्वाददोषः ध्वजायसिद्धिश्च। इदं सर्वथा नेत्ररमणीयमित्यङ्गीकर्त्तव्यम्। अथ प्रकारान्तरेण समाष्टभुजाष्टास्र कुण्डमाह “माध्ये गुणे वेदयमैर्विभक्ते शक्रैर्निजाद्र्यब्धिलवेन युक्तैः। वृत्ते कृते दिग्विदिशोऽन्तराले गजैर्भुजैः स्यादथवाष्टकोणम्”। माध्ये गुणे–सूत्रे चतुर्विंशतिभक्ते स्वसप्तचत्वारिंशदंशसहितैश्चतुर्दशभिर्व्यासार्द्धेन मण्डले कृते तत्र दिग्विदिशोर्मध्ये कृताष्टसूत्रैः परस्परसंलग्नैरष्टकोणम् प्रकारान्तरेण प्राचीनकृतिरसिकाभिमतं कुण्डं वृत्तमार्जनाद्भवतीति व्याख्या। अथ क्षेत्रफलानयनम् “चन्द्रर्त्तुनन्दाकृतिभि २२९६१ र्व्यासार्द्धे तु समाहते। खखखाभ्राग्निसंभक्ते ३०००० लभ्यन्ते क्रमशोभुजाः” इति भुजमानं १०। ७। ४। ३। ४। “ततःज्याव्यासयोगान्तरघातमूलं व्यासस्तदूतो दलितः शरः स्यादिति”। जातः शरः १। ०। ७। २। ६। अथ याम्यभुजस्योभयान्तात् समुखापर भुजप्रान्तद्वयं यावत् सूत्रद्वयं कुर्य्यात्। एवङ्कृते तिर्यग्दीर्घचतुरस्रं पार्श्वयोर्विषमभुजचतुरस्रद्वयञ्चस्यात् तत्र व्यासादस्मात् २८। ४। ६। सकाशाद्द्विगुणं शरं विहाय शेषोदीर्वचतुरस्रस्य भुजः। अथ वा ज्याव्यासवर्गात्तरमूलं भुजः किं शरकरणप्रयासेन २६। ३। ०। अष्टास्रिभुजएव कोटिः आयते भुजकोटिघातः क्षेत्रफलम् २८८। ४। ४। अथ विषमभुजचतुर्भुजक्षेत्रफलम् जीवार्द्धशरोनव्यासार्द्धंविषमचतुर्भुजे लम्बः ७। ५। ५। ०। ज्यैव मुखं दीर्घचतुरस्रभुज एव भूः लम्बेन निय्नंकु २६। ३। ० मुखै १०। ७। ४। ३। क्य ३७ खण्डम् १८। ५। २। १ क्षेत्रफलम् १४४। ३। ६। ४ एवमपरस्यापि त्रयाणां योगः ५७६। १। ४ ध्वजायसिद्धिश्च। अथवाष्टधनुषां फलमानीय वृत्तफलात् संशोध्यापि क्षेत्रफलं स्यादिति अस्मिन्समाष्टभुजे राघवभट्टादिभिरुक्ते शारदातिलका दिवाक्यैः सह महान्विरोधस्तस्मादस्मदुक्तमष्टास्रि नेत्र रम्यंक्षेत्रफलसंवादिसमभुजमेवादरणीयमिति”। अथखातलक्षणं कण्ठलक्षणञ्चाह। “खातं क्षेत्रसमं प्राहु- रन्ये तु मेखलां विना। कण्ठोजिनांशमानः स्यादर्कांऽ श इति चापरे”। कुण्डखननं क्षेत्रसम कुण्डस्य या वान्विस्तार आयामश्च तावत्खननमाद्यमेखलया सहितं कुण्डे कार्यम् योन्यादिकुण्डेषु विस्तारायामयो र्नानात्वाच्चतुरस्रस्यैवायामविस्तारौ ग्राह्यौ। अन्ये तु मेखलां वर्जयित्वा भूमावेव तावत्खननं कार्य्यमित्याहुः। कण्ठोऽपि क्षेत्रचतुविंशत्यंशमानः खाताद्बहिः कार्य्यः समन्तादेकाङ्गुलमितः। अन्ये क्षेत्रद्वादशांशपरिमिन इति प्राहुरिति व्याख्या। सिद्धान्तशेखरे “खातं कुण्डप्रमाणं स्यादूर्द्धमेखलया सह” प्रतिष्ठासारसंग्रहे “पञ्चत्रिमेखलोच्छ्रायं ज्ञात्वाऽशेषमधः खनेत्” मोहमूलोत्तरे “हस्तमात्र खनेत्तिर्यगूद्ध्वं मेखलया सहेति”। अथ पक्षान्तरे शारदातिलके “यावान् कुण्डस्य विस्तारः खननं तावदीरितमिति”। प्रयोगसारे “चतुरस्रञ्चतुःकोष्ठे सूत्रैः कृत्वा यथा पुरा। हस्तमात्रेण तन्मध्ये तावन्निम्नायतं खनेत्”। गणेशवि मर्शिन्याम् “चतुर्विंशाङ्गुलायामं तावत्खातसमन्वित मिति” पक्षद्वैधे वयन्तु “स्मृतिद्वैधे तु विषयः कल्यनीयः पृथक् पृथगिति” वचनात् होमाल्पत्वबहुत्वयोरन्थतर पक्षावाश्रयणीयाविति युक्तमुत्पण्यामः। “औचित्यादर्थात् परिमाणमिति” कात्यायनोक्तिः। लोकान्तरे “खाताद्बाह्येऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः। चतुर्विशतमोभागः कुण्डानामङ्गुलं स्मृतांमति”। एतत्पारिभाषिकमङ्गलं सर्वत्र बोद्धव्यम्। सीमशम्भौ “बहिरेकाङ्गुलः कण्ठोद्व्यङ्गुलः क्वचिदागमः” इति तेनाद्यः पक्षएव श्रेयान् बहुसंभतत्वात्। अथ मेखलानामधमतादिपक्षमाह “अधमा मेखलैका स्यान्मध्यमं मेखलाद्वयम्। श्रेष्ठा स्तस्रोऽ थवा द्वित्रिपञ्चस्वधमतादिकम्”। एकमेखलापक्षोऽधमो द्विमेखलो मध्यः, त्रिमेखलः श्रेष्ठः। अथ पक्षान्तरे द्विमेखलोऽधमः त्रिमेखलोमध्यः पञ्चमेखलः श्रेयान् एकमेखलोऽधमाधम इति व्याख्या। क्रियासारे “नामियोनिसमायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम्। कुण्डं द्विमेखलं मध्यन्नीचं स्यादेकमेखलमिति” लक्षणसंग्रहे “मुख्य स्तु पञ्चताः प्रोक्तामध्यमास्तिस्रा एव च। द्वे स्यातामवमे पक्षेएका सा त्वधमाधमेति” सोमशम्भुना तु विशेष उक्तः “त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलम्। मेखलैका तु वैश्यस्येति” अथ खातं समेखलं क्षेत्रसमनिति स्पष्टंवदन्मेखलालक्षणमाह “अष्टधा विहितकुण्डशरांशैःसङ्खनेद्भुवमुपर्यनलांशैः। मेखलाविरचयेदपि तिखःषड्- गजार्कलवविस्तृतिपिण्डाः “अष्टधा भक्तस्य क्षेत्रस्य यः त्र्यङ्ग लात्मकोभागस्ताडशैः पञ्चभिर्भार्गर्भुवं खनेत् उपरित्रिमिस्तादृशैर्भागैस्तिस्रोमेखला रचयेत् कीदृशीः षडष्टद्वादशांशाः चतुस्त्रिद्व्यङ्गुलमितास्तैस्तुल्यविस्तारौच्च्यं यासान्ता इति व्याख्या। विश्वकर्मा “व्यासात्खातः करः प्रोक्तोनिम्नन्तिथ्यङ्गुलेन तु। कण्ठात् परं मेखला तु उन्नता सा नवाङ्गुलैरिति”। क्रियासारे “प्रधानमेखलोत्सेधौक्तमत्र नवाङ्गुलम्। तद्वाह्यमेखलोत्सेवमङ्गुलद्वितयंक्रमात्। चतुस्त्रिद्ब्यङ्गुलव्यासीमेखलात्रितयस्य तु” योगिनीहृदयेऽपि “मेखलाः शृणु मे देवि! हस्तादिषु विशेषतः। षण्णागार्कांशसम्भागैर्मिताः स्युर्भोपिताः शुभाः” इति। अथ प्रकारान्तरेण मेखलालक्षणं नाभिलक्षणं चाह “रसांशकादुन्नतविस्तृताश्च तिस्रोऽथवैका युगभागतुल्या। पञ्चाथवा षट्शरवेदरामद्व्यंशैस्तताः स्युर्नवभागपिण्डाः। आद्यापरास्तच्छरभागहीना जिनांशकण्ठाद्बहिरेव सर्वाः। कुण्डानुसारा अपि मेखलाः स्युरर्काङ्गभागौच्च्यततिस्तु नाभिः। कुण्डाकारोनाभिरम्भोजसाम्योवाब्जेऽयं नेनांशहानिर्दलाग्रे। शेषक्षेत्रे वह्निवृत्तैः समे ते स्युर्वै कर्ण्णैः केशराः पत्रकाणि” अथवा क्षेत्रषडंशादुन्नताः षडंशेनैव विस्तृतास्तिस्रो मेखला भवन्ति अथैकयेखलापक्षमाह एकैवमेखला क्षेत्रचतुर्थांशोच्चा तत्तृतीयांशविस्तृता च स्यात्। पञ्चमेखलापक्षमाह। अथ पञ्च मेखलाः कार्याः षट्पञ्चचतुस्त्रिद्ब्यङ्गुलैः पारिभाषिकैर्विस्तृताः। अथपञ्चमेखलानामुच्चता माह तत्रादिमा नवभागः पिण्डःऔच्च्यं यस्याः सा पारिभाषिकनवाङ्गुलोच्चा स्यात् अपरा मेखलास्तस्या आद्याया यः शरांशः पञ्चांशस्तेन हीना भवन्ति यथा एकहस्ते कुण्डे प्रथममेखला नवाङ्गुलोच्चा अस्याः पञ्चमांगः १। ६। ३। १। ५ एष एकद्वित्रिचतुर्गुणः प्रथममेखलामाने न्यूनः कृतः सन् तदधःस्थानां मेखलानामौच्च्यं स्यात् यथेदं द्वितीयमेखलौच्च्यम् ७। १। ४ ६। ३ एवमपरासामपि द्रष्टव्यम्। ताः मेखलाः सर्वाःक्षेत्र चतुर्विंशतिभागमितात् कण्ठाद्बहिरेव भवन्ति कीदृश्यः कुण्डानुकाराः योन्यादिकुण्डेषु योन्याद्याकाराएव स्वुः अपिरेवार्थे। अथ नाभिलक्षणमाह नाभिर्द्वादशांशेनोच्चः षडंशेन विस्तृतः कुण्डानुकारः याडशञ्चतुरस्राद्याकारं कुण्डं तादृशोनाभिः। अथवा नामिरम्भोजसमः कमलाकारः कार्यः अयं नाभिरव्जे पद्मकुण्डे{??}म् भवति तत्र नाभि- रूपायाः कर्णिकायाः समत्वात्। अथ पद्मावारकरणं नाभेरुच्यते दलाग्रे दलाग्रनिमित्तं द्व्यङ्गुलोच्चे चतुरङ्गुलविस्तारायामे नाभौ इनांशहानिर्द्वादशांशत्यागः कार्यः शेषमवशिष्टं क्षेत्रं तस्मिन् वृत्तत्रयं समभागेन कार्यम्। तत्र मध्यचिह्नात् प्रथमं वृत्तं कर्णिका द्वितीयं वृत्तङ्केशरस्थानं तृतीयं पत्राणि तद्बहिरवशिष्ट द्वादशांशेन दलाग्राणि रचयेदिति व्याख्या। वाशिष्ठ्याम् “प्रथमं मेखला तत्र द्वादशाङ्गुलविस्तृतिः। चतुर्भिरङ्गुलैस्तस्याश्चोन्नतिश्च समन्ततः। ततश्चोपरिवप्रः स्याच्चतुरङ्गुलमुन्नतः। अष्टाभिरङ्गुलैः सम्यग्विस्तीर्णश्चोन्नतस्त था”। पिङ्गलामते “एका षडङ्गुलोत्सेधविस्तारा मेखला मतेति” लक्षणसंग्रहे तु विशेष उक्तः। “चतुरङ्गुलविस्तारोत्सेधा चैकैव मेखलेति” तन्त्रान्तरे “षष्ठांशेनाष्टमांशेन मेखलाद्वितयं विदुरितिः अयं पक्षोऽ बहुसंमतत्वादुपेक्षित एव। सिद्वान्तशेखरे “षड्वाणाब्धिवह्निनेत्रमिताः स्युः पञ्च मेखलाः” इति लक्षण संग्रहे “पञ्च वा मेखलाः कार्याः षट्पञ्चाब्धित्रिपक्षकैः। प्रथमा कुण्डसहितोत्तरोत्सेधनवाङ्गुलेति” पिङ्गलामते “खातादेकाङ्गुलन्त्यक्त्वा मेखलानां स्थितिर्भवेदिति” शारदायाम् “कुण्डानां यादृशं रूपं मेखलानाञ्च तादृशम्” इति तत्रैव “कुण्डानां कल्पयेदन्तर्नाभिमम्बुजसन्निभम्। तत्तत्कुण्डानुरूपं वा मानमस्य निगद्यते” मुष्ट्यरत्निरत्निहस्ता नाभेरुत्सेधता मता। नेत्रवेदाङ्गुलोपेतेति” पद्मेनाभिं विवर्जयेदिति प्रागेव लिखितम्। अम्बुजाकारकरणं तत्रैव “पद्मकुण्डेतु क्षेत्रस्य द्वादशांशं बहिः सुधीः। तन्मध्येविभजेद् वृत्तैस्त्रिभिः समविभागतः। आद्यं स्यात् कर्णिकास्थानं केशराणां द्वितीयकम्। तृतीयन्तत्र पत्राणां मुक्त्वांशेन दलाग्रकमिति” अथ योनिलक्षणमाह “योनिर्व्यासार्द्धदीर्घा विततगुणलवादायताब्धिद्विभागात्तुङ्गातावत् समन्तात् परिधिरुषरिगस्तावदग्रेण रम्यम्। निम्नं कुण्डं विशन्ती बलयदलयुगेनान्विताधो विशाला, मूलात् सच्छिद्रनालान्तरवटरुचिराश्वत्थ पत्राकृतिः स्यात्” योनिर्व्यासार्द्धेन दीर्घा विस्तारतृतीयां शेन विस्तीर्णा चतुर्विशांशेनोच्चा चतुर्विंशांशेन परिधि र्मेखला यस्वाः सा तावतैवाग्रेण चतुर्विशांशेन निम्नं यथा तथा कुण्डं प्रति विशन्ती बलयदल युगेन वृत्तार्द्धद्वयेन युता अधो विशाला अर्थादुपरिखल्पसंकोचनवतीमूलात्स्थलात्सकाशात् मध्ये सच्छिद्रं बालं यस्थाःसा पद्मनालाकारत्वान्नालोक्तिः। अन्तर्मध्ये अवटोगर्त्तः स्रुचि धृतधारणार्थं यद्वत्तेन रुचिरा सुन्दरा सा अश्वत्थपत्राकृतिः स्य्यादिति व्याख्या। वायवीये “मेखलां मध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा। शोभनां मध्यतः किञ्चिन्निम्नामुन्मीलितां शनैरिति” योनिमिति शेषः। त्रैलोक्यसारे “दीर्घा सूर्याङ्गुला योनिस्त्र्यं शोना विस्तरेण तु। एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाऽभ्यन्तरे तथा। कुम्भद्वयार्द्धसंयुक्ता साश्वत्थदलवन्मता। अङ्गुष्ठमेखलायुक्ता मध्ये वाज्यधृतिस्तथेति” पञ्चरात्रे “अर्काङ्गुलोच्छ्रितां योनिं विदध्यात्तावदायताम्” तावद्दीर्घाम् एकाङ्गुलोच्छ्रिता इत्यस्य विवरणम् अङ्गुष्ठमेखलायुक्तेत्यत्र अङ्गुलद्वयमुच्छ्रायः कुत्रचिदुक्तः अङ्गुलं परिधिरिति द्वादशाङ्गुलोच्छ्रायः अयं न प्रायोबहुसंमतपक्षः अतोऽस्मदुक्त एकाङ्गुलोच्छ्रायपक्षोबहुसंमतःकार्यः। शारदायाम्” “मूलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रक मिति” द्वादशाङ्गुलमेखलापक्षेयोनिलक्षण माह “अथार्काङ्गुलपक्षे तु मेखलानान्दशाङ्गुलैः। विस्तृता तिथिभिर्दीर्वाङ्गुलिभिर्योनिरिष्यते” मेखलानां दशाङ्गुलैर्विस्तृता तिथ्यङ्गुलैर्दीर्घा योनिः स्यादिति व्याख्या। प्रयोगसारे “स्थितां प्रतीच्यामायामे सम्यक् पञ्चदशाङ्गुलाम्। द्विपञ्चाङ्गुलविस्तारां षट् चतुर्द्व्यङ्गुलाः क्रमात्। त्रयोदशाङ्गुलोत्सेधां बोनिं कुण्डस्य कारयेत्”। केचित् योनिक्षेत्रस्य दीर्घचतुरस्ररूप स्य यत्फलं तस्य मूलमानीय तावत्समचतुरस्रं संशोध्य योनिकुण्डवद्योनिं साधयेदित्याहुः”। अधिकं कुण्डार्काटौ दृश्यम्। “रसं पिबेत् कुमारोऽयं त्वत्प्रसादात् महाबलः। बलं नागसहस्रस्य यस्मिन् कुण्डेप्रतिष्ठितम्। यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम्”। “एकोच्छ्वासात्तत्र कुण्डे पिबति स्म महाबलः। एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः” भा० आ० १२८ अ०। “साधुभिर्गर्हितं कर्म्म चण्डालस्य विधीयते। तस्मात् गोरजसा ध्वस्तमपां कुण्डे निषिञ्चति” भा० आनु० १०१ अ०। कण्ड्यते कुलमनेन कुडि–दाहे करणे घञ्। अमृते भर्तरि ५ जारजाते स्त्रियां टाष्। “परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ। पत्यौ जीवति कुण्डःस्यात् मृते भर्त्तरि गोलकः। तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चे ह च। दत्तानि हव्यकव्यानि नाशयेते प्रदा- यिनाम्” मनुः। “ब्राह्मणा एव संपूज्या पुण्य स्वर्गमभीप्सता। श्राद्धकाले तु यत्नेन भोक्तव्याह्यजुगुप्सता। दुर्वचाः कुनखी कुष्ठी मायावी कुण्डगोलकौ। वर्ज्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः” भा० व० १९९ अ०। “द्विजात् द्विजातिभार्य्यायां सवर्ण्णायामुत्पान्नकुण्डगोलकयोः संस्कारार्हता यथाह “प्रयोगपारिजाते ब्राह्मे “ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स इति श्रुतिः। तस्माच्च षण्डबधिरकुब्जवामनपङ्गुषु। जडगद्गदरोगार्त्तशुष्काङ्गविकलाङ्घ्रिषु। मत्तोन्मत्तेषु मूकेषु शयनस्थे निरिन्द्रिये। ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर्यथोचितम्। मत्तोन्मत्तौ न मंस्कार्याविति केचित् प्रचक्षते। कर्म्मस्वनधिकाराच्च पातित्यं नास्ति चैतयोः। तदपत्यञ्च संस्कार्य्यमपरे प्राहुरन्यथा। संस्कारमन्त्रहोमादीन् करोत्याचार्य्यएव तु। उपनेयाश्च विधिवदार्य्यस्य समीपतः। आनीयाग्निसमीपं वा सावित्रीं स्पृश्य वाचयेत्। कन्यास्वीकरणादन्यत् सर्वं विप्रेण कारयेत्। एवमेव द्विजैर्जातौ संस्कार्य्यौ कुण्डगोलकौ” अतस्तस्य ब्राह्मणत्वेऽपि श्राद्धेऽन्नदाननिषेध इति विशेषः। अत्रेदं बोध्यम्। “अशुल्कोपहृतायां तु पिण्डदा वोढुरेव ते” स्मृत्युक्तेः शुल्कदानं विना उपगतपरस्त्रियां जातस्य वोटुरेव पुत्रत्वं शुल्कदाने तु उत्पादयितुरेवेति। अतएव “यन्मे माता प्रलुलोभ रेतः” इत्यादि श्रुत्या क्षेत्रिणएव पिण्डदत्वं भङ्ग्योक्तम्। अस्य प्रस्थेन सह समासे आद्युदात्तता। तेन निर्वृत्ताद्यर्थे चतुरर्थ्यां अश्मा० र। कुण्डर तन्निर्वृत्तादौ त्रि० कुडि–दाहे भावे अ। ६ दाहे स्त्री।

***